कादम्बरीकथासारः (अभिनन्दकृतः)
कादम्बरीकथासारः अभिनन्दनः १९२५ |
काव्यमाला.११.
महाकविश्रीमदभिनन्दविरचितः
कादम्बरीकथासारः ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय-
पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व-
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः,
स च पणशीकरोपाह्वलक्ष्मणशर्मात्मज-
वासुदेवशर्मणा च संस्कृतः ।
तृतीयावृत्तिः ।
स च
मुम्बय्यां
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितः ।
१९२५
मूल्यं १० आणका
काव्यमाला ।
काश्मीरकमहाकविश्रीमदभिनन्दप्रणीतः
कादम्बरीकथासारः।
प्रथमः सर्गः ।
सम्पाद्यताम्श्रियं दिशन्तु वः शौरेर्द्वये तुल्यश्रमाः क्रमाः ।
ये चादौ गोष्पदं पश्चात्रैलोक्यं काम्यतश्च ये ॥१॥
सरसाः सदलंकाराः प्रसादमधुरा गिरः ।
कान्तास्तातजयन्तस्य जयन्ति जगतीगुरोः ॥ २ ॥
गुणोद्द्योतनदीपानां सतां न परमुज्ज्वलम् ।
यावन्मलिनमप्येषां कर्म दृष्टेः प्रसाधनम् ॥ ३ ॥
गुणः कृशोऽपि प्रथते पृथुरप्यपचीयते ।
प्राप्य साधुखलौ चन्द्रः पक्षाविव सितासितौ ॥ ४ ॥
१शक्तिनामाभवद्गौडो २भारद्वाजकुले द्विजः ।
३दार्बाभिसांरमासाद्य कृतदारपरिग्रहः ॥ ५॥
तस्य ४मित्राभिधानोऽभूदात्मजस्तेजसां निधिः ।
जनेन ५दोषोपरमप्रबुद्धेनार्चितोदयः ।। ६ ॥
स शक्तिस्वामिनं पुत्रमवाप ६श्रुतशालिनम् ।
राज्ञः कर्कोटवंशस्य मुक्तापीडस्य भत्रिणम् ॥ ७ ॥
कल्याणस्वामिनामास्य याज्ञवल्क्य इवाभवत् ।
तनयः शुद्धयोगर्द्धिनिर्धूतभवकल्मषः ॥ ८॥
अगाधहृदयात्तस्मात्परमेश्वरमण्डनम् ।
अजायत सुतः कान्तश्चन्द्रो दुग्धोदधेरिव ॥ ९॥
पुत्रं कृतजनानन्दं स जयन्तमजीजनत् ।
७आसीत्कवित्ववक्तृत्वफला यस्य सरस्वती ॥ १० ॥
वृत्तिकार इति व्यक्तं द्वितीयं नाम बिभ्रतः ।
वेदवेदाङ्गविदुषः सर्वशास्त्रार्थवादिनः ॥ ११ ॥
जयन्तनाम्नः सुधियः साधुसाहित्यतत्त्ववित् ।
सूनुः समुदभूत्तस्मादभिनन्द इति श्रुतः ॥ १२ ॥ (युग्मम्)
काव्यविस्तरसंधानखेदालसधियः प्रति ।
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ॥ १३ ॥
पुरुहूतपुरस्पर्धिविभवा भूषणं भुवः ।
बभूव विदिशानाम पुरी वेत्रवतीतटे ॥ १४ ॥
या पुण्यकर्मिणां तेजःशालिनां द्यौरिवास्पदम् ।
रेजे २रत्नगृहज्योतिर्जालैरिन्द्रायुधप्रभैः ॥ १५ ॥ (३युग्मम्)
तस्यां निजभुजोद्योगविजितारातिमण्डलः ।
आखण्डल इव श्रीमान्राजा शूद्रक इत्यभूत् ॥ १६ ॥
अष्टानां लोकपालानां रूपं बिभ्रदपि प्रजाः ।
शश्वदानन्दयंस्ताभिश्चन्द्रमा इत्यवेदि यः ॥ १७ ॥ (४युग्मम् )
स मेदिनीं विनिर्जित्य ५चतुरम्भोधिमेखलाम् ।
६सचिवार्पिततद्भारस्तस्यामास्त यथासुखम् ॥ १८ ॥
७तेनानुद्वेजितजनैरर्थधर्माविरोधिभिः ।
८विनोदैरत्यनीयन्त नवे वयसि वासराः ॥ १९ ॥
तस्य चानन्यलभ्यानां सुखानां पारदृश्वनः ।
यूनोऽपि सुरतक्रीडापराङ्मुखमभून्मनः ॥ २० ॥
प्रयत्नेनापि नावापि सा योषिद्विषमेषुणा ।
हर्तुं शशाक या तस्य हृदयं चक्षुरेव वा ॥ २१ ॥
अथ बाह्याङ्गणस्थानवर्तिनं तं कदाचन ।
प्रसृत्य ९प्रणयप्रह्वा प्रतीहारी व्यजिज्ञपत् ॥ २२ ॥
दूरादुपायनीकृत्य शुकमाश्चर्यचेष्टितम् ।
चण्डालदारिका काचिदागता दर्शनार्थिनी ॥ २३ ॥
श्रुत्वा क्षणं परामृश्य मुखमालोक्य १०मन्त्रिणाम् ।
समादिदेश तां राजा को दोषः प्रविशत्विति ॥ २४ ॥
निजेन लक्ष्मणा लोकस्पर्शं परिहरन्त्यथ ।
मातङ्गकन्यकाविक्षदनुज्ञाता नृपाङ्गणम् ।। २५ ॥
१तया च सह हस्तस्थसशुकखर्णपञ्जरः ।
वहन्नहिंस्रमाकारं चण्डालस्थविरोऽविशत् ।। २६ ॥
प्रविशन्तीं तु तां दृष्ट्वा कन्यामद्भुतदर्शनाम् ।
परं व्यस्मयत क्ष्मापः क्षणं चैवमचिन्तयत् ॥ २७ ॥
इदं रूपमियं कान्तिरिमे २लावण्यशीकराः।
३मर्त्यतामपि न प्राहुर्मातङ्गत्वे तु का कथा ॥ २८ ॥
४तत्सत्यमेव पश्यामि नूनं मातङ्गमायया ।
छन्नेयं देवता काचिन्मर्त्यलोकमुपागता ॥ २९॥
इत्यादि चिन्तयन्तं सा प्रगल्भवनितेव तम् ।
प्रणनाम महीपालमनाकुलविलोकिनी ॥ ३०॥
ततः क्षितितलन्यस्तजानुः प्रणतकंधरः ।
गाढोभयकरासक्तपञ्जरः स्थविरोऽब्रवीत् ॥ ३१ ॥
वैशम्पायननामायं रत्नमत्यद्भुतं शुकः ।
५रत्नानां चास्पदं देवो दुम्बोदधिरिवापरः ॥ ३२ ॥
६इत्यादरेण नः स्वामिदुहित्रायमुपाहृतः ।
प्रसादः ७क्रियतामस्या विहगः परिगृह्यताम् ।। ३३ ।।
इत्युक्त्वा सोऽग्रतो राज्ञः पञ्जरं मणिकुट्टिमे ।
विनिधाय प्रणम्यैनं ८सप्रश्रयमपासरत् ।। ३४ ।।
इङ्गितज्ञा प्रतीहारी विवृतद्वारसंपुटम् ।
अकरोत्पञ्जरं तस्मान्निर्ययौ च विहंगमः ॥ ३५॥
उत्क्षिप्य दक्षिणं पादं जयशब्दमुदीर्य सः ।
९प्रयुक्तवेदमन्त्राशीरिमामार्यामथापठत् ॥ ३६ ।।
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ ३७॥
१तामाकर्ण्य महीपालो विस्मयोत्फुल्ललोचनः ।
कुमारपालनामानं २प्रधानामात्यमब्रवीत् ॥ ३८ ॥
दृष्टं भवद्भिराश्चर्यमीदृशं श्रुतमेव ३वा ।
४तिर्यक्त्वेऽतिशयः सोऽयं यो मनुष्येषु दुर्लभः ।। ३९ ।।
५श्रुताध्ययनसंस्कारो मातङ्गजनसंगतिः ।
मातङ्गेषु च ६कन्येयमित्याश्चर्यपरम्परा ॥ ४०॥
अमात्यस्त्वभ्यघाद्देव७ पूर्वसंस्कारकारिताः ।
८भवन्त्यतिशयाः प्रायः प्राणिनां कोऽत्र विस्मयः ॥ ११ ॥
एतानि तानि लिङ्गानि परलोकानुमां प्रति ।
९तार्किकैरुपपाद्यन्ते १०लोकायतनिराकृतौ ॥ ४२ ॥
विचित्रा वेधसः सृष्टिर्विचित्रा११ कर्मवासना ।
१२विचित्रस्तद्विपाकश्च विचित्रः कालपर्ययः ॥ ४३ ॥
इत्यादिशुकसंबन्धिकथाविच्छेदकारणम् ।
उदभूत्तारगम्भीरो मध्याह्नपटहध्वनिः ॥ १४ ॥
बहिः १३प्रकल्प्यतामस्याः १४सुखायावसथादिकम् ।
अयं चाभ्यन्तरं पत्ररथभूपः प्रवेश्यताम् ॥ ४५ ॥
इत्यादिश्य प्रतीहारीं सभामौज्झन्महीपतिः ।
विससर्ज च राजन्यचक्रं सेवार्थमागतम् ॥ ४६॥
ततः कृताल्पव्यायामः स्नातः पूजितदैवतः ।
हुताग्निः श्रुतविप्राशीर्भुक्त्वा शय्यागृहं ययौ ॥ ४७ ॥
तत्र पर्यङ्कमारुह्य १ध्यात्वैव किमपि क्षणम् ।
तमन्तःपुरविश्रान्तं शुकमानाययत्पुनः ॥ ४८ ॥
तं च कञ्चुकिनानीतमादौ पृष्ट्वा २सुखासिकान् ।
पप्रच्छ कौतुकाक्षिप्तस्तद्वृत्तान्तमनन्तरम् ॥ ४९ ॥
वैशम्पायन को नु त्वं क्व जातः क्वोषितश्चिरम् ।
कुतस्त्यमिदमीदृक्ते कलाशास्त्रादि कौशलम् ॥ ५० ॥
मन्ये जातिस्मरः कोऽपि भवान्भूमिमिमां३ गतः ।
नह्यस्त्यतिशयप्राप्तिरियती पक्षिजातिषु ।। ५१ ।।
केन वा भवतो नाम कृतं विप्रजनोचितम् ।
ईदृशान्यभिधानानि कुतोऽन्त्यजनवेश्मसु४ ।। ५२ ।।
कथं चण्डालसंपर्क५ इह वा कथमागमः ।
इति कार्त्स्न्येन६ वृत्तान्तमात्मनो वक्तुमर्हसि ॥ ५३ ।।
इति पृष्टः क्षितीशेन बहुमानपुरःसरम् ।
क्षणं बुद्ध्यानुसंधाय शुको वक्तुं प्रचक्रमे ।। ५४ ॥
देव विन्ध्याटवी तावत्तव श्रुतिपथं गता ।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी ।। ५५ ।।
यदेकदेशे कण्डूलगण्डेभदलितद्रुमे ।
उषितौ दण्डकारण्ये ससीतौ रामलक्ष्मणौ ।। ५६ ॥ (युग्मम् )
यत्रागस्त्यमुनेरासीदाश्रमः शमिनां मतः ।
लोपामुद्राकराक्षिप्तजलसंवर्धितद्रुमः ।। ५७ ।।
तस्योपकण्ठे पम्पाख्यमस्ति पुण्यजलं सरः ।
सीताकरतलोल्लूनश्रवणाभरणोत्पलम् ॥ ५८ ॥
तस्यास्ति पश्चिमे तीरे जीर्णः शाल्मलिपादपः ।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः ।। ५९ ।।
तस्मिन्कृतकुलायानि वीतभीतीनि दुर्गमे ।
विहंगमसहस्राणि निवसन्ति निरन्तरम् ।। ६०॥
दिवा तान्यभिनिर्वर्त्य१ प्राणयात्रामितस्ततः ।
२तत्रागत्य स्वनीडेषु सुखं रात्रिषु शेरते ।। ६१ ॥
तत्रैव बद्धवसती अभूतां पितरौ मम ।
३जातोऽहमेकस्तनयस्तयोर्वयसि पश्चिमे ।। ६२ ।।
उद्बोढुमसमर्था सा तीव्रां प्रसववेदनाम् ।
तयैव पञ्चतां नीता जननी मे दुरात्मनः ॥ ६३ ।।
जायावियोगदग्धोऽपि४ ५तातः पुत्रैषणातुरः ।
शोकमुत्सृज्य मत्प्राणपोषणे यत्नमग्रहीत् ॥ ६४ ।।
न शशाक क्वचिद्गन्तुमात्मनः प्राणवृत्तये ।
मां वक्षसि निधायास्त नीड एव दिवानिशम् ॥ ६५ ॥
अन्यपत्ररथानीतभुक्तोज्झितफलादिना६ ।
मदाप्यायनशिष्टेन सोऽकरोद्धृत्तिमात्मनः ।। ६६ ॥
अतिक्रामति कालेऽथ किंचिदुद्भिन्नपक्षतौ ।
तातवक्षःस्थलस्थेऽपि मय्युड्डयनलालसे ॥ ६७ ।।
अकस्मादेव संभ्रान्तमृगपक्षिकुलश्रुतः।
अभूत्कलकलस्तस्मिन्नरण्ये यमदुन्दुभिः ॥ ६८ ॥ (युग्मम् )
ततस्तातोरसः किंचिदुन्नमय्य शिरोधराम् ।
कुतूहलवशाच्छक्षुर्दिक्षु ७निक्षिप्तवानहम् ॥ ६९ ॥
अथापश्यमसंख्यातकिरातपरिवारितम्८ ।
वने शबरसेनान्यमायान्तं मृगयारसात् ।। ७० ।।
ततो मृतमिवात्मानमुत्स्वातमिव ९शाल्मलिम् ।
परिवृत्तमिवारण्यं भयेनाहमचिन्तयम्१० ॥ ७१ ॥
१हतप्राणिसहस्राङ्गस्रबद्रुधिरचर्चितैः ।
मुहूर्तादेव २तद्व्याधैरथारण्यमपूर्यत ।। ७२ ॥
सेनापतिः ३स निस्त्रिंशो मृगयाजनितश्रमः ।
निषसाद ४ततः ५पम्पासरसस्तीरशाद्वले ।। ७३ ।।
क्षणं विश्रम्य पीत्वापः प्राश्य बालमृणालिकाः।
पुलिन्दैः सह सेनानीः स जगाम यथागतम् ॥ ७४ ।।
एको जरत्पुलिन्दस्तु पापस्तत्र ६व्यलम्बत ।
प्रांशुर्भयंकराकारः कृतान्तस्येव किंकरः ।। ७५ ॥
अजातपिशितप्राप्तिरनुभूतवृथाश्रमः ।
यमदूतीमिव दृशं स ददौ तत्र शाल्मलौ ॥ ७६ ।।
स दुरारोहतां तस्य जानन्नपि महातरोः ।
जातानध्यवसायोऽपि यत्नमारोहणेऽकरोत् ।। ७७ ॥
७अश्राहमसमत्रासविपर्यासितमानसः ।
अविशं पितुरुत्सङ्गं तत्पक्षावृतविग्रहः८ ॥ ७८ ।।
स तु पापस्तमारुह्य तरुं नीडनिवासिनः ।
हत्वाहत्वा यथाशक्ति शुकान्भूभावपातयत् ॥ ७९ ॥
क्रमेण स दुराचारस्तातस्यापि शिरोधराम् ।
बभञ्ज तं ९च चिक्षेप क्षितौ विगतजीवितम् ॥ ८० ॥
तदा मम न तच्छोको नान्यर्किंचिच्च१० चेतसि ।
केवलं सहजातेन भयेनैवासि विप्लुतः ॥ ८१ ।।
ततोऽहं पितुरुत्सङ्गाद्विनिर्गत्य ससाध्वसम् ।
अन्तरं तरुशीर्णानां पर्णानां तूर्णमाविशम् ॥ ८२ ।।
पापः सोऽप्यवरुह्याथ शाल्मलेर्मूलवर्तिनः ।
शुकान्गतासूनादाय व्याधाननुसरन्नगात् ॥ ८३ ।।
अहं विधिनियोगात्तु तेन १दुष्कृतकारिणा ।
जीर्णपर्णसवर्णत्वात्तदानीं नावधारितः ॥ ८४ ॥
ततो दूरमतिक्रान्ते तस्मिन्दारुणकर्मणि ।
संजातजीविताशं मां पिपासा पर्यबाधत ॥ ८५ ॥
अनुड्डयनसामर्थ्यात्पभ्द्यामेव यथातथा ।
पम्पापुलिनपर्यन्तं गन्तुमैच्छं पिपासितः ।। ८६ ।।
२तथाप्यतिनिरुत्साहः ३पतन्मुहुरितस्ततः ।
तमेव पापकर्माणं शङ्कमानः पदे पदे ॥ ८७ ॥
चिरं हा तात तातेति ४शोचन्कण्ठान्तवर्तिभिः ।
प्राणैरायास्यमानोऽहमतिष्ठमतिनिष्ठुरः ।। ८८ ॥ (युग्मम्)
तस्मादनतिदूरेऽस्ति५ सरसस्तपसां निधेः ।
निर्धूतक्लेशजालस्य जाबालेराश्रमो मुनेः ॥ ८९ ।।
६ततस्तस्मिन्सुतस्तस्य सरसि लातुमागतः ।
हारीतनामा मां तत्र तदवस्थं व्यलोकयत् ।। ९० ॥
कष्टं केनापि पापेन पातितः शुकशावकः ।
कुलायात्क्लाम्यतीत्युक्त्वा७ कृपया मां करेऽग्रहीत् ॥ ९१ ॥
अपाययत्पयोबिन्दून्मरुताश्वासयन्मुहुः ।
कृताह्निकश्च कारुण्यादनयत्पितुराश्रमम् ॥ ९२ ॥
समाश्वस्तस्य हारीततातं दृष्ट्यैव पश्यतः ।
पदं स्थिरमिव न्यस्तं हृदि मे जीविताशया ।। ९३ ।।
नीडच्युतोऽयमानीतो मया विहगपोतकः ।
इति पित्रे प्रणाम्यासौ८ पाणिस्थं ९मामदर्शयत् ॥ ९४ ॥
अथ जाबालिमद्राक्षं साक्षादिव पितामहम् ।
महात्मभिः परिवृतं सानुकम्पैस्तपोवनैः ॥ ९५ ।।
जराधवलमूर्धानं धाम्ना प्रसरता बहिः ।
अनतिस्फुटसंलक्ष्यशरीरावयवाकृतिम् ॥ ९६ ।। (युग्मम् )
स तु मां क्षणमुद्वीक्ष्य स्मयमान इवावदत् ।
इदं हि भुज्यतेऽनेन फलं स्वस्यैव कर्मणः ॥ ९७ ॥
त्रिकालदर्शी भगवान्स हि दिव्येन चक्षुषा ।
विश्वं पश्यति १पाणिस्थबदरामलकादिवन् ॥ ९८ ॥
वचस्तदाकर्ण्य कुतूहलाकुलाः समेत्य सर्वे मुनयस्तमब्रुवन् ।
बभूव कोऽयं भगवन्भवान्तरे २किमस्य वा दुश्चरितं तदुच्यताम् ॥९९।।
३अभ्यर्थितो मुनिभिरित्युपरुध्यमान-
स्तानब्रवीत्कुरुत तावदहः क्रियाः स्वाः ।
सांध्यं विधाय विधिमस्खलितावधान-
माकर्णयिष्यथ कथां पृथुमेतदीयाम् ॥ १०० ।।
उक्तास्तथा४ भगवता मुनयो निजेन
कर्मक्रमेण दिवसं गमयांबभूवुः ।
हारीतहस्तविहितैश्च५ मनोविनोदैस्तैस्तैरनीयत मयापि दिनावशेषः ।। १०१ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभाट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
प्रथमः सर्गः।
द्वितीयः सर्गः।
सम्पाद्यताम्अथ ७संध्यासमाध्यन्ताः समाप्य मुनयः क्रियाः।
शुश्रूषवः समागम्य ८यथास्थानमुपाविशन् ॥१॥
अहमप्यात्मवृत्तान्तविस्तरश्रवणोत्सुकः ।
संहृत्य चापलं सर्वमासं स्थिरमनास्तदा ॥२॥
अथ दुग्धाब्धिकल्लोलधवलैरमृतञ्चितैः ।
सिञ्चन्निव करैरिन्दुरुदगादाश्रमस्थलीम्१ ॥ ३ ॥
भगवानथ२ जाबालिः सुखासीनः स्वविष्टरे ।
वल्कलाहितपर्यङ्कबन्धो वक्तुं प्रचक्रमे ॥ ४ ॥
सर्वे दत्तावधानाः स्थ शृणुतेमा तपोधनाः ।
अमुष्य पूर्ववृत्तान्तप्रस्तावोपनतां३ कथाम् ॥ ५॥
अस्त्यवन्तिषु संसारसलक्ष्म्याः प्रसवभूरिव ।
निधिरुज्जयिनी नाम नगरी गुणसंपदाम् ॥ ६॥
लङ्कालकामरावत्यो येषां वसतयः प्रियाः ।
तेऽपि यामभिपश्यन्तः सुखं तासु न शेरते ॥ ७॥
४किमन्यद्यत्र कैलासनिवासप्रीतिमुज्झता ।
महाकालाभिधानेन रुद्रेण स्वयमास्यते ॥ ८॥ (५तिलकम् )
६तस्यां भरतमांधातृभगीरथपृथूपमः ।
