← अधिकरणम् ३, अध्यायः ५ कामसूत्रम्
अध्यायः १
वात्स्यायन:
अध्यायः २ →

भार्यैकचरिणी गूढविश्रम्भा((१०७)) देववत्पतिं आनुकुल्येन वर्तेत. ॥ ४.१.१ ॥

तन्मतेन कुटुम्बचिन्तां आत्मनि संनिवेशयेत्. ॥ ४.१.२ ॥

वेश्म च शुचि सुःसंमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं((१०८)) त्रिषवणाचरितबलिकर्म पूजितदेवतायतनं कुर्यात्. ॥ ४.१.३ ॥

न ह्यतोऽन्यद्गृहस्थानां चित्तग्राहकं अस्तीति गोनर्दीयः. ॥ ४.१.४ ॥

गुरुषु भृत्यवर्गेषु नायकभगिनीषु((१०९)) तत्पतिषु च यथार्हं प्रतिपत्तिः((११०)). ॥ ४.१.५ ॥

परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ् जीरकसर्षपाजमोदशतपुष्पातमालगुल्मांश्च कारयेत्((१११)). ॥ ४.१.६ ॥

कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान्बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलाणि मनोज्ञानि कारयेत्((११२)). ॥ ४.१.७ ॥

मध्ये कूपं वापीं दीर्घिकां वा खानयेत्. ॥ ४.१.८ ॥

भिक्षुकीश्रमाणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत. ॥ ४.१.९ ॥

भोजने च रुचितं इदं अस्मै द्वेष्यं इदं पथ्यं इदं अःपथ्यं इदं इति च विन्द्यात्. ॥ ४.१.१० ॥

स्वरं बहिरुपश्रुत्य भवनं आगच्छतः किं कृत्यं इति ब्रुवती सज्जा((११३)) भवनमध्ये तिष्ठेत्. ॥ ४.१.११ ॥

परिचारिकं अपनुद्य स्वयं पादौ प्रक्षालयेत्. ॥ ४.१.१२ ॥

नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत्. ॥ ४.१.१३ ॥

अतिःव्ययं अःसद्व्ययं वा कुर्वाणं रहसि बोधयेत्. ॥ ४.१.१४ ॥

आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमनं इत्यनुज्ञाता कुर्यात्. ॥ ४.१.१५ ॥

सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः. ॥ ४.१.१६ ॥

पश्चात्संवेशनं पूर्वं उत्थानं अनःअवबोधनं च सुप्तस्य. ॥ ४.१.१७ ॥

महानसं च सुःगुप्तं स्याद्दर्शनीयं च. ॥ ४.१.१८ ॥

नायकापचारेषु किं चित्कलुषिता नात्यःअर्थं निर्वदेत्. ॥ ४.१.१९ ॥

साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थं एकाकिनं वाप्युपालभेत. न च मूलकारिका स्यात्. ॥ ४.१.२० ॥

न ह्यतोऽन्यदःप्रत्ययकारणं अस्तीति गोनर्दीयः. ॥ ४.१.२१ ॥

दुरःव्याहृतं दुरःनिरीक्षितं अन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु((११४)) मन्त्रणं विविक्तेषु चिरं अवस्थानं इति वर्जयेत्. ॥ ४.१.२२ ॥

स्वेददन्तपङ्कदुरःगन्धांश्च बुध्येतेति विरागकारणम्. ॥ ४.१.२३ ॥

बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास इत्याभिगामिको वेषः. ॥ ४.१.२४ ॥

प्रतनुश्लक्ष्णाल्पदुकूलता परिमितं आभरणं सुःगन्धिता नात्यःउल्वणम्((११५)) अनुलेपनम्. तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः. ॥ ४.१.२५ ॥

नायकस्य व्रतं उपवासं च स्वयं अपि करणेनानुवर्तेत. वारितायां च नाहं अत्र निर्बन्धनीयेति तद्वचसो निवर्तनम्. ॥ ४.१.२६ ॥

मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समःअर्घग्रहणम्((११६)). ॥ ४.१.२७ ॥

तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुरःलभानां भवनेषु प्रच्छन्नं निधानम्. ॥ ४.१.२८ ॥

मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डालाबुसूरणशुकनासा स्वयम्गुप्तातिलपर्णिकाग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च. ॥ ४.१.२९ ॥

स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च. ॥ ४.१.३० ॥

समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैरतिशयीत. ॥ ४.१.३१ ॥

सांवत्सरिकं आयं संख्याय तदनुरूपं व्ययं कुर्यात्. ॥ ४.१.३२ ॥

भोजनावशिष्टाद्गोरसाद्घृतकरणं तथा तेलगुडयोः. कर्पासस्य च सूत्रकर्तनं सूत्रस्य वानम्. शिक्यरज्जुपाशवल्कलसंग्रहणम्. कुट्टनकण्डनावेक्षणम्. आमचामण्डतुषकखकुट्यङ्गाराणां उपयोजनम्. भृत्यवेतन भरणज्ञानम्. कृषिपशुपालनचिन्तावाहनविधानयोगाः. मेषकुक्कुटलावक शुकशारिकापरभृतमयूरवानरमृगाणां अवेक्षणम्. दैवसिकायव्ययपिण्डी करणं इति च विद्यात्. ॥ ४.१.३३ ॥

तज्जघन्यानां च जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणां अनुग्रहो मानार्थेषु च दानं अन्यत्र वोपयोगः..४.१.३५ सुराकुम्भीनां आसवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयावायव्यायावेक्षणम्. ॥ ४.१.३४ ॥

नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः. ॥ ४.१.३६ ॥

श्वश्रूस्वशुरपरिचर्या तत्पारतन्त्र्यं अनःउत्तरवादिता परिमिताःप्रचण्डालापकरणं अनःउच्चैर्हासः तत्प्रियाःप्रियेषु स्वप्रियाःप्रियेष्विव वृत्तिः. ॥ ४.१.३७ ॥

भोगेष्वनःउत्सेकः. ॥ ४.१.३८ ॥

परिजने दाक्षिण्यम्. ॥ ४.१.३९ ॥

नायकस्याःनिवेद्य न कस्मै चिद्दानम्. ॥ ४.१.४० ॥

स्वकर्मसु भृत्यजननियमनं उत्सवेषु चास्य पूजनम्. ॥ ४.१.४१ ॥



चित्येकचारिणीवृत्तम्((११७)). ॥ ४.१.४१ ॥



सेच्तिओन्(प्रकरण)३३ [प्रवासचर्य्याप्रकरणम्]



प्रवासे मङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता गृहानवेक्षेत. ॥ ४.१.४२ ॥

शय्या च गुरुजनमूले. तदभिमता कार्यनिष्पत्तिः. नायकाभिमतानां चार्थानां अर्जने प्रतिसंस्कारे च यत्नः. ॥ ४.१.४३ ॥

नित्यनैमित्तिकेषु कर्मसूचितो व्ययः. तदारब्धानां च कर्मणां समापने मतिः. ॥ ४.१.४४ ॥

ज्ञातिकुलस्यानःअभिगमनं अन्यत्र व्यसनोत्सवाभ्याम्((११८)). तत्रापि नायकपरिजनाधिष्ठिताया नातिकालं अवस्थानं अःपरिवर्तितप्रवासवेषता च. ॥ ४.१.४५ ॥

गुरुजनानुज्ञातानां करणं उपवासानाम्. परिचारकैः शुचिभिराज्ञाधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शक्त्या व्ययानाम्. ॥ ४.१.४६ ॥

आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनं उपहाराणां चाहरणम्. ॥ ४.१.४७ ॥

चिति प्रवासचर्या((११९)). ॥ ४.१.४७ ॥

भवतश्चात्र श्लोकौ. ॥ ४.१.४८ ॥

व्सद्वृत्तम्((१२०)) अनुवर्तेत नायकस्य हितैषिणी. कुलयोषा पुनर्भूर्वा वेश्या वाप्येकचारिणी.. धर्मं अर्थं तथा कामं लभन्ते स्थानं एव च. निःःसपत्नं च भर्तारं नार्यः सद्वृत्तं आश्रिताः.. ॥ ४.१.४८ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्तं प्रवासचार्या च प्रथमोऽध्यायः. ॥ ४.१ ॥