← अध्यायः ३ कामसूत्रम्
अध्यायः ४
वात्स्यायन:
अध्यायः ५ →

गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशाधिगतैरर्थैरन्वयागतैरुभयैर्वा गार्हस्थ्यं अधिगम्य नागरकवृत्तं वर्तेत. ॥ १.४.१ ॥

नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम्. यात्रावशाद्वा. ॥ १.४.२ ॥

तत्र भवनं आसन्नोदकं वृक्षवाटिकवद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत्. ॥ १.४.३ ॥

बाह्ये च वासगृहे सुःश्लक्ष्णं उभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात्. प्रतिशय्यिका च. तस्य शिरोभागे कूर्चस्थानं वेदिका च. तत्र रात्रिशेषं अनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः. भूमौ पतद्ग्रहः. नागदन्तावसक्ता वीणा. चित्रफलकम्. वर्तिकासमुद्गकः. यः कश्चित्पुस्तकः. कुरण्टकमालाश्च. नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्. आकर्षफलकं द्यूतफलकं च. तस्य बहिः क्रीडाशकुनि पञ्जराणि. एकान्ते च तक्षतक्षञस्थानं अन्यासां च क्रीडानाम्. स्वःआस्तीर्णा प्रेङ्खदोला वृक्षवाटिकायां सःप्रच्छाया. स्थण्डिलपीठिका च सःकुसुमेति भवनन्यासः. ॥ १.४.४ ॥

स प्रातरुत्थाय कृतनियतकृत्यः गृहीतदन्तधावनः मात्रयानुलेपनं धूपं स्रजं इति च गृहीत्वा दत्त्वा सिक्थकं अलक्तकं च दृष्ट्वादर्शे मुखं गृहीतमुखवास ताम्बूलः कार्याण्यनुतिष्ठेत्. ॥ १.४.५ ॥

नित्यं स्नानम्. द्वितीयकं उत्सादनम्. तृतीयकः फेनकः. चतुर्थकं आयुष्यम्. पञ्चमकं दशमकं वा प्रत्यायुष्यं इत्यःहीनम्. सातत्याच्च संवृतकक्षास्वेदापनोदः. ॥ १.४.६ ॥

पूर्वाह्णापराह्णयोर्भोजनम्. सायं चारायणस्य. ॥ १.४.७ ॥

भोजनानतरं शुकसारिकाप्रलापनव्यापाराः. लावककुक्कुटमेषयुद्धानि तास्ताश्च कलाक्रीडाः. पीठमर्दविटविदूषकायत्ता व्यापाराः. दिवाशय्या च. ॥ १.४.८ ॥

गृहीतप्रसाधनस्यापराह्णे गोष्ठीविहाराः. ॥ १.४.९ ॥

प्रदोषे च संगीतकानि. तदन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे सःसहायस्य शय्यायां अभिसारिकाणां प्रतीक्षणम्. ॥ १.४.१० ॥

दूतीनां प्रेषणं स्वयं वा गमनम्. ॥ १.४.११ ॥

आगतानां च मनोहरैरालापैरुपचारैश्च सःसहायस्योपक्रमाः..१.४.१३ वर्षप्रमृष्टनेपथ्यानां दुरःदिनाभिसारिकाणां स्वयं एव पुनर्मण्डनं मित्रजनेन वा परिचरणं इत्याहोरात्रिकम्. ॥ १.४.१२ ॥

घटानिबन्धनं गोष्ठीसमवायः समापानकं उद्यानगमनं समस्याः क्रीडाश्च प्रवर्तयेत्. ॥ १.४.१४ ॥

पक्षस्य मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः. ॥ १.४.१५ ॥

कुशीलवाश्चागन्तवः प्रेक्षणकं एषां दद्युः. द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन्. ततो यथाश्रद्धं एषां दर्शनं उत्सर्गो वा. व्यसनोत्सवेषु चैषां पर्स्परस्यैककार्यता. ॥ १.४.१६ ॥

आगन्तूनां च कृतसमवायानां पूजनं अभ्युपत्तिश्च. ॥ १.४.१७ ॥

चित्य्गणधर्मः. ॥ १.४.१७ ॥

एतेन तं तं देवताविशेषं उद्दिश्य संभावितस्थितयो घटा व्याख्याताः. ॥ १.४.१८ ॥

वेश्याभवने सभायां अन्यतमस्योद्वसिते वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी. ॥ १.४.१९ ॥

तत्र चैशां काव्यसमस्या कलासमस्या वा. ॥ १.४.२० ॥

तस्यां उज्ज्वला लोककान्ताः पूज्याः. प्रीतिसमानाश्चाहारितः. ॥ १.४.२१ ॥

परस्परभवनेषु चापानकानि. ॥ १.४.२२ ॥

तत्र मधुमैरेयसुरान्विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान्वेश्याः पाययेयुरनुपिबेयुश्च. ॥ १.४.२३ ॥

एतेनोद्यानगमनं व्याख्यातम्. ॥ १.४.२४ ॥

पूर्वाह्ण एव स्वःअलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः. दैवसिकीं च यात्रां तत्रानुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततदुपभोगचिह्नास्तथैव प्रत्याव्रजेयुः. ॥ १.४.२५ ॥

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम्. ॥ १.४.२६ ॥

यक्षरात्रिः. कौमुदीजागरः. सुःवसन्तकः. ॥ १.४.२७ ॥

सहकारभञ्जिका, अभ्यूषखादिका बिसखादिका नवपत्त्रिका उदकक्ष्वेडिका पाञ्चालानुयानं एकशाल्मली कदम्बयुद्धानि तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टं आचरेयुः. इति संभूयक्रीडाः. ॥ १.४.२८ ॥

एकचारिणश्च विभवसामर्थ्यात्. ॥ १.४.२९ ॥

गणिकाया नायिकायाश्च सखीभिर्नागरकैश्च सह चरितं एतेन व्याख्यातम्. ॥ १.४.३० ॥

अःविभवस्तु शरीरमात्रो मल्लिकाफेनककषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानं इति पीठमर्दः. ॥ १.४.३१ ॥

भुक्तविभवस्तु गुणवान्सःकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः. ॥ १.४.३२ ॥

एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषकः. वैहासिको वा. ॥ १.४.३३ ॥

एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः. ॥ १.४.३४ ॥

तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः. ॥ १.४.३५ ॥

ग्रामवासी च सःजातान्विचक्षणान्कौतूहलिकान्प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ् श्रधांश्च जनयंस्तदेवानुकुर्वीत. गोष्ठीश्च प्रवर्तयेत्. संगत्या जनं अनुरञ्जयेत्. कर्मसु च साहाय्येन चानुगृह्णीयात्. उपकारयेच्च. ॥ १.४.३६ ॥

चिति नागरकवृत्तम्. ॥ १.४.३६ ॥

व्नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया. कथां गोष्ठीषु कथयंल्लोके बहुमतो भवेत्.. ॥ १.४.३७ ॥

व्या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी. परहिंसात्मिका या च न तां अवतरेद्बुधः.. ॥ १.४.३८ ॥

व्लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया. गोष्ठ्या सहचरन्विद्वांल्लोके सिद्धिं नियच्छति.. ॥ १.४.३९ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः. ॥ १.४ ॥