काशिकाविवरणपञ्जिका/तृतीयोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिकाविवरणपञ्जिका द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ तृतीयाध्यायस्य
द्वितीयः पादः
1. कर्मण्यण्। (3.2.1)
`कर्यणि' इति नेदं स्वरूपग्रहणम्; `अशब्दसंज्ञा' (1.1.68) इति प्रतिषेधात्। यदि च कर्मप्रदेशेषु स्वरूपमेव गृह्यते,तदा संज्ञाविधानमनर्थकं स्यात्; नापि क्रियाग्रहणम्, तस्य हि ग्रहणे `कर्त्रभिप्राये' (1.3.72) इति निर्देशो नोपपद्यते, क्रियाकर्मणो हि ग्रहणे क्रियावाच्युपपदे प्रत्ययेन भवितव्यम्, न चेह क्रियावाच्युपपदमस्ति तस्मात् `कर्त्तुरीप्सिततमं कर्म' (1.4.49) इति कर्म गृह्यते। तस्य प्रभेदं दर्शयितुमाह-- `त्रिविधम्' इत्यादि। तत्र निर्वर्त्त्यं यदसदेवोत्पद्यते, तथा--कुम्भं करोति,नगरं करोतीति। कुम्भादिकं ह्यविद्यमानमेवोत्पद्यत इति निर्वर्त्त्यं कर्म। विकार्यम्-- यस्य सत एव कश्चिदद्विकारो विधीयते, तद्यथा-- काण्डं लुनाति, नगरं लुनातीति। सत एव काण्डादेर्लवनेन विकारो विधीयत इति विकार्यं कर्म। प्राप्यम्-- नासत एवोत्पादनं क्रियते, नापि सत एव विकाराधानम्, केवलं क्रियासम्बन्धमात्रं प्रतीयते, तद्यथा-- वेदमधीते, चर्च्चां परयतीति। अत्रह्यव्ययनादिना वेदादेः सम्बन्धमात्रं प्रतीयते, न त्वसत एवोत्पादनम्। नापि सत एवान्यथालक्षणो विकार इति प्राप्यमेतत् कर्म। `सर्वत्र' इत्यादि। त्रप्रकारे विशेषानुपादानात्। `कर्मण्युपपदे' इति नाभिदाने कुतो मा भूत् ? `कर्त्तरि कृत्' (3.4.67) इत्यस्य बाधा इति।
`शीलिकामि' इत्यादि। `{शील उपधारणे इति धा.पा. चुरादौ पठ्यते; `शील समाधौ' इति च धा.पा.भ्वादौ पठ्यते} शील समाधौ' (धा.पा.1878) चुरादिर्ण्यन्तः। `कमु कान्तौ' (धा.पा.443) कमिर्णिङन्तः। `भक्ष अदने' (धा.पा.1557), चुरादिर्ण्यन्तः। `चर गत्यर्थः' (धा.पा.559) आङ्पूर्वः। इकारोऽस्य धातुनिर्देशार्थः। एभ्योऽणि प्राप्ते णो वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम्-- `ज्वलितिकसन्तेभ्यो णः' (3.1.140) इत्यतो मण्डूकप्लुतिन्यायेन णोऽनुवर्त्तते, `विभाषा ग्रहः' (3.1.143) इत्यतश्च विभाषाग्रहणम्, द्वावपीह कर्मण्युपपदे णाणौ विधीयते। अत्र विभाषाग्रहणानुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्छीलीत्यादिभ्यो ण एव भविष्यतीति, परिशिष्टेभ्यस्त्वणेवेति। एतयोस्तु स्त्रियां विशेषः - अणि हि ङिब् भवति, णे तु टाप्। णकारः `अचो ञ्णिति' (7.2.115) वृद्ध्यर्थः। `पूर्वपदप्रकृतिस्वरत्वञ्च' इति।`गतिकारकोपपदानां कृत्' (6.2.139) इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते पूर्वपदप्रकृतिस्वरत्वञ्च वक्तव्यम् = व्याख्येयम्। तत्रेदं व्याख्यान म्-- `{तत्पुरुषे तुल्यादौ' मु.पाठः} तुल्यार्थ' (6.2.2) सूत्रे `तत्पुरुषे'इति योगविभागः कर्त्तव्यः तेन मांसशीलादिभ्यः पूर्वपदप्रकृतिस्वरत्वञ्च भविष्यतीति। मांसशब्दोऽन्तोदात्तः-- `वृतृवदिहनिकमि{कषियुमुचिभ्यः द.उ.} कषिभ्यः सः' (द.उ.9.21) इत्यनुवर्त्तमाने `मनेर्दीर्घश्च' (द.उ.9.23) इति सप्रत्ययान्तत्वात्प्रत्ययस्वरेण। कल्याणशब्दो मध्योदात्तः-`लघावन्ते द्वयोश्च बह्वषो गुरुः' (फिट्. 2.42) इत्यनेन। अस्यायमर्थः-- अन्ते लघौ परतौ द्वयोश्चान्तयोर्लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवति। `बह्वष्' इति बह्वजित्यर्थः। ननु च शील्यादिभ्यः कर्मणि घञं कृत्वा तदन्तेन बहुव्रीहौ कृते सिध्यत्वेव मांसशीलादि, तत्किं णविधानेन ? नैतदस्ति; बहुव्रीहौ सति बहुभक्षा इत्यत्र `वहोर्नञ्चदुत्तरपदभूम्नि' (6.2.175) इत्युत्तरपदान्तोदात्तत्वं स्यात्। अवश्यञ्चाण्बाधनार्थो णो वक्तव्यः, अन्यथा हि यदा `मांसं कामयते' इतीदं वाक्यं भवति तदाऽणपि स्यात्।
`ईक्षिक्षमिभ्याश्च'इति। `ईक्ष दर्शने' (धा.पा.610), `{क्षमू-धा.पा.}क्षमु सहने' (धा.पा.1206)- आभ्यां णो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्ववदेव कर्त्तव्यम्।।
2. ह्वावामश्च। (3.2.2)
`ह्वेञ् स्पर्द्धायाम्'। `वेञ् तन्तुसन्ताने' इति। अथ `वा गतिगन्धनयोः' (धा.पा.1050) इत्यस्य ग्रहणं कस्मान्न भवति ? अकर्मकत्वात्। कर्मणि चेहानुवर्त्तते। `माङ माने' इति। ङकारानुबन्धवतो मा इत्यस्योपलक्षणार्थमेतत्। `मेङ प्रणिदाने' (धा.पा.961) इत्यस्यापि ग्रहणमिष्यते; `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति वचनात्। ननु यदि गामादाग्रहणेष्वविशेषस्तदा `मीञ् हिंसायाम्' (धा.पा.1476), `डुमिञ् प्रक्षेपणे'(धा.पा.1250) इति तयोरप्येज्विषय आत्त्वे कृते मेत्येतद्रूपं सम्पद्यते ? भवत्येवाभ्यामणेवेति पूर्वसूत्रेण प्राप्तस्य। `स्वर्गह्वायः' इति। `आतो युक् चिण्कृतोः' (7.3.33) इति युक्।।
3. आतोऽनुपसर्गे कः। (3.2.3)
`अनुपसर्गे' इति। व्यत्ययेन पञ्चमीप्रसङ्गेऽपि सप्तमी। धातुविशेषणञ्चैतत्। अत एवाह-- `आकारान्तेभ्योऽनुपसर्गेभ्यः'इति च। `गोदः' इति। पूर्ववलदाकारलोपः। `पार्ष्णिम्' इति। `त्रैङ पालने' (धा.पा.965)।।
4. सुपि स्थः। (3.2.4)
सुपीति ग्रहणात् कर्मणीति न सम्बध्यते, तिष्ठतेरकर्मकत्वाच्च। `समस्थः' इत्यादौ सप्तम्यन्त उपपदे `अत्र' इत्यादि। सुपीत्येको योगः, तत्र चात इत्यनुवर्त्तते। `सुपीत्यादिना' अस्य योगस्यार्थमाचष्टे। `ततः स्थ इत' इति। द्वितीयो योग इति। `स्थश्च सुपि' इति विवरणम्।
`किम्'इत्यादि। पूर्वेण सिद्धमिति मन्यमानस्य प्रश्नः। `भावेऽपि यथा स्यात्' इति। आरम्भसामर्थ्यात् कर्त्तरि तावन्न भविष्यति। न चार्थान्तरं निर्द्दिश्यते, तत्र `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पु.प.पा.90) इति भाव एव स्यात्। स एव हि धातूनां स्वार्थः। `{आखूत्थः-काशिका} आखूत्थम्' इति। `उदः स्थास्तम्भोः पूर्वस्य' (8.4.61) इति पूर्वसवर्णः।।
5. तुन्दशोकयोः परिमृजापनुदोः। (3.2.5)
`परिमृजापनुदोः' इति। सुब्व्यत्येन पञ्चम्यर्थे षष्ठी। `मृजू शुद्धौ' (धा.पा.1066) पूरिपूर्वः। `नुद प्रेरणे' (धा.पा.1426) अपपूर्वः। `आलस्य' इत्यादि। प्रत्ययार्थोपाधिरयम्। अलस एवालस्यम्। चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्। आहरतीत्याहरणः। `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तरि ल्युट्। सुखस्याहरणः सुखाहरणः। आलस्यकर्त्तरि सुखस्याहरणेऽनेन को भवति, नान्यत्रेत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अत्रापि पूर्ववद्वविभाषागर्हणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेनालस्यसुखाहरणयोरेव कर्त्तोः को भवति, नान्यत्रेति। `तुन्दपरिमार्ज एवान्यः' इति। अनालस्ये त्वण् भवति। `मृजेर्वृद्धिः' (7.2.114)। `शोकापनोदः' इति। यः प्रतिपक्षोपदेशेन शोकं केवलमपनुदति, न तु सुखमुत्पादयति। अत्राणेव तु भवति।
`कप्रकरणे' इत्यादि। मूलविभुजादिब्यस्तदर्थे चतुर्थी। आदिशब्दः प्रकारवचनः। मूलविभुजाद्यर्थ मूलविभुजादयः साधवो यथा स्युरित्येवमर्थ कप्रत्ययस्योपादानं प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `ह्वावामश्च' (3.2.2) इत्यतः `आतोऽनुपसर्गे कः' (3.2.3) इत्यत्र चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन मूलविभुजादिभ्यः कप्रत्ययो भविष्यतीति। मूलं विभुजति। `{भुजो-धा.पा.} भुज कौटिल्ये' (धा.पा.1417)। नखानि मुञ्चन्तीति नखमुचानि। `मुच्लृ मोक्षणे' (धा.पा.1430)। ` काकगृहास्तिलाः' इति। `गुहू संवरणे' (धा.पा.896)। काकेभ्यो गूहितव्याः।तव्यदाद्यपवादः। कर्मणि कः। `कौ मोदते कुमुदम्' इति। तृजाद्यपवादः।।
6. प्रे दाज्ञः। (3.2.6)
`सोपसर्गार्थं आरम्भः' इति। अनुपसर्गात् `आतोऽनुपसर्गे कः' (3.2.3) इत्येवं सिद्धत्वात्। `ददातेः' इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति वचनात्। `प्रेणोपसृष्टात्' इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे `प्रे' इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। `पथिप्रज्ञः' इति। पन्थानं प्रजानातीत्यर्थः।।
7. समि ख्यः। (3.2.7)
`गां सञ्चष्टे' इति। वाक्यविशेषेण `चक्षिङः ख्याञ्' (2.4.54) इति ख्याञादेशस्य ग्रहणम्, न `ख्या प्रकथने' (धा.पा.1060) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते।।
8. गापोष्टक्। (3.2.8)
`लुग्विकरणालुग्विकरणयोर्लुक्विकरणस्यैव ग्रहणम्' (व्या.प.50) इति `पा' इति पानार्थस्य ग्रहणमम्, रक्षणार्थस्य न। यद्यपि `गामादाग्रहणेष्वविशेषः' (व्या.प.124) उच्यते, तथापि पिबतिना साहचर्यात् `गा' इत्यस्यालुग्विकरणस्य ग्रहणम्, न गत्यर्थस्येत्याह--`गायतेः, पिबतेश्च' इति। टकः कित्करणमातो लोपार्थम्। टित्करणं ङीबर्थम्; न तु `आद्यन्तौ टकितौ' (1.1.46) इत्येवमर्थम्। कुत एतत् ? आद्यन्तयोरवयवत्वात्। न च प्रत्ययोऽवयवो युज्यते, `परश्च' (3.1.2) इति वचनात्। ननु च गापोरिति षष्ठी टकोऽवयवत्वञ्च बोधयिष्यते ? नैतदस्ति; पञ्चम्यर्थे त्वेषा षष्ठी, कर्त्तृविशेषणार्था वा-- गापोः कर्त्तरीति। युक्तञ्चैतत्, एवं हि प्रत्ययपरत्वं बाधितं न भवति। किञ्चादित्वे हि टकः कित्करणमनर्थकं स्यात्।
पिबतेरूपपदान्तस्य निवृत्त्यर्थमाह-- `सुराशीध्वोः' इत्यादि। तत्र पिबतेरिह ग्रहणम्, न पातेरित्येतत् प्रागेव व्यवस्थापितम्। इह `विभाषा' (3.1.143) इत्यनुवर्त्तते, सा तु व्यवस्थितविभाषा; तेन सुराशीध्वोरुपपदयोर्भविष्यति, नान्यत्र। `क्षीरपा' इति। स्त्रीलिङ्गोदाहरणं स्त्रियां विशेष इति प्रदर्शनार्थम्।
`बहुलम्' इत्यादि। पिबतेश्छन्दसि बहुलं टग्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु -- तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। तस्य तु फलं सुरापेति पक्षे कप्रत्ययो भवति।।
9. हरतेरनुद्यमनेऽच्। (3.2.9)
`उद्यमनमुत्क्षेपणम्' इति। अधः स्थितस्य व्सतुन ऊर्ध्वं नयनमित्यर्थः। `अंशहरः' इति। अंशं स्वीकरोतीत्यर्थः, न तूत्क्षेपयति।
`अच्प्रकरणे' इत्यादि। `प्रातिपदिकग्रहणे {लिङ्गिविशिष्टस्य' इति मुद्रितः पाठः।} लिङ्गविशिष्टस्यापि ग्रहणम्' (व्या.प.29) इति घटग्रहणेनैव घटीग्रहणे सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्। तस्य तु प्रयोजनम् -- `दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः'(4.1.85) इत्यत्र वक्ष्यते। उपसंख्यानशब्दस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन शक्त्यादिषूपपदेषु ग्रहेरज्भविष्यति।
`सूत्रे च' इत्यादि। धारेरर्थो धार्य्यर्थः। तत्र वर्तमानाद्ग्रहेः सूत्रे चोपपदेऽच उपसंख्यानं प्रतिपादनं कर्त्तव्यम्। प्रतिपादनं तावत्तदेव। `सूत्रग्राह एवान्यः' इति। यः सूत्रं केवलमुपादत्ते न धारयति, तत्राणेव भवति।।
10. वयसि च। (3.2.10)
`उतद्यमनार्थोऽयमारम्भः' इति। अनुद्यमने पूर्वेणैव सिद्धत्वात्। `अस्थिहरः'इति। अस्थ्युत्क्षेपणसमर्थे वयसि वर्त्तत इत्यर्थः।।
11. आङि ताच्छील्ये। (3.2.11)
अनुद्यमनमिति निवृत्तम्। तेनाविशेषाल्लभ्यते-- उद्यमने चायं विधिरिति। ननु चानुद्यमने पूर्वेणैव सिद्धम्, परत्वाद्धि तृन् प्राप्नोति, वासरूपविधानादजपि भवति ? नैतदस्ति; वक्ष्यति ह्येतत्-- ताच्छीलिकेषु वासरूपेण तृजादयो न भवन्तीति। `ताच्छील्यं तत्स्वभावता' इति। तत् पुनर्मानसो धर्मः। फलनिरपेक्षया प्रवृत्तिरनुमीयते। `पुष्पाहरः'इत्यादिना ताच्छील्यमुदाहरति।।
12.अर्हः। (3.2.12)
`{स्त्रीलिङ्गे इति मूलपाठः} स्त्रियां विशेषः' इति। अणि हि सति ङीब्भवति, अचि तु सति टाप्।।
13. स्तम्बकर्णयो रमिजपोः। (3.2.13)
`जपेः शब्दकर्मकत्वात्' इति गायत्रीं जपति;अनुवाकं जपतीत्यत्र शब्दकर्मकस्यैव प्रयोगदर्शनात्। `कर्मं न सम्भवति' इति। कर्णस्याशब्दात्मकत्वादित्यभिप्रायः।इतिकरणो हेतौ। यत एव कर्णशब्दः कर्म न सम्भवति तेन सुपीत्येतदिह सम्बध्यते,न कर्मणीति।
`हस्तिसूचकयोः' इत्यादि। हस्तिसूचकग्रहणं प्रत्ययार्थस्यैव कर्त्तुर्विशेषणम्। `स्तम्बकर्णयो रमिजपोः' इति योऽयमज्विधिः स हस्तिसूचकयोः कर्त्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु-- तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। `स्तम्बेरमः कर्णेजपः' इति। `तत्पुरुषे कृति बहुलम्' (6.3.14) इति सप्तम्या अलुक्। `सूचकः'इति। पिशुनक इत्यर्थः।।
14. शमि धातोः संज्ञायाम्। (3.2.14)
`धातुमात्रात्' इति। धातुमात्रग्रहणेनापवादविषयेऽपि विधानं दर्शयति। एवं हि धातुमात्राद्भवति, यद्यप्यपवादं बाधित्वा तद्विषयेऽपि भवति। एष चार्थो धातुग्रहणाल्लभ्यते। `शमि संज्ञायाम्' इत्यादिना धातुग्रहणस्य प्रयोजनं दर्शयनम्, धातुप्रतिपादितमर्थं स्पष्टीकरोति-- `शमि संज्ञायाम्' इति। सूत्रोपलक्षणमेतत्। `शमि धातोः संज्ञायाम्' इत्यस्मिन् सूत्र इत्यर्थः। `हेत्वादिषु' इति। आदिशब्देन ताच्छील्यानुलोम्ययोर्ग्रहमम्। शम्युपपदे करोतेः संज्ञायां हेत्वादिषु विवक्षितेषु `कृञो हेतुताच्छील्यानुलोम्येषु' (3.2.20) इति टः प्राप्नोति, अतस्तद्वाधनार्थं धातुग्रहणम्। शमि धातोरित्य्सयावकाशः करोतेरन्यो धातुः शम्युपपदः सम्भवति-- शंवद इति, `कृञो हेतुताच्छील्यानुलोम्ये' (3.2.20) इत्यस्यावकाशः करोतिः शब्दान्तरोपपदः-- श्राद्धं करोतीति श्राद्धकर इति; करोतेः शम्युपपदे संज्ञायायमुभयमेव प्राप्नोति--शङ्करा नाम शकुनिकेति। सा हि तच्छीला, तत्संज्ञा च, तत्र परत्वाट्टः प्राप्नोति, पुनर्धातुग्रहणाद्धातु मात्राद्विधीयमानं टं बाधित्वाऽजेव भवति।।
15. अधिकरणे शेतेः। (3.2.15)
`सुपीति सम्बध्यते' इति।शेतेरकर्मकत्वात्। अधिकरणस्य चाकर्मकत्वे सम्भवति सुपीतीह सम्बध्यते, न कर्मणीति।
`पार्श्वादिषूपसंख्यानम्' इति। आरम्भोऽयमनधिकरणार्थः। पार्श्वाभ्यामिति तृतीयान्तमुपपदं दर्शयति। उरःशः, पृष्ठशय इत्यत्रापि तृतीयान्तमेवोपपदं वेदितव्यम्।
`दिग्धसहशयः' इति। दिग्धेन सह शेत इति `तृतीया' (2.1.30) इति योगविभागेन समासः। दिग्धस्य सहेन प्राक् प्रत्ययोत्पत्तेः पश्चादुपपदसमासः।
`गिरौ' इत्यादि। गिरावुपपदे शेतेश्छन्दसि विषये डो भवति। `गिरिशः'इति। डित्त्वाट्टिलोपः। एतत् सर्वं `व्यत्ययो बहुलम्' (3.1.85) इति बहुलवचनात् सिद्धम्।।
16. चरेष्टः। (3.2.16)
`प्रत्ययान्तरकरणं ङीबर्थम्' इति। टित्त्वान्ङीब्भवति।।
17. भिक्षासेनादायेषु च। (3.2.17)
`अनधिकरणार्थ आरम्भः' इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति `भिक्षाचरः' सेनाञ्चरतीति `सेनाचरः'। `आदाय' इति ल्यबन्तमेतत्। आदाय चरतीति `आदायचरः' अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते ? एवमपि न दोषः; वचनसामर्थ्यादसामर्थ्येऽपि प्रत्ययो भवति।।
18. पुरोऽग्रतोऽग्रेषु सर्त्तेः। (3.2.18)
पुरःशब्दः `पूर्वाधरावराणामसि पुरधवश्चैषाम्' (5.3.39) इत्यसिप्रत्ययान्तो व्युत्पादितः। अग्रतःशब्दोऽपि `तसिप्रकरण आद्यादिभ्य उपसंख्यानम्' (वा.634) इति तसिप्रत्ययान्तः। `अग्रे' इति। अग्रशब्दस्यैकारान्तत्वं निपात्यते--अग्रेसर इत्येतद्रूपं यथा स्यात्। ननु च सप्तम्या अलुकाप्येतत् सिध्यति ? सत्यम्; यदा सिध्यति तदा सप्तम्यन्त उपपदे प्रत्ययः। यदाग्रः सरतीति, अग्रेण वा सरतीत्यसप्तम्यन्तस्तदा न सिध्यति; तदर्थमेकारान्तत्वं निपात्यते।।
19. पूर्वे कर्त्तरि। (3.2.19)
`पूर्वशब्दे कर्त्तृवाचिन्युपपदे प्रत्ययः' इति। एतेन कर्त्तरीत्यनेनोपपदं विशिष्यते, न कर्त्ता। प्रत्ययार्थो निर्दिश्यत इति दर्शयति; तस्य `कर्त्तरि कृत्' (3.4.67) इत्यनेनैव निर्देशात्। अयुक्तत्वादिह निर्देशस्येत्यभिप्रायः। ननु च पूर्वः सरतीत्यत्रासामर्थ्यमस्ति, तथा हि-- पूर्वशब्दोऽयं व्यवस्थावचनः, अवयववाची वा। तत्र पूर्वस्मिन् कल्पेऽवधिरपेक्षणीय-- अस्मादयं पूर्व इति। इतरस्मिंस्त्ववयवी पदार्थः, यथा -- पूर्व कायस्येति, उभयोरपि सापेक्षितत्वात्, असामर्थ्ये सति प्रत्ययानुत्पत्तिः ? नैष दोषः; पूर्वशब्दः सम्बन्धिशब्दः। सापेक्षेऽपि वृत्तिर्ननु भवत्येव, यथा-- देवदत्तस्य गुरुकुलमिति।।
20. कृञो हेतुताच्छील्यानुलोम्येषु। (3.2.20)
हेत्वादय एते, नोपपदानि। यदि ह्युपपदानि स्युः, `शमि धातोः संज्ञायाम्' (3.2.14) इत्यत्र धातुग्रहणमनर्थकं स्यात्। तद्धि कृञो हेत्वादिषु टप्रतिषेधार्थं कृतम्। यद्येषामुपपदत्वं स्याट्टप्रत्ययस्य प्राप्तिरेव नास्तीति धातुग्रहणमनर्थकं स्यात्।अतो नैवामुपपदत्वम्, नापि प्रत्ययार्थत्वम्; `कर्त्तरि कृत्' (3.4.67) इति कर्त्तुः प्रत्ययार्थत्वात्। न च तैर्बाधा युक्ता, विरोधाभावात्। तस्मात् प्रत्ययार्थविशेषमत्वमेषां युक्तम्। तत्र कर्त्तरि प्रत्ययो भवति यस्मिन्नभिधीयमाने तद्विशेषो हेत्वादयो गम्यन्ते। अत एवाह-- `हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने' इति। `हेतुरैकान्तिकं कारणम्' इति। एतेन लौकिकहेतोर्ग्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिको हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजकः, यदि तस्येह ग्रहणं स्यात कृञ इति नोपपद्यते; न ह्यण्यन्तात् प्रयोजककर्त्तरि प्रयोजक इत्पद्यते, अपि तु ण्यन्तादन्तर्भावितण्यर्थात् प्रत्यय उत्पद्यत इति चेत् ? नैतदस्ति; टप्रत्ययान्तण्ण्यर्थस्याप्रतीतेः। ननु च लौकिकस्य हेतोर्ग्रहणे सति निमित्ततया कर्त्ता विशिष्यते, तच्चायुक्तम्; न हि कर्त्तुरनिमित्वमस्ति यद्विशेषणेन व्यावर्त्त्येत ? नैष दोषः सिद्धे कर्त्तुर्हि निमित्तत्वे पुनर्हेतुशब्द उपादीयमान ऐकान्तिकत्वं बोधयतीति--यः कर्त्ता यस्याः ऐकान्तिको हेतुरिति। अत एवोक्तम्-- `हेतुरैकान्तिकं कारणम्' इति। आनुलोम्यम् = अनुकूलयामीत्याराध्यचित्तानुप्रवर्त्तनम्। `यशस्करी'इति। `अतः कृकमिकंस' (8.3.46) इत्यादिना विसर्जनीयस्य सत्वम्।।
21. दिवाविभानिशाप्रबाभास्करान्तानन्तादिबहुनान्दीकिंकृलिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु। (3.2.21)
`यथायोगम्' इति। दिवाशब्दस्य सुपीति सम्बन्धः, तस्याधिकरणस्य प्रधानत्वात् कर्मत्वानुपपत्तेः। शेषाणां तु सत्त्वप्रधानत्वात् करोतिसम्बन्धे कर्म चोपपद्यत इति कर्मणीत्यनेन सम्बन्धः। `अहेत्वाद्यर्थ आरम्भः' इति। हेत्वादिषु पूर्वेणैव सिद्धत्वात्। `भास्करः' इति. कथं पुनरत्र सकारः, यावता सकारस्य रुत्वविसर्जनीययोः `कुप्वो क पौ च' (8.3.37) इति विसर्जनीयजिह्वामूलीययोरन्यतरेण भवितव्यमित्याह-- `सकारस्य निपातनात्' इत्यादि। भास्करान्तेति यत्सकारस्योच्चारणं तदेव निपातनम्। `बहुकरः' इति। बहुशब्दो वैपुल्यवाची। `अहस्करः' इति। अहन्नित्यस्य `रोऽसुपि' (8.2.69) इति नकारस्य रेफः, तस्य विसर्जनीयः। तस्य `अतः कृकमि' (8.3.46) इत्यादिना सत्वम्। `धनुष्करः, अरुष्करः' इति। `इसुसोः सामर्थ्ये' (8.3.44), `नित्यं समासेऽनुत्तरपदस्थस्य' (8.3.45) इति षत्वम्। अथानन्तग्रहणं किमर्थम्, अन्तग्रहणादेवानन्तशब्देऽपि तदन्तविधिना भविष्यति ? नैतदस्ति; सर्वस्मिन्नुपपदविधौ न हि तदन्तविधिरिष्यते। तथा हि `{ वार्तिककारः} पदकारः पठति-- `उपपदविधौ भयाढ्यादिग्रहणं तदन्तविधिं प्रयोजयति' (1.1.72 वा.9) इति। एवं तर्हि नानतकरोऽनन्तकर इत्यन्तशब्देनापि नञ्समासो भविष्यति ? नैवं शङ्क्यम्;स्वरे दोषः स्यात्। सति शिष्टे हि `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना प्रकृतिस्वरे हि नञ्स्वरः प्रसज्येत। तथा चानन्तकरशब्द आद्युदात्तः, `निपाता आद्युदात्ताः' (फि.सू.4.80) इति नञ उदात्तत्वात्;इष्यते च `{ गतिकारककोपपदात् कृत् इति सूत्रम्} गतिकारकोपपदानां कृत्' (6.2.139) इत्युत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। तस्मादनन्तग्रहणं कर्त्तव्यम्।
`किंयत्तद्बहुष्वज्विधानम्' इत्यादि। किमित्यादिषूपपदेष्वज्विधानं कर्त्तव्यम्, तत्कथमिह टोऽप्यनुवर्त्तते ? माण्डूकल्पुतिन्यायेनाजपि, विभाषाग्रहणमपि। तद्वयवस्थितविभाषाविज्ञानात् किंयत्तद्बहुषु कृञोऽजेव भवति, शेषेषु दिवादिषु ट एव। अहेत्वाद्यर्थत्वाच्चारम्भस्य यदा हेत्वादयो विशेषा न विवक्ष्यन्तेतदा किंयत्तद्बहुषु कृञोऽज्विधानम्, तेषु विवक्षितेषु पूर्वसूत्रेण ट एव भवति। तथायं प्रयोग उपपन्नो भवति-- जातिरियं किंकरीति। किंकरणशीला किंकरी, न किञ्चिदपि करोति। निष्प्रयोजननेति यावत्।।
22. कर्मणि भृतौ। (3.2.22)
`कर्मणीति स्वरूपग्रहणम्' इति। कुत एतत् ? कर्मग्रहणसमार्थ्यात्। यदि पारिभाषिकस्य कर्मणो ग्रहणमिह स्यात् कर्मग्रहणमनर्थकं स्यात्; कर्माधिकारात्। करोतेश्च सकर्मंकत्वात् तेनैव सम्बद्धो भविष्यति। तथा च प्रागुक्तम्-- कर्मणि सुपीति द्वयमप्यनुवर्त्तते, तत्र सकर्मकेषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति। तस्मात् स्वरूपग्रहणमेवैतत्। `कर्मनिर्देशः'इति। कर्म व्यापारः, तस्य निर्देशः = मूल्यम्।।
23. न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु। (3.2.23)
`हेत्वादिषु टः प्राप्तः' इति। `कृञो हेतु' (3.2.20) इत्यादिना।।
24. स्तम्बशकृतोरिन्। (3.2.24)
`व्रीहिवत्सयोरिति वक्तव्यम्' इति। कर्त्तृविशेषमं व्रीहिवत्सग्रहणम्। अनेन सूत्रेण य इन् विधीयते स व्रीहिवत्सयोः कर्त्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इहापि विभाषेत्यनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन व्रीहिवत्सयोः कर्त्रोरेव भविष्यति, नान्यत्र। नित्यत्वादुत्तरपदादाद्युदात्तत्वम्।।
