← अध्यायः १ कामसूत्रम्
अध्यायः २
वात्स्यायन:
अधिकरणम् ५, अध्यायः १ →

जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजानःउत्पत्तेराभीक्ष्ण्येन दारिकोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम्. ॥ ४.२.१ ॥

तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत्. प्रजाःनुत्पत्तौ च स्वयं एव सापत्नके चोदयेत्. ॥ ४.२.२ ॥

अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थितिं कारयेत्. ॥ ४.२.३ ॥

आगतां चैनां भगिनीवदीक्षेत. नयकविदितं च प्रादोषिकं विधिमतीव यत्नादस्याः कारयेत्. सौभाग्यजं वैकृतं उत्सेकं वास्या नाद्रियेत. ॥ ४.२.४ ॥

भर्तरि प्रमाद्यन्तीं उपेक्षेत. यत्र मन्येतार्थं इयं स्वयं अपि प्रतिपत्स्यत इति तत्रैनां आदरत एवानुशिष्यात्. ॥ ४.२.५ ॥

नायकसंश्रवे च रहसि विशेषानधिकान्दर्शयेत्. ॥ ४.२.६ ॥

तदपत्येस्वःविशेषः. परिजनवर्गेऽधिकानुकम्पा. मित्रवर्गे प्रीतिः. आत्मज्ञातिषु नात्यःआदरः. तज्ज्ञातिषु चातिःसंभ्रमः. ॥ ४.२.७ ॥

बह्वीभिस्त्वधिविन्ना अःव्यवहितया संसृज्येत. ॥ ४.२.८ ॥

यां तु नायकोऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत्. ॥ ४.२.९ ॥

ततश्चानुकम्पेत. ॥ ४.२.१० ॥

ताभिरेकत्वेनाधिकां चिकिर्षीतां स्वयं अःविवदमाना दुरःजनीःकुर्यात्. ॥ ४.२.११ ॥

नायकेन तु कलहितां एनां पक्षपातावलम्बनोपबृम्हितां आश्वासयेत्. ॥ ४.२.१२ ॥

कलहं च वर्धयेत्. ॥ ४.२.१३ ॥

मन्दं वा कलहं उपलभ्य स्वयं एव संधुक्षयेत्. ॥ ४.२.१४ ॥

यदि नायकोऽस्यां अद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत. ॥ ४.२.१५ ॥



चिति ज्येष्ठावृत्तम्((१२१)). ॥ ४.२.१५ ॥



सेच्तिओन्(प्रकरण)३५



कनिष्ठा तु मातृवत्सःपत्नीं पश्येत्. ॥ ४.२.१६ ॥

ज्ञातिदायं अपि तस्या अःविदितं नोपयुञ्जीत. ॥ ४.२.१७ ॥

आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात्. ॥ ४.२.१८ ॥

अनुज्ञाता पतिं अधिशयीत. ॥ ४.२.१९ ॥

न वा तस्या वचनं अन्यस्याः कथयेत्. ॥ ४.२.२० ॥

तदपत्यानि स्वेभ्योऽधिकानि पश्येत्..४.२.२२ रहसि पतिं अधिकं उपचरेत्. ॥ ४.२.२१ ॥

आत्मनश्च सपत्नीविकारजं दुःखं नाचक्षीत. ॥ ४.२.२३ ॥

पत्युष्च सःविशेषकं गूढं मानं लिप्सेत्. ॥ ४.२.२४ ॥

अनेन खलु पथ्यदानेन जीवामीति ब्रूयात्. ॥ ४.२.२५ ॥

तत्तु श्लाघया रागेण वा बाहिर्नाचक्षीत. ॥ ४.२.२६ ॥

भिन्नरहस्या हि भर्तुरवज्ञां लभते. ॥ ४.२.२७ ॥

ज्येष्ठाभयाच्च निगूढसंमानार्थिनी स्यादिति गोनर्दीयः. ॥ ४.२.२८ ॥

दुरःभागं अनःअपत्यां च ज्येष्ठां अनुकम्पेत नायकेन चानुकम्पयेत्. ॥ ४.२.२९ ॥

प्रसह्य त्वेनां एकचारिणीवृत्तं अनुतिष्ठेत् ॥ ४.२.३० ॥



चिति कनिष्ठावृत्तम्((१२२)). ॥ ४.२.३० ॥



सेच्तिओन्(प्रकरण)३६



विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः. ॥ ४.२.३१ ॥

यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निरःगुणोऽयं इति तदान्यं काङ्क्षेदिति बाभ्रवीयाः. ॥ ४.२.३२ ॥

सौख्यार्थिनी सा किलान्यं पुनर्विन्देत. ॥ ४.२.३३ ॥

गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः. ॥ ४.२.३४ ॥

आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः. ॥ ४.२.३५ ॥

सा बान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्ययसहिष्णु कर्म लिप्सेत. ॥ ४.२.३६ ॥

आत्मनः सारेण वालङ्कारं तदीयं आत्मीयं वा बिभृयात्. ॥ ४.२.३७ ॥

प्रीतिदायेष्वःनियमः. ॥ ४.२.३८ ॥

स्वेच्छया च गृहान्निर्गच्छती प्रीतिदायादन्यन्नायकदत्तं जीयेत. निष्कास्यमाना तु न किं चिद्दद्यात्. ॥ ४.२.३९ ॥

सा प्रभविष्णुरिव तस्य भवनं आप्नुयात्. ॥ ४.२.४० ॥

कुलजासु तु प्रीत्या वर्तेत. ॥ ४.२.४१ ॥

दाक्षिण्येन परिजने सर्वत्र सःपरिहासा मित्रेषु प्रतिपत्तिः. कलासु कौशलं अधिकस्य च ज्ञानम्. ॥ ४.२.४२ ॥

