← अध्यायः ४ कामसूत्रम्
अध्यायः ५
वात्स्यायन:
अध्यायः ६ →

उत्तरौष्ठं अन्तरःमुखं नयनं इति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि. ॥ २.५.१ ॥

समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निशःछिद्रास्तीक्ष्णाग्रा इति दशनगुणाः. ॥ २.५.२ ॥

कुण्ठा राज्युद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः. ॥ २.५.३ ॥

[१] गूढकं [२] उच्छूनकं((१४)) [३] बिन्दुर्[४] बिन्दुमाला [५] प्रवालमणिर्[६] मणिमाला [७] खण्डाभ्रकं [८] वराहचर्वितकं इति दशनच्छेदन्विकल्पाः. ॥ २.५.४ ॥

नातिलोहितेन रागमात्रेण विभावनीयं [१] गूढकम्. ॥ २.५.५ ॥

तदेव पीडनाद्[२] उच्छूनकम्. ॥ २.५.६ ॥

तदुभयं बिन्दुरधरमध्य इति. ॥ २.५.७ ॥

उच्छूनकं प्रवालमणिश्च कपोले. ॥ २.५.८ ॥

कर्णपूरचुम्बनं नखदशनच्छेद्यं इति सव्यकपोलमण्डनानि. ॥ २.५.९ ॥

दन्तौष्ठसंयोगाभ्यासनिष्पादनत्वात्[५] प्रवालमणिसिद्धिः. ॥ २.५.१० ॥

सर्वस्येयं [६] मणिमालायाश्च. ॥ २.५.११ ॥

अल्पदेशायाश्च त्वचो दशनद्वयसंदंशजा [३] बिन्दुसिद्धिः ॥ २.५.१२ ॥

सर्वैर्[४] बिन्दुमालायाश्च. ॥ २.५.१३ ॥

तस्मान्मालाद्वयं अपि गलकक्षवंक्षणप्रदेशेषु. ॥ २.५.१४ ॥

ललाटे चोर्वोर्बिन्दुमाला. ॥ २.५.१५ ॥

मण्दलं इव विषमकूटकयुक्तं [७] खण्डाभ्रकं स्तनपृष्ठ एव. ॥ २.५.१६ ॥

संहताः प्रदीर्घा बह्व्यो दशनपदराजयस्ताम्रान्तराला [८] वराहचर्वितकम्. स्तनपृष्ठ एव. ॥ २.५.१७ ॥

तदुभयं अपि चण्डवेगयोः. ॥ २.५.१८ ॥

चिति दशनच्छेद्यानि. ॥ २.५.१८ ॥

विशेषके कर्णपूरे पुष्पपीडे ताम्बूलपलाशे तमालपत्त्रे चेति प्रयोज्यागामिषु नखदशन च्छेद्यादीन्यभियोगिकानि. ॥ २.५.१९ ॥



सेच्तिओन्(प्रकरण)१२



देशसात्म्याच्च योषित उपचरेत्. ॥ २.५.२० ॥

मध्यदेश्या आर्यप्रायाः शुच्युपचाराश्चुम्बननखदन्तपदद्वेषिण्यः. ॥ २.५.२१ ॥

बाह्लीकदेश्या आवान्तिकाश्च. ॥ २.५.२२ ॥

चित्ररतेषु त्वासां अभिनिवेशः. ॥ २.५.२३ ॥

परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहनणसाध्या मालव्य आभीर्यश्च. ॥ २.५.२४ ॥

सिन्धुषष्टःआनां च नदीनां अन्तरालीया औपरिष्टकसात्म्याः. ॥ २.५.२५ ॥

चण्डवेगा मन्दसीत्कृता आपरान्तिका लाट्यश्च. ॥ २.५.२६ ॥

दृढप्रहणनयोगिन्यः खरवेगा एव अपद्रव्यप्रधानाः स्त्रीराज्ये कोशालायां च. ॥ २.५.२७ ॥

प्रकृत्या मृद्व्यो रतिप्रिया अःशुचिरुचयो निरःआचाराश्च आन्ध्र्यः. ॥ २.५.२८ ॥

सकलचतुःषश्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यप्रियाः शयने च सःरभसोपक्रमा महाराष्ट्रिकाः. ॥ २.५.२९ ॥

तथाविधा एव रहसि प्रकाशन्ते नागरिकाः((१५)). ॥ २.५.३० ॥

मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः..२.५.३२ मध्यमवेगाः सर्वसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सिताश्लीलपरुष परिहारिण्यो वानवासिकाः. ॥ २.५.३१ ॥

मृदुभाषिण्योऽनुरागवत्यो मृद्व्यङ्ग्यश्((१६)) च गौड्यः. ॥ २.५.३३ ॥

देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः. न तत्र देश्या उपचाराः. ॥ २.५.३४ ॥

कालयोगाच्च देशाद्देशान्तरं उपचारवेषलीलाश्चानुगच्छन्ति तच्च विद्यात्. ॥ २.५.३५ ॥

उपगूहनादिषु च रागवर्धनं पूर्वं पूर्वं विचित्रं उत्तरं उत्तरं च. ॥ २.५.३६ ॥

व्वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम्. अःमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत्.. ॥ २.५.३७ ॥

व्बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम्. इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत्.. ॥ २.५.३८ ॥

व्सकचग्रहं उन्नम्य मुखं तस्य ततः पिबेत्. निलीयेत दशेच्चैव तत्र तत्र मदेरिता.. ॥ २.५.३९ ॥

वुन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्. मणिमालां प्रयुञ्जीत यच्चन्यदपि लक्षितम्.. ॥ २.५.४० ॥

व्दिवापि जनसंबाधे नायकेन प्रदर्शितम्. उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरःलक्षिता.. ॥ २.५.४१ ॥

व्विकूणयन्तीव((१७)) मुखं कुत्सयन्तीव((१८)) नायकम्. स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत्.. ॥ २.५.४२ ॥

व्परस्परानुकूल्येन तदेवं लज्जमानयोः. संवत्सरशतेनापि प्रीतिर्न परिहीयते.. ॥ २.५.४३ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः. आदितो दशमः. ॥ २.५ ॥