← अध्यायः ३ कामसूत्रम्
अध्यायः ४
वात्स्यायन:
अध्यायः ५ →

दर्शितेङ्गिताकारं तु प्रविरलदर्शनाम्((१४२)) अःपूर्वां च दूत्योपसर्पयेत्. ॥ ५.४.१ ॥

सैनां शीलतोऽनुप्रविश्याख्यानकपटैः सुभगंकरणयोगैर्लोकवृत्तान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत्. ॥ ५.४.२ ॥

कथं एवंविधायास्तवायं इत्थंभूतः पतिरिति चानुशयं ग्राहयेत्. ॥ ५.४.३ ॥

न तव सुभगे दास्यं अपि कर्तुं युक्त इति ब्रूयात्. ॥ ५.४.४ ॥

मन्दवेगतां ईर्ष्यालुतां शठतां अःकृतज्ञतां चासंभोगशीलतां कदर्यतां चपलतां अन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे सति सद्भावेऽतिशयेन भाषेत. ॥ ५.४.५ ॥

येन च दोषेणोद्विग्नां लक्षयेत्तेनैवानुप्रविशेत्. ॥ ५.४.६ ॥

यदासौ मृगी तदा नैव शशतादोषः. ॥ ५.४.७ ॥

एतेनैव बडवहस्तिनीविषयश्चोक्तः. ॥ ५.४.८ ॥

नायिकाया एव तु विश्वास्यतां उपलभ्य दूतीत्वेनोपसर्पयेत्प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः. ॥ ५.४.९ ॥

सा नायकस्य चरितं अनुलोमतां कामितानि च कथयेत्. ॥ ५.४.१० ॥

प्रसृतसद्भावायां च युक्त्या कार्यशरीरं इत्थं वदेत्. ॥ ५.४.११ ॥

शृणु विचित्रं इदं सुभगे त्वां किल दृष्त्वामुत्रासावित्थं गोत्रपुत्रो नायकश्चित्तोन्मादं अनुभवति. प्रकृत्या सुःकुमारः कदा चिदन्यत्रापरिक्लिष्टपूर्वस्तपस्वी. ततोऽधुना शक्यं अनेन मरणं अप्यनुभवितुं इति वर्णयेत्. ॥ ५.४.१२ ॥

तत्र सिद्धा द्वितीयेऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादं उपलक्ष्य पुनरपि कथां प्रवर्तयेत्. ॥ ५.४.१३ ॥

शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्यन्यान्यपि लौकिकानि च कथयेत्तद्युक्तानि. ॥ ५.४.१४ ॥

वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य. श्लाघनीयतां चास्य प्रच्छन्नं संप्रयोगं भूतं अःभूतपूर्वं वा वर्णयेत्. ॥ ५.४.१५ ॥

आकारं चास्य लक्षयेत्. ॥ ५.४.१६ ॥

सःविहसितं दृष्ट्वा संभाषते. ॥ ५.४.१७ ॥

आसने चोपनिमन्त्रयते. ॥ ५.४.१८ ॥

क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतं इति पृच्छति. ॥ ५.४.१९ ॥

विविक्ते दर्शयत्यात्मानम्. ॥ ५.४.२० ॥

आख्यानकानि नियुङ्क्ते..५.४.२२ चिन्तयन्ती निःश्वासीति विजृम्भते च. ॥ ५.४.२१ ॥

प्रीतिदायं च ददाति. ॥ ५.४.२३ ॥

इष्टेषूत्सवेषु च स्मरति. ॥ ५.४.२४ ॥

पुनर्दर्शनानुबन्धं विसृजति. ॥ ५.४.२५ ॥

साधुवादिनी सती किं इदं अःशोभनं अभिधत्स इति कथां अनुबध्नाति. ॥ ५.४.२६ ॥

नायकस्य शाठ्यचापल्यसंबद्धान्दोषान्ददाति. ॥ ५.४.२७ ॥

पूर्वप्रवृत्तं च तत्संदर्शनं कथाभियोगं च स्वयं अःकथयन्ती तयोच्यमानं आकाङ्क्षति. ॥ ५.४.२८ ॥

नायकमनोरथेषु च कथ्यमानेषु सःपरिभवं नाम हसति. न च निर्वदतीति. ॥ ५.४.२९ ॥

दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपबृंहयेत्. ॥ ५.४.३० ॥

अःसंस्तुतां तु गुणकथनैरनुरागकथाभिश्चावर्जयेत्. ॥ ५.४.३१ ॥

नासंस्तुतादृष्टाकारयोर्दूत्यं अस्तीत्यौद्दालकिः. ॥ ५.४.३२ ॥

अःसंस्तुतयोरपि संसृष्टाकारयोरस्तीति बाभ्रवीयाः. ॥ ५.४.३३ ॥

संस्तुतयोरप्यःसंसृष्टाकारयोरस्तीति गोणिकापुत्रः. ॥ ५.४.३४ ॥

अःसंस्तुतयोरःदृष्टाकारयोरपि दूतीप्रत्ययादिति वात्स्यायनः. ॥ ५.४.३५ ॥

तासां मनोहराण्युपायनानि ताम्बूलं अनुलेपनं स्रजं अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत्. ॥ ५.४.३६ ॥

