← अध्यायः २ कामसूत्रम्
अध्यायः ३
वात्स्यायन:
अध्यायः ४ →

अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत. तया भावः परीक्षितो भवति. अभियोगांश्च प्रतिगृह्णीयात्. ॥ ५.३.१ ॥

मन्त्रं अःव्र्ण्वानां दूत्यैनां साधयेत्. ॥ ५.३.२ ॥

अःप्रतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां विद्यात्. तां क्रमेण साधयेत्. ॥ ५.३.३ ॥

अःप्रतिगृह्याभियोगं सःविशेषं अलंकृता च पुनर्दृशेत तथैव तं अभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात्. ॥ ५.३.४ ॥

बहूनपि विषहतेऽअभियोगान्न चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या. ॥ ५.३.५ ॥

मनुष्यजातेश्चित्ताःनित्यत्वात्. ॥ ५.३.६ ॥

अभियुक्तापि परिहरति न च संसृज्यते. न च प्रत्याचष्टे. तस्मिन्नात्मनि च गौरवाभिमानात्. सातिपरिचयात्कृच्छ्रसाध्या. मर्मज्ञया दूत्या तां साधयेत्. ॥ ५.३.७ ॥

सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या. ॥ ५.३.८ ॥

परुषयित्वापि तु प्रीतियोजिनीं साधयेत्. ॥ ५.३.९ ॥

कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमनसा सातत्येन क्षान्त्या वा साध्या. ॥ ५.३.१० ॥

समीपे शयानायाः सुप्तो नाम करं उपरि विन्यसेत्. सापि सुप्तेवोपेक्षते. जाग्रती त्वपनुदेद्भूयोऽभियोगाकाङ्क्षिणी. ॥ ५.३.११ ॥

एतेन पादस्योपरि पादन्यासो व्याख्यातः((१४०)). ॥ ५.३.१२ ॥

तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणं उपक्रमेत्. ॥ ५.३.१३ ॥

तदःसहमानां उत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीं अभियोगार्थिनीं विद्यात्. अःदृश्यमानां तु दूतीसाध्याम्. ॥ ५.३.१४ ॥

चिरं अःदृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताकारां उपक्रमेत्.. ॥ ५.३.१५ ॥

अःनभियुक्ताप्याकारयति. विविक्ते चात्मानं दर्शयति. सःवेपथुगद्गदं वदति. स्विन्नकरचरनाङ्गुलिः स्विन्नमुखी च भवति. शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति. ॥ ५.३.१६ ॥

आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शं आवेदयति श्लेषयति च. विस्मितभावा. ॥ ५.३.१७ ॥

निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्यां अपि तिष्ठति. अलिकैकदेशं ऊर्वोरुपरि पातयति. ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति. तत्रैव हस्तं एकं अःविचलं न्यस्यति. अङ्गसंदंशेन च पीडितं चिरादपनयति. ॥ ५.३.१८ ॥

प्रतिगृह्यैवं नायकाभियोगान्पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति. ॥ ५.३.१९ ॥

नात्यर्थं संसृज्यते. न च परिहरति. ॥ ५.३.२० ॥

विविक्ते भावं दर्शयति निष्कारणं चाःगूढं अन्यत्र प्रछन्नप्रदेशात्. ॥ ५.३.२१ ॥

संनिकृष्टपरिचारकोपभोग्या सा चेदाकारितापि तथैव स्यात्सा मर्मज्ञया दूत्या साध्या. ॥ ५.३.२२ ॥

व्यावर्तमाना तु तर्कणीया ॥ ५.३.२३ ॥

चिति भावपरीक्षा((१४१)). ॥ ५.३.२३ ॥

भवन्ति चात्र श्लोकाः ॥ ५.३.२४ ॥

वादौ परिचयं कुर्यात्ततश्च परिभाषणम्. परिभाषणसंमिश्रं मिथश्चाकारवेदनम्.. ॥ ५.३.२४ ॥

व्प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम्. ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः.. ॥ ५.३.२५ ॥

वाकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत्. क्षिप्रं एवाभियोज्या सा प्रथमे त्वेव दर्शने.. ॥ ५.३.२६ ॥

व्श्लक्ष्णं आकारिता या तु दर्शयेत्स्फुटं उत्तरम्. सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा.. ॥ ५.३.२७ ॥

व्धीरायां अःप्रगल्भायां परीक्षिण्यां च योषिति. एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः.. ॥ ५.३.२८ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृइतीयोऽध्यायः. ॥ ५.३ ॥