काशिकाविवरणपञ्जिका/तृतीयोऽध्यायः/प्रथमः पादः
काशिकाविवरणपञ्जिका प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाविवरणपञ्जिकाख्या
काशिकाव्याख्या
तृतीयोऽध्यायः
प्रथमः पादः
1. प्रत्ययः। (3.1.1)
`प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते' इति। शास्त्रस्य लाघवार्थम्। यदि सन्प्रत्ययः, क्यच्प्रत्ययः, क्यङप्रत्ययः इत्येवमेकैकं संज्ञिनमुपादायानकेषां भिन्नवाक्यैः प्रत्ययसंज्ञा विधीयेत् तदा शास्त्रसय् गौरवं स्यात्; संज्ञिनां बहुत्वात्। न हि तेषां तथाविधं सायान्यमभिन्नमस्ति यदुपादायैकेन वाक्येनानेकेषां संज्ञा कविधीयेत् यथा--- `वृद्धिर्यस्याचामादिस्तद्वृद्धम्' (1.1.73) इति। ननु चेदमस्ति समान्यं सविति, एवञ्च सूत्रं करिष्यते-- `सप्प्रत्ययः' इति, सविति प्रत्याहारग्रहणं च सनः सकारादारभ्य कपः पकारेण ? नैतदस्ति; अन्येऽपि बहवः पकाराः सन्ति-- `सिब्बहुलं लेटि' (3.1.34), `वदः सुपि क्यप् च' (3.1.106) इत्येवमादयः तत्र यदि प्रत्यासत्तिमाश्रित्यानन्तरः पकारः प्रत्याहारार्थ गृह्यते,तदा सिपः पकारेमैव प्रत्याहारग्रहणं विज्ञायेत। अथ व्याप्तिर्गृह्यते ? तदा `तप्तनप्तनाथनाश्च' (7.1.45) इति तनपः पकारेणैव स्यात्। स्यादेतत्-- व्याप्तेरेव न्याय आश्रयितव्यः। न च तनपः पकारेण प्रत्याहारगर्हणं भविष्यति, अपि तु कप एव, `इच एकाचोऽम्प्रत्ययवच्च' (6.3.68) इति वचनाज्ज्ञापकात्; अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादपार्थकमिदं स्यात् ? नैतदस्ति; असति हि प्रयोजने ज्ञापकं भवति, अस्ति ह्यस्य प्रयोजनम्, किं तत् ? अम्प्रत्ययप्रतिबद्धं विशिष्टमेव यथा स्यात्। प्रत्ययमात्रप्रतिबद्धं मा भूदिति नियमार्थमेतत् स्यात्, तत्कुतो वैयर्थ्यम्। अथापि कथ़ञ्चित् कपः पकारेणैव प्रत्याहारो लभ्येत, एवमपि प्रतिपत्तिगौरवं स्यात्। अतो लाघवार्थमधिकारेणैवेयं संज्ञा विधातुं युक्तेति मत्वाऽऽह-- `प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते' इति। यद्येवम्, प्रतियोगं तेनोपस्थातव्यम्, तत्रासावुपस्थितः सन्नादिभिरेव सम्बध्यते, न प्रकृत्यादिभिरिति नियमहेतुर्नास्ति। अतः प्रकृत्युपपदोपाधिविकारागमानामप्येषा संज्ञा स्यात्। तत्र प्रकृतिः-- `गुप्तिज्किद्भ्यः सन्' (3.1.5), उपपदम्-- `स्तम्बकर्णयो रमिजपोः' (3.2.13), उपाधिः-- `हरतेर्दतिनाथयोः पशौ' (3.2.25)। यद्यपि पश्वर्थस्य संज्ञायाः प्रयोजनं नास्ति, तथापि तद्वाचिनोऽस्तीति तस्य स्यादेव। विकारः-- `हनस्त च' (3.1.108), आगमः--`त्रपुजतुनोः षुक्' (4.3.138)। प्रत्ययसंज्ञायाञ्चैषां परत्वमाद्युदात्तत्वञ्च स्यात्। यद्यपि युगपदगुपादीनां परस्परापेक्षया सनादीनाञ्च परत्वं न सम्भवति, तथापि पर्यायेण स्यात्--- कदाचित् गुपादयः परे स्युः, कदाचित् सन्नादयः, अन्यतो वा कुतश्चिद्गुपादयः परे भवेयुरित्यत आह-- `प्रकृत्युपपद' इत्यादि। एतच्च न्यायप्राप्तमेवोक्तम्। कथम् ? प्रकृत्युपपदोपाधयस्तावत् परकार्यसिद्धये