तारापीड इति श्रीमान्बभूव७ पृथिवीपतिः ॥ ९॥
परस्परविरोधेन विप्रकीर्णैरितस्ततः ।
विस्रब्धमास्यते यत्र संभूय ८सकलैर्गुणैः ॥ १० ॥ (युग्मम् )
विहसन्बुद्धिविभवैर्भृगूद्वहबृहस्पती९ ।
अमात्य शुकनासाख्यो ब्राह्मणस्तस्य चाभवत् ।। ११॥
त्रिविक्रमपदाक्रम्य स राजा पृथिवीमिमाम् ।
तस्मिन्मन्निणि तद्भारं निचिक्षेप भरक्षमे ॥ १२ ॥
तथा च१० पालयामास स मन्त्री सकलाः प्रजाः ।
यथा त्रिविधमप्येता न दुःखं किंचिदस्पृशत्११ ॥ १३ ॥
यथा यथा च लोकोऽस्मिन्पितरीवान्वरज्यत१२ ।
राजा तथा तथात्मानं कृतकृत्यममन्यत ।।१४।।
अक्लेशमर्पितं१ तेन स्वभुजे २जगदर्जनम् ।
संभोगविघ्नकारीति पालनं मन्त्रिसात्कृतम् ॥ १५ ॥
कृतकृत्यतया चासौ कार्यशेषमचिन्तयन् ।
विषयेष्वाहितप्रीतिरासांचके यथासुखम् ॥ १६ ॥
शोभा हि कृतकृत्यस्य राज्ञो भोगविभूतयः ।
असमाप्तजिगीषस्य ता एव तु विडम्बनाः ॥ १७ ॥
स युवा मधुराकारस्तरुणीनयनोत्सवः ।
३कलासु कुशलः कामी बुभुजे भोगसंपदः ॥ १८ ॥
न ते भोगा४ न ताः क्रीडा न ता गोष्ठ्यो न ते रसाः ।
न ते विलासा ५येष्वस्य पारगं नाभवन्मनः ॥ १९ ॥
समग्रसुखसंभोगभूमिज्ञोऽपि स६ भूपतिः ।
सुखमेकं तु नाज्ञासीदपत्यालोकनोद्भवम् ।। २० ॥
यथा यथास्य कालेन व्यतीयाय नवं चयः ।
७निरपत्यतया शोको वर्धते स तथा तथा ॥ २१ ॥
मुख्यभूता च सर्वस्मिन्नन्तःपुरकदम्बके ।
राजी विलासवत्याख्या ८तस्य प्राणसमाभवत् ॥ २२ ॥
सा राजमहिषी गौरीमभ्यर्चयितुमेकदा ।
देवतायतनं बाह्यं ययौ भर्तुरनुज्ञया ॥ २३ ॥
पुराणे वाच्यमानेऽथ९ प्रसङ्गपतितां श्रुतिम् ।
अपुत्रस्य कुतो लोका इति शुश्राव तत्र सा ॥ २४॥
प्रतप्तलोहसूचीव सा श्रुतिः श्रवणान्तरम् ।
विवेश १०ददती तस्याः परां कामपि वेदनाम् ॥ २५ ॥
ततः प्रतिनिवृत्ताथ प्रविश्य भवनं निजम् ।
वस्त्रावृतमुखी भूमावुपविश्य रुरोद सा ॥ २६ ॥
सखीभिः प्रार्थ्यमानापि न स्वामभजत स्थितिम् ।
१नोदस्थात्कर्तुमाहारं विरराम न रोदनात् ॥ २७ ॥
अथोपलभ्य २तत्पीडावार्तो परिजनान्नृपः ।
प्रविश्यान्तःपुरं प्राह स्वैरमेनां प्रसादयन् ॥ २८ ॥
प्रिये किमिदमारब्धं रुद्यते किमकारणम् ।
न त्वया ३मत्कृते मन्युरनुभूतः कदाचन ॥ २९ ॥
अन्योऽपि ४मन्मुखप्रेक्षी मदधीनात्मजीवितः ।
कस्तवोत्पादयेन्मन्युं यस्मै कुप्यसि सुन्दरि ।। ३० ॥
इति प्रसाद्यमाना सा यदा नोवाच किंचन ।
तदा विदितवृत्तान्तस्तत्सख्या ५नृपतिः कृतः ॥ ३१ ॥
तेन व्यतिकरेणाथ सोऽपि ६शोकपरायणः ।
रुरोद वक्षसि न्यस्तसबाष्पदयितामुखः ॥ ३२ ॥
चिरं रुदित्वा निःशब्दं स्वयमुत्सृज्य लोचने ।
जगाद गद्गदं राजा महिषीमुपसान्त्वयन् ॥ ३३ ॥
ममापि नन्वियं देवि चिरात्प्रभृति दुःसहा ।
दुनोति हृदयं ७चिन्ता निष्प्रतीकाररोगवत् ॥ ३४ ॥
विफलं बत मे राज्यं विफला मम ८संपदः ।
विफला मम संभोगा विफलं मम जीवितम् ॥ ३५ ।।
९कुतोऽस्माकमभव्यानामियत्यो भाग्यसंपदः ।
यद्द्रक्ष्यामस्तबोत्सङ्गं बालकापत्यमण्डितम् ॥ ३६॥
वाञ्छन्क्रीडनकं किंचित्कदा१० मे पापकर्मणः ।
आकृष्यति सुतः कूर्चं किमप्यव्यक्तमालपन् ।। ३७ ।।
इत्यादि विलपत्यस्मिन्बाष्पाकुलितलोचने ।
शुकनास इमां वार्तां११ श्रुत्वा सत्वरमाययौ ।। ३८ ॥
निरपत्यः कृतः सोऽपि राजेव हतवेधसा ।
तस्याप्यनेन शोकेन गृहे रोदिति गेहिनी ॥ ३०॥
स तु स्वामिगतं दुःखं दुःखमित्यवधारयन् ।
तद्दुःखापनयोपायप्रवणो १धीरमभ्यधात् ॥ ४० ॥
क्व धीरप्रकृतिर्देवः क्वेयं विक्लवचित्तता।
शोकोऽवकाशं लभते हृदये न भवादृशाम् ॥ ११ ॥
२यदि हि स्त्रीस्वभावेन देवी विक्लवतां गता।
तत्किं प्रलम्बकूर्चस्य युक्तं देवस्य रोदितुम् ॥४२॥
कोऽयं हिताहितप्राप्तिपारिहारक्रियाक्रमः ।
यत्क्रपोलतलन्यस्तहस्तं निःश्वस्यते चिरम् ॥ ४३ ॥
यदि ३दुःखासिका सत्यमनपत्यतया तव ।
बुद्धिराधीयतां धर्मे धर्मात्सर्वमवाप्यते ॥ १४ ॥
दीयतां वसु विप्रेभ्यः पूज्यन्तां सर्वदेवताः।
प्रवर्त्यन्तां प्रपारामाः स्वन्यन्तां सलिलाशयाः ॥ ४५ ॥
४नास्तिनाम जगत्यस्मिन्पुरुषार्थः स कश्चन ।
यो धर्मनिरतैर्धीरैस्त्वादृशैर्नाधिगम्यते ॥ ४६॥
इत्यादि शुकनासोक्तमाकर्ण्य विगतज्वरौ ।
उत्थाय स्वस्थवत्सर्वा दंपती चक्रतुः क्रियाः ॥ १७ ॥
ततः प्रभृति दानानि यागहोमतपांसि६ तौ।
७चित्राण्यकुरुतां सर्वा व्यस्मयन्त ८ततः प्रजाः ॥ १८ ॥
कदाचिदथ भूपालः स्वप्नेऽपश्यन्निशाकरम् ।
विलासवत्या वदनं प्रविशन्तमखण्डितम् ॥ ४९ ॥
तथा मनोरमा नाम शुकनासस्य गेहिनी ।
स्वमे सपुण्डरीकाङ्का सापि तेन व्यलोक्यत ॥ ५० ॥
अन्येद्युरुदये भानोर्मङ्गलाचारपूर्वकम् ।
तं स्वप्नं १कथयामास शुकनासाय भूपतिः ।। ५१ ॥
सानन्दं सोऽभ्यधादेनं २संपन्नास्ते मनोरथाः ।
अचिरात्सोप्यते देवी पुत्रं पूर्णेन्दुसुन्दरम् ॥ ५२ ।।
दिनेष्वथ व्यतीतेपु केपुचिद्गर्भमग्रहीत् ।
महिषी तत्सखीभ्यश्च तमज्ञासीन्नरेश्वरः ॥ ५३ ।।
ताभ्यः प्रादात्स वासांसि चित्राण्याभरणानि च ।
क्रमेण गर्भलिङ्गेषु व्यक्तेषु मुमुदेतराम् ॥ ५४ ॥
शुकनासाय चोवाच प्रहर्षोत्फुल्ललोचनः ।
चकाङ्क्ष चातको मेघानिव प्रसववासरान् ॥ ५५ ॥
३संपूर्णे दशमे मासि देवी सुतमसूत सा ।
हर्षेण च जगत्सर्वं परिवृत्तमिवाभवत् ॥ ५६ ।।
राजा महोत्सवानन्दपूर्णपात्रमुपाहृतम्४ ।
दृष्ट्वा लोकेषु माति स्म न ५त्रिविक्रमवत्रिषु ।। ५७ ॥
शुकनासस्तु राजानं कण्ठे जग्राह निर्भरम्६ ।
औत्सुक्यात्सूतिकावासं तावुभावपि जग्मतुः ॥ ५८ ।।
ततो ददृशतुर्व्यक्तसकलाङ्गं७ कुमारकम् ।
इन्दोरुदयरागार्द्रं नवं बिम्बमिवोदितम् ॥ ५९ ।।
शुकनासो निरूप्याङ्गमेकैकं निपुणं शिशोः ।
हस्ते भूपालमालम्ब्य हर्षगर्भमभाषत । ६० ।।
अयं शङ्ख इदं चक्रमियमूर्णेदमम्बुजम् ।
८पश्य बालस्य चिह्नानि दृश्यन्ते चक्रवर्तिनाम् ॥ ६१ ॥
योऽसौ स्वप्ने त्वया दृष्टश्चन्द्रो देवीमुखं९ विशन् ।
स एवायमिहोत्पन्न इति मा संशयं कृथाः ।। ६२ ॥
इति तद्दशनानन्दमुधाप्लावितयोस्तयोः ।
१शुकनासस्य राज्ञश्च हर्षाब्धिर्ववृधेतराम् ।। ६३ ।।
२अत्रान्तरे मन्त्रिगृहादागत्य द्वाररक्षकः ।
शुकनासगृहे पुत्रजन्मोत्सवमचीकथत् ॥ ६४ ॥
शुकनासमथाभीक्ष्णमालिलिङ्ग३ महीपतिः ।
उत्तरीयं जहारास्य पूर्णपात्रमिति स्वयम् ।। ६५ ।।
उवाच चैनं पश्येदं सुखस्योपरि नः सुखम् ।
इमे ते पतिताः सत्यं तुहिने सोमरश्मयः ।। ६६ ।।
साध्विदं वेधसारब्धं ४चित्तानुगुणमावयोः ।
सहैव पात्रतां नीतौ यदावां सुखदुःखयोः ।। ६७ ॥
ततस्तूर्यरवैर्नृत्यैश्चर्चरीतालनिःखनैः ।
सिन्दूरधनसारादिक्षोदैः कुङ्कुमकर्दमैः ॥ ६८ ।।
अनपेक्षितनीचोच्चव्यवहारनिरर्गला ।
केलिः प्रववृते तत्र राजगेहमहोत्सवे ॥ ६९ ।। (युग्मम् )
राजा तु स्वगृहे केलिविमर्दं वीक्ष्य तादृशम् ।
शुकनासगृहं गत्वा द्विगुणं तमकारयत् ।। ७० ।।
कृतेऽथ जातकर्मादौ वृत्ते षष्ठीप्रजागरे ।
विलासवत्यां स्नातायां शुचौ काल उपस्थिते ।। ७१ ॥
प्रशस्तेऽहनि दैवज्ञैरनुज्ञातो महीपतिः ।
स्नातः ६सुवर्णलक्षेण पूजयित्वा द्विजोत्तमान् ।। ७२ ॥
स भूषणानि वासांसि वर्षन्परिजने शिशोः ।
चन्द्रापीड इति स्वप्नसदृशं नाम निर्ममे ।। ७३ ।। (तिलकम् )
शुकनासोऽपि संपूज्य विप्रान्विप्रजनोचितम् ।
वैशम्पायन इत्यात्मसूनोर्नाम ७प्रणीतवान् ।। ७४ ॥
क्रमेण वर्धमानोऽथ कृतचूडादिमङ्गलः ।
चन्द्रापीडोऽभवपित्रोः परमुत्सङ्गमण्डनम् ॥ ७५ ।।
आकारेणेन्दुकान्तेन१ मधुरैर्बालवल्गितैः ।
अव्यक्तवर्णैरालापैरहरत्स२ तयोर्मनः ॥ ७६ ॥
प्राप्तेऽथ सप्तमे वर्षे विद्यागृहमकारयत् ।
चन्द्रापीडस्य नगराद्बहिर्बहुगुणं नृपः ।। ७७ ॥
कृतोपनयनं चैनं काले क्षत्रजनोचिते।
तत्र न्यवेशयद्राजा विद्याधिगमसिद्धये ॥ ७८ ॥
तर्कव्याकरणाभिज्ञान्धनुर्वेदविशारद्वान् ।
दण्डनीत्यादिनिपुणानाचार्यान्पर्यकल्पयत् ॥ ७९ ।।
शुकनासोऽपि तं पुत्रमुपनीय यथाविधि ।
राजपुत्रानुगं चक्रे विद्यागृहनिवासिनम् ॥ ८० ॥
नृपतिस्त्वगमदृष्टं पुत्रं गुरुकुले३ स्थितम् ।
४प्रार्थितोऽपि स तन्मात्रा नैनमानाययद्भृहम् ॥ ८१ ॥
पूर्णषोडशवर्षोऽथ५ राजपुत्रः कुशाग्रधीः ।
सकृदध्यापितो विद्याः पूर्वाभ्यस्ता इवाग्रहीत् ।। ८२ ।।
सर्वशास्त्रार्थतत्वज्ञः सर्वभाषासु सत्कवीः ।
सर्ववादेषु६ वक्ताभूत्सर्वशास्त्रेषु कोविदः ॥ ८३ ॥
प्रौढः कलासु सर्वासु दक्षः सर्वेषु कर्मसु ।
सर्वेषु७ व्यवहारेषु सोऽभूदस्खलितक्रमः ॥ ८४ ॥
क्रमेण वर्धमानश्च स व्यायाममसेवत ।
शुशुभे च८ तदभ्यासप्राप्तसर्वाङ्गसौष्ठवः ।। ८५ ॥
प्रलम्बबाहुः पीनांसः पृथुवक्षास्तनूदरः।
गम्भीरबाहुर्वृत्तोरुस्तरुणः करिसदगतिः ॥ ८६ ॥
शुकनाससुतस्तस्य १प्रतिबिम्ब इवाभवत् ।
गुणैरशेषैरन्यत्र शरीरप्राणगौरवात् ।। ८७ ॥
राजा तु तं सुतं बुद्ध्वा कृतार्थ गुरुवेश्मनः ।
शुकनासगिरा गेहमानेतुमुपचक्रमे ॥ ८८॥
स बलाहकनामानमाहूय ध्वजिनीपतिम् ।
पुण्येह्नि प्राहिणोत्पुत्रमानेतुं कृतमङ्गलः ॥ ८९ ॥
सहस्रं राजपुत्राणां विनीतं बाहुशालिनाम् ।
२विससर्ज च तेनैव सह ३पुत्रानुवर्तिनम् ॥ ९० !!
तथेन्द्रायुधनामानं प्रेषयामास वाजिनम् ।
जितोच्चैःश्रवसं तैस्तैरनन्यसदृशैर्गुणैः४ ॥ ९१ ॥
बलाहकस्ततो गत्वा विद्यागृहनिवासिनम्५ ।
अद्राक्षीद्राजपुत्रं तं प्रणनाम च सादरम् ॥ ९२ ।।
आचचक्षे च राजाज्ञां गृहमागम्यतामिति ।
सनामग्रहणं चास्मै६ राजपुत्रान्न्यवेदयत् ॥ ९३ ॥
ततो बलाहकाख्यातशौर्यादिगुणगौरवाः ।
राजपुत्राः प्रणेमुस्तं पुरंदरमिवामराः७ ॥ ९ ॥
पर्याणरत्नज्योतिर्भिर्जनितेन्द्रायुधप्रभम् ।
इन्द्रायुधं प्रवेश्याश्वं८ पुनराह बलाहकः ॥ ९५ ।।
इममारोह सिन्धूत्थमश्वरत्नमयोनिजम् ।
पारसीकाधिपतिना देवस्योपायनीकृतम् ॥ ९६ ॥
चन्द्रापीडस्तु तं दृष्ट्वा९ तुरंगममनुत्तमम् ।
परं विस्मयमापेदे चिरं चैवमचिन्तयत्१० ॥ ९७ ॥
हृदयं मे ब्रवीत्येवं११ नैष सत्यं तुरंगमः ।
कोऽपि केनापि शापेन१२ नूनं तुरगतां गतः ॥ ९८ ॥
अयोनिजत्ववार्तेयमेतत्संकल्पसाक्षिणी ।
रम्भा किलाप्सरःकन्याशापेन वडवाभवत् ॥ ९९ ॥
गरुत्मतीदर्मुच्चत्वमुच्चैःश्रवसि२ वा भवेत् ।
तेजसामाकृतेर्वापि३ न सामान्येषु वाजिषु ॥ १०० ॥
इति बुध्या४ विकल्प्याथ बलाहकसमर्पितैः ।
कुसुमस्रगलंकारदुकूलैः कृतमण्डनः५ ॥ १०१॥
गुरूनामन्य दत्ताशीर्ब्राह्मणैर्बन्दिभिः स्तुतः ।
वैशम्पायनमारूढमालोक्य तुरगान्तरम् ।। १०२ ॥
योऽसि सोऽसि नमस्तुभ्यमारोहातिक्रमस्त्वया ।
मर्पणीयोऽयमस्माकमारुरोहेति तं वदन् ॥ १०३ ॥ (तिलकम्)
स इन्द्रायुधमारुह्य वैनतेयमिवाच्युतः ।
अपि त्रिजगतीं कृत्स्नां मेने हस्तगतामिव ॥ १०४ ॥
सवैशम्पायनः सोऽथ निर्गत्य भवनात्ततः ।
राजपुत्रैः परिवृतो विवेश नगरीं शनैः६ ॥ १०५ ।।
तमथ पुरतरुण्यो राजमार्गेण यान्तं
ददृशुरतुलकान्ति सौधवातायनस्थाः।
व्यपगतगुरुलज्जाः संभ्रमोत्कम्पिताङ्गयः
स्मरजनितविकारैर्लोचनैरर्चयन्त्यः ॥ १०६ ।।
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीविजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
द्वितीयः सर्गः।
तृतीयः सर्गः।
सम्पाद्यताम्स प्राप्य नृपतिद्वारमवतीर्य तुरंगमात् ।
राजधानीं ससेनानीः सवैशम्पायनोऽविशत् ॥ १॥
प्रविश्य च सभामध्ये हर्षबाष्पार्द्रक्षुषः ।
न्यस्तजानुः क्षितौ मूर्ध्ना ववन्दे चरणौ पितुः ॥ २ ॥
आलिलिङ्ग च१ तं राजा चुचुम्ब शिरसि २क्षणात् ।
ग्रहीतुमैच्छदुत्सङ्गे स तु भूमावुपाविशत् ॥ ३ ॥
द्रष्टुं पुनःपुनः ३स्प्रष्टुमतृप्तेनापि भृभुजा ।
विसृष्टोऽथ ४क्षणं स्थित्वा मातरं वन्दितुं ययौ ॥ ४ ॥
तां सुतालोकनानन्दक्षरत्क्षीरपयोधराम् ।
प्रणम्य जननीः सर्वा नन्दयामास वन्दनैः ॥५॥
अभिनन्द्य कृतं ताभिरवतारणमङ्गलम् ।
शुकनासमथ द्रष्टुमयासीत्तस्य मन्दिरम् ॥ ६ ॥
द्वारि वाजिनमुत्सृज्य प्रविश्य प्रश्रयेण तम् ।
पितृवत्प्रणनामासौ५ मौलिना मेदिनीं स्पृशन् ।। ७ ।।
नमन्तमेनमुत्थाप्य स्वयमुत्थाय सादरम् ।
शुकनासस्तु जग्राह कण्ठे पुलकिताननः ॥ ८॥
कृतयत्नोऽपि नाध्यास्त चारुचामीकरासनम् ।
चन्द्रापीडः क्षितावेव तस्य न्यविशताग्रतः ॥ ९॥
शुकनासं च मुञ्चन्तमासनं स्वं न्यवारयत् ।
तत्र क्षणमिव स्थित्वा द्रष्टुमागान्मनोरमाम्६ ॥ १० ॥
सप्रश्रयं प्रणम्याथ तां विलासवतीमिव ।
ततोऽवाप्तविचित्राशीर्मङ्गलो निरियाय सः ।। ११ ।।
७यादृक्च चन्द्रापीडस्य दर्शनालिङ्गनक्रमः।
स वैशम्पायनस्यापि तादृगेव गृहद्वये ।। १२ ।।
न कश्चन सुतस्नेहे विशेषश्च तयोरभूत् ।
मन्त्रिणो राजपुत्रे वा मन्त्रिपुत्रे नृपस्य वा ॥ १३ ॥
सर्वोपकरणोपेतं पित्रा पूर्वे प्रकल्पितम् ।
जगाम चन्द्रापीडोऽथ कुमारभवनं महत् ॥ १४ ॥
१सुसंनिवेशमालोक्य २रेमे तत्र चिराय सः ।
स्थितिमिन्द्रायुघस्यापि स्ववासे पर्यकल्पयत् ॥ १५ ॥
३ततः स्नातानुलिप्ताङ्गं कृताहारं सुखस्थितम् ।
मात्रा विसृष्ट ४आगत्य कच्चुकी तमभाषत ॥ १६ ॥
इयं हि पत्रलेखाख्या ५कुलूतेश्वरकन्यका ।
केनापि दैवयोगेन परिभ्रष्टा पितुर्गृहात् ।। १७ ॥
बालैव वर्धिता देव्या स्वयमन्तःपुरे निजे ।
योग्या सकलविस्रम्भभूमिस्ते पार्श्ववर्तिनी ॥ १८ ॥
मत्वेति देव्या प्रहिता कुमार प्रतिगृह्यताम् ।
इत्युक्त्वोपाहरत्कन्यां विनीतां प्रियदर्शनाम् ॥१९॥ (तिलकम्)
