← स्थानकं २७ काठकसंहिता (विस्वरः)
स्थानकम् २८
[[लेखकः :|]]
स्थानकं २९ →
आयुष्यम्

अथाष्टाविंशं स्थानकम् ।

आयुष्यम् ।
आयुर्वै ध्रुव उत्तमो गृह्यते तस्मादायुः प्राणानामुत्तमं नवमो गृह्यते नव हि प्राणा एकाकिनमुत्तरस्मिन् हविर्धाने सादयति तस्मादेकाकी प्राणानामर्धभागवाङ् प्राणो ध्रुवं वा अनु मनुष्याः प्रजायन्त इतरान् ग्रहानन्वन्याः प्रजा अनुपोप्ते ध्रुवँ सादयत्युपोप्त इतरान् ग्रहाँस्तस्मात् पुरुषो माँसेन प्रतितिष्ठत्यस्थ्ना पशवो राजपुत्रो गोपायति राजन्यो वै प्रजानामधिपतिरायुर्ध्रुव आयुरेव प्रजानां गोपायत्यथो क्षत्रमेव गोपायते यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदित्यध्रुवं त्वा ध्रुवक्षितिमध्रुवाणामध्रुवतममच्युतानामच्युततमममुष्या विश उदूहामीति ध्रुवमुदूहेद् ध्रुवो वा एष योऽवगतोऽध्रुवोऽपरुद्धोऽवगतमेवापरुणद्य्उपरुद्धमवगमयति ताजग्व्यवगच्छेते यदेवं कुर्यादायुः प्रजानां विचालयेत् तृणमेतेन मन्त्रेणोपर्युपर्यतिहरेत् तेनैवापरुद्धमवगमयति नायुः प्रजानां विचालयति देवक्षेत्रं वै वेदिरेतावती पृथिवी यावती वेदिर्देवक्षेत्रेणैवैनं मनुष्यक्षेत्रान् वदति पूर्णं गृह्णीयाद्यं कामयेत सर्वमायुरियादिति पूर्णमेवास्मा आयुर्गृह्णाति सर्वमायुरेत्यल्पं गृह्णीयाद्यं कामयेताल्पमायुरियादित्यल्पमेवास्यायुष्करोति ताजक् प्रधन्वत्युपर्युपार्धं गृह्णीयाद्यं कामयेतोत्तरमायुरियादित्युत्तरमेवैनमायुर्गमयति॥ यथारूपमस्मा आयुः परिगृह्णात्युभयतोवैश्वानरं गृह्णाति तस्मात् प्राणा उभयतोवैश्वानरा मूर्धानं दिवो अरतिं पृथिव्या इति देवेषु चैवं मनुष्येषु चायुर्दधाति पुरुषेण वै यज्ञस्संमित आयुषा पुरुषस्संततो यदेष प्रातर्गृहीत आ तृतीयसवनाच्छय आयुषैव यज्ञं संतनोति प्रातर्वा एतौ गृह्येते गायत्र्या लोक आग्रायणश्च ध्रुवश्च ता आ तृतीयसवनाच्छयाते जगत्या लोकात् तस्माद्गायत्र्ययातयाम्न्युत्तरे सवने प्रत्येत्येतदेवाभि भागधेयं प्राणो वै गायत्र्यायुर्रुययवो यदेष प्रातस्सन्न आ तृतीयसवनाच्छये तस्माद्यावदेवायुस्तावान् प्राण आयुर्वै ध्रुवो रुद्रोऽग्निर्नैकाकी होतव्य आयुः प्रजानां प्रदध्यात् प्रमायुकास्स्युर्होतुश्चमसेऽवनयति वैश्वदेवो वै होता वैश्वदेवीरिमाः प्रजाः प्रजास्वेवायुर्दधात्यध्रुवं वा एनमेतत् करोति यदवनयत्येतस्य वा अध्रुवत्वमनु प्रजाभ्यो न कल्पते दृँहन्तां दैवीविंशः कल्पन्तां मनुष्या दिवि दिव्यानि सन्त्वन्तरिक्षे वयाँसि पृथिव्यां पार्थिवानीति ध्रुवमवनयति यथायतनमेव प्रजा दृँहत्याहूत उक्थेऽवनयेत् स्तुतेनैव शस्त्रमभिसंतनोति यदाहूतेऽवनयेदुक्थमतिरेचयेद्यच्छस्ते ग्रहमतिरेचयेद्या मध्यमा परिधानीया तस्यामवनयत्यङ्गानि वा एतानि यज्ञस्य