भूतविभक्त्या पञ्चम्यादिकया निर्दिश्यन्त इति तेषां पञ्चम्यादिविभक्त्यन्तं शब्दरूपं संज्ञासंज्ञिसम्बन्धं प्रतिपत्तुमयोग्यम्। तथा हि-- प्रथमान्तसय् वा सामानाधिकरण्येन संज्ञासंज्ञिसम्बन्धो भवति यत्र बुद्ध्याहितसंज्ञारूपः सोऽयमित्यभेदसम्बन्धमुपगतः संज्ञी संज्ञया सह निर्दिश्यते, यथा-- `वृद्धिरादैच्' (1.1.1) इति; षष्ठ्यन्तस्य वा यत्र संज्ञासंज्ञिनोर्भेदविवक्षायां संज्ञाशब्देन स्वरूपपदात्मकेनोपादीयमानेनोपजनितव्यतिरेकः षष्ठ्या संज्ञी निर्दिश्यते, यथा-- `स्वं रूपं शब्दस्याशब्दसंज्ञा' (1.1.68) इति। प्रकृत्यादयस्तु परोपकारयोग्यं विभक्तिविशेषमुपादाय वर्त्तन्त इत्यशक्य एषां संज्ञासम्बन्धः कर्त्तुम्। न च संज्ञासंज्ञिसम्बन्धयोग्यविभक्त्यध्याहारे सत्येषां संज्ञा भविष्यतीति युक्तं परिकल्पियितुम्। असति हि वचनस्यावकाशेऽध्याहारो युक्तः, न तु सति। अस्ति चावकाशः सन्नादिः। अप्राधान्याच्च प्रकृत्यादीनामयुक्ता संज्ञा। प्रधाने हि कार्यसम्प्रत्ययो लोके दृष्टः, यथा-- बहुषु गच्छत्सु कश्चित् पृच्छति कोऽयं याति ? स आह-- राजेति। तत्र यः पृच्छति, यश्चाचष्टे-- तयोरुभयोरपि प्रधाने राजनि सम्प्रत्यययो भवति। तस्मादिहापि प्रधाने सन्नादौ कार्यसम्प्रत्ययात् तस्यैव संज्ञा भविष्यति। प्राधान्यं पुनस्तस्यापूर्वस्य विधानात्। प्रकृत्यादीनां धात्वदिपाठे निर्ज्ञातस्वरूपाणां सन्नाद्यर्थोपादानादप्राधान्यम्, तत् कुतस्तेषां संज्ञा ? आगमविकारयोर्यद्यपि संज्ञासंज्ञिसम्बन्धयोग्यतया प्रथमया निर्देशः, विधेयत्वाच्च प्राधान्यम्, तथापि न भवति संज्ञा;यस्मात्प्रत्यय इति महती संज्ञा क्रियते। तस्या एतत्प्रयोजनमन्वर्थसंज्ञा यथा स्यात्--- प्रतियनत्यनेनार्थानिति प्रत्ययः। न च विकारागमाभ्यां कञ्चनार्थं प्रतियन्ति। यदि तर्ह्यन्वर्थसंज्ञेयम्, `अवेः कः' (5.4.28) `यावादिभ्यः कन्' (5.4.29) इत्येवमादीनां प्रत्ययसंज्ञा न प्राप्नोति; अर्थाभावात्। द्विवधो ह्यर्थः--लौकिकः, शास्त्रीयश्च; तत्र पूर्वः पदेनैव प्रतीयते, द्वितीयस्त्वन्वयव्यतिरेकाभ्याम्; स च तेषां नास्ति, विना प्रत्ययैः प्रकृतेरेव तदर्थस्य प्रतीतेः ? नैष दोषः; यद्यपि तेषामन्वयव्यतिरेकाभ्यामर्थो न समधिगम्यते, तथापि `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पु.प.90) इत्यस्मादेवाप्तवचनात् समधिगम्यते। तस्मात् तैरपि स्वार्थं प्रतियन्तीति तेऽपि प्रत्यया इत्लमतिप्रसङ्गेनेति स्थितमेतत्-- प्रकृत्यादीनां प्रत्ययसंज्ञा न भवतीति। `कर्त्तव्यम्, करणीयम्' इति। तव्यदादेः प्रत्ययसंज्ञायां `यस्मात्प्रत्ययविधिः' (1.4.13) इति तस्मिन् परतोऽङ्गसंज्ञा भवति। अथ कथं तदनन्तरं सन्नादिमतिक्रम्य व्यवहित एव तव्यदादिरुदाहृतः ? तत्राद्युदात्तादेरपि प्रत्ययसंज्ञाकार्यस्य सम्भवात्। सन्नादौ तु तन्न सम्भवति; धातुस्वरेणैव बाधितत्वात्।।
2. परश्च। (3.1.2)
