← स्थानकं २६ काठकसंहिता (विस्वरः)
स्थानकम् २७
[[लेखकः :|]]
स्थानकं २८ →
वाचस्पतिः

अथ सप्तविंशं स्थानकम् ।

वाचस्पतिः।
वाचस्पतये पवस्वेति वाच आधिपत्याय पवस्वेत्येवैतदाह तस्मादेतया कामं वदामश्च प्र चानिमः प्रजापतिर्वा इदमासीत् तस्य वाग्द्वितीयासीत् तां मिथुनँ समभवत् सा गर्भमधत्त सास्मादपाक्रामत् सेमाः प्रजा असृजत सा प्रजापतिमेव पुनः प्राविशद्वाचस्पतये पवस्वेत्येतस्मादेव मिथुनात् प्रजया च पशुभिश्च प्रजायते वाचस्पतये पवस्वेति ब्रह्म वै वाचस्पतिर्ब्रह्मणैवैनं पावयति वृष्णो अँशुभ्यां गभस्तिपूत इतीन्द्रो वै वृषा तस्य हस्तौ गभस्ती ताभ्यामेवैनं पावयति ॥ देवो देवानां पवित्रमसीति देवताभ्य एवैनं निदिशति मधुमतीर्न इषस्सोमेन हि सोमं पुनन्ति येषां भागोऽसीति देवताभ्य एवैनं निदिशति मधुमतीर्न इषस्कृधीति देवता वा इषो देवेभ्य एवैनं मधुमन्तं करोति स्वंकृतोऽसीति प्राणमेव स्वं कुरुत उर्वन्तरिक्षं वीहीत्यन्तरिक्षदेवत्यो ह्येष एतर्हि विश्वेभ्य इन्द्रियेभ्य इति देवेषु चैव मनुष्येषु च प्राणं दधाति मनस्त्वाष्ट्विति मनसा हि प्राणो धृतस्स्वाहा त्वा सुभो सूर्यायेति सोमो वै सुभूरमुष्मिन्नादित्ये देवानां प्रियास्तन्वस्ता एव तर्पयत्यथो स्वाहाकारेणैवास्मिन्नाहुतीश्श्रीणाति ॥ सर्वहुतं जुहोति तस्मात् पराङ् प्राण ऋजुस्तिष्ठञ्जुहोति पुरुषेणैव यज्ञस्संमितः प्राणापानाभ्यां पुरुषस्संततः प्राणापानयोरसँशराय नाध्वर्युर्विहूर्छति य एवं वेदोत्तरादुपाँशुं जुहुयादक्षिणतोऽन्तर्यामं देवरथो वा एष यद्यज्ञस्तस्यैतौ रश्मी यदुपाँश्वन्तर्यामौ देवरथस्यैव पुरस्ताद्रश्मी विहरति संवत्सरस्य क्लृप्त्यै स्वर्गस्य लोकस्य प्रज्ञात्यै तामनुकृतिं मनुष्यरथस्य रश्मी विह्रियेते ऋजू होतव्यौ प्राणानामव्यतिहारायोर्ध्वमुन्मृज्याद्यदि कामयेत न वर्षेदित्यमुत्रैव वृष्टिं परिगृह्णात्यवाचीनमवमृज्याद्यदि कामयेत वर्षेदिति या वा इतराहुतिरुदयते सामुतो वृष्टिं च्यावयति सौम्यैवाहुत्या दिवो वृष्टिं निनयति ॥ देवेभ्यस्त्वा मरीचिपेभ्य इति परिधौ निमार्ष्टि प्राणा वै देवा मरीचिपास्तानेव प्रीणात्यथो परिधीनामेवैष सोमपीथोऽन्तरतो निमार्ष्टि तस्मात् प्राणा अन्तरतो वि वा एतद्यज्ञं छिनत्ति यत् पुराभिषोतोस्सँस्थां गमयति यदँशूननभिषुतानपिसृजति यज्ञस्य संतत्या अविच्छेदाय पशूनपिसृजति तस्मात् षट् प्राणा द्वन्द्वं तस्मात् प्राणा द्वन्द्वमार्द्रास्सन्तोऽसँश्लिष्टा भवन्ति तस्मात् प्राणा आर्द्रास्सन्तोऽसँश्लिष्टा यो ह वै सोमस्य सोमपीथं वेद न सोमपीथाच्छिद्यते नास्य प्रजा यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्येष वै सोमस्य सोमपीथस्सोममेवैतत् सोमस्य तर्पयति न सोमपीथाच्छिद्यत नास्य प्रजा य एवं वेद यद्यभिचरेत् ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्याददीत प्रहर्षिणो मदिरस्य मदे मृषासो अस्त्वथ त्वा होष्यामीति मृषैवैनं करोति सर्वदेवत्यो वै सोमस्सर्वा वा एतर्ह्येतस्मिन् देवता आशँसन्ते मह्यँ होष्यति मह्यँ होष्यतीति देवता एवैनमाहुतिमभीप्सन्तीरुद्दहन्त्या तमितोस्तिष्ठति प्राणस्यैवास्यान्तं गच्छति यद्यजुर्वदति देवेभ्य एवैनमावृश्चत्युपाँशुनाभिचरति प्राणो वा उपाँशुः प्राणेनैवास्य प्राणमभिचरति ताजक् प्रधन्वति ॥१॥

