← अध्यायः ३ कामसूत्रम्
अध्यायः ४
वात्स्यायन:
अध्यायः ५ →

रागवृद्धौ संघर्षात्मकं नखविलेखनम्. ॥ २.४.१ ॥

तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः. न नित्यं अःचण्डवेगयोः. ॥ २.४.२ ॥

तथा दशनच्छेद्यस्य सात्म्यवशाद्वा. ॥ २.४.३ ॥

तद्[१] आच्छुरितकं [२] अर्धचन्द्रो [३] मण्डलं [४] रेखा [५] व्याघ्रनखं [६] मयूरपदकं [७] शशप्लुतकं [८] उत्पलपत्त्रकं इति रूपतोऽष्टविकल्पम्. ॥ २.४.४ ॥

कक्षौ स्तनौ गलः पृष्ठं जघनं ऊरू च स्थानानि. ॥ २.४.५ ॥

प्रवृत्तरतिचक्राणां न स्थानं अःस्थानं वा विद्यत इति सुवर्णनाभः. ॥ २.४.६ ॥

तत्र सव्यहस्तानि प्रत्यःअग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः. ॥ २.४.७ ॥

अनुगतराजि समं उज्ज्वलं अःमलिनं अःविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनं इति नखगुणाः. ॥ २.४.८ ॥

दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडाणां नखानि स्युः. ॥ २.४.९ ॥

ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम्. ॥ २.४.१० ॥

मध्यमान्युभयभाञ्जि महाराष्ट्रकाणां इति. ॥ २.४.११ ॥

तैः सुःनियमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणं अनःउद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरं अन्ते संनिपातवर्धमानशब्दं [१] आच्छुरितकम्. ॥ २.४.१२ ॥

प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः. ॥ २.४.१३ ॥

ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो [२] अर्धचन्द्रः. ॥ २.४.१४ ॥

तावेव द्वौ पर्सपराभिमुखौ मण्डलम्. ॥ २.४.१५ ॥

नाभिमूलककुन्दरवंक्षणेषु((१०)) तस्य प्रयोगः. ॥ २.४.१६ ॥

सर्वस्थानेषु नातिःदीर्घा [४] लेखा((११)). ॥ २.४.१७ ॥

सैव वक्रा [५] व्याघ्रनखकं आ स्तनमुखम्. ॥ २.४.१८ ॥

पञ्चभिरभिमुखैर्लेखा चूचुकाभिमुखी((१२)) [६] मयूरपदकम्. ॥ २.४.१९ ॥

तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि [७] शशप्लुतकम्. ॥ २.४.२० ॥

स्तनपृष्ठे मेखलापथे चोत्पलपत्त्राकृतीत्य्[८] उत्पलपत्त्रकम्. ॥ २.४.२१ ॥

ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश्चतस्रस्तिस्रो वा लेखाः. ॥ २.४.२२ ॥

चिति नखकर्माणि. ॥ २.४.२२ ॥

आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत. ॥ २.४.२३ ॥

विकल्पानां अनःअन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च सर्वगामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्कोऽभिसमीक्षितुं अर्हतीत्याचार्याः..२.४.२५ भवति हि रागेऽपि चित्रापेक्षा. वैचित्र्याच्च परस्परं रागो जनयितव्यः. वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति. धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यं एवापेक्ष्यते किं पुनरिहेति वात्स्यायनः. ॥ २.४.२४ ॥

न तु परपरिगृहीतास्वेवं कुर्यात्. प्रच्छन्नेषु प्रदेशेषु तासां अनुस्मरणार्थं रागवर्धनाच्च विशेषान्दर्शयेत्. ॥ २.४.२६ ॥

व्नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः. चिरोत्सृष्टाप्यभिनवा प्रीतिर्भवति पेशला((१३)).. ॥ २.४.२७ ॥

व्चिरोसृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम्. रागायतनसंस्मारि यदि न स्यान्नखक्षतम्.. ॥ २.४.२८ ॥

व्पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम्. बहुमानः परस्यापि रागयोगश्च जायते.. ॥ २.४.२९ ॥

व्पुरुषश्च प्रदेशेषु नखचिह्नैर्विचिह्नितः. चित्तं स्थिरं अपि प्रायश्चलयत्येव योषितः.. ॥ २.४.३० ॥

व्नान्यत्पटुतरं किं चिदस्ति रागविवर्धनम्. नखदन्तसमुत्थानां कर्मणां गतयो यथा. ॥ २.४.३१ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः. आदितो नवमः. ॥ २.४ ॥