कामसूत्रम्/अधिकरणम् ३/अध्यायः ४
← अध्यायः ३ | कामसूत्रम् अध्यायः ४ वात्स्यायन: |
अध्यायः ५ → |
दर्शितेङ्गिताकारां कन्यां उपायतोऽभियुञ्जीत. ॥ ३.४.१ ॥
द्यूते क्रीडनकेषु च विवदमानः साकारं अस्याः पाणिं अवलम्बेत. ॥ ३.४.२ ॥
यथोक्तं च स्पृष्टकादिकम्((८१)) आलिङ्गनविधिं विदध्यात्. ॥ ३.४.३ ॥
पत्त्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनं अस्या दर्शयेत्. ॥ ३.४.४ ॥
एवं अन्यद्विरलशो((८२)) दर्शयेत्. ॥ ३.४.५ ॥
जलक्रीडायां तद्दूरतोऽप्सु निमग्नः समीपं अस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत्. ॥ ३.४.६ ॥
नवपत्त्रिकादिषु च सःविशेषभावनिवेदनम्. ॥ ३.४.७ ॥
आत्मदुःखस्यानिर्वेदेन कथनम्. ॥ ३.४.८ ॥
स्वप्नस्य च भावयुक्तस्यान्यापदेशेन. ॥ ३.४.९ ॥
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनम्. तत्रान्यापदिष्टं स्पर्शनम्. ॥ ३.४.१० ॥
अपाश्रयार्थं च चरणेन चरणस्य पीडनम्. ॥ ३.४.११ ॥
ततः शनकैरेकैकां अङ्गुलिं अभिस्पृशेत्. ॥ ३.४.१२ ॥
पादाङुष्ठेन च नखाग्राणि घट्टयेत्. ॥ ३.४.१३ ॥
तत्र सिद्धः पदात्पदं अधिकं आकाङ्क्षेत्. ॥ ३.४.१४ ॥
क्षान्त्यर्थं च तदेवाभ्यसेत्. ॥ ३.४.१५ ॥
पादशौचे पादाङ्गुलिसंदंशेन तदङ्गुलिपीडनम्. ॥ ३.४.१६ ॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः. ॥ ३.४.१७ ॥
आचमनान्ते चोदकेनासेकः. ॥ ३.४.१८ ॥
विजने तमसि च द्वन्द्वं आसीनः क्षान्तिं कुर्वीत. समानदेशशय्यायां च. ॥ ३.४.१९ ॥
तत्र यथार्थं अनःउद्वेजयतो भावनिवेदनम्. ॥ ३.४.२० ॥
विविक्ते च किं चिदस्ति कथयितव्यं इत्युक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत्. यथा पारदारिके वक्ष्यामः. ॥ ३.४.२१ ॥
विदितभावस्तु व्याधिं अपदिश्यैनां वार्ताग्रहणार्थं स्वं उदवसितं आनयेत्. ॥ ३.४.२२ ॥
आगतायाश्च शिरःपीडने नियोगः. पाणिं अवलम्ब्य चाश्याः साकारं नयनयोर्ललाटे च निदध्यात्. ॥ ३.४.२३ ॥
औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत्. ॥ ३.४.२४ ॥
इदं त्वया कर्तव्यम्. न ह्येतदृते कन्याया अन्येन कार्यं इति गच्छन्तीं पुनरागमनानुबन्धं एनां विसृजेत्. ॥ ३.४.२५ ॥
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः. ॥ ३.४.२६ ॥
अभीक्ष्णदर्शनार्थं आगतायाश्च गोष्ठीं वर्धयेत्. ॥ ३.४.२७ ॥
अन्याभिरपि सह विश्वासनार्थं अधिकं अधिकं चाभियुञ्जीत. न तु वचा निर्वदेत्. ॥ ३.४.२८ ॥
दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः. ॥ ३.४.२९ ॥
यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत्..३.४.३१ प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः((८३)) सुःरतव्यवसायिन्यो रागवत्यश्च भवन्ति. न तु पुरुषं प्रत्याचक्षते. तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः. ॥ ३.४.३० ॥
एकपुरुषाभियोगानां त्वःसंभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्यां अन्तरःभूतया तं अर्थं अःनिर्वदन्त्या सहैनां अङ्कं आनाययेत्. ततो यथोक्तं अभियुञ्जीत. ॥ ३.४.३२ ॥
स्वां वा परिचारिकां आदावेव सखीत्वेनास्याः प्रणिदध्यात्. ॥ ३.४.३३ ॥
यज्ञे विवाहे यात्रायां उत्सवे व्यसने प्रेक्षणकव्यापृते((८४)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावां एकाकिनीं उपक्रमेत. ॥ ३.४.३४ ॥
न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना((८५)) व्यावर्तन्त इति वात्स्यायनः. ॥ ३.४.३५ ॥
- २८ इत्येकपुरुषाभियोगः((८६)).
