← अध्यायः १ कामसूत्रम्
अध्यायः २
वात्स्यायन:
अध्यायः ३ →

तस्मिन्नेतां निशि विःजने मृदुभिरुपचारैरुपक्रमेत. ॥ ३.२.२ ॥

त्रिरात्रं अःवचनं हि स्तम्भं इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयां इव प्रकृतिम्. इति बाभ्रवीयाः. ॥ ३.२.३ ॥

उपक्रमेत विस्रम्भयेच्च न तु ब्रह्मचर्यं अतिवर्तेत. इति वात्स्यायानः. ॥ ३.२.४ ॥

उपक्रममाणश्च न प्रसह्य किं चिदाचरेत्. ॥ ३.२.५ ॥

कुसुमसःधर्माणो हि योषितः सुःकुमारोपक्रमाः. तास्त्वनःअधिगतविश्वासैः प्रसभं उपक्रम्यमाणः संप्रयोगद्वेषिण्यो भवन्ति. तस्मात्साम्नैवोपचरेत्. ॥ ३.२.६ ॥

युक्त्यापि तु यतः प्रसरं उपलभेत्तेनैवानु प्रविशेत्. ॥ ३.२.७ ॥

तत्प्रियेणालिङ्गेनाचरितेन नातिःकालत्वात्. ॥ ३.२.८ ॥

पूर्वकायेण चोपक्रमेत्. विषह्यत्वात्. ॥ ३.२.९ ॥

 दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः. बालाया अःपूर्वायाश्चान्धकारे. ॥ ३.२.१ ॥

अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानम्. तदःप्रतिपद्यमानां च सान्त्वनैर्वाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राहयेत्. व्रीडायुक्तापि योषिदत्यःअन्तक्रुद्धापि न पादपतनं अतिवर्तते इति सार्वत्रिकम्. ॥ ३.२.११ ॥

तद्दानप्रसङ्गेण मृदु विशदं अःकाहलं अस्याश्चुम्बनम्. ॥ ३.२.१२ ॥

तत्र सिद्धां आलापयेत्. ॥ ३.२.१३ ॥

तच्छ्रवणार्थं यत्किं चिदल्पाक्षरं अभिधेयं अःजानन्निव पृच्छेत्. ॥ ३.२.१४ ॥

तत्र निषःप्रतिपत्तिं अनःउद्वेजयन्सान्त्वनायुक्तं बहुश एव पृच्छेत्. ॥ ३.२.१५ ॥

यत्रापि अःवदन्तीं निर्बध्नीयात्. ॥ ३.२.१६ ॥

सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते. न तु लघुमिश्रां अपि वाचं वदन्ति. इति घोटकमुखः. ॥ ३.२.१७ ॥

निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत्. कलहे तु न शिरः कम्पयेत्. ॥ ३.२.१८ ॥

इच्छसि मां नेच्छसि वा किं तेऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदानुकुल्येन शिरः कम्पयेत्. प्रपञ्च्यमाना तु विवदेत्. ॥ ३.२.१९ ॥

संस्तुता चेत्सखीं अनुकूलां उभयतोऽपि विस्रब्धां तां अन्तरा कृत्वा कथां योजयेत्. तस्मिन्नधोमुखी विहसेत्. तां चातिःवादिनीं अधिक्षिपेद्विवदेच्च. सा तु परिहासार्थं इदं अनयोक्तं इति चानुक्तं अपि ब्रूयात्. तत्र तां अपनुद्य प्रतिवचनार्थं अभ्यर्थ्यमाना तूष्णीं आसीत. निर्बध्यमाना तु नाहं एवं ब्रवीमीत्यःव्यक्ताक्षरं अनःअवसितार्थं वचनं ब्रूयात्. नायकं तु विहसन्ती कदा चित्कटाक्षैः प्रेक्षेत. इत्यालापयोजनम्. ॥ ३.२.२० ॥

एवं जातपरिचया चाःनिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्. उत्तरीये वास्य निबध्नीयात्. ॥ ३.२.२१ ॥

यथाःयुक्तां आच्छुरितकेन((७३)) स्तनमुकुलयोर्((७४)) उपरि स्पृशेत्. ॥ ३.२.२२ ॥

वार्यमाणश्च त्वं अपि मां परिष्वजस्व ततो नैवं आचरिष्यामीति स्थित्या परिष्वञ्जयेत्. स्वं च हस्तं आ नाभिदेशात्प्रसार्य निर्वर्तयेत्. क्रमेण चैनां उत्सङ्गं आरोप्याधिकं अधिकं उपक्रमेत्. अःप्रतिपद्यमानां च भीषयेत्. ॥ ३.२.२३ ॥

अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखपदम्. आत्मनश्च स्वयं कृत्वा त्वया कृतं इति ते सखीजनस्य पुरतः कथयिष्यामि. सा त्वं किं अत्र वक्ष्यसीति बालविभीषिकैर्बालप्रत्यायनैश्च शनैरेनां प्रतारयेत्. ॥ ३.२.२४ ॥

द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिदधिकं विस्रम्भितां हस्तेन योजयेत्. ॥ ३.२.२५ ॥

सर्वाङ्गिकं चुम्बनं उपक्रमेत. ॥ ३.२.२६ ॥

ऊर्वोश्चोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणोरुमूलं अपि संवाहयेत्. निवारिते संवाहने को दोष इत्याकुलयेदेनाम्. तच्च स्थिरीःकुर्यात्. तत्र सिद्धाया गुह्यदेशाभिमर्शनम्. ॥ ३.२.२७ ॥

रशनवियोजनं नीवीविस्रंसनं वसनपरिवर्तनं ऊरुमूलसंवाहनं च. एते चास्यान्यापदेशाः. युक्तयन्त्रां रञ्जयेत्. न त्वःकाले व्रतखण्डनम्. ॥ ३.२.२८ ॥

अनुशिष्याच्च. आत्मानुरागं दर्शयेत्. मनोरथांश्च पूर्वकालिकाननुवर्णयेत्. आयत्यां च तदानुकूल्येन प्रवृत्तिं प्रतिजानीयात्. सःपत्नीभ्यश्च साध्वसं अवच्छिन्द्यात्. कालेन च क्रमेण विमुक्तकन्याभावां अनःउद्वेजयन्नुपक्रमेत. इति कन्याविस्रम्भनम्. ॥ ३.२.२९ ॥

भवन्ति चात्र श्लोकाः. ॥ ३.२.३० ॥

वेवं चित्तानुरागो बालां उपायेन प्रसाधयेत्. तथास्य सानुरक्ता च सुःविस्रब्धा प्रजायते.. ॥ ३.२.३० ॥

व्नत्यःअन्तं आनुलोम्येन न चातिःप्रातिलोम्यतः. सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साधयेत्.. ॥ ३.२.३१ ॥

वात्मनः प्रीतिजननं योषितां मानवर्धनम्. कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्.. ॥ ३.२.३२ ॥

वतिःलज्जान्वीतेत्येवं यस्तु कन्यां उपेक्षते. सोऽनःअभिप्रायवेदीति पशुवत्परिभूयते...३.२.३४व्सहसा वाप्युपक्रान्ता कन्याचित्तं अःविन्दता. भयं वित्रासं उद्वेगं सद्यो द्वेषं च गच्छति.. ॥ ३.२.३३ ॥

व्सा प्रीतियोगं अःप्राप्ता तेनोद्वेगेन दूषिता. पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा((७५)).. ॥ ३.२.३५ ॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः. ॥ ३.२ ॥