`अयमप्यधिकारः' इति। न केवलं प्रत्यय इत्यपिशब्दार्थः। `योगे योगे उपतिष्ठते' इति। परिभाषाया अधिकारस्य भेदं दर्शयति। परिभाषा ह्येकदेशस्थैव सर्वत्र शास्त्रे व्याप्रियते, न तु प्रतियोगमुपतिष्ठते। `परिभाषा वा' इति। पक्षान्तरं दर्शयति। एकदेशस्यैव सर्वत्र शास्त्रे व्याप्रियत इत्येष परिभाषाधर्मो वृत्तौ न दर्शितः; अधिकारधर्मप्रदर्शनद्वारेणावगम्यमानत्वात्। यदि हि प्रयोगमुपतिष्ठमाना परिभाषा कार्यसिद्धौ व्याप्रियेत तदाऽधिकारपरिभाषयोर्भेदो न स्यात्, तथा च तयोरिह भेदेनोपन्यसो निष्फलः स्यात्। लिङ्गवती चेयं परिभाषा, लिङ्गञ्चास्याः प्रत्ययसंज्ञैव। धातोर्वेति क्रियावाचिन्या प्रकृतेरिदमुपलक्षणम्, तेन तिङन्तमपि गृह्यते। तदपि क्रियाप्रधानत्वात् क्रियावाचीति शक्यते व्यपदेष्टुम्। प्रधानेन हि व्यपदेशा भवन्ति, यथा--- राजधानीति। `प्रातिपदिकाद्वा' इति। अक्रियाभिधायिन्याः प्रकृतेरिदमुपक्षणम्, तेन ङ्यापावपि गृह्येते। `तैत्तिरीयम्' इति। प्रोक्तार्थे `तित्तिरवरतन्तुखण्डिकोखाच्छण्' (4.3.102) इति छण्। तदन्तात् `तदधीते तद्वेद' (2.4.59) इत्यण्। तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। अथ चकारः किमर्थः; यावता नात्र किञ्चित् प्रकृतमस्ति यच्चकारेण समुच्चीयते ? इत्याह-- `चकारः पुनः' इत्यादि। अन्यस्य समुच्चेतव्यस्याभावादस्यैव समुच्चयार्थश्चकारो विज्ञायते, तेन बहुलाधिकारेऽपि ये प्रत्यया विधीयन्ते तेष्वप्यृणादिषु परत्वं न विकल्प्यते।
किमर्थं पुनरिदमुच्यते ? परो यथा स्यात्, पूर्वो मा भूदिति। नैतदस्ति प्रयोजनम्, तथा हि-- यमिच्छति पूर्वं तमाह--- `अव्ययसर्वनाम्नामकच् प्राक्टेः' (5.3.71) इति। य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनं पर एव भविष्यति ? नैतदस्ति; येषामेव हि प्रत्ययानां देशो नियम्यते त एव नियतदेशाः स्युः। य इदानीमतोऽन्योऽनियतदेशः स कदाचित् परे, कदाचित् पूर्वे, कदाचिन्मध्ये स्यात्, तस्मात् परश्चेति वक्तव्यम् ? न वक्तव्यम्; यस्मात् धातोः प्रतिपदिकादिति च दिग्योगलक्षमेयं पञ्चमी; अन्यस्यापादानादेः पञ्चमीनिमित्तस्याभावात्। तस्मादेषैव परदिक्शब्दाध्याहारं करिष्यति ? नैतदस्ति; पूर्वदिक्शब्दाध्याहारः स्यात्, तथा च पूर्वेऽपि कदाचित् सन्नादयः स्युः। `तस्मादित्युत्तरस्य' (1.1.67) इत्यनया परिभाषया तर्हि व्यवस्था भविष्यति ? नैतदस्ति; यत्र पञ्चमीनिर्दिष्टात् परस्य षष्ठीनिर्देशस्य कार्यं विधीयते सोऽस्य विषयः, न च सन्नादयः षष्ठ्या निर्दिश्यन्ते, तनापि तेषां सम्बन्धिकार्यं विधीयते, तेषामेव भाव्यमानत्वात्। ननु च प्रत्ययसंज्ञाकार्यं विधीयते ? नैवम्, कथं पुनरसतां तेषां शक्यं संज्ञाकार्यं विधातुम् ? किञ्च येषां प्रत्ययसंज्ञैव न विधीयते-- `कणेष्ठः' (द.उ. 5.6) `शमेर्ढः' (5.11), इत्येवमादीनाम्, तत्र का गतिः स्यात् ? न ह्येषां प्रत्ययसंज्ञेष्यते, तथा हि-- कण्ठः, शण्ढ इत्यत्र प्रत्ययस्योच्यमानमिकादेशादिकार्यं न भवति। यद्येवम्, प्रत्ययस्योच्यमानं परत्वमपि न स्यात्? परश्चेत्यधिकारसामर्थ्याद्भविष्यति। असति ह्येतस्मिन् वचने सत्यपि तस्याः परिभाषाया उपस्थाने बहुलाधिकारे विधीयमानत्वादुणादिषु परत्वं विकल्प्येत। तस्मात् कर्त्तव्यमेतत्।।