यदुक्थामदान्यायुर्रुानवोऽर्धं वै पुरुषस्यात्मनोऽङ्गान्यर्धमायुरन्ता एवाभितस्संधायायुर्मध्यतो दधाति कस्मात् सत्यादित्याहुर्ब्रह्मवादिन आपस्त्वरमाणा न क्षीयन्ते न प्रदत्यन्तीत्येतमेव सोमपीथं प्रतीक्षमाणा यद् ध्रुव एष ह्येना अपनुदते प्रत्यङ्ङासीनोऽवनयत्यन्वीपमेवैना अवार्जति न सामि प्रस्रावयेताग्निष्टोममेवासीतायुर्वै ध्रुव आयुर्व्यवस्रावयेतैतावान् वै यज्ञो यावानेवाग्निष्टोमो यदाग्निष्टोममास्ते प्राणस्यैवास्यान्तर्गच्छति सर्वमायुरेत्युदरं वा एतद्यज्ञस्य यत् सदस्तद् द्रवन्ति निस्सर्पन्तो यज्ञः प्रजापतिर्यदाग्निष्टोममास्ते प्रजापतेरेवोदरं न रिणक्त्यक्षोधुको भवति ॥१॥

देवा वा असुरान् हत्वा वैरदेयादीषमाणास्त ऋतून संवत्सरममोहयँस्तस्य देवाः क्लृप्तिमैच्छँस्तमृतुग्रहैरेवाकल्पयन् यदृतुग्रहा गह्यन्ते संवत्सरस्य क्लृप्त्यै स्वर्गस्य लोकस्य प्रज्ञात्या उभौ सह प्रथम गृह्णाते उभौ ह्येतौ सह संवत्सरं कल्पयितुमुपप्रेत उभौ सहोत्तमँ संवत्सरमेव कल्पयित्वोभौ सह विमुच्येते उभयतोमुखे ऋतुपात्रे भवत उभयतोमुखा ह्यृतवो न हि तद्विद यतरत ऋतूनां मुखं नान्योऽन्यमभिप्रपद्येयातां यदभिप्रपद्येयातामृतुर्ऋतुमभ्यायुकस्स्याद्यद्व्यतीतस्तस्मादाहुरश्वा इवर्तू समघ्रातामिति द्वादशैते गृह्यन्ते द्वादश मासास्संवत्सरस्संवत्सरस्य क्लृप्त्यै संवत्सरो वै स्वर्गों लोकस्तस्यैत आक्रमास्संक्रमा यदृतुग्रहा रोहमेवैतै रोहति स्वर्गस्य लोकस्य समष्ट्यै षडन्ये भवन्ति षडन्येऽसौ वा आदित्य ऋतुस्तस्मादेष षण्मास उदड्डेति षड् दक्षिणा षडृतुना षड्वा ऋतुव ऋतुष्वेव प्रतितिष्ठति चतुर्ऋतुभिश्चतुष्पादाः पशवस्संवत्सरं पशवोऽनुप्रजायन्ते संवत्सरादेवास्मै पशून् प्रजनयति द्विर्ऋतुना पुनर्द्विपाद्यजमानः पशुष्वेवोपरिष्टात् प्रतितिष्ठति ॥ सोमपाना वा एते सोमपा इन्द्रस्य सजाता यदृतुग्रहा ऋतुना सोमं पिबत्विति ह्याह नर्तुरिति नर्तवे जुह्वति तेषामेते स्वे पात्रे याभ्यामेनाञ्जुह्वति तस्मात् सजातस्स्वेन पात्रेण बलिँ हरत्यास्मै बलिँ हरन्ति य एवं वेद व्यवहारँ भक्षयन्त्ययातयामत्वाय तस्मादृतुमृतुं वर्षति तेन देवास्संवत्सरं कल्पयित्वा स्वर्गं लोकं प्रज्ञाय त एतद्यज्ञस्य ज्योतिरुपरिष्टाददधुर्यदैन्द्राग्नो गृह्यते ज्योतिरेव मुखतो यज्ञस्य दधाति संवत्सरस्य क्लृप्त्यै स्वर्गस्य लोकस्य प्रज्ञात्यै ॥ तस्मात् संवत्सरं ज्योतिरुपर्युपरि चरत्यृतुपात्रेणैन्द्राग्नं गृह्णाति क्षत्रं वा इन्द्राग्नी विडृतवो विश्येव क्षत्रमध्यूहति विश्वे वै देवास्तृतीयसवनभागास्सन्तस्ते प्रातस्सवनमभ्यकामयन्त तान् प्रजापतिरेतस्मिन् ग्रहे तर्पयितव्यानपश्यद्यद्वैश्वदेवः प्रातस्सवने गृह्यते विश्वानेव देवान् प्रातस्सवने तर्पयति तानस्य तृप्तान् प्रीतानुत्तरे सवने अभिविसृज्येते शुक्रपात्रेण वैश्वदेवं गृह्णात्यसौ वा आदित्यश्शुक्रो वैश्वदेवीरिमाः प्रजास्तस्मादेष सर्वाः प्रजाः प्रत्यङ् मा३म्प्रति मा३म्प्रतीति हि मन्यन्ते ॥२॥

