← अध्यायः ५ कामसूत्रम्
अध्यायः ६
वात्स्यायन:
अध्यायः ७ →

रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते. ॥ २.६.१ ॥

अवह्रासयन्तीव हस्तिनी नीचरते. ॥ २.६.२ ॥

न्याय्यो यत्र योगस्तत्र समपृष्ठम्. ॥ २.६.३ ॥

आभ्यां बडवा व्याख्याता. ॥ २.६.४ ॥

तत्र जघनेन नायकं प्रतिगृह्णीयात्. ॥ २.६.५ ॥

अपद्रव्याणि च सःविशेषं नीचरते. ॥ २.६.६ ॥

[१] उत्फुल्लकं [२] विजृम्भितकं [३] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण. ॥ २.६.७ ॥

शिरो विनिपात्योर्ध्वं जघनं [१] उत्फुल्लकम्. ॥ २.६.८ ॥

तत्रापसारं दद्यात्. ॥ २.६.९ ॥

अःनीचे सक्थिनी((१९)) तिर्यगवसज्य प्रतीछेदिति [२] विजृम्भितकम्. ॥ २.६.१० ॥

पार्श्वयोः समं ऊरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्यासयोगाद्[३] इन्द्राणी. ॥ २.६.११ ॥

तयोच्चतररतस्यापि परिग्रहः. ॥ २.६.१२ ॥

संपुटेन प्रतिग्रहो नीचरते. ॥ २.६.१३ ॥

एतेन नीचतररतेऽपि हस्तिन्याः. ॥ २.६.१४ ॥

[१] संपुटकं [२] पीडितकं [३] वेष्टितकं [४] बाडवकं इति. ॥ २.६.१५ ॥

ऋजुप्रसारितावुभावप्युभयोः चरनाविति [१] संपुटः. ॥ २.६.१६ ॥

स द्विविधः ण् पार्श्वसंपुट उत्तानसंपुटाश्च. तथा कर्मयोगात्. ॥ २.६.१७ ॥

पार्श्वेण तु शयानो दक्षिणेन नारीं अधिशयीतेति सार्वत्रिकं एतत्. ॥ २.६.१८ ॥

संपुटकप्रयुक्तयन्त्रेणैव दृढं ऊरू पीडयेदिति [२] पीडितकम्. ॥ २.६.१९ ॥

ऊरू व्यत्यस्येदिति [३] वेष्टितकम्. ॥ २.६.२० ॥

बडवेव निष्ठुरं अवगृह्णीयादिति [४] बाडवकं आभ्यासिकम्. ॥ २.६.२१ ॥

तदान्ध्रीषु प्रायेण. इति संवेशनप्रकारा बाभ्रवीयाः. ॥ २.६.२२ ॥

सौवर्णनाभास्तु. ॥ २.६.२३ ॥

उभावप्यूरू ऊर्ध्वाविति तद्भुग्नकम्((२०)). ॥ २.६.२४ ॥

चरणावूर्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम्. ॥ २.६.२५ ॥

तत्कुञ्चितावुत्पीडितकम्. ॥ २.६.२६ ॥

तदेकस्मिन्प्रसारितेऽर्धपीडितकम्. ॥ २.६.२७ ॥

नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासेन वेणुदारितकम्. ॥ २.६.२८ ॥

एकः शिरस उपरि गच्छेद्द्वितीयः प्रसारित इति शूलचितकं आभ्यासिकम्. ॥ २.६.२९ ॥

संकुचितौ स्वस्तिदेशे निदध्यादिति कार्कटकम्. ॥ २.६.३० ॥

ऊर्ध्वावूरू व्यत्यस्येदिति पीडितकम्. ॥ २.६.३१ ॥

जङ्घाव्यत्यासेन पद्मासनवत्. ॥ २.६.३२ ॥

पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकं आभ्यासिकम्..२.६.३४ जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत्. तथा सुःकरत्वादिति सुवर्णनाभः. ॥ २.६.३३ ॥

वार्तं तु तत्. शिष्टैरपस्मृतत्वादिति वात्स्यायनः. ॥ २.६.३५ ॥



सेच्तिओन्(प्रकरण)१४



अथ चित्ररतानि. ॥ २.६.३६ ॥

ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयोर्वा स्थितरतम्. ॥ २.६.३७ ॥

कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपविष्टाया ऊरुपाशेन जघनं अभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम्. ॥ २.६.३८ ॥

भूमौ वा चतुष्पदवदास्थिताया वृषलीलयावस्कन्दनं धेनुकम्. ॥ २.६.३९ ॥

तत्र पृष्ठं उरःकर्माणि लभते. ॥ २.६.४० ॥

एतेनैव योगेन शौनं ऐणेयं छागलं गर्दभाक्रान्तं मार्जारललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहघृष्टकं तुरगाधिरूढकं इति यत्र यत्र विशेषो योगोऽःपूर्वस्तत्तदुपलक्षयेत्. ॥ २.६.४१ ॥

मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्. ॥ २.६.४२ ॥

बह्वीभिश्च सह गोयूथिकम्. ॥ २.६.४३ ॥

वारिक्रीडितकं छागलं ऐणेयं इति तत्कर्मानुकृतियोगात्. ॥ २.६.४४ ॥

ग्रामनारीविषये((२१)) स्त्रीराज्ये च बाह्लीके बहवो युवानोऽन्तःपुरसःधर्माण एकैकस्याः परिग्रहभूताः. ॥ २.६.४५ ॥

तेषां एकैकशो युगपच्च यथाःसात्म्यं यथाःयोगं च रञ्जयेयुः. ॥ २.६.४६ ॥

एको धारयेदेनां अन्यो निषेवेत. अन्यो जघनं मुखं अन्यो मध्यं अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः. ॥ २.६.४७ ॥

एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्राहश्च व्याख्यातः. ॥ २.६.४८ ॥

अधोरतं पायावपि दाक्षिणत्यानाम्. इति चित्ररतानि. ॥ २.६.४९ ॥

पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः. ॥ २.६.५० ॥

भवतश्चात्र श्लोकौ ॥ २.६.५१ ॥

व्पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः. तैस्तैरुपायैश्चित्तज्ञो रतियोगान्विवर्धयेत्.. ॥ २.६.५१ ॥

व्तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः. स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते.. ॥ २.६.५२ ॥


 चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः. आदितो एकदशः. ॥ २.६ ॥