25. हरतेर्दृतिनाथयोः पशौ। (3.2.25)
`पशौ कर्त्तरि' इति। एतेन पशुग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणमिति दर्शयति। प्रत्ययार्थत्वं तु `कर्त्तरि कृत्' (3.4.67) इति वचनात्। कुतः पुनरेतदवसितम्-- प्रत्ययार्थस्य विशेषणमेवेति, न पुनर्बाधकमेवेति ? तदुच्यते-- धातोः प्रत्ययस्य विधानात् तदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययेन भवितव्यम्। धात्वर्थः = क्रिया तस्याश्च साधनेन सम्बन्धः, न वस्तुस्वरूपेण। साधनञ्च शक्तिः, न वस्तुस्वरूपम्। पशुशब्देन वस्तुस्वरूपेण स्वार्थमाचष्टे। न शक्तिस्वरूपेणेति। तेनाशक्तिस्वरूपे प्रत्याय्यमानः पशुर्नार्हति प्रत्ययार्थो भवितुम्। सोऽप्रत्ययार्थः सन्नशक्तित्वात् कथमिमं प्रत्ययार्थ बाधेत। तस्मात् प्रत्ययार्थः, तेन कर्त्तरि विशिष्यत इति युक्तमुक्तम्-- पशौ कर्त्तरीति। एष न्यायोऽन्यत्रापि प्रत्ययार्थविशेषणे द्रष्टव्यः।।
26. फलेग्रहिरात्मम्भरिश्च। (3.2.26)
27. छन्दसि वनसनरक्षिमथाम्। (3.2.27)
`ब्रह्मवनिं त्वा क्षत्रवनिम्'इति। ब्रह्म वनति, क्षत्रं वनतीत्यर्थविवक्षायामिन्प्रत्ययः। तदन्ताद्द्वितीया, तस्याः `सुपां सुलुक्' (7.1.39) इति लुक्। युष्मच्छब्दाद्द्वितीयादिभक्तेः `त्वामौ द्वितीयायाः' (8.1.23) इति त्वादेशः। `गोसनिम्' इति। गां सनतीत्यर्थ इन्प्रत्ययः। तदन्तादमि परे पूर्वरूपत्वम्। पन्थानं रक्षत इति `पथिरक्षी'। द्विवचनमेतत्। पूर्वसवर्णदीर्घत्वम्। `हविर्मथीनाम्' इति। हविर्मथन्तीति विगृह्य प्रत्ययः। तदन्तात् षष्ठ्या बहुवचनम्।।
28. एजेः खश्। (3.2.28)
ण्यन्तात्' इति। एतेन प्रकृत्यन्तरस्यायमेजेरिका निर्देश इत्याशङ्कां निरस्यति। कुतः पुनर्ण्यन्तमवसितम् ? खशः शित्करणात्। प्रकृत्यन्तरस्य ग्रहणे शित्करणमनर्थकं स्यात्। तद्धि सार्वधातुके सति तदाश्रयस्य शपो विधिर्यथा स्यादित्येवमर्थं क्रियते। न चैजेः प्रकृत्यन्तरस्य सत्यसति वा शपि कश्चिद्विशेषोऽस्ति, ण्यग्रहणे तु सति शित्करणमर्थवद्भवति। असति तस्मिन् णिलोपः स्यात्, तस्मिंस्तु सति सार्वधातुनिबन्धने शपि णिलोपो न भवति। आर्धधातुकत्वं णिलोप इत्येके, एतच्चायुक्तम्; उत्तरार्थं हि शित्करणं स्यात्। असति हि तस्मिन्नुत्तरसूत्रे धेट आत्त्वं स्यात्, ध्मश्च धमादेशो न स्यात्। तथा च स्तनन्धयः, नासिकन्धम इति न सिध्येत्। तस्माद्व्याख्यानादेव ण्यन्तत्वमवसेयम्। `खकारोऽयं मुमर्थः'इति। `खित्यनव्ययस्य' (6.3.66) इत्यधिकृत्य `अरुर्द्विषदजन्तस्य' (6.3.67) इति मुमागमो यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः' इति। `तिङशित् सार्वधातुकम्' (3.4.113) इति सार्वधातुकसंज्ञा यथा स्यात्। `अङ्गमेजयः' इति। शप्, गुणायादेशौ।
`खश्प्रकरणे' इत्यादि। वातादिषूपपदेषु `अज गतिक्षेपणयोः' (धा.पा.230), `धेट् पाने' (धा.पा.902), `तुद व्यथने' (धा.पा.1281),`ओहाक् त्यागे' (धा.पा.1090)--इत्येभ्यो धातुभ्यः खश्प्रकरण उपसंख्यानं कर्त्तव्यम्। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -- `नाडीमुष्ट्योश्च' (3.2.20) इत्यत्र चकारः, स चानुक्तसमुच्चयार्थः। तेन वातादिषूपपदेष्वजादिभ्यो धातुभ्यः खश् भविष्यति। `शुनिन्धयः' इति। `खित्यनव्ययस्य' (6.3.66) इति ह्रस्वत्वम्। `शर्द्धञ्जहाः' इति। जुहोत्यादिभ्यः शपः श्लुः, `श्लौ'(6.1.10) इति द्विर्वचनम्, `श्नाब्यसत्योरातः' (6.4.112) इत्याकारलोपः।।
29. नासिकास्तनयोर्ध्माधेटोः। (3.2.29)
`स्तने धेटः' इत्यादिना यथायोगमुपपदसम्बन्धं दर्शयन्नुदाहरणानि दर्शयति। `नासिकन्धमः' इति। पाघ्रादिसूत्रेण (7.3.78) धमादेशः।
`तच्चैतत्' इत्यादि। यथासंख्याभावे हेतुमाह। स्तनशब्दो हि नासिकापेक्षयल्पाच्तरः, तस्य पूर्वनिपाते कर्त्तव्ये योऽयमपूर्वनिपातः कृतः सलक्षमव्यभिचारं सूचयति। यथेह पूर्वनिपातशास्त्रं व्यभिचरति, स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति। अतोऽस्माल्लक्षणव्यभिचारचिह्नाद्यथासंख्याभावो लभ्यते।।
30. नाडीमुष्ट्योश्च। (3.2.30)
`अत्रापि'इत्यादिना नाडीमुष्टिशब्दो हि ध्यन्तः तस्य हि `द्वन्द्वे घि' (2.2.32) इति पूर्वनिपाते प्राप्ते योऽयमपूर्वनिपातः कृतः स पूर्वनिपातलक्षणव्यभिचारचिह्नम्, अत इहापि संख्यातानुदेशो न भवितीत्यपि सूचयति। अथ प्रत्येकमुपपदाभ्यां धातोः प्रत्येकं सम्बन्धः। स चोदाहरणेनैव वृत्तावभिव्यक्तः। `अनुक्तसमुच्चयार्थश्चकारः' इति। तेन घटीखारीवातशब्देष्वप्युपपदेषु ध्माधेटोः खश् भवति। यद्येवम्, वैषम्यादेव संख्यातानुदेशो न भविष्यतीति निरर्थकस्तदभावार्थो घ्यन्तस्यापूर्वनिपातः ? उच्यते-- वाक्ये भेदेन द्वे ह्यत्र, एकेन वाक्येन नाडीमुष्टी-- इत्येतयोर्ध्माधेटोः खश् भवतीति। अतः `नाडीमुष्ट्योः' इत्येकं वाक्यम्, चकारस्यानुक्तसमुच्चयार्थत्वात् घटीखारीवातशब्देष्वप्युपपदेषु ध्माधेटोः खश् भवतीति द्वितीयम्। तत्र पूर्वस्मिन् वाक्ये समानत्वमस्तीति स्यादेव संख्यातानुदेशः।।
31. उदि कूले रुजिवहोः।(3.2.31)
`उदि' इति। सप्तमीयम्- उदि सति। तत्रोत्कूलशब्दयोर्विषयव्यवस्था द्रष्टव्या। `ते प्राग्धातोः' (1.4.80) इति वचनाद्धातोरनन्तरमुत्शब्दः, तस्मात् पूर्वः कूलशब्द इति। अथ वा-- `{ उदिति-- मुद्रितः पाठः} उदीति परसप्तमी-- उदि परतः कूलशब्दस्योपपदत्व इति। अथोच्छब्दस्याप्युपपदसंज्ञा कस्मान्न भवति, प्रत्येकं सप्तम्युच्चारणात् ? एषा ह्याचार्यस्य शैली यत्र प्रत्येकमुपपदत्वमस्ति तत्र समुदायात् सप्तमीमुच्चारयति, यथा-- `नाडीमुष्ट्योः (3.2.30) इति। इह तु विपर्ययः कृत इति न भवत्युपपदत्वम्। अपि च रुजिवहोः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते। न चोच्छब्दसय् कर्मत्वं सम्भवति असत्त्ववाचित्वात्। कुतस्तस्योपपदत्वम्। `कूलमुद्रुजः' इति। तुदादित्वाच्छः' `कूलमुद्वहः' इति। शप्।।
32. वहाभ्रे लिहः। (3.2.32)
`वहंलिहः' इति। `लिह आस्वादने' (धा.पा.1016) अदादित्वाच्छपो लुक्, `सार्वधातुकमपित्' (1.2.4) इति ङित्वाद्गुणाभावः।।
33. परिमाणे पचः। (3.2.33)
`प्रस्थम्पचा,द्रोणम्पचा' इति। प्रस्थद्रोणपरिमिते व्रीह्यादौ प्रस्थद्रोणशब्दावुपचारेण वर्त्तेते; न प्रस्थादावेव परिमाणविशेषे काष्ठादिमये। क्लेदवाची ह्यत्र पचिः। न च मुख्यस्य प्रस्थादेर्विक्लेदः सम्भवति, अतो न तस्य सम्बन्ध उपपद्यते। स्वरूपग्रहणमप्यत एव न भवति; न हि स्वरूपप्रधानेन परिमाणेन विक्लेदवचनस्य पचेः सम्बन्धः सम्भवति। यद्यपि हि प्रस्थादिशब्दः परिमेये वर्त्तते, तथापि परिमाणव्यपदेशो न तस्य विरुध्यते, प्रथमं परिमाणवृत्तित्वात्।।
34. मितनखे च। (3.2.34)
`अपरिमाणार्थ आरम्भः' इति। परिमाणे पूर्वेणैव सिद्धत्वात्। मितनखशब्दयोरपरिमाणवचनत्वात्। सर्वदैव हि मितशब्दः परिमेयद्रव्यवचनः , नखशब्दो हि प्राण्यङ्गवचनः।।
35. विध्वरूषोस्तुदः। (3.2.35)
`अरुन्तुदः' इति। अरुश्शब्दस्य `अरुर्द्विषदजन्तस्य' (6.3.67) इत्युकारात् परो मुमागमः, संयोगान्तलोपः (8.2.23), `मोऽनुस्वारः' (8.3.23), `अनुस्वारस्य ययि परसवर्णः'(8.4.58) इतिपरसवर्णः।।
36. असूर्यललाटयोर्दृशितपोः। (3.2.36)
`असूर्यम्पश्याः' इति। प्राघ्रादिसूत्रेण (7.3.78) पश्यादेशः। `दृशिना नञः सम्बन्धात्' इति। असामर्थ्य हेतुः। अत्र हि दर्शनं प्रतिषिध्यते,न तु सूर्य एव। तस्माद्दृशिनैव नञः सम्बन्धः, न सूर्येणेत्यसामर्थ्यम्। `सूर्यं न पश्यन्ति' इति दृशिना नञः सम्बन्धं दर्शयति। यदा सूर्यः प्रतिषध्यते तदा न भवितव्यमेव प्रत्ययेन, अनभिधानात्। समासश्चायमसामर्थ्येऽपि भवति, गमकत्वात्। अस्मादेव वचनाद्वा। ननु च यथा राजदाराः सूर्यं न पश्यन्तीति तथान्यदपि परपुरुषादिकम्, तत्रायुक्तं सूर्येणैकेन विशेषणेनेत्यत आह-- `गुप्तिपरञ्चैतत्' इति। यतेतदसूर्यम्पश्या राजदारा इति वचनमेतद्गुप्तिप्रधानम्; गुप्तिप्रतिपादनाय प्रयुक्तत्वात्। `एवं नाम' इत्यादिना गुप्तिपरत्वमस्य दर्शयति।।
37. उग्रम्पश्येरम्मदपाणिन्धमाश्च। (3.2.37)
`उग्रम्पश्य' इति। `कर्मण्यण्' (3.2.1) इति प्राप्ते दृशेः खश् निपात्यते। पूर्ववत् पश्यादेशः। `इरम्मदः'इति। `इरया माद्यति'इति। `मदी हर्षे' (धा.पा.1208)। तृजादिषु प्राप्तेषु खश् निपात्यते। तत्र दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपात्यते। `पाणिन्धमाः' इति। अधिकरणे ल्युटि प्राप्ते खश् निपात्यते। पूर्ववद्धमादेशः।
38. प्रियवशे वदः खच्। (3.2.38)
`चकारः `खचिह्रस्वः' इति विशेषणार्थः'इति। `खे ह्रस्वः' इत्युच्यमाने खश्यपि स्यात्। ननु चैकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति (व्या.प.52) न भविष्यति ? एवं तर्हि परिभाषाश्रयणाच्चकारकरणमेव लघ्विति च मन्यते। ननु च प्रियंवदो वशंवद इति खश्यपि सिद्ध्यति, किमर्थं प्रत्ययान्तरकरणमित्याह-- `प्रत्ययान्तरकरणमुत्तरार्थम्'इति। `द्विषत्परयोस्तापेः' (3.2.39) इत्यत्र खचि ह्रस्वस्तापेर्यथा स्यात्। णिलोपश्चेत्याद्यर्थं प्रत्ययान्तरं क्रियते। अथोत्तरत्रैव खच् कस्मान्न क्रियते ? अत्रापि खज्भवतीति विज्ञानार्थम्। तेन गमेरपि सुप्युपपदे खच् सिद्धो भवति।
यदि `खच्प्रकरणे गमेः सुप्यपसंख्यानम्' (वा.247), तत्रोपसंख्यानशब्दस्य प्रतिपादनार्थं प्रत्ययान्तरं क्रियते। प्रतिपादनन्त्विदमेव वेदितव्यम्।
`विहायसो विह च' इति। गमेर्विहायःशब्द उपपदे खच्प्रत्ययः, तत्सन्नियोगेन विहायःशब्दस्य विहादेशः।
`खच्च डिद्वा वक्तव्यः' इति। डित्त्वाट्टिलोपः स्यात्, `विहायसो विह च' (वा.248) इत्यतोऽस्य भेदेन पाठात्। डित्त्वस्यानित्यत्वज्ञापानार्थम्; अन्यथा विहङ्गम इति न सिध्येत्।
`डे च' इत्यादि। डप्रत्यये च गमेर्विहायसो विहादेशः। `विहगः' इति। न पुनरत्र डप्रत्ययः ? अस्मादेव वचनाद्भवति। अथ वा वक्ष्यत्युत्तरतः `डप्रकरणेऽन्येष्वपि दृश्यते' (वा.256) इति।।
39.द्विषत्परयोस्तापे। (3.2.39)
`द्वयोरपि ग्रहणम्' इति। ण्यन्तावस्थायां विशेषाभावात्। `द्वितकारको निर्देशः'इति। `द्विषत्परयोः'इति निर्देशे द्वौ तकारौ,तत्रैको द्विषच्छब्दस्यावयवः, तेन द्विषच्छब्दो विशिष्यते-- द्विषच्छब्द उपपदे तकारान्त इति। `तेन स्त्रियां न भवति' इति। स्त्रीप्रत्ययान्तस्तकारान्तो न भवति। असति तु द्वितीये तकारे `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' (व्या.प.29) इति स्त्रयियामपि स्यात्। `{द्विषतीकाशिका} द्विषती' इति। `उगितश्च' (4.1.6) इति ङीप्। उगित्त्वन्तु द्विषच्छब्दस्य `द्विषोऽमित्रे' (3.2.131) इति शत्रन्तत्वात्।।
40. वाचि यमो व्रते। (3.2.40)
`शास्त्रितः' इति। शास्त्रे कृत इति विगृह्य शास्त्रशब्दात् प्रतिपदिकाद्धात्वर्थे णिच्, तदन्तात् क्ते विहते शास्त्रित इति। शास्त्रविहित इत्यर्थः। अथ वा शास्त्रिण इतः शास्त्रितः, शास्त्रविद इतः = जातः, प्रवृत्तः। अथ वा-- शास्त्रशब्दस्तारकादिषु द्रष्टव्यः। शास्त्रमस्य सञ्जातमिति शास्त्रितः। `वाचंयमः' इति। वाचं यच्छतीति विगृह्य खचि `वाचंयमपुरन्दरौ च' (6.3.69) इति पूर्वपदस्य मुमभावो निपात्यते। ननु च प्रत्ययोऽपि तेनैव निपातनेन भविष्यति, तत्किमनेन ? नैतदस्ति; यच्छतीति पचाद्यचि विहिते ततश्च `वाचो यमः' इति षष्ठीसमासे कृते वाचंयम इति सिध्यति। सम्पद्यत एव, तत्र तु निपातनमनर्थकं स्यात्। एवञ्च सति नित्यमुपपदसमासो न स्यात्। अतः खच्प्रत्ययो विधेयः, निपातनमपि कर्त्तव्यम्।।
41. पूःसर्वयोर्दारिसहोः। (3.2.41)
`दारि' इति। `दॄ विदारणे' (धा.पा.1493) इत्यस्य णिचा निर्देशः। `पुरन्दरः' इति। पूर्वपदे मुम्भावो निपात्यते।
`भगे च दारेरिति वक्तव्यम्' इति। भगे चोपपदे दारेः खज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`उग्रम्पश्येरम्मदपाणिन्धमाश्च' (3.2.37) इत्यतश्चकारोऽनुवर्त्तते, न चानुक्तसमुच्चयार्थः, तेन भगे चोपपदे दारेः खज्भवतीति।।
42. सर्वकूलाभ्रकरीषेषु कषः। (3.2.42)
`सर्वङ्कषः' इति। `कष खष शिष जष जष {शक इति मु.पाठः} शष वष मष रुष रिष हिंसार्थाः' (धा.पा.685-694)।।
43. मेघर्त्तिभयेषु कृञः। (3.2.43)
`उपपदविधौ' इत्यादि। ननु चाभयशब्दो नञ्समासे सिध्यत्येव ? नैवं शक्यम्, सतिशिष्टत्वाद्धि `तत्पुरुषे तुल्यार्थ' (6.2.2) इति पूर्वपदप्रकृतिस्वराद्युदात्तत्वं स्यात्, `{गतिकारकोपपदात् कृत्' इति सूत्रम्} गतिकारकोपपदानाम्' (6.2.139) इत्यादिनान्तोदात्तत्वं चेष्यते। तस्मात् कर्त्तव्यम्। अपवादत्वात् खजयमणं बाधते, हेत्वादिविवक्षायाञ्च परत्वाट्टप्रत्ययमपि।।
44. क्षेमप्रियमद्रेऽण् च। (3.2.44)
अथ `क्षेमप्रियमद्रे वा' इत्येवं कस्मान्नोक्तम् ? किमण्ग्रहणेन ? खचि विकल्प्यते, `कर्मण्यण्' (3.2.1) इत्यनेनैवाण् भविष्यीत्यत आह-- `वेति वक्तव्ये' इत्यादि। `क्षेमप्रियमद्रे वा' इत्युच्यमाने पक्षे वाग्रहणाद्यथाप्राप्तमपीष्यते। ततो हेत्वादिषु विवक्षितेषु `कृञो हेतुताच्छील्य' (3.2.20) इत्यादिना टः स्यात्; अतस्तद्वाधनार्थम्। तेन हेत्वादिविवक्षायां टप्रत्ययं बाधित्वाऽण् भवति।।
45. आशिते भुवः करणभावयोः । (3.2.45)
अत्र सुपीत्युपतिष्ठते, न कर्मणीति; भवतेरकर्मकत्वात्। `आशितशब्दे सुबन्ते' इत्यादि। अथ विपर्ययः कस्मान्न वति, करणभावयोरुपपदयोराशिते प्रत्ययार्थ इति ? असम्भवात्। आशित इत्यश्नातेः कर्त्तोच्यते, तस्य भवतिना सम्बन्धो नोपपद्यते। न हि योऽश्नातेः कर्त्ता स भवतेः प्रत्ययार्थो भवतुमुत्सहते। तस्मादाशितशब्दस्योपपदत्वम्, इतरयोस्तु प्रत्ययार्थत्वम्। एवञ्च घञ्ल्युटोरपवादो भवति। वाऽसरूपविधिना ल्युडपि भवत्येव-- आशितभवन ओदन इति। घञस्तु स्वरूपत्वाद्बाधख एव।।।
46. संज्ञायां भृतृवृधारिसहितपिदमः। (3.2.46)
`संज्ञावशात्' इति। संज्ञाशब्दा हि द्विविधा भवन्ति-- केचिदवयवार्थानुगताः,यथा-- सप्तवर्ण इति; केचित्तु विपरीताः, यथा तैलपायिकेति। तदिह यत्रावयवार्थानुगमोऽस्ति विश्वम्भरः, शत्रुन्तप इत्यादिषु , तत्र कर्मणीति सम्बध्यते-- विश्वं बिभर्त्तीति विश्वम्भरः। यत्र त्ववयवार्थानुगमो नास्ति, यथा-- रथन्तरं सामेति, तत्र व्यत्पत्त्यर्थं सुपीति सम्बध्यते-- रथेन तरतीति, रथे तरतीति वा। `पतिंवरा' इति। `वृञ् वरणे' (धा.पा.1254), `वृङ सम्भक्त्रौ'(धा.पा.1509)। पतिं वृणीते, पतिं वृणुत इति विग्रहः। शत्रुं जयतीति `शत्रुञ्जयः'। `धारि' इति। धृञो ण्यन्तस्य ग्रहणम्। युगं धारयतीति `युगन्धरः'। पूर्वपदध्रस्वत्वम्। शत्रुं सहत इति `शत्रुंसहः'। शत्रुं तपतीति `शत्रुंतपः'। अरिं दाम्यतीति `अरिन्दमः' । यद्यपि दमिरकर्मकः, तथाप्यन्तर्भावितण्यर्थत्वात् सकर्मको भविष्यति। अरिं दमयतीत्यर्थः।।
47. गमश्च। (3.2.47)
`यस्य सौतङ्गमिः पुत्रः' इति। पुत्रस्य सौतङ्गमित्वव्यपदेशेन पितुः सुतङ्गमसंज्ञानुमीयत इति दर्शयति। सत्यां हि पितुः सुतङ्गमसंज्ञायां तत्पुत्रस्य सौतङ्गमिशब्देनाभिधानं भवति, नासत्याम्। अथ योगविभागः किमर्थः, पूर्वसूत्र एव गमेर्ग्रहणं क्रियातमित्याह-- `योगविभाग उत्तरार्थः' इति। गमेरेवोत्तरत्रानुवृत्तिर्यथा स्यात्, भृञादीनां मा भूत्। एकयोगे हि तेऽप्यनुवर्त्तेरन्।।
48. अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः। (3.2.48)
`डकारष्टिलोपार्थः'इति। डिति `टेः' (6.4.155) इति टिलोपो यथा स्यात्। कथं पुनः सत्यपि डकारे टिलोपो लभ्यते, यावता भसंज्ञकस्य हि टिलोप उच्यते, न चेह भसंज्ञाऽस्तीत्याह-- `डित्यभस्यापि' इत्यादि। यदि सत्यपि डिति टिलोपो मा भूत्, तदा तस्य वैयर्थ्यं स्यादिति भावः। ननु चश्रवणार्थ भविष्यति, तत्कुतो वैयर्थ्यं स्यात् ? एवं मन्यते-- `प्रावृट्शरत्कालदिवाञ्जे' (6.3.15) इति कृतटिलोपस्य जनेर्डप्रत्ययान्तस्यायं निर्देशं करोति, ततोऽवसीयते डकारस्याश्रवणार्थतेति। `सर्वत्र' इत्यादि. उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- `गमश्च' (3.2.47) इत्यतश्चकारोऽनुवर्त्तते। तस्यानुक्तसमुच्चयार्थत्वात् सर्वत्रेत्यादानुपपदे डो भविष्यतीति। सर्वत्रशब्दश्चात्र सुपीत्यनेन सम्बध्यते, न तु कर्मणीत्यनेन; तस्याधिकरणशक्तिप्रधानत्वात् कर्मत्वानुपपत्तेः। पन्नशब्दः क्रियाविशेषणत्वात् कर्मणीत्यनेन सम्बध्यते। प्रतिपादितं हि `करणे च स्तोकाल्प' (2.3.33) इत्यादिसूत्रे क्रियाविशेषणस्य कर्मत्वम्।
`उरसो लोपश्च' इति। `अलोऽन्त्यस्य' (1.1.52) इति सकारस्य।
`सुदुरोरधिकरण' इति। ल्युडपवादो डो विधीयते। वाऽसरूपविधिना सोऽपि भवति-- सुगमनम्, दुर्गमनमिति। अधिकरण इति किम् ? कर्मणि मा भूत्। `ईषद्दुःसुषु' (3.3.126) इत्यादिना खलेव भवति-- सुगमः, दुर्गम इति।
`निरो देशे' इति। निर्शब्द उपपदे गमेर्डो भवति देशेऽधिकरणे। निर्गम्यतेऽस्मिन् देशे निर्गो देशः। देशादन्यत्र ल्युडेव-- निर्गमनमिति।।
49. आशिषि हनः। (3.2.49)
`आशिषि' इति। प्रत्ययार्थमेतत्। तस्मिन् कर्त्तरि प्रत्ययो भवति यस्मिन् विधीयमान आशीर्गम्यते। `तिमिं वध्यात्' इति। आशीर्लिङ। प्रयोगवतो वाक्यस्योपन्यासस्तु समानार्थत्वात् तिमिहशब्दस्य प्रख्यानार्थः।
`दारावाहन' इत्यादि। टकारादेश एवोपसंख्यायते। अण्प्रत्ययस्तु `कर्मण्यण्' (3.2.1) इत्यनेनैव सिद्धः। अथान्तग्रहणं किमर्थम्, यावता `अलोऽन्त्यस्य' (1.1.52) इत्यन्तस्य भविष्यतीति ? नच षष्ठीनिर्दिष्टस्यालोन्त्यविषयो भवन्ति। न चेह हन्तेः षष्ठ्या निर्देशः, किं तर्हि ? पञ्चम्या। नन्वर्थाद्विभक्तिविपरिणामो भविष्यति-- हन इत्यस्याः षष्ठी सम्पद्यते ? एवं तर्हि विस्पष्टार्थमन्तग्रहणम्। `दार्वाहन्ति' इति।दारुशब्दोऽत्र द्वितीयान्तः। `स्वमोर्न्पुंसकात्' (7.1.23) इति लुप्तत्वान्न द्वितीया श्रूयते।
`चारौ वा' इति।अत्राऽप्यादेशो विकल्पेन विधीयते। अण् तु `कर्मण्यण्' (3.2.1) इति नित्यमेव सिद्धः। `चार्वाघाटः'इति। `हो हन्तेर्ञ्णिन्नेषु' (7.5.54) इति कुत्वम्। `हनस्तोऽचिण्णलोः'(7.3.32) इति तत्वम्। `कर्मणि समि चि' इत्येतद्वाक्यं कर्मण्युपपद इत्यस्यैव विशेषणम्।।
50. अपे क्लेशतमसोः। (3.2.50)
`उदि कूले रुजिवहोः' (3.2.31) इत्यत्रोच्छब्दस्योपपदत्वे यो न्याय उक्तः स इहाप्यपशब्दस्य वेदितव्यः। `अनीशीरर्थ आरम्भः'इति। आशिषि पूर्वेणैव सिद्धत्वात्।।
51.कुमारशीर्षयोर्णिनिः। (3.2.51)
`कुमारघाती' इति। पूर्ववत् तत्वकुत्वे। `निपातनाच्छिरसः शीर्षभावः' इति। कुमारशीर्षयोरित्यत एव निपातनाच्छिरसः शीर्षभावो भवति, न पुनः `शीर्षश्छन्दसि'(6.1.60) इत्यनेन। तत्र हि शीर्षन्निति शिरःशब्दसमानार्थं शब्दान्तरं निपात्यते,अन्यथा शीर्षघातीति च्छन्दस्येव स्यात्,न भाषायाम्। `कुमारशीर्षयोः' इति च निर्देशो नोपपद्यते, स हि नकारान्तः; अकारान्तेन चायं निर्देशो भवति, न नकारान्तेनेति। णिनेर्द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः, णकारो वृद्ध्यर्थः।।
52. लक्षणे जायापत्योष्टक्। (3.2.52)
लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्। तदस्यास्तीति तस्मिन् लक्षणवति। एतेन मत्वर्थीयाकारप्रत्ययान्तो लक्षणशब्दः सूत्र उपात्त इति दर्शयति, स च कर्त्तुः प्रत्ययस्य विशेषणमिति दर्शयन्नाह-- `लक्षमवति कर्त्तरि' इति। अथ लक्षणशब्दस्योपपदत्वं कस्मान्न भवति ? केचिदाहुः- `हन्तेः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते;तत्र यदीह लक्षणस्योपपदत्वं स्यात्, तत् कर्मणा विशिष्येत। न च लक्षणं हन्तेः कर्मोपपद्यते, स हि हिंसायां वर्त्तते, हिंसा च प्राणिविषया। जायापत्योः प्राणिधर्मत्वात् कर्मत्वमुपपद्यते'इति, एतच्चानुपपन्नम् ; मत्वर्थीयाकारप्रत्ययान्तस्य लक्षणशब्दस्य प्राणिन्यपि वृत्तेः। व्याख्यानादेव लक्षणस्यानुपपदत्वं विज्ञायते। अनभिधानाद्वा। जायापत्योः कर्त्रोरभिधानं दृष्टम्। `जायाघ्नः'इति। कित्त्वात् `गमहन' (6.4.98) इत्यादिनोपधालोपः, पूर्ववत् कुत्वम्। `पतिघ्नी'इति। टित्त्वान्ङीप्।।
53. अमनुष्यकर्त्तृके च। (3.2.53)
`अमनुष्यकर्त्तृके' इति। अमनुष्यः कर्त्ता यस्य स तथोक्तः एतच्च धात्वर्थविशेषणम्, धात्वर्थो हन्तेरित्यत आह-- `{ एवंप्रकारा पंक्तिर्मूलपाठे नास्ति} अमनुष्यकर्त्तृके धात्वर्थे' इत्यादि। अथामनुष्यकर्त्तृकग्रहणमुपपदविशेषणं कस्मान्न भवति ? कर्मणीत्यनुवर्त्तते, कर्मणश्चामनुष्यकर्त्रा सह सम्बन्धानुपपत्तेः। साधनस्य हि क्रियायाः सम्बन्धः, न कारकान्तरेण। प्रत्ययार्थस्य कर्त्तृरिदं विशेषणं कस्मान्न विज्ञायते ? तस्यामनुष्यकर्त्तृकत्वाभावात्। न हि कर्त्तुः कर्त्ता सम्भवति, अपि तु क्रियायाः। ननु च कर्त्तृग्रहणं न कर्त्तव्यम्, विनापि हि तेनामनुष्यकर्त्तरि प्रत्ययो लभ्यत एव ? नैवं शक्यम्; कर्त्तृग्रहणमन्तरेणामनुष्यग्रहणं केवलमुपादीयमानमुपपदविशेषणमपि विज्ञायते। तस्मात् कर्त्तृग्रहणं कर्त्तव्यम्। तस्मिन् सत्यमनुष्यकर्त्तृग्रहणं तस्य विशेषणं न सम्भवतीत्यतो धात्वर्थ एव तेन विशेषयितुं युक्तः। `इह कस्मान्न भवति' इति। हस्तिकर्त्तृकत्वादमनुष्यकर्त्तृको धात्वर्थः। एतस्माद्भवतिव्यमेव टक्प्रत्ययेनेति मन्यते।।
54. शक्तौ हस्तिकपाटयोः।(3.2.54)