माध्यन्दिनेन वै सवनेनेन्द्रो वृत्रमहन् मरुद्भिर्वीर्येण मरुत्वतीयँ स्तोत्रं भवति मरुत्वतीयमुक्थं मरुत्वतीया ग्रहास्सर्वत एव यजमानं वीर्येण समर्धयति सर्वतो वृत्रँ हन्ति प्रतिहितिरेव प्रथमो मरुत्वतीयोऽपायतिर्द्वितीयो विसृष्टिं तृतीयेन विसृजति वज्रमेव प्रथमेन मरुत्वतीयेनोद्यच्छते प्र द्वितीयेन हरति स्तृणुते तृतीयेन यं द्विष्यादमरुत्वतीयाँस्तस्य गृह्णीयाद्वीर्यं वै मरुतो वीर्येणैवैनं व्यर्धयतीन्द्रो वै वृत्रँ हनिष्यन् प्रदानं देवेभ्यः प्रायच्छदक्षिणास्स मरुत्वतीयैरेव वृत्रमहँस्तस्मान्मरुत्वतेऽनूक्ते न देयँ हतो हि तर्हि वृत्रो विजितं भवति नो प्रतिगृह्णीयात् प्रतिष्ठितान् पशून् प्रच्यावयत्यपशुर्भवतीन्द्रो वै वृत्रँ हत्वा स महेन्द्रोऽभवत् सोऽन्यान् देवानत्यमन्यत स एतं ग्रहमुद्धारमुदहरत महेन्द्रीयं तस्माद्राजा संग्रामं जित्वा निराजं निरजते ते तं देवा अब्रुवन् सर्वं वा अवोचथा अस्तु नोऽत्रापीति कथं वोऽपि स्यादिति विराजैतस्य ग्रहस्य यजत्विति देवपात्रं वै विराड् यद्विराजा यजति देवपात्रेणैव देवतास्तर्पयति ॥ तस्माद्यद्राजा संग्रामं जयत्यपि तत्र सूतग्रामणीनां गायत्र्या वै त्रिवृदायतनवाँस्त्रिष्टुभा पञ्चदशो जगत्यैकविँशोऽथैषा विराडायतनमेव यत् सप्तदशो यद्विराजा यजति सप्तदशमेवायतनवन्तं करोति यं द्विष्यात् त्रिष्टुभा तस्य यजेदोजो वै वीर्यं त्रिष्टुबोजसैवैनं वीर्येणायतनाच्छिनत्ति सोऽनायतनः पराभवति देवा वा असुरान् हत्वा वैरदेयादीषमाणास्ते यज्ञं मध्यतः प्राविशन्नेतां वाव तदृचं प्राविशन् विराजमेव यद्विराजा यजति देवतानामभीष्ट्या आदित्या वै स्वर्गं लोकं यन्तस्तेऽङ्गिरसोऽस्मिँल्लोके सह यज्ञेन प्रत्यौहँस्तेऽङ्गिरस आदित्यानब्रुवन् कतिभ्यो वो हव्यं वक्ष्याम इति त्रयस्त्रिँशत इत्यब्रुवन् दश वसव इन्द्र एकादशो दश रुद्रा इन्द्र एकादशो दशादित्या इन्द्र एकादशस्त्रिँशदेता देवतास्त्रिँशद् द्व्यक्षरो वषट्कार एकाक्षरा वाक्तेनैन्द्रं कल्पन्तेऽस्य देवता हव्ये यथादेवतमस्य हव्यं गच्छति वृणत एनमार्त्विज्याय य एवं वेद यावतीर्हि देवतास्ता हव्यं गमयति ॥३॥
 