देवा वै सोमायाभिषुताय पात्रं नाविन्दन्त येनेमं विगृह्णीमहीति त इमामेव देवपात्रमपश्यँस्तमनयैव व्यगृह्णतेयं वाव देवपात्रमस्यास्स्थालीः कुर्वन्त्यस्या वायव्यानि प्र श्रेयसः पात्रमाप्नोति य एवं वेद ब्राह्मणं पात्रेण मीमाँसेत तद्व्रतमुपयामगृहीतोऽसीतीयं वा उपयामो यदत्र स्कन्दत्यनया तद्यतं नास्य सोमस्स्कन्दति य एवं वेदोपयामगृहीतोऽसीत्युपयामगृहीता ह्यतस्सोमा भवन्ति पवित्रं वितन्वन्ति पवित्रपूता ह्यतस्सोमा भवन्ति स्वर्भानुर्वा आसुरस्सूर्य तमसाविध्यत् स न व्यरोचत तस्माद्देवास्तमोऽपालुम्पन् यत् प्रथममपालुम्पन् साविष्कृष्णाभवद्यद् द्वितीयँ सा फल्गुर्यत् तृतीयँ मा बलक्षी ॥ तस्मात् तस्याः पवित्रं कुर्वन्त्यादित्यस्यैवैनं तन्वा पावयत्यन्तर्यच्छ मघवन् पाहि सोममित्येभ्य एव लोकेभ्यो भ्रातृव्यमन्तर्धत्ते मधुमतीर्न इषस्कृधीति देवता वा इषो देवेभ्य एवैनं मधु मन्तं करोति स्वंकृतोऽसीत्यपानमेव स्वं कुरुत उर्वन्तरिक्षं वीहीत्यन्तरिक्षदेवत्यो ह्येष एतर्हि विश्वेभ्य इन्द्रियेभ्य इति देवेषु चैव मनुष्येषु चापानं दधाति मनस्त्वाष्ट्विति मनसा ह्यपानो धृतस्स्वाहा त्वा सुभो सूर्यायेति सोमो वै सुभूरमुष्मिन्नादित्ये देवानां प्रियास्तन्वस्ता एव तर्पयत्यथो स्वाहाकारेणैवास्मिन्नाहुतीश्श्रीणाति ॥ सूदि कुर्यादन्तर्यामपात्रमूर्ग्वै सोमोऽन्तरिक्षमन्तर्यामोऽन्तरिक्ष एव रसं दधात्यूर्जं पशुषूपाँश्वन्तर्यामौ वै पशवोऽनुप्रजायन्त इतरान् ग्रहानन्वन्याः प्रजास्ता असन्नौ जुहोति तस्मादसन्नाः पशवस्सददि प्रजायन्ते तस्मात् सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरे पुरुषः प्राणाय त्वेत्युपाँशुपात्रँ सादयति व्यानाय त्वेत्युपाँशुसवनमपानाय त्वेत्यन्तर्यामपात्रं व्यानेन वा इमौ प्राणापानौ विधृतौ प्राङ् च प्रत्यङ् च न क्षीयेते नायमूर्ध्व उत्क्रामति नेतरोऽवाङ् संक्रामति व्यानमेव मध्यतो दधाति प्राणापानयोर्विधृत्यै ॥ शृङ्गमु पाँशुरेतोऽन्तर्याम इन्द्रियं प्रजास्सोमपीथ एतौ ह स्म वै तद्रजनः कौणेयो ग्रहौ धयन्मन्यते यच्छृङ्गं धयति यदेतौ पूर्वार्धे यज्ञस्य क्रियेते मिथुनमेव यज्ञमुखे दधाति प्रजननाय तस्मादाहुः प्राणापानौ वै प्रजा अनुप्रजायन्त इति पुरुषेण वै यज्ञस्संमितः प्राणापानाभ्यां पुरुषस्संततो यदेते प्रातस्सन्ने आ तृतीयसवनाच्छयाते प्राणापानाभ्यामेव यज्ञँ संतनोति तस्मात् पुरुषात् सुप्तात् प्राणापानौ नापक्रमतस्ते पुनस्तृतीयसवने प्रयुज्येते तस्मात् सुप्त्वा प्रबुध्यते तस्माद्वा अवाञ्चौ प्राणौ ॥२॥