`शक्तौ गम्यमानायाम्' इति। अनेनोपपदत्वं शक्तेर्निराकरोति। `हस्तिकपाटयोः कर्मणीरुपपदयोः'इत्यनेनापि हस्तिकपाटयोः प्रत्ययार्थविशेषणम्। अथैवं कस्मान्न विज्ञायते-- शक्तावुपपदे हस्तिकपाटयोः कर्त्रोरिति ? आरम्भसामर्थ्यादेव हि विज्ञायमाने हस्तिकपाटयोर्मनुष्यकर्त्तृके धात्वर्थे हन्तिर्वर्त्तते। तथा च पूर्वेणैव सिद्धेऽस्यारम्भवैयर्थ्यं स्यात्। उपपदत्वे तु तयोः शक्तौ गम्यमानायां मनुष्ये कर्त्तरि विज्ञायत इति न भवत्येष दोषः।
`विशेष हस्तिनं हन्ति'इति। विषेणेत्यशक्तिकत्वं दर्शयति। यो हि स्वयं हन्तुं न समर्थः स विषादिनोपायान्तरेण हन्ति।।
55. पाणिघताडघौ शिल्पिनि। (3.2.55)
`पाणिघताडघौ' इति। टप्रत्ययो घत्वं टिलोपश्च निपात्यते।।
56. आढ्यसुभगस्थूलपलितनग्नान्धिप्रयेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्। (3.2.56)
`अच्चौ'इति। बहुव्रीहिः-- न विद्यते च्विर्यस्मिस्तत्राच्चौ। तत्पुरुषो वा -- च्वेरन्योऽच्विः। अच्व्यन्त इत्यर्थः। अच्वादित्याढ्यादीनां विशेषणम्। एकवचनं तु प्रत्येकं तैरभिसम्बध्यते। `आढ्यादिषु' इत्यादिना कर्त्तृविषषणत्वमाढ्यादीनपाकरोति। `करणे कारके'इत्यनेनापि करणस्योपपदत्वं निरस्यति। अथैवं कस्मान्न विज्ञायते-- करण उपपदे आढ्यादिषु कर्त्तृष्विति ? तत्र केचिदाहुः-- आढ्यादयोऽत्र शब्दप्रधानाः, न च तथाभूतानां कर्त्तृत्वमुपपद्यते। शब्दप्रधानत्वं पुनस्तेषां च्व्यन्तेष्वच्वाविति प्रतिषेधाद्विज्ञायते। शब्द एव हि च्व्यन्तो भवति, नार्थः। च्व्यन्तता शब्दस्यैव विद्यते, नार्थस्य। तत्र यद्येतेऽर्थप्रधानाः स्युः; च्व्यर्थेष्विति विशेषणमनुपपन्नं स्यात्, अच्वाविति च प्रतिषेधोऽनर्थकः स्यात्। पर्युदासोऽप्यनर्थकः स्यात् ; न; त्सयाप्याढ्य इत्येवंशब्दः सुखति, सुभगशब्दः सुखयीत्यादिप्रयोगेषु कर्त्तत्वदर्शनात्। व्याख्यानादेवार्थनिश्चयोऽद्वेष्यः। करणस्य प्रत्ययार्थत्वेन निर्देशात् `कर्त्तरि कृत्' (3.4.67) इति न व्याप्रियते। ननु च नेमे च्व्यर्थाः, ते नियोगत एव च्व्यन्ताः, इह त्वच्व्यन्ता आढ्यादयो न सम्भवन्त्येव, तत्किं पर्युदस्यन्त इत्याह-- `च्वेर्विकल्पेन विधानात्' इत्यादि। विकल्पेन विधानं तु `समर्थानां प्रथमाद्वा' (4.1.82) इत्यतो वाग्रहणानुवृत्तेः।
`आढ्यं तैलेन कुर्वन्ति' इत्यादि। न ह्यसौ प्रागनाढ्यस्तैलेनाढ्यः क्रियते, किं तर्हि ? आढ्यस्तैलेनाभ्यज्यते। अनेकार्थत्वाद्धातूनां करोतिरत्राभ्यञ्जने वर्त्तते। तेनाभूतप्रादुर्भावे नास्तीति भवति प्रत्युदाहरणम्। अथ वा-- भवतु नामाभूतप्रादुर्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमिति दर्शयितुमाह-- `प्रकृतेरविवक्षायाम्' इत्यादि। न ह्यभूतप्रादुर्भावः इत्येवं सर्वोऽभूतप्रादुर्भावश्च्व्यर्थो भवति, किन्तु विशिष्ट एव; यस्मात् तत्र प्रकृतिग्रहणं दर्शयिष्यते। प्रकृतिः कार्यस्य पूर्वावस्था। तेन यत्राश्रितं कार्यं पूर्वारम्भश्च कार्यसय् भाव्यमानतया विवक्ष्यते तत्र स अभूतप्रादुर्भावः, स एव च्व्यर्थः। एतदुक्तं भवति-- यदा कार्यस्य पूर्वावस्था विवक्ष्यते तदा च्व्यर्थो भवति, नाभूतप्रादुर्भावविवक्षायामिति। इह तु पूर्वावस्थामपरामृश्यानाश्रितपूर्वारम्भे कार्येऽभूततद्भावमात्रं विवक्षितम्। तेन सत्यप्यभूततद्भावे च्व्यर्थो न भवति। अतो भवत्येतत् प्रत्युदाहरणम्-- `आढ्यीकुर्वन्ति' इति। `अभूततद्भावे कृभ्वस्थियोगे' (5.4.50) इत्यादिना च्विः, `अस्य च्वौ'(7.4.32) इतीत्त्वम्। `ल्युटा भवितव्यम्' इति। `करणाधिकरणयोश्च' (3.3.117) इत्यनेन ल्युड्विधानात्। यदि ल्युटा भवितव्यं ततः किमित्याह-- `न च' इत्यादि। उभयत्रापि तदेव रूपम्, स एव स्वरः। रूपं तावदभिन्नम्, उभयत्रापि समासस्य नित्यार्थत्वात्; तथा हि ख्युन्युपपदसमासेन भवितव्यम्, ल्युट्यपि गतिसमासेन ? `अनव्ययस्य' (6.3.66) इति च प्रतिषेधान्मुमा नि भवितव्यमिति रूपभेदो नास्ति। स्वरोऽपि न भवति भेदकः; ख्युनि सति यत्रैव नित्स्वरो भविष्यति, ल्युट्यपि लित्स्वरस्तत्रैव। `प्रतिषेधसामर्थ्यात्' इति। आढ्यीकरणमित्यस्य रूपस्य निरासाय `अच्वौ' (3.2.56) इति प्रतिषेधः क्रियते। एवं तस्य निरासः कृतो भवति यदि ख्युना मुक्ते ल्युडपि भवति, अन्यथा हि स्यादेव। तदेव रूपमिति प्रतिषेधः स्यादिति वैयर्थ्यमिति भावः। `अर्थतः' इति। न शब्दतः। अर्थस्तु प्रतिषेधसामर्थ्यमेव। `उत्तरार्थश्च' इति। उत्तरसूत्रस्योपयोगं दर्शयति। तत्र खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः।ख्युनः खकारो मुमर्थः, नकारः स्वरार्थः।।
57. कर्त्तरि भुवः खिष्णुच्खुकञौ। (3.2.57)
`कर्त्तरि कारके' इति। कर्त्तृग्रहणं करणनिवृत्त्यर्थम्। ननु चास्वसितत्वादेवानुवृत्तिर्न स्यात् ? सत्यमेतत्; द्वेष्यमपि कश्चिदविजानीयात्-- यथैवाढ्यादयोऽनुवर्त्तन्ते तथा तत्सम्बन्धकरणमपीति। उत्तरार्थञ्च कर्त्तृग्रहणम्।
`उदात्तत्वात्' इत्यादि। उदात्तादितरोऽनुदात्तः, तेन भवतेर्विहितस्यार्द्धधातुकस्य `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इतीट्प्रतिषेधो न भवति। बलादिलक्षणेटा (7.2.35) भवितव्यम्, ततश्च तेनैवेकारादित्वं सिद्धम्,ततो न कर्त्तव्यं खिष्णुच इकारादित्वमिति भावः। इकारादित्वकरणस्य प्रयोजनमाह-- `नञस्तु' इत्यादि। यदि। खिष्णु च इकारादित्वं न क्रियते ततो यद्यपीटि कृते सतीकारदित्वं तस्य भवति, तथापि तस्य लाक्षणिकत्वात् `कृत्योकेष्णुच्चार्वादयश्च' (6.2.60) इत्यत्रेष्णुज्ग्रहणेन न ग्रहणं स्यात्। ततश्चानाढ्यम्भविष्णुरिति नञ उत्तरस्योत्तरपदस्यान्तोदात्तत्वं न स्यात्,इष्यते च। अतो नञ उत्तरस्योत्तरपदान्तोदात्तत्वंम्, तेनेकारादित्वमिष्णुचः क्रियते। ननु च सत्यपीकारादित्वे अलंकृञादिसूत्रे (3.2.136) विहितस्यैवेष्णुचो ग्रहणेन भवितव्यम्, नेतरस्य , तस्यैकानुबन्धकत्वात्, अस्य द्वयनुबन्धकत्वात् ? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीत्यदोषः। खकारो मुमर्थः; चकारः स्वरार्थः, ञकारो वृद्ध्यर्थः।।
58. स्पृशोऽनुदके क्विन्। (3.2.58)
`सुपि स्थः' (3.2.4) इत्यत्रोक्तम्-- `कर्मणि' `सुपि'इति द्वयमनुवर्त्तते, तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते, अन्यत्र सुपीति। स्पृशिरयं सकर्मकः, अतः स्पृशेर्धातोरनुदके सुबन्त उपपद इत्युक्ते पूर्वापरव्याहति मन्यमान आह-- `ननु च' इत्यादि।`नैषः' इत्यादिना परिहारः। कथं पुनः कर्त्तृग्रहणे कर्त्तुश्च प्रचयार्थे विज्ञायमाने सुबन्त उपपदे प्रत्ययो लभ्यत इत्याह-- `सुबन्तमात्रे' इत्यादि। सुबन्तमात्र उपपदे सत्येकः प्रचयार्थः कर्त्ता कर्मण्युपपदे सति भवति, अपरः करणादावुपपदे; तत्र भेदे सति तत्सम्बन्धभेदेन भिद्यमानस्य कर्त्तुः प्रचयो लभ्यते। `घृतस्पृक्' इति। `क्विन्प्रत्ययस्य कुः' इत्यादि। `क्विप्रत्ययस्य कुः' इत्युच्यमाने क्विपोऽपि ग्रहणं स्यात्,अतो नकारोऽनुबध्यते। प्रकृतेराद्युदात्तार्थो नकारो न भवित; स्पृशेरेकाच्त्वात्,तत्स्वरेणैव सिद्धत्वात्। ककारो गुणप्रतिषेधार्थः, वकारः `वेरपृक्तस्य' (6.1.67) इति विशेषणार्थः।।
59. ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। (3.2.59)
`ऋतौ यजति' इति। वसन्तादिक ऋतौ यजति, यस्मिन् ऋतुर्देवता स याग ऋतुस्तं यजतीति। `ऋतुप्रयुक्तो वा यजति' इति। यस्मिन् याग ऋतुः प्रयोजकस्तमृतुप्रयुक्तो यजतीति। अस्मिन् पक्षे प्रयुक्तमात्रस्य लोपो निपात्यते। `ऋत्विक्'इति। यजादित्वात् (6.1.15) सम्प्रसारणम्। `यथाकथञ्चिदनुगन्तव्या' इति। येन केनचित् प्रकारेण व्युत्पादयितव्यम्, न त्ववयवार्थस्तन्त्रमिति दर्शयति। `अन्तोदात्तत्वं निपात्यते' इति। नियतस्वरबाधनार्थम्। `दधृक्' इति। अभ्यासस्य `उरत्' (7.4.66) इत्यत्त्वम्, हलादिःशेषः, (7.4.60) जश्त्वम्। `षत्वञ्च निपात्यते' इति। `सात्पदाद्योः' (8.3.109) इति प्रतिषेधान्न प्राप्नोतीति कृत्वा। `ष्णिह प्रीतौ' (धा.पा.1200), उत्स्निह्यतीत्युष्णिक्। `निपातनैः' सह निर्देशात्' इत्यादिना निपातनैः सहैषां यो निर्देशः स एषामपि किञ्चिदलाक्षणिकं कार्यं यथा स्यादित्येवमर्थः। तेनैषु किञ्चिदलाक्षणिकं कार्यं भवति। इदं त्वलाक्षणिकम्-- यः सकर्मकस्यापि सुबन्तमात्र उपपदे भवति। `प्राङ' इति। `उगिदचां सर्वनामस्थानेऽधातोः' (7.1.70) इति नुम्, हल्ङ्यादि (6.1.68) संयोगादि (8.2.23) लोपौ,नकारस्य पूर्ववत् कुत्वम्। `केवलात्' इति। सत्यपि कर्मणि सुपीत्यधिकारे निरुपपदादेव भवति; निपातनैः सहेति निर्देशात्। क्विन्विधानसामर्थ्याद्वा। उपपदे हि सदादिसूत्रेण (3.2.61) क्विपा भवितव्यम्। `सोपपदात्' इत्यादि। न च सोपपदाद्युजेः क्विपि क्विना वा विशेषोऽस्ति; `चोः कुः' (8.2.30) इति कुत्वस्य सिद्धत्वात्। अनुपपदत्वे `युजेरसमासे' (7.1.71) इति नुमि कृते नकारस्य कुत्वार्थं क्विनो विधानं सार्थकं भवति।।
60. त्यदादिषु दृशोऽनालोचने कञ्च। (3.2.60)
अनालोचनमिह चक्षुर्ज्ञानमात्रमभिप्रेतम्। यदि तत्र दृशिर्न वर्त्तत एवं प्रत्ययो भवति, नान्यथा। `त्यादृक्, त्यादृशः' इति। `दृक्दृशवतुषु' (6.3.89) इत्यनुवर्त्तमाने `आ सर्वनाम्नः' (6.3.91) इत्यात्वम्। `कञो ञकारः `टिड्ढाम़ञ' इति विशेषणार्थः इति। यदि कञो ञकारो न कर्त्तव्यसत्दोदात्तार्थो नकारः कर्त्तव्यः। एवञ्च कञ्कन्नित्येवं (4.1.15) कर्त्तव्यम्। ततश्चैवमुच्यमाने `यावादिभ्यः कन्' (5.4.29) यादिकेत्यत्रापि ङीप् प्रसज्यते, अतस्तद्विशेषणार्थो ञकारः कर्त्तव्यः इति। ननु च दृशेर्दर्शनक्रियत्वात् तादृक् तादृश इत्यादिषु दर्शनक्रियाऽस्त्येव, तथा ह्येषां व्युत्पत्तौ तं पश्यत्येवंप्रकारं वाक्यमुपदिश्याचार्याः प्रत्ययं कुर्वन्ति। वाक्यसमानार्था वृत्तिर्भवति, सा च दर्शनक्रिया ज्ञानार्थिका। तत्कथमत्र दृशिरनालोचने वर्त्तत इत्याह-- तादृगादयो हि रूढिशब्दप्रकाराः'इत्यादि। रूढिशब्देषु नावयवार्थेन भवितव्यम्,किं तर्हि ? समुदायार्थेन। अत एवात्रावयवार्थो नोपदीयते। व्युत्पत्त्यर्थस्तु विद्यमानोऽप्यवयवार्थ नोपादत्ते, यथा-- व्याजिघ्रतीति व्याघ्र इत्यादौ। तस्मादिह यद्यपि व्युत्पत्त्यर्थं वाक्यस्य दर्शनक्रियोपादीयते, तथाप्यसौ वृत्तौ नास्त्येव। तथा हि-- तादृक् तादृश इत्यादिभ्यः शब्देभ्यः सदृशवस्तुविषये प्रत्यय उपजायते, न तु दर्शनक्रियाविषय इति युक्तैव दृशेरनालोचने वृत्तिः।
`समानान्ययोश्चेति वक्तव्यम्' इति। समानान्ययोश्च शब्दयोरुपपदयोर्दृशेः क्विन्कञौ प्रत्ययौ भवव इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--- पू्रवसूत्रादिह चकारोऽनुवर्त्तते, स चानुवतसमुच्चयार्थः। तेन समानान्ययोरुपपदयोर्दृशेः प्रत्ययौ भविष्यतः। `सदृशः' इति। `समानस्य' (6.3.84) इत्यनुवर्त्तमाने ` दृग्दृशवतुषु' (6.3.89) इति सभावः।।
61. सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्। (3.2.61)
`कर्मग्रहणं तु `स्पृशोऽनुदके क्विन्' इत्यतः प्रभृति न व्याप्रतियते' इति। ननु सकर्मका अपि धातवः सन्ति, तत्कथं न व्याप्रियत इति ? एवं मन्यते-- स्पृशोऽनुदके क्विन्' (3.2.58) इत्यादिषु यत् `कर्त्तरि' (3.2.57) इत्यनुवर्त्तते तत् कर्त्तृप्रचयार्थं विज्ञायते, तेन सुपीति व्याप्रियते, न कर्मणीति। एवं हि कर्त्तृप्रचयो लभ्यते, नान्यथा। अथ उपसर्गग्रहणं किमर्थम ? यावतोपसर्गाः सुबन्ता एव, तत्र सुब्ग्रहणेनैवोपसर्गग्रहणं सिद्धमित्याह-- `उपसर्गग्रहमं ज्ञापनार्थम्'इति। `अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवति' इति। क्वान्यत्र सुब्रग्रहण उपसर्गग्रहणं न भवतीत्याह-- `वदः सुपि क्यप् च' इति। ननु च `वदः सुपि क्यप् च' (3.1.106) इत्यत्र `गदमदचरयमश्चानुपसर्गे' (3.1.100) इत्यतोऽनुपसर्गग्रहणमनुवर्त्तते। एव़ञ्चोपसर्गग्रहणं नानुवर्त्तयितव्यमिति वा ज्ञापनार्थमुपसर्गग्रहणम्। विकल्पप्रदर्शनार्थं कर्त्तव्यमित्यन्ये।
`अपूरे त्वाहुः-- ज्ञापकप्रयोजनदिगियमिति वृत्तिकारो दर्शयति। इदं तु स्पष्टं ज्ञापकस्य प्रयोजनम्-- `स्पृशोऽनुदके क्विन्' (3.2.58) इत्यत्र `सुपि' (3.2.4) इत्यधिकारादसति ज्ञापक उपसर्गग्रहणे सुबन्तेऽप्युपसर्गे स्यात्-- उपस्पृशति, संस्पृशतीति; अस्मात् ज्ञापकान्न भवति। `साहचर्यात्'इत्यादि। यदि `सू'इत्ययं धातुरादादिकत्वं व्यभिचरति `द्विष अप्रीतौ'(धा.पा.1013) इत्येष तु न व्यभिचरति, अतोऽनेन साहचर्यात् `सू' इत्यादादिकस्य `षूङ प्राणिगर्भविमोचने' (धा.पा.3031) इत्यस्य ग्रहणम्, न `षू प्रेरणे' (धा.पा.1408) इत्यस्य तौदादिकस्य । ननु च सदिना तौदादिकसाहचर्यादस्यापि ग्रहणं भवति ? नैतदस्ति; यथैव हि `सू' इत्येष तौदादिकतवं व्यभिचरति,तथा सदिरपि, तस्य भ्वादिषु पाठात्, तत्कथं तेन साहचर्यात् तौदादिकस्येह ग्रहणं स्यात्। `न सुबतेः' इति। अनादादिकसूरूपस्य धातोरुपलक्षममेतत्। `{षूङ्-धा.पा.}षञ् प्राणिप्रसवे' (धा.पा.1132) इत्येतस्यापि दैवादिकस्य ग्रहमं न युक्तम् ; न्यायस्य च तुल्यत्वात्। `द्वयोरपि ग्रहणम्' इति। विशेषानुपादानात्। `न लाभार्थस्य' इति। `विद्लृ लाभे' (धा.पा.1432) इत्येतस्य। `अकारस्य विवक्षितत्वात्' इति। इह लाभार्थस्यानुपादाने हेतुः `विदः' इति सूत्रेऽ
कारान्तोच्चारणं विवक्षितमिति,तेन विदेरकारान्तस्य गणे पाठात् स एव गृह्यते, न लृकारान्तः।
`शृचिषत्' इति। `{षद्लृ-धा.पा.} सद्लृ विशरणार्थः (धा.पा.854)। `मित्रध्रुक्'इति। `द्रुह जिघांसायाम्' (धा.पा.1197) `वा द्रुहमुह' (8.2.33) इति ककारः, `एकाचो बशो भष्' (8.2.37) इत्यादिना भष्भावः। `गोधुक्' इति। ` दुह प्रपूरणे' (धा.पा.1014) `दादेर्धातोर्घः'(8.2.32) इति घत्वम्। `अश्वयुक्' इति। `चोः कुः' (8.2.30) इति कुत्वं गकारः, तस्य पूर्ववत् ककारः। `शत्रुजित्' इति। `ह्रस्वस्य पिति कृति तुक्' (6.1.71)। `कथमत्र णत्वम्' इति। `पूर्वपदात् संज्ञायामगः' (8.4.3) इति संज्ञायां विधीयमानेन णत्वेनासंज्ञायामिह न भवितव्यमिति भावः। `सम्राटः'इति। `राजृ दीप्तौ' (धा.पा.822), `व्रश्चभ्रस्ज' (8.2.36) इति चर्त्वं टकारः, `मो राजिसमः क्वौ' (8.3.25) इति मकारः। क्विपः ककारो गुणवृद्धिनिषेधार्थः। पकारस्तुगर्थः। `वेरपृक्तस्य' (6.1.67) इति वकारलोपः। इकारः `वेरपृक्तस्य' इति सामान्यग्रहणार्थः।।
62. भजो ण्विः। (3.2.62)
`अर्धभाक्' इति। `वेरपृक्तस्य' (6.1.67) इति वकारलोपः। प्रत्ययलोपलक्षणेन `अत उपधायाः' (7.2.116) इति वृद्धिः, `चोः कुः' (8.2.30) इति कुत्वम्। णकारो वृद्ध्यर्थः। इकारः `वेरपृक्तस्य' (6.1.67) इति सामान्यग्रहणार्थः।।
63. छन्दसि सहः। (3.2.63)
`जलाषाट्' इति। `हो ढः' (8.2.31) इति ढत्वम्, तस्य जश्त्वम्-- डकारः,तस्य `वाऽवसाने' (8.4.56) इति टकारः।।
64. वहश्च। (3.2.64)
`पृष्ठवाट्' इति। पूर्ववद्वृद्धिः, ढत्वजश्त्वचर्त्वानि। योगविभागं उत्तरार्थः-- उत्तरत्र बहेनुवृत्तिर्यथा स्यात्, सहेर्मा भूत्। एकयोगे हि सति द्वयोरप्यनुवृत्तिः स्यात्।।
65. कव्यपरीषपरीष्येषु ञ्युट्। (3.2.65)
पूर्वेण च्वौ प्राप्ते ञ्यृड्विधीयते। टकारो ङीबर्थः, ञकारः स्वरार्थो वृद्ध्यर्थश्च। युमात्रं प्रत्ययः, तस्य `युवोरनाकौ'(7.1.1) इत्यनादेशः।।
66.हव्येऽनन्तःपादम्। (3.2.66)
`अनन्तःपादम्' इति। अन्तः शब्दो मध्यशब्देन समानार्थः। अन्तःपादमिति पादस्य मध्य इत्यर्थ-। `अव्ययं विभक्ति' (2.1.6) इत्यादिना विभक्त्यर्थेऽव्ययीभावः-- न अन्तःपादमनन्तःपादमिति। एतच्च वहेः प्रकृतत्वात् तस्यैव विशेषमं विज्ञायत इत्यत आह-- `अनन्तःपादञ्चेद्वहिर्वर्त्तते'इति। छन्दसीत्यनुवृत्तेः पादशब्द ऋक्पादं बोधयति। ऋक्पादमध्ये वहिर्न वर्त्तत इत्यर्थः। प्रत्युदाहरणे पादमध्ये वहिर्वर्त्तत इति तेन `वहश्च' (3.2.64) इति ण्विरेव भवति।।
67. जनसनखनक्रमगमो विट्। (3.2.67)
`द्वयोरपि ग्रहणम्' इति। विशेषानुपादानात्। `तथा' इत्यादि। यथानन्तरयोर्धात्वोरुभयोर्ग्रहणमिति, तथानयोरपि सम्भवक्तार्थयोरित्यर्थः। `टकारः सामान्यग्रहणविघातार्थः'इति। असति टकारे `वेरपृक्तस्य' (6.1.67) इत्यत्रैकानुबन्धपरिभाषया (व्या.प.52) अस्यैवं ग्रहणं स्यात्, न विजादीनाम्। टकारे त्वस्यापि द्वयनुबन्धकत्वात् सर्वेषां ग्रहणमुपपद्यते। `विशेषणार्थश्च' इति। `विड्वनोरनुनासिकस्यात्' (6.4.41) इत्यत्र विशेषणार्थष्टकारः, `विवनोः' इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्, तथा चाकरोदित्येवमादौ लोपः स्यात्। `अब्जाः' इति। अप्सु जायत इति अब्जाः। एवं `गोजाः'। गां सनोतीति `गोषाः'। `सनोतेरनः' (8.3.106) इति षत्वम्। नरं सनोतीति `नृषाः'। विलं खनतीति `विलखाः'। दधि क्रामतीति `दधिक्राः' । अग्रे गच्छतीति `अग्रेगाः'। `तत्पुरुषे कृति बहुलम्' (6.3.14) इति सप्तम्या अलुक्। सर्वत्र `वेरपृक्तस्य' (6.1.67) इति लोपः, `विड्वनोः' (6.4.41) इत्यात्त्वम्।।
68. अदोऽनन्ने। (3.2.68)
69. क्रव्ये च। (34.2.69)
`पूर्वेणैव सिद्धे' इति। क्रव्यशब्दस्यानर्थकत्वात्।
`कथं तर्हि क्रव्यादः' इति। यदि वचनं वाऽसरूपविधिबाधनार्थमिति भावः। `कृत्विकृत' इत्यादिना कृत्तविकृत्तशब्द उपपदेऽत्राण्, न तु क्रव्यशब्द इति दर्शयति। यदि तर्हि कृत्तविकृत्तशब्द उपपदेऽण्, कथं क्रव्यादशब्दः सिध्यति; कृत्तविकृत्ताद इति भवितव्यमित्याह-- `तस्य च' इत्यादि। ननु च कृत्तविकृत्तशब्दे उपपदेऽणि कृते तत्र चोपपदस्य क्रव्यभाव इति रूपं भवति, क्रव्यशब्द उपपदेऽणि कृते तदेव, क्वात्र विशेषः; यतः क्रव्यशब्द उपपदे।ञण् प्रतिषिध्यते ? इत्यत आह-- `कृत्तविकृत्त' इत्यादि। एतेनार्थभेदं दर्शयति-- यो हि कृत्तविकृत्तशब्देन पक्वमांसभक्षः स एव क्रव्याद उच्यते,यस्त्वपक्वमांसभक्षः स क्रव्यादुच्यते।।
70. दुहः कब्घश्च। (3.2.70)
`कामदुधा' । `घर्मदुघा'। कामं दोग्धीति कामदुघा। गर्मं दोग्धीति घर्मदुधा।।
71. मन्त्रे श्वेतवक्थशस्पुरोडाशो ण्विन्। (3.2.71)
`एतेभ्यः' इति। श्वेतव इत्येवमादिभ्यः प्रकृत्युपपदसमुदायेभ्यः। `धातुपपदसमुदाया निपात्यन्ते' इति। श्वेतवा इत्येवादयः। किं पुनः कारणं धातूपपदसमुदाया निपात्यन्ते, न पुनः पृथगेवोपपदानि धातवश्च निर्दिश्यन्ते ? इत्याह-- `अलाक्षणिककार्यसिद्ध्यर्थम्' इति। श्वेतवा इत्येवमादिषु `अवयाः श्वेतवाः पुरोडाश्च' इति रुत्वं निपात्यते। `उक्थशाः'इति। `ससजुषो रुः' (8.2.66) इतिरुत्वमस्त्येव। `शंसतेः'इति। `{शंसु-धा.पा.} शन्स स्तुतौ' (धा.पा.728) इत्यस्य। ण्विनौ नित्करणमाद्युदात्तार्थम्। णित्करणं वृद्ध्यर्थम्। इकारः `वेरपृक्तस्य' (6.1.67) इति विशेषणार्थः।
`श्वेतवाहादीनाम्' इत्यादि। यदि तर्हीदमुच्यते, नार्थः `अवयाः श्वेतवाः पुरोडाश्च'इत्यनेन वचनेन, रुत्वार्थेन तस्य दीर्घत्वात्त ? ननु च `अत्वसन्तस्य चाधातोः'(6.4.14) इति दीर्घत्वं सिद्धमेव ? यत्र तर्हि तेन न सिध्यति तदर्थं यथा स्यात्। क्व पुनस्तेन न सिध्यति ? सम्बुद्धौ । यदि तर्हि तदुच्यते तदा डस् न वक्तव्यः,तेनैव निपातनेन श्वेतवहादीनामसन्तता निपातयिष्यते ? नैतदस्ति; सम्बुद्धौ दीर्घत्वं न स्यादित्युक्तम्। अथासन्तता निपातयिष्यत इति वक्तव्यम्, तथा च सति श्वेतवोभ्यामित्यत्रोत्वं स्यात्। तस्मात् डस् वक्तव्यः, निपातनमपि कर्त्तव्यम्।।
72. अवे यजः। (3.2.72)
`योगविभाग उत्तरार्थः'इति। उत्तरसूत्रे यजरेवानुवृत्तिर्यथा स्यात्।।
73. विजुपे छन्दसि। (3.2.73)
`उपयड्भीः'इति। `व्रश्चादिना' (8.2.36) षत्वम्, पूर्ववज्जश्त्वम्-- डकारः। `उभयट्त्वम्' इति। त्वप्रत्यये परतः `खरि च' (8.4.55) इति चर्त्वं टकारः। ननु च `मन्त्रे' (3.2.71) इत्यनुवर्त्तिष्यते, मन्त्रश्च च्छन्द एव, तत् किमर्थं छन्दसिग्रहणं क्रियत इत्याह-- `छन्दोग्रहणं ब्राह्मणार्थम्' इति। असति च्छन्दोग्रहणे मन्त्रग्रहणानुवृत्तेरपि ब्राह्मणे न स्यात्, न हि मन्त्रग्रहणेन ब्राह्मणं गृह्यते;तस्य ग्रन्थान्तरत्वात्। मन्त्रव्याख्याने ग्रन्थविशेषे ब्राह्मणशब्दो वर्त्तते, न तु मन्त्रे ; तसमाद्ब्राह्मणेऽपि यथा स्यादित्येवमर्थं छन्दसीत्युक्तम्। `विचश्चित्करणम्' इत्यादि। असति चित्करण एष एकानुबन्धः स्यात्। ततश्च `वेरपृक्तस्य' (6.1.67) इत्यत्रैकानुबन्धकपरिभाषया (व्या.प.52) अस्यैव ग्रहणं स्यात्, न क्विबादीनाम्। चित्करणे तु सत्येकानुबन्धो न कश्चिदस्तीति सर्वे गृह्यन्ते।।
74. आतो मनिन्क्वनिब्बनिपश्च। (3.2.74)
मनिनो नकार आद्युदात्तार्थः। क्वनिब्वनिपोः पकारानुदात्तार्थौ, इकार उच्चारणार्थः। क्वनिपः पकारः पित्कार्यार्थः, चकारो विचोऽनुकर्षणार्थः। शोभनं ददातीति `सुदामा'। `सर्वनामस्थाने च'(6.4.8) इत्यादिना दीर्घः। अश्व इव तिष्ठतीत्यश्वत्थामा। पृषोदरादित्वात् सकारस्य तकारः। शोभनं दधातीति `सुधीवा'। शोभनं पिबतीति `सुपीवा'। धुमादिनेत्त्वम् (6.4.66)। भूरि ददातीति `भूरिदावा' । घृतं पिबतीति `घृतपावा'। कीलालं पिबतीति `कीलालपाः'।।
75. अन्येभ्योऽपि दृश्यन्ते। (3.2.75)