माध्यन्दिनाद्वै सवनाद्देवा स्वर्गं लोकमायँस्तेषामेत आक्रमास्संक्रमा यद्दक्षिणा यद्दक्षिणा ददाति सेतुमेव कीर्त्वा स्वर्गं लोकमेति यावद्वा इह प्राणद्ददाति तावन्तोऽमुष्मिँल्लोके प्राणास्तस्माद्बहु देयं तस्मादिह बहु दत्तं प्रशँसन्ति ज्यायाँसमेत्र सेतुं किरत एतर्हि वै देवता नेदिष्ठान्न्यानमन्ति तस्मादेष एतर्हि तेजिष्ठं तपति यावन्नेदिष्ठादेव स्वर्गं लोकमारोहति सौरीभ्यां जुहोति स्वर्गस्य लोकस्य समष्ट्यै द्वाभ्यां द्विपाद्यजमानोऽस्यामेवैनमाक्रामयति यदाग्नेय्याग्नीधे जुहोत्यन्तरिक्ष एवैनमाक्रामयति । यद्ददाति स्वर्गमेवैनं लोकं गमयति द्यां गच्छ स्वर्गच्छेति स्वर्गस्य लोकस्य समष्ट्यै रूपं वो रूपेणाभ्यागां वयसा वय इत्येतद्वै पशूनां रूपं यद् घृतं यद्धिरण्यं रूपमेवैषां रूपेणाभ्येति वयसा वयस्तुथो वो विश्ववेदा विभजत्विति सत्यं वै तुथो विश्ववेदास्सत्येनैवैनान् ब्रह्मणा विभजत्येतत् ते अग्ने राध एति सोमच्युतमित्याग्नेया वै पशवस्ते सोमे दीयन्ते तान् मित्रस्य पथा नयेति मित्रस्यैवैनान् पथा नयत्यन्तराग्नीध्रं च सदश्च नयत्येतेन वै पथा देवास्स्वर्गं लोकमायँस्तमेवैना अपिपादयति । दक्षिणतो वै देवानां यज्ञं रक्षाँस्यभ्यजयँस्तमाग्नीध्रात् पुनरपाजयन् यदाग्नीध्राद्दक्षिणा दक्षिणा नयन्ति यज्ञस्याभिजित्यै रक्षसामपहत्या आग्नेय्याग्नीध्रे जुहोत्याग्नेया वै पशवः पशूनां निष्क्रीत्यै वारुण्या द्वितीयया जुहुयाद्यद्यश्वं वानो वा रथं वा दास्यन् स्याद्वारुणा ह्यश्वा वारुणा वनस्पतयोऽग्निस्सर्वा देवता देवतानामभीष्ट्या उपबर्हणं ददात्येतद्वै छन्दसां रूपं रूपेणैव च्छन्दाँस्यवरुन्द्धे हिरण्यं ददाति हिरण्यज्योतिष एवैनास्स्वर्गं लोकं गमयत्यस्मद्राता मधुमती देवत्रा गच्छेति स्वर्गमेवैना लोकं गमयति । प्र दातारमाविशेति तस्मादमुष्मिँल्लोक आगामुका ऋतस्य पथा प्रेत चन्द्रदक्षिणा इति यो वै यज्ञियो मेध्यस्स ऋतस्य पन्थास्तेनैवैना नयति ब्राह्मणमद्यर्ध्यासं पितृमन्तं पैतृमत्यमिति यो वै श्रोत्रिय आर्षेयस्स पितृमान् पैतृमत्यस्तं विदेयमित्येवैतदाह स हि सुधातुदक्षिणो यामब्राह्मणाय ददाति वनस्पतयस्तया प्रथन्ते यां कण्वकश्यपेभ्यो ददाति नीहारस्तया प्रथते यां ब्राह्मणायाश्रोत्रियाय ददाति मरीचयस्तया प्रथन्ते याँ श्रोत्रियायार्षेयाय ददाति तयामुष्मिँलोक ऋध्नोत्यस्मिँश्चास्य लोके पुनर्भोगाय भवति तस्मात् स एवैष्टव्यो वि स्वः पश्य व्यन्तरिक्षमिति सदः प्रेक्षते । सोमपा वा एते ब्राह्मणास्तेषां तेजस्वीनि चक्षूँष्यरातीयन्ति वा एते ददते त एनमीश्वराः प्रतिनुदस्तेभ्य एव नमस्करोत्यप्रतिनोदायात्रिहिरण्यं ददाति स्वर्भानुर्वा आसुरस्सूर्यं तमसाविध्यत् तमत्रिरेवाग्रेऽन्वविन्दद्यदत्रिहिरण्यं ददाति स्वर्गस्य लोकस्य समष्ट्यै यद्यात्रेयं न विन्देद्य आर्षेयस्सँहितस्तस्मै दद्यात् तेनैवर्ध्नोत्यसुरा वै देवेभ्यो दक्षिणामनयँस्तां प्रत्यनुदन्त तेऽब्रुवन्नस्निहदेषेति तेभ्योऽपरामनयँस्तां प्रत्यनुदन्त तेऽब्रुवन्नृम्णमेषागादिति तेभ्योऽपरामनयँस्तां प्रत्यनुदन्त तेऽब्रुवन्नद्राप्सीदेषेत्येता ह वै तदृषिरभ्यनूवाच ॥