3. आद्युदात्तश्च। (3.1.3)
`अनियतस्वरप्रत्ययप्रसङ्गे' इत्यादिना सूत्रारम्भस्य प्रयोजनं दर्शयति। अनियतोऽव्यवस्थितः स्वरो यस्य स तथा, स चासौ प्रत्ययश्चेति कर्मधारयः, तस्य प्रसङ्गशब्देन षष्ठीसमासः। अनियतस्वरो यः प्रत्ययस्तस्य प्रसङ्गे सति वचनमिदमादेरुदात्तार्थम्। `अनियतस्वरप्रसङ्गे' इति क्वचित्पाठः। तत्रानियतशब्दस्य स्वरशब्देन विशेषमसमासं कृत्वा प्रसङ्गशब्देन षष्ठीसमासः। अनियतानामुदात्तादीनां स्वराणां प्रसङ्गे सत्यादेरुदात्तार्थ वचनम्। `अनेकाक्षु च' इत्यादि। अनेकेऽचो येषां तेऽनेकाचः। तेष्वनेकाक्षु प्रत्ययेषु देशस्यानियमे सति वचनमादेरुदात्तार्थम्-- आदेरेवोदात्तत्वं यथा स्यात्, मध्येऽन्ते च मा भूदिति। ये ह्येकाचः प्रत्ययास्तत्र देशस्याभावादसत्यप्यादिग्रहणे देश्यानियमो न सम्भवति, अतोऽनेकाक्षु चेत्युक्तम्।
अनेकाचां ह्यसत्यादिग्रह आदिमध्यान्तानामनियमेन स्वरः प्रसज्येतनेकाचः प्रत्ययादेर्यद्याद्युदात्तार्थवचनं नार्थं एतेन; यस्मादादेरनुदात्तादीनां मध्यान्तयोश्चोदात्तस्य प्रसङ्ग एव नास्ति। तथा हि-- यमनुदात्तमिच्छति, करोति तत्र पकारमनुबन्धम्, आह च-- `अनुदात्तौ सुप्पितौ' (3.1.4) इति; स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धम्, आह च-- `तित् स्वरितम्' (6.1.185) इति; एकश्रुतिं यमिच्छति तत्रैकश्रुतिग्रहणं करोति, आह च-- `एकश्रुति दूरात्सम्बुद्धौ' (1.2.33) इति; अन्तोदात्तमपि यमिच्छति करोति तत्र चकारमनुबन्धम्, आह च-- `चितोन्त उदात्तो रित' (का.6.1.163) इति; मध्योदात्तमपि यमिच्छति, करोति तत्र रेफमनुबन्धम्, आह-- `उपोत्तमं रिति' (6.1.217) इति; य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनमाद्युदात्त एव भविष्यति ? नैतदस्ति; येषामेव हि स्वरो नियम्यते त एव नियतस्वराः स्युः, यस्त्वनियतस्वरः प्रत्ययस्तस्यानियमेनैव स्वरः प्रसज्येत-- कदाचिदुदात्तः कदाचित् स्वरान्तरम्। उदात्तोऽपि भवन् कदाचिदादौ, कदाचिन्मध्ये, कदाचिदन्ते स्यात्। तस्मात् कर्त्तव्यमेतत्।।
4. अनुदात्तौ सुप्पितौ। (3.1.4)
`पूर्वस्यायमपवादः' इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। सुबिति प्रत्याहारस्य ग्रहणम्, न सप्तमीबहुवचनस्य; तस्य पित्त्वादेवानुदात्तस्य सिद्धत्वात्। अत एव वृत्तौ `सुपः' इति बहुवचनेन निर्देशः कृतः। प्रत्याहारग्रहणञ्चेदं सुप एव पकारेण नान्येन; तस्यानन्यार्थत्वात्। `पचति, पठति' इति। शबत्रोदाहरणम्, न तिप; तस्य `तास्यनुदात्त' (6.1.186) इत्यादिनैव सिद्धत्वात्।।
5. गुप्तिज्किद्भ्यः सन्। (3.1.5)