प्राण उपाँशुरपानोऽन्तर्यामो वागैन्द्रवायवो यदुपाँश्वन्तर्यामा ऐन्द्रवायवोऽनुगृह्यते प्राणापानयोरेव वाचमुपरिष्टाद्दधाति तस्मात् प्राण्यापान्य पुरुषो वाचं वदति देवा वै प्रातस्सवनमुद्यमं नाशक्नुवँस्तृतीयसवने तर्हि वायुरासीत् तं देवाः प्राञ्चं पर्यहरन् प्राणो वायुरैन्द्रो यज्ञो यदैन्द्रवायवः प्रातस्सवने गृह्यते प्राणेनैव यज्ञं परिगृह्य पुरस्तादुद्यच्छन्ते वायव्यो वा एष पुरासीत् सा वाक् सृष्टा न व्यावर्ततध्वनदेव स इन्द्रोऽब्रवीन्मह्यमत्रापिगृह्यतामहमेतां व्यावर्तयिष्यामीति तत एतमैन्द्रवायवमगृह्णन् सेयं वागिन्द्रियेण व्यावृत्ता वदति स एष सोमो वाचो व्यावृत्त्यै गृह्यते व्यावृत्तं पापीयसा वदति य एवं वेद प्रजानाँ सृष्टानां तौ समभिद्येतां ता न प्राण्यापानमशक्नुवन्नापान्य प्राणितुँ स इन्द्रोऽब्रवीन्मह्यमत्रापि गृह्यतामहमेतौ प्राणापानौ विददिष्य इति तत एतमैन्द्रवायवमगृह्णन् वायव इन्द्रवायुभ्यामनुब्रूहीतीन्द्रं मध्ये करोति वायुमभितः प्राणापानयोर्विधृत्या इन्द्रियं वै व्यानो व्यानेन वा इमौ प्राणापानौ विधृतौ प्राङ् च प्रत्यङ् च न क्षीयेते नायमूर्ध्व उत्क्रामति नेतरोऽवाक् संक्रामति व्यानमेव मध्यतो दधाति प्राणापानयोर्विधृत्यै ॥ त्रिर्विगृह्णाति तस्मात् त्रिर्वाग्वदति शनकैरुच्चैरथ सूच्चैर्देवा वै वायुमब्रुवँस्त्वया मुखेन वृत्रँ हनामेति सोऽब्रवीद्वार्यं वृणै मदग्रा एव ग्रहा गृह्यान्ता इति तस्माद्वाय्वग्रा ग्रहा गृह्यन्ते वार्यवृतो ह्यस्य स इन्द्रोऽब्रवीन्मह्यमत्रापि गृह्यतामथ त्वै स्तरिष्यामह इति त एतमैन्द्रवायवमगृह्णँस्ततो वृत्रमघ्नन् स एष सोमो वार्त्रघ्नो विजित्यै गृह्यते सोमो वै वृत्रस्स हतोऽपूयत् ते देवा वायुमब्रुवन्निमं नो विवाहीति सोऽब्रवीद्वार्यं वृणै मद्देवत्यान्येव पात्राण्युच्यान्ता इति तं व्यवात् तस्माद्गन्धमपाहन् स एष पशौ प्रमीते तस्मात् तस्मान्नापिगृह्यँ सोमस्य हि स राज्ञो गन्धो नैनं राजयक्ष्मो विन्दति य एवं वेद तस्माच्छुक्तं विषजन्ति तस्मादपि तृतीयं वायोः पात्रमथ वायव्यान्युच्यन्ते वार्यवृतानि ह्यस्य ।।३।।

नाना वा एतौ पुरा सोमा अगृह्णन् मित्राय वरुणाय च ता: प्रजा अशान्ता अविधृता अन्यान्यां घ्नतीरचरँस्ते देवा अब्रुवन् सहेमं गृह्णाम मित्रेण वरुणँ शमयाम वरुणेन मित्रमिति ततो वा एतँ सहागृह्णँस्ते मित्रेणैव वरुणमशमयन् वरुणेन मित्रं ता इमाः प्रजा मित्रेण शान्ता वरुणेन विधृता यन्मैत्रावरुणो गृह्यते क्लृप्त्या एव विधृत्यै देवा वै मित्रमब्रुवन् वृत्रँ हनामेति नेत्यब्रवीन्मित्रोऽहमस्मि न हिनस्मीति हनामैवेत्यब्रुवन् सोऽब्रवीद्वार्यं वृणै पयसा मे सोमँ श्रीणानिति तस्मात् पयसा मैत्रावरुणँ श्रीणन्ति वार्यवृतँ ह्यस्य ततो वृत्रमघ्नँस्माद्राजन्येनाध्यक्षेण वैश्यं घ्नन्ति तं मित्रस्सन्ननृतमकरिति वरुणोऽगृह्णादप पशवोऽक्रामन् स मित्रो वरुण एवानाथत सोऽब्रवीत् सह ना एष सोमो गृह्यतामथ त्वातो मोक्ष्यामीति ततो वा एतँ सहागृह्णँस्तेनैनं वरुणादमुञ्चद्यन्मैत्रावरुणो गृह्यते निर्वरुणत्वाय पशवो वै पयः पशूनाँ हि पयो यत् पयसा मैत्रावरुणँ श्रीणाति पशुभिरेवैनँ समर्धयत्यसोमो वा एष इत्याहुरोषधय एताः पय एव सोम इति यत् पयसा मैत्रावरुणँ श्रीणाति सोममेवैनं करोत्यथो यदेवास्याभिषुण्वन्तो घ्नन्ति यत् क्रूरं कुर्वन्ति तच्छमयति ॥ शृतेन श्रीणाति मैत्रं वै शृतं वारुणं प्रतिधुक् स्वेनैवैनौ भागधेयेन समर्धयति मैत्रो ब्राह्मणो वारुणो राजन्यो यदेष मैत्रावरुणो गृह्यते तस्माद्ब्रह्मपुरोहितं क्षत्रं यज्ञस्य वै शिरोऽच्छिद्यताय तर्ह्यश्विना असोमपौ भिषजौ देवानामास्तां तौ देवा अब्रुवन् भिषजौ वै स्थ इदं यज्ञस्य शिरः परिधत्तमिति ता अब्रुवतां वार्यं वृणावहै सोमपीथो नौ देवेष्वस्तु ग्रहो नौ गृहातामिति तौ देवा बहिष्पवमानेन पावयित्वा ताभ्याँ शुचिभ्यां मेध्याभ्यां भूताभ्यां ग्रहमगृह्णँस्तस्मात् स्तुते बहिष्पवमान आश्विनो गृह्यते तस्माद्ब्राह्मणो बहिष्पवमानमासीत पवित्रँ हि तत् तस्माद्यं द्विष्यात् तं बहिष्पवमानात् परिबाधेत पवित्रादेवैनं परिबाधते तौ देवानुपावर्तमानौ तयोर्या भिषज्या तनूरासीद तां त्रेधा विन्यदधातामग्नौ तृतीयं ब्राह्मणे तृतीयमप्सु तृतीयं यं कामयेतामयाविनं जीवेदित्यग्नेरन्ते ब्राह्मणाय प्रोच्यापः परिब्रूयादेतावद्वै भेषजं यावदेव भेषजं तदस्मै करोति जीवति सर्वमायुरेति न पुरायुषः प्रमीयते ॥४॥

प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात् प्राणा एकनामानस्ते द्विपात्रा हूयन्ते तस्मात् प्राणा द्वन्द्वं येन यजुषा प्रयच्छति तेन प्रतिगृह्णाति प्राणानाँ संतत्यै प्रतिज्ञात्यै नानुवषट् करोति यदनुवषट् कुर्यात् प्राणान् सँस्थापयेत् प्रमीयेत यन्नानुयजति तस्मात् प्राणा असँस्थिता आ च परा च चरन्ति द्विदेवत्याः पूर्वे भक्षयितव्या३ इडोपहूया३ इति मीमाँसन्ते ॥ इडैव पूर्वोपहूया यज्ञस्य यथापूर्वत्वाय प्राणा वै द्विदेवत्याः पशव इडा यदेवं कुर्यात् पशुभिः प्राणानन्तरियात् प्रमीयेत द्विदेवत्या एव पूर्वे भक्षयितव्या अन्तरे वै प्राणाः परे पशवः प्राणानेवात्मन् धित्वा पशूनुपहूते ॥ ये वा इमे पुरुषे प्राणास्ते द्विदेवत्या वाक् च प्राणाश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रावरुणश्श्रोत्रं चात्मा चाश्विनोऽग्निर्होतासीत् स वषट्कृत्याताम्यदाहितास्येडासीत् तस्य देवा द्विदेवत्यैरन्वौन्दन् प्राणा वै द्विदेवत्याः प्राणरेवैनं तदभ्यधिन्वन् स इडोपहूतेति प्रत्यपद्यत प्राणा वै द्विदेवत्या यद् द्विदेवत्यान् भक्षयति प्राणैरेवात्मानमभिधिनोति तस्माद् द्विदेवत्या एव पूर्वे भक्षयितव्यास्ते हि पूर्वे भक्षिता आश्विनो दशमो गृह्यते ॥ दश हि प्राणास्तं तृतीयं जुहोति शिर एव प्राणानभिसँहरति समन्तं परिहृत्य भक्षयति श्रोत्रं वा आश्विनस्तस्मात्पुरुषस्सर्वतश्शृणोति रक्षाँसि वा एतत् पात्रँ सचन्ते यद्यज्ञे रिक्तमविमुक्तं भवति पुरोडाशमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धानामाश्विनस्य रक्षसामपहत्यै तस्मात् प्राणा अदस्ता अरिक्ता दक्षिणस्य हविर्धानस्याधस्तात् सादयत्येतद्वा एतयोरग्निमद्वीर्यावद्यदेवाग्निमद्वीर्यावत् तस्मिन् सादयति पुरुषेण वै यज्ञस्संमितः प्राणापानैः पुरुषस्संततो यदेतानि प्रातस्सन्नान्या तृतीयसवनाच्छेरे प्राणापानैरेवं यज्ञँ संतनोत्येकया च दशभिश्चेत्येतां प्रतिविमुञ्चति यदर्वाग्विमुञ्चेत् प्राणान् विच्छिन्द्याद्यत् परः प्राणानतिरेचयेत् प्रमीयेत प्राणो चै वायुः प्राणा द्विदेवत्याः प्राणेनैव प्राणान् विमुञ्चति बहु वायव्यं प्रातस्सवने शस्यत एकैव तृतीयसवने तस्माद्बहवो मुखप्राणा एकोऽवाङयदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्याः पुत्रममुष्या विश उदूहामीत्यध्वर्योः पात्रमुदूहेदिदमहममुमामुष्यायणममुष्याः पुत्रममुष्यां विश्यध्यूहामीति प्रतिप्रस्थातुः पात्रमध्यूहेदध्वयुर्वै श्रेयान् पापीयानपरुद्धोऽवगतमेवापरुणद्य्हमपरुद्धमवगमयति ताजग्व्यवगच्छेते व्यत्यूहेत् पात्राणि यदि कामयेत पापवसीयसँ स्यादित्यध्वर्योः पात्राणां लोके प्रतिप्रस्थातुः पात्राणि सादयेत् प्रतिप्रस्थातुः पात्राणां लोकेऽध्वर्योः पात्राणि सादयेदध्वयुर्वै श्रेयान् पापीयान प्रतिप्रस्थाता पापीयाँसमेव वसीयसो लोके सादयति वसीयासं पापीयसः पापवसीयसं करोत्येतद्ध वै विषूजनस्सौराकिः पापवसीयसं विदांचकार ॥५॥

यदि कामयेत यजमानादयजमानं भ्रातृव्यं पूर्वं कुर्यामिति प्रतिप्रस्थाता पूर्वो गृहीत्वा स पूर्वो निरूहेद्यजमानो वै श्रेयान् पापीयानस्माद्भ्रातृव्योऽयजमानो भ्रातृव्यमेवास्मात् पूर्वं करोत्यध्वर्योर्लोके तिष्ठञ्जुहोत्यध्वर्युर्वै श्रेयान् पापीयान् प्रतिप्रस्थाता भ्रातृव्यमेवास्य लोकमभ्यारोहयत्यलोकमेनं करोति नयन्नाश्रावयेदध्वर्युरप्रतिष्ठानस्स्यान्नानालभ्य पात्रमाश्रावयेदेतद्वा अध्वर्योस्स्वमस्वस्स्याद्यत्राग्र आहुतिं जुहोति तदुत्तरा जुहुयाद्यत्र वा अग्र आहुतिं जुहोति तद्देवताः परिविशन्ति यदन्यत्रा जुहुयाद्देवताभ्यस्समदं कुर्यात् साक्षादेव देवेभ्यो भागधेयँ संप्रयच्छति ॥ नाना वा एतौ पुराग्नी आस्तां पशोश्चाहवनीयश्च तस्मात् पुरा रुद्रः पशूनघातुक आसीत् पशवो वै पशवः पशवोँऽशवो रुद्रोऽग्निर्यदाहुतीस्संसृजति रुद्राय पशूनपिदधात्यपशुर्भवति तस्मादिदानीं रुद्रः पशून् घातुको मध्येऽग्नेर्जुहुयादाज्याहुतीश्च पश्चाहुतीश्चाभितस्सोमाहुती रुद्रमेव पशुभिः परिवृणक्त्यघातुकस्तत्र रुद्रः पशून् भवति यत्रैवंविदध्वर्युर्भवति ॥६॥