अव द्रप्सो अँशुमतीमतिष्ठदियानः कृष्णो दशभिस्सहस्रैः ।
आवत् तमिन्द्रश्शच्या धमन्तमप स्नेहितीर्नृमणामदध्राम् ।।
इति सा सालावृकी संभूयासुरान् प्राविशत् सैनान्निरदहत् तस्माद्दक्षिणा प्रतिनुत्ता न प्रतिगृह्या न गोषु चालयेत् सालावृक्येवैनं भूत्वा प्रविशति सैनं निर्दहति ॥४॥

यद्गां ददात्यायुस्तेन स्पृणोति यद्वासो ददाति दीर्घं तेनायुष्कुरुते यदश्वं ददाति सूर्यभ्राजमेवैनं करोति यदनो यद्रथं ददाति शरीराणि तेन स्पृणोति यदविं यदजां ददाति माँसानि तेन स्पृणोति यदोदनं यन्मन्थं ददाति यदेवास्यान्तरात्मं तत् तेन स्पृणोति यद्वरं ददात्यात्मानं तेन स्पृणोत्यात्मा हि वरो यद्ब्रह्मणे ददाति बार्हस्पत्यो वै ब्रह्मा बृहस्पतिमेव तेन प्रीणाति यदुद्गात्रे ददाति प्राजापत्यो वा उद्गाता प्रजापतिमेव तेन प्रीणाति यद्धोत्रे ददाति वैश्वदेवो वै होता सर्वा एवास्य तेन देवता अभीष्टाः प्रीता भवन्ति यदध्वर्युभ्यां ददात्याश्विनौ वा अध्वर्यू अश्विना एव तेन प्रीणाति यदृत्विग्भ्यो ददाति होत्रा चा ऋत्विजो होत्रा एवास्य तेनाभीष्टाः प्रीता भवन्ति ॥ यत् सदस्येभ्यो ददाति यमेव ते सोमं पिबन्ति तं तेन निष्क्रीणाति यां ब्राह्मणाय श्रोत्रियायानृत्विजे प्रसृप्ताय ददाति यामेव स विद्यां वेद सास्य तेनाभीष्टा प्रीता भवति यामब्राह्मणायाश्रोत्रियायानृत्विजे प्रसृप्ताय ददाति यामेव स विद्यां वेद सास्य तेनाभीष्टा प्रीता भवति यामकामो ददाति तस्मात् क्षत्रं ब्रह्मात्ति यां याचितो ददाति भ्रातव्यं तया जिन्वति यां बहिर्वेदि ददाति नैनँ सा गच्छति यां ज्ञातयेऽनृत्विजे प्रसृप्ताय ददाति पाप्मानं तन्निधत्ते यां ज्येष्ठाय याँ श्रोत्रियाय ददाति येनैव स तदिन्द्रियेण भवति तदस्याभीष्टं प्रीतं भवति ॥५॥

आदित्या वा असुरान् हत्वा वैरदेयादीषमाणास्ते देवान् प्राविशन् द्विदेवत्यान् वाव तत् प्राविशन्नेते हि देवानाँ सह भूयिष्ठास्तस्मादादित्यो द्विदेवत्येभ्यो गृह्यत उच्छिष्टाद्वा आदित्या जातास्तस्मादेष उच्छिष्टस्सोमो गृह्यत उच्छेषणभागा वा आदित्यास्तस्मादेष उच्छिष्टस्सोमो गृह्यते परिश्रिते गृह्णाति रुद्रो वा अग्निः पशव आदित्यः पशूनां गोपीथाय रुद्रं वै देवा यज्ञान्निरभजँस्ते समवादिशन्नेष ते मातरि भाग इत्यादित्यान्तमेतावदागमयित्यैतत् प्रति यज्ञादन्तरदधुर्यत् परिश्रत आदित्यं गृह्णाति रुद्रमेव यज्ञादन्तर्दधाति ॥ पशवो वा आदित्यो यदेष भूयिष्ठस्सोमो गृह्यते तस्मात् पशवोऽद्यमाना न क्षीयन्ते यदा बहवोऽन्तर्वेदि स्युरथ गृह्णीयात् तानेवान्नाद्यमवरुन्द्धे यदास्य भ्रातृव्योऽन्तर्वेदि स्यादथ गृह्णीयादेष वै यजमानस्य स्वो लोको यद्वेदिः पशव आदित्यस्स्व एव लोके भ्रातृव्यस्य पशून वृङ्क्ते बृहतीः पुरोरुचो भवन्ति पशवो वै बृहतीः पशव आदित्यः पशुष्वेव पशून् दधाति सोममग्रे गृह्णात्यथ दध्यथ सोममूर्ग्वै दधि पशव आदित्य ऊर्जमेव पशुषु मध्यतो दधाति शृतातङ्क्यं भवति तस्मादामा पक्वं दुहे यदि कामयेत वर्षेदिति या दिव्या वृष्टिस्तया त्वा श्रीणामीति दध्नोपरिष्टाच्छ्रीणीयात् पशवो वै दधि पशव आदित्यः पशुभ्य एव वर्षति यर्हि वर्षति पशुभ्य एव वृष्टिं निनयत्युपाँशुसवनेन मेक्षयति प्राणो वा उपाँशुसवनः पशव आदित्यः पशुष्वेव प्राणं दधाति विवस्व आदित्यैष ते सोमपीथ इत्येष वाव स उपाँशुसवनस्साक्षादेवैनँ सोमपीथेन समर्धयति यद्युद्गृहीतस्य स्तोकोऽवपद्यते ताजक् प्रवर्षति गृहीत्वापिदधाति गर्भाणां धृत्या अप्रपादाय तं दशमे स्तोत्रे प्रच्यावयति तस्माद्दशमे मासि गर्भा हिताः प्रजायन्तेऽन्यत्रेक्षमाणो जुहोति रुद्रो वा अग्निः पशव आदित्यः पशूनां गोपीथाय यदीक्षेत ब्राह्मण उपद्रष्टा पशून् गृह्णीयात् पशूनामेव प्रदीयमानानामनुपद्रष्टा भवति ॥६॥

अन्तर्यामपात्रेण सावित्रं गृह्णाति पशवो वा अन्तर्यामस्सवितृप्रसूताः पशवः प्रजायन्ते सवितृप्रसूत एवैनान् प्रजनयति तमसन्नं जुहोति तस्मादसन्नाः पशवस्सददि प्रजायन्ते देवा वै तृतीयसवनमुद्यमं नाशक्नुवन् प्रातस्सवने तर्हि सवितासीत् तं देवा अब्रुवँस्त्वयेदमुद्यच्छामहा इति नेत्यब्रवीन्मुख्योऽहमस्मि न प्रत्यङ्ङपक्रमिष्यामीति मुख्य एवात्रास इत्यब्रुवन् मुख्य इहाथ त्वयोद्यच्छामहा इति तत् सवित्रोदयच्छन्त यत् सावित्रो गृह्यते तृतीयसवनस्योद्यत्या अभि त्वा देव सवितरित्येतया प्रातस्सवने मुख्यस्समन्तं वै तत् सविता यज्ञं पर्यभवत् समन्तं भ्रातृव्यं परिभवति य एवं वेदान्तर्यामपात्रेणाग्रायणात् सावित्रं तृतीयसवने गृह्णाति ॥ प्रातर्वा एष गृह्यते गायत्र्या लोके यदाग्रायणस्तं तृतीयसवने विगृह्णाति जगत्या लोके तस्मादाग्रायणात् सावित्रो गृह्यते सविता हि देवानां गायत्रस्सावित्रस्य सँस्रावे वैश्वदेवमभिगृह्णाति समानो वा एष ग्रहस्संतत्यै वैश्वदेवीरिमाः प्रजास्सवितृप्रसूताः प्रजाः प्रजायन्ते सवितृप्रसूता एवैनाः प्रजनयति सुशर्मासि सुप्रतिष्ठान इति सोमे हि सोममभिगृह्णात्यथो सुशर्माणमेवोत्तरमधरस्मै करोति सुप्रतिष्ठानमधरमुत्तरस्मै बृहदुक्षे नम इति बृहद्धि देवानां नमः पितॄणामुक्थभागा वै पितरोऽस्तोमभाजो यत्रैवैभ्य उक्थँ शँसति तदेभ्यो ग्रहं गृह्णाति ॥७॥