`प्रत्ययसंज्ञा चाधिकृतैव' इति। विस्पष्टार्थमेतत्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते; `आ पञ्चमाध्यायपरिसमाप्तेः' (का.3.1.1) इत्यतो वचनादेव प्रतिपाद्यस्यावगतत्वात्। ननु च सत्यपि प्रत्ययसंज्ञाया इहोपस्थाने नैव तया सनो भवितव्यम्; यतः प्रत्यय इत्यन्वर्थसंज्ञेयम्-- प्रतियन्त्यनेनार्थानिति प्रत्ययः, न च सना कञ्चनार्थं प्रतियन्ति; तस्यानर्थकत्वात्, न हीह सनः कश्चनार्थो निर्दिश्यते। न च `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भविष्यति' (पु.प.पा.90) इतिस्वार्थ एव सन् भविष्यतीति युक्तं परिकल्पयितुम्; गोपनादेः स्वार्थस्य सन्नन्तादप्रतीतेः।
अथानर्थकस्यापि प्रत्ययाधिकारे विधानसामर्थ्यात् संज्ञा भविष्यतीति चेत् ? न; एवञ्च `हनस्त च' (3.1.108) `त्रपुजतुनोः षुक्' (4.3.138) इति विकारागमयोरपि स्यात्। नैष दोषः; अस्त्येव सनोऽर्थः, कः पुनरसो ? निन्दादिः। यदाह-- `निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते' (वा. 178) इति। कुतः पुनरेतदवसितम्-- सनोऽर्था निन्दादय इति ? अन्वयव्यतिरेकाभ्याम्। सति हि सनि जुगुप्सत इत्यादौ तेऽर्थाः प्रतीयन्ते, असति तु सनि सत्स्वपि गुपादिषु गोपयतीत्यादौ ते न प्रतीयन्ते। तस्मादर्थवानेव सन्निति भवत्येव प्रत्ययसंज्ञा। `जुगुप्सते' इत्यार्धधातुकत्वाभावादिण् न भवति। आर्धधातुकत्वाभावस्तु सनो धातोरित्यविधानात्। `कुहोश्चु' (7.4.62) इति चुत्वम्-- जकारः। `तितिक्षते' इति। जकारस्य `चोः कुः' (8.2.30) कुत्वम्-- गकारः। तस्य `खरि च' (8.4.55) इति चर्त्वम्-- ककारः।
`निन्दाक्षमा' इत्यादि। कथं पुनर्निन्दादिष्विष्यमाणो लभ्यते ? वक्ष्यमाणं वाग्रहणं सर्वस्य शेषो विज्ञायते, सा च व्यवस्थितविभाषा। तेन निन्दादिषु नित्यं सन् भवति, अन्यत्र न भवति। प्रायिकञ्चैतत् व्याधिप्रतीकारस्यार्थमन्यथा व्याख्यास्यति। अथ वा-- क्षेत्रियाणि च तृणानि शस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि। अथ वा-- क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्,तत्र चिकित्स्यो निग्रहीतव्य इत्यर्थः। संशयेऽपि दृश्यते-- `विचिकित्सति मे मनः' इति। यद्यप्यत्रोपसर्गसम्बन्धात् संशयः प्रतीयते, तथापि धातोरेव वाच्य इष्यते, उपसर्गस्य तु द्योत्यः। तस्मात् प्रायिकं व्याधिप्रतीकारग्रहणम्। प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते। `अन्यत्र' इति। गोपनादौ। `गोपयति' इति। हेतुमण्णिच्। तेजयति, `सङ्केतयति'इति। हेतुमण्णिच्, चुरादिण्ज्वाः; भ्वादौ चुरादौ चानयोः पाठात्।
अथ जुगुप्सत इत्यादौ कथमात्मनेपदं सन्नन्ताद्विधीयते, न च गुपादिभ्य प्राक् सन आत्मनेपदं पश्यामः ? इत्याह-- `गुपादिष्वनुबन्धकरणम्' इत्यादि। आत्मनेपदं यथा स्यादिति। गुपादिष्वनुबन्धोऽनुदात्तार्थः कृतः तस्मात् `अनुदात्तङितः' (1.3.12) इत्यात्मनेपदं भवतीति भावः। ननु च कृतेऽप्यनुबन्धे न भवितव्यमेव तेभ्य आत्मनेपदेन; सना व्यवहितत्वात् ? नैतदस्ति; अनुबन्धकरणसामर्थ्याद्भविष्यति। अथ वा-- `अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति' (है.