`सुशर्मा' इति। `शॄ हिंसायाम्' (धा.पा.1488) शोभनं शृणातीति विग्रहः। `प्रातरित्वा' इति। इणः प्रातः शब्द उपपदे क्वनिप्, `ह्रस्वस्य पिति कृति' (6.1.71) इति तुक्। `विजावा' इति। `जनी प्रादुर्भावे' (धा.पा.1149), विजायत इति वनिप्, `विड्वोरनुनासिकस्य' (6.4.41) इत्यात्त्वम्। `अग्रेगावा' इति। `ग्म्लृ सृप्लृ गतौ' (धा.पा.982,983) पूर्ववदात्त्वम्। `रेडसि' इति। `रिष हिंसायाम्' (धा.पा.694), पूर्ववज्जश्त्वं डकारः। `दृशिग्रहणं प्रयोगानुसरणार्थम्' इति।तेन प्रयोगे गम्यमाने यत्र दृश्यन्ते मनिन्नादयस्तत्रैवैते साधवः, अतो नापूर्वतमः क्रियते। एतेन `ते न सर्वतो विधेयाः' इत्युक्तं भवति। यद्यन्येभ्योऽपि दृश्यन्ते, पूर्वसूत्रमनर्थकम्, मनिन्नादयः सर्वधातुभ्यो दृश्यन्त इत्येवं वाच्यम् ? नैतदस्ति; आकारान्तेभ्यो धातुभ्यो नियोगतस्ते भवन्ति, अनाकारान्तेभ्यः क्वचिदेय। अपि तु पूर्वयोगश्छन्दसि, वयं तु भाषायामपि।।
76. क्विप् च। (3.2.76)
`निरुपपदेत्रभ्यश्च' इति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते। `उखास्रत्। प्रर्णध्वत्' इति। `स्रन्सु ध्वन्सु अवस्रन्सने' (धा.पा754,755) , `अनिदिताम्' (6.4.24) इत्यादिनानुनासिकलोपः। `वसुस्रन्सुध्वंस्वनडुहां दः' (8.2.72) इति दत्वम्, `वाऽडवसाने' (8.4.56) इति चर्त्वम्। `वाहाभ्रट्' इति। `भ्रन्शु अधः पतने' (धा.पा.1225), व्रश्चादिसूत्रेण (8.2.36) षत्वम्, पूर्ववज्जश्त्वम्, चर्त्वम्, `अन्येषामपि दृश्यते' (6.3.37) इति दीर्घः।।
77. स्थः क च। (3.2.77)
`बाधकबाधनार्थम्' इत्यादि। कक्विपोर्बाधकोऽच्, तस्यापि बाधनार्थम्। अचस्तु बाधकत्वं `शमि धातोः संज्ञायाम्' (3.2.14) इत्यत्र धातुग्रहणम्। तद्धि यतोऽपवादो विहितस्ततोऽपि शम्युपपदे संज्ञायामजेव यथा स्यादित्येवमर्थं कृतम्। एव़ञ्च `स्थः क च' इत्येतद्यदि नोच्येत, ततो यथा कृञो हेत्वादिषु टप्रतिषेधार्थं धातुग्रहणं तथा तिष्ठतेरपि कक्विपोर्बाधनार्थं विज्ञायते। तथा च सति शम्युपपदे संज्ञायां तिष्ठतेरजेव स्यात्, न कक्विपौ। अस्मिंस्तु योगे सत्यचं बाधित्वोभावेव भवतः। `शंस्थः' इति। ` आतो लोप इटि च' (6.4.64) इत्याकारलोपः।।
78. सुप्यजातौ णिनिस्ताच्छील्ये। (3.2.78)
`ब्राह्मणानामन्त्रयिता' इति। `मत्रि गुप्तभाषणे' (धा.पा.1679), `इदितो नुम् धातोः' (7.1.58) इति नुम्, चुरादिणिच्, ततः `तृन्' (3.2.135) इति ताच्छीलिकस्तृन्। `सुपि' इत्यादि। ननु च `सुपि' (3.2.4) इत्यनुवर्त्तमाने पुनः सुब्ग्रहणमनर्थकम् ?नानर्थकम्; पूर्वकं हि सुब्ग्रहणमुपसर्गेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। अत उपसर्गनिवृत्त्यर्थं पुनः सुब्ग्रहणं क्रियते।
`उत्प्रतिभ्याम्' इत्यादि। सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थ्तवादुपसर्गे न प्राप्नोतीति वचनम्। उत्प्रतिभ्यां परो य आङ,तस्मिन्नुपपदे सर्त्तेर्धातोरुपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। तत्रेदं प्रतिपादनम्-- `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इत्यतोऽत्रापिशब्दः सर्वोपाधिव्यभिचारार्थोऽनुवर्त्तते, तेन `उदासारिण्यः'इत्यत्रोपसर्गे णिनिर्भवति।
`साधुकारिणि च'इति। अताच्छील्यार्थ आरम्भः। चकारेणोपसंख्यानमित्यनुकृष्यते, तस्य प्रतिपादनमेवार्थः। प्रतिपादनं तु-- पूर्ववदपिशब्दं सर्वोपाधिव्यभिचारार्थमाश्रित्य कर्त्तव्यम्। अथ वा-- यदयम् `तच्छीलतद्धर्मत्साधुकारिषु' (3.2.134) इति तच्छीलेत्यभिधाय तत्साधुकारिग्रहणं करोरति,तज्ज्ञापयति--साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति।
`ब्रह्मणि वदः' इति। अयमप्यताच्छील्यार्थ आरम्भः, जात्यर्थो वा। ताच्छील्येऽजातौ पूर्वेणैव सिद्धत्वात् वाऽसरूपनिवृत्त्यर्थो न हि भवति। ब्रह्माणं वदित `ब्रह्मवादी'इति। णिनेर्णकारो वृद्ध्यर्थः। द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः।।
79. कर्त्तर्युपमाने। (3.2.79)
धातोः कर्त्तरि प्रत्ययविधानात् तस्यैवोपपदकर्त्तोपमानं विज्ञायत इत्याह-- `उपपदकर्त्ता'इत्यादि। उपपदवाच्यः कर्त्रा = उपपदकर्त्ता, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। `उष्ट्रक्रोशी' इति। `क्रुश आह्वाने रोदने च'च(धा.पा.856)। `ध्वाङक्षरावी' इति।`रु शब्दे' (धा.पा.1034)। अताच्छील्यार्थ आरम्भजात्यर्थो वेति; ताच्छील्येऽजातौ च पूर्वेणैव सिद्धत्वात्।
`भक्षयति' इति। `भक्ष अदने' (धा.पा.1557) चौरादिकः।।
80. व्रते। (3.2.80)
`समुदायोपाधिश्चायम्' इति। प्रत्ययार्थविशेषणशङ्कां निराकरोति। प्रत्ययार्थविशेषणे हि तस्मिन् व्रत एव कर्त्तरि प्रत्ययः प्रसज्येत,न तद्वति देवदत्ते। `धातूपपद' इत्यादिना समुदायोपाधित्वं व्रतस्य दर्शयति। `कामचारप्राप्तौ नियमः'इति। कामचारः = इच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः। अनियमत्वाद्यथेष्टं सामान्येन शयने भोजने च प्रवृत्तौ प्राप्तायामयमर्थान्तराद्वयावर्त्त्यविशेषे स्थण्डिलादौ न प्राप्नोति, तस्माद्वयवस्थाप्यते। नियमश्चात्र द्विविधः सम्भवति-- स्थण्डिले शेत एवाश्राद्धं भुङक्तं एवेत्येयंरूपो वा स्यात्, स्थण्डिल एव शेतेऽश्राद्धमेव भुङ्क्ते इत्येवंरूपो वा,तत्र पूर्वके नियमे यदैव स्थण्डिले न शेतेऽश्राद्धञ्च न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। तस्माद् द्वितीयो नियमो युक्त इति मन्यमान आह-- `सति शयने'इत्यादि।।
81. बहुलमाभीक्ष्ण्ये। (3.2.81)
`आभीक्ष्ण्यं पौनःपुन्यम्' इति। पुनः पुनर्भावः पौनःपुन्यमिति, अव्ययानां भमात्रे टिलोपः। `तात्पर्यमासेवैव' इति। तदेवाभीक्ष्ण्यम्। पर्यायान्तराभ्यां स्पष्टीकरोति-- `{ताच्छील्यादन्यत्--काशिका, पदमंजरी च।} ताच्छील्यादन्यः' इति। एतेन `सुप्यजातौ' (3.2.78) इत्यादिनाऽऽभीक्ष्ण्ये न सिध्यतीत्यसामर्थ्यमुद्भावयन्नस्य योगस्य फलं दर्शयति-- `कषायपायिणः'इति। यत्र देशे कषायं पुनः पुनः पिबतामारोग्यं भवति, अतस्ते कषायं पिबन्तीति, न तु ताच्छील्यात्। `क्षीरपायिणः'इति। तेऽपि तथोक्तादेव कारणात् पानान्तराभावाद्वा ताच्छील्याभावेऽप्यगत्या क्षीरं पिबन्ति। `सौवीरपायिणः' इति। अत्राप्येतदेवानन्तरोक्तं पुनः पुनः सौवीरपानस्य कारणम्। सर्वत्र `आतो युक् चिण्कृतोः' (7.3.33) इति युक्। `प्रातिपदिकान्तनुम्' (8.4.11) इत्यादिना णत्वम्. `कुल्माषखादः' इति। `कर्मण्यण्' (3.2.1)।।
82. मनः। (3.2.82)
`मन्यतेर्ग्रहणम्' इति। `मन ज्ञाने' (धा.पा.1176) इत्येतस्य दैवादिकस्य। `न मनुतेः' इति। `मनु अवबोधने' (धा.पा.1471) इत्येतस्य तानादिकस्य ग्रहणं न भवति। नन ु च यदेव मन्यतेर्णिनिप्रत्यये कृते दर्शनीयमानीति रूपं भवति, तदेव मनुतेरपि,तत् कोऽत्र विशेषो यतो मन्यतेर्ग्रहणमिष्यते,न मनुतेरित्यत आह-- `उत्तरसूत्रे हि' इत्यादि। यद्यपीह विशेषो नास्ति, उत्तरसूत्रे तु विकरणकृतो विशेषोऽस्ति, तत्र हि मन्यतेः खशि कृते दिवादित्वाच्छ्यन् भवति, मनुतेस्तु तनादित्वादुप्रत्ययः।।
83. आत्ममाने खश्च। (3.2.83)
`आत्ममाने' इति। मननम् = मानः, भावे घञ्। आत्मनो मानः आत्ममानः। `कर्त्तृकर्मणोः कृति' (2.3.65) इति षष्ठी, `कृद्योगा च षष्ठी समस्यते'(वा. 83) इति समासः। अथ कर्त्तरि षष्ठी कस्मान्न भवति ? आत्मग्रहणसामर्थ्यात्। न ह्यात्मनोऽन्यस्य पदार्थस्य मतिः सम्भवति, तस्या आत्मगुणत्वात्। अथात्मशब्दोऽयं न सुखादिगुणमाचष्टे, कि तर्हि ? पराभावम्। परो यो न भवति स आत्मेति, तथाप्यात्मग्रहणमनर्थकम्। एवं हि मन्तुर्या मतिर्या मतिस्त्तत्र वर्त्तमानादित्येषोऽर्थः स्यात्, स चायुक्तः,क सर्वा हि मतिः परमपि मन्यमानस्य मन्तुरेव भवति, तस्मात् कर्मण्येव षष्ठी। `यदा प्रत्ययार्थः कर्त्ता' इत्यादि। कथं पुनरेष एवार्थः, कर्म कर्त्ता च युज्यते ? शक्तिभेदात्, यथा-- पीयमानं मधु मदयतीति। खशः खकारः `अरुर्द्विषदजन्तस्य' (6.3.67) इति मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः।।
84. भूते। (3.2.84)
भूतशब्दोऽयमतिक्रान्तवचनः, अस्ति च स्वरूपवचनः, तत्र न ज्ञायते-- कस्मिन् भूते प्रत्यय इति ? अतस्तत्पज्ञानायाह-- `धात्वधिकाराच्च'इत्यादि। चशब्दो हेतौ। यस्माद् धातोरिति वर्त्तते तस्माद्धात्वर्थभूत इति विज्ञायते। ननु च धात्वधिकाराद्धातोरेव भूत इत्येतद्विशेषणं युक्तम् ? न; असम्भवात्। धातोर्ह्यस्मिन्नभिधेये गुणीभूतस्य भूत इत्येतद्विशेषणमनुपपन्नम्। अतस्तत्रासम्भवात् तदर्थस्यैव तद्विशेषणं विज्ञायते।।
85. करणे यजः। (3.2.85)
`णिनिरनुवर्त्तते, न खश्'इति। णिनेरेव स्वरितत्वात्। क्व पुनर्यागः करणमित्याह-- `अग्निष्टोमः फलभावनायाम्' इत्यादि। फलं स्वर्गः?, तस्य या भावनोत्पादना = यजमानसम्बन्धी व्यापारः, तत्राग्निष्टोमयागः करणं भवति। ननु चाग्निष्टोमव्यतिरेकेण यजमानसय् व्यापारो भावनाख्यो नास्त्येव, यत्र यागः करणमिष्यते, तथाह्यग्निष्टोमाख्येनैव ह्यसौ यागेन स्वर्गाख्यं फलमुत्पादयति ? नैतदेवम्; विशेषव्यापारे हि सामान्यव्यापारोऽस्ति, विक्षेषस्य सामान्यव्यभिचारात्। सामान्यव्यापार एव ह्यादौ फलार्थिनो बुद्धौ सन्निविशते। तथा हि-- प्रतिपत्ता फळं समीहमानः स्वयमेव फलकामः सन् `स्वर्गो मनसि कर्त्तव्यः'इति सामान्यव्यापारं बुद्धावारोपयति, ततः ` अग्निष्टोमेन स्वर्गकामो यजेत'इति शास्त्रस्याग्निष्टोमेन करणेन स्वर्ग भावयेदितीममर्थ प्रतिपाद्य, स्वर्गभावनां प्रति करणत्वेनाग्निष्टोममाश्रयति। तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादो विशेषव्यापारोऽग्निष्टोमाख्यो यागः स्वर्गाभावनायां करणं भवति। ननु चानुष्ठीयमानः कर्मत्वमनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते, यथा -- `निपीयमानेन मधुना मत्तः' इत्यत्र कर्मभावमनुभवतोऽपि मधुनः करणभावो भवति। तदेवमग्निष्टोमयाजीत्यस्यायमर्थः-- अग्निष्टोमेन करणेन स्वर्ग भावितवानिति। स्वर्गशब्दस्तु वृत्तादन्तर्हितत्वान्न प्रयुज्यते।।
86. कर्मणि हनः। (3.2.86)
`पितृव्यघाती' इति। `हनस्तोऽचिण्णलोः' (7.3.32) इति तत्वम्। `हो हन्तेर्ञ्णिन्नेषु' (7.3.54) इति घत्वम्, `सौ च' (6.4.13) इति दीर्घत्वम्। `कुत्सितग्रहणं कर्त्तव्यम्'इति प्रत्ययर्थस्य विशेषणम्। गृह्यतेऽनेनेति ग्रहणम्। तत् पुनर्व्याख्यानम्। एतदुक्तं भवति-- येन कुत्सितः कर्त्ता प्रत्ययार्थो गृह्यते तद्व्याख्यानं कर्त्तव्यमिति। तत्रेदं व्याख्यानम्-- वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कर्त्ता कुत्स्यते, तत्रव, नान्यत्र।।
87. ब्रह्मभ्रूणवृत्रेषु क्विप्। (3.2.87)
`ब्रह्महः'इति। पूर्ववद्दीर्घत्वम्।
`सर्वधातुभ्यः क्विब्विहित एव' इति। `क्विप् च' (3.2.76) इत्यनेन। `चतुर्विधश्चात्र नियमः' इति। धातुनियः, उपपदनियमः, प्रत्ययनियमः, कालनियमः। चकारोऽवधारणे -- चतुर्विध एव। `ब्रह्मादिष्वेव हन्तेर्नान्यस्मिन्नुपपदे'इति धातुनियमं दर्शयति। अत एव यतएवकारकरणं ततोऽन्यत्रावधारणमिति। उपपदेभ्यः पर एवकारः प्रयुज्यमानो हन्तिं नियमयति। प्रायिकश्चायं नियमः, क्वचिदन्यस्मिन्नुपपदे दृश्यते-- मधुहेतु। प्रायिकत्वञ्च तस्य वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते। `ब्रह्मादिषु हन्तेरेव नान्यस्मात्' इति उपपदनियमः। अत्र हि हन्तेः एकारः श्रूयमाण उपपदं नियमयति-- ब्रह्मादिषु हन्तेर्भूते क्विबेव। `नान्यः प्रत्ययः' इति कालनियमः। ब्रह्माद्युपपदे हन्तेः क्विपि विहिते भूतकालस्य नियमितत्वात्। यदि ब्रह्मादिषु क्विबेव नान्यः प्रत्ययः इति, तदा निष्ठापि न प्राप्नोति-- ब्रह्माणं हतवानिति ? नैष दोषः; `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्'(व्या.प.10) इत्यणादय एव बाध्यन्ते, न निष्ठा। एवमपीह वृत्रस्याहन्तुरिति तृज् न प्राप्नोति ? प्रायिकत्वान्नियमस्य न दोषः। `तथा भूतकाल एव नान्यस्मिन्' इति प्रत्ययनियमः, भूतकाले प्रत्ययो नियम्यत इति कृत्वा। कथं पुनरेकदा चत्वारो नियमा लभ्यन्त इत्याह-- `तदेतत्'इत्यादि। `बहुलं छन्दसि' (3.2.88) इति वक्ष्यमाणं बहुलग्रहणं पुरस्तादपकृव्यानेन योगेन सम्बध्यते-- ब्रह्मभ्रूणवृत्रेषु क्विब्बहुलमिति, तेनायं चतुर्विधो नियमो लभ्यते।।
88. बहुलं छन्दसि। (3.2.88)
89. सुकर्मपापमन्त्रपुण्येषु कृञः। (3.2.89)
`सुशब्दं वर्जयित्वा'इति। तस्यासत्त्ववचनात् कर्मत्वानुपपत्तेः। `स्वादिषु कर्मसु' इति। बाहुल्यमाश्रित्योक्तम्, यथा-- `ब्राह्मणग्रामः, भट्टग्रामः' इति। कुत एतत् ? सुशब्दं वर्जयित्वेत्यनन्तराणामेवाभिधानात्।
`त्रिविधश्चात्र नियमः' इति। एतदपि बहुलग्रहणानुवृत्तेर्लभ्यते। `कालोपपदप्रत्यय{नियमः-काशिका}विषयः' इति। कालोपपदप्रत्यया विषया यस्य स तथोक्तः। स पुनः कालनियमः, उपपदनियमः, प्रत्ययनियमश्चेति। तत्र कालनियमः--स्वादिषु कृञो भूत एव क्विबेव बवति, नान्यः प्रत्यय इति; न भवति-- कर्म कृतवान् कर्मकार इति। उपपदनियमः--स्वादिषु कृञ एव, नान्यस्माद्धातोरिति; न हि भवति क्विप्-- मन्त्रमधीतवानिति, अणेव भवति मन्त्राध्याय इति। प्रत्ययनियमः-- स्वादिषु कृञो भूत एव क्विप्, न वर्त्तमाने, भविष्यति् वा, तेन मन्त्रं करोति, मन्त्रं करिष्यतीति वेत्यर्थविवक्षायां मन्त्रकृदिति न भवति। `शास्त्रकृत्' इति। `क्विप् च' (3.2.76) इति क्विप्।।
90. सोमे सुञः। (3.2.90)
`धातुकालोपपदप्रत्यय विषयः'इति। पूर्ववद्बहुव्रीहिः। कालादिनियमोऽन्यपदार्थः। तत्र कालनियमः-- सोमे सुनोतेः क्विबेव भूते, नान्यः प्रत्ययः; न हि-- सोमं सुतवान् सोमसाव इति। धातुनियमः--सोम एव सुनोतेः क्विप्, नान्यस्मिन्नुपपद इति;इह न भवति--सुरां सुतवान् सुरासुदिति। उपपनियमः--सोमे सुनोतेरेव, नान्यस्माद्धातोरितित;इह न भवति क्विप्-- सोमं क्रीतवानिति , सोमक्राय इत्यणेव तु भवति। प्रत्ययनियमः-- सोमे सुनोतेर्भूत एव क्विप्, नान्यत्रेति;तेन सोमं सुनोति, सोष्यति वेत्यर्थविवक्षायां सोमसुदिति न भवति।।
91. अग्नौ चेः। (3.2.91)
`अत्रापि पूर्ववत्'इत्यादि। तत्र कालनियमः-- अग्नौ चिनोतेर्भूते क्विबव, नान्य इति; तेनाग्निं चितवानित्यर्थविवक्षायामग्निचाय इति न भवति। धातुनियमः-- अग्नावेव चिनोतेर्नान्यस्मिन्नुपपद इति; तेनेष्टकाचिदितति न भवति। उपपदनियमः-- अग्नौ चिनोतेरेव नान्यस्माद्धातोरिति; तेनाग्निकृदिति न भवति। प्रत्ययनियमः-- अग्नौ चिनोतेर्भूत एव क्विप्, नान्यस्मिन् काले; तेन वर्त्तमानभविष्यतोरग्निचिदिति न भवति।।
92. कर्मण्यग्न्याख्यायाम्। (3.2.92)
`कर्मणि हनः' (3.2.86) इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवर्त्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह-- `कर्मण्येव कारके' इति। `धातूपपद' इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति।
`आख्याग्रहणं रूढिसम्प्रत्ययार्थम्' इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते-- कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह-- `अग्न्यर्थो हि' इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते ? यस्य ग्रहणं क्रियते, तस्मिंश्च सति प्रसिद्धो गृह्यमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः।।
94. कर्मणीनिर्विक्रियः। (3.2.93)
`कर्मणीति वर्त्तमाने' इत्यादि। `कर्मणिहनः' (3.2.86) इत्यतः। `पुनः कर्मग्रहणम्' इत्यादि। यत् कर्म क्रियासम्बन्धमनुभवत् कर्त्तुः कुत्सामावहति,तत् कुत्सानिमित्तं कर्म यथा स्यादित्येवमर्थम्। कर्मग्रहणेऽनुवर्त्तमाने पुनः कर्मग्रहणमनन्तरसूत्रे यत् कर्मप्रत्ययार्थत्वेऽनिष्टं कर्मग्रहणं तन्निवृत्त्यर्थम्। कर्मग्रहणं कस्मान्न भवति ? तस्य स्वरितत्वादेवानुवृत्तेः। `सोमविक्रयी' इति। सोमविक्रयणं शास्त्रे प्रतिषिध्यत इति सोमाख्यं कर्म विक्रयणक्रियया सम्बध्यमानं विक्रेतुः कुत्सामावहति। `धान्यविक्रायः' इति। `कर्मण्यण्' (3.2.1)।।
94. दृशेः क्वनिप्। (3.2.94)
`प्रत्ययान्तरनिवृत्यर्थम्' इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव-- परलोकं दृष्टवानिति। अत्र च कारणं `ब्रह्मभ्रूण' (3.2.87) सूत्र एव उक्तम्।।
95. राजनि युधिकृञः। (3.2.95)
ननु च युधिरयमकर्मकः, तत्कथं तस्य कर्मणीत्युपपद्यत इत्यभिप्रायेणाह--`अन्तर्भावितण्यर्थः' इत्यादि। अन्तर्भावितः = तनुप्रवेशितो ण्यर्थो यस्मिन्निति बहुव्रीहिः। राजा युध्यते, तं प्रयुङ्क्ते पुरुषो योद्धुं वेति। तत्रासौ पुरुषस्य व्यापारः प्रेषणादिकोऽर्थो ण्यर्थो यदा बुद्ध्या युध्यतेरन्तर्भाव्यते, तदासौ प्रयोज्यकर्मणा सकर्मको भवति। `योधितवान्' इति। ण्यन्तस्य प्रयोगः। `निष्ठायां सेटि' (6.4.52) इति णिलोपः।।
95. सहे च। (3.2.95)
`असत्त्ववाचित्वान्नोपपदं कर्मणा विशेष्यते'इति। तदर्थस्य कर्मत्वानुपपत्तेः।।
97. सप्तम्यां जनेर्डः। (3.2.97)
सप्तमीति प्रत्ययग्रहणम्।तत्र प्रत्ययग्रहणपरिभाषया तदन्तस्य ग्रहणं भवतीत्याह-- `सप्तम्यन्त उपपदे' इति। स्वरूपग्रहणमत एव न भवति। `उपसरजः' इति। डित्करणसामर्थ्यादभसंज्ञकस्यापि टिलोपः। `मन्दुरजः' इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' (6.3.63) इति ह्रस्वः।।
98. पञ्चम्यामजातौ। (3.2.98)
`बुद्धिजः' इति। `जनिकृर्त्तुः प्रकृतिः' (1.4.30) इति बुद्धेरपादानत्वादपादाने पञ्चमी।, तदस्योपपदत्वम्। बुद्ध्यादिशब्दा जातिशब्दा न भवन्ति; बुद्ध्यादीनामात्मगुणत्वात्।।
99. उपसर्गे च संज्ञायाम्। (3.2.99)
`समुदायोपाधिः'इति। धातूपसर्गप्रत्ययसमुदायेन यदि संज्ञा गम्यत इएवं प्रत्ययार्थो भवति, नान्यथेति दर्शयति-- `{प्रजाः- काशिका} प्रजाः' इति। प्राणिसमुदायस्यैषा संज्ञेति। यद्यस्य सूत्रस्य प्रजेत्येतदेवोदाहरणम्, तदा `प्रे जनः संज्ञायाम्'इति वक्तव्ये प्रजेति सिध्यत्येव, किमुपसर्गग्रहणेन ? उपसर्गग्रहणमुत्तरार्थम्; `अनौ कर्मणि'(3.2.100) इत्युपसर्गे यथा स्यात्, कर्मप्रवचीये मा भूत्। अथानन्त्यस्य प्रयोगविषयस्यान्यस्मिन्नुपपदे कदाचित् प्रत्ययो दृश्यते यदि, तदैतदर्थमपि।।
100. अनौ कर्मणि। (3.2.100)
`अनुपूर्वाज्जनेः' इत्यादि। अथानुशब्दस्योपपदत्वं कस्मान्न भवति ? यतो न भवति स हेतुः `उदि कूलेरुजिवहोः' (3.2.31) इत्यत्र व्याख्यात इति पुनर्नाख्यायते। `पुममुजः' इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो (8.2.23) भवति।।
101. अन्येष्वपि दृश्यते। (3.2.101)
`अपिशब्दः' इत्यादि। सर्व उपाधय उपपदादयः, तेषां व्यभिचारो यथा स्यादित्येवमर्थोऽपिशब्दः। `धात्वन्तरादपि'इति। `खनु अवदारणे'(धा.पा.878) इत्येतस्मात्। `कारकान्तरेऽपि' इति। कर्त्तुरन्यस्मिन् कारके कर्मणि।।
102. निष्ठा। (3.2.102)
`कृतम्' इति। अत्र कित्त्वाद् गुणाभावः। `कृतवान्' इति। `उगिदचाम्' (7.1.70) इति नुम्। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः, हल्ङ्यादि (6.1.68) संयोगान्तलोपौ (8.2.23)।
`निष्ठायाम्' इत्यादि। निष्ठासंज्ञके प्रत्यये विधातव्येऽप्रसिद्धनिष्पत्तिकस्य निष्ठासंज्ञकस्य प्रत्ययस्य निष्ठेति चास्याः संज्ञाया अप्रसिद्धिः, कुतः ? इतरेतराश्रयत्वात्। कथमितरेतराश्रयत्वमित्याह-- `संज्ञायाम्' इत्यादि। निष्ठेत्येवं संज्ञामुच्चार्य क्तक्तवत्वोरिह भूते विधानम्, विद्यमानयोश्च तयोः संज्ञया भवितव्यमितीतरेतराश्रयत्वम्, `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते'(व्या.प.28)। यदितो क्तक्तवतू स्वरूपेण विज्ञातौ भवत एवञ्च `क्तक्तवतू निष्ठा' (1.1.26) इत्यन्यस्य संज्ञा विधातुं शक्यते,नान्यथा। अतः संज्ञाया अप्रसिद्धिः, तस्याश्चाप्रसिद्धौ तयोरप्रसिद्धिः। `भाविनी' इति। भविष्यन्तीत्यर्थः। यथा-- अस्य सूत्रस्य शाटकं वयेति। भाविनीशब्दोऽयम् `गमेरिनिः'(द.उ.6.57) `आङि णित्' (द.उ.6.58) `भुवश्च' (द.उ.6.59) इतीनिप्रत्ययान्तो व्यत्पादितः। स च `भविष्यति गम्यादयः' (3.3.3) इति भविष्यत्काले विहितः। तेन भाविनीत्यस्य भविष्यन्तीत्येवार्थो लभ्यते। `सामर्थ्यात्' इत्यादि। स भूते भवति यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। न चान्यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। अपि तु क्तक्तवत्वोरेवेति सामर्थ्यम्।
`आदिकर्मणि' इत्यादि। कर्मशब्दोऽत्र क्रियावाची। आदिभूते क्रियारम्भादिभूते प्रथमे क्रियालक्षण इत्यर्थः। यावत्क्रियालक्षणैः सकलः कटः परिसमाप्तिमुपैति क्रियालक्षणानां तावतामपवर्गे भूतकालो भवति। आद्ये क्रियालक्षणे समुदायस्यापरिनिष्पन्नत्वात् वर्त्तमानकाल एवेति। तत्र वर्त्तमाने निष्ठा न प्राप्नोति, अतो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम्-- यदयं `उदुपधाद्भावादिकर्मणोरन्यतरस्याम्' (1.2.21) इत्यादिकर्मणि कर्मणि निष्ठा विकल्पयति। यद्वा-- `आदिकर्मणि क्तः कर्त्तरि च' (3.4.71) इत्यादि, तज्ज्ञापयति-- आदिकर्मणि निष्ठा भवतीति। `प्रकृतः कटम्' इति। प्रशब्दोऽत्रादिकर्म द्योतयति। य एवार्थः प्रकरोति कटं देवदत्त इति, स एवार्थः प्रकृतः कटं देवदत्त इति।।
103. सुयजोर्ङ्वनिप्। (3.2.103
`सुत्वा' इति। `ह्रस्वस्य पिति कृति' (6.1.71) इति तुक्, `सर्वनामस्थाने च' (6.4.8) इत्यादिना दीर्घः, `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नकारलोपः।।
104. जीर्यतेरतृन्। (3.2.104)
`जरन्' इति। अतृनो नित्त्वादाद्युदात्तत्वं भवति। `उगिदचाम्' (7.1.70) इति नुम्।।
105. छन्दसि लिट्। (3.2.105)