प्रजननं वै पात्नीवतो यद्वै किंच यज्ञे पात्नीवतं क्रियते प्रजननमेव तदुपाँशुपात्रेण गृह्णाति प्राणो वा उपाँशुः प्राणात् प्रजाः प्रजायन्ते प्रजननायोपाँशुना प्रयन्त्युपाँशुपात्रेणोद्यन्ति प्राणो वा उपाँशुः प्राणेनैव प्रयन्ति प्राणेनोद्यन्ति बृहस्पतिसुतस्य त इति ब्रह्म वै बृहस्पतिर्ब्रह्मणः प्रजाः प्रजायन्ते ब्रह्मणैवैनाः प्रजनयतीन्द इति रेत एव दधातीन्द्रियावत इतीन्द्रियं वै प्रजास्सोमपीथोऽग्ना३इ पत्नीवानिति मिथुनमेव करोति सजूस्त्वष्ट्रा सोमं पिबेति त्वष्टा वै रूपाणां विकर्ता सोऽस्मै रूपाणि विकरोत्येष वै ग्रहः पत्नीभ्यो नातिष्ठत तं देवा आज्यं वज्रं कृत्वाघ्नन् यत् पात्नीवतँ श्रीणाति स्तृत्यै संपातेन श्रीणाति संतत्या उपरिष्टाच्छ्रीणाति तस्मात् स्त्र्यखलतिर्भावुका शृतं वा एतँ सोमं जुहोत्यशृतानितराँस्तस्मात् स्त्री निर्वीर्यानिर्वीर्यः पुमान्नैतस्य होता यजति पश्चेव हि स पश्चात् प्राणान् परिहरेदग्निद्यजति पुरो हि स पुरः प्राणान्नानुयजति यदनुयजेदग्निना प्राणानन्तरियात् प्रमीयेत स्तृतं वा एतँ सोमं भक्षयति तस्मादग्नित्पण्डको भावुकः प्रजननं वै पात्नीवतस्तस्माद्बहुपशुर्भावुकस्सह पात्रेण नेष्टारमभिसर्पति पत्नीरेव सोमपीथं गमयति नोपस्थ आसीत यदुपस्थ आसीत पण्डकस्स्यादन्तरा नेष्टारं च धिष्ण्यं च व्यवसर्पति स्त्रीणां वै नेष्टा पुमान् धिष्ण्यो मिथुन एव रेतो दधाति ॥८॥

इन्द्रो वै वृत्रमहँस्तस्य मूर्धानमुदरुजत् स द्रोणकलशोऽभवत् ततो यस्सोमस्समस्रवत् स हारियोजनोऽभवदिन्द्रो वै वृत्रँ हत्वा तस्य क्लोम्नो हृदयात् सोमँ समसिञ्चत् स हारियोजनोऽभवत् सोऽमन्यत यदिममशृतमद्वितीयँ होष्यामि तदन्वसुरा आभविष्यन्ति यन्न होष्यामि तदन्वाभविष्यन्तीति स सँस्थितस्सोम आसीत् प्रहृताः परिधयोऽथोपोदतिष्ठद्धोतुं तमग्निरब्रवीन्न मय्येतमशृतमद्वितीयँ होष्यसीति तस्मिन् धाना आवपत् तँ शृतं द्वितीयवन्तमजुहोद्यद्धाना आवपति शृतत्वायैव द्वितीयत्वाय ये वै ते वृत्रे पशव आसँस्त एवैते पशूनेवैतत् कामदुघोऽवरुन्द्धे कामं कामँ ह्येतेषां कुरुत ऋक्सामे वा इन्द्रस्य हरी तयोरेतद्भागधेयम् ॥ यद्धारियोजन आधानानि परिधयो यत् प्रहृतेषु परिधिषु हारियोजनं जुहोति निराधानाभ्यामेवाभ्यां घासमपिदधाति प्रजापतिर्वा आग्रायण आग्रायणादेष सोमोऽतिरिच्यते यद्वै यज्ञस्यातिरिच्यते प्रजापतिं तदभ्यतिरिच्यते यदेतमतिरिक्तँ सोमं जुहोति तस्मादयमतिरिक्तः प्रजापतिः प्रजा एवाभिवपते द्रोणकलशेनोन्नेता हारियोजनं जुहोत्यतिरिक्तं वा एतत् पात्राणां यद् द्रोणकलशोऽतिरिक्त एष ऋत्विजां यदुन्नेतातिरिक्त एष सोमानां यद्धारियोजनोऽतिरिक्तेनैवातिरिक्तमाप्नोत्युन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तस्यावरुद्ध्यै ये वै ते वृत्रे पशव आसँस्त एवैते यत् संभिन्द्यात् सँशारुका एनमल्पाः पशवो भुञ्जन्त उपतिष्ठेरन् हिनस्ति हि यन्न संभिन्द्यादसँशारुका एनं बहवः पशवो भुञ्जन्त उपतिष्ठेरन् न हि हिनस्ति समिव गृह्णीयादुभयमेव करोत्यसँशारुका एनं बहवः पशवो भुञ्जन्त उपतिष्ठन्ते निरिव धयेद्य एव तत्र सोमपीथस्तस्यावरुद्ध्या उत्तरवेद्यां निवपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून् दधाति ॥९॥