सा तु तेनार्पिता कन्या ततः प्रभृति तं तथा ।
असेवत यथा चास्य६ निजं७ चित्तामिवाभवत् ॥ २० ॥
चकार तां च ८ताम्बूलकरङ्कस्याधिकारिणीम् ।
तुतोष च गुणैरस्याः शीलाचारनयादिभिः ॥ २१ ॥
कियत्स्वपि व्यतीतेषु दिवसेष्वथ पार्थिवः ।
यौवराज्यविधौ ९सूनोरभियोगमशिश्रियत् ॥ २२ ॥
संभव्य शुकनासेन सह विस्रम्मनिर्भरम् ।
संभारसंग्रहारम्भमकरोत्कृतमङ्गलः ॥ २३ ॥
संनिकृष्टाभिषकं च दर्शनार्थमुपागतम् ।
चन्द्रापीडमथोवाच शुकनासः सविस्तरम् ।। २४ ।।
तात विज्ञातशास्त्रस्य विनयाचारशालिनः१० ।
नाल्पमप्युपदेष्टव्यमस्ति स्थिरमतेस्तव ॥ २५ ॥
किं तु लोकोत्तरा लक्ष्मीरभिराममिदं वपुः ।
नवं वयः परा शक्तिरिति दुर्विषहो भरः ॥ २६ ॥
लक्ष्मीर्नाम १परं पुंसामन्यथाभावकारणम् ।
विरलास्ते विकाराय न येषां तत्परिग्रहः ॥ २७ ॥
पुष्णाति तीब्रमूष्माणं हिनस्ति २व्यक्तवादिताम् ।
करोति ३भक्तविद्वेषमसमः श्रीकृतो ज्वरः ॥ २८ ॥
न पश्यन्ति न शृण्वन्ति ४नापेक्षन्ते हिताहितम् ।
न विद्मः ५किं नु चेष्टन्ते कष्टं श्रीविप्लुता नराः ॥ २९ ॥
६क्रमागतेति नैतस्यामाश्वासः कोऽपि विद्यते ।
ह्योऽपि यत्रोषिता ७लक्ष्मीस्तत्रैवाद्य न दृश्यते ॥ ३० ॥
८वातरक्ताभिभूतेव भिन्नपादेव कण्टकैः।
लक्ष्मीर्निधातुं शक्नोति न क्वचिन्निर्भरं पदम् ॥ ३१ ॥
श्रीः सपत्नीमिव द्वेष्टि दृष्टिं सत्पथवर्तिनीम् ।
तां विना ९यत्र तत्रैव पतन्त्यन्धा इवेश्वराः ॥ ३२ ॥
सत्पथस्योपदेष्टारस्तेषां प्रविरला नराः ।
१०धूर्तैरेते हि भुज्यन्ते हृदयानुप्रवेशिभिः ॥ ३३ ॥
आपातरमणीयेषु विषयेषु निरर्गलम् ।
तैरेव हि प्रवर्त्यन्ते मुखामाधुर्यपण्डितैः ॥ ३४ ॥
धूर्तप्रतारिताश्चैते विषयासक्तचेतसः ।
अकस्मात्प्रलयं यान्ति गीतरक्ता मृगा इव ।। ३५॥
विषयेष्वतिकष्टोऽयं विषयः स्त्रीति नाम यः ।
जीवत्यन्यैः किलाकृष्टस्तेनीकृष्टो११ न जीवति ॥ ३६ ॥
खलेष्वकृतविस्रम्भो१२ विषयेष्वनिमग्नधीः ।
साधुष्वभिमुखो१३ नित्यं महतीं श्रियमश्नुते ॥ ३७ ॥
स त्वं न बञ्चयसे धूर्तैर्न साधुभिरुपेक्ष्यसे ।
यथा न २बाध्यसे कामैः प्रयतेथास्तथा३ सदा ॥ ३८॥
कामं भवान्प्रकृत्यैव धीरः पित्रा च संस्कृतः ।
त्वद्गुणेष्वतिसंतोषो४ मुखरीकुरुते स्म५ माम् ॥ ३९ ॥
युवराज धुरं पित्रा कल्पितामुद्वह स्थिराम् ।
विजितामपि चानेन पुनर्जय वसुंधराम् ॥ ४० ॥
इत्युक्त्वा विररामासौ तत्कल्याणपरायणः ।
चन्द्रापीडस्तु तद्वाग्भिरलंकृत इवाभवत् ।। ४१ ।।
अथ पुण्येऽहनि स्नातं विधिवत्कृतमङ्गलम् ।
यौवराज्ये प्रियं पुत्रमभ्यषिञ्चन्महीपतिः ।। ४२ ।।
अभिषेकोत्सवस्तस्य जन्मलाभोत्सवादपि ।
अधिकः सर्वलोकस्य बभूवानन्दवर्धनः ।। ४३ ॥
सर्वाभ्यो दिग्भ्य आजम्मुर्गृहीतोपायना नृपाः ।
द्विजाश्च तुतुषुः ६प्राप्तगोमूकनकदक्षिणाः ।। ४४ ॥
७अन्यत्राहनि दैवज्ञश्लाघ्ययोग्यगुणान्विते ।
ददौ दिग्विजये यात्रां युवराजो नृपाज्ञया ॥ ४५ ॥
कृतप्रस्थानहोमोऽसौ विधिज्ञेन पुरोधसा ।
शस्त्रास्त्रचक्रमभ्यर्च्य शास्त्रोक्तैर्मन्त्रविस्तरैः ॥ ४६॥
८कृतस्वस्त्ययनो विप्रैः प्रचुरस्वर्णतोषितैः ।
९यत्नरुद्धास्रया मात्रा कृतप्रस्थानमङ्गलः ॥ ४७ ।।
शङ्खदुन्दुभिनिर्धोषमुखरीकृतदिङ्गुरवः ।
स्तुतस्तारं पठद्भिश्च सूतमागधबन्धिभिः ॥४८॥
स्रग्विलेपनदीपादिसंभारार्चितदैवतः ।
पितरौ शुकनासं च प्रणम्य निरगाद्गृहात् ॥४९॥ (चक्कलकम्)
इन्द्रायुधमथारुह्य पौरजानपदाशिषः ।
शृण्वन्नगर्याः पूर्वेण द्वारेण निरियाय सः ॥ ५० ॥
ततोऽनुगम्यमानोऽसौ बलाहकनिवेदितैः ।
सहस्रसंख्यैः १क्षितिपैरुल्लसच्छत्रचामरैः ॥५१॥
वैशम्पायनमेकत्र पार्श्वे श्वेताश्ववर्तिनम् ।
अन्यत्र पत्रलेखां च पश्यन्नश्वतरीस्थिताम् ।। ५२ ॥
तस्मिन्नहनि स स्तोकं २प्रस्थायोच्छ्रिततोरणम् ।
चित्रं निवासमध्यास्त ३सिप्राकूले ४प्रकल्पितम् ॥५३॥ (तिलकम् )
अथापरेद्युरुत्थायाशेषाभरणभूषितः ।
प्रावर्तत प्रबन्धेन प्रस्थातुमतुलोद्यमः ।। ५४ ।।
५पीडयन्नथ सैन्येन पातालतलवासिनः ।
रजसा च तदुत्थेन स्थगयन्गगनस्थितान् ॥ ५५ ॥
नमयन्नुन्नतान्भूपानानतान्परिपालयन्६ ।
७अवशानुत्खनन्कांश्चिदुखातान्प्रतिरोपयन् ।। ५६ ।।
विश्वासयन्नविश्वस्तान्संरक्षञ्शरणागतान् ।
८दस्यूनुत्सादयन्दण्डैः साधूनसंमानयन्धनैः ।। ५७ ।।
ब्राह्मणेभ्यो ददाद्ग्रामान्कुर्वन्देवकुलावलीः ।
९नवानि निजचिह्नानि १०तत्र तत्र प्रवर्तयन् ॥ ५८ ॥
वर्षत्रितयमात्रेण समग्रामर्णवावधिम् ।
स बभ्राम प्रबन्धेन मांधातेव वसुंधराम् ॥ ५९॥ (कुलकम् )
जिगाय प्रथमं प्राचीं दिशं तदनु दक्षिणाम् ।
११तः प्रतीचीं पश्चाच्च प्रतापनिधिरुत्तराम् ।। ६० ।।
अथ हेमजटाख्यानां किरातानां निकेतनम् ।
स सुवर्णपुरं १२जित्वा दण्डं जग्राह हेलया ॥ ६१ ॥
या च कैलाससीमान्तर्भूर्नितान्तममनोरमा ।
तस्यां दिग्विजयश्रान्तः कियतोऽप्यास्त२ वासरान् ।। ६२ ।।
एकदा तु३ स तत्स्थानादारुह्येन्द्रायुधं वने ।
मृगयानिर्गतोऽपश्यत्किंनर्या सह किंनरम् ॥ ६३ ॥
आलोक्य ४कौतुकाकृष्टदृष्टिरश्वमुखौ च तौ।
आदित्सुःप्रेरयामास तावेव प्रति वाजिनम् ॥ ६४ ।।
अपूर्वपुरुषालोकत्रासात्कैलासकंदरम् ।
प्रवेष्टुकामौ ५महता वेगेनानुससार तौ ।। ६५ ॥
पार्ष्णिप्रहरणाभ्यासग्राहितोदग्ररंहसा६ ।
पञ्चयोजनमाना७ भूस्तेनाश्वेन व्यलङ्घ्यत ।। ६६ ॥
तौ च पर्वतमारूढावग्रतस्तस्य८ किंनरौ ।
ततस्तंद्ग्रहणाकाङ्क्षा हृदयादुत्ससर्ज सः ॥ ६७ ।।
अशक्तोदनुसर्तुं१० च कश्चित्परिजनो न तम् ।
तार्क्ष्येणाप्यनुगम्येत धावन्निन्द्रायुधः कुतः ॥ ६८ ॥
अथ वल्गां समाकृप्य श्रमखेदार्द्रविग्रहम् ।
दृष्ट्वैकाकिनमात्मानं श्वसन्तं च तुरंगमम् ॥ ६९ ।।
निर्वर्णयंस्तमुद्देशं ११मानुषाणामगोचरम् ।
विहस्यैवात्मनात्मानं सानुतापमचिन्तयत् ॥ ७० ॥
अहो किमपि मे मौर्ख्यमस्थानाभिनिवेशिनः ।
यदात्मा १२बालकेनेव व्यर्थमायासितो मया ॥ ७१ ।।
अगृहीतेन को१३ वार्थः कोऽर्थः प्राप्तेन वामुना१४ ।
किंनरद्वितयेनेति मया मूढेन नेक्षितम् ।। ७२ ।।
पन्था निरूपितो नायमाविष्टेनेव धावता ।
न चात्र लभ्यते मर्त्यो मम मार्गस्य देशिकः१ ॥ ७३ ॥
श्रूयते किल वर्षस्य भारतस्यावसानभूः ।
कैलाससंनिकृष्टयमिह मर्त्यस्य का कथा ॥ ७४ ॥
वने पर्णतृणाकीर्णे पादमुद्राश्च वाजिनः ।
न २स्युर्यदनुसारेण यास्यामि शिबिरं ३निजम् ॥ ७५ ॥
केवलं दक्षिणामाशां पुरस्कृत्य यथातथा ।
गन्तव्यं किं तु मध्याह्नसमयोऽयमुपस्थितः ॥ ७६ ॥
अनुभूतोऽतिमात्रं४ च खेदस्तदिह सांप्रतम् ।
लब्ध्वा कुतोऽप्यपस्ताभिर्यास्यामि विगतश्रमः ॥ ७७ ।।
५इति संचिन्त्य पानीयमन्वेषितुमितस्ततः ।
परिभ्रमन्धननिग्धं शाखिनां ६खण्डमैक्षत ॥ ७८ ।।
ततस्तदनुकूलेन पथा गच्छन्समीरणैः ।
आह्लाद्यत नवोत्फुल्लकमलामोदवाहिभिः ॥ ७९ ॥
मत्तद्विपदासक्तमृणालदलदन्तुरम्७ ।
स पन्थानमश्रापश्यदम्भसामनुमापकम् ।। ८० ॥
तेन गत्वागखण्डस्य८ मध्ये जलधिसंनिभम् ।
अदृष्टापारपर्यन्तमालुलोके महत्सरः ॥ ८१ ॥
तदालोकनमात्रेण दूरादपगतक्लमः९ ।
प्राप्य तत्पुलिनोपान्तं वाजिनोऽवततार सः ॥ ८२ ॥
कृत्वापनीतपर्याणं तं स्थलीलुठितोत्थितम् ।
गृहीतशाद्वलग्राममाप्लुताधूतकेसरम्१० ॥ ८३ ॥
उत्तार्य सरसस्तीरतरौ संयम्य वाजिनम् ।
क्षिप्त्वासिधेनुलूनानि तृणान्येतस्य चाग्रतः ॥ ८४ ॥
स्वयं सस्नौ पपौ वारि बुभुजे बिसकन्दलीः ।
उत्तरीयशिरोधानो निषसाद शिलातले ।। ८५ ॥ (तिलकम् )
ततो मुहूर्तविश्रान्त उत्तरस्मिन्सरस्तटे ।
समुच्चरन्तं शुश्राव गीतध्वनिममानुषम् ॥ ८६ ॥
तस्यां दिशि दृढासक्तचक्षुरुक्षिप्तकंधरः ।
तमादौ निबिडश्रोत्रशुक्तिरिन्द्रायुधोऽशृणोत् ।। ८७ ।।
कुतोऽत्र विजने गीतमित्याविष्कृतकौतुकः ।
उत्थाय चन्द्रापीडोऽथ तामेव दिशमभ्यगात् ॥ ८८ ॥
गीतश्रवणलुब्धेन सलीलमभिधावता ।
१अपृष्टेनापि मार्गोऽस्य २मार्गेणैव न्यवेद्यत ।। ८९ ।।
गत्वा प्रासादमैक्षिष्ट स्फाटिकं नातिदूरतः ।
हसन्तमिव कैलासशोभाविभवमंशुभिः३ ॥ १० ॥
देवं चतुर्मुखं तत्र रत्नपीठप्रतिष्ठितम् ।
भगवन्तमुमाकान्तं ददर्श प्रणनाम च ॥ ९१ ।।
तस्याथ दक्षिणां मूर्तिमाश्रित्य विहितासना।
उत्सङ्गनिहितां वीणां वादयन्ती ४कलस्वनम् ॥ ९२ ॥
देहप्रभावितानेन कुन्दगौरेण सर्पता।
साक्षाल्लक्ष्मीरिव क्षीरजलधेर्मध्यवर्तिनी ॥ ९३ ।।
कोपाग्निशमितानङ्गप्रत्युज्जीवनवाञ्छया ।
रतिः प्रसादयन्तीव तपसा पार्वतीपतिम्५ ॥ ९४ ॥
नवेऽपि वयसि प्राप्तवैराग्याभ्यासवासना ।
व्यलोकि कन्यका तेन धृतपाशुपतव्रता ॥ ९५ ॥
चन्द्रापीडोऽथ६ तां दृष्ट्वा विस्मयाविष्टमानसः ।
केयं स्यात्कन्यका नास्या दिव्यतां प्रति संशयः ॥ ९६ ॥
(चक्कलकम् )
नान्तर्धानमियं गच्छेन्न वा गगनमुत्पतेत् ।
न मौनमवलम्बेत मर्त्यसंदर्शनेन वा ॥ ९ ॥
इत्यादि चिन्तयन्नास्त १स्तम्भाच्छादितविग्रहः ।
गीतावसानसमयप्रतीक्षणपरायणः ॥ ९८ । (तिलकम् )
२साथ गीतं समापय्य विनिधाय ३च वल्लकीम् ।
प्रणम्य चन्द्रचूडाय चन्द्रापीडमभाषत ।। ९९ ॥
अतिथे खागतं ४तेऽस्तु सौम्य विश्रम्यतामिह५ ।
प्राप्तोऽसि स्वामिमां भूमिमित आगम्यतामिति ।। १०० ॥
चन्द्रापीडस्तदाकर्ण्य बह्वात्मानममन्यत ।
व्रजन्तीमनु वव्राज देवतावत्प्रणम्य ताम् ॥ १०१॥
विवेश नातिदूरेऽथ६ ७निजाश्रमगुहामसौ ।
स्थिताजिनकुशालाबुपात्रदण्डकमण्डलुम् ।। १०२ ।।
तत्र दर्भासनासीनमुपविष्टा मृगाजिने ।
पप्रच्छ चन्द्रापीडं सा स्वरूपागमनादिकम् ॥ १०३ ।।
स तु सर्व यथावृत्तमाचचक्षे सविस्तरम् ।
सा च८ विज्ञातवृत्तान्ता निर्जगाम ततो९ बहिः ॥ १०४ ।।
गृहीतभिक्षापात्रा च क्षणमास्त तरोरधः ।
आपूर्यत स्वयं शीर्णैः फलैस्तदमृतोपमैः ॥ १०५ ॥
ततस्तदुपयोगाय चन्द्रापीडं न्ययुङ्क्त सा ।
१०अन्वतिष्ठद्वचस्तस्याः स च विस्मयमानधीः ।। १०६ ।।
तस्मिन्नथ कृताहारे गिरिप्रस्रवणान्तिकम्११ ।
गत्वा सापि फलहारप्रक्रियामात्रमाचरत् ।। १०७ ॥
आगत्य च पुनस्तस्मिन्नुपविष्टा मृगाजिने ।
तारापीडोज्जयिन्यादिकथया क्षणमास्त सा ।। १०८॥
अपि नाम स्ववृत्तान्तं १मद्वदेषापि वर्णयेत् ।
पृष्टेत्येवं२ क्षणं दध्यौ चन्द्रापीडः सकौतुकः ।। १०९ ॥
दृष्ट्वा चास्याः ३प्रशममधुरामाकृतिं भावशुद्धिं
दाक्षिण्यं च प्रकृतिसरलं४ लब्धवाक्यावकाशः।
आत्मोदन्तं नियतमखिलं वक्ष्यति प्रार्थितेयं
चन्द्रापीडः ५क्षणमथ कृतप्रश्नसंप्रत्ययोऽभूत् ॥ ११० ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
तृतीयः सर्गः।
चतुर्थः सर्गः।
सम्पाद्यताम्स तद्गुणप्रभावर्द्धिवर्धमानकुतूहलः ।
तामवोचत माधुर्यविनयोदारया गिरा ॥१॥
त्वत्प्रसादकृतेनैव प्रागल्भ्येन ६ममामुना ।
मनो भगवति प्रश्नचापले विनियुज्यते ॥ २ ॥
न मादृशदृशां भूमिरियमाश्चर्यसंततिः ।
तदाख्यानप्रसादेन जनोऽयमनुगृह्यताम् ।। ३ ।।
कतमो मुनिगन्धर्वसिद्धविद्याधरादिषु ।
पुण्येन जन्मना वंशो भगवत्या विभूषितः ॥ ४ ॥
पञ्चभूतात्मकं चेदं धत्ते धवलतां वपुः ।
कथं कामपि दिग्दन्तिदन्तकान्त्यतिशायिनीम् ॥ ५॥
नवे वयसि किं चातितीव्रवैराग्यकारणम् ।
येनारण्यनिवासादि दुःखमीदृग्विषह्यते ॥ ६ ॥
इति तस्मिन्वदत्येव स्थूलाश्रुकणवर्षिणी।
रुरोद वल्कलच्छन्नवदना दिव्यकन्यका ॥ ७ ॥
अकम्पत मनश्चैनां चन्द्रापीडस्य पश्यतः।
इयमप्याकृतिर्नाम ९दुःखैर्यदभिभूयते ॥ ८॥
असौ चिरं रुदित्वा १तु वल्कलोन्मृष्टलोचना ।
दीर्घमुष्णं च निःश्वस्य व्याहर्तुमुपचक्रमे ॥ ९॥
राजपुत्र किमेतेन शोकैकवसतेर्मम ।
पापाया मन्दभाग्याया वृत्तान्तेन श्रुतेन ते ॥ १० ॥
तथापि यदि ते चित्तं कुतूहलवशीकृतम् ।
तदिदं वर्ण्यते सर्वमाकर्णय यथाक्रमम् ॥ ११ ॥
सुप्रसिद्धमिदं तावत्तव श्रुतिपथं गतम् ।
यत्सन्त्यप्सरसो नाम सुरसद्मनि कन्यकाः ॥ १२ ॥
चतुर्दश च तद्वंशाः पृथक्पृथगवस्थिताः ।
सोमामृतसमीरार्कदक्षकन्यादिसंभवाः२ ॥ १३ ॥
दक्षकन्योद्भवं तेषु गन्धर्वाणां कुलद्वयम् ।
कन्ये ३मुनिररिष्टेति४ द्वे दक्षस्य बभूवतुः ॥ १४ ॥
तत्र चित्ररथो नाम गन्धर्वाणामधीश्वरः ।
मुंनेः५ श्रुतयशाः पुत्रश्चित्रसेनादिपूर्वजः ॥ १५ ॥
तुम्बुरुप्रभृतीनां तु ज्येष्ठोऽरिष्टासुतः कृती ।
हंसाभिधानो गन्धर्वराजः प्रथितपौरुषः ॥ १६ ॥
अकृत्रिममनुत्पन्नमन्युकालुष्यदूषणम् ।
रूढं६ परस्परं प्रेम तयोर्गन्धर्वराजयोः ॥ १७ ॥
इतश्च नातिदूरेऽस्ति नानारत्नोज्ज्वलो गिरिः।
हेमकूट इति ख्यातः स निवासस्तयोर्द्वयोः ॥ १८ ॥
तस्मिन्वसन्त्यसंख्यातास्तद्भजस्तम्भसंश्रिताः ।
गन्धर्वास्तौ७ च विस्रम्भभूमिर्जम्भद्विषः ८परा ॥ १९ ॥
अथ यत्सोमसंभूतमेकमप्सरसां कुलम् ।
गौरी नामोदभूत्कन्या तस्मिन्प्रतिकृतिर्विधोः९ ॥२०॥
हंसो गन्धर्वराजस्तामुदूहे तुहिनप्रभाम् ।
१ततो यथार्थं नामाप सर्वथा हंसगामिनी ।। २१॥
चिरसंभृतविस्रम्भनिर्भरं गृहवासिनोः ।
तयोरुदभवत्सूनुरेकोऽपि न महात्मनोः ॥२२॥
अहं तु मन्दभाग्यैका कन्या दुष्कृतकारिणी।
उदभूवं तयोरस्य दुःखमारस्य २भाजनम् ॥२३॥
अनपत्यतया तातो मज्जन्म सुतजन्मवत् ।
अभ्यनन्दत्कृतानन्दः३ कृतोदारमहोत्सवः ॥२४॥
देहच्छायामिमां वीक्ष्य २तातः सोमक्रमागताम् ।
चक्रे वर्णानुरूपं स महाश्वेतेति नाम मे ॥ २५॥