ग.प.107) इति जुगुप्सादय एव समुदाया अनुदात्तेतः, तेनावयवधानेनैव तेभ्य आत्मनेपदं भविष्यति। एवं स्थिते यदत्र द्वेष्यमापद्यते तत् `पूर्ववत्सनः' (1.3.62) इत्यत्रोपन्यस्तमपास्तञ्च। अथ किमर्थं सनोऽकार उपदिश्यते, यावता तस्यार्धधातुके `अतो लोपः' (6.4.48) इति लोपेन भवितव्यम्, सार्वधातुकेऽपि शपा सहैकादेशेन, तत्र सत्यसति वाऽकारोपदेशे नास्ति कश्चिद्विशेषः ? नैतदस्ति; इह प्रतीषिषतीति प्रपूर्वादिणः सनि विहिते यद्यकारोपदेशो न स्यात् `अजादेर्द्वितीयस्य' (6.1.2) इति द्वितीयस्यैकाचो द्वर्वचनं विधीयमानं स इत्यस्य न स्यात्, अनच्कत्वात् सनः। अकारोपदेशे सति स इत्यस्य द्वितीयस्यैकाचो भवति। तदर्थोऽपकारोपदेशः।।
6. मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य। (3.1.6)
मान्बन्धी अनुदात्तेतौ, शेषौ स्वरितेतौ। इह दीर्घग्रहमात् `अचश्च' ((1.2.28) इति परिभाषोपस्थानादचाऽभ्यासो विशिष्यत इत्यजन्तस्याभ्यासस्य दीर्घो विधीयमानो नियतं हलादिशेषमपेक्षते; विना तेनाजन्तत्वाभावात्। तस्मिंस्तु सति न किञ्चित् प्रतीक्षणीयमिति तत्समनन्तरमेव दीर्घेण भवितव्यम्, ततश्चाभ्यासस्यावर्णस्य स्थाने भवन् ब्धेरित्त्वस्य बाधकः स्यात्, शेषाणान्तु ह्रस्वस्य, ततश्चानिष्टं रूपं स्यादिति यो मन्येत तं प्रत्याह-- `अभ्यासस्य चेकारस्य दीर्घो भवति' इति।कथं पुनरिकारस्य दीर्घो लभ्यते, यावता विशेषविधिः सामान्यविधेर्बाधको भवति, विशेषविहितश्च दीर्घः, ततोऽयं सामान्यविहितमित्त्वं बाधित्वाऽकारस्यैव प्राप्नोति ? अत एवं मन्यते-- `दीर्घोऽकितः (7.4.83) इत्यत्र ज्ञापितमेतत् स्यात्-- `अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन्बाधन्ते' (व्या.प.23) इति। अकिद्ग्रहणस्यैतत् प्रयोजनम्, इह मा भूत्-- यंयम्यते, रंरम्यते इति। यदि चाभ्यासविकारेष्वपवादैरुत्सर्गा बाध्येरन्नेवं सत्यपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यति, किमकित इत्यनेन। कृतञ्च; अतस्ततो ज्ञापयति-- नाभ्यासविकारेषु बाध्यबाधकभाव इति। `बीभत्सते' इति। `एकाचो बशो भष्' (8.2.37) इति बकारस्य भकारः, धकारस्य `खरि च' (8.4.55) इति तकारः।
`उत्तरसूत्रे' इत्यादि। अत्र हि सनो विधिमात्रमपेक्ष्यते वावचनेन, न त्वनन्तर एव विधिः। तेन त्रयाणामपि योगानां शेषो विज्ञायते। सर्वग्रहणं गुपादिसूत्रस्यापि (3.1.5) शेषो विज्ञायत इति ज्ञापनार्थम्, अन्यथा ह्यनन्तरस्यैव सूत्रस्य शेषो विज्ञायेत। `मानयति' इति। हेतुमण्णिच्, चुरादिणिज्वा, चुरादावप्यस्य पाठात्। `{निशानयति-- काशिका} निशानम्' इति। पचाद्यच्।।
7. धातोः कर्मणः समानकर्त्तृकादिच्छायां वा। (3.1.7)