कलहस्थानेषु च नायकं स्वयं उपलभेत. ॥ ४.२.४३ ॥

रहसि च कलया चतुःषष्ट्यानुवर्तेत. सःपत्नीनां च स्वयं उपकुर्यात्. तासां अपत्येष्वाभारणदानम्. तेषु स्वामिवदुपचारः. मण्डनकानि वेषानादरेण कुर्वीत. परिजने मित्रवर्गे चाधिकं विश्राणनम्((१२३)). समाजापानकोद्यानयात्राविहारशीलता च. ॥ ४.२.४४ ॥



चिति पुनर्भूवृत्तम्((१२४)). ॥ ४.२.४४ ॥



सेच्तिओन्(प्रकरण)३७



दुर्भगा तु सापत्नकपीडिता या तासां अधिकं इव पत्यावुपचरेत्तां आश्रयेत्. प्रकाश्यानि च कलाविज्ञानानि दर्शयेत्. दौर्भाग्याद्रहस्यानां अःभावः. ॥ ४.२.४५ ॥

नायकापत्यानां धात्रेयिकानि कुर्यात्. ॥ ४.२.४६ ॥

तन्मित्राणि चोपगृह्य तैर्भक्तिं आत्मनः प्रकाशयेत्. ॥ ४.२.४७ ॥

धर्मकृत्येषु च पुरश्चारिणी स्याद्व्रतोपवासयोश्च. ॥ ४.२.४८ ॥

परिजने दाक्षिण्यम्. न चाधिकं आत्मानं पश्येत्. ॥ ४.२.४९ ॥

शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यानयनम्. ॥ ४.२.५० ॥

न चोपालभेत वामतां च न दर्शयेत्. ॥ ४.२.५१ ॥

यया च कलहितः स्यात्कामं तां आवर्तयेत्. ॥ ४.२.५२ ॥

यां च प्रच्छन्नां कामयेत्तां अनेन सह संगमयेद्गोपयेच्च. ॥ ४.२.५३ ॥

यथा च पतिव्रतात्वं अःशाठ्यं नायको मन्येत तथा प्रतिविदध्यात्. ॥ ४.२.५४ ॥



चिति दुर्भगावृत्तम्((१२५)). ॥ ४.२.५४ ॥



सेच्तिओन्(प्रकरण)३८



अन्तःपुराणां च वृत्तं एतेष्वेव प्रकरणेषु लक्षयेत्((१२६)). ॥ ४.२.५५ ॥

माल्यानुलेपनवासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितं इति. ॥ ४.२.५६ ॥

तदादाय राजा निर्माल्यं आसां प्रतिप्राभृतकं दद्यात्. ॥ ४.२.५७ ॥

अलंकृतश्च स्वःअलंकृतानि चापराह्ने सर्वाण्यन्तःपुराण्यैकध्येन पश्येत्. ॥ ४.२.५८ ॥

तासां यथाकालं यथार्हं च स्थानमानानुवृत्तिः सःपरिहासाश्च कथाः कुर्यात्. ॥ ४.२.५९ ॥

तदनःअन्तरं पुनर्भुवस्तथैव पश्येत्. ॥ ४.२.६० ॥

तत्पो वेश्या आभ्यन्तरिका नाटकीयाश्च. ॥ ४.२.६१ ॥

तासां यथोक्तकक्षाणि स्थानानि. ॥ ४.२.६२ ॥

वासकपाल्यस्तु यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्ताभ्यां प्रहितं अङ्गुलीयकाङ्कं अनुलेपनं ऋतुं वासकं च निवेदयेयुः. ॥ ४.२.६३ ॥

तत्र राजा यद्गृह्णीयात्तस्या वासकं आज्ञापयेत्. ॥ ४.२.६४ ॥

उत्सवेषु च सर्वासां अनुरूपेण पूजापानकं च. संगीतदर्शनेषु च..४.२.६६ अन्तःपुरचारिणीनां बहिरःनिष्क्रमो बाह्यानां चाःप्रवेशः. अन्यत्र विदितशौचाभ्यः. अःपरिक्लिष्टश्च कर्मयोगः. ॥ ४.२.६५ ॥



चित्यान्तःपुरिकम्((१२७)). ॥ ४.२.६६ ॥



सेच्तिओन्(प्रकरण)३९



भवन्ति चात्र श्लोकाः. ॥ ४.२.६७ ॥

व्पुरुषस्तु बहून्दरान्समाहृत्य समो भवेत्. न चावज्नां चरेदासु व्यालिकान्न सहेत च.. ॥ ४.२.६७ ॥

वेकस्यां या रतिक्रीडा वैकृतं वा शरीरजम्. विस्रम्भाद्वाप्युपालम्भस्तं अन्यासु न कीर्तयेत्.. ॥ ४.२.६८ ॥

व्न दद्यात्प्रसरं स्त्रीणां सःपत्न्याः कारणे क्व चित्. तथोपालभमानां च दोषैस्तां एव योजयेत्.. ॥ ४.२.६९ ॥

वन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः. बहुमानैस्तथा चन्यां इत्येवं रञ्जयेत्स्त्रियः.. ॥ ४.२.७० ॥

वुद्यानगमनैर्भोगैर्दानैस्तज्ज्ञातिपूजनैः. रहस्यैः प्रीतियोगैश्चेत्येकैकां अनुरञ्जयेत्.. ॥ ४.२.७१ ॥

व्युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी. करोति वश्यं भर्तारं सःपत्नीश्चाधितिष्ठति((१२८)).. ॥ ४.२.७२ ॥

चिति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुरःभागावृत्तं आन्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः..लिव्रे ५ पारदारिकं पञ्चमं अधिकरणम्. ॥ ४.२ ॥