साहं पितृगृहे बाला वल्लकीव कलस्वना ।
संचरन्ती स्वबन्धूनामङ्कादङ्कमहर्निशम् ॥ २६ ॥
अनवाप्तरसास्वादस्नेहादिद्वन्द्वसंततिः।
अत्यवाहयमक्लेशपेशलस्थिति शैशवम् ॥ २७ ॥ (युगलकम् )
अथ बाल्यात्परं ५प्रापमहं नानारसास्पदम् ।
मनोभवविकाराणामेकमायतनं वयः ॥२८॥
कदाचिदथ रम्येषु मधुमासदिनेष्वहम् ।
अच्छोदसरसि खातुमागतेह६ सहाम्बया ॥ २९॥
अदृष्टपूर्वामन्यत्र विभूतिमिह७ माधवीम् ।
सखीभिः सह पश्यन्ती कानने व्यचिरं चिरम् ॥ ३०॥
८एकस्मिंस्तु प्रदेशेऽन्यपुष्पगन्धाभिभाविनम् ।
अभ्यजिघ्रमनाघ्रातपूर्वमामोदमद्भुतम् ॥ ३१ ॥
तस्य ९प्रभवजिज्ञासारसेन विहितत्वरा ।
नातिदूरं ततो गत्वाऽपश्यं मुनिकुमारकम् ॥ ३२ ॥
अस्पृष्टमिव कंदर्पमीशाननयनार्चिषा ।
कलङ्कविप्रुषा बिम्बमदूषितमिवैन्दवम् ॥ ३३ ॥
विरुद्धैरपि रूपस्य मेखलाजिनवल्कलैः ।
कृताधिकमनोहारिरूपातिशय विभ्रमम् ।। ३४ ।।
तेन कर्णे कृता १काचिदपूर्वतरुमञ्जरी ।
ततः प्रवृत्तमामोदं २समाघ्रातवती मुहुः ।। ३५ ॥
तं कुतोऽप्यागतं कान्तं लावण्यामृतनिर्झरम् ।
३चक्षुषा संपिबन्तीव कौतुकोत्क्षिप्तपक्ष्मणा ॥ ३६॥
रूपैकपक्षपातेन गुणदोषानपेक्षिणा ।
ततः कुसुमबाणेन नीतास्मि वशमात्मनः ।। ३७ ।।
ततोऽपसर्तुकामाहमप्रगल्भतया मुहुः ।
केनापि प्रेर्यमाणेव तदन्तिकमुपागमम्४ ।। ३८ ॥
वन्द्यो मुनिजनश्चेति५ प्रचलन्मणिकुण्डलम् ।
अकार्षं वन्दनं तस्मै तन्मुखन्यस्तलोचना ॥ ३९ ॥
ततः कृतप्रणामायां मयि सोऽपि मनोभुवः ।
पतितो गोचरे चित्रमलङ्घ्या६ भवितव्यता ॥ ४० ॥
स्मरोपदिष्टयेवाथ बुद्ध्वा तद्विकृतिं धिया ।
लब्धास्था७ तत्स्वरूपादिप्रश्नप्रागल्भ्यमागमम् ।। ४१॥
अथ पार्श्वस्थमप्राक्षमन्यं मुनिकुमारकम् ।
तुल्यतेजस्तपोवेषं तस्य सब्रह्मचारिणम् ॥ ४२ ॥
भगवन्कथ्यतां कोऽयं किमाख्यः किमिहागतः८ ।
कर्णे च निहितानेन कस्येयं मञ्जरी तरोः ॥ ४३ ॥
सोऽब्रवीत्सुरलोकेऽस्ति९ सुरासुरशिरोर्चितः ।
श्वेतकेतुरिति ख्यातो रूपेणाप्रतिमो मुनिः ॥४४॥
पुण्डरीकसरः २स्नातुमगमत्स कदाचन ।
नित्यं संनिहिता तत्र लक्ष्मीरेनं व्यलोकयत् ।। ४५ ।।
सा तदालिङ्गनेनेव दर्शनेनैव केवलम् ।
पुण्डरीके कृतार्थत्वमवाप स्वासनीकृते ॥ ४६॥
उदपादि ३तदैवास्य कुमारः स तया श्रिया ।
तव पुत्रोऽयमित्युक्त्वा न्यवेदि श्वेतकेतवे ॥४७॥
सोऽपि योगदृशा दृष्ट्वा यथावत्सुतमग्रहीत् ।
नाम ४जन्मोचितं चास्य पुण्डरीक इति व्यधात् ॥ ४८॥
योजयामास संस्कारैरेनं मुनिजनोचितैः ।
अतीते बालभावे च न्ययुङ्क्त तपसे पिता ॥ ४९॥
अयं स पुण्डरीकस्ते वर्णितः शृणु मञ्जरीम् ।
चतुर्दशीति ६कृत्वाद्य प्रस्थितोऽयं शिवालयम् ॥ ५० ॥
व्रजतो नन्दनेनास्य७ वनदेवतया स्वयम् ।
त्वदाकृतेरलंकारस्तुल्योऽयमिति सादरम् ॥५१॥
पारिजातद्रुमादेषा दुग्धोदधिसमुद्भवात् ।
आदाय मञ्जरीकर्णेऽनिच्छतोऽपि निवेशिता ॥५२॥ (युगलकम्)
इति तस्मिन्वदत्येव चपले गृह्यतामियम् ।
किमनेन तव प्रश्नलोभेनेत्यभिधाय माम् ॥ ५३॥
अनायि मुनिना तेन सा सुरद्रुममञ्जरी ।
अपनीय निजात्कर्णान्मम कर्णावतंसताम् ॥५४॥ (युगलकम् )
मत्कपोलतलस्पर्शप्रकम्पतरलाङ्गुलेः ।
तेन९ प्रस्खलिता हस्तादक्षमाला न लक्षिता ॥ ५५ ॥
अप्राप्तैव च सा भूमिं गृहीता१० सहसा मया ।
११अस्मिन्नवसरे छत्रप्राहिणी मामवोचत ॥ ५६ ॥
त्राता देवी चिरं भर्तृदारिके गम्यतामिति ।
ततः प्रतिनिवृत्तायां मयि १तं स सखावदत् ।। ५७ ।।
वयस्य किमिदं चेतस्तव विप्लुतमीदृशम् ।
हृतामप्यनयाज्ञासीरक्षमालां न कन्यया ॥ ५८ ॥
हृता नामेयमनया हृदयं ननु रक्ष्यताम् ।
ततोऽसौ पुनरागत्य कृतकोपमिवावदत्२ ।। ५९॥
अपहृत्याक्षमालां मे क्व चौरि ननु गम्यते ।
अथ मन्दं विहस्येव भयास्य निहिता करे ।। ६०॥
३अवमुच्याक्षमालेति कण्ठान्मुक्तावली ४निजात् ।
साप्यलक्ष्यत नानेन मन्मुखासक्तदृष्टिना ॥६१॥ (युगलकम् )
सखीभिरपि मे दृष्टमिदं चापलमित्यहम्५ ।
किंचित्संजालज्जेव ६सरसस्तीरमागमम् ॥६२ ।।
७अत्राहमस्वतन्त्रैव ८क्षणं स्नात्वा यथातथा ।
९अगच्छमम्बया साकं तद्गुणाध्यायिनी गृहम् ।। ६३ ।।
गत्वा सवेदनास्मीति विसृज्य सकलाः सखीः ।
प्रविश्यकाकिनी गेहमासं मोहविसंस्थुला ॥६॥
क्व गतास्मि १०किमुक्तास्मि तेन कोऽसावहं च का ।
किमिदं कः प्रकारोऽयमिति नाज्ञासिर्ष तदा ।। ६५॥
मुहूर्तादेव११ ताम्बूलकरङ्कग्राहिणी मम ।
प्रिया तरलिका नाम प्रविश्येदमथाब्रवीत् ॥ ६६ ॥
कर्णे मुनिकुमारेण कृता ते येन मञ्जरी ।
त्वय्यागतायां पृष्टास्मि खरूपं तेन तावकम् ।। ६७ ॥
तच्छ्रुत्वा च स्वयं तेन लिखित्वा वस्त्रपट्टिका ।
एकाकिन्यै त्वया तस्यै देयेत्युक्त्वा समर्पिता ।। ६८ ॥
ततस्तरलिकायास्तां हस्तादादाय पट्टिकाम् ।
तस्यां तु लिखितामार्यामिमामहमवाचयम् ।। ६९ ॥
"दूरं मुक्तालतया बिससितया १विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः" ॥ ७० ॥
सा तु तैमिरिकस्येव बभूव बहुलक्षपा ।
मोहायार्याप्यनार्येव२ सुतरां मनसो मम ॥ ७१ ।।
वद तेन किमुक्तासि स किमुक्तस्त्वयापि वा।
तदन्तिके च विस्रब्धमुषितासि कियच्चिरम् ।। ७२ ॥
इत्थं तरलिकां ३तत्तदालपन्ती पुनः पुनः।
कांचिदह्नस्ततो मात्रामुन्मत्तेवात्यवाहयम् ॥ ७३ ।।
अथ प्रलम्बमानेऽर्के प्रतीहारी प्रविश्य मे ।
भर्तृदारिकया दृष्टौ यौ तौ मुनिकुमारकौ ।। ७४ ॥
तयोरन्यतरो द्वारि तिष्ठतीति न्यवेदयत् ।
शीघ्रं प्रवेशयेत्युक्ता मया तदभिशङ्कया ।। ७५ ॥
सा च प्रवेशयामास तस्य तं सहचारिणम् ।
सत्कारेणोचितेनाहं भक्त्या चैनमपूजयम् ।। ७६ ॥ (तिलकम्)
मुहूर्तमिव विश्रम्य पर्यङ्के मदुपाहृते ।
मदुत्तरीयसंमृष्टसुधौतचरणद्वयः४ ॥ ७७ ॥
दृष्टिं तरलिकायां स वक्तुकामः क्षणं ५न्यधात् ।
मया ६सोऽज्ञायि पृष्टस्तु लज्जमान इवाभ्यधात् ॥ ७८ ॥
अहं कपिञ्जलो नाम तस्य बालसुहृन्मुनेः ।
न वाक्प्रवर्तते मेऽस्मिन्ननभ्यस्त इवाध्वनि ॥ ७९ ॥
क्वायं मुनिजनः शान्तः क्व चामी रागविभ्रमाः।
तथापि व्यवसायोऽयं७ सुहृत्स्नेहवशानुगः८ ॥ ८० ।।
१तदुच्यते प्रयातायां राजपुत्रि तदा त्वयि ।
हस्ते मुक्तावलीं बिभ्रत्स २मदन्तिकमागतः ।। ८१ ॥
अहो रम्याक्षमालेयं त्वयानीतेति तत्क्षणम् ।
विहस्य स मया नोक्तः ३किंचिच्चिन्तोपशान्तये ।। ८२ ॥
नोपदेशप्रकारोऽसौ न ४स दृष्टान्तविस्तरः ।
न सोऽस्त्युपायो मन्त्रो वा यो मया नाभ्यधीयत ॥ ८३ ।।
वचोभिः खिद्यमानो मे त्रपानतशिरोधरः ।
क्षणमन्तर्हितो मत्तः सुतरां मामपीडयत् ।। ८४ ॥
कृच्छादिव मया लब्धो विचिंत्य सकलं वनम् |
अन्य एव स ६संवृत्तो वचसां यो न गोचरः ।। ८५॥
तदवस्थं समालोक्य ७विगताशः प्रबोधने ।
८अहं तत्प्राणरक्षार्थमेवं ९यत्नपरोऽभवम् ॥ ८६ ॥
आस्तीर्य नलिनीपत्रशयनं चन्दनोक्षितम् ।
१०तत्रस्थस्यास्य कर्पूरपांसूनङ्गेष्ववाकिरम्११ ॥ ८७ ।।
अपया तदवस्थोऽपि स किंचिद्वक्तुमक्षमः ।
१२सबाष्पमलिनां दीनां मयि दृष्टिमपातयत् ।। ८८ ।।
ततोऽहमिदमेवात्र प्राप्तकालमचिन्तयम् ।
राजपुत्रि १३सुहृत्प्राणदक्षिणार्थमुपागतः ।। ८९ ।।
अतः परं तु सामर्थ्यगतार्था मम या गिरः।
कण्ठे विपरिवर्तन्ते नूनं त्वमपि वेत्थ ताः ॥ ९ ॥
इति तस्मिन्वदत्येव प्रविश्य प्राह कञ्चुकी ।
त्वमवस्थशरीरेति ज्ञात्वा देवी समागता ।। ९१ ॥
तच्छ्रुत्वा जनसंमर्दभीरुर्यातः१४ कपिञ्जलः ।
१५न स प्रतिवचः किंचिन्मामकीनमपैक्षत ॥ ९२ ।।
तदुक्तां तु दशां तस्य जनस्यावेत्य१ तादृशीम् ।
आगतां नागतां वापि नाहमम्बामलक्षयम्२ ॥ ९३ ॥
ततः कमलिनीं रक्तां३ त्यक्त्वा क्वापि गते रवौ ।
उदिते सर्वथा वामे विधौ वैधुर्यदायिनि४ ॥ ९४ ॥
उन्मूलितेव कामेन दग्धेव विरहाग्निना ।
पुनस्तरलिकामेव साश्रुकण्ठमवादिषम् ॥ ९५॥
अहं यथातथा वापि भवेयं स तु मत्कृते ।
कथं भविष्यतीत्येषा चिन्ता ५दलयतीव माम् ॥ ९६ ।।
इतः शास्त्रं कुलाचारो लज्जा गुरुजनाद्भयम् ।
इतः ६कामो वसन्तोऽपि विरहो मरणाद्भयम् ॥ ९७ ॥
वद किं करवाण्यत्र मुह्यतीव मनो मम ।
माभून्मे नरके विप्रप्राणबाधेन मज्जनम् ॥९८ ॥
इत्यादि विलपन्त्या मे तत्कालसुलभोदया ।
जहार चेतनां मूर्च्छा निद्रेव नयनद्युतिम् ॥ ९९ ।।
अथ मां ग्राहयित्वासौ संज्ञा शीतजलानिलैः।
निपत्य पादयोः साश्रुनेत्रा तरलिकाब्रवीत्८ ॥१०० ॥
किं शास्त्रं गुरवः के च का लज्जा का कुलस्थितिः।
रक्ष्यन्तामात्मनः प्राणा यूनस्तस्य च सर्वथा ॥ १०१ ॥
गन्धर्वाणां विवाहोऽयमिच्छयान्योन्यसंगमः ।
शास्त्रेषु पठितस्तस्मात्तूर्णमुत्तिष्ठ गम्यताम् ॥ १०२ ॥
१०तयैवमुक्ता तत्कालयोग्यवेषग्रहा गृहात् ।
तामेकामग्रतः कृत्वा निर्गताहमलक्षिता ॥१०३।।
अभ्यागममिमां भूमिमौत्सुक्यचटुलैः पदैः ।
तदा मे दक्षिणं चक्षुरस्पन्दत मुहुर्मुहुः ॥ १० ॥
अव्यक्तमिव चाश्रौषं कानने रुदितध्वनिम् ।
तेन चोत्पन्नशङ्काहमगच्छमधिकत्वरम्१ ॥ १०५ ।।
पदानि कतिचिद्गत्वा हा वयस्य तपोनिधे ।
पुण्डरीक क्व यातोऽसि २शून्यं कृत्वा जगत्रयम् ॥ १०६ ।।
हा हतोऽस्मि विलीनोऽस्मि दग्धोऽस्मि करवाणि किम् ।
गत्वा तातस्य वक्ष्यामि श्वेतकेतोः किमग्रतः ॥ १०७॥
३अयि पापे महाश्वेते न तुष्टास्यक्षमालया।
हृता मे सुहृदोऽमुष्य प्राणवृत्तिरपि त्वया ॥१०८॥
वयस्य देहि मे वाचं न जीवामि त्वया विना ।
ततोऽशृणवमित्यादिविलपन्तं कपिञ्जलम् ॥१०९॥ (४चक्कलकम् )
अथ ५प्रवेषमानाङ्गी विसंस्थुलपदक्रमा ।
केनाप्युत्क्षिप्य नीतेव तं प्रदेशमयाशिषम् ॥ ११०॥
गत्वा तमहमद्राक्षं ६तत्क्षणोत्क्रान्तजीवितम् ।
किं चिरेणागतासीति रुषित्वेव तथा स्थितम् ॥ १११ ॥
एतावदुक्त्वा ७मूर्छाधिं स्ववृत्तान्तमतः परम् ।
विवक्षन्तीव सा कन्या निपपात शिलातले ॥११२ ॥
प्रनष्टचेतनां चैनां चन्द्रापीडोऽवलोकयन्८ ।
प्रश्नकारिणमात्मानं कृतागसममन्यत ॥ ११३ ।।
ससंभ्रमं समुत्थाय कदलीदलमारुतैः ।
तोयैश्च शिशिरखच्छैः९ संज्ञामेनामजिग्रहत् ।। ११४ ॥
१०अवाप्य चेतनामेषा स्मृत्वा तद्वासनं निजम् ।
११तदेवानुभवन्तीव रुरोद विललाप च ॥ ११५॥
तरूणामप्यभज्यन्त हृदयानि १२तदा शुचा ।
१३प्रतिशब्दनिभेनोच्चैः ककुभोऽप्यरुदन्निव ।। ११६ ॥
चन्द्रापीडोऽथ तामाह १बाष्परुद्धविलोचनः ।
आस्तां न शक्यते वक्तुं श्रोतुं २चान्यदतः परम् ॥ ११७ ।।
कथमप्युपसंहृत्य शोकावेगं तु सावदत् ।
किमतः परमस्त्यन्यद्वाच्यं श्रोतव्यमेव वा३ ॥ ११८ ।।
किं तु क्लेशाय येनाशालेशेन हतजीवितम् ।
राजपुत्र बिभर्मीदं तदाश्चर्यं ब्रवीमि ते ॥ ११९ ॥
तदा तस्यातितीव्रस्य दुःखभारस्य ६तादृशी ।
न काचिन्मरणादन्या मयाग्राहि प्रतिक्रिया ।। १२० ।।
मरणव्यवसायनिश्चला कृतवत्यस्मि च संविधानकम् ।
निरियाय च चन्द्रमण्डलात्पुरुषः कोऽपि हिमोपमद्युतिः ॥ १२१ ॥
सोऽवतीर्य गगनान्महीतले तं निधाय भुजपञ्जरान्तरे ।
उत्पतन्दिवभुदारया९ गिरा मामवोचत पितेव सान्त्वयन् ॥ १२२ ॥
विरम १०मरणोद्योगादस्माप्रियेण तवामुना
पुनरपि महाश्वेते वत्से भविष्यति संगमः ।
इति गिरमहं तस्माच्छ्रुत्वा ससंग्रमविस्मया११
किमिदमिति तं तत्रापृच्छं प्रसृत्य कपिञ्जलम् ॥ १२३ ॥
प्रियसस्वमपहृत्य क्वाधुना गच्छसीति
स्फुरितविकटकोपाटोपमुक्तोर्ध्वदृष्टिः१२ ।
मम वचनमदत्त्वा किंचिदेवातिवेगा
कृतपरिकरबन्धः सोऽप्यगादन्तरिक्षम्१३ ।। १२४ ॥
पश्यन्त्यां मयि ते त्रयोऽपि विविशुः शीतत्विषो मण्डलं
तत्संप्रत्ययसंहृतोचितविधिः १५सहं श्रितेदं व्रतम् ।
तातेनैत्य ततः प्रभृत्यहमिहासीनाथ१ नेतुं गृहं
यत्नेनापि न पारितेति २सुचिरं स्थित्वा गतः स्वान्गृहान् ॥१२५||
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
चतुर्थः सर्गः।
पञ्चमः सर्गः।
सम्पाद्यताम्इत्यावेदितनिर्व्याजनिजवृत्तान्तविस्तरा३ ।
विरराम महाश्वेता निःश्वासग्लपिताधरा ॥१॥
चन्द्रापीडस्तु तध्ध्यायन्मनोभवविजृम्भितम् ।
सकम्पविस्मयोऽप्यन्तस्तामवोचत४ सान्त्वयन् ॥ २ ॥
मया ५ते चिरवृत्तोऽपि परिणाममपश्यता ।
शोकः प्रत्यग्रतां नीतः ६कौतुकाविष्टचेतसा ॥ ३ ॥
सा त्वमर्हसि कल्याणि न शोकं कर्तुमीदृशम् ।
आश्वासितासि७ देवेन नूनं चन्द्रमसा स्वयम् ॥ ४ ॥
कोऽन्यस्तथाविधाकारस्तच्छक्तिमण्डलात्ततः ।
निर्गत्य तत्रैव विशन्निशि संभाव्यते नरः ॥ ५ ॥
श्रूयन्ते गतयश्चित्रा देवतानामनेकशः।
८वरशापतपःशक्तियोगवैचित्र्यनिर्मिताः ॥६॥
श्वेतकेतुश्च तस्यास्ते९ प्रजापतिसमः पिता ।
नास्त्येव तस्य तपसामसाध्यं१० नाम किंचन ॥ ७॥
इत्यादियुक्त्युपन्यासैरितिहासनिदर्शनैः११ ।
महाश्वेतां समाश्वास्य पुनः पप्रच्छ तामसौ ॥ ८॥
सा ते तरलिका नाम विस्रम्भनिभृता सखी ।
गता भगवति क्वाद्य नहि सा त्वां विमुञ्चति ॥ ९॥
अथोवाच महाश्वेता क्वासौ याति तपस्विनी ।
शृण्वत्रापि निमित्तं मे यथा २सा प्रहिता मया ॥ १० ॥
यः ३स चित्ररथो नाम गन्धर्वाधिपतिर्मया ।
वर्णितो येन देवोऽयं प्रत्यष्ठापि महेश्वरः ॥११॥
येने४ खानितमत्यच्छमच्छोदाख्यमिदं सरः ।
येन चैत्ररथं नाम कृतमेतच्च काननम् ।। १२ ।।
५तस्यामृतसमुद्भूते प्रसूताप्सरसां कुले ।
महिषी मदिरा नाम जीवितादपि वल्लभा ॥ १३ ॥
तयोः कादम्बरी नाम कन्यास्ति नवयौवना।
लक्ष्मीमुपहसन्तीव रूपलावण्यविभ्रमैः ॥१४॥
तया सह महत्प्रेम बाल्यात्प्रभृति मे तथा !