आयुस्संधत्तं प्राणँ संधत्तमिति प्राणानेव संधत्तस्तस्मात् प्राणा द्वन्द्वँ संजग्माना दिवा पृथिव्येतीमानेव लोकान् समर्धयतो निरस्ता शण्डामर्कौ सह तेन यं द्विष्म इत्येतावान् वै यज्ञो यावच्छुक्रामन्थिना एतावती पृथिवी यावत्युत्तरवेदिरनृतँ शण्डामर्का अनृतं भ्रातृव्योऽनृतमेव भ्रातृव्यमेतावता यज्ञाच्च पृथिव्याश्च निर्भजतश्शुक्रस्याधिष्ठानमसि मन्थिनोऽधिष्ठानमसीति समिद्ध एव जुहुतोऽग्निर्वा आहुत्या अतिद्रवादबिभेद्यच्छल्कौ प्रास्यत आहुत्या अनतिद्रवाय ॥ चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ यच्छल्कौ प्रास्यतश्चक्षुषोरेवान्तर्धत्तोऽप्रदाहाय तस्मा इन्द्राय सुतमाजुहोत तस्मै सूर्याय सुतमाजुहोतेति चक्षुषोर्व्यावृत्त्यै तस्मात् समानँ सच्चक्षुर्द्वेधा सर्वहुतौ जुहुतस्सर्वमेव प्रजासु चक्षुर्धत्तो यः पात्राणां ग्रहाणाँ सोमानां मिथुनं वेद तस्मादेव मिथुनात् प्रजायते स्थालीभिरन्यान् ग्रहान् गृह्णन्ति वायव्यैरन्याँस्तत्पात्राणां मिथुनँ श्रीणन्त्यन्यान् ग्रहान्नान्याँस्तद्ग्रहाणां मिथुनमाशीर्वन्तोऽन्ये सोमा भवन्ति नान्ये तत् सोमानां मिथुनं तस्मादेव मिथुनात् प्रजायते ॥७॥

देवाश्च वा असुराश्च संयत्ता आसन् बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्का असुराणां ते न व्यजयन्त स इन्द्रोऽवेदुभये हि वै ब्रह्मण्वन्तस्स्मस्तन्न विजयामह इति ता उपामन्त्रयत अब्रुवतां वार्यं वृणावहै सोमपीथो नौ देवेष्वस्तु ग्रहौ नौ गृह्येतामिति ताभ्यामेता इन्द्रश्शुक्रामन्थिनौ प्रायच्छदात्मनस्सन्तौ तद्भागधेयमभ्यैतां तस्माद्राष्ट्रमपुरोहितं पराभावुकं तस्माद्भ्रातृव्यायानृतं वदेत् सोऽमन्यत यदिमा आभ्यामसुरब्रह्माभ्याँ होष्यामि तदन्वसुरा आभविष्यन्ति यन्न होष्यामि तदन्वाभविष्यन्तीति ता आददानोऽपानुदतापनुत्ता शण्डामर्कौ सह तेन यं द्विष्म इति ततो देवा अभवन् परासुरा अभवन् यस्यैवं विदुषश्शुक्रामन्थिनौ जुह्वति यस्यैवं विद्वाँसौ जुहुतो भ्रातृव्यस्यापनुत्त्यै भवत्यात्मना परास्य भ्रातृव्यो भवति प्रजापतेर्वा अक्ष्यश्वयत् तस्य कनीनिका परापतत् सा विकङ्कतं प्राविशत् तस्मिन्नाध्रियत सा यवं प्राविशत् तस्मिन्नध्रियत वैकङ्कतं मन्थिनः पात्रं भवति सक्तुभिश्श्रीणाति प्रजापतेरेव चक्षुसंभरति यजमानदेवत्यो वै शुक्रो भ्रातृव्यदेवत्यो मन्थी हिरण्येन शुक्रँ श्रीणाति तेजो वै हिरण्यं तेजसैव यजमानँ समर्धयति तस्मादन्यतरच्चक्षुषोस्तेजस्वितरं तस्मादहरेकरूपँ सक्तुभिर्मन्थिनँ श्रीणाति तेज एव भ्रातृव्यस्य विनयति तस्माद्रात्री बहुरूपानभिध्वँसयन्नितराणि पात्राणि श्रीणीयाद्यदभिध्वँसयेदक्ष्यामयः प्रजा विन्देदन्धम्भावुको यजमानस्स्यात् प्रजापतेर्वा एते चक्षुषी यच्छुक्रामन्थिनौ यज्ञः प्रजापतिर्यत् प्राञ्चा उद्द्रुत्य जुहुतस्सवनमुखयोरेव चक्षुषी धत्तस्तस्माद् द्वे सवने शुक्रवती असौ वा आदित्यश्शुक्रश्चन्द्रमा मन्थी यदपिगृह्य प्राञ्चा उद्भवतस्तस्मादेतौ प्राञ्चौ यन्तौ न पश्यन्ति यदनपिगृह्य पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतस्तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति ।। प्राचीभिर्वा आहुतिभिर्देवा अन्यानसुरान् प्राणुदन्त प्रतीचीभिरन्यान् प्रत्यञ्चौ तिष्ठन्तौ शुक्रामन्थिनौ जुहुतः प्राचीरितरा आहुतयो