`ददर्श' इति। दर्शर्लिट, णल्, द्विर्वचनम्, `उरत्' (7.4.66) इत्यत्त्म्, रपरत्वम्, हलादिशेषः (7.4.60), लघूपधगुणः (7.3.86)। `आततान' इति। `तनु विस्तारे' (धा.पा.1463) आङपूर्वः, `अत उपधायाः' (7.2.116) इति वृद्धिः। `धातुसम्बन्धे स विधिः' इति। `धातुसम्बन्धे प्रत्ययाः' (3.4.1) इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। `अयं त्वविशेषणेण' इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। `लः कानज्वा' इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः।।
106. लिटः कानज्वा। (3.2.106)
कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः `बन्ध बन्धने' (धा.पा.1508) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः `असंयोगाल्लिट् कित्' (1.2.5) इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह-- `छन्दस्युभयथा' (3.4.117) इति लिटः सार्वधातुकत्वात् `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं `ऋच्छत्यृताम्'(7.4.11) इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति-- निपपरतुः, निपपरुरिति;तथेहापि स्यात्-- निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। `पृ पालन पूरणयोः' (धा.पा.1086), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, रपरत्वञ्चेति। `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्कुप्वादिना (8.4.2) णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। `चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य `विभाषा चेः' (7.3.58) इति कुत्वम्, `एरनेकाचः' (6.4.82) इत्यादिना यणादेशः। `सुषुवाणः' इति। `{सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; `अचि श्नुधातु' (6.4.77) इत्यादिनोवङादेशः, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। `विभक्तिविपरिणामो भविष्यति' इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठ्यन्तता भविष्यति।तस्मादन्तरेणापि लिड्ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्ग्रहणं न कर्त्तव्यमिति भावः। `योऽपि' इत्यादि। योऽपि `परोक्षे लिट्' (3.2.115) इत्यनेनलिड्विहितस्तस्यापि लिड्ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् `अनन्तरस्य विधिर्वा प्रतिषेधो वा' (व्या.प.19) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते ? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि `न लोकाव्ययनिष्ठाखलर्थतृनाम्' (2.3.69) इति षष्ठीप्रतिषेधो न स्यात्। ततश्चाग्निं चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्।।।
107. क्वसुश्च। (3.2.107)
क्वसोरुगित्करणं नुमर्थम्। कित्करणं कानच इव द्रष्टव्यम्। असति हि तस्मिन् `ऋच्छत्यृनाम्'(7.4.11) इति यथेह गुणो न भवति-- तेरतुः, तेरुरिति; तथेहापि ततीर्वानिति। `तृ प्लवनतरणयोः' (धा.पा.969), `ऋत इद्धातोः' (7.1.10) इतीत्त्वम्, `हलि च' (8.2.77) इति दीर्घः, द्विरवचनमभ्यासकार्यम्। `जक्षिवान्' इति। `लिट्यन्यतरस्याम्' (2.4.40) इत्यदेर्घस्लादेशः। `वस्वेकाजाद्धसाम्' (7.2.67) इतीट्, `घसिभसोर्हलि च' (6.4.100) इत्युपधालोपः, `खरि च' (8.4.55) इति घकारस्य ककारः, `शासिवसिघसीनाञ्च'(8.3.60) इति षत्वम्, `कुहोश्चुः' (7.4.62) इत्यभ्यासस्य चुत्वम्---झकारः, `अभ्यासे चर्च' (8.4.54) इति झकारस्य जकारः। `पपिवान्' इति। `पा पाने' (धा.पा.925)। पूर्ववदिट्। `आतो लोप इटि च' (6.4.64) इत्यकारलोपः। `योगविभाग उत्तरार्थः' इति। उत्तरसूत्रे क्वसोरेवानुवृत्तिर्यथा स्यात्, कानचो मा भूत्।।
108. भाषायां सदवश्रुवः। (3.2.108)
ननु चेह प्रकरणे भूतसामान्ये लिड् विहितः, तेनासौ भाषायां नास्त्येव, तदसतस्तस्य कथं क्तसुरादेशः शक्यते विज्ञातुमित्याह-- `आदेशविधानादेव' इत्यादि। यदेतद्भाषायां लिटः क्वसोरादेशविधानमत एव विज्ञानाद् भूतसामान्ये भाषायां लिडित्वनुमीयते; अन्यथा ह्यादेशविधानमनर्थकं स्यात्। न ह्यविद्यमानस्य स्थानिन आदेश उपपद्यते। यदि तर्ह्यादेशविधानाल्लिड् भाषायामनुमीयते, ततश्च सदादिभ्यो भाषायां नित्यं लिट् प्राप्नोति, तस्य `विभाषा क्वसुः' इति पक्षे तिङः श्रवणं प्रसज्येत, लुङादेशश्च स्वविषये पाक्षिको न स्यात्, नित्यत्वाल्लिटः ? नैष दोषः;आदेशेन हि लिङ्गेन लिडनुमीयते, तेन यदादेशो नास्ति तदा तदनुमानमपि नास्त्येव। तदसत्त्वे लिटः कुत आदेशा येषां श्रवणं प्रसज्येत ! यत्र पक्षे लिट् नास्ति तत्र स्वविषये लुङादयो भवन्तः केन निवार्यन्ते ! `उपसेदिवान्' इति। `षद्लृ विशरणे' (धा.पा.854)। `अत एकहल्मध्ये' (6.4.120) इत्यादिनैत्वाभ्यासलोपौ, `वस्वेकाजाद्धसाम्' (7.2.67) इतीट्, नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः, हल्ङ्यादि (6.1.68) संयोगान्तलोपौ (8.2.23)। `उपासदत्' इति। वाग्रहणाद्यस्मिन् पक्षे लिड् नास्ति तस्मिन् पक्षे भूतसामान्ये लुङ्, तिप्, `इतश्च' (3.4.100) इतीकारलोपः, पुषादिना (3.1.55) च्लेरङ्। `उपासीदत्' इति। `अनद्यतने लङ्' (3.2.111), प्राघ्रादिसूत्रेण (7.3.78) सीदादेशः। `उपससाद' इति। `परोक्षे लिट्' (3.2.115), तिप्, णल्, `अत उपधायाः' (7.2.116) इति वृद्धिः। `अनूविषान्' इति। `वस निवासे' (धा.पा.1005), लिटः क्वसूर्द्विर्वचनम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इत्यभ्यासस्य सम्प्रसारणम्, `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्, `अकः सवर्णे दीर्घः' (6.1.101) अनुशब्देन सह पुनर्दीर्घः। `अन्ववात्सीत्'इति। लुङ्, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, `एकाचः' (7.2.10) इतीट्प्रतिषेधः, `सः स्यार्द्धधातुके' (7.4.49) इति तत्वम्, `वदव्रज' (7.2.3) इत्यादिना वृद्धिः। `अन्ववसत्' इति। लङ्। `अनूवास' इति। लिट, पूर्ववत् सम्प्रसारणादिकार्यम्। `उपशुश्रुवान्' इति। `श्रु श्रवणे' (धा.पा.942), लिटः क्वसुः, द्विर्वचनम्। `उपाश्रौषीत्' इति। लुङ् `सिचि वृद्धिः परस्मैपदेषु' (7.2.1) इति वृद्धिः, पूर्ववदिट्प्रतिषेधः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, उपसर्गेण `अकः सवर्णे दीर्घः' (6.1.101)। `उपाशृणोत्' इति। लङ्, `श्रुवः शृ च' (3.1.74) इति श्नुप्रत्ययः, शृभावश्च, `सार्वधातुकार्थधातुकयोः' (7.3.84) इति गुणः। `उपशुश्राव' इति। लिट्, तिप्, णल्, `अचो ञ्णिति' (7.2.115) इति वृद्धिः, आवादेशः। इहानेन सूत्रेण यत्कार्यं विधीयते तद्भूतसामान्ये। `{इयं पंक्तिर्मुद्रिते नास्ति} लुङ्' (3.2.110) इत्यनेन लुङ्। `अनद्यतने लुङ्' (3.2.111) इत्यनेन लङ्, `परोक्षे लिट्' (3.2.115) इत्यनेन लिट्, भूतानद्यतनपरोक्षे परौ च लङिलिटौ भवतः। विशेषविहितत्वाच्च लङलिटोरस्य सदादिकार्यस्य बाधकौ प्राप्नुतः। तस्य कार्यस्य भूतसामान्यमवकाशः; लङलिटोः सदादिभ्योऽन्येभ्यो धातुभ्यः, सदादिभ्यो भूतविशेषे भूतानद्यतनपरोक्षे; भूतानद्यतने चोभयप्राप्तौ यथोक्तकारणद्वयात् लङलिटौ स्याताम्।
न चैतत् सूत्रविहितं कार्यमपीति यश्चोदयेत्, तं प्रत्याह-- `लुङलङविषयेऽपि' इत्यादि। लिड्ग्रहणस्य वाग्रहणस्य चास्य सूत्रस्य पुरस्तात् `अनद्यतने लङ' (3.2.111) , `परोक्षे लिट्' (3.2.115) इत्यत्र चानुवृत्तिः क्रियते। तत्र चानुवृत्तिसामर्थ्यात् लङ्यप्येतत् भवति। अत्रैवं सम्बन्धः कर्त्तव्यः-- अनद्यतने लङ भवति, सदादिभ्यो वा लिट्, लिटश्च क्वसुरादेशो नित्यमिति। परोक्षे लिड् भवति, सदादिभ्यो वा, लिटः क्वसुरिष्यते, सूत्रान्तरविहितश्चायम्।।
109. उपेयिवाननाश्वाननूचानश्च। (3.2.109)
`उपपूर्वादिणः क्वसुः' इति। लिडादेश इति वेदितव्यः। `अभ्यासदीर्घत्वम्' इति। `दीर्घ इणः किति' (7.4.69) इत्यनेन। `तत्सामर्थ्यात्' इत्यादि। दीर्घत्वविधानसामर्थ्यादकः सवर्णे दीर्घ्तवमेकादेशः प्रतिषिध्यते, प्रवृत्तिविघातोऽस्य क्रियत इत्यर्थः। यदि ह्येकादेशः स्यात्, दीर्घत्वभिधानमनर्थकं स्यात्; एकादेशेनैव दीर्घत्वसिद्धेः। ननु चाभ्यासदीर्घस्येयतुः, इयुरित्ययमवकाशः स्यात्-- यत्र धातुरूपस्य `इणो यण्' (6.4.81) इति यणादेशः क्रियते ? नैषोऽस्यावकाशः, अत्र हि `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावेन भवितव्यम्। कथम् ? सवर्णदीर्घत्वे हि पूर्वापरविधितवात् पूर्वविधिरिति शक्यते व्यपदेष्टुम्। यो ह्युभयस्थानी निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। न चात्र `न पदान्त' (1.1.58) इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव' (काशिका.1.1.58) इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव' (काशिका.1.1.58) इति स्थानिवद्भावादकः सवर्णे दीर्घत्वेनात्र भवितव्यम्। तदेतदभ्यासदीर्घत्वमनवकाशत्वात् सवर्णदीर्घत्वं बाधत इति स्थितमेतत्-- सामर्थ्यादेकादेशः प्रतिषिध्यत इति। `तत्र' इत्यादि। एकादेशप्रतिबन्धके हि सत्यनेकाच्त्वं भवति, तेन `वस्वेकाजाद्घसाम्' (7.2.67) इत्यनेनेडागमो न प्राप्नोतीति स निपात्यते। `धातुरूपकस्य यणादेशः' इति। `इणो यण्' (6.4.81) इत्यनेन, तर्दीदं निपातनमेव। सत्यजादावपि परतो वसोः सम्प्रासरणमिति। सम्प्रसारणे कृते सतीट् प्राप्नोति स `वस्वेकाजाद्घसाम्' (7.2.67) इति प्रतिषिद्धः, स एवानेन निपातनन प्रतिप्रसूयते। प्रतिषिद्धः स पुनः प्रवर्त्तते, न त्वपूर्व विधीयते। `तेनाजादौ न भवति' इति। अपिपूर्वस्य हि विधानेन विशेषानुपादानादजादावपि प्रसङ्गः स्यात्; न तु लक्षणप्रतिषेधस्येटः प्रसवे; तस्य वलादित्वात्। `उपेयुषा' इति। सम्प्रसारणे कृते धातोर्यणादेशः, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। `न चात्रोपसर्गस्तन्त्रम्' इति। उपस्र्गोऽत्र न प्रधानमित्यर्थः। तन्त्रत्वं तस्य `बहुलं छन्दसि' (3.2.88) इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। `उपागात्' इति। लुङ, `इणो गा लुङि' (2.4.45) इति गादेशः। `गातिस्था'( 2.4.77) इत्यादिना सिचो लुक्। `उपैत्' इति। लङ, तिप्, अदादित्वाच्छपो लुक्, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः। `उपेयाय'इति। लिट्, तिप्, णल्, `अचो ञ्णिति' (7.2.115) इति वृद्धिः, आयादेशः, स्थानिवद्भावादद्विर्वचनमिकारस्येति; `अभ्यासस्यासवर्णे'(6.4.78) इतीयङ, इकारेण सह `आद्गुणः' (6.1.87)। `अनाश्वान्' इति। `अश भोजने' (धा.पा.1523) लिट्, क्वसुः, द्विर्वचनम्, `अश'इत्यस्य `अत आदेः' (7.4.70) इत्यभ्यासस्य दीर्घत्वम्, इडभावश्च,`वस्वेकाजाद्धसाम्' (7.2.67) इत्यनेन प्राप्तस्येटोऽभावो निपात्यते। न आश्वान् अनाश्वान्-- नञ्समासः, `नलोपो नञः' (6.3.73) इति नलोपः;`तस्मान्नुडचि' (6.3.74) इति नुडागमः। `नाशीत्' इति। लुङ, `च्लेः सिच्' (3.1.44), `इट ईटि' (8.2.28) इति सिचो लोपः, पूर्ववदाट्, वृद्धिः, नञा सह सवर्णदीर्घत्वम्। `नाश्नात्' इति। लङ्, क्र्यादित्वात् श्ना, आडागमः। `नाश' इति। लिट्, तिप्,णल्, द्विर्वचनम्, पूर्ववदभ्यासदीर्घत्वम्, धातुना नञा सहाकः सवर्णे दीर्घत्वम्।
`वचेः'इत्यादि। `वच परिभाषणे' (धा.पा.1063)-- इत्यस्मात् `ब्रुवो वचिः'(2.4.53) इति वच्यादेशाद्वा वचेरनुपूर्वात्, कानच् कर्त्तर्यात्मनेपदसंज्ञको न प्राप्नोति;परस्मैपदित्वात्, इतरस्मात् कर्त्त्रभिप्रायफलस्य विवक्षितत्वात्, अतः स निपात्यते। वच्यादिसूत्रेण (6.1.15) धातोः सम्प्रसारणम्, `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इत्यभ्यासस्य पश्चादनुशब्देन सहाकः सवर्णे दीर्घत्वम्। `अन्ववोचत्' (6.1.87)। `अन्वब्रवीत्' इति। ब्रुवो लङ,शपो लुक्, `ब्रुव ईट्' (7.3.93)। `अनूवाच' इति। लिट्, णल्, `अत उपधायाः' (7.2.116) इति वृद्धिः, पूर्ववदभ्यासस्य सम्प्रासरमेकादेशः।।
110. लुङ्। (3.2.110)
ङकारः `नित्यं ङितः' (3.4.99) इति विशेषणार्थः। उकारः `लुङलङलृङक्ष्वडुदात्तः'(6.4.71) इति विशेषणार्थः। भूतसामान्ये चायं लुङ वेदितव्यः; भूतविशेषणेऽनद्यतन्यां लङलिटोर्विधानात्। `अकार्षीत्' इति। `सिचि वृद्धिः परस्मैपदेषु' (7.2.1) इति वृद्धिः; पूर्ववदीट्।
`वसतेः' इत्यादि। `वस निवासे' (धा.पा.1005) इत्यस्मादनद्यतने लङि प्राप्ते लुङ वक्तव्यः। दिवसः सकलोऽतिक्रान्ताया रात्रेश्चतुर्थो याम आगामिन्याश्च प्रथमो यामः-- इत्येषोऽनद्यतनः कालः। तत्र रात्रिविशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्थितः क्व भवानुषितः ? इति केनचित् पृष्टः कश्चित्, स तस्मिन् रात्रविशेषे दिवा वा प्रतिवचनं प्रयच्छन् लुङं प्रयुङ्क्ते-- `अहमत्रावात्सम्' इति। स च न प्राप्नोति; यस्मादसौ ततो रात्रिशेषात् पूर्वभागं प्रहरत्रयलक्षमधिशयितः, सोऽस्यानद्यतनकालः, ततश्चानद्यतने लङ स्यात्; तसमाल्लुङ् वक्तव्यः = व्याख्येयः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित्य कर्त्तव्यम्। `जागरणसन्ततौ' इति। यद्यसौ रात्रिशेषं सकलं सन्तत्याऽविच्छेदेन जागरितवानेवं लुङ् भवति। मुहूर्त्तमपि यद्यस्मिन् रात्रिविशेषे शयितवांस्ततो लङेव-- आहमत्रावसमिति। `अवात्सम्' इति। लुङ्, मिप्, `तस्थस्थ' (3.4.101) इत्यादिनाम्भावः, `वदव्रज' (7.2.3) इत्यादिना वृद्धिः; `सः स्यार्धधातुके'(7.4.49) इति सकारस्य तत्वम्।।
111. अनद्यतने लङ्। (3.2.111)
`अनद्यतने' इति। यद्ययं तत्पुरुषः स्यात् तदा पर्युदासो वा स्यात्, प्रसज्यप्रतिषेधो वा। तदा पूर्वस्मिन् पक्षेऽद्यतनाद्योऽन्यस्तस्मिन् भवितव्यम्। एवञ्च `अद्य ह्यो वाभुक्ष्मिहि' इत्यत्राप्यद्यतनव्यामिश्रे प्राप्नोति। अस्ति ह्यद्यतनानद्यतनसमुदायोऽनद्यतनादन्यः, इतरस्त्वद्यतने न भवतीत्येषोऽर्थो जायते, ततश्च भूतसामान्ये स्यात्। अनद्यतन इति अद्यतनभूतविशेषे प्रतिषेधः,न भूतसामान्ये। न हि भूतसामान्यं भूतविशेषः, तस्मात् तत्पुरुषपक्षो दोषवानिति मत्वाऽऽह-- `अनद्यतन इति बहुव्रीहिनिर्देशः' इति। अविद्यमानोऽद्यतनो यस्मिन्निति सोऽनद्यतनभूतधात्वर्थः, अत्र वर्त्तमानाल्लङ भवति, न त्वद्यतनानद्यतनसमुदाये, तत्राद्यतनैकदेशस्य सद्भावात्। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः; तस्यान्तर्भूतविशेषत्वात्। यत्राद्यतनगन्धोऽप्यस्ति तत्र लङा न भवितव्यमित्येषोऽर्थो बुहव्रीहौ सति लभ्यते। यदि तर्हि बहुव्रीहिरयम्, एवं सत्यद्यतनेऽपि प्राप्नोति, न ह्यद्यतने द्वितीयोऽद्यतनोऽस्ति ? नैतदेवम्; अद्यतनसामान्ये मुहूर्त्तादेरद्यतनविशेषस्य विद्यमानत्वात्। तस्मादद्यतनोऽविद्यमानाद्यतन इति न शक्यते वक्तुम्।
`अद्य ह्यो वा भुक्ष्महि' इति। लुङ्, `भुजोऽनवने' (1.3.66) इत्यात्मनेपदम्, महिङ्, `लिङसिचोरात्मनेपदेषु'(7.2.42) इति सिचः कित्त्वाद्गुणाभावः। `चोः कुः' (8.2.30) इति कुत्वम्-- जकारस्य गकारः, तस्य `खरि च' (8.4.55) इति चर्त्त्वं ककारः,पूर्ववत् षत्वम्।
`परोक्षे च' इत्यादि। परोक्षशब्दो रूढिशब्द इन्द्रियातिक्रान्तेऽर्थे वर्त्तते। परोक्षे लोकविज्ञाते = लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङन्तस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः = व्याख्येयः। व्याख्यानं तु-- तस्यैव बहुलग्रहणमाश्रित्य कर्त्तव्यम्। ननु च विप्रतिषिद्धमिदमुच्यते-- परोक्षेऽर्थे दर्शनविषय इित,परोक्षो ह्यर्थोऽतीन्द्रिय उच्यते, इन्द्रियविषयभावापन्नस्तु दर्शनविषयः, ततो यदि परोक्षः, कथं दर्शनविषयः। यदि दर्शनविषयः कथं परोक्षः ? नैतदस्ति; शक्यदर्शनविषय इत्युक्तम्,अननुभूतत्वात् परोक्ष इत्यविरोधः। अरुणत्'इति। `रुधिर् आवरणे' (धा.पा.1438), रुधादित्वात् श्नम्, तिप्, हल्ङ्यादिना (6.1.68) तिलोपः। साकेतावरोधस्तदानीन्तनप्रयोक्तुर्दर्शनविषयत्वात् लोकप्रसिद्धश्च,कार्यव्यासङ्गदननुभूतत्वात् परोक्षश्च। परोक्ष इति किम् ? उदगादादित्यः । `गातिस्था' (2.4.77) इत्यादिना सिचो लुक्। पूर्ववदादेशादि कार्यम्। लोकविज्ञात इति किम् ? चकार कटं देवदत्तः। प्रयोक्तुर्दर्शनविषय इति किम् ? जघान कंसं किल वासुदेवः। हन्तेः परोक्षे लिट्; द्विर्वचनम्, `अभ्यासाच्च' (7.3.55) इति कुत्वम्-- हकारस्य घकारः। कंसवधश्चिकारालवृत्तत्वादिदानीन्तनप्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङमेव प्रयुक्तवान्--अहन् कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतावरोधतुल्यकालो वेदितव्यः। तस्यैव ह्यसौ दर्शनविषयः,नान्यस्य।।
112. अभिज्ञावचने लृट्। (3.2.112)
`वत्स्यामः' इति। लृट्, मस्, `स्यतासी लृलुटोः' (3.1.33) इति स्य, पूर्ववत् सकारस्य तत्वम्, `अतो दीर्घो यञि' (7.3.101) इति दीर्घः। `वचनग्रहणम्' इत्यादि। असति हि वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्। तस्मिंस्तु यावन्तोऽभिज्ञावचनास्तेषु सर्वेषु भवति।।
113. न यदि। (3.2.113)
`यदि' इति। सती सप्तमीयम्। अभिज्ञावचनञ्चानुवर्त्तते। तेन यत्र यच्छब्दोऽस्ति तत्र नियोगतोऽभिज्ञावचनं तत्सहितं न भवतीत्याह-- `यच्छब्दसहिते'इत्यादि। `अवसाम' इति। वसेर्लङ्, `नित्यं ङितः'(3.4.99) इति सलोपः, पूर्ववद्दीर्घः। `वासमात्रम्'इत्यादिना उत्तरसूत्रस्य नायं विषय इति दर्शयति। यदि हि तत्रापरं लक्षणमपेक्ष्यते तदोत्तरसूत्रे पाक्षिको विधिः स्यात्, स नेष्यते, तस्मान्नापेक्षते।।
114. विभाषा साकाङ्क्षे। (3.2.114)
`उभयत्रविभाषेयम्' इति। प्राप्ते चाप्राप्ते च। असति हि यच्छब्दे ` अभिज्ञावचने लुट्' (3.2.112) इति प्राप्ते, सति यच्छब्दे `न यदि' (3.2.113) इति प्रतिषेधादप्राप्ते। आकाङ्क्षणम् = आकाङ्क्षा,आकाङ्क्षया सह वर्त्तते साकाङ्क्षः। आकाङ्क्षा च सम्बन्धज्ञानमुच्यते, तच्चेतनावतो धर्मः, तस्मात् साकाङ्क्ष इति प्रयोक्तुर्विशेषणं विज्ञायत इत्याह-- `साकाङ्क्षश्चेत् प्रयोक्ता'इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह--`साकाङ्क्षश्चेत प्रयोक्ता' इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह-- `लक्ष्यलक्षणयोः' इत्यादि। तत्र यदि ह्येतदपेक्ष्यत एतदुक्तं भवति-- लक्ष्यलक्षणयोर्यः सम्बन्धस्तद्विषयज्ञानं यदि प्रयोक्तुरुपपन्नं भवति। यदि प्रयोक्ता लक्ष्यलक्षणयोः सम्बन्धमपेक्षत इति यावत्। `भोक्ष्यामहे' इति। भुजः पूर्ववदात्मनेपदम्, स्यप्रत्ययश्च, टेरेत्वम्, `चोः कुः' (8.2.30) इति कुत्वम्-- जकारस्य गकारः, `खरि च' (8.4.55) इति चर्त्वम्-- ककारः, सकारस्य षत्वम्। किं पुनर्लक्ष्यं लक्षणञ्च, ययोः सम्बन्धे प्रयोक्तुराकाङ्क्षेत्याह-- `वासो लक्षणम्'इति। परिज्ञातत्वाल्लक्षणम्, तेन हि जनो लक्ष्यते। `भोजनं तु लक्ष्यम्' इति। अपरिज्ञातत्वात्; न तु लक्षणम्। परिज्ञातं लक्षणमिति भवति, यथा-- अग्नेर्धुम इति।।
115. परोक्षे लिट्। (3.2.115)
`ननु च' इत्यादि। धात्वर्थो हि पूर्वापरीभूतावयवा साध्यमाना क्रिया। यच्च साध्यमानं तदसत्। तच्चासदिन्द्रियाणामविषयः, तेषां सद्विषयत्वात्। यच्चेन्द्रियाणामविषयः तत् परोक्षमिति स एव हि धात्वर्थः परोक्षः, ततः परोक्षग्रहणमनर्थकम्, व्यवच्छेद्याभावादिति भावः।
`सत्यमेतत्' इति। यदनन्तरमुक्तम्। यदि सत्यमेतत् तदा कस्य व्यवच्छेदार्थं परोक्षग्रहणं कृतमित्याह-- `अस्ति तु' इत्यादि। यत्र साध्यानि प्रत्यक्षाणि तत्रानिष्पन्ने क्रियात्मनि धात्वर्थे प्रत्यक्षाभिमानो लोकस्य भवति। ननु च सावधानान्यपि नैव प्रत्यक्षाणि;शक्तिस्वभावत्वात्, शक्तेश्च कार्यानुमेयत्वात्, न ह्यशक्तौ कार्यं करोतीति कार्यकरणे शक्तिरनुमीयते; तत् किमुच्यते साधनानि प्रत्यक्षाणि ? नैष दोषः;`द्रव्याश्रिता हि शक्तयः'इति द्रव्यस्य प्रत्यक्ष्तवादाश्रयधममाश्रितेषु शक्त्यात्मकेषूपचार्याण्येतान्यपि प्रत्यक्षाणीत्युच्यन्ते। अथ वा-- तदपि साधनाश्रयं द्रव्यशक्तिमतोर्भेदस्याविवक्षितत्वात् साधनशब्देनोच्यते; तदनेन परोक्षग्रहणेन प्रत्यक्षाभिमानोऽस्ति, स एव परोक्ष इच्युच्यते-- तदाह-- `स यत्र नास्त' इति। आत्मविषय उत्तमस्य च धात्वर्थस्य परोक्षत्वं नोपपद्यते; तत्साधनानां प्रत्यक्षत्वात्। तत्र लोकस्य प्रत्यक्षत्वात्, ततश्चोत्तमेन सिध्यतीति चोद्यमाशङ्क्याह-- `उत्तमविषये' इत्यादि। आत्मसाध्या हि क्रिया, यत्र चित्तविक्षेपान्नोपपद्यते, तदासौ परोक्षा भवति, तेनोत्तमविषयेऽपि परोक्षभावः। तद्भवत्येव। `विललाप' इति। लपेर्विपूर्वस्योत्तमे णलि रूपम्।
`अत्यन्तापह्नवे' इति। प्रत्यक्षमेतत्। अपह्नवः = अपलापः। स क्चिदत्यन्तो भवति यः सर्वापह्नवः, क्वचिदनत्यन्तो य एकदेशापह्नवः। तत्र योऽत्यन्तः स सर्वापह्नवः, तत्र लिड्वक्तव्य, व्याख्येय इत्यर्थः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित् कर्त्तव्यम्। कश्चित् केनचित् पृष्टः-- `कलिङ्गेषु प्रस्थितोऽसि'इत्यादि। स एवमाह-- `नाहं कलिङ्गान् जगाम्' इति। अत्र केवलं न कलिङ्गविषयस्यापह्नवोऽपि तु गमनस्यापीति विद्यतेऽत्यन्तापह्नवः। यस्तु स्थानमात्रस्यापह्नवो न गमनस्यापि , तदानत्यन्तापह्नवे लङेव भवति-- न हि कलिङ्गेषु प्रत्यतिष्ठ इति। तथा कश्चित् केनचित् पृष्टः दक्षिणापथं प्रविश्य त्वयेदं कार्यं कृतमिति। स एवमाह-- `नाहं दक्षिणापथं प्रविवेश' इति। अत्रापि विद्यतेऽत्यन्तापह्नवः। तथा हि-- न केवलं दक्षिणापथपिषयं कार्यं प्रतिषिध्यते, अपि तु प्रवेशमपि।।
116. हशश्वतोर्लङ च। (3.2.116)
117. प्रश्ने चासन्नकाले। (3.2.117)