तेषु नायकस्य यथार्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः. ॥ ५.४.३७ ॥

वाससि च कुङ्कुमाङ्कं अञ्जलिं निदद्यात्. ॥ ५.४.३८ ॥

पत्रच्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत्. लेखपत्त्रगर्भाणि कर्णपत्त्राण्यापीडांश्च. ॥ ५.४.३९ ॥

तेषु स्वमनोरथाख्यापनम्. प्रतिप्राभृतदाने((१४३)) चैनां नियोजयेत्. ॥ ५.४.४० ॥

एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः. ॥ ५.४.४१ ॥

स तु देवताभिगमने यात्रायां उद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः. ॥ ५.४.४२ ॥

सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः. ॥ ५.४.४३ ॥

तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनं उपपन्नं निष्क्रमणं अःविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः. ॥ ५.४.४४ ॥

निसृष्टार्था[१] परिमितार्था[२] पत्रहारी[३] स्वयंदूती[४] मूढदूती[५] भार्यादूती[६] मूकदूती[७] वातदूती[८] चेति दूतीविशेषाः. ॥ ५.४.४५ ॥

नायकस्य नायिकायाश्च यथामनीषितं अर्थं उपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था[१]. ॥ ५.४.४६ ॥

सा प्रायेण संस्तुतसंभाषणयोः. ॥ ५.४.४७ ॥

नायिकया प्रयुक्ता अःसंस्तुतसंभाषणयोरपि. ॥ ५.४.४८ ॥

कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्यःसंस्तुतयोरपि. ॥ ५.४.४९ ॥

कार्यैकदेशं अभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परिमितार्था[२]. ॥ ५.४.५० ॥

सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः. ॥ ५.४.५१ ॥

संदेशमात्रं प्रापयतीति पत्रहारी[३]. ॥ ५.४.५२ ॥

सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम्. ॥ ५.४.५३ ॥

दौत्येन प्रहितान्यया स्वयं एव नायकं अभिगच्छेदजानती नाम तेन सहोपभोगं स्वाप्ने वा कथयेत्. गोत्रस्खलितं भार्यां चास्य निन्देत्. त्द्व्यपदेशेन स्वयं ईर्ष्यां दर्शयेत्. नखदशनचिह्नितं वा किं चिद्दद्यात्. भवतेऽहं आदौ दातुं संकल्पितेति चाभिदधीत. मम भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती[४]. ॥ ५.४.५४ ॥

तस्य विविक्ते दर्शनं प्रतिग्रहश्च. ॥ ५.४.५५ ॥

प्रतिग्रहच्छलेनान्यां अभिसंधायास्याः संदेशाश्रवणद्वारेण नायकं साधयेत्तां चोपहन्यात्सापि स्वयंदूती[४]. ॥ ५.४.५६ ॥

एतया नायकोऽप्यन्यदूतश्च व्याख्यातः. ॥ ५.४.५७ ॥

नायकभार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्. योगाञ् शिक्षयेत्. साकारं मण्डयेत्. कोपं एनां ग्राहयेत्. एवं च प्रतिपद्यस्वेति श्रावयेत्. स्वयं चास्यां नखदशनपदानि निर्वर्तयेत्. तेन द्वारेण नायाकं आकारयेत्सा मूढदूती[५]. ॥ ५.४.५८ ॥

तस्यास्तयैव प्रत्युत्तराणि योजयेत्. ॥ ५.४.५९ ॥

स्वभार्यां वा मूढं प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत्. आत्मनश्च वैचक्षण्यं प्रकाशयेत्. सा भार्यादुती[६] तस्यास्तयैवाकारग्रहणम्. ॥ ५.४.६० ॥

बालां वा परिचारिकां अःदोषज्ञां अःदुष्टेनोपायेन प्रहिणुयात्. तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती[७]. तस्यास्तयैव प्रत्युत्तरप्रार्थनम्. ॥ ५.४.६१ ॥

पूर्वप्रस्तुतार्थलिङ्गसंबद्धं अन्यजनाःग्रहणीयं लौकिकार्थं व्यर्थं वा वचनं उदासीना या श्रावयेत्सा वातदूती[८]. तस्या अपि तयैव प्रत्युत्तरप्रार्थनम् ॥ ५.४.६२ ॥

चिति तासां विशेषाः.. ॥ ५.४.६२ ॥

भवन्ति चात्र श्लोकाः ॥ ५.४.६३ ॥

व्विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका. प्रविशत्यासु विश्वासं दूतीकार्यं च विन्दति.. ॥ ५.४.६३ ॥

संक्षेपेण दूतीकर्माण्याह ॥ ५.४.६४ ॥

व्विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत्. चित्रान्सुरतसंभोगानन्यासां अपि दर्शयेत्.. ॥ ५.४.६४ ॥

व्नायकस्यानुरागं च पुनश्च रतिकौशलम्. प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत्.. ॥ ५.४.६५ ॥

वःसंकल्पितं अप्यर्थं उत्सृष्टं दोषकारणात्. पुनरावर्तयत्येव दूती वचनकौशलात्((१४४)).. ॥ ५.४.६६ ॥

 चिति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः. ॥ ५.४ ॥