यथैकमेव जानाति जनो जीवितमावयोः ॥ १५ ॥
विदित्वा दग्धवृत्तान्तमिमं सपदि मामकम् ।
साग्रहीन्नियमं बाला वार्यमाणापि बन्धुभिः ॥१६॥
महाश्वेतास्य६ दुःखस्य यावन्न लभतेऽवधिम् ।
तावन्मया न ७कर्तव्यं पाणिग्रहणमात्मनः ॥ १७ ॥
अतो८ यथायथा तस्या यौवनश्रीर्विजृम्भते ।
९तथातथा ततो धत्ते खेदं चित्ररथः परम् ॥ १८ ॥
संदिष्टं तेन मे पुत्रि यतखावहिता तथा ।
यथेमं दुर्ग्रहग्रन्थिं विमुञ्चति तव स्वसा ॥ १९ ॥
अतस्तरलिका तत्र मया प्रकरणोचितम् ।
प्रहिता बहु संदिश्य श्वश्चागन्तेह सा पुनः ॥ २० ॥
इतीत्थं कथया नीत्वा महाश्वेताश्रमे दिनम् ।
चन्द्रापीडः प्रयातेऽस्तमर्के संध्याविधिं व्यधात् ॥२१॥
तत्रेन्द्रायुधमानीय संयम्य निचुले क्वचित् ।
महाश्वेतोदिते देशे पर्णशय्यामकल्पयत् ॥ २२ ॥
१तस्यां तस्य निषण्णस्य श्रान्तस्यापि २यथाश्रुताम् ।
कथामाश्चर्यबहुलां तामेव ध्यायतश्चिरम् ॥ २३ ।।
३पुनश्चिन्तयतः सेनां वैशम्पायनमेव च ।
पत्रलेखां च सा रात्रिर्गता प्रायेण जाग्रतः ॥ २४ ॥
इन्द्रायुधस्तु४ बाष्पार्द्रां महाश्वेतामुखे दृशम् ।
सप्रत्यभिज्ञमश्वोऽपि भृशं५ मानुषवद्ददौ६ ॥ २५ ॥
प्रयातायां तु थामिन्यां कृतमाभातिककिये।
समाधेरुत्थितां बुद्ध्वा महाश्वेतां ८तदन्तिकम् ॥ २६ ॥
चन्द्रापीडे प्रविष्टेऽथ नातिदूरोदिते९ रवौ ।
सगन्धर्वकुमारासौ ततस्तरलिकाययौ ॥ २७ ॥
सा प्रविश्य महाश्वेतां प्रणिपत्योपविश्य च ।
सिद्धार्थासीति तत्पृष्टा १०वलितग्रीवमब्रवीत् ॥ २८ ॥
त्वत्संदेशं निशम्योक्तं यत्तया भर्तृदारिके।
तत्त्वं११ तच्छासनायातकेयूरकमुखाच्छृणु ॥२९॥
अथ केयूरकः प्राह नानभिज्ञासि चेतसः ।
खस्य स्वमेव १२चेदं ते मन्मनः कि परीक्षसे ।॥ ३०॥
१३अथवा भूमिरस्याहमुपालम्भस्य भूयसः।
तपोवननिवासिन्यां १४त्वयि स्वगृहवर्तिनी ॥ ३१ ॥
आकर्ण्य तव संदेशवचस्तरलिकामुखात्१५ ।
एष ते प्रतिसंदेशः प्रियसख्या निवेदितः ॥ ३२॥
इति श्रुत्वा महाश्वेता १क्षणं निश्चललोचना ।
चिन्तयित्वा किमप्यन्तश्चन्द्रापीडमभाषत२ ॥ ३३ ॥
राजपुत्र ३तवाकारः सदाचारश्च पेशलः ।
तनोति सर्वभावेन निःस्पृहाणामपि स्पृहाम् ॥ ३४॥
कादम्बरीवचश्चेदं श्रुतं केयूरकात्त्वया ।
तत्र को वा प्रतीकारः स्वयं मद्गमनादृते ॥ ३५॥
इतो न दूरे गन्धर्वराजधानी तदद्य ताम् ।
पश्यास्मदनुरोधेन श्वो गन्तासि स्ववाहिनीम् ॥ ३६ ॥
उदात्तमधुरामेतां दर्शयन्त्या ५तवाकृतिम् ।
बहु गन्धर्वलोकस्य मयाप्युपकृतं भवेत् ॥ ३७॥
चन्द्रापीडस्तु तां प्राह बहूक्त्वा भगवत्यलम् ।
अनतिक्रमणीय मे मुनीनामपि शासनम् ॥ ३८॥
प्रावर्तत ततो गन्तुं स महाश्वेतया सह ।
पद्भ्यामेव ६नियुज्याश्वं प्रति केयूरकं दृशा ॥ ३९ ॥
केयूरकोऽग्रतो गत्वा कादम्बर्यै न्यवेदयत् ।
तस्यागमनमाकारं गुणांश्चाहितविस्मयान् ॥ १०॥
स गत्वा किंचिदध्वानं चन्द्रापीडः समासदत् ।
गन्धर्वराजनगरीमपराममरावतीम् ॥ ४१ ॥
आसाद्य राजधानीं च तुङ्गस्फटिकतोरणाम् ।
सप्त कक्षा अतिक्रम्य कन्यान्तः पुरमभ्यगात् ॥ ४२ ॥
केयूरकोपदिष्टेन वर्मनाथ प्रविश्य सः।
भास्वन्मणिमयस्तम्भं श्रीमण्डपमलोकयत् ॥ ४३ ॥
तन्मध्ये मणिपर्यङ्कमध्यासीनां महीयसा ।
रत्नाभरणचित्रेण स्त्रैणेन परिवारिताम् ॥ ४४ ॥
देहप्रभावितानेन रत्नकान्त्यभिभाविना ।
१प्रतप्तकनकोद्द्योतधौता विदधतीं दिशः ॥ ४५ ॥
तटस्थमप्यार्द्रयतः २सदाचारमभिन्दतः ।
स्थितां नवस्य लावण्यसिन्धोरन्तस्तरङ्गिणः३ ।। ४६ ॥
४सर्वोपमेयभावानामुपमानत्वमागताम् ।
कादम्बरीं ददर्शासौ दूरविस्फारितेक्षणः ॥ ४७ ॥ (५चक्कलकम्)
परातिशयकोटिस्थरूपलावण्यसंपदम्६ ।
तस्यां निरूपयन्नन्तरचिन्तयदथ७ क्षणम् ॥ ४८ ॥
सत्यं न कश्चिदाश्चर्यनिर्माणेष्ववधिर्विधेः ।
ईदृशान्यपि रत्नानि स्रष्टं प्रभवति स्म८ यः ॥ ४९ ॥
मोघं याति हरेः कालो लक्ष्मीं वक्षसि बिभ्रतः ।
देहार्धेन ९वहन्गौरीं वञ्चितश्चन्द्रशेखरः ॥ ५० ॥
कृतमक्ष्णां सहस्रेण निर्निमेषेण वज्रिणः ।
अनन्यकर्मणा येन नित्यमेषा न दृश्यते ॥ ५१ ।।
इत्यादिचिन्तयत्यस्मिन्नथ चित्ररथात्मजा ।
१०प्रत्युद्ययौ महाश्वेतामभ्युत्थाय ससंभ्रमम् ।। ५२ ।।
महाश्वेता ११तु निःशङ्कमालिङ्ग्य स्नेहनिर्भरम् ।
तां चन्द्रापीडनिर्देशपुरःसरमभाषत ॥ ५३ ॥
अयं हि भारते वर्षे सार्वभौमस्य भूपतेः।
तारापीडस्य तनयश्चन्द्रापीड इहागतः ॥ ५४ ॥
अनेनेह प्रविष्टेन दृष्टेर्विषयवर्तिना ।
भवत्वखिलगन्धर्वकुटुम्बकमहोत्सवः ॥ ५५ ॥
अथ कादम्बरी तस्मिन्पक्ष्मोत्क्षेपविकासिनीम्१२ ।
आकर्णप्रसूतापाङ्गां चिरं १३दृशमपातयत् ॥ ५६ ।।
द्वारेण विवृतेनाथ तेनैव निजमायया ।
मदनोऽन्तः प्रविश्यास्या बबन्ध हृदये पदम् ॥ ५७ ॥
रत्नपीठोपविष्टे तु चन्द्रापीडे तदन्तिके ।
२अध्यासातां कथामेकां हंसचित्ररथात्मजे ।। ५८ ॥
लज्जास्तिमितमासीनामथ३ कादम्बरीं बलात् ।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापयत् ॥ ५९॥
शरीरनिर्विशेषास्याः कादम्बर्याः प्रिया सखी ।
मदलेखाभिधानास्य चरणक्षालनं व्यधात् ।। ६०॥
कादम्बरी तु सखेदप्रकम्पिकरपल्लवा५ ।
ताम्बूलच्छद्मनात्मानं स्वयमस्मै न्यवेदयत् ॥ ६१॥
तदङ्गुलितलस्पर्शभावुर्यहृतमानसा६ ।
नालक्षयत सा रत्नवलयं स्खलितं करात् ॥ २ ॥
चन्द्रापीडोऽपि तत्पाणिसंस्पर्शसुखसंपदा८ ।
तदा त्रिभुवनाधीशमिवात्मानममन्यत ।। ६३ ।।
ततस्तूष्णीमुपासीने९ सर्वस्मिन्कन्यकाजने ।
शुकसारिकयोरासीत्कलहः केलिकारणम् ।। ६४ ॥
तत्प्रसङ्गे च सोत्प्रसं तयोः कलहवृद्धये ।
चन्द्रापीडोऽब्रवीद्येन सर्वा १२जहसुरङ्गनाः ॥६५॥
ताश्च दन्तप्रभाधौतदिङ्मुखा मधुरस्वराः ।
चन्द्रापीडगिरो जह्नुस्तरां कादम्बरीमनः ॥ ६६ ।।
क्षणमात्रे व्यतीतेऽथ प्रविश्य प्राह कञ्चुकी।
राजपुत्र्यौ युवां द्रष्टुं देवी निर्विघ्नमिच्छति ॥ ६७ ॥
क्रीडापर्वतके कृत्वा सुतारमणिमन्दिरे ।
१चन्द्रापीडं सुखासीनमायातं २मातुरन्तिकम् ॥ ६८ ॥
तत्राध्यासितपर्यङ्कं केयूरकपुरःसराः ।
मुख्याः कादम्बरीसख्यश्चन्द्रापीडं सिषेविरे ॥६९ ।।
स्नानानुलेपनाहारक्रियाः स३ तदुपाहृतैः ।
चक्रेऽमर्त्यपुरप्राप्यैर्विभवैरुपपादिताः४ ॥ ७० ॥
अथ मन्दप्रभे भानौ भेजे कादम्बरी निजम् ।
मदलेखाद्वितीयैव महाप्रासादमस्तकम् ॥ ७१ ॥
चन्द्रापीडं च तत्रस्था क्रीडापर्वतवर्तिनम् ।
निरवर्णयदाकर्णप्रसृतापाङ्गया दृशा ॥ ७२ ॥
चन्द्रापीडे ५तदा तस्याः कटाक्षास्तीक्ष्णकोटयः ।
समं निपेतुस्तस्यां६ च कुसुमायुधसायकाः ।। ७३ ।।
कटाक्षैरुपनीतं च क्षिप्रं७ कृतसमागमैः ।
तल्लावण्यं पिबन्तीव मदलेखामुवाच सा ॥ ७४ ॥
न मया मदनो नाम कथास्वपि ८सखि श्रुतः ।
अद्य प्रत्यक्षतो दृष्टः स चन्द्रापीडविग्रहः ॥ ७५ ॥
न महाश्वेतया किंचिदुक्तं प्रकृतवस्तुनि ।
५अथ चेहानयन्त्यामुं१० सर्वमुक्तमनक्षरम् ।। ७६ ।।
अपि नाम विकारो११ मे तदानीं लक्षितस्तया ।
किं वा न १२लक्षयेदेषा दृष्टमन्मथविक्रिया१३ ।। ७७ ॥
अद्यापि निजसंकल्पविरुद्धां विक्रियामिमाम्१४ ।
मनसः संहराम्येव स्थूलामपि यथातथा ।। ७८ ।।
किं १त्वसौ शेषहारोऽस्यास्तुल्यं मण्डनमाकृतेः।
उरस्वनिच्छतोऽप्यस्य २तूर्णमामुच्यतां त्वया ॥ ७९ ।।
मदलेखा गृहीत्वा तं हारं गत्वा तदन्तिके ।
तथोवाच यथा तेन३ प्रत्युक्ता सा न किंचन ॥ ८० ॥
आमुच्यत ततः कण्ठे हारोऽस्य मदलेखया ।
शरदिन्दुकरोदारप्रभापूरितदिङ्मुखः४ ।। ८१ ॥
चन्द्रापीडश्च हारेण रराज कृतमण्डनः ।
पूर्णेन्दुरिव नक्षत्रकलापपरिवारितः ।। ८२ ॥
कादम्बरी चिरं त्वेनमवलोक्य निशागमे ।
प्रासादशिखरात्तस्मान्मन्दमन्दमवातरत्५ ।। ८३ ॥
उत्थाय चन्द्रापीडोऽथ कृतसंध्याविधिस्ततः ।
अवालम्बत देहेन शय्यां चिन्तां च चेतसा ।। ८१ ॥
किं स्युर्गन्धर्वकन्याया विलासाः सहजा इमे ।
उतेमं जनमुद्दिश्य बालां नर्तयति स्मरः ।। ८५ ॥
दृष्टिर्निपुणदूतीव ८यथा त्वस्या विचेष्टते ।
९तथा संभावनाहीयं मम चेतसि वर्तते ।। ८६ ॥
अवैमि पुष्पितस्तावत्किंनरानुसृतिक्रमः ।
स कालपरिणामेन न जाने किं फलिष्यति ।। ८७ ॥
अथवा यौवनोन्मादकृत एष११ मम भ्रमः ।
क मनुष्यः क्व गन्धर्व इति किं तेन संगतम् ॥ ८८॥
आत्मसंभावनां चेयमास्तामसदृशक्रमा ।
कालेन व्यज्यते सर्वं कथं च१३ मम सैनिकाः ॥ ८९ ॥
इति चिन्तयतस्तस्य निद्रा सुचिरसंभृता । चकार मुकुलाकारे १चक्षुषी आ निशात्ययात् ॥ ९० ॥ अपरेद्युरथोत्थाय कृतप्राभातिकक्रमः२ । कादम्बरीमहाश्वेते दृष्ट्वा ३लब्ध्वा चिरादिव ।। ९१ ॥ ४तदनुज्ञां तदादिष्टगन्धर्वपरिवारितः । स इन्द्रायुधमारुह्य प्रतस्थे पृतनां प्रति ।। ९२॥ (युगलकम् ) अथ केनाप्युपायेन ५लब्धमार्गमसौ निजम् । संनिविष्टं ६सरस्तीरे स्कन्धावारं व्यलोकयत् ।। ९३ ॥ ७तत्र दृष्ट्वा नृपान्सर्वान्मन्त्रिपुत्र रहस्ससौ । स्ववृत्तान्तविदं चक्रे पत्रलेखां विशेषतः ॥ ९ ॥ निशि तस्यामतीतायामन्येद्युरुदिते रवौ। केयूरकस्तमागत्य८ हेमकूटादभाषत९ ॥ ९५ ॥ कादम्बरी न१० पट्वीति त्वामभीक्ष्णं दिदृक्षते । विस्मृतं शयनीये च शेषहारमुपाहरत् ॥ ९६ ॥ ११केयूरकवचः श्रुत्वा १२समेतः पत्रलेखया । चन्द्रापीडः पुनस्तूर्णं हेमकूटमथागमत् ।। ९७ ।। १३अभिवन्द्य महाश्वेतां श्लाघितागमनस्तया । कादम्बरीमथापश्यत्पत्रलेखापुरःसरः ॥ २८॥ उद्याननलिनीतीरकल्पिते१४ हिममन्दिरे । कदलीदलशय्यान्तर्निषण्णां म्लानविग्रहाम् ॥ ९९ ॥ तदालोकनमात्रेण मुहुराश्वासितेव सा । तत उत्थातुमिच्छन्ती शयानैवास्त तद्गिरा ॥ १०० ॥ ततः कुशलसंप्रश्नसुखमात्रपवित्रिताः।
नानानमंविलासार्द्राः प्रावर्तन्त तयोर्गिरः ॥ १०१।।१तथा तत्र चिरं स्थित्वा तां तथावशवर्तिनीम्२ ।
भङ्गीभणितिभिर्व्यक्तमावेद्य ३निजमाशयम् ॥ १०२ ।।
तदभ्यर्थनयादिश्य पत्रलेखां तदन्तिके।
केयूरकद्वितीयोऽसौ जगाम कटकं पुनः ।। १०३ ।।
४तत्रोज्जयिन्याः संप्राप्तं ५पूर्वेद्युर्लेखहारकम् ।
अवलोक्य तदानीं तं लेखं स्वयमवाचयत् ॥ १०४ ॥
पितुराज्ञां ततो ज्ञात्वा शीघ्रागमनशंसिनीम् ।
केयूरककरे न्यस्य तं लेखं कूणितेक्षणः ॥ १०५ ॥
तदर्थमथ संमन्त्र्य सह मन्त्रिसुतेन सः।
एवमेतदिति ६ध्यायन्प्रस्थानस्थैर्यमग्रहीत् ॥ १०६ ॥
सत्यं वच्मि भवत्प्रसादरसिकं चेतो ममैतत्पदं७
गन्तुं नेच्छति किंतु शासनमिदं नोल्लङ्घनीयं गुरोः ।
मन्युः संप्रति सह्यतां पुनरिहागन्तास्मि कादम्बरीं
संदिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत् ॥ १०७ ॥
वैशम्पायनमभ्यभाषत भवान्संवाहयन्वाहिनीं
पश्चादेष्यति यामि सत्वरमहं स्वल्पैरितो वाजिभिः ।
निश्चित्येति ८तदा प्रयाणपटहे दत्ते प्रतस्थे ततो
गत्वा किंचन चण्डिकाश्रमतटीमध्यास्त९ तस्मिन्दिने ॥ १०८ ॥
तत्रोद्धतद्रविडधार्मिकरूपवेष-
भाषातपश्चरणसिद्धिकथाविनोदैः१० ।
नीत्वा निशां सततमस्खलितप्रयाणैः
११स्वल्पैर्दिनस्त्वरितमुज्जयिनीमवाप ॥ १०९ ।।
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
पञ्चमः सर्गः।
अथ प्रविश्य नगरीमुपास्य पितरौ चिरम् ।
शुकनासं च सोऽध्यास्त कुमारभवनं पुनः ॥ १॥
तत्र कादम्बरीध्याननिरतैकाग्रचेतसः ।
बभूव रतये १नास्य किंचित्स्थास्नु चरिष्णु च ॥ २॥
नाकरोत्प्रियमाहारं नाबोधि मधुरं रसम् ।
न चाद्रियत वासांसि न२ सिषेवे विलेपनम् ॥ ३ ॥
सार्थच्युत ३इवाध्वन्यो यूथभ्रष्ट इव द्विपः ।
वागुरापाशसंरुद्ध४ इव सारङ्गशावकः ॥ ४ ॥
दिवा विभावरीं ध्यायन्निशि वाञ्छन्दिनागमम्५ ।
उदीचीमेव सास्राक्षो वीक्षमाणोऽनिशं दिशम् ॥ ५ ॥
केयूरकादिहायातं ज्ञात्वा मां किं भजेदसौ ।
किं वदेत्पत्रलेखां वा सापि किं वोच्यते तया ॥ ६ ॥
इति नक्तंदिनं ध्यायन्ननवापितनिर्वृतिः७ ।
कालं कियन्तमप्येवं चन्द्रापीडोऽत्यवाहयत् ॥ ७॥
८आकारः संवृतस्त्वीदृगस्य गूढात्मनोऽभवत् ।
यथा तां शून्यतां ९तस्य पितरौ नाधिजग्मतुः ॥ ८ ॥
दिनेष्वथ व्यतीतेषु पत्रलेखा तदन्तिकम् ।
प्रापद्वलाहकाश्वीयनिर्वृत्तपथसौष्ठवा१० ॥९॥
चन्द्रापीडोऽपि११ तां दृष्ट्वा १२समुच्छ्वसितमानसः ।
कादम्बरीमिवामंस्त पस्पर्श च मुहुर्मुहुः ॥ १० ॥
१३अथ विस्रब्धमप्राक्षीद्वद कादम्बरीकथाम् ।
किमस्माकं स्मरत्येषां १४रुषितेहागमेन किम् ॥ ११ ॥
साभ्यसूयमिवालोक्य चन्द्रापीडमुवाच सा ।
किमेतच्चिन्तया१ देव गुरूनाराधय स्थिरम् ॥ १२ ॥
असौ हि२ सुप्रसन्नेन स्वयं मकरकेतूना ।
त्वय्यर्पिता विधिवशाच्छ्रीपतौ श्रीरिवाब्धिना ॥ १३ ॥
तां३ चाभिनवभावार्द्रां बालां ४तरुलतामिव ।
तीव्रे विरहदावाग्नौ क्षिप्तवानसि किं ५वृथा ॥ १४ ॥
केयूरकमुखाद्बुद्ध्वागमनं देव तावकम् ।
६वज्राशनिहता शालिवल्लरीव व्यकम्पत ॥ १५ ॥
लब्धस्थैर्यावदन्मां च पत्रलेखे किमीदृशम् ।
युक्तमेतस्य यन्मन्ये रक्षांस्यपि न कुर्वते ॥ १६ ॥
ततः प्रभृति निःश्वासैर्वर्धमानैर्दिनैरिव ।
७क्रान्ता ग्रीष्मनिशेवासावक्षीयत शनैः शनैः ॥ १७ ॥
अलब्धकुसुमामोदाः ८प्रागभ्यासादुपागताः ।
दूरात्परिहरन्त्यस्याः कबरीमद्य षट्पदाः ।। १८ ॥
रोदनारुणितापाङ्गे चिरं विस्मृतकज्जले ।
नेत्रे ९माधुर्यमुत्सृज्य गते तस्याः कषायताम् ॥ १९ ।।
१०चिरं पत्रलतालेख्यं११ विहाय क्रियते नवम् ।
मण्डनं गण्डयोरश्रुकणमुक्तावली तया ॥ २० ॥
मृत्युः स्वभावरक्तश्च १२प्रवृद्धैरसमोष्मभिः ।
म्लानिमानीयते तस्या निःश्वासैरधरः १३खरैः ॥ २१ ।।
स्तनौ च१४ विरहे तस्या शोकान्नहि बहिष्कृतौ ।
दाहप्रतिक्रियाभ्यस्तैर्हारकर्पूरचन्दनैः१५ ॥ २२ ॥
विरहज्वलनस्तस्या१ लावण्यरसनिझरैः२ ।
बाडवश्चाब्धिना नैति शममित्यद्भुतद्वयम् ॥ २३ ॥
मुहुः सरसि हंसीव मृगीवोपवने मुहुः ।
पुलिने चक्रवाकीव मुहुर्लुठति विह्वला ॥ २४ ॥
मुहुर्भवन्तमालिङ्ग्य पुरः३ संकल्पकल्पितम् ।
शून्ये भुजलते वीक्ष्य विलक्षा पतति क्षितौ ॥ २५ ॥
मा गादयमुपालब्धः संकल्पादपि दूरतः ।
इत्युपालभते न त्वां भीतेव४ मनसापि सा ॥ २६॥