`प्रष्टव्यः प्रश्नः' इत्यनेन प्रश्नशब्दं कर्मसाधनं दर्शयति। करणसाधने हि पृच्छ्यतेऽनेनेति शब्दः प्रश्नशब्देनोच्यते। तथा च सति तस्योच्चर्यमाणत्वादात्मलाभस्य सर्वदैवासन्नकाल इत्यासन्नकालग्रहणमनर्थकं स्यात्। भावसाधनेऽप्यर्थान्तरवाचिभ्यो धातुभ्यो न स्यात्। `अगच्छत्'इति। `गम्लृ सृप्लृ गतौ' (धा.पा.982, 983), `इषुगमियां छः' (7.3.77) इति छत्वम्। `इयाज' इति। `लिट्यभ्यासस्योभयेषाम्'(6.1.17) इति सम्प्रसारणम्। `जघान' इति। कंसवधोऽत्र पृच्छमानः। स चेदानीन्तनप्रयोक्तुरपेक्षया विप्रकृष्टकालः। पञ्चवर्षाभ्यन्तरमासन्नकाल इति नैयायिका वर्णयन्ति। पञ्चवर्षातीतस्तु विप्रकृष्ट इति भवति। कंसवधोऽत्र विप्रकृष्टकालः।।
118. लट् स्मे। (3.2.118)
`नडेन स्म पुराधीयते' इति। इङोऽधिपूर्वाल्लट्, `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्, टेरेत्वम्, `सार्वधातुके यक्' (3.1.67), `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। उपसर्गेण सहाकः सवर्णे (6.1.101) दीर्घत्वम्। अथ वा-- कर्त्तर्यात्मनेपदम्, अदादित्वाच्छब्दो लुक्, `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः, धातोरियङ यथायोगं पूर्ववत्।।
119. अपरोक्षे च। (3.2.119)
`ब्रवीति' इति। `ब्रुव ईट्' (7.3.93) । `कथयति' इति। `कथ वाक्यप्रबन्धे' (धा.पा.1851), चुरादावदन्तः, तस्माण्णिच्, `अतो लोपः' (6.4.48) , `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावात् `अत उपधायाः' (7.2.116) इति वृद्धिर्न भवति। अथ किमर्थं पुनरिदमारब्धम् ? पूर्वेण परोक्षे विधानादपरोक्षे न प्राप्नोति, अतस्तत्रापि यथा स्यादित्येवमर्थम्। ननु च पूर्वयोगे परोक्षग्रहणं निवर्तिष्यते, तस्मिन् निवृत्ते पूर्वेणैव परोक्षे चापरोक्षे च भविष्यति ? सत्यमेतत्; चोद्यमपि कश्चिद्विजानीयाद्यदि परोक्षग्रहणं निवृत्तं तत्सम्बद्धमनद्यतनग्रहणमपि निवृत्तमिति, तदन्यथा मा विज्ञायीति पूर्वसूत्रे परोक्षग्रहणमनुवर्त्तते, तस्मिंश्चानुवर्त्तमाने कर्त्तव्यमेतत्, अन्यथा ह्यपरोक्षे न स्यात्।।
120. ननौ पृष्टप्रतिवचने। (3.2.120)
`पृष्टप्रतिवचने' इति। प्रश्नः = पृष्टम्, भावे निष्ठा। पृष्टपूर्वकप्रतिवचनं पृष्टप्रतिवचनम्, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। `अनद्यतने परोक्ष इति निवृत्तम्' इति। अस्वरितत्वात्। `अकार्षीः कटं देवदत्त' इत्येष प्रश्नः। `ननु करोमि भोः'इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्। `अवोचस्तत्र किञ्चिद्देवदत्त'इत्येष प्रश्नः। `ननु करोमि भोः'इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्।
`नन्वकार्षीत्' इति। प्रश्नपूर्वकं प्रतिवचनं न भवतीति लुङेव भवति। ननु च प्रतिवचनं सर्वं प्रश्नपूर्वकमेवु, तदनर्थकं पृष्टग्रहणम्, व्यवच्छेद्याभावात् ? नैतदिष्टम् ;प्रतिवचनशब्दोऽयमस्त्येव पृष्टान्वाख्याने-- यः प्रश्नमन्तरेण न भवति; अस्त्यव्ययीभावे-- वचनं वचनं प्रतिवचनम्, यथार्थे `अव्ययम्' (2.1.6) इति वीप्सायामव्ययीभावः;अस्ति समाधिवचनः-- प्रतिपूर्वस्य वचेः समाधाविति दर्शनात्, तथा हि वक्तारो वदन्ति-- यदननाभिहितं तन्मया प्रयुक्तमिति, परिष्कृतमित्यर्थः; तदेवमनेकार्थे प्रतिवचनशब्द-, यदि पृष्टग्रहणं न क्रियते सर्वेष्वर्थेषु स्यात्। अस्मिंस्तु क्रियमाणे प्रश्नपूर्वो यः प्रतिवचनशब्दः, स एव गृह्यते, नान्य इति न भव्तयानर्थक्यम्।।
121. नन्वोर्विभाषा। 3.2.121)
`नाकर्षम्'इति। पूर्ववदम्भावः।।
122. पुरि लुङ् चास्मे। (3.2.122)
`पुराशब्दे' इति। एतेन पुराशब्द इहोपपदत्वेनोपात्तो न पुरिति दर्शयति। यद्येतदेव, अस्याकारान्तत्वात् पुरीति सप्तम्यन्तो निर्देशो नोपपद्यते ? `आतो धातोः' (6.4.140) इति योगविभागादाकारलोपाददोषः। अथ `पृ पालनपूरणयोः'(धा.पा.1086) इत्येतस्माद्भ्राजादिसूत्रेण (3.2.177) क्विपि विहितः `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वे रपरत्वे च कृते यः पूःशब्द सम्पद्यते तस्येहाप्युपपदत्वेनोपादानमिति कस्मान्न विज्ञायते ? तस्यानद्यतनवृत्त्यसम्भवात्। पुराशब्दस्तु तत्रैव वर्त्तत इति तस्यैव ग्रहणं युक्तम्। `लुङ च' इति चकारेण लडनुकृष्यत इति दर्शयति। `यथाविषयम्' इति। `यथाऽसादृश्ये' (2.1.7) इति वीप्सायामव्ययीभावः। `अन्येऽपि'इति। लङादयः। `वसन्ति' इति। लट्। `अवात्सुः' इति। लुङ, `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुसादेशः, `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, पूर्ववत् सकारस्य तत्वम्। `अवसन्' इति। लङ। `ऊषुः' इति। लिट्, `परस्मैपदानाम्' (3.4.82) इत्यादिना झेर्जुस्, द्विर्वचनम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इत्यभ्यासस्य च; `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्।।
123. वर्त्तमाने लट्। (3.2.123)
`प्रारब्धोऽपरिसमाप्तश्च' इति। प्रारब्धो यः साधयितुं प्रस्तुतः, न च समाप्तिमुपगतः स वर्त्तमान इत्युच्यते। वर्त्तमानग्रहणं धात्वधिकारात् तदर्थस्यैव विशेषणं विज्ञायत इत्याह--- `वर्त्तमाने' इत्यादि। न ह्यधात्वर्थे धातोर्वृत्तिः सम्भवति। लटष्टकारः `टित आत्मनेपदानां टेरे' (3.4.79) इति विशेषणार्थः। अकारः `विदो लटो वा ' (3.4.83) इति विशेषणार्थः; इकारे ह्यच्चारिते लिडादीनां ग्रहणं स्यात्।।
124. लटः शतृशानचावप्रथमासमानाधिकरणे। (3.2.124)
शतृशानचोः शकारौ सार्वधातुकार्थौ। ऋकार उगित्कार्यार्थः। अप्रथमासमानाधिकरण इति पर्युदासोऽयम्। प्रथमाशब्दोऽयं विभक्तिविशेषे सोरौजस्पर्य्नते शास्त्रे रूढः। प्रथमाया अन्या द्वितीयादिका विभक्तिः = अप्रथमा। समानशब्दोऽयं साधारणवचनः, यथा-- देवदत्तयज्ञदत्तौ समानधनावित। अधिकरणशब्दोऽयमभिधेयवचनः समानञ्च तदधिकरणञ्चेति कर्मधारयः। अप्रथमया समानाधिकरणम् = अप्रथमासमानाधिकरणम्। `तृतीया' (2.1.30) इतियोगविभागात् समासः। ततः `यस्य च भावेन भावलक्षणम्' (2.3.37) इति सप्तमी। अप्रथमासमानाधिकरणभावेन शतृशानचोर्भावो लक्ष्यते। अप्रथमेति पर्युदासवृत्त्या द्वितीयादेर्विभक्तेर्ग्रहणम्, तेन प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यतीत्याह-- `अप्रथमान्तेन चेत्' इत्यादि। `तस्य' इति। लटः। सामानाधिकरण्यम्' इति। समानाभिधेयमिति। यदि द्वितीयान्तेन शब्देन सामानाधिकरण्यम् = समानाभिधेयत्वं सम्भवत्येवं शतृशानचौ भवतः, नान्यथेति वाक्यार्थः। एवं विवृम्वताऽप्रथमासमानाधिकरणेऽत्र पर्युदास आश्रितः, न प्रसज्यप्रतिषेध इति दर्श्यते, अन्यथा हि यदि प्रसज्यप्रतिषेध आश्रितः स्यात् प्रथमान्तेन चेत सामानाधिकरण्यं न भवतीत्येवं ब्रूयात्। किं पुनः स्याद्यदि प्रसज्यप्रतिषेध आश्रितः ? अप्रथासमानाधिकरण उत्तरपदे शतृशानचौ न स्याताम्-- भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणो भक्तिरस्य कुर्वाणभक्तिः। ये च प्रथमासमानाधिकरणवृत्तयस्तद्धितास्तेषु न स्याताम्-- `प्रशंसायां रूपप्'(5.3.66) कुर्वद्रूपम्, कुर्वाणरूपमिति; `ईषदसमाप्तौ कल्पशब्देश्यदेशीयरः' (5.3.67) कुर्वत्कल्पः। ननु पर्युदासेऽपि भवत्येव दोषः, न ह्यत्राप्रथमान्तेन क्वचित् प्रथमासमानाधिकरणेऽपि भवत इति। प्रसज्यप्रतिषेधे तु प्रतिषेधं विधाय प्रतिषिद्धस्य च पुर्विधानमयुक्तम्। `पचन्तं देवदत्तं पश्य' इति। द्वितीयान्तेन सामानाधिकरण्यं दर्शयति। `पचता' इति। तृतीयान्तेन। विभक्तेर्विपरिणामं कृत्वा देवदत्तेनेति सम्बन्धात्। ननु च लडादेशस्यात्राप्रथमान्तेन सामानाधिकरण्यम्, न लटः; तस्य प्रयोगाभावात्। आदेशधर्मस्य स्थानिन्युपचारात् लटोऽप्युपचारितं सामानाधिकरण्यं भवतीत्यदोषः।अथ लड्ग्रहणं किमर्थम्, यावताऽनन्तरसूत्राल्लडित्यनुवर्त्तत एव ? स्यादेतत्; प्रथमान्तञ्चैतत्। षष्ठीनिर्देशेन चेहार्थः, तस्मात् षष्ठीनिर्देशार्थ पुनर्लड्ग्रहणं कर्त्तव्यमिति, एतच्चायुक्तम्,प्रथमान्तस्यापि ल़ड्ग्रहमस्यार्थद्विभक्तिविपरिणामो भविष्यतीति षष्ठ्यन्तं विज्ञास्यत इत्यत आह-- `लडिति वर्त्तमाने' इत्यादि। अप्रथमासमानाधिकरणे पुनर्लड्ग्रहणम्। तेन क्वचित् प्रथमासमानाधिकरणे भवतः-- कुर्वन् ब्राह्मणः। `सन् ब्राह्मणः' इति। `अस भुवि' (धा.पा.1065), अदादित्वाच्छपो लुक्। `श्नसोरलोपः' (6.4.111), इत्यकारलोपः। `विद्यमानः' इत्यादौ सर्वत्र ब्राह्मण इत्यपेक्षते। `विद सत्तायाम्' (धा.पा.1171), दिवादिरात्मनेपदी, श्यन्। `जुह्वत्' (7.1.78) इति। `हु {दानादनयोः (आदाने इत्येके प्रीणनेऽपि इति भाष्यम्) -धा.पा.} दाने'(धा.पा.1083), `हुश्नुवोः सार्वधातुके' (6.4.87) इति यणादेशः, `नाभ्यस्ताच्छतुः (7.1.78) इति नुमागमाभावः। `अधीयानः'इति। `इङ अध्ययने' (धा.पा.11046), अधिपूर्वः। पूर्ववत् `अचिश्नु'(6.4.77) इत्यादिना इयङ।
`माङ्याक्रोशे' इति। माङ्युपपद आक्रोशे गम्यमाने लटः शतृशानचौ भवतः। `मा पचन्, मा पचमानः' इति। ननु चात्रैव माङि लुङा भवितव्यम्, एतस्मादेवाधिकविधानात् ? पुनर्लड्ग्रहणादाक्रोशे न भवतीत्यदोषः। `माङि लुङ' (3.3.175) इत्यस्य यत्राक्रोशे नास्ति सोऽवकाशः।
`केचिद्विभाषाग्रहणमनुवर्त्तयन्ति' इति। सन् ब्राह्मणोऽस्ति ब्राह्मण इत्यादौ विकल्पेन शतृशानचौ यथा स्यातामित्येवमर्थम्। केचिदिति वचनात् केचिन्नानुवर्त्तयन्तीत्युक्तं भवति। तेषामयमभिप्रायः-- यदि प्रथमासमानाधिकरणे नित्यं तौ भवतस्तदाऽप्रथमासमानाधिकणग्रहणं न कुर्यात्, `शतृशानचौ'इत्येवं ब्रूयात्। तत्राप्ययमर्थः-- सामान्येन प्रथमासानाधिकरणेऽन्यत्र शतृशानचोर्विधानात् पुनर्ग्रहणं न कर्त्तव्यं भवति। तस्मादप्रथमासमानाधिकरणग्रहणसामर्थ्यादप्रथमासमानधिकरण एव नित्यौ तौ भवतः, प्रथमासमानादिकरणेष्वन्यथेति। यदि तर्हि विभाषाग्रहणमनुवर्त्तयन्ति, यथा सन् ब्राह्मणः, अस्ति ब्राह्मणः, विद्यमानो ब्राह्मणः,विद्यते ब्राह्मण इत्यादौ विकल्पेन भवतः; तथा कुर्वद्भक्तिः कुर्वाणभक्तिरित्येवमादावपि स्यातामित्यत आह--`सा च' इत्यादि। `तत्र' इति। व्यवस्थितविभाषयां सत्याम्। `यथादर्शनम्' इति। यथा लक्ष्यस्य दर्शनं तदनुरूपाः प्रयोगा उन्नेयाः। एतदुक्तं भवति-- लक्ष्यदर्शनवत् स्यात्। क्वचिन्नित्यं तौ शतृशानचौ वेदितव्यौ, क्वचित् पाक्षिकौ,क्वचिदविद्यमानाविति। तत्र कुर्वद्भक्तिः, कुर्वाणभक्तिः, कुर्वत्तरः, कुर्वत्तम इत्यादौ नित्यम् ; सन् ब्राह्मणः , अस्ति ब्राह्मण इत्यादौ पाक्षिकौ; तरप्तमवादिप्रत्यये परे तावविद्यमानावेव। `पचतितराम' इति। पचतिशब्दात् `तिङश्च' (5.3.56) इति तरप्, `किमेत्'(5.4.11) इत्यादिनामि कृते न भवतः।।
125. सम्बोधने च। (3.2.125)
`प्ऱथमासमानाधिकरणार्थ आरम्भः' इति। अवधारणमिह द्रष्टव्यम्। पूर्वयोगो ह्यप्रथमासमानाधिकरणार्थः, क्वचित् प्रथमासमानाधिकरणार्थश्च; अयं तु प्रथमासमानाधिकरणार्थं एव। यदि तर्हि पूर्वसूत्रं प्रथमासमानाधिकरणार्थमपि, तर्ह्येषंसति तौ यथा अन्यत्र प्रथमासमानाधिकरणेऽपि भवतस्तथा सम्बोधनेऽपि भविष्यत इत्यपार्थकम् ? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्। `हे पचन्' इति। `न ङिसम्बुद्ध्योः' (8.2.8) इति नलोपप्रतिषेधान्नलोपाभावः। `हे पचमान' इति। `एङ ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सुलोपः।।
126. लक्षणहेत्वोः क्रियायाः। (3.2.126)
`धात्वर्थ विशेषणञ्चैतत्' इति। धात्वधिकारात्। अथोपपदे कस्मान्न भवतः ? क्रियाया इति वचनात्। यद्युपपदे स्यातां तदा क्रियाग्रहणमनर्थकं स्यात्। उपपदं हि धातोर्भवति, स च क्रियावचन इत्येन्तरेणापि क्रियाग्रहणं लक्षमहेतू क्रियाविषयौ विज्ञास्येते। तत् क्रियाग्रहणेन धात्वर्थविशेषणत्वे हि तयोः क्वचिद्धात्वर्थो द्रव्यस्य हेतुर्भवति, लक्षणं वा ; क्वचिद्गुणस्य , क्वचित्क्रियायाः। अतो द्रव्यादिनिवृत्त्यर्थं क्रियाग्रहणं युक्तम्; अतः `क्रियायाः' इति वचनम्। `क्रियाविषयौ' इति। क्रियाया इत्येतद्विवरणम्। क्रिया विषयो यथोस्तौ तथोक्तौ। एतेन `क्रियायाः' इति येयं षष्ठी सा सुब्व्यत्ययेन सप्तम्याः स्थाने विहितेति सूचयति। `शयाना भुञ्जते' इति। शीङोऽपवादित्वाच्छपो लुक्, `शीङः सार्वधातुके' (7.4.21) इति गुणः। अत्र शयनं लक्षणम्, भुजिक्रिया विषयः।तेन हि भुजिक्रिया लक्ष्यते तत्र शीङ वर्त्तते। `तिष्ठन्तोऽनुशासति' इति। तिष्ठतेः पाघ्रादिसूत्रेण (7.3.78) तिष्ठादेशः। अत्रावस्थानं लक्षणम्, तेनानुशासनक्रिया लक्ष्यते। `अर्जयन् वसति' अत्राध्ययनम्।
`पचति, पठति' इति। नात्र क्रियाया लक्ष्यलक्षणभावो विवक्षितः। `यः कम्पतेसोऽश्वत्थः'इति। अत्र हि कम्पनं लक्षणं भवतीति तेनाश्वत्थो लक्ष्यते, न तु क्रियाविषयम्, किं तर्हि ? द्रव्यविषयम्; अश्वत्थस्य द्रव्यविषयत्वात्। `यदुत्प्लवते तल्लघु' इति। अत्रोत्प्लवनेनलघुसंज्ञको गुणो लक्ष्यत इति गु विषयं तत्, न तु क्रियाविषयम्। वर्षतीति धावति, हन्तीति पलायत इत्यत्र यद्यपि वर्षणहननाभ्यां धावनपलायनक्रिये लक्ष्येते, तथापि शतृशानचौ न भवतः; `नन्वोर्विभाषा'(3.2.121) इत्यतो व्यवस्थितविभाषेत्यनुवर्त्तते; इतिकरणेन हेतुभावस्य द्योतितत्वात्। पूर्वनिपातलक्षमव्यभिचारलिङ्गम्' इति। `द्वन्द्वे घि' (2.2.32) इत्यनेन ध्यन्तस्य यः पूर्वनिपातः क्रियते तस्य व्यभिचारः। स्वविषये सत्यपि तस्य क्वचिदभावः। तस्य व्यभिचारस्य लिङ्गमयं निर्देशः।यदि ह्यभिचारी ध्यन्तस्य निपातः स्यात्, `हेतुलक्षणयोः'इति निर्देशं कुर्यात्। व्यभिचारे तु सति धूमाग्नी इत्येवमादय उपपन्ना भवन्ति।।
127. तौ सत्।
ननु च प्रकृतत्वादेव शतृशानचोरियं संज्ञा स्यात्, तत्किं तौग्रहणमित्याह-- `तौग्रहणम्' इत्यादि। उपाधिना विशेषमेनासंसर्गार्थं तौग्रहणमित्यर्थः। उपाधिस्तु वर्त्तमानकालः, तत्र शतृशानचोर्विहित्वात्। उपाध्यसंगर्हार्थे तौग्रहणे सति किं भवतीत्याह-- `शतृशानज्मात्रस्य' इत्यादि। मात्रग्रहणमुपाधिसंग्रहव्यवच्छेदार्थम्। असति हि तौग्रहणे यादृशौ प्रकृतौ तादृशयोरव संज्ञा स्यात्। कीदृशौ च तौ ? वर्त्तमानकलाविहितौ। ततश्च लृडादेशयोर्भविष्यत्कालविहितयोः सदिति संज्ञा न स्यात्। ननु च `लुटः सद्वा' (3.3.14) इति सच्छब्देन तौ विधीयेते, ततो वचनसामर्थ्यात् तु भविष्यतः ? न ब्रूमः-- विधानं तयोर्न सिध्यतीति, किं तर्हि ? विहितयोरुत्तरकालसंज्ञा न सिध्यति। ततश्च ब्राह्मणस्य करिष्यन्, ब्राह्मणस्य करिष्यमाण इत्यत्र `पूरणगुण' (2.2.11) इत्यादिना षष्ठीसमासप्रतिषेधो न स्यात्। सद्ग्रहणं तु सच्छब्देनैव वर्त्तमानशतृशानजन्ते षष्ठीसमासप्रतिषेधार्थं स्यात्। तौग्रहणे शतृशानचोर्विशेषणमनपेक्ष्य रूपमात्रे संज्ञाऽऽख्यायत इति वर्त्तमानकाले विधानासंसक्तयोरपि संज्ञा सिध्यतीति।।
128. पूङ्यजोः शानन्। (3.2.128)
वर्त्तमानविहिताः शतृशानच्प्रभृतयः। एते लादेशा वा स्युः ? प्रत्यया वा ? तत्र यदि इह लट इत्यनुवर्त्तते तदा लादेशाः, अथ नानुवर्त्तते ततः प्रत्ययाः। तस्यादेशाः क्रियेरंस्तदा `नन्वोर्विभाषा'(3.2.121) इत्यतो विभाषाग्रहणमनुवर्त्तयितव्यं जायेत; अन्यथा पवते देवदत्तः, यजते देवदत्त इति तिङश्रवणं कुर्यात्। प्रत्ययलक्षणे तु वासरूपविधिना यदा लड् भवति तदा प्रत्ययश्रवणं तिङश्रवणमुपपद्यते। किञ्च, आदेशपक्षे `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इति भावकर्मणोरपि शानन्नादयः स्युः, कर्त्तर्येव चेष्यन्ते। प्रत्ययपक्षे तु `कर्त्तरि कृत्' (3.4.67) इति कर्त्तर्येव भवन्ति, न भावकर्मणोः, इह कतीह मण्डयमान इत्त्युत्तरसूत्रे चानशि कृते `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः' (6.1.186) इतिनिघातः स्यात्, प्रत्ययपक्षे तु न भवति; अलसार्वधातुकत्वात्। चानशः `लः परस्मैपदम्' (1.4.99) `तङानावात्मनेपदम्' (1.4.100) इत्यात्मनेपदसंज्ञा प्रसज्येत, ततश्चात्मनेपदिभ्य एव स्यात्-- कतीह निघ्नाना इति। प्रत्ययपक्षे त्वलादेशान्न भवत्यात्मनेपदसंज्ञाप्रसङ्गः। तदेवमादेशपक्षे बहवो दोषाः प्रतिविधेयाः, प्रततिविधानेऽपि तेषां प्रतिपत्तिगौरवं भवतीति मत्वा प्रत्ययपक्षमाश्रित्याह-- `शानन्प्रत्ययो भवति' इति। शकारः सार्वधातुकसंज्ञार्थः। `पवमानः' इति। `पूङ पवने' (धा.पा.966), शप्, `आने मुक्' (7.2.82)।
`यदि' इत्यादि। `न लोकाव्यय'(2.3.69) इत्यादौ तृन्निति तृन एव प्रत्ययस्य निर्देश इति मन्यमानस्य प्रश्नः। `तृन्निति प्रत्याहारनिर्देशात्' इति। `सोमं पवमानः, नडमाघ्नानः' इति। षष्ठीप्रतिषेध इत्यनेन सम्बन्धनीयम्। यदि तृन्निति प्रत्ययग्रहणं स्यात् तदा शानन्प्रभृतीनां प्रत्ययार्थे सति `सोमं पवमानः' इत्यादौ षष्ठीप्रतिषेधो न स्यात्। न च तृन्निति प्रत्ययस्य ग्रहणम्, किं तर्हि ? प्रत्याहारस्य। तत्र चशानन्नादयोऽन्तर्भूता इति भवत्येव षष्ठीप्रतिषेधः।
`द्विषः शतुर्वा वचनम्' इति। `द्विषोऽमित्रे' (3.2.131) इत्यनेन यः {शता'इति मुद्रितः पाठः} शतृ विधीयते तस्य प्रत्याहारेऽस्मिन्नन्तर्भावात् तद्योगे षष्ठीप्रतिषेधः स्यात्, ततश्चौरस्य द्विषन्निति पक्षे न स्यात्। तस्मात् `द्विष अप्रीतौ' (धा.पा.1013) इत्यस्य शत्रन्तस्य प्रयोगे द्वितीयायां प्राप्तायां वा षष्ठी वक्तव्या।।
129. ताच्छील्यवयोवचनशक्तिषु चानश्। (3.2.129)
`मण्ड्यमानाः' इति। `मडि भूषायाम्' (धा.पा.321), इदित्त्वान्नुम्। हेतुमण्णिच्। `भूषयमाणाः' इति। `भूष अलङ्कारे' (धा.पा.682), चुरादिणिच्। `कवचं पर्यस्यमानाः'इति। दिवादित्वाच्छ्यन्। तदेव वयो गम्यते तत्र स्थिताः कवचं पर्यस्यन्ते। कवचम् = सन्नाहम्। `शिखण्डं वहमानाः'इति। अत्रापि तथाविधं वयो गम्यते यत्र वर्त्तमानाः शिखण्डं वहन्ति। शिखण्ण्टः = चूडा। वचनग्रहणं वैचित्र्यार्थम्, विनापि हि तेन वयसि गम्यमाने प्रत्ययो लभ्यत एव, यथा च `वयसि च' (3.2.10) इत्यत्र । `निघ्नानाः' इति। हननशक्तिरिति गम्यते।।
130. इङ्धार्योः शत्रकृच्छ्रिणि। (3.2.130)
`अकृच्छ्रिणि कर्त्तरि'इति। एतेनाकृच्छ्रिणीति प्रत्ययार्थस्य कर्त्तुरेतद्विशेषणमिति दर्शयति। `अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थः सोऽकृच्छ्री' इति। `अत इनिठनौ' (5.2.115) इतीनिः। `अधीयन्' इति। पूर्ववदियङ। `धारयन्' इति। `धृङ अवस्थाने' (धा.पा.1412) चुरादिणिच्।।
131. द्विषोऽमित्रे। (3.2.131)
`अमित्रः शत्रुः' इति। शत्रादेवामित्रशब्दस्य रूढत्वात्।
`द्वेष्टि' इति। अदादित्वाच्छपो लुक्।।
132. सुञो यज्ञसंयोगे। (3.2.132)
`यज्ञसंयोगः' इति। कर्मसाधनः संयोगशब्दः। अत एव वृत्तावाह-- `यज्ञसंयुक्तेऽभिषवे' इति। संयुक्तः = सम्बद्धः, यज्ञेन संयुक्तो यज्ञसंयुक्तः। कदा चाभिषवो यज्ञसंयुक्तो भवति ? यदा यज्ञाङ्गं भवति। `सुन्वन्तः' इत्यादि। `स्वादिभ्यः श्नुः' (3.1.73) । `सर्वे यजमानाः' इति। सुन्वन्त इत्यनेन यजमानाः सत्त्रिणो यज्ञस्य ये स्वामिनस्तेऽभिधीयन्ते, न तु याज्ञिका इति दर्शयति। कथं पुनरेषोऽर्थो लभ्यते, यावता यथाभिषवस्य यजमानाः, कर्त्तारस्तथा याजका अपीत्याह-- `संयोगग्रहणम्' इत्यादि। इह `सुञोयज्ञे' इत्येतद्वेदितव्यम्, एवमपि ह्युच्यमाने यज्ञसंयुक्तताभिषवस्य लभ्यत एव; यज्ञविषयश्चैष सुनोत्यर्थो भवतीत्यर्थस्य प्रतिपत्तेः, तस्मात् संयोगग्रहणमिति न कर्त्तव्यमेतत् ? क्रियते प्रधानकर्त्तृप्रतिपत्त्यर्थम्। यागस्य ये कर्त्तारो भूत्वा फलं प्राप्नुवन्तः सुन्वन्तस्ते प्रधानकर्त्तारः, ते पुनर्यजमानाः,न याजकाः।।
133. अर्हः प्रशंसायाम्। (3.2.133)
134. आ क्वेस्तच्छीलतद्धर्तत्साधुकारिषु। (3.2.134)
`तच्छीलादिषु कर्त्तुषु' इति। अनेन तच्छीलादीनां प्रत्ययार्थविशेषणतां दर्शयति।`अभिविधौ चायमाङ' इति। अभिविधिः = अभिव्याप्ति-। अत्राङ न मर्यादायाम्, तेन वक्ष्यमाणस्य क्विपोऽप्ययमर्थनिर्देश इति। सोऽपि तच्छीलीदिष्वेव भवति। `तत्'इत्यादि। `धातोः' (3.1.91) इति वर्त्तते,न च धातोः शीलादिविशेषणमुपपद्यते, तस्मात् तस्य योऽर्थः स शीलादीनां त्रयाणां विशेषणभावेन तच्छीलादिशब्देन निर्दिश्यते। स धात्वर्थः शीलं यस्य स तच्छीलः। स एव धर्मो यस्य स तद्धर्मा। साधु करोतीति साधुकारी, तस्य धात्वर्थस्य साधुकारीति यावत्। `स्वभावतः' इति। भवत्यस्मात् फलनिरपेक्षा वृत्तिरिति भावः। स्वभावश्चैतनिको धर्मः, स पुनः शीलमेव।`फलनिरपेक्षः' इति। फलाकाङ्क्षारहितः। `तत्र'इति। धात्वर्थे। `तदाचारः'इति। तच्छीलात् तदाचारस्यान्यथात्वं दर्शयति। `यो धात्वर्थं साधु करोति' इति। अत्रापि विना शीलेनेति सम्बध्यते। `साधु'इति। प्रशस्तमित्यर्थः। क्रियाविशेषणत्वान्नपुंसकत्वम्।।
135. तृन्। (3.2.135)
`मुण्डयितारः' इति। मुण्डां कुर्वन्तीति `मुण्डमिश्र' (3.1.21) इत्यादिना णिच्, इष्ठवद्भावेन टिलोपः। `{मुण्डयितारः श्राविष्ठायना भवन्ति बधूमूढाम्'--काशिका।} वधूमूढां श्राविष्ठायना मुण्डयन्ति' इति। एतेषां कुलधर्मः। `आह्वरकाः श्राद्धे सिद्धेऽन्नमपहरन्ति' इति। एतेषामाचारः। यः कटं साधु करोतीति स कर्त्ता कटमिति। खेटं यो लीलया गच्छति स साधु गच्छति।
`तृन्विधौ' इत्यादि। अताच्छील्यार्थ आरम्भः। अस्मिंस्तृन्विधावनुपसर्गस्य धातोस्तृन् वक्तव्य ऋत्विक्ष्वभिधेयेषु। `होता' इति। `हु {दानादनयोः। आदाने इत्येके।प्रीणनेऽपि इति भाष्यम्-- धा.पा.} दाने' (धा.पा.1083)। `पोता' इति। `पूङ पवने' (धा.पा.966)। `उद्गाता' इति। `कै गै शब्दे' (धा.पा.916,917)।`स्वरे विक्षेषः' इति. तृचि सति `गतिकारकोपपदात् कृत्' (6.2.139) इति प्रकृतिस्वरेणान्तोदात्तत्वं भवति, तृनि तु सति `गतिरनन्तरः' (6.2.49) इत्यनुवर्त्तमाने' `तादौ च निति कृत्यतौ' (6.2.49) इति पूर्ववदस्य प्रकृतिस्वरः प्रसज्येत।