पात्राणि प्रयुज्यन्तेऽनयोर्लोकयोर्विधृत्यै प्रान्यानि युज्यन्ते नान्यानि यानि प्रयुज्यन्त इमं तैर्लोकं दाधार यानि न प्रयुज्यन्तेऽमुं तैः पराङ् ह्यसौ लोकोऽनिरुक्त उपाँशुपात्रं प्रयुज्यतेऽजा एव तत् पशूनामनुप्रजायन्ते त्रिर्विगृह्णाति तस्मात् सा त्रीञ्जनयत्यथो द्वौ यदुपाँशुपात्रं प्रयुज्यतेऽजा एव तेन पशूनां दाधारान्तर्यामपात्रं प्रयुज्यतेऽवय एव तत् पशूनामनुप्रजायन्ते यदन्तर्यामपात्रं प्रयुज्यतेऽवीरेव तेन पशूनां दाधारर्तुपात्रे प्रयुज्येते अश्वा एव तत् पशूनामनुप्रजायन्ते तस्मात् तयोरश्वस्येव शफोऽधस्ताद्यदृतुपात्रे प्रयुज्येते अश्वानेव तेन पशूनां दाधारोक्थ्यपात्रं प्रयुज्यत आरण्या एव तत् पशवोऽनुप्रजायन्ते तस्मात् तान् धृतान् ग्राममागतान् घ्नन्ति यदुक्थ्यपात्रं प्रयुज्यत आरण्यानेव तेन पशून् दाधार शुक्रपात्रं प्रयुज्यतेऽत्रीरेव तत्प्रजा अनुप्रजायन्ते मन्थिपात्रं प्रयुज्यत आद्या एव तत् प्रजा अनुप्रजायन्ते यदेते प्रयुज्येते उभयोरेवैतदत्रीश्चाद्याश्च प्रजा दाधारर्तुपात्रे शुक्रपात्रात् पूर्वे प्रयुज्येते असौ वा आदित्यश्शुक्रो रश्मय ऋतवस्तस्मादेते पूर्वे प्रयुज्येते पूर्वे ह्येत एतस्मादवरमादित्यपात्रं प्रयुज्यते गाव एव तत् पशूनामनुप्रजायन्ते यदादित्यपात्रं प्रयुज्यते गा एव तेन पशूनां दाधाराग्रायणपात्रं प्रयुज्यते सर्वा एव तत् प्रजा अनुप्रजायन्ते यदाग्रायणपात्रं प्रयुज्यते सर्वा एव तेन प्रजा दाधार द्रोणकलशः प्रयुज्यते प्रजापतिर्वै द्रोणकलशो यद् द्रोणकलश: प्रयुज्यते तस्मादिदं प्रजापतिः प्रजा वेद तस्मादयं क्षयोऽस्त्येतावन्तो वै प्रातर्ग्रहा गृह्यन्ते ते स्तोत्रवन्त उक्थवन्तो निदानवन्त आयतनवन्तः कर्तव्या नवैतान् गृहीत्वा नवभिर्बहिष्पवमानँ स्तुवन्ति तेन ते स्तोत्रवन्तो यत् पुनरेत्याश्विनं गृह्णाति सोमेनैव स स्तोत्रवान् यदुपाँश्वन्तर्यामौ हुतौ होतानुमन्त्रयते तेन ता उक्थवन्तौ ॥ यदैन्द्रवायवं तेनैन्द्रवायव उक्थवान् यन्मैत्रावरुणं तेन मैत्रावरुण उक्थवान् यदाश्विनं तेनाश्विन उक्थवान् यन्निष्केवल्यं तेन शुक्रमन्थिना उक्थवन्तौ यद्वैश्वदेवं तेनाग्रायण उक्थवान् यदुक्थान्युक्थशँसिनश्शँसन्ति तेनोक्थ्य उक्थवानेतावन्तो वै प्रातर्ग्रहा गृह्यन्ते तानेतत् स्तोत्रवत उक्थवतो निदानवत आयतनवतः करोति निदानवानायतनवान् भवति य एवं वेद ॥१०॥ [१९७७]

॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायामायुष्यं नामाष्टाविंशं स्थानकं संपूर्णम् ॥२८॥