त्वदाकारमयं ५ध्यानं त्वद्गोत्रप्रवणा गिरः।
६त्वद्गात्रकीलिता दृष्टिस्तस्याः संप्रति वर्तते ॥ २७ ॥
कियती७ वर्ण्यते तस्याः परेण विरहव्यथा ।
स्वसंवेदनगम्या हि सा तथैवानुभूयते ॥ २८ ॥
किमप्याख्यातुकामेव बहुशः स्फुरिताधरा ।
हृदयस्थेन केनापि गुरुणेव निषिध्यते ॥ २९ ॥
भूमौ विवेष्टमानाङ्गी८ भुजंगीव ९कदाप्यसौ ।
दिशो वीक्ष्य मदुत्सङ्गे निघाय मुखमब्रवीत् ॥ ३० ।।
१०उत्तिष्ठानय तं गत्वा जीवन्तीं मां यदीच्छसि ।
अहं ११गन्तुमशक्ता हि सुदूरमिदमन्तरम् ।। ३१ ।।
स्थितायां त्वयि जीवामि त्वत्स्पर्शेन यथा तथा ।
गतायां तु चिरं कालं न१२ सहन्ते ममासवः ॥ ३२॥
इति श्रुत्वा च१३ दृष्ट्वा च समायातास्म्यतः परम् ।
देवः प्रमाणमित्युक्त्वा रुदती विरराम सा ॥ ३३ ॥
चन्द्रापीडस्तदाकर्ण्य १गतस्मृतिरिवाभवत् ।
लब्धस्मृतिश्चिरं२ दध्यौ गमने हेतुमात्मनः ॥ ३४ ॥
दिनेष्वथ३ व्यतीतेषु वक्तुं कादम्बरीदशाम् ।
आगात्केयूरकोऽप्याशु दीर्घाध्वश्रान्तवाहनः ॥ ३५ ॥
स चोज्जयिन्या विभवं प्रविशन्वीक्ष्य विस्मितः।
स्थाने ननु मनो लग्नं स्वामिन्या इत्यमन्यत ॥ ३६ ॥
प्रविश्य ददृशे तेन चन्द्रापीडः ४कृशाकृतिः ।
चक्रवाक इवैकाकी प्रियाविरविह्वलः ।। ३७ ॥
दधत्या पार्श्ववर्तिन्या चामरं पत्रलेखया।
संवीज्यमानः पर्यङ्कनिषण्णग्लानविग्रहः ॥ ३८ ॥
प्रणिपत्योपविष्टोऽसौ गाढं शिरसि पस्पृशे ।
कुर्वता कुशलप्रश्नं चन्द्रापीडेन सादरम् ॥ ३९ ॥
ततः कादम्बरीवार्तो पृष्टः केयूरकोऽमुना ।
पत्रलेखामुखं वीक्ष्य संक्षिप्तमिदमब्रवीत् ॥ ४० ॥
उक्तोऽसि नानया किंचिदुक्तश्चेत्किमिह ६स्थितः ।
उक्तश्चेह स्थितश्चासि कृतमागमनेन मे ॥ ४१ ।।
तथापि वद संदेशमिति तेन तु चोदितः७ ।
पुनः केयूरकः प्राह नहि विज्ञप्यसे मृषा ॥ ४२ ॥
कथं जीवत्सु युष्मासु विरहो हन्ति मामिति ।
तस्याः साकूतया दृष्ट्या विसृष्टोऽस्मि न तद्गिरा ।।४३।।
किमत्र बहुनोक्तेन तथास्या विरहव्यथा ।
अद्यापि जीवतीत्यत्र यथा दोलायते मनः ॥ ४४ ॥
तत्कथाभिस्तथा स्थित्वा तस्मिन्नथ दिने चिरम् ।
चन्द्रापीडः सुखावासं केयूरकमकारयत् ॥ ४५ ॥
न राक्षसो न १चाण्डालो न किरातश्च यद्यहम् ।
अच्छोदसरसस्तीरं प्राप्तं मां वेत्थ सर्वथा ॥ ४६ ॥
अन्येद्युरिति संदिश्य सहितं पत्रलेखया ।
केयूरकमसौ २रत्नैः प्राहिणोत्कृतमण्डनम् ।। ४७ ॥
तयोस्तु गतयोरास्त सुतरां खिन्नमानसः ।
३गमनाय धिया किंचिन्निमित्तमनुसंदघत् ॥ ४८ ॥
शुश्रावाथ नियुक्तेभ्यः स्कन्धावारमुपागतम् ।
योजनद्वयमात्रं४ च पुनः कृतनिवेशनम् ॥ ४९ ॥
वैशम्पायनतो लप्स्ये किंचित्कारणमित्यसौ ।
५प्रेत्युद्गन्तुमगादेनं कटकं पितुराज्ञया ॥ ५० ॥
तत्र राजकमालोक्य बलाहकनिवेदितम् ।
क्व वैशम्पायनावास इति सेनान्यमभ्यधात् ।। ५१ ।।
बलाहकस्त्वधोदृष्टिरुल्लिखन्मेदिनीं मुहुः ।
न वैशम्पायनोऽत्रेति६ सन्नकण्ठमभाषत ॥ ५२ ॥
ततोऽवतीर्य तुरगादुपविश्य तरोरधः ।
हा वयस्येति विलपन्प्रावर्तत स रोदितुम् ॥ ५३ ।।
बलाहको निपत्याथ चन्द्रापीडस्य पादयोः ।
देव मैवं कृथाः सोऽस्ति७ जीवन्नेवेत्यवोचत ॥ ५४ ॥
चन्द्रापीडस्तु तं प्राह नैव८ श्रद्धीयते मया ।
न९ वैशम्पायनो जीवन्मुहूर्तं मां विमुञ्चति ।। ५५ ।।
इति संभ्रान्तचित्तं१० तं पुनराह बलाहकः ।
श्रूयतां देव तद्वृत्तं११ यथासाविह नागतः ॥ ५६ ।।
देव१ तादृशमादिश्य प्रस्थितं त्वामनुव्रजन् ।
ततः प्रतिनिवृत्तोऽसौ २तत्रैवास्त यथास्थिति ॥ ५७ ॥
अपरेद्युरथोत्थाय विधाय३ प्रकृताः क्रियाः।
विनोदयितुमात्मानं स४ चचार वनस्थलीः ।। ५८ ।।
तत्र ५सप्रत्यभिज्ञानं स्थानं स्थानं निरूपयन् ।
किंचिन्नष्टमिवान्वेष्टुमैच्छदुत्रस्तलोचनः६ ॥ ५९ ॥
ततोऽस्ताभिमुखे भानावस्माभिः सोऽभ्यधीयत ।
स्थीयतामद्य७ शिष्टास्तु श्वो द्रष्टाऽसि वनस्थलीः ॥ ६०॥
अथासौ८ विचरन्नेव साभ्यसूयमिवावदत् ।
यात यूयं न गन्तव्यं यावज्जीवमितो मया ।। ६१॥
स बहूनि दिनान्यास्त तत्रैव९ विचरन्वने ।
न१० च केनाप्युपायेन शक्तश्चलयितुं ततः ॥ ६२ ॥
कृतप्रायोपवेशेन पादयोः पततानिशम्११ ।
इयता राजचक्रेण १२नौर्थितोऽप्यत्यजद्वहम् ॥ ६३ ॥
ततस्तत्र चिरं स्थित्वा कार्यशेषमपश्यता१३ ।
आयातमिह सैन्येन त्वं प्रमाणमतः१४ परम् ॥ ६ ॥
इति श्रुत्वा निपतितः शोकविस्मयसंकटे ।
चन्द्रापीडस्तथैवास्त तरुमूले कृतासनः ॥ ६५ ॥
अथ वार्तां विदित्वेमां१६ १७सामात्यान्तःपुरो नृपः ।
अनपेक्षितवृत्तान्तस्तमेवोद्देशमागमत्१८ ॥ ६६ ॥
तत्र क्षणमिव स्थित्वा स्वयं पृष्ट्वा१ बलाहकम् ।
अधिक्षिपन्निव प्राह चन्द्रापीडं क्षितीश्वरः ॥ ६७ ।।
नूनमुत्पादितो मन्युरविनीत२ त्वयास्य सः ।
येनान्तःस्फुरता सोऽद्य त्वां विहाय वनं श्रितः३ ॥ ६८॥
वियुक्तौ न पुरा दृष्टौ युवां क्षणमपि क्वचित् ।
किं जातमधुना येन त्वं गृहे स तपोवने ॥ ६९ ॥
विना नहि निमित्तेन शक्या सोढुं गरीयसी ।
मातापितृसुहृद्बन्धुदेशवित्तवियोगिता ॥ ७० ॥
इत्युक्तवति भूपाले शुकनासस्ततः४ परम् ।
अन्तः स्फुरितशोकोऽपि स्तम्भितक्षोममभ्यधात् ॥ ७१॥
किमेतदविचार्यैव वस्तुतत्त्वमतर्कयत् ।
शङ्कानुमानमात्रेण कृतधीरपि५ भाषसे ।। ७२ ।।
अलातवृष्टिरिन्दोर्वा क्षीराद्वा ६कण्टकोद्गमः ।
तस्य मन्युः कुमाराद्वा ७कस्य संभावनास्पदम् ॥ ७३ ॥
पापः स एव दुर्जातः सुचिरं पाठितः शुकः ।
८यत्रामृतरसोऽप्युप्तः फलितः कालकूटवत् ।। ७४ ॥
स त्वं कुमार सर्घस्याः पृथिव्या एकजीवितम् ।
दुरात्मनो न तस्यार्थे शोकमुद्वोढुमर्हसि ॥ ७५ ।।
तसिम्विरतवाक्ये तु पतित्वा पादयोः पितुः ।
साश्रुकण्ठमथोवाच चन्द्रापीडः कृताञ्जलिः ॥ ७६ ।।
तात९ शङ्कितदोषस्य प्रायश्चित्तमिदं मम ।
गत्वा तमानयामीह१० त्वमनुज्ञातुमर्हसि ॥ ७७ ।।
तमागतमिहालोक्य पृष्ट्वा ११शपथपूर्वकम् ।
ततो गुणं वा दोषं वा क्रमेण१२ मम वेत्स्यसि ।।७८ ॥
तत्रस्थं १तमनानीय मयैतत्स्वगृहं पुनः ।
२न प्रवेष्टव्यमित्येष ३गृह्यतां मम निश्चयः ।। ७९ ।।
तथोक्तवति तस्मिंस्तु४ राजा बाष्पाकुलेक्षणः ।
५अपश्यन्मत्रिणो वक्रं स च तत्र बहूक्तवान् ।। ८० ॥
सर्वोपायप्रयोगेण पित्रा तेन च मन्त्रिणा।
चन्द्रापीडो निरुद्धोऽपि नाचलन्निश्चयात्ततः ॥ ८१ ॥
सिञ्चन्ती बाष्पधाराभिर्मौलिमस्य मनोरमा ।
करुणं विलपन्ती च चिरमेनमबोधयत् ॥ ८२ ॥
त्वयि स्थिते निजोत्सङ्गस्थितं६ पश्यामि ७पुत्रकम् ।
नूनमन्धीभवाम्येव त्वयि पुत्र८ गते पुनः ।। ८३ ॥
इत्थं विलासवत्या च तया च करुणोक्तिभिः ।
चिरमार्द्रीकृतोऽप्येष न जहाति स्म निश्चयम् ॥ ८४ ।।
ततोऽश्रुभरसंरुद्धगद्गदाक्षरया९ गिरा।
यथा जानासि पुत्रेति कथमप्यवदन्नृपः१० ।। ८५ ।।
दत्तानुज्ञस्ततः पित्रा प्रणम्य सकलान्गुरून् ।
श्रुत्वा च११ यत्नसंरुद्धबाष्पधारास्तदाशिषः ॥ ८६ ॥
चन्द्रापीडः १२पथि श्रान्तान्विनिवर्त्य यथा तथा ।
पार्थिवान्परिवारेण प्रातिष्ठत लघीयसा ।। ८७ ॥
किं तन्मयाभ्यधायीति दूयमानमनाः शुचा ।
सेनया१३ सह राजापि विवेश नगरीं शनैः ।।८८॥
बलाहकस्तु सेनानीर्वार्यमाणोऽपि भूभुजा ।
स्वगृहानप्रविश्यैव स चन्द्रापीडमन्वगात् ॥ ८९ ॥
चन्द्रापीडस्ततो गच्छन्दयितादर्शनोत्सुकः ।
अमन्यत १तृणायैव मध्यं कैलासविन्ध्ययोः ॥१०॥
नाजीगणद्द्रुमानद्रीन्न नदीर्न वनस्थलीः ।
न रात्रिं नापि२ दिवसं धावन्निन्द्रायुधेन सः ॥ ९१ ॥
ततः प्रावर्तत प्रावृट् पीनोन्नतपयोधरा ।
कान्ता नवरसार्द्रेव प्रत्युद्गन्तुमिवागता३ ॥ ९२ ।।
तामप्यगणयित्वासौ व्रजन्कतिपयैर्दिनैः ।
अच्छोदसरसस्तीरमवापाकलुषाम्भसः४ ॥ ९३ ।।
अपनीतसमायोगः परिवर्त्य च वाससी।
महाश्वेतामथ द्रष्टुं स जगाम तदाश्रमम् ॥ ९४ ।।
तत्रापश्यन्महाश्वेतां तदालोकनलज्जिताम् ।
५वदन्तीं निजदौरात्म्यं प्रलापकरुणस्वनाम्६ ॥ ९५ ।।
तत्कारणापरिज्ञानमोहनिष्पन्दपक्ष्मणा ।
निरीक्ष्य चक्षुषा पृष्टा चन्द्रापीडेन साब्रवीत् ॥ ९६ ॥
केयूरकमुखाद्बुध्द्वागतं त्वां पितुराज्ञया ।
दिनानि कतिचित्स्थित्वा ७कादम्बर्या निकेतने ।। ९७ ।।
तत एत्य यथान्यायमासीनात्र८ तपोवने ।
विप्रं युवानमद्राक्षं विचिन्वन्तं वनस्थलीः ॥९८॥ (युगलकम् )
सप्रत्यभिज्ञमालोक्य मामसौ ९मन्मथोन्मुखः ।
तीव्रमुद्वेजयामास नर्मवक्रोक्तिचापलैः ।। ९९ ॥
ततो निर्भर्त्स्यमानोऽपि वार्यमाणोऽपि यत्नतः ।
स बहूनि दिनान्यास्त तथा मामुपपीडयन् ॥ १० ॥
एकदा तु शयानां मामागत्य निशि निस्त्रपः।
कृताञ्जलिरनङ्गार्तो ययाचे रतिदक्षिणाम् ॥ १०१ ।।
ततो धिगिति सक्रोधमभिवाय कमण्डलोः ।
जलमुद्धृत्य शप्तोऽसौ मयानुध्याय देवताः ॥ १०२ ॥
शुकवन्मुखरागेण वक्तुमेवासि१ शिक्षितः ।
गच्छ दूर दुराचार शुक एव भविष्यसि ॥ १०३ ॥
शापेन तेन महता मदनाग्निना वा
जन्मान्तरोपचितदुष्कृतकर्मणा वा ।
चित्रेण वा भगवतश्चरितेन धातुः
प्राणानसावुदसृजन्निपपात चोर्व्याम् ॥ १० ॥
आक्रन्दतः परिजनात्सशुचोऽपरेद्युर्ज्ञातो२
मया स शुकनाससुतः सखा ते ।
तत्पश्य मां प्रियवयस्यवियोगहेतु-
मस्तत्रपामकरुणां प्रखलामभव्याम्३ ॥ १०५ ।।
इति श्रुत्वा भिन्नः प्रसममिव शूलाग्रशिखया
कदा त्वां पश्येयं कमलमुखि कादम्बरि पुनः ।
४वदन्नेवं शोकस्फुटितहृदयस्तत्क्षणमसू-
ञ्जहच्चन्द्रापीडस्तरुरिव पपात क्षितितले ॥ १०६ ॥
ततो ५भुग्नग्रीवं मुकुलितसितापाङ्गनयनं
प्रभां तन्वीं दीनामिव विदधतं दिक्षु शनकैः ।
क्षितौ विसस्ताङ्गं पतितममुमालोक्य विवशा
महाश्वेता सद्यः कथमपि न याति स्म दलशः ॥ १०७ ।।
द्रष्टुं दीनामिव वसुमतीमक्षमस्तेन शून्यां
कुर्वन्नुद्यद्विरहकरुणाक्रन्दिनश्चक्रवाकान्६ ।
अब्रह्मण्यध्वनिमिव करैरूर्ध्वशाखैर्विमुञ्च-
न्नस्तं तिग्मद्युतिरपि ततः क्षामधामा जगाम ॥ १०८ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
षष्ठः सर्गः।
तस्मिन्नवसरे बाला कादम्बर्यपि वेधसा ।
तत्रैवानीयतानेकमायावैचित्र्यकारिणा ॥१॥
असौ हि पत्रलेखाया मुखात्केयूरकस्य च ।
असंशयं१ समायातं चन्द्रापीडमबुध्यत२ ॥ २ ॥
ततः सकलविस्रम्भयोग्यं विगतयन्त्रणम् ।
महाश्वेताश्रमं३ प्राप्तं प्रत्युद्गन्तुमियेष तम् ॥ ३ ॥
वैशम्पायनविध्वंसवृत्तान्तसमनन्तरम् ।
चन्द्रापीडमनःपीडां क्यस्यविरहोद्भवाम् ॥ ४ ॥
शङ्कमाना महाश्वेता तत्समाश्वासकारणम् ।
कादम्बरीं परिज्ञाय४ तदागमनसत्वरा ॥ ५॥
५तस्यास्तरलिकां गेहं शीघ्रमागम्यतामिति ।
संदिश्य प्राहिणोत्सा ६च तूर्णं गत्वा तथावदत् ॥६॥ (तिलकम्)
जातोत्साहा महाश्वेतासंदेशेन ७भरीयसीम् ।
गमनोत्कलिकां दध्रे बुद्धौ कादम्बरी ततः ॥ ७ ॥
ताम्बूलपटवासादिसंविधानविदग्धया८ ।
हृदयप्रख्यया सख्या सहिता मदलेखया ॥८॥
पत्रलेखां पुरस्कृत्य प्रियचर्चाविचक्षणाम्९ ।
केयूरकं१० च तत्रैव दिने तां भुवमाययौ ॥ ९ ॥
आयान्त्याश्च तदा तस्या दुर्निमित्तपरम्परा ।
प्रादुर्बभूव बालाया हृदयोत्कम्पकारिणी ॥ १० ॥
महाश्वेताश्रमोपान्तमापदस्तं गते रवौ ।
उदिते च निशानाथे संतप्तकरुणाहृदे ॥ ११ ॥
आसाद्य च तमुद्देशं करुणं रोदनध्वनिम् ।
वनान्तकंदरोद्भूतप्रतिशब्दमथाशृणोत् ॥ १२ ॥
मन्ये सैव महाश्वेतावर्त्मनीयमुपस्थिता ।
इत्यसौ शङ्कमानेव विवेश द्रुतमाश्रमम् ॥ १३ ॥
ततः प्रविश्य सापश्यत्प्राणनाथं तथास्थितम् ।
महाश्वेतां १च तामार्तनिनादं रुदतीं भृशम् ॥ १४ ॥
२तामुद्वीक्ष्य महाश्वेतां विकसच्छोकविह्वला ।
नितान्तताडितोरस्कं३ रुदती मोहमागमत् ॥ १५ ॥
पत्रलेखापि तद्रूपचन्द्रापीडविलोकिनी ।
मुमोच४ सहसा प्रज्ञां निपतन्ती शिलातले ॥ १६ ॥
कादम्बर्या ५तु धैर्येण पृष्टा तरलिका तदा ।
आचचक्षे यथावृत्तं सर्वं ६तन्मरणक्रमम् ॥ १७ ॥
तदाकर्ण्य विहायैव वैक्लव्यं स्त्रीजनोचितम् ।
७लब्धसंज्ञां महाश्वेतां मदलेखां च ८सावदत् ।। १८ ।।
संततस्थूलधारेण चिरात्प्रभृति रोहता।
खिन्नाहमधुनानेन९ रोदनेन गरीयसा ॥ १९ ॥
यथायोग्येन गच्छामि नहि शक्नोमि रोदितुम् ।
१०सखि मे दर्शितः पन्था नाथेनैव महात्मना ॥ २०॥
अयं सुहृद्वियोगेन नारोदीद्विललाप वा ।
प्राणानेव प्रियानौज्झीत्स पन्थाः क्व गतो मम ॥ २१ ।।
युक्तं सखि महाश्वेते तव ११प्राणितुमीदृशम् ।
जीविता देवताभिस्त्वं पुनस्तत्संगमाशया ॥ २२ ॥
अहं सर्वप्रकारं१२ तु विधिभग्नमनोरथा ।
करोमि दुर्भगैः प्राणैः किं कल्याणबहिष्कृता ॥ २३ ॥
मदलेखे तथा कुर्यास्तातोऽम्बा च कुले स्थितौ ।
मद्वियोगोपतापेन यथा न धृतिमुज्झतः ॥२४॥
स्वयमेवासितव्यं२ तु मद्वासभवने३ त्वया ।
यथा मणिगवाक्षेषु शेरते नोर्णनाभयः ॥ २५ ।।
कुमारस्तत्र चित्रस्थो मयैव लिखितः स्वयम् ।
रक्षणीयो यथा ४नास्तमेति चित्रस्थितोऽप्यसौ ॥ २६ ॥
शयनीयशिरोभागे५ रत्नभित्तिनिवेशितः ।
कामदेवपटः क्वापि निक्षेप्तव्यो वृथार्च्चितः ॥ २७ ॥
क्रीडापर्वतको देयः प्रशान्ताय तपस्विने ।
तत्रोषितं कुमारेण नहि सोऽन्यस्य शोभते ॥ २८ ॥
दीर्घिकाराममध्ये मे पद्मिनीखण्डमण्डिता६।
तत्रास्ते कृतवास्तव्यं राजहंसकदम्बकम् ॥ २९ ।।
धारायन्त्रैः प्रपूर्णा च क्रीडावापी तदन्तिके ।
स्नेहान्मया स्वयं सिक्तमस्ति लीलावनं नवम् ॥ ३० ॥
तसिन्कृतनवोद्वाहा बकुले ७मालती मया ।
मुक्तः कङ्कणको नास्या मोचनीयस्त्वयैव सः ॥ ३१॥
मया पुत्रीकृतश्चासावशोकतरुबालकः ।
वर्धनीयः स्वहस्ताम्बुसेकैः स्तन्यपयोनिभैः ॥ ३२ ॥
गृहे मुहुरपश्यन्ती मामसौ चपलेक्षणा८।
नूनं हरिणिका चास्ते९ १०प्रापयेस्तां च काननम् ॥ ३३ ।।
शुकः स परिहासो मे कालिन्दी सा च शारिका।
यथा न कलहायेते तथा कुर्याः प्रतिक्षणम् ॥ ३४ ॥
नित्यमेव मदुत्सङ्गलालिता नकुलाङ्गना ।
स्वाङ्के शाययितव्यासौ यथा याति न दूरतः ॥ ३५ ॥
किं१ कार्यमथवा गेहे चिन्तया दीर्घयानया ।
संपादय चितामाशु प्रज्वलज्जातवेदसम्२ ॥ ३६॥
केयूरक चिरं किं ३मामतिदीनामवेक्षसे ।
उत्तिष्ठ चिनु काष्ठानि समाहर हुताशनम् ॥ ३७ ॥
लावण्याम्बुमयो देहः क्रियते कथमग्निसात् ।