कर्त्तृः क्रियया व्याप्तुमिष्टतमस्य कर्मभाव उपपद्यते। नान्यथेत्यवश्यं या काचित् क्रियाऽपेक्षितव्येति। इह चान्या न श्रूयते, प्रत्ययार्थत्वेन चेच्छा सन्निधापिता, अतः सैवापेक्षितुं युक्ता; प्रत्यासत्तेर्न्यायात्,तस्मात्, तयैव व्याप्यमानस्य कर्मभावो विज्ञायत इत्याह-- `इषिकर्म' इत्यादि। इषेः कर्मेति षष्ठीसमासः। प्रतियोग्यपेक्षत्वात् समानत्वस्य नियोगतः प्रतियोग्यपेक्षितव्यः, न च सूत्रे प्रतियोगी श्रूयते, तत्र पूर्वोक्तन्यायेनेषेरेव प्रतियोगित्वं विज्ञायत इत्याह--- `इषिणैव' इत्यादि। समान एकः कर्त्तास्येति बहुव्रीहिः, एककर्त्तृक इत्यर्थः। ननु चट धातोः कर्मत्वं नोपपद्यते, तस्यार्थधर्मत्वात्, धातोश्च शब्दात्मकत्वात्। अथ करोति धातुमिच्छतीत्यादौ प्रयोगे धातोरपि कर्मता दृष्टेति चेत् ? न ब्रूमः-- सर्वथा धातोः कर्मत्वं न भवतीति, किं तर्हि ? य इह सन्नुत्पत्तिनिमित्तभावनोपात्तः समानकर्त्तृकः, तस्य न सम्भवतीति ब्रूमः; यस्मात् समानकर्त्तृकत्वं साध्यमानस्यार्थस्य भवति, कर्मत्वं तु सिद्धस्वभावस्य। अङ्गीकृत्य च समानकर्त्तृकत्वं धातोः कर्मत्वे दोष उक्तः इदानीं तदपि न सम्भवत्येव। तथा हि-- धातुः शब्दः क्रियायाश्च कर्त्ता भवति, न शब्दस्येतत् आह-- `कर्मत्वम्' इत्यादि। `अर्थद्वारकम्' इति। अर्थो द्वारमुपायो यस्य तदर्थद्वारकमिति। अर्थस्य कर्मत्वात् समानकर्त्तृकत्वाच्च तद्वचनोऽपि धातुरर्थधर्मेणोपचारात् कर्मसमानकर्त्तृकश्चोच्यते, यथा--- `द्वन्द्वश्च प्राणितूर्य' (2.4.2) इत्यत्रार्थस्य प्राण्यङ्गत्वात् तद्वचनोऽपि प्रामअयङ्गमित्युच्यत इति भावः। `चिकीर्षति' इत्यत्र करोतेरर्थ इच्छया व्याप्यमानत्वात् समानत्वात् कर्मसमानकर्त्तृकश्चेषिणा; यस्मात् य एवेषेः कर्त्ता स एव तस्यापि। अतस्तद्द्वारेण करोतिरपि कर्मसमानकर्त्तृकश्चेति भावः। ततः सन्, `इको झल्' (1.2.9) इति सनः कित्त्वात् गुणभावः, `अज्झनगमां सनि' ((6.4.16) इति दीर्घः, `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रपरत्वम्, `हलि च' (8.2.77) इति दीर्घः, `इण्कोः' (8.3.57) इत्यनुवर्त्तमाने `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्, द्विर्वचनम्, अभ्यासकार्यम्।
धातुग्रहणं किमिति। धातुग्रहणं ह्येवमर्थं क्रियते-- गमनमिच्छतीति सुबन्थान्मा भूदिति। ननु चासत्यपि धातुग्रहणे ततः सन् भवितुं नोत्सहते; `सुप आत्मनः क्यच्' (3.1.8) इत्पपवादेन बाधितत्वात्, तस्मात् पारिशेष्याद्विनापि धातुग्रहणेन धातोरेव भविष्यतीत्यभिप्रायेणाह-- `सोपसर्गादुत्पत्तिर्मा भूत्' इति। यदोपसर्गविशिष्टो धात्वर्थ इषिणा व्याप्यते तदासावुपसर्गविशिष्ट एव कर्मत्वमनुभवतीति तदद्वारेणासौ सोपसर्ग एव धातुः। कर्मेति सोपसर्गादुत्पत्तिः स्यात्,ततश्च प्राचिकीर्षदित्यत्र द्विर्वचनं क्रियमाणं सन्नन्तस्यैकाचः प्रथमस्य द्विर्वचनं भवतीति `सन्यङोः' (6.1.9) इति समुदायादेः प्रशब्दस्य स्यात्। लङि च सोपसर्गस्याङ्गसंज्ञायां ततः प्रागडागमः स्यात्। यदि तर्हि सोपसर्गः, कर्मधातोरुत्पत्तिर्न स्यात्, तस्याकर्मकत्वात् ? नैतदस्ति, समुदायस्य हि कर्मत्वेऽवयवा अपिक्मत्वमनुभवन्ति;अवयवात्मकत्वात् समुदायस्य। अभ्युपाय एव ह्यवयवकर्मता