`नयतेः षुक् च' इति। कृते गुणे षुगागमो वेदितव्यः; अन्यथा ह्यलघूपधत्वाद्गुणो न स्यात्। गुणोऽपि वा वक्तव्यः। अत्र ऋत्विगिति वर्त्तते। अयमप्यताच्छील्यार्थ आरम्भः।
`त्विषेःट इत्यादि। `त्विष दीप्तौ' (धा.पा.1001) इत्यस्माद्देवतायामभिधेयां तृन् वक्तव्यः, अकारश्चोपधाया आदेशो भवति। `अनिट्त्वं च'इति। एतस्य सर्वशेषत्वे चास्य पोतेत्यत्रानिट्त्वं सिद्धं भवति।
`क्षदेः'इत्यादि। `क्षद'इति सौत्रो धातुः। `गुधृवीपचिवयियमिसदि क्षदिभ्यस्त्रः'(पं.उ.4.166) इत्याद्युणादिसूत्रपाठात्। उणादिषु निपातितत्वात् होत्रादय इति सिद्धम्। तत्र हि `नप्तृनेष्टृत्वष्टृक्षतृपोतृहोतृभ्रातृजामातृपितृदुहितृ' (द.उ.2.3.) इत्येते निपातिताः।।
136. अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्। (3.2.136)
अलम्पूर्वः करोतिः, पुनः स एव निराङपूर्वः, `जनी प्रादुर्भावे' (धा.पा.1149) प्रपूर्वः;`{पचि धा.पा.} पच व्यक्तीकरण' (धा.पा.174);`पद गतौ' (धा.पा.1898), पतिमन्ये पठन्ति;`शल हुल पत्लृ गतौ' (धा.पा.843,844,845)। `{मदी हर्षग्लेपनयोः'-धा.पा.)मदी तृप्तिसाधने' (धा.पा.815)-- एते पदादय उत्पूर्वाः। `रुच {दीप्तवभिप्रीतौ च' -धा.पा.} दीप्तौ' (धा.पा.745); `त्रपूष् लज्जायाम्' (धा.पा.374) अपपूर्वः, `वृतु वर्त्तने' (धा.पा.758), `वृधु वृद्धौ' (धा.पा.759), `षह मर्षणे' (धा.पा.1809), `चर गत्यर्थः' (धा.पा.559)-- एभ्य इष्णुज् भवति, {तृणोऽपवादः इति, मु.पाठः} तृनोऽपवादः। यदा त्वलम्पूर्वः करोतिर्मण्डने वर्त्तते, तदा `क्रुधमण्डार्थेभ्यश्च' (3.2.151) इति युच् प्राप्नोति;पूर्वविप्रतिषेधश्च वक्तव्यः; अन्यथा मण्डनादन्यत्र सावकाशमिष्णुचं परत्वाद्बाधते। येऽत्र सोपसर्गाः पठ्यन्ते, तेभ्य एतदुपसर्गपूर्वेभ्य एव भवति, अन्येभ्यस्त्वनियमेन।।
137. णेश्छन्दसि। (3.2.137)
`धारयिष्णवः, पारयिष्णवः'इति। `धृङ अवस्थाने' (धा.पा.1412), `पृ पालनपूरणयोः (धा.पा.1086); हेतुमण्णिच्, `अयामन्त'(6.4.55) इत्यादिनायादेशः।।
138. भुवश्च। (3.2.138)
`योगविभाग उत्तरार्थः' इति। उत्तरसूत्रे भवतरेवानुवर्त्तनं यथा स्यात्; अन्यथा यदि `णिभूभ्याञ्च' इत्येको योगः क्रियते तदा णिग्रहणमप्यनुकृष्येत। `भाजिष्णुना' इत्याद। लौकिकप्रयोगः। तस्योपन्यासो भाषायामपि `भ्राजृ दीप्तौ' (धा.पा.181) इत्येतस्मादिष्णुच्प्रदर्शनार्थः।।
139. ग्लाजिस्थश्च क्स्नुः। (3.2.139)
अथ स्थास्नुरित्यत्र `घुमास्थागापा' (6.4.66) इत्यादिसूत्रेण कस्मादीत्वं भवतीत्याह-- `पिच्चायम्' इत्यादि। ईत्त्वं क्ङिति। तत्र `दीङो युडचि क्ङिति' (6.4.63) इत्यनुवृत्तेः। न चायं कित्, न चायं ङित्; किं तर्हि ? गित्। गकारस्य त्वश्रवणम्,चर्त्वभूतस्य निर्देशात्। यदि तर्हि गिदयम्, जिष्णुरित्यत्र गुणः प्राप्नोति, यस्मात् `क्ङिति च' (1.1.5) इति क्ङिति प्रत्यये गुणः प्रतिषिध्यते, न गितीत्यत आह-- `क्ङिति च' इत्यादि. न हि `क्ङिति च' (1.1.5) इत्यत्र ककारङकारावेव निर्दिश्येते, किं तर्हि ? गकारोऽपि कृतचर्त्वः,तेन गित्यपि गुणो न भवति। भूष्णुरित्यत्र तर्हि श्रयुकः किति' (7.2.11) इट्प्रतिषेध उद्यमानो गिति न स्यादित्यत आह-- `श्रयुकः' किति इत्यादिना गकारश्चर्त्वभूतो निर्दिश्यते' इति प्रकृतेन सम्बन्धः। `तेन' इति। गकारस्य चर्तवभूतस्य निर्देशेनेति।
`कस्नोर्गित्वात्'इत्यादि। गकार इत्संज्ञको यस्य स गित्, तद्भावो गित्त्वम्। तस्मात् गित्त्वान्न स्यास्नुरित्यत्रेकारः। तिष्ठतेरीकारो न भवति। कस्मात् पुनर्गित्तवादीकारो न भवतीत्याह-- `कङितोरित्वशासनात्' इत्यादि। ककारेऽकार उच्चारणार्थः। यस्मात् क्ङितीत्वमुच्यते, अयं तु गित्, तस्मात् क्ङिति विधीयमानमीत्वं गित्वादिह न प्राप्नोति। यद्येवम्, जिष्णुरित्यत्र गुणः प्राप्नोतीत्यत आह-- `गुणाभावः'इत्यादि। त्रिषु ककारगकारङकारेष्वित्संज्ञकेषु यो गुणप्रतिषेधः स स्मर्त्तव्य- = ज्ञातव्यः। `क्ङिति च' (1.1.5) इत्यत्र गकारश्चर्त्वभूतो निर्दिष्टः। यदि तर्हि गिदयम्, `भूष्णुरित्यत्र `श्रयुकः किति'(7.2.11) इत्यीट्प्रतिषेधो न स्यादित्यत आह-- `श्रयुकोऽनिट्चत्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदि गकारश्चर्त्वभूतः `श्रयुक किति' (7.2.11) इतीट्प्रतिषेधो न स्यादित्यत आह-- `शयुकोऽनिट्त्वम्' इत्यादि. गकारोऽपि ततश्चर्त्वभूतो निर्दिश्यते। तन ककारगकारयोर्द्वयोरपीत्संज्ञकयोः श्रयुकोऽनिट्त्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदिगकारश्चर्त्त्वभूतः `श्रयुकः किति' (7.2.11) इत्यत्र निर्दिश्यते,` हशि च' (6.1.114) इत्युत्वं प्राप्नोति, तस्यासिद्धत्वात् ? सौत्रत्वान्निर्देशश्यासंहितया पाठान्न भविष्यतीत्यदोषः। वामनस्य त्वेतत् सर्वमनभिमतम्। यथा नाभिमतं तथा `क्ङिति च' (1.1.5) इत्यत्र प्रतिपादितम्। `दंशेः'इत्यादि. उपसंख्यानशब्दः प्रतिपादने वर्त्तते। `दन्श दंशने' (धा.पा.898) इत्येतस्मादपि क्स्नुप्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। तत्रेदं प्रतिपादनम्-- पूर्वसूत्राच्चकारोऽनुर्त्तते, स चानुक्तसमुच्चयार्थः, तेन दंशेरपि भविष्यतीति। `दंक्ष्णवः' इति। व्रश्चादिना (8.2.36) षत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपो न भवति, क्स्नोर्गित्वात्। ये तु कित्वमिच्छन्ति, तैरिह नकारलोपप्रतिषेधः `नाञ्चेः पूजायाम्' (6.4.30) इत्यत्र नेति योगविभागेन कर्त्तव्यः। यत्नान्तरं वा तैरास्थेयम्-- नकारस्यानुस्वारः, तस्य परसवर्णः।।
140. त्रसिगृधिधषिक्षिपेः क्नुः। (3.2.140)
`त्रस {धारणे-- धा.पा.} उद्वेगे' (धा.पा.1741), `गृधु अभिकांक्षायाम्' (धा.पा.1246) , `ञिघृषा प्रगल्भ्ये' (धा.पा.1269), `क्षिप प्रेरणे' (धा.पा.1285)। `त्रस्नुः' इति। `नेड्वशिकृति'(7.2.8) इतीट् प्रतिषेधथः। `गृघ्नुः 'इति। `क्ङिति च' (1.1.5) इति गुणाभावः।।
141.शमित्यष्टाभ्यो घिनुण्। (3.2.141)
`शमु उपशमे' (धा.पा.1201), `तमु काङ्क्षायाम्'(धा.पा.1202), `दमु {उपशमे-धा.पा.} उपरमे' (धा.पा.1203), `श्रमु तपसि खेदे च' (धा.पा.1204), `भ्रमु अनवस्थाने' (धा.पा.1205), `क्षमु सहने' (धा.पा.1206), `क्लमु ग्लानौ' (धा.पा.1207), `मदी हर्षे'(धा.पा.1208)। `उत्तरत्र कुत्वार्थः' इति। सम्पर्कीत्यादौ `चजोः कु घिण्यतोः' (7.3.52) इति यथा स्यात्। `उकार उच्चारणार्थः' इति। अनुबन्धत्वमस्य निरस्यति। अनुबन्धत्वे सति शमिनौ शमिन इति `उगिदचाम्' (7.1.70) इति नुम् प्रसज्येत। इह शमिनितराम्, शमिनितमामिति `नद्याः शेषस्यान्यतरस्याम्' (6.3.44) इति वर्त्तमाने `उगितश्च' (6.3.45) इत्यन्यतरस्यां ह्रस्वत्वं स्यात्, अन्यथा ह्यस्यानुबन्धकरणमनर्थकं स्यात्। तस्मदुच्चारणार्थ एवोकारो भवति। ह्रस्वत्वञ्च `घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु' (6.3.43) इत्यनेन नित्यं भवति।
`शमी' इति। `अत उपधाया-' (7.2.116) इति वृद्धिर्न भवति, `नोदात्तोपदेश' (7.3.34) इत्यादिना प्रतिषिद्धत्वात्। `सौ च' (6.4.13) इति दीर्घः।
`असिता'इति। `असु क्षेपणे' (धा.पा.1209) तृनि भवति।।
142. सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च। (3.2.142)
`पृची सम्पर्के' (धा.पा.1462) सम्पूर्वः। `रुधिर् आवरणे' (धा.पा.1438) अनुपूर्वः;`यम उपरमे' (धा.पा.984), `यसु प्रयत्ने' (धा.पा.1210) आङपूर्वः,`सृज विसर्गे' (धा.पा.1178), `ज्वर रोगे' (धा.पा.776) सम्पूर्वः;`क्षिप प्रेरणे' (धा.पा.1285), `रट परिभाषणे' (धा.पा.297), `वद वक्ताव्यां वाचि' (धा.पा.1009), `दह भस्मीकरणे' (धा.पा.991), `मुह वैचित्त्ये' (धा.पा.1198) परिपूर्वः, `दुष वैकृत्ये' (धा.पा.1185), `द्विष अप्रीतौ' (धा.पा.1013), `द्रुह जीघांसायाम्' (धा.पा.1197),`दुह प्रपूरणे' (धा.पा.1014), `क्रीडृ विहारे' (धा.पा.350) आङपूर्वः, `विजिर् पृथग्भावे' (धा.पा.1094) विपूर्वः, `त्यज {हानौ इत्येव-धा.पा} वयोहानौ' (धा.पा.986), `रञ्ज रागे' (धा.पा.999), `भज सेवायाम्' (धा.पा.998), `चर गत्यर्थ' (धा.पा.559) अतिपूर्वः, स एवानुपूर्वः, `मुष स्तेये' (धा.पा.1530) आङपूर्वः, `हन हिंसागत्योः' (धा.पा.1012) अभ्याङपूर्वः। शऱेषा वृत्तावेव निर्दिष्टाः। `न त्वदादिः'इति। `गृह्यते'इति सम्बध्यते। आदादिकः कस्मान्न गृह्यत इत्याह-- आदादिकस्तु लुग्विकरणः, तस्मात् स न गृह्यते। `परिदेविर्भ्वादिः' इति। `गृह्यते' इति सम्बन्धः। अथ परिदिवेः क्रीडाद्यर्थस्य ण्यन्तस्य ग्रहणं कस्मान्न भवति ? अण्यन्तैरितरैः साहचर्यात्। `सामान्येन गृह्यते' इति। विशेषाभावात्। `द्वयोरपि ग्रहणम्' इति। तत एव हेतोः। `निपातनादनुनासिकलोपः' इति। `त्यजरज'इति सूत्रे निरनुनासिकस्योच्चारणमेव निपातनम्। `सम्पर्की' इति। लघूपधगुणः। `आयामी' इति। `अत उपधायाः' (7.2.116) इति वृद्धिः। `परिसारी' इति। अत्रापि `अचो ञ्णिति' (7.2.115) इति वृद्धिः। `अभ्याघाती' इति। पूर्ववद्घत्वतत्वे।।
143. वौ कषलसकत्थस्रम्भः। (3.2.143)
144. अपे च लषः। (3.2.144)
145. प्रे लपसृद्रुमथवदवसः। (3.2.145)
`प्रलापी, प्रसारी' इति। `लप व्यक्तायां वाचि'(धा.पा.402), `सृ गतौ' (935)। `प्रद्रावी, प्रमाथी'इति। `दु द्रु गतौ' (धा.पा.944 945), `{मथे विलोडने-धा.पा.} मध विलोडने' (धा.पा.848)। `नाच्छादनार्थस्य' इति। न `वस आच्छादने' (धा.पा.1023)इत्येतस्य।।
146. निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्। (3.2.146)
`णिदि कुत्सायाम्' (धा.पा.66), `अर्द हिसि हिंसायाम्' (धा.पा.1828, 1829), `खादृ भक्षणे' (धा.पा.49), `णश अदर्शने' (धा.पा.1194) विपूर्वः, हेतुमण्ण्यन्तः। `क्षिपिः'पूर्वोक्त एव, एवं रटिर्वदिः परिपूर्वो हेतुमण्ण्यन्तः, `भाव व्यक्तायां वाचि (धा.पा.612) व्याङपूर्वः। `असूय' इति कण्डवादियगन्तस्य ग्रहणम्। अत्र क्लिशेरुपतापार्थस्य भाषतेश्च `अनुदात्तेश्च हलादेः' (3.2.149) इति युचि प्राप्ते वुञ्चिधानम्। शेषेभ्यस्तु तृनि। ननु `परश्च' (3.1.2) इति दिग्योगलक्षणया पञ्चम्या भवितव्यम्, यथा वृत्तौ -- निन्दादिभ्यो धातुभ्यः' इति, तत्कथं सूत्रे प्रथमेत्यत आह-- `पञ्चम्यर्थे प्रथमा' इति। `व्यत्ययो बहुलम्' (3.1.85) इतिसुब्व्यत्ययेनेति भावः। समाहारद्वन्द्वाच्च प्रथमैकवचनम्, पुंल्लिङ्गं तु व्यत्ययेन। `असूयकः'इति। `अतो लोपः' (6.4.48) इत्यकारलोपः।
अथ किमर्थं निन्दादिभ्यो धातुभ्यो वुञ् विधीयते, यावता वाऽसरूपविधिनैव निन्दकादयः,सिद्धाः, तदेव हि रूपम्, स एव स्वरः, इहैवैकत्र स्वरविशेषोऽस्ति-- असूयक इति, अत्र वुञि सति ञित्वादादेरुदात्तत्वं भवति, ण्वुलि तु सति लित्प्रत्ययात् पूर्वस्य स्यात्, तस्मादसूयतेरेवैकस्माद्वुञ्, विधातव्यः, नेतरेभ्यो निन्दादिभ्य इत्यत आह-- `ण्नुलैव सिद्धे'इत्यादि। यदि तच्छीलादिषु वाऽसरूपविधिना तृजादयोऽपि स्युः निन्दादिभ्यो वुञ् न विदध्यात्, विहितश्चासौ, अत एव वुञ्विधानं ज्ञापयति-- तच्छीलादिषु वाऽसरूपविधिर्नास्तीति। तेनालङ्कारकः, निराकर्त्तेत्यादीनां तच्छीलादिषु साधुत्वं न भवति।।
147. देविक्रुशोश्चोपसर्गे। (3.2.247)
`आदेवकः' इति। दिवेः क्रीडाद्यर्थाद् ण्यन्ताद्वुञ्।`आक्रोशकः' इति। `क्रुश {आह्वाने रोदने च- धा.पा.} आह्वाने' (धा.पा.856)। `क्रोष्टा' इति। व्रश्चादिना (8.2.36) षत्वम्।।
148. चलनशब्दार्थादकर्मकाद्युच्। (3.2.148)
चलनं देशान्तरप्राप्तिहेतुः क्रियाविशेषः। शब्दः श्रोत्रविषोऽर्थः। `चलनः, चोपनः' इति। `चल कम्पने' (धा.पा.832),`चुप मन्दायां गतौ' (धा.पा.403)। `शब्दनः' इति. `शब्द {उपसर्गादाविष्कारे भाषणे च'-- धा.पा.}शब्दने उपसर्गा विष्कारे ' (धा.पा.1714) इति चौरादिकः। अथ वा-- `प्रतिपदिकाद्धात्वर्थे बहुलम्' (ग.सू.1860 चुरादिः- 1915) इत्यादिना णिच्, `शब्दवैरकलह' (3.1.17) इत्यादिना णिजन्ताद्युच्। `रवणः'इति। `रु शब्दे' (धा.पा.1034)।।
149. अनुदात्तेश्च हलादेः। (3.2.149)
`एधिता'इति। `एध वृद्धौ' (धा.पा.2)। `जुगुप्सनः,मीमांसनः' इति `गुप्तिज्किद्भ्यः सन्'(3.1.5) `मान्बध' (3.1.6) इत्यादिना सनि दीर्घे च कृते भवतः। अत्र तदन्तौ समुदायावनुदात्तेतौ अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति। तथा च यद्यादिग्रहणं न क्रियते तदा ताभ्यां न स्यात्; यस्मादसत्यादिग्रहणे हला तु तदन्तविधिर्विज्ञायते-- अनुदात्तेतो हलन्तादिति। न च जुगुप्समीमांसशब्दौ हलन्तौ, किं तर्हि ? अजन्तौ। आदिग्रहणे सत्यहलन्तेभ्योऽपि भवतीत्यादिग्रहणं कर्त्तव्यम्। तच्च तदा कर्त्तव्यं यदातो लोप आर्धधातुके परतो भवतीत्ययं पक्षः, न तु यदार्धधातुके विषयभूत इत्येष पक्षः। तदा ह्यार्धधातुकविवक्षायां विज्ञायमाने हलन्तग्रहणमनर्थकं स्यात्; व्यावर्त्याभावात्। तस्माद् ह्ल्ग्रहणसामर्थ्यादादेर्विशेषणं विज्ञास्यत इत्यादिग्रहणं न कर्त्तव्यमेव। अत्रादिग्रहणं विस्पष्टार्थमेव व्याख्येयम्। `वसिता' इति। `वस आच्छादने' (धा.पा.1023)।।
150. जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः। (3.2.150)
`जवनः'इति। `जु' सौत्रौ धातुः; गतौ वर्त्तत इत्येके। विशेषहेतौ वेग इत्यपरे। `चंक्रमणः, दन्द्रमणः'इति। `क्रमु पादविक्षेपे' (धा.पा.473)। `द्रम हम्म गतौ' (धा.पा.466, 467), `नित्यं कौटिल्ये गतौ' (3.1.23) इति यङ्, द्विर्वचनम्, `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्, `अतो लोपः' (6.4.48) इत्यकारलोपः, `यस्य हलः' (6.4.49) इति यकारलोपः। `ज्वलनः, शोचनः' इति। `ज्वल ह्वल सञ्चलने'(धा.पा.804,805), `शुच शोके' (धा.पा.183)।
ननु चात्र जुचंक्रम्यदंद्रम्यप्रभृतयश्चलनार्थाः,पदिस्त्वनुदात्तेत, हलादिश्च; तस्मादेतेभ्यो यथायोगं पूर्वयोगाभ्यां युच्, सिद्धः, ततः किमर्थमिह ग्रहणमित्याह-- `चलनार्थानाम्' इत्यादि। असति तेषां ग्रहम इह चंक्रमणो ग्रामस्येत्येवमादौ न स्यात्;ग्रामादेः कर्मणो विवक्षितत्वात्। तस्मात् सकर्मकेभ्यो यथा स्यादित्येवमर्थमेषां ग्रहणम्। `ज्ञापकार्थम्' इत्यादिना मतान्तरं दर्शयति। `अलंकृञस्तृन्न भवति' इति। अनेनापि ज्ञापकस्य प्रयोजनम्। अलंकर्त्तेति साधुर्न भवतीत्यध्याहार्यम्। कथं पुनः पदिग्रहणं ज्ञापकमित्याह-- `तथा हि' इत्यादि। विशेषविहितेनोकञा बाधा मा भूत्, समावेश एव यथा स्यादित्येवमर्थमिह पदिग्रहणं क्रियते। यदि ताच्छीलिके वाऽसरूपविधिः स्यात् ततोऽसरूपत्वदेवोकञा समावेशः स्यादिति पदेर्युज्विधानमनर्थकं स्यात्। तस्माज्ज्ञापनार्थमेवैतद्विशेषविहितत्वम्; `अनुदात्तेतश्च हलादेः' (3.2.149) इति सामान्यलक्षणेन विहितत्वात्। यदि तर्हि वाऽसरूपविधेरभावो ज्ञाप्यते, गन्तेति च `अनुदात्तेतश्च हलादेः' (3.2.149) इति युज्न सिध्यति, `वौ कष'( 3.2.143) इत्यादिना धिनुणो विधानादित्यत आह-- `प्रयिकञ्च ' इत्यादि। प्रायिकत्वञ्चोत्तरसूत्रे प्रतिपादयिष्यते।।
151. क्रुधमण्डार्थेभ्यश्च। (3.2.151)
`तृन्' (3.2.135) इति तृनि प्राप्ते युज्विधीयते। इहोत्तरेऽपि प्रत्ययो यत्र विशेषो न विवक्ष्यते, तत्र तृन एवापवादो वेदितव्यः। `रोषणः'इति। `रुष रोषे' (धा.पा.1670)।।
152. न यः। (3.2.152)
`पूर्वेण' इति। `अनुदात्तेतश्च हलादेः' (3.2.149) इत्यादिना सिद्धत्वात्। अथ `अय वय रय णय गतौ'(धा.पा.474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते ? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च' (3.2.149) इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। `क्नयिता, क्ष्मायिता' इति। `क्नूयी शब्द {उन्दने च-धा.पा.} उन्दे च' (धा.पा.485), `क्ष्मायी विधूनने' (धा.पा.486)।।
153. सूददीपदीक्षश्च। (3.2.153)
`षूद क्षरणे' (धा.पा.25), `दीपौ दीप्तौ' (धा.पा.1150), `दीक्ष {मौण्ड्येज्योपनयननियमव्रतादेशेषु-धा.पा} मौण्ड्ये' (धा.पा.609)। `ननु च' इत्यादि देश्यम्। `वाऽसरूपेण' इत्यादि परिहारः। स्यादेतत्--वाऽसरूपविधिर्नास्तीति ज्ञापितमेतत्। ततो नास्ति युच्प्राप्तिरित्यत आह-- `ताच्छीलिक'इत्यादि। प्रायिकस्य चायमेव लिङ्गम्। यदि हि सर्वत्र वाऽसरूपविधेरभावः स्यात्, ततो विशेषविहितेनैव प्रत्ययेन बाधितत्वादेव युज्न भविष्यीति प्रतिषेधोऽनर्थकः स्यात्। `तथा च' इत्यादिना ताच्छीलिकप्रत्ययेन समावेशं दर्शयन् प्रायिकत्वमेव ज्ञापकस्य द्रढयति। `कम्रा'इति। `नमिकम्पि' (3.2.167) इत्यादिना रप्रत्ययः। `कमना' इति। अनुदात्तेतश्च हलादेः'(3.2.149) इति युच्प्रत्ययः। `कम्प्रा'इति। `कपि चलने'(धा.पा.275)।
`सूदेः' इत्यादि चोद्यम्। `अनित्यम्' इत्यादि परिहारः। `योगविभागादविज्ञायते' इति। अनित्यत्वे साधनं `नयसूददीपदीक्ष' इत्येकयोगे कर्त्तव्ये यद्योगविभागं करोति तज्ज्ञापयति-- पूर्वस्मात् प्रतिषेधादस्य कश्चिद्विशेषोऽस्तीति। स पुवनर्विशेषोऽनित्यत्वमेव। यद्यपि दीपदीक्षतिम्यामपि युच् प्राप्नोति, अनभिधान्न भवति।।
154. लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्। (3.2.154)
`{उपस्थायुकाः-काशिका} उपस्थायुकः' इति। `आतो युक्' (7.3.33) इत्यादिना युक्। `{प्रवर्षुकाः-काशिका} प्रवर्षुकः'इति। `वृषु मृषु सेचने'(धा.पा.706,707) इति. `कामुकाः'इति। `कमु कान्तौ'(धा.पा.443)। `नोदात्तोपदेश'(7.3.34) इत्यादिना वृद्धिप्रतिषेधे प्राप्तेऽनाचमेरित्यत्र `चमिकमिवमीनामिति वक्तव्यम्' (वा.844) इति वृद्धिरेव भवति। `{किंशारुकं-काशिका} शारुकः'इति। `शृ हिंसायाम्' (धा.पा.1488)। अपपूर्वाल्लषेः `अपेै च लषः'(3.2.144) इति धिनुण् भवति। उक्तं हि प्राक्-- ताच्छीलिकेषु `ग्लाजिस्थश्च क्सनुः' (3.2.139) इति वचनसामर्थ्यात्। गमेश्छन्दसि `आदृगम'(3.2.171) इत्यादिना किकिनावपि भवतः। भाषायामपि;`भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः (वा.284) इत्युपसंख्यानात्। कमेः `नमिकम्पि' (3.2.167) इत्यादिना रप्रत्ययः।।
155. जल्पभिक्षकुट्टलुण्टवृङः षाकन्। (3.2.155)
`जप जल्प व्यक्तायां वाचि' (धा.पा.397,398), `भिक्ष `याच्ञायाम्' (धा.पा.606) `कुट्ट {छेदनेभर्त्सनयोः-धा.पा.} च्छेदने' (धा.पा.1558), `लुण्ट स्तेये'(धा.पा.1563)-- चौदादिकावेतौ। `वृङ सम्भवतौ' (धा.पा.1509)। जल्पेरकर्मकत्वविवक्षया `चलनशब्दार्थादकर्मकाद्युच्' (3.2.148) इति युचि प्राप्ते। भिक्षेरपि `अनुदात्तेतश्च हलादेः'(3.2.149) इति युच्येव। कुट्टिलुण्टिभ्यां `णेश्छन्दसि'(3.2.137) इतीष्णुचि। वृङोऽपि `आदृगमहन' (3.2.171) इत्यादिना किकिनोः प्राप्तयोस्तदपवादः षाकन् विधीयते। `वराकी'इति। षित्वान्ङीष्।।
156. प्रजोरिनिः। (3.2.156)
`जुचंक्रम्य' (3.2.150) इत्यादिना युचि प्राप्त इनिर्विधीयते। इकारो नकारस्येत्संज्ञापरित्राणार्थः।।
157. जिदृक्षिश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च। (3.2.157)
`जि जये' (धा.पा.561), `दृङ आदरे' (धा.पा.1411), `श्रिञ् सेवायाम्'(धा.पा.897) विपूर्वः, `इण् गतौ' (धा.पा.1045), `टुवम उद्गिरणे' (धा.पा.849), `व्यथ {भयसञ्चलनयोः-धा.पा.} भयचलनयोःर' (धा.पा.764) नञ्पूर्वः, `अम रोगे'(धा.पा.1720) अभिपूर्वः। `षू प्रेरणे' (धा.पा.1408) प्रपूर्व इत्यस्य ग्रहणम्, न `षूङ प्राणिगर्भविमोचने'(धा.पा.1031) `षूओङ प्राणिप्रसवे'(धा.पा.1132) इत्येतयोः। निरनुबन्धकपरिभाषयेति (व्या.प.53) भावः। इण्जिभ्यामित्यत्र `इण्नश्जिसर्त्तिभ्यः क्वरप्'(3.2.163) इति वचनात् क्परप् भवति।।
158. स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्। (3.2.158)
`चुरादावदन्ताः पठ्यन्ते' इति। तेनातो लोपे कृते `अचः परस्मिन् पूर्वविधौ'(1.1.57) स्थानिवद्भावाद्वृद्धिगुणौ न भवत इत्याभिप्रायः। एतेभ्यश्छन्दसि पूर्ववदिष्णुचि प्राप्ते द्रातेर्दधातेश्च किकिनोः प्राप्तयोरालुज्विधीयते। `स्पृहयालुः'इति। `अयामन्त' (6.4.55) इत्यादिना अयादेशः। `आलुचि' इत्यादि। शीङ गृह्यते। येन तच्छीङग्रहणं तत् पुनर्व्याख्यानमित्येतदुक्तं भवति। तद्व्याख्यानं कर्त्तव्यं येनालुचि विधातव्ये शीङोऽपि ग्रहणं भवति। तत्रेदं व्याख्यानम्--पूर्वसूत्रादिह चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन शीङपि प्रकृतित्वेन गुह्यत इति।।
159. दाधेट्सिशदसदो रुः। (3.2.159)
`डुदाञ् दाने' (धा.पा.1091), `दो अवखण्डने'(धा.पा.1148), `देङ रक्षणे'(धा.पा.962)--त्रयाणामिह ग्रहणम्; `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति वचनात्। `धेट् पाने'(धा.पा.902), षिञ् बन्धने' (धा.पा.1477), `शद्लृ शातने' (धा.पा.1428), `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.1427)। अथ `धारुर्वत्सो मातरम्' इति कथमत्र द्वितीया, यावता `कर्त्तृकर्मणोः कृति' (2.3.65) इति षष्ठ्या भवितव्यमित्यत आह-- `न लोकाव्ययनिष्ठा' इति। उको य उकारस्तेन सहाकः सवर्णदीर्घत्वेन प्रश्लिष्टः, तेन तदन्तविधौ विज्ञायमाने उकारान्तस्य प्रत्ययस्य प्रयोगे षष्ठी न भवति, तेन द्वितीयैव भवतीति न षष्ठी। नन्विह तर्हि-- कटं चिकीर्षुरिति प्रतिषेधो न स्यात्, उप्रत्यय्सयानुकारान्तत्वात्। घिनुणपि बवति। छन्दस्युकारान्तत्वात् `आदृगमहन' (3.2.171) इत्यादिना किकिनावपि भवतः।।
