← अध्यायः २ कामसूत्रम्
अध्यायः ३
वात्स्यायन:
अध्यायः ४ →

धनहीनस्तु गुणयुक्तोऽपि मध्यस्थगुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृपितृभ्रातृषु च परतन्त्रः बालवृत्तिरुचितप्रवेशो वा कन्यां अलभ्यत्वान्न वरयेत्. ॥ ३.३.१ ॥

बाल्यात्प्रभृति चैनां स्वयं एवानुरञ्जयेत्. ॥ ३.३.२ ॥

तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादःलभ्यां मातुलदुहितरं अन्यस्मै वा पूर्वदत्तां साधयेत्. ॥ ३.३.३ ॥

अन्यां अपि बाह्यां स्पृहयेत्. ॥ ३.३.४ ॥

बालायां एवं सति धर्माधिगमे संवननं((७६)) श्लाघ्यं इति घोटकमुखः. ॥ ३.३.५ ॥

तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणं इति कुर्वीत. परिचयस्य वयसश्चानुरूप्यात्. ॥ ३.३.६ ॥

आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि ततःसात्म्यात्तदप्तदासचेटिभिस्तया च सहानुक्रीडेत. ॥ ३.३.७ ॥

क्ष्वेदितकानि सुःनिमिलितकां आरब्धिकां लवणवीथिकां अनिलताडितकां गोधूमपञ्जिकां अङ्गुलिताडिकां सखीभिरन्यानि च देश्यानि. ॥ ३.३.८ ॥

यां च विश्वास्यां अस्यां मन्येत तया सह निरःअन्तरां प्रीतिं कुर्यात्. परिचयांश्च बुध्येत. ॥ ३.३.९ ॥

धात्रेयिकां चास्याः प्रियहिताभ्यां अधिकं उपगृह्णीयात्. सा हि प्रीयमाणा विदिताकाराप्यःप्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात्. अनःअभिहितापि प्रत्याचार्यकम्. ॥ ३.३.१० ॥

अःविदिताकारापि हि गुणानेवानुरागात्प्रकाशयेत्. यथा प्रयोज्यानुरज्येत. ॥ ३.३.११ ॥

यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु प्रविश्य साधयेत्. ॥ ३.३.१२ ॥

क्रीडनकद्रव्याणि यान्यःपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अःयत्नेन संपादयेत्. ॥ ३.३.१३ ॥

तत्र कन्दुकं अनःएकभक्तिचित्रं अल्पकालान्तरितं अन्यदन्यच्च संदर्शयेत्. तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमृन्मयीश्च. ॥ ३.३.१४ ॥

भक्तपाकार्थं अस्या महानसिकस्य च दर्शनम्. ॥ ३.३.१५ ॥

काष्ठमेढ्रकयोश्च संयुक्तयोश्च स्त्रीपुंसयोरजैडकानां((७७)) देवकुलगृहकाणां च शुकपरभृतमदनसारिकालावकुक्कुटतिरिपिञ्जरकाणां च विचित्राकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानां अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च सक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम्. यथा च सर्वाभिप्रायसंवर्धकं एनं मन्येत तथा प्रयतितव्यम्. ॥ ३.३.१६ ॥

प्रछन्नदानस्य तु कारणं आत्मनो गुरुजनाद्भयं ख्यापयेत्. देयस्य चान्येन स्पृहणीयत्वं इति. ॥ ३.३.१८ ॥

वर्धमानानुरागं चाख्यानके मनः कुर्वतीं अन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत्. ॥ ३.३.१९ ॥

विस्मयेषु प्रसह्यमानां इन्द्रजालैः प्रयोगैर्विस्मापयेत्. कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर्गीतैः. आश्वयुज्यां अष्टमीचन्द्रके कौमुद्यां उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः कर्णपत्त्रभङ्गैः सिक्थकप्रधानैर्वस्त्राङ्गुलीयकभूषणदानैश्च. नो चेद्दोषकराणि मन्येत. ॥ ३.३.२० ॥

अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान्योगान्ग्राहयेत्. ॥ ३.३.२१ ॥

तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलं आत्मनः प्रकाशयेत्. ॥ ३.३.२२ ॥

उदारवेषश्च स्वयं अनःउपहतदर्शनश्च स्यात्. भावं च कुर्वतीं इङ्गिताकारैः सूचयेत्. ॥ ३.३.२३ ॥

यवतयो हि संसृष्टं अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते. कामयमाना अपि तु नाभियुञ्जत इति प्रायोःवादः. ॥ ३.३.२४ ॥



चिति बालायां उपक्रमाः((७८)). ॥ ३.३.२४ ॥



सेच्तिओन्(प्रकरण)२७



तानिङ्गिताकारान्वक्ष्यामः((७९))..३.३.२६ संमुखं तं तु न वीक्षते. वीक्षिता व्रीडां दर्शयति. रुच्यं आत्मनोऽङ्गं अपदेशेन प्रकाशयति. प्रमत्तं प्रच्छन्नं नायकं अतिक्रान्तं च वीक्षते. ॥ ३.३.२५ ॥

पृष्टा च किं चित्सःस्मितं अःव्यक्ताक्षरं अनःअवसितार्तं च मन्दं मन्दं अधोमुखी कथयति. तत्समीपे चिरं स्थानं अभिनन्दति. दूरे स्थिता पश्यतु मां इति मन्यमाना परिजनं सःवदनविकारं आभाषते. तं देशं न मुञ्चति. ॥ ३.३.२७ ॥

यत्किं चिद्दृष्ट्वा विहसितं करोति. तत्र कथां अवस्थानार्थं अनुबध्नाति. बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति. परिचारिकायास्तिलकं च रचयति. परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति. ॥ ३.३.२८ ॥

तन्मित्रेषु विश्वासिति. वचनं चैषां बहु मन्यते करोति च. तत्परिचारकैः सह प्रीतिं संकथां द्यूतं इति च करोति. स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते. तेषु च नायकसंकथां अन्यस्य कथयत्स्ववहितातां शृणोति. ॥ ३.३.२९ ॥

धात्रेयिका चोदिता नायकयोदवसितं प्रविशति. तां अन्तरा कृत्वा तेन सह द्यूतं क्रीडां आलापं चायोजयितुं इच्छति. अनःअलंकृता दर्शनपथं परिहरति. कर्णपत्त्रं अङ्गुलीयकं स्रजं वा तेन याचिता सःधीरं एव गात्रादवतार्य सख्या हस्ते ददाति. तेन च दत्तं नित्यं धारयति. अन्यवरसंकथासु विषण्णा भवति. तत्पक्षकैश्च सह न संसृज्यत इति. ॥ ३.३.३० ॥

भवतश्चात्र श्लोकौ. ॥ ३.३.३१ ॥

व्दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च. कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत्.. ॥ ३.३.३१ ॥

व्बालक्रीडनकैर्बाला कलाभिर्यौवने स्थिता. वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात्((८०)). ॥ ३.३.३२ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे बाकोपक्रमा इङिताकारसूचनं तृतीयोऽध्यायः. ॥ ३.३ ॥