४कुमारममुमादाय पतामि वरमम्भसि ॥ ३८ ॥
कुमारे मित्रदुःखेन तत्क्षणोज्झितजीविते ।
५इयन्तमपि जीवन्ती कालं लज्जेऽहमात्मना६ ।। ३९ ॥
द्रष्टव्यासि कदेत्येवमभिधायैव मां गतः ।
सेयं चिरयतीत्येवमधुनाभिदधीत सः ॥ १० ॥
इति ७कादम्बरीं सद्यो मरणव्यवसायिनीम्८ ।
शिशिरज्योतिरालोक्य९ कम्पमान इवाभवत्१० ॥ ४१ ।।
येन दुग्धाब्धिकल्लोलप्लाव्यमान इवाभवत् ।
प्रवृत्तदन्तवीणश्च११ सकलः कन्यकाजनः ॥ १२ ॥
अथ दिव्याकृतिः कोऽपि पुरुषो १२गगनस्थितः।
गर्जेद्धनघटाधीरगम्भीरध्वनिरभ्यधात् ॥ १३ ॥
त्वं हि वत्से महाश्वेते पूर्वमाश्वासिता मया ।
१३स्थितो मदन्तिकेऽद्यापि पुण्डरीकस्तव प्रियः ॥ ४०॥
चन्द्रापीडस्त्वयं कंचित्कालं १४निद्रायमाणवत् ।
अत्रैवाविचलत्कान्तिरास्तां कादम्बरीप्रियः ॥ ४५ ॥
अनेन हि पुनर्लब्धनिरपायस्थिरायुषा ।
गाढकण्ठग्रहानन्दः कादम्बर्याः करिष्यते ॥ ४६॥
भक्त्योरयमेवास्तु १चित्तसंप्रत्ययो दृढः ।
नस्प्रक्ष्यति २विकारो यदेनं भूतस्वभावजः ॥ १७ ॥
इत्युक्त्वा ज्योतिषा तेन सहसैव तिरोदधे ।
सविस्मयस्तदा चाभूदखिलः कन्यकाजनः ॥ १८ ॥
पत्रलेखा च३ तेनैव ज्योतिषो वचनेन ४सा ।
लब्धसंज्ञा५ समुत्थाय गत्वा च६ त्वरितैः पदैः ।। ४९ ॥
तमिन्द्रायुधनामानमश्वमादाय७ केसरात् ।
तेनैव ८संहितागाधमविशन्मध्यमम्भसः ॥ ५० ॥
शङ्कितेव च९ तां वेगयातां तरलिकान्वगात् ।
सा ददर्श पयोमध्यादुद्गच्छन्तं कपिञ्जलम् ।। ५१ ॥
प्रसृत्य १०व्याचचक्षे ह यथालोकितमद्भुतम् ।
तेनापि विस्मयस्तासां ११कन्यानां ववृधेतराम् ।। ५२॥
अथ बिभ्रज्जटास्तन्वीः १२स्रुताम्बुकणदन्तुराः।
१३जलार्द्रवल्कलस्ताभिरदृश्यत कपिञ्जलः ।। ५३ ॥
स्वयमेवोपसृत्यासौ१४ महाश्वेतामभाषत ।
राजपुत्र्यपि नामार्थं प्रत्यभिज्ञायते जनः ॥ ५४ ।।
अहं कपिञ्जलस्तस्य वयस्सो दयितस्य ते ।
चिरागमनदौरात्म्यादुपालभ्योऽस्मि न१५ त्वया ॥ ५५ ॥
कादम्बर्या त्वया चैताः१६ श्रुताश्चन्द्रमसो गिरः।
मदीयमपि वृत्तान्तमधुना शृणुतं युवाम् ॥५६॥
अप्युत्क्षिप्य तथा१ नीते वयस्ये तेन तत्क्षणम् ।
अहं२ गगनमुत्प्लुत्य३ तमेवानुसरन्नगाम्४ ॥ ५७ ।।
ततोऽसौ दूरमुत्प्लुत्य५ प्रविश्य शशिमण्डलम् ।
६पश्चादेव प्रविष्टं मामवलोक्येदमब्रवीत् ।। ५८ ॥
कपिञ्जल मृगाङ्कं मां विद्धि सोऽहं ७तवामुना ।
वयस्येन वृथा शप्तो हेमकूटगते८ त्वयि ।। ५९ ॥
वोढव्या लोकयात्रा हि लोकपालतया मया ।
उदितोऽहं निजे काले ततः९ प्रविकिरन्करान् ॥ ६० ।।
अयं मदंशुसंस्पर्शप्रवृद्धाधिकमन्मथः१० ।
कण्ठोपान्तगलप्राणो११ रूक्षं मां वीक्ष्य शप्तवान् ।। ६१ ।।
यथाद्य१२ विरहार्तोऽहमेत्य१३ व्यापादितस्त्वया ।
मरिष्यसि तथैव त्वमिन्दो जन्मनि जन्मनि ।। ६२ ।।
परिशप्तो मयाप्येष त्वमप्येवं मरिष्यसि ।
१४भद्वदेवेत्यनागस्कशापतापोदितक्रुषा ।। ६३ ॥
ततः प्रतनुमन्योर्मे परिताप इवाभवत् ।
१५जामातायं महाश्वेतासंबन्धादिति१६ पश्यतः ॥ ६४ ।।
कुर्यादपि१७ प्रतीकारं श्वेतकेतुर्महातपाः ।
१८शरीरमस्य रक्षामि सामृतैरहमंशुभिः ॥ ६५ ।।
इत्युत्क्षिप्य मयेहायमानीतस्त्वं च सत्वरम् ।
गत्वा निवेदयेमं तु वृत्तान्तं श्वेतकेतवे ।। ६६ ।।
इति चन्द्रमसो वाक्यं श्रुत्वाहं दिवमुत्पतन् ।
१९त्वरितप्रसूतः कंचिद्वैमानिकमलङ्घयम् ॥ ६७ ।।
स च मामशपत्कोपादश्चेनेव तपोबलात् ।
त्वयाहं लङ्घितस्तस्मादश्व एव भविष्यसि ॥ ६८ ॥
स मया प्रणिपत्योक्तः १सुहृच्छोकान्वचेतसः ।
प्रमादान्न तपोदर्पान्मम तत्संहर क्रुधम् ॥ ६९ ॥
स त्वभाषत दत्तोऽयं शापो भवति नान्यथा ।
तारापीडस्य पुत्रार्थमुज्जयिन्यां तपस्यतः ।। ७०॥
२राज्ञो यास्यति पुत्रत्वं चन्द्रमाः सनिदर्शनम् ।
पुण्डरीकस्तदीयस्य शुकनासस्य मन्त्रिणः ॥ ७१।।
तारापीडसुतस्येन्दोर्गन्ता३ वाहनतां भवान् ।
तस्यावसाने ४स्नात्वैव शापस्यान्तो भविष्यति ।। ७२ ॥
तदाकार्ण्यार्णवे तूर्णमपतं शापमूर्च्छितः ।
ततोऽश्वीभूत एवाहमुदतिष्ठमयोनिजः ।। ७३ ।।
स्मृतिस्तुरगभावेऽपि५ न मे नष्टा कदाचन ।
ममैवायमिहानीतः किंनरानुसृतिक्रमात् ॥ ७ ॥
वीप्सान्वितश्च ६शापोऽयं परस्परमभूतयोः ।
द्वितीयजन्मयोगेन ७तयोर्भाव्यमतो ध्रुवम् ॥ ७५ ॥
तद्गच्छामि यथावृत्तमाख्यातुं श्वेतकेतवे ।
द्वितीयजन्मग्रहणं क्व तयोश्चेति वेदितुम् ।। ७६ ॥
कपिञ्जलकथातस्तं८ वैशम्पायनविग्रहम् ।
पुण्डरीकं परिज्ञाय महाश्वेतान्वतप्यत ।। ७७ ॥
द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे ।
शप्तो मदनुरक्तोऽसौ मयेति विललाप सा ।। ७८ ।।
कपिञ्जलस्तदा९ त्वेवं रुदतीं तामवारयत् ।
अब्रवीच्चावधिः पूर्णः प्रायो दुःखस्य वर्तते ॥ ७९ ॥
१अल्पेनैव हि कालेन पुण्डरीकस्य १सस्मितम् । अक्षमालां पुनः पाणिपल्लवे विनिधास्यसि ।। ८०॥ कादम्बर्यपि माधुर्यमुग्धस्मितसुधाञ्चितैः । ३प्रमोदयिष्यते सान्द्रैश्चन्द्रापीडस्य भाषितः ८१ ॥ कादम्बरी तमप्राक्षीद्भगवन्सा४ क्व वर्तते । पत्रलेखेति स त्वाह मया नाज्ञायि तद्गतिः ॥ ८२ ॥ इत्युक्त्वोदपतद्वयोम रोमकूपाम्बुविप्रुषः । ५अच्छोदबिन्दुसंदिग्धाः किरन्नथ कपिञ्जलः ॥ ८३ ॥ तस्मिन्गते महाश्वेताकादम्बर्यौ तथैव ताम् । सशोकविस्मयोत्कम्पे कथया निन्यतुर्निशाम् ॥ ८४ ॥ महाश्वेताकथावृत्ते६ तत्राप्यधिकनिश्चया । कादम्बर्याः स्थिरं चित्ते७ सा प्रत्ययमजीजनत् ।। ८५ ॥ अपरेद्युरथ स्फीतस्फटिकोपलवेदिकाम् । हृद्यामारोप्य कर्पूरतुषारकणदन्तुरैः ।। ८६ ॥ अभिषिच्य जलैः स्वच्छैरनुलिप्य च चन्दनैः। आनर्च चन्द्रापीडस्य देहं कादम्बरी चिरम् ॥ ८७ ।। यदि सत्योऽयमाश्वासः८ सर्घं स्वस्थमथान्यथा । क्व गतो मे तदा मृत्युरित्यन्तर्निश्चिकाय सा ॥ ८८ ॥ जगाद च महाश्वेतामिदानीं ९ननु न त्रपे । सखीति १०व्याहरन्ती त्वां दुःखसब्रह्मचारिणीम् ।। ८९ ॥ विधिना विदधानेन समानसुखदुःखताम् । आवयोश्चिरसंरूढं ११सेखीप्रेम न दूषितम् ॥ ९ ॥ ततः प्रभृति सा मूर्तिमर्चयन्त्यास्त१२ तापसी। चन्द्रापीडस्य चन्द्रार्धचूडस्येव दिवानिशम् ॥ ९१ ॥
दिवसेष्वथ गच्छत्सु निर्विकारशरीरताम् ।
चन्द्रापीडस्य पश्यन्ती स्थिरामाशां१ बबन्ध सा ।। ९२ ॥
ततः सेनान्यमाहूय बलाहकमभाषत ।
विदितस्तव सर्वोऽयं वृत्तान्तो बहुविस्मयः ॥ ९३ ।।
देहकान्त्यविनाशेन जातः संप्रत्ययश्च नः ।
अर्हस्युज्जयिनीं गन्तुं २प्रेभोराश्वासकारणात् ।। ९४ ॥
सोऽब्रवीद्देवि ३तंत्रान्यं प्रज्ञातं प्रहिणोम्यहम् ।
युवराजमिहोत्सृज्य न गन्तुं ४स्वयमुत्सहे ॥ ९५ ।।
ततस्त्वरितको नाम राज्ञो निकटसेवकः५ ।
प्रहितस्तेन लेखश्च स्वहस्तलिखिताक्षरः ॥ ९६ ॥
स गत्वोज्जयिनीं प्राप्य सर्वं राज्ञे न्यवेदयत् ।
राजा सान्तःपुरामात्यस्तदोश्रौषीद्यथाक्रमम् ॥ ९७ ॥
ततस्तनयहृद्भङ्गश्रुतिव्यामूढचेतनः ।
६उत्तरसिंश्च वृत्तान्ते न दृढप्रत्ययोऽभवत् ।। ९८॥
शुकनासस्तु तं प्राह कर्मवैचित्र्यवेदिनः।
श्रुतेतिहासशास्त्रस्य देव कोऽत्र तव भ्रमः ॥ ९९ ।।
देवतानामृषीणां च मर्त्यदेहपरिग्रहः ।
श्रूयते हि पुराणेषु स्मृतावपि च पठ्यते ॥ १० ॥
७चित्राश्चातिशयाः पुंसाममानुषजनोचिताः ।
किमप्यलौकिकं बीजमनुमापयितुं क्षमाः ॥ १०१ ॥
८कुमारश्च गुणैरिन्दोरतिदूरं न भिद्यते ।
सा कान्तिराकृतिः शक्तिः क्व ९दृष्टा चान्यमानुषे ।। १०२ ॥
स्वप्ने देवीमुखे दृष्टचन्द्रमास्तु विशंस्त्वया१० ।
मया११ च पुण्डरीकाङ्का ब्राह्मणी समदृश्यत ।। १०३ ॥
शाप एव तयोरासीदावयोस्तु परो वरः ।
देवताः पुत्रतां यान्ति २यद्गृहे मर्त्यधर्मिणाम् ॥ १०४ ॥
३कपिञ्जलः पुनस्तादृगविलुप्तगतिर्दिवि ।
आचक्षीत ४कथं मिथ्या तुरगो नु क्व तादृशः ॥ १०५ ।।
इदं क्वान्यत्र दृष्टं वा जीवितेनोज्झितोऽपि यः५।
६पंचभूतात्मको देहः स यदेति न विक्रियाम् ॥ १०६ ॥
ब्रूयात्त्वरितको मिथ्या लिखेन्मिथ्या बलाहकः ।
सुपरीक्षितभृत्यस्य७ नेयं शङ्का तवोचिता ॥ १०७ ॥
विदधतमसमोल्लसत्प्रमोदं८ जगदचिरादवलोकयिष्यसि त्वम् ।
शशिनगिव विधुतुदेन मुक्तं व्यपगतशापकदर्थनं कुमारम् ॥ १०८ ॥
इति मस्त्रिवचांसि शृण्वतोऽपि स्वसुतस्नेहविसंस्थुलस्य९ राज्ञः ।
न धृतिं१० प्रतिपद्यते स्म चेतो गमने च व्यवसाबमाललम्बे ॥ १०९ ॥
अथ सह महिषीभिर्बाष्पपूर्णेक्षणाभि-
र्निजसचिवसमेतोऽगच्छदच्छोदतीरम्११ ।
शिथिलितसकलास्थः१२ पार्थिवस्तं च यान्तं
जनपदपुरलोकः सर्व १३एवान्वगच्छत् ॥ ११० ॥
तस्मिन्गतेऽथ विजनापणवीथिकान्ता
कान्तारभूरिव तदोज्जयिनी बभूव ।
याते दिवं सकललोकमनोभिरामे
रामे यथा इतसमृद्धिरभूदयोध्या ॥ १११ ।।
गत्वा नृपः सुतमवेक्ष्य चिरं रुदित्वा
तत्तद्विलप्य सह तत्र विलासवत्या ।
उत्सृज्य राज्यविभवं यतिवध्द्यधत्त
तत्रैव वल्कलधरः स्थितिमद्य १तावत् ॥ ११२ ॥
इत्युक्त्वा कृतजृम्भिकः क्षणमिव स्थित्वाचचक्षे २पुन-
र्जाबालिर्भगवानहो ३बत रसाद्दीर्घा कथा वर्णिता ।
४तद्योऽसौ शुकनाससूनुरनया शप्तो महाश्वेतया
वैशम्पायन एष सोऽद्य शुकतां तेनागतः कर्मणा ॥ ११३ ।।
अपि ५चाविनयेन कोपितः शुकनासोऽस्य६ पिता यदब्रवीत् ।
शुक एवं वृथा स पाठितः फलितं ७तच्च वचोऽद्य शापवत् ॥ ११४ ॥
श्रुत्वैतां तु कथां तपोधनगणैः पृष्टः पुनर्विस्मितैः
को हेतुर्भगवन्यदस्य ८मदनस्तावान्मुनेरप्यभूत् ।
जाबालिः पुनराह नन्वभिहितं स्त्रीवीर्यतः केवला-
दुत्पन्नोऽयमतो रजस्वलतया नारीस्वभावोऽभवत् ॥ ११५ ॥
विरतवचसि तस्मिन्नेतदुक्त्वा९ महर्षौ
रजनिरपि समाप्तिं सा कथावत्प्रपेदे ।
तदनु मुनिजनेनाकारि१० पूर्वाह्नसंध्या-
समयसमुचितेषु ध्यानकार्येषु सिद्धिः ॥११६ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
सप्तमः सर्गः।
अष्टमः सर्गः।
सम्पाद्यताम्अथ ११मां श्रुतजाबालिप्रोक्ताखिलकथाक्रमम्१२ ।
अस्पृशद्बालभावेऽपि १३प्राग्जन्मचरितस्मृतिः ॥ १॥
श्वेतकेतुसुतो१४ भूत्वा १५शुकनाससुतोऽभवम् ।
स वैशम्पायनोऽद्याहं जातः पुत्रः पतत्रिणः ॥२॥
१मम जातस्मृतेर्व्यक्ता प्रावर्तत सरखती।
२स्वयं प्राग्जन्मविद्याश्च हृदयं प्रतिपेदिरे ।। ३ ।।
यथैव चान्ये संस्काराः प्राक्तना मामुपागमन् ।
महाश्वेतानुरागोऽपि ३तथैव समुपागमत् ।। ४ ।।
४अथाभ्यधिकहारीतस्नेहसंवर्धितः क्रमात् ।
गगनाक्रमणे शक्तिमवापं ५जातपक्षतिः ॥ ५ ॥
दिवसेष्वथ गच्छत्सु ६शनैरारूढयौवनः ।
गन्तुमैच्छं७ महाश्वेताश्रमं८ तद्दर्शनोत्सुकः ॥ ६॥
९अचिन्तयं च जन्मेदं विहगस्यापि यातु१० मे।
महाश्वेताश्रमोपान्ते११ तरुकोटरशायिनः ॥ ७ ॥
एकदा त्वथ जाबालेराश्रमं १२समुपागमत् ।
ताताज्ञया सुहृत्स्नेहपराधीनः कपिञ्जलः ॥ ८ ॥
स च१३ पप्रच्छ हारीतं क्व वैश्यम्पायनः शुकः ।
उत्पन्नप्रत्यभिज्ञोऽहमयमस्मीत्यवादिषम् ॥ ९॥
ततश्चिरमरोदीत्स स्ववक्षसि निधाय माम् ।
वयस्यपुण्डरीकस्य धिगियं१४ वर्तते दशा ॥१०॥
१५मयापि रुदतोक्तोऽसौ किं रोदिषि कपिञ्जल ।
१६त्वयापि मत्कृते दृष्टा सखे १७कष्टतरा दशा ।। ११ ।।
क्व हेषा क्व जपाभ्यासः क्व पर्याणं क्व वल्कलम् ।
कोपवीतं क्व वा वल्गा क्व मुनिः क्व तुरंगमः ॥ १२ ॥
ततः क्षणमिव स्थित्वा तातसंदेशमब्रवीत् ।
कपिञ्जलः समासेन पुनर्गमनसत्वरः ॥ १३ ॥
तातस्त्वामादिदेशैवं१ वत्स दोषस्तवात्र कः ।
रजोविकृतयो युक्ताः शुद्धस्त्रीबीजजन्मनाम्२ ॥ १४ ॥
३अल्पायुषं विदित्वापि जाते४ त्वयि न यन्मया ।
५कृता प्रतिक्रिया तत्र तदालस्यं हि मामकम् ॥ १५ ॥
अद्यायुष्कामयागस्तु प्रस्तुतः स समाप्यते ।
न यावद्भवता तावन्न गन्तव्यमितः क्वचित् ॥ १६ ॥
अहं त्वदन्तिके स्थातुमिच्छन्नपि निवारितः ।
६तातेन तत्र कर्मैकदेशलेशाङ्गतां७ गतः ॥ १७ ॥
इत्याख्याय परिष्वज्य ८क्रियाभ्यावर्तनेन माम् ।
क्रमेणामन्त्र्य स ९मुनीन्प्रतस्थे दिवमुत्पतन् ॥ १८ ॥
गृहीततातादेशोऽपि काले गच्छत्यहं बलात् ।
नीतो वारितवामेन कामेन वशमात्मनः ॥ १९ ॥
अनुभूय चिरं तत्र चित्राः स्मरबिभीषिकाः ।
१०अकार्षं धियमुत्क्रान्तगुर्वाज्ञो११ गमनं प्रति ॥ २० ॥
एकदा त्वाश्रमं शून्यं वीक्ष्य निर्गततापसम् ।
एकाकी सहसोड्डीय प्रस्थितोऽस्म्युत्तर दिशम् ॥ २१ ॥
अदूरोड्डीन एवाहमनभ्यस्तावलङ्घनः।
१२क्रान्तस्तृषा च क्लान्त्या च जलं क्वचिदतर्कयम् ॥ २२ ॥
ततः क्वापि पयः पीत्वा किंचिदादश्य चञ्चुना ।
१३विश्रान्तयेऽविशं श्रान्तस्तरोः कस्यापि कोटरे ।। २३ ।।
क्षणं तत्र निषण्णस्य तदा मे निद्रवा मनः ।
गाढया पाशपङ्क्त्या च १४शरीरकमगृह्यत ॥ २१॥
अथ सुप्तोत्थितोऽपश्यमग्रतो नातिदूरगम् ।
कृतार्थमिव १मातङ्गयुवानं मम बन्धनात् ॥ २५ ॥
आकृत्या २कर्मणा चास्य समर्थ्यापिशितार्थिताम् ।
प्रार्थनापेशलं किंचिदात्ममोक्षार्थमभ्यधाम् ॥ २६ ॥
भद्र सौम्याकृतिस्त्वं हि न मांसार्थीव दृश्यसे ।
नहि मांसार्थिनो युक्तं निद्राच्छेदप्रतीक्षणम् ।। २७ ।।
३तदुन्मुञ्चतु मां भद्र सुखं यामि ४यथेप्सितम् ।
मया बद्धेन कोऽर्थस्ते का५ विमुक्तेन वा क्षतिः ॥ २८ ॥
सोऽब्रवीन्न स्वतन्त्रेण ६गृहीतोऽसि मया शुक ।
ग्रथितस्त्वं हि जाबालेराश्रमे सुचिरं स्थितः ॥ २९ ॥
स त्वं गतो मम स्वामिदुहितुः कर्णगोचरम् ।
तन्नियोगाद्गृहीतोऽसि ७कथमुन्मुच्यसे मया ॥ ३० ॥
८पुनराख्याममुं सौम्य युवासि स्मरवेदनाम् ।
जानासि न प्रियोत्कण्ठाकृष्टं मां रोद्धुमर्हसि ॥ ३१ ॥
सोऽभाषत न भृत्येन तरुणेनापि शासनम् ।
स्वामिनोऽलङ्घनीयं तत्कथं त्वां त्यक्तुमुत्सहे ॥ ३२ ॥
अवोचं पुनरप्येनं ९शापाज्जातिस्मरो मुनिः।
शुकीभूतोऽस्मि मां मुञ्च परं पुण्यमवाप्स्यसि ॥ ३३ ॥
स त्वाह नाहं१० जानामि मुनिं गन्धर्वमेव वा ।
राक्षसं वा पिशाचं वा नीत एवासि ११पक्वणम् ॥ ३४ ।।
इत्युक्त्वादाय पाणौ मामनैषीत्पक्वणं बलात् ।
१२प्रावेशयच्च चण्डालकुमारीवेश्म कश्मलम् ॥ ३५ ॥
दृष्ट्वा तदार्द्रगोमांसवसासृक्पङ्कपिच्छलम्१३।
पोच्छलत्क्रिमि१४ मत्प्राणैरुत्क्रान्तमिव दुर्भगैः ॥ ३६ ॥व दुर्भगाम्' ख.