हूयन्ते भ्रातृव्यस्य विनुत्त्यै न वा एतौ मनुष्याः प्रच्यवमर्हन्ति तुथोऽसि जनधाया देवास्त्वा शुक्रपाः प्रणयन्तु तुथोऽसि जनधाया देवास्त्वा मन्थिपाः प्रणयन्त्विति स्वयैवैनौ देवतया प्रणयति सुवीराः प्रजाः प्रजनयन् परीहि सुप्रजाः प्रजाः प्रजनयन् परीहीति वीरमेवात्रीषु प्रजासु धत्तो भूमानमाद्यासु तस्मादेतासु वीर आजायते तस्मादितरा अद्यमाना न क्षीयन्ते । शुक्रं वा अन्वत्रीः प्रजाः प्रजायन्ते मन्थिनमाद्या अग्निः प्रजनयिता यदभितोऽग्निं विपरिद्रुत्यजुहुत उभयीरेवैतदत्रीश्चाद्याश्च प्रजाः प्रजनयतोऽवरिफन्ता इवोत्तरवेदिं परीयाताँ सपर्वास्य सूपकाशो जायते प्रजापतेर्वा एषा नासिका यदुत्तरवेदिश्चक्षुषी शुक्रामन्थिनौ यज्ञः प्रजापतिर्यत् प्राञ्चा उद्द्रुत्य जुहुतो नासिकाया एव पुरस्ताच्चक्षुषी धत्त एतद्ध्येतस्याः पूर्वमभितस्तिष्ठन्तौ जुहुतस्तस्मान्नासिकामभितश्चक्षुषी अनाधृष्टासीति निगृह्णीतस्तस्मादक्षि धाने नीपतमम् ॥८॥

देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत तेऽसुरा भूयाँसश्श्रेयाँस आसन् कनीयाँसः पापीयाँस आनुजावरतरा इव देवास्ते देवा एतमाग्रायणमपश्यँस्तमगृह्णत तेनाग्रं पर्यायन् यदग्रं पर्यायँस्तदाग्रायणस्याग्रायणत्वं य आनुजावरस्स्यात् ॥
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यँ सध्र्यक्कः ।
अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
इत्येतया पुरोरुचाग्रायणं गृहीतं भ्रातृव्यमेव वृक्त्वाग्रं पर्येति ॥ वाग्वै देवेभ्योऽपाकामद्यज्ञे भागधेयमिच्छमाना ते देवा एतावद्यज्ञस्य मनसातन्वत सान्तर्यन्ति मेत्याग्रायणं प्रतिन्यागच्छद्यदाग्रायणं गृहीत्वा वाचं विसृजते वाचमेव यज्ञ आगतां युनक्ति मृगस्येव वै यज्ञस्याभित्सार आत्मा यज्ञस्याग्रायणो यद्वाचं यच्छति यज्ञमेवाभित्सरति यद्विसृजते यज्ञमेव यत्वा वाचं विसृजते प्रजापतिर्वा आग्रायणः प्राजापत्या एत ऋत्विजस्त्रयो वृता युक्ता यज्ञे भवन्ति प्रस्तोतोद्गाता प्रतिहर्ता यद्धिङ्करोत्युगातॄनेव वृणीते तेऽस्य वृता युक्ता यज्ञे भवन्ति ॥ द्वयोर्घारयोः प्रातस्सवने गृह्णाति तिसृणां मध्यन्दिने चतसृणां तृतीयसवने नव वै पुरुषे प्राणा आत्मा यज्ञस्याग्रायणः प्राणानेवास्मानमभिसंपादयते वि वा एतद्यज्ञं छिन्दन्ति यन्नाना सवनानि सँस्थापयन्त्यात्मा यज्ञस्याग्रायणो यदाग्रायणँ सवने सवनेऽभिगृह्णात्यात्मनैव यज्ञँ संतनोति ये देवा दिव्येकादश स्थेति त्रयस्त्रिँशद्देवताभिरेव यज्ञँ संतनोति प्रजापतिर्वा आग्रायणो यत् प्रस्कन्दयति रेत एव दधाति यदुपग्रह्णाति प्रैव जनयति स्थाल्या गृह्णाति सोऽविज्ञातो भवति येन होष्यन्तीति तस्माद्गर्भेणाविज्ञातेन भ्रूणहा स्थाल्या गृह्णाति वायव्येन जुहोति तस्मात् स्त्री निवीर्यानिवीर्यः पुमान् परा स्थालीमस्यन्ति न वायव्यं तस्मात् स्त्रियं जातां परास्यन्ति न पुमाँसं यदि ग्रह उपदस्येदाग्रायणाद्गृहीयाद्यद्याग्रायण