सेच्तिओन्(प्रकरण)२९
मन्दापदेशा((८७)) गुणवत्यपि कन्या धनहीना कुलीनापि समानैरःयाच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयं अभीप्सेत. ॥ ३.४.३६ ॥
सा तु गुणवन्तं शक्तं सुःदर्शनं बालप्रीत्याभियोजयेत्. ॥ ३.४.३७ ॥
यं वा मन्येत मातापित्रोरःसमीक्षया स्वयं अप्ययं इन्द्रियदौर्बल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च तं आवर्जयेत्. ॥ ३.४.३८ ॥
माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यात्. ॥ ३.४.३९ ॥
पुष्पगन्धताम्बूलहस्ताया विःजने विःकाले च तदुपस्थानम्. कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्यदर्शनम्. प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायां उपक्रमेषु यथोक्तं आचरेत्((८८)). ॥ ३.४.४० ॥
न चैवान्तरापि((८९)) पुरुषं स्वयं अभियुञ्जीत. स्वयं अभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः. ॥ ३.४.४१ ॥
तत्प्रयुक्तानां त्वभियोगानां आनुलोम्येन ग्रहणम्. ॥ ३.४.४२ ॥
परिष्वक्ता((९०)) च न विकृतिं भजेत्. श्लक्ष्णम्((९१)) आकारं अःजानतीव प्रतिगृहीयात्. वदनग्रहणे बलात्कारः. ॥ ३.४.४३ ॥
रतिभावनां अभ्यर्थ्यमानायाः कृच्छ्राद्गुह्यसंस्पर्शनम्. ॥ ३.४.४४ ॥
अभ्यर्थितापि नातिविवृता स्वयं स्यात्. अन्यत्राःनिश्चयकालात्((९२)). ॥ ३.४.४५ ॥
यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनं अभियुञ्जानं बालभाव मोक्षाय त्वरेत्. ॥ ३.४.४६ ॥
विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेत्. ॥ ३.४.४७ ॥
चिति प्रयोज्यस्योपावर्तनम्((९३)). ॥ ३.४.४७ ॥
सेच्तिओन्(प्रकरण)३०
भवन्ति चात्र श्लोकाः. ॥ ३.४.४८ ॥
व्कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम्. अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम्.. ॥ ३.४.४८ ॥
वनःअपेक्ष्य गुणान्यत्र रूपं औचित्यं एव च. कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि.. ॥ ३.४.४९ ॥
व्तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम्. उपायैरभियुञ्जानं कन्या न प्रतिलोभयेत्.. ॥ ३.४.५० ॥
व्वरं वश्यो दरिद्रोऽपि निरःगुणोऽप्यात्मधारणः. गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः.. ॥ ३.४.५१ ॥
व्प्रायेण धनिनां दारा बहवो निरःअवग्रहाः. बाह्ये सत्युपभोगेऽपि निर्विस्रम्भा बहिःसुखाः.. ॥ ३.४.५२ ॥
व्नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा. विःदेशगतिशीलश्च न स संयोगं अर्हति.. ॥ ३.४.५३ ॥
व्यदृच्छयाभियुक्तो यो दम्भद्यूताधिकोऽपि. सःपत्नीकश्च सापत्यो न स संयोगं अर्हति.. ॥ ३.४.५४ ॥
व्गुणसाम्येऽभियोक्तॄणां एको वरयिता वरः. तत्राभियोक्तरि श्रैष्ठ्यं अनुरागात्मको हि सः((९४)).. ॥ ३.४.५५ ॥
चिति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगा अभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः. ॥ ३.४ ॥