अथ मातङ्गकन्यायै स मामस्यै न्यवेदयत् ।
स्वामिन्ययमिहानीतः स वैशम्पायनः शुकः ॥ ३७ ।।
साकूतमिव मां वीक्ष्य १स्नेहबाष्पार्द्रया दृशा।
क्षणं वक्षसि धृत्वैषा २न्यक्षिपद्बद्धपाञ्जरे ।। ३८ ॥
ततोऽतिमहता ३चक्रे शोकेन हृदि मे पदम् ।
मुनिर्भूत्वाद्य ४चण्डाल्या अहं क्रीडाशुकः स्थितः ॥ ३२ ॥
व्यक्तां विदधता वाचं जातिं स्मरयता निजाम् ।
अहो जाबालिना दिव्यदृष्टिनापकृतं मम ॥ ४० ॥
अहो बत महत्कष्टमविषह्यमुपस्थितम् ।
ब्राह्मणेन मया नेयः कालश्चण्डालवेश्मनि ॥ ११ ॥
भवत्वनशनेनैव ५त्यजामि हतजीवितम् ।
ताड्यमानोऽपि नाश्नामि न वाचं विसृजामि च ॥ १२ ॥
एवमुद्वेजितैषा मां हन्याद्वा यदि ६वा त्यजेत् ।
भवत्युभयथाप्येष७ पन्थाः श्रेयस्करो मम ।। ४३ ॥
इत्युपारूढसंकल्पमुपाहृतफलोदुका८ ।
एषा चण्डालकन्या मामाख्यन्मधुरया गिरा ॥ १४॥
फलान्यशान पानीयमुपयुङ्क्ष्व किमीक्षसे ।
९भग्नमौनत्रतोऽप्यद्य किं मौनमवलम्बसे ॥ १५॥
मुनिर्जातिस्मरोऽसि१० त्वं यदि कोऽपि तथापि ते।
तिर्यग्जात्युचिता११ प्राणवृत्तिरेवाद्य संमता१२ ॥१६॥
न१३ तिर्यगधिकारं हि शास्त्रं शास्त्रविदो विदुः ।
तिरश्चां क्व च संस्काराश्चौडोपनयनादयः१४ ॥ १७ ॥
भक्ष्याभक्ष्याविचारादि यदि १५चाद्य चिकीर्षसि ।
तत्किमुच्छिष्टशौचादि नाश्रमेऽप्याश्रितं त्वया ॥ १८ ॥
१आपत्काले द्विजातीनामप्यनाश्यं न विद्यते ।
२हस्तादस्माकमादत्त विश्वामित्रः श्वजाधनीम् ॥ ४९ ॥
कृतद्वित्रोपवासोऽपि३ जिहासुरिव जीवितम् ।
लक्ष्यसे वत्स मामैवं कृथा४ भुङ्क्ष्व फलोदकम् ॥ ५० ॥
इत्यचण्डालसदृशैर्वाक्यैरस्त्रीजनोचितैः ।
तस्या विस्मयमानोऽहं चिरमेवमचिन्तयम् ॥ ५१ ।।
नूनमेषा न ५चण्डाली मद्वत्केनापि कर्मणा ।
६भन्ये गतिमिमां प्राप्ता ७मदर्थेनैव वा पुनः ।। ५२ ॥
बिभर्त्युरसि मातेव पश्यति स्निग्धया दृशा ।
वक्ति चैवमतोऽमुष्याः करोमि वचनं वरम् ।। ५३ ।।
इति मत्वासृर्ज वाचमभवं भोजनोन्मुखः ।
अभोजयच्च मामेषा जननीव दिने दिने ॥ ५४ ।।
तत्त्वमस्याः परिज्ञातुमन्वहं प्रार्थनां व्यधान् ।
न त्वेषा प्रार्थ्यमानापि निजं ८रूपमदीदृशत् ॥ ५५ ॥
९नित्यमाशङ्कमानोऽहमतां१० कामपि देवताम् ।
पोष्यमाणोऽनया कालमनैषं तत्र ११पक्वणे ॥ ५६ ॥
एकदा च१२ त्रियामान्ते परित्यक्तोऽस्मि निद्रया ।
अद्राक्षं पक्वणं सर्वमार्यप्रायजनावृतम् ॥ ५७ ।।
आत्मानं च नवोदारहेमपञ्जरवर्तिनम् ।
कन्यकामीदृशीं१३ चैतां दृष्टा देवेन यादृशी ॥५८॥ (युगलकम्)
१४तत्कोऽहं किमहं तत्र रक्षितश्चिरमेनया ।
कस्य हेतोरिहानीत इति राजन्न वेद्भयहम् ।। ५९ ॥
इत्याकर्ण कथामेतां वैशम्पायनवर्णिताम्१ ।
स राजा शूद्रकः २शय्यागृहादङ्गनभागमत् ॥ ६० ॥
ससंभ्रमं च निर्गत्य तूर्णमानाययत्पुनः ।
आस्थानावसरे ३दृष्टां तां मातङ्गकुमारिकाम् ।। ६१ ।।
अथ सा प्रविश्य विततेन तेजसा ददतीव दिक्षु शरदिन्दुचन्द्रिकाम् ।
४जिततारवेणुरवभिन्नवल्लकीध्वनिना स्वरेण गदितुं प्रचक्रमे ॥ ६२ ।।
हे रोहिणीरमण सर्वकलानिकेत
तारापते रजनिनाथ सुधानिधान ।
कादम्बरीरसगुणेषु ५निबद्धभाव-
मात्मानमर्पितशरीरमनुस्मरेन्दो ॥ ६३ ॥
मां च विद्धि शशकेतन श्रियं साहमस्य जननी दुरात्मनः ।
पूर्वचेष्टितमवैत्वतो६ भवानित्यमुं तव सभीपमानयम् ।। ६४ ॥
अयमपि गुरुशासनां७ विलङ्घय स्मरपरतन्त्रमनाः प्रयातुकामः ।
अविनयपरिशङ्किना तदानीमविकलयोगदृशा व्यलोकि पित्रा।। ६५ ।।
तस्याज्ञयैवमनुभावयितुं विपाक-
मासन्नमेव गुरुशासनलङ्गनस्य८ ।
९अत्रावतीर्य विपिने जनसङ्गभीत्या
मातङ्गभङ्गिमवलम्ब्य तथा स्थितास्मि ।। ६६ ।।
गच्छन्तमेनं विनयस्य पाशैस्तीव्राणि दुःखान्यनुभावयन्ती।
शापावसानं युवयोः ऋतोश्च समाप्तिमासं चिरमीक्षमाणा ।। ६७ ।।
मुनेरवमृथावधिः पितुरमुष्य सिद्धः क्रतुः
कृतस्त्वमपि१० संस्मृतस्वतनुरद्य तच्छासनात् ।
११तदुज्झितमलीमसेदृशशरीरयोगौ युवां
निजेन वपुषाधुनानुभवतां प्रियासंगमम् ॥ ३८ ॥
इत्युक्त्वोच्चैर्गमनरभसप्रश्लथीमूतबन्ध-
स्रग्विस्रस्तैः कुसुमविदलैरर्चयित्त्वेव९ पृथ्वीम् ।
दिक्चक्रं च प्रचलरशनानूपुरोत्थैर्निनादै-
रामन्व्येवं द्रुतमुदपतद्द्यामसौ दिव्यकान्तिः ॥ ६९ ॥
स्वतनुकान्तितिरस्कृतचन्द्रिकां गगनमुत्पतितामवलोक्य ताम् ।
सुचिरमूर्ध्वनिवेशितलोचनः कमपि विस्मयमाप जनोऽखिलः ॥ ७० ॥
अथास्य राज्ञो हृदि शूद्रकस्य निरस्तधैर्यादिगुणप्रबन्धः३ ।
कादम्बरीसंस्मरणानुबन्धलब्धावकाशो मदनो जजृम्भे ॥ ७१ ।।
न राजलक्ष्मीं बहु मन्यते स्म४ नोर्वीं न कीर्ति न सरस्वतीं च ।
स५ तद्रसक्षीव इवाललम्बे कादम्बरीमेव नितान्तमन्तः ॥ ७२ ॥
पराङ्मुखः स्पर्शरसेष्वजस्रं नादत्त कर्णौ मधुरेऽपि स ध्वनौ ।
जगाम निर्लक्ष्यनिविष्टलोचनः क्रमेण सर्वेन्द्रियवृत्तिशून्यताम् ॥ ७३ ।।
न गुरोरुपदेशमग्रहीद्वुबुधे वस्तु ततो न मूढधीः ।
यतते स्म न तस्य सिद्धये न परिस्पन्दितमप्यपारयत् ।। ७४ ।।
भूताभिभूत इव मूद इव क्रमेण
निःसंज्ञतां विरहवेदनयोपनीतः६ ।
भुक्त्वा७ मयोभवरुजं सुचिरं स राजा
प्राणान्मुमोच सहसैव विहंगमोऽपि ॥ ७५ ॥
जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य८ तनौ यदासीत् ।
तदेव संक्रान्तमथान्यदेहे९ चित्रा हि विश्वप्रकृतेर्विकाराः ॥ ७६ ।।
अत्रान्तरे चित्ररथात्मजायास्तनुं प्रियस्यान्वहमर्चयन्त्याः।
१०तथैव कालः सुमहानगच्छदच्छोदतीरे तपसि स्थितायाः ।। ७७ ॥
अथ मधुसमये विजृम्भिते सा मदनमहोत्सववासरे सरागम् ।
मलयजधनसारद्दारपुष्पैस्तनुमतिमात्रमलंचकार भर्तुः ॥ ८ ॥
तं वीक्ष्य तापसदृशापि१ तदा जगाम
कामस्य गोचरमसौ मधुजृम्भितस्य ।
एकाकिनी सपदि दिक्षु निधाय चक्षुः
कान्तं स्वपन्तमिव निर्भरमालिलिङ्ग ॥ ७९ ॥
चन्द्रापीडं सा च जग्राह गाढं कण्ठस्थाने जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे ।। ८० ॥
शिलाशस्यां त्यक्त्वा तदनु चिरसुप्तोत्थित इव
क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य३ नयने ।
ततश्चन्द्रापीडः प्रहतमुरजघ्बानपटुना
स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम् ।। ८१ ॥
४त्वगभृतप्रभवेऽप्सरसां कुले५ सुतनु जन्म समर्थितवत्यसि ।
यदमुना परिरम्भलवेन६ ते सपदि जीवितमापदयं जनः ।। ८२ ॥
मामन्वबीभवदिमामियतीमवस्यां
७शापः कलङ्क इव कान्तिहरो द्वितीयः ।
त्वद्विप्रयोगकृत एव बभूव ताप-
स्तन्वङ्गि शुद्रकतनोरपि मृत्यवे मे ॥ ८३ ॥
संरक्षिता तनुरियं तु तव प्रियेति
शापः कृशोदरि विराममवाप८ पाषः ।
अद्यप्रभृत्यखिलमेव हि चन्द्रलोकं
शाधि स्वपादकृतमुद्रमिमं९ च लोकम् ॥ ८४ ॥
सख्याः प्रियं पितृतपोभिरवाप्तदिव्य-
जीवं कपिञ्जलकरार्पितपाणिपद्मम् ।
मन्मण्डलादवतरन्तमखण्डकान्ति-
मापाण्डगण्डमवलोकय पुण्डरीकम् ।। ८५ ।।
कौतूहलात्सह मयैव गतेन्दुलोक-
मालोकयिष्यसि कदाचन पत्रलेखाम् ।
कापि प्रिये सहचरी मम सा ततस्त्या
मा तेऽद्यभूत्तदनवाप्तिकृतो१ विषादः ॥ ८६ ॥
श्रुत्वेति तस्य गिरमुत्सुकतां गतासौ
रोमाञ्चकञ्चुकमकृत्रिममुद्वहन्ती ।
कादम्बरी चरणयोर्निपपात २पत्यु-
रानन्दबाष्पकणशीकरितेक्षणश्रीः ॥ ८७ ॥
उत्थाय त्वरितोपसृत्य च महाश्वेतां परिष्वज्य सा
प्रत्यक्षीकृतपुण्डरीकपदवीं कृत्वा च लब्धोत्सवाम् ।
दिव्या वर्धयितुं न्ययुङ्क्त रभसेनास्य केयूरकं
तारापीडतपोवने ३परिजनं पित्रोर्गृहे चापरम् ।। ८८ ॥
तारापीडः ५कृशपरिणतोऽप्याययौ तत्र तूर्णं
सानन्दान्तःपुरपरिजनामात्यवर्गानुयातः ।
६तस्मिन्काले सखिसहचरः पुण्डरीकोऽपि नाका-
७त्किंचिल्लज्जावनतवदनो वल्लभां स्वामुपेतः॥ ८९ ॥
चन्द्रापीडः स्वामपि जानन्नथ मूर्तिं
तारापीडं पुत्रवदेव प्रणनाम ।
तद्वत्तं८ च प्रश्रयशीलं शुकनासं
दत्तानन्दोऽवन्दत सर्वाश्च ९जनित्रीः ।। ९० ॥
माया धातुरियं भवेद्भगवतः किं श्वेतकेतोरिदं
सामर्थ्ये तपसामथेन्दुमहसामत्रेन्द्रजालायितम् ।
वैशम्पायन इत्यवेदि यदसावेकोऽपि १०तद्बन्धुभि-
र्यच्चासौ११ स तु पुण्डरीक इति ते तस्मिन्भवे संस्थिताः ।। ९१ ।।
स पुण्डरीको मुनिरप्यपश्यदात्मानमन्तः शुकनासपुत्रम् ।
प्रणम्य भूमौ१२ पितरं क्रमेण १३मनोरमाद्या जननीर्ववन्दे ।। ९२ ।।
अथ विलासवती समनोरमा स्तनयुगस्रुतदुग्धकणावलिः१४।
१४सुतवपुःपरिरम्भमहोत्सवं फलितसर्वमनोरथमन्वभूत् ॥ ९३ ॥
तारापीडस्तु १पादानतमनवरतप्रस्रुतानन्दबाष्प-
श्चन्द्रापीडं भुजाभ्यां २कथमपि सहसोत्थाप्य कण्ठे गृहीत्वा ।
शापेनात्रावतीर्णो यदि तदपि भवानुत्तमो लोकपाल:
प्रख्याप्येति प्रतीपं प्रणततनुरसावस्य पादौ ववन्दे ॥ ९४ ॥
तस्मै निवेद्य ३नृपचक्रमनिच्छतेऽपि
यत्नात्क्रमोपनतया४ सह राजलक्ष्म्या ।
नोज्झांचकार५ चिरसंचितमाश्रमं स-
त्तत्प्रार्थितोऽपि महिषीसहितश्चतुर्थम् ॥ १५ ॥
आजग्मुस्तत्र वल्गत्तुरगखुरपुटोद्धृतधूलीकडारै-
७श्चूडाप्रत्युप्तभास्वन्मणिरुचिरुचिरैः शोभमानाः शिरोभिः ।
चन्द्रापीडेन्दुसंदर्शनरमससमुत्फुल्ललोलेक्षणाब्जा८
निर्व्याजौत्सुक्यसज्जीकृतनिरतिशयोपायनाः पार्थिवेन्द्राः ॥ ९६ ।।
संकल्पाधिकलाभहर्षरभसोज्जम्भाविलोलीभव९-
द्गन्धर्वप्रमदाकदम्बककृतक्रीडाकरास्फालनाम्१० ।
११सार्धं चित्ररथस्ततो मदिरया हंसश्च गौर्या सह
द्रष्टुं १२नृतमयीमिव व्यवसितामाजग्मतुर्मेदिनीम् ॥ ९७ ॥
ताभ्यामेत्य निरस्य तापसतनुच्छायां दुहित्रोः कृते
भास्वत्कौतुकमङ्गले नववधूवेषे१३ मनोहारिणि ।
निर्वृते च १४सम?होमसुभगारम्भे विवाहोत्सवे
तत्रान्योन्यसमागमप्रमुदिताः सर्वे मुदं१५ लेभिरे ॥१८॥
इति विततविलासः पुण्डरीकेण साकं
दिवि भुवि च विचित्रोद्यानलीलाविहारः।
अभिमतफलसंपर्धमानाभिनन्दः
श्रियमभजत चन्द्रापीडमूर्तिर्मृगाङ्कः ॥ ९९ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
अष्टमः सर्गः।