उपदस्येद्गृहेभ्यो गृह्णीयात् पिता वा आग्रायणः पुत्रा ग्रहा यद्वै पुत्रस्योपदस्यति पितरँ स उपधावति स एष प्रायश्चित्त्या एव सोमो गृह्यते ब्रह्मवादिनो वदन्ति कस्माद्गायत्र्ययातयाम्न्यभिनिवर्तँ सर्वाणि सवनानि वहतीति वत्सो वा एष गायत्र्या यदाग्रायणो यदाग्रायणँ सवने सवनेऽभिगृह्णाति तस्माद्गायत्र्ययातयाम्न्यभिनिवर्तँ सर्वाणि सवनापि वहति तस्माद्गौर्वत्सादपक्रियमाणा पुनरभिनिवर्तते प्रजापतिः प्रजास्सृष्ट्वा ता अभिहिङ्क्यरोत् प्रजापतिराग्रायणो यदाग्रायणं गृहीत्वा हिङ्करोति तस्माद्गौर्वत्सं जातमभिहिङ्करोति ॥९॥

इन्द्रो वै वृत्राय वज्रमुदयच्छत सोऽब्रवीद्वीर्यं वा इदं मय्यस्ति तत् ते प्रदास्यामि मा मे प्रहारिति तदस्मै प्रायच्छत् सोऽवेदस्ति वावास्मिन् वीर्यमिति तस्मै द्वितीयं तस्मै तृतीयमुदयच्छत सोऽब्रवीद्वीर्यं वा इदं मय्यस्ति तत् ते प्रदास्यामि मा मे प्रहारिति तदस्मै प्रायच्छद्यज्ञं वावास्मै तत् प्रायच्छदुक्थ्यमेवैतावान् यज्ञो यावानुक्थ्योऽन्तश्श्लेषणाय त्वा इतरे ग्रहा गृह्यन्ते त्रिः प्रायच्छत् तस्मादेतं त्रिर्विगृह्णन्ति यदेकँ सन्तं बहुधा विगृह्णन्ति तस्मादेको बहूनां ग्रामणीश्शिरो वै यज्ञस्योक्थ्योऽङ्गान्युक्थानि चक्षुषी शुक्रामन्थिनौ यदेतौ भूयिष्ठास्सोमा अनुहूयन्ते तस्माञ्चक्षुस्सर्वाण्यङ्गानि प्रति यदुक्थ्यपात्रं भूयिष्ठास्सोमा अन्वायन्ति तस्मादेकं पुण्यं यन्तं बहवोऽनुयन्ति । वि वा एतद्यज्ञं छिन्दन्ति यन्नाना सवनानि सँस्थापयन्त्यात्मा यज्ञस्योक्थ्यो यदुक्थ्यं सवने सवने विगृह्णाति तेनैव यज्ञँ संतनोतीन्द्राय त्वा बृहद्वत इत्यैन्द्रो वै यज्ञस्तस्मै त्वा विष्णवे त्वेति विष्णुर्वै यज्ञो विष्णुनैव यज्ञेन यज्ञँ संतनोति यथा वा उभयतोयुक्तं यथोभयतोवीवधमेवं पुरोरुक् च ग्रहश्चाथैषोऽपुरोरुक् को गृह्यत ईश्वरो यज्ञो विवृहो यदुक्थ्यं विगृह्णाति तेनैष सयुक्तेन सवीवधँ शिरो वै यज्ञस्योक्थ्योऽङ्गान्युक्थानि पश्चाद्वै प्राङ् यज्ञ उक्थ्यैश्शिरोऽभिसंततो यदुक्थ्यमवनयति पश्चादेव प्राञ्चं यज्ञमुक्थैश्शिरोऽभिसंतनोति तस्मात् पश्चात् पश्चात् प्राङ् पुरुषस्स्नावभिश्शिरोऽभिसंततस्त्वचा छन्नश्श्रीर्वै सोमो यदि कामयेताध्वर्युरात्मानं यशसार्पयेयमित्यन्तराहवनीयं च हविर्धानं चावनयेदेष वा अध्वर्योर्लोकस्स्व एव लोकेऽध्वर्युरात्मानं यशसार्पयति यदि कामयेत यजमानं यशसार्पयेयमित्यन्तरा सदोहविर्धाने अवनयेदेष वै यजमानस्य लोकस्स्व एव लोके यजमानं यशसार्पयति यदि कामयेत सदस्यान् यशसार्पयेयमिति सद आलभ्यावनयेदेष वै सदस्यानां लोकस्स्व एव लोके सदस्यान् यशसार्पयत्यात्मा वै यज्ञस्याग्रायणोऽङ्गान्युक्थ्यो यदाग्रायणमुक्थ्योऽनुगृह्यत आत्मन्नेव यज्ञस्याङ्गानि प्रतिदधाति तस्मादात्मन्नङ्गानि प्रतिहितानि ॥१०॥ [१९५२] ॥

इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां वाचस्पतिर्नाम सप्तविंशं स्थानकं संपूर्णम् ॥२७॥