160. सृघस्यदः क्मरच्। 3.2.160)
161. भञ्जभासमिदो घुरच्। (3.2.161)
`{भञ्ज आमर्दने'(धा.पा.1453), `भासृ दीप्तौ'(धा.पा.624), `ञिमिदा {स्नेहने-धा .पा.} स्नेहनमोचनयोः'(धा.पा.1243)। `भङगुरम्'इति। `चजोः कु घिण्ण्यतोः' (7.3.52) इति कुत्वम्। `कर्मकर्त्तरि प्रत्ययः' इति। भज्यते स्वयमेवेत्यर्थः। कुतः पुनः कर्मकर्त्तरि प्रत्यो लभ्यत इत्यत आह--`स्वभावात्' इति। प्रकृत्यैव प्रत्ययः कर्मकर्त्तरिमभिधत्ते, न कर्त्तृमात्रम्। अतः कर्मकर्त्तर्येव।।
162. विदिभिदिच्छिदेः कुरच्। (3.2.162)
`ज्ञानार्थस्य विदेर्ग्रहणम्' इति। `विद ज्ञाने' (धा.पा.1064) इत्येतस्य। `न लाभार्थस्य' इति। `विद्लृ लाभे' (धा.पा.1432) इत्येतस्य । अज्ञानार्थस्य विदेरुपलक्षणमेतत्, तेन सत्ताविचारणार्थौ यौ विदी तयोरपि ग्रहणं न भवत्येव। क्वचित्त्वनयोरादिशब्देनोपसंग्रहाय लाभार्थस्येति पाठः। कस्मात् पुनर्ज्ञानार्थस्य ग्रहणमित्याह-- `स्वभावात्' इति। विदेरुत्पन्नेन प्रत्ययेन स्वभाव एव ज्ञानक्रियाया यः कर्त्ता स एव प्रतीयते, नान्यः। तस्माज्ज्ञानार्थस्य ग्रहणम्, नान्यस्य। `कर्मकर्त्तरि प्रत्ययः'इति। स्वयमेव च्छिद्यत इत्यर्थे। तत्र स्वभावादिति पूर्वोक्त एव हेतुः।।
163. इण्नश्जिसर्त्तिभ्य क्वरप्। (3.2.163)
`इत्वरः' इति। `ह्रस्वस्य पिति कृति तुक्' (6.1.71)। `इत्वरी' इति। `टिड्ढाणञ्' (4.1.15) इत्यादिना ङीप्।।
164. गत्वरश्च। (3.2.164)
165. जागरूकः। (3.2.165)
`जागरूकः' इति। `जागृ निद्राक्षये' (धा.पा.1072)। वाऽसरूपविधिना तृन्नपि-- जागरितेति भवति।।
166. यजजपदशां यङः। (3.2.166)
दंशेर्यदि `अनिदिताम्' (6.4.24) इत्यादिनाऽनुनासिकलोपो लुप्तेऽपि यङि प्रत्ययलक्षणेन सिध्यति, तथापि लाघवार्थं कृतानुनासिकलोपो द्रष्टव्यो निर्दिष्टः। `यायजूकः' इति। यजेर्यङ, `दीर्घोऽकितः' (7.4.83) इति दीर्घः, `अतो लोपः' (6.4.48) इत्यकारलोपः। `जञ्जपूकः, दन्दशूकः' इति। `लुपसद' (3.1.24) इत्यादिना यङ, `जपजभ'(7.4.86) इत्यादिनाऽभ्यासस्य नुक्।।
167. नमिकम्पिस्म्यसकमहिंसदीपो रः। (3.2.167)
णम प्रह्वत्वे शब्दे' (धा.पा.981), `कपि चलने' (धा.पा.375), `ष्मिङ ईषद्धसने' (धा.पा.948), `कमु कान्तौ' (धा.पा.443), `{तृह-धा.पा} तृहि हिसि हिंसायाम्' (धा.पा.1455,1456), `दीपी दीप्तौ' (धा.पा.1150)। कपेश्चलनार्थत्वात् कमिदीपिभ्यञ्चानुदा4त्तेत्त्वाद्युचि प्राप्ते रो विधीयते। `क्रियासातत्यम्' इति। क्रियमाणानामविच्छेदेन प्रवृत्तिः = क्रियासातत्यम्। तत्र स्वभाव एव प्रत्ययान्तो वर्त्तते।।
168. सनाशंसभिक्ष उः। (3.2.168)
`सन्प्रत्ययो गृह्यते' इति। `गुप्तिज्किद्भ्यः' (3.1.5) इत्यादिना यो विहितः। `न सनिर्धातुः'इति। `षणु दाने' (धा.पा.1464) ` वन षण सम्भक्तौ' (धा.पा.463,464) इति न गृह्यते। एतच्च गर्गादिषु जिगीषुशब्दपाठाद्विज्ञायते, स हि प्रत्ययग्रहणे चोपपद्यते, न तु धातुग्रहणे। `आङ शासि इच्छायाम्'इत्यादि। एतदप्याङा सह निर्देशाद्विज्ञायते। इच्छार्थो ह्याङसहितः पठ्यते, न स्तुत्यर्थः। `आशंसु, भिक्षुः' इति। अत्र `अनुदात्तेश्च हलादेः' (3.2.149) इति युचि प्राप्त उप्रत्ययस्य विधानम्।।
169. विन्दुरिच्छुः। (3.2.169)
`विदेः' इति। `विद ज्ञाने' (धा.पा.1064)। इतरेषां त्वनभिधानान्निपातनसामर्थ्याद्वा ग्रहणं न भवति। `इषेः' इति। `{इष-धा.पा.} इषु इच्छायाम्' (धा.पा.1351) इत्येतस्य । `इष गतौ' (धा.पा.1127) इत्यादीनां त्विषीणां पूर्ववद्ग्रहणं न भवति। `इच्छुः' इति। छकारादेशो निपात्यते। `छे च' (6.1.73) इति तुक्, `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्।।
170. क्याच्छन्दसि। (3.2.170)
`मित्रयुः' इति। मित्रमिच्छतीति `सुप आत्मनः क्यच्'(3.1.8) इति क्यच्। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घत्वं प्राप्नोति, `क्यचि च' (7.4.33) इतीत्त्वञ्च, एतदुभयमपि `न च्छन्दस्यपुत्रस्य' (7.4.35) इति प्रतिषेधान्न भवति। `संस्वेदयुः'इति। लोहितादित्वात् (3.1.13) क्यष्। `सुम्नयुः' इति। `देवसुम्नयोः' (7.4.38) इति प्रतिषेधः। सुम्न इवाचरतीति `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति क्यङ।।
171. आदृगमहनजनः किकिनौ लिट् च। (3.2.171)
परपदार्थेषु प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थं गमयन्ति, यथा-- गौर्वाहीकः, सिंहो माणवक इति। गौर्वाहीक इत्युक्ते गो शब्दोऽर्थान्तरे प्रयुक्तो विनापि वतिना गौरिवायमिति तुल्यशब्दरूपे वाहीके प्रतीयते। इह लिडिति स्वार्थादन्यत्र किकिनोः प्रयुक्तः। तस्मादसत्यपि वतिना योगेऽतिदेशो गम्यत इत्याह-- `लिड्वच्च तौ भवतः'इति। लिटा तुल्यौ = तुल्यधर्माणौ भवत इत्यर्थः। द्विर्वचनादिकं यल्लिटः कार्यं तत् किकिनोर्भवतीति भावः। कार्यातिदेशोऽयम्, न शास्त्रातिदेशः; कार्यातिदेशापेक्षया शास्त्रातिदेशस्याप्राधान्यात्। अप्राधान्यं तु शास्त्रातिदेशस्य कार्यत्वात्। यदि तर्हि कार्यातिदेशोऽयम् `लः परस्मैपदम्' (1.4.99) इति परस्मैपदसंज्ञाऽपि किकिनोः प्राप्नोति, ततश्चात्मनेपदिभ्यस्तौ न स्याताम् ? नैष दोषः; लादेशस्य हि परस्मैपदसंज्ञा, न लकारस्य। `ल' इति ह्यादेशापेक्षया तत्र षष्ठी, लादेशः परस्मैपदसंज्ञको भवतीति यावत्। न च किकिनौ लादेशौ,तत्कुतः परस्मैपदसंज्ञायाः प्रसङ्गः। तिबादयस्तर्हि कस्मान्न भवन्ति ? तयोर्विधानसामर्थ्यात् । यदि तर्हि तिबादयः स्युः, किकिनोर्विधानमनर्थकं स्यात्-- लिटमेव विदध्यादिति, न च तिबादिभिस्तच्छीलादयो विधीयन्ते ? अनभिधानान्न भविष्यन्ति। क्वसुकानचौ कस्मान्न भवतः, न च तयोर्भाव आनर्थक्यं किकिनोरुपपद्यते; `लिटः कानज्वा' (3.2.106) `क्वसुश्च' (3.2.107) इति विकल्पेन क्वसुकानचोर्विधानात् ? अनभिधानादेव तावपि न भविष्यतः; न हि ताभ्यां तच्छीलादयो विधीयन्ते;अत एवानभिधानात्। `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इतिभावकर्मणोरपि किकिनौ न भवतः। यथैव हि `भञ्जभासमिदो घुरच्' (3.2.161) इति भञ्जेरुत्पन्नेन च घुरचा स्वभावात् कर्मकर्त्तैवाभिधीयते न कर्त्तृमात्रम्, तथा किकिन्भ्यामपि धातोरुत्पन्नाभ्यां स्वभावादेव कर्त्तैवाभिधीयते, न भावकर्मणी। `आदिति दकारो मुखसुखार्थः'इति। तपरत्वनिरासार्थमेतत्। अत एवाह-- ` न त्वयं तपरः' इति। किं पुनः कारणं तपरो नेष्यत इत्याह-- `मा भूत्' इत्यादि। `तपरस्तत्कालस्य' (1.1.70) इति तादपि पर इति पञ्चमीसमासोऽप्याश्रितः। `वृद्धिरादैच्' (1.1.1) इत्यत्र त्रिमात्रचतुर्मात्रयोरैचां वृद्धिसंज्ञा मा भूदित्येवमर्थम्। ततश्च यद्येवं तपरः स्यात् तदा ऋकारेऽपि तपर एव स्यात्, ततश्च ऋकारेण तत्कालानां मात्रिकाणामेतद्ग्रहणं स्यात्, न पुनर्दीर्घाणाम्। तत्र को दोषः ? दधिश्चक्रिरित्येवमादावेव स्याताम्; ततुरिः, जगुरिरित्येवमादौ च न स्याताम्। तस्मात् मा भूदित्येव दोष इति तपरत्वमत्र नेष्यते। `पपिः सोमम्' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः, द्विर्वचनम्, अभ्यासस्य ह्रस्वः। `न लोकाव्ययनिष्ठा' (2.3.69) इत्यादिना षष्ठीप्रतिषेधः कार्यं इति सोमशब्दात् कर्मणि द्वितीयैकवचनं भवति। `ददिः' इति। `डुदाञ् दाने' (धा.पा.1091)। `ततुः' इति। `बहुलं छन्दसि'(7.1.103) इत्युक्तम्, रपरत्वञ्च। `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावात् तृशब्दो द्विरुच्यते। (धा.पा.7.4.66) इत्यत्त्वम्,रपरत्वम्, हलादिशेषः (7.4.60)। `जगुरिः' इति। `गृ निगरणे' (धा.पा.1410) `जन्मिः, जघ्निः' इति। `गमहन' (6.4.98) इत्यादिनोपधालोपः। जनेर्नकारस्य `स्तो श्चुना श्चुः' (8.4.40) इति श्चुत्वं ञकारः।
`अथ' इत्यादि चोद्यम्। `ऋच्छत्यृताम्' इत्यादिना परीहारः।
`उत्सर्गश्छन्दसि' इत्यादि। सामान्येन विधानम् = उत्सर्गः। एतदुक्तं भवति-- प्रकृतिविशेषमनुपादाय धातुमात्रात् किकिनोरुत्पादौ द्रष्टव्याविति। धातुमात्राद्विधातव्याविति यावत्। कुतो हेतोरित्याह-- `सदादिभ्योऽपि दर्शनात्' इति। सदादिभ्योऽपि सूत्रानुपात्तेभ्यः किकिनौ यस्मादुत्सर्गः कर्त्तव्यः। `सेदिः,नेमिः'इति। पूर्वदेत्त्वाभ्यासलोपौ। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854), `णम प्रह्वत्वे शब्दे' (धा.पा.981), `अत एकहल्मध्येऽनादेशादेर्लिटि'(6.4.120) इत्येत्त्वाभ्यासलोपौ।
`दधिः, चक्रिः' इति। घाञः पूर्ववदाकारलोपः। `चक्रिः, सस्रिः' इति। करोतेः सर्त्तेश्च यणादेशः। `जज्ञिः' इति। जनेः पूर्वच्चुत्वोपधालोपौ। `नेमिः'इति। पूर्ववदत्त्वाभ्यासलोपौ।
`सहिवहि' इत्यादि। भाषायामपि वर्त्तते। `सासहिः' इत्यादि। सहादिभ्यो यङ, द्विर्वचनम्, पूर्ववदकारयलोपौ।।
172. स्वपितृषोर्नजिङ्। (3.2.172)
`स्वप्नक, तृष्णक्' इति। `ञिष्वप शये' (धा.पा.1068), `ञितृषा पिपासायाम्' (धा.पा.1228), `चोः कुः'(8.2.30) इति कुत्वम्-- गकारः। तस्य `वाऽवसाने' (8.4.58) इति चर्त्वम्-- ककारः। नजिङो ङकारस्तृषेश्च गुणप्रतिषेधार्थः, इकार उच्चारणार्थः।।
173. शृवन्द्योरारुः।(3.2.173)
शृणोतेः `लषपत' (3.2.154) इत्यादिनोकञपि भवति। वन्दतेः `अनुदात्तेतश्च' (3.2.149) इत्यादिना युचि प्राप्ते वचनमिदम्।।
174. भियः क्रुक्लुकनौ। (3.2.174)
`क्रुकन्नपि वक्तव्यम्' इति। क्रुकन्नित्यपरः प्रत्ययो वाच्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- `आदृगमहन' (3.2.171) इत्यादेः सूत्राच्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, स चानुक्तसमुच्चयार्थः। तेन क्रुकन्नपि भविष्यतीति।।
175. स्थेशभासपिकसकसो वरच्। (3.2.175)
`स्थावरः'इति। `एकाच'(7.2.10) इत्यादिनेट्प्रतिषेधः।`ईश्वरः' इत्यादावपि `नेड् वशि कृति' (7.2.8) इति। तिष्ठतेः पूर्वसूत्रविहितौ क्स्नूकञावपि वचनाद्भवतः। ईशभासोः पूर्ववद्युचि प्राप्त इदं वचनम्।
176. यश्च यङः। (3.2.176)
`यायावरः' इति। पूर्ववदकारयलोपौ।।
177. भ्राजभासधुर्विद्युतोजिपॄजुग्रावस्तुवः क्विप्। (3.2.177)
`{भ्राजृ- धा.पा} भ्राज दीप्तौ' (धा.पा.181), `भासृ दीप्तौ' (624), `उर्वी तुर्वी थुर्वी धुर्वी हिंसार्थाः'(धा.पा.569,570,571,573), `द्युत दीप्तौ' (धा.पा.741), `उर्ज बलप्राणनयोः' (धा.पा.1549), `पॄ पालनपूरणयोः' (धा.पा.1086), `जु'इति सौत्रो धातुः, `ष्टुञ् स्तुतौ' (धा.पा.1043) ग्रावपूर्वः। `विभ्राट्' इति। व्रश्चादिसूत्रेण (8.2.36) षत्वम्। पूर्ववज्जश्त्वं चर्त्वञ्च। `धूः' इति। `राल्लोपः' (6.4.21) इति वकारलोपः, `र्वोरुपधाया दीर्घ इकः' (8.2.76) इति दीर्घः। `पूः'इति। `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, रपरत्वञ्च, पूर्ववद्दीर्घत्वम्। `जवतेर्दीर्घश्च' इति। कथम् ? केचिदाहुः-- सूत्रे `जू' इति दीर्घः पठितव्य इति। अपरे त्वाहुः- उत्तरसूत्रे दृश्यत इत्युभयोरपि योगयोः शेषः, तच्च विध्यन्तरोपसंग्रहार्थम्, अतोजवतेर्दीर्घो विधीयत इति। ग्रावाणं स्तौतीति ग्रावस्तुत्।`ह्रस्वस्य पिति कृति तुक्' (6.1.71)।
`किमर्थमिदम्' इत्यादि द्योद्यम्। `ताच्छीलिकैर्बाध्यते' इति परीहारः। स्यादेतत्-- वाऽसरूपविधिना क्वचिदपि भविष्यतीत्याह-- `वाऽसरूपविधिश्च' इति। एतत्तु `निन्दहिंस' (3.2.146) इत्यादौ सूत्र उक्तम्। ननु च `सूददीपदीक्षश्च' (3.2.153) इति सूत्रे प्रायिकत्वं ज्ञापकस्य प्रतिपादितम्, वाऽसरूपविधिश्चात्र नास्तीत्याह-- `तस्यैव' इति। `अन्येभ्योऽपि दृश्यते' (3.2.75), `क्विप् च' (3.2.76) इत्यादिना भवति।।
178. अन्येभ्योऽपि दृश्यते। (3.2.178)
ननु चान्यभ्योऽपीत्येतावतैव सिद्धम्, तत्किमर्थं दृशिग्रहणमित्यादि ? क्वचिदित्यादिना येषामुपसंग्रहार्थं दृशिग्रहणं तानि विध्यन्तराणि दर्शयति। यस्मात् विध्यन्तराणामुपसंग्रहार्थं दृशिग्रहणम्,एवञ्च कृत्वा वृत्तिकारः `क्विब्वचिपृच्छि'(वा.288) इत्यादिकं वाक्यं पठति। दृशिग्रहणोपात्तानि तान्येव विध्यन्तराणि दर्शयितुमित्यभिप्राय-। कथं पुनर्दृशिग्रहणेन विध्यन्तरोपसंग्रहः ? दृशिग्रहणे हि सति `यथा दृश्यन्ते क्विबन्ता धातवस्तथैव तेऽनुगन्तव्याः' इत्येषोऽर्थो लभ्यते। तस्मिंश्चार्थे लभ्यमाने द्विर्वचनादिविधयः संगृहीता भवन्ति। एवं हिते यथा दृश्यन्ते तथानुगता भवन्ति। यदि यथायोगं द्विर्वचनादयो विधीयन्ते, तदा क्विबन्तेषु क्वचिद्द्विर्वचनं दृश्यते, क्वचिदपि संप्रसारणमिति युक्तमुक्तम्-- `दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्' इति।
`वाक्' इति। वचेर्वच्यादिसूत्रेण (6.1.15) प्राप्तस्य सम्प्रसारणस्याभावः क्रियते। `शब्दप्राट्' इति। पृच्छेरपि ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणस्य। व्रश्चादिसूत्रेण (8.2.36) षत्वम्, पूर्ववज्जश्त्वं चर्त्वञ्च। आयतं स्तौतीति `आयतस्तूः' । `ष्टुञ् स्तुतौ' (धा.पा.1043)। कटं प्रवत इति `कटप्रूः'। `प्रुङ गतौ' (धा.पा.957)। `श्रीः' इति। `श्रिञ् सेवायाम्' (धा.पा.897)। `दिद्युत्' इति। `जगत्' इति। `गमः क्वौ'(6.4.40) इत्यनुनासिकलोपः। `ददृत्' इति। `उरत्'(7.4.66) इत्यत्त्वम्, रपरत्वम्, हलादिशेषः (7.4.60)।`धीः'इति। `ध्यै चिन्तायाम्' (धा.पा.908) `हलः' (6.4.2) इति दीर्घः।।
179. भुवः संज्ञान्तरयोः। 3.2.179)
`धनिकाधमर्णयोः' इत्यादि। धनिको यस्मै ऋणं धार्यते। अधमर्णो यो धारयति। तदन्तरे मध्ये यस्तिष्ठत्यात्मपक्षपतितः सम्प्रत्ययहेतुः सप्रतिभूशब्देनोच्यते, न सर्वः। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र प्रत्ययो न वति। एतच्च शब्दशक्तिस्वाभाव्याल्लभ्यते, `दृश्यते' (3.2.178) इत्यस्यानुवर्त्तेर्वा। अस्य ह्यनुवृत्तौ प्रतिभूरिति संज्ञेयम्, तत् किमन्तरग्रहणेन, संज्ञायामित्येव वक्तव्यम् ? नैतदस्ति; द्रव्यताविघाता हि संज्ञाशब्दा भवन्ति, न चैवं प्रतिभूशब्दः। तथापि सत्यपि देवदत्ते कदाचिदसौ न प्रवर्त्तत एव।।
180.विप्रसंभ्यो ड्वसंज्ञायाम्। (3.2.180)
`विभुः' इति। पूर्वेण क्विबेव भवति।
`मितद्रवादिभ्य उपसंख्यानम्' इति। आविशेषेण-- संज्ञायाम्, असंज्ञायाञ्च। `मितद्रवादिभ्यः'इति तादर्थ्ये चतुर्थी। मितद्रवादयो डुप्रत्ययान्ताः साधवो यथा स्युरित्येवमर्थः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्व प्रतिपादनं प्रकृतत्वाड्डुशब्दस्य । तत्रेदं प्रतिपादनम्-- `अन्येभ्योऽपि दृश्यते' (3.2.178) इत्यतोऽपि शब्दोऽत्रानुवर्त्तते, तेन मितद्रवादिब्यो डुप्रत्ययो धात्वन्तरादपि भवति, पदान्तरे चेति।।
181.धः कर्मणि ष्ट्रन्। (3.2.181)
`धयतेः' इति। `धेट् पाने' (धा.पा.902)। `दधातेः' इति। `डुधाञ् धारणपोषणयोः' (धा.पा.1092)। `कर्मणि कारके' इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् `कर्मण्यण्'(3.2.1) इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कर्त्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कर्त्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्हणं न कर्त्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहमं कर्त्तव्यं जायते ? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वर्त्तमान इत्यनुवृत्तेर्वर्त्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते ? नैतदस्ति;इहापि क्रियमाणे नैव वर्त्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि ? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते-- आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् `कर्मणि' इति प्रत्ययार्थं एव, नोपपदम्।।
182. दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे। (3.2.182)
`दाप् लवने ' इति। यथा `दाधा घ्वदाप्'(1.1.20) इति सूत्रे `दैप् शोधने' (धापा.924) इत्यस्यापि ग्रहणम्। तर्हीहापि कस्मान्न भवति ? अनभिधानात्। प्रकृत्यैव हि दात्रमिति ष्ट्रन्प्रत्ययान्तेन लवनस्य करणमुच्यते, न शोधनस्य। `करणे कारके' इति। एतेन करणप्रत्ययार्थतां दर्शयन्नुपपदत्वं निराकरोति। यद्युपपदत्वमस्यस्यात् तदाजादिषु दंष्ट्राशब्दस्य पाठो नोपपद्यते। `योक्त्रम्' इति। `चोः कुः'(8.2.30) इति कुत्वम्। `मेढ्रम्' इति। `हो ढः' (8.2.31) इति ढत्वम्, `झषस्तथोर्धोऽधः' (8.2.40) इति घत्वम्, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्, `ढो ढे लोपः' (8.3.13) `दंष्ट्रा'इति। अजादित्वाट्टाप्।
`दंशेः'इत्यादि। ननु च यथा `त्यजरज' (3.2.142) इति रञ्जेरनुनासिकनिर्देशे धिनुण्प्रत्यये रागीत्यनुनासिकलोपो भवति, तथा दंशेः ष्ट्रन्प्रत्यये न लोपो भविष्यति,तत्कथमस्य ज्ञापकतोपपद्यते ? नैष दोषः; यद्ययं निर्देशो दंशेः ष्ट्रन्प्रत्ययेऽनुनासिकलोपार्थः स्यात्, तदा दंष्ट्राशब्दस्याजादिपाठो विरुध्यते। तस्माज्ज्ञापकार्थत्वम्। `नद्ध्री'इति। `नहो धः'(8.2.34) इति धत्वम्, `झषस्तथोर्धो।धः' (8.2.40) इति तकारस्य धत्वम्, धकारस्य `झलां जश् झशि' (8.4.53) इति जश्त्वम्, `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्। येऽत्र सेटो धातवः शस्प्रभृतयस्तेषां हि `तितुत्रतथ' (7.2.9) इत्यादिनेट्प्रतिषेधः।।
183. हलसूकरयोः पुवः। (3.2.183)
`तच्चेत् करणं हलशूकरयोरवयवो भवति' इति। एतेन हलशूकरयोरित्येषाऽवयवषष्ठी, नत्वभिधेयसप्तमीति दर्शयति। `{मुखमुच्यते-- काशिका, पदमञ्जरी च} मुखमेवोच्यते' इति। नान्यः कर्णाद्यवयवः। एतच्चाभिधानशक्तिस्वाभाव्यात्।।
184. अर्त्तिलूधूसूखनसहचर इत्रः। (3.2.184)
`धू विधूनने' (धा.पा.1398), `षू प्रेरणे' (1408) इत्यनयोर्ग्रहणम्। `धूञ् कम्पने' (धा.पा.1487) ` {षूङ-धा.पा.} षूञ् प्राणिगर्भविमोचने' (धा.पा.1031) `षूङ प्राणिप्रसवे' (धा.पा.1132) इत्येतेषां `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति परिभाषया ग्रहणं न भवति।।
185. पुवः संज्ञायाम्। (3.2.185)
`बर्हिष्पवित्रम्' इति। पवतेः, पुनातेर्वा। अनेन पवित्रं बर्हिषा कृतम्। बर्हिष्पवित्रम् = कुशविकारः। प्रदेशिन्या अङ्गुलेर्वेष्टनमुच्यते।
186. कर्त्तरि चर्षिदेवतयोः। (3.2.186)
187. ञीतः क्तः। (3.2.187)
`मिन्न' इति। `आदितश्च' (7.2.16) इतीट्प्रतिषेधः। `रदाभ्याम्' (8.2.42) इति नत्वम्। एवं `क्ष्विण्णः' इत्यात्रापि। `अट्कुप्वाङ'(8.4.2) इत्यादिना णत्वम्। `धृष्टः' इति। `धुपिशसी वैयात्ये' (7.2.19) इतीट्प्रतिषेधः, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्।।
188. मतिबुद्धिपूजार्थेभ्यश्च। (3.2.188)
`मतः' इति। `मन ज्ञाने' (धा.पा.1176)। इट्प्रतिषेधः `एकाचः' (7.2.10) इत्यादिना, `अनुदात्तोपदेश' (6.4.37) इत्यादिनानुनासिकलोपः। `इष्टः' इति। `{इष--धा.पा.} इषु इच्छायाम्'(धा.पा.1351)। `उदितो वा' (7.2.56) इति विभाषितत्वान्निष्ठायां `यस्य विभाषा' (7.2.15) इतीट्प्रतिषेधः। `बुद्धः' इति। `बुध अवगमने' (धा.पा.858)। पूर्ववद्धत्वम्, तकारस्य जश्त्वम्,धकारस्य दकारः। `पूजितः, अर्चितः' इति। `{भ्वादौ नोपलभ्यते;चुरादित्वेनैव प्रसिद्धः।} पूज पूजायाम्' (धा.पा.1642);`अर्च पूजायाम्' (धा.पा.204) भ्वादी। एतौ चारदी च, तत्र यदा चुरादिभ्यां प्रत्ययस्तदा `निष्ठायां सेटि' (6.4.52) इति णिलोपः।
`शीलितः' इत्यादौ `शील समाधौ'(धा.पा.658) `क्षमुष् सहने' (धा.पा.442),`क्रुश {आह्वाने रोदने च- धा.पा}आह्वाने' (धा.पा.856), `जुषी प्रीतिसेवनयोः (धा.पा.1288),` रुष रोषे' (धा.पा.1670), `हृञ् हरणे' (धा.पा.899), `हृष तुष्टौ' (धा.पा.1229), `हृषु अलीके' (धा.पा.709),`तुष {प्रीतौ-धा.पा.} तुष्टौ (धा.पा.1184), `कमु कान्तौ' (धा.पा.443), `यम उपरमे' (धा.पा.984), `कष हिंसायाम्' (धा.पा.685), `मृङ प्राणत्यागे' (धा.पा.1403)-- इत्येतेषां धातूनां यथाक्रमेणैतानि रूपाणि। तत्राद्यौ सेटौ। यश्चात्र कश्चिदुदिदूदिच्च, तस्य निष्ठायां `यस्य विभाषा' (7.2.15) इतीट्प्रतिषेधः। यस्त्वीदित् तस्यापि `श्वीदितो निष्ठायाम्' (7.2.14) इतीट्प्रतिषेधः। हृषेरेव `हृषेर्लोमसु' (7.2.29) इत्यादिना `रुष्यमत्वरसंघुषास्वनाम्' (7.2.28) इति विभाषितेट्। `{नास्ति-काशिका} कान्तः, क्षान्तः' इति। `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः। `आक्रुष्टः' इति। व्रश्चादिना (8.2.36) षत्वम्। `संयतः' इति। पूर्ववदनुनासिकलोपः। `अमृतः' इति। गत्यर्थादीनां कर्त्तरि क्तः। `पूर्ववत्' (इति)। यथा शीलादिषु वर्त्तमाने निष्ठा तथाऽमृतशब्दस्यापीत्यर्थः।
`सुप्तः'इति। स्वपेः सम्प्रसारणम्। `शयितः' इति। `निष्ठा शीङ' (1.2.19) इत्यादिना कित्त्वप्रतिषेधाद्गुणः। `आशितः' इति। `अश भोजने' (धा.पा.1523) आङपूर्वः, `लिप उपदेहे' (धा.पा.1433), `तृप प्रीणने' (धा.पा.1195)। अत्र अशिशीङौ सेटौ; शेषास्त्वनिटः। `एकाचः' (7.2.10) इत्यादिनेट्प्रतिषेधः। यद्यपि शीलादयो वर्त्तमानकाले व्युत्पाद्यन्ते, तथापि शीलितो देवदत्तेन, रक्षितो देवदत्तेन आक्रुष्टो देवदत्तेनेत्यत्र `क्तस्य च वर्त्तमाने' (2.3.67) इति षष्ठी न भवति। यथा न भवति तथा तत्रैव प्रतिपादितम्।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायां
काशिकाविवरणपञ्जिकायां
तृतीयस्याध्यायस्य
द्वितीयः पादः।
-------------------