समुदायकर्मतायाः; अन्यथा यदि समुदाये कर्मण्यवयवाः कर्मभावापन्ना न भवेयुः, तदा महान्तं पुत्रमिच्छतीत्यत्र कर्मलक्षणावयवा द्वितीया न स्यात्। ` गमेनेनेच्छति' इति। करणत्वप्रदर्शनार्थं ल्युहन्तोपन्यासः। धातोरेव हि सनोऽनुत्पत्तिः प्रत्युदाहरणम्। अस्त्यत्र समानकर्त्तृकत्वम्। तथा हि--- य एवेषेः कर्त्ता स एव गमनस्य, स ह्यात्मीयेन गमनेन करणभावमापन्नेन किमपि वस्त्विच्छति। क्मत्वं तु गमेरर्थद्वारकं नास्तीति न भवत्यतः सन्। `देवदत्तस्य भोजनमिच्छति' इति। देवदत्तस्येति `कर्त्तकर्मणोः कृति' (2.3.65) इति कर्त्तरि षष्ठी। अत्र हि भोजनस्य देवदत्तः कर्त्ता, इषेस्तु यज्ञदत्त इति समानकर्त्तृकत्वं नास्ति। `कर्तुं जानाति' इति। इच्छाग्रहणादिह ज्ञानेऽर्थे सन्न भवति। ननु चेषिकर्मा यो धातु रिषिणैव समानकर्त्तृकस्तत इच्छाया वा सन् भवतीत्युक्तम्। इह च यथेच्छा प्रत्ययार्थो नास्ति तथा धातोरिषिकर्मत्वमपि, इषिणा समानकर्त्तृकत्वञ्च, तदयुक्तं प्रत्युदाहरणम्, अङ्गत्रयवैकल्यात् ? नैतदस्ति, सति हीच्छाग्रहणे तद्विशेषणद्वयं प्रत्यासत्तेर्लभ्यते। असति तु तस्मिन् यां काञ्चित् क्रियां प्रति धातोः कर्मत्वं विज्ञायते, प्रतियोगिमात्रापेक्षया च समानकर्त्तृकत्वमिति काऽत्रायुक्तता !
`वावचनाद्वाक्यमपि भवति' इति। उत्तरसूत्र इति शेषः। इह तु `समानकर्त्तृकेषु तुमुन्' (3.3.158) इत्यत एव विधानात् कर्त्तृमिच्छतीति वाक्यं भविष्यति। नित्यत्वेहि सनस्तस्य वचनस्यानर्थक्यं स्यात्. अन्यदपि वावचनप्रयोजनमुक्तमेव, तस्यै समुच्चयार्थोऽपिशब्दः। `धातोरिति विधानात्' इत्यादि। `आर्धधातुके शेषः' (3.4.114) इत्यनेन धातोरित्येवं धातुशब्दमुच्चार्य विहितस्य प्रत्ययस्यार्धधातुकसंज्ञाविधानात्। इह धातोरित्येव सनो विधानमित्यार्धधातुकसंज्ञा न भवति, न हि तस्य तथा विधानमस्ति।
`आशङ्कायामुपसंख्यानम्' इति। आशङ्का = सम्भावना, सा च प्रयोक्तृधर्मः। `नदीकूलं पिपतिषति' इत्यचेतनत्वात् कूलस्येच्छा न सम्भवतीति न प्राप्नोति। `आशङ्के कूलं पतिष्यति' इत्यस्मिन् विषय एवं प्रयोगः। `श्वा मुमूर्षति' इति। पूर्ववत् कित्त्वदीर्घत्वे। `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्त्युक्तम्; रपरत्वञ्च। अत्र सत्यपि चेतनत्वे जीनस्य प्रियत्वाच्छुनो मर्तुमिच्छा न सम्भवतीति न प्राप्नोति। एष च प्रयोगः `अहमाशङ्केमरिष्यति श्वा' इत्यत्रार्थे वेदितव्यः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्त्तव्य इत्यव्याहार्यम्। प्रतिपादनं तु-- धातोरिति योगविभागः कर्त्तव्यः, तेनाशङ्कायामपि सन् भविष्यति।
`इच्छासनन्तात्' इत्यादि। इच्छायामर्थे यो विहितः सन् तदन्तात् सनः प्रतिषेधो व्याख्येयः। व्याख्यानं तूत्तरत्र करिष्यामः। स्वार्थे यः सन् तदन्तात् सनिष्यत एवेतीच्छाविशेषणं कृतम्। `जुगुप्सिषते' इति। `अतो लोपः' (6.4.48) इत्यकारलोपः।
`शैषिकात्' इत्यादि। अश्वप्तयादिभ्योऽर्थेभ्योऽदूरभव इत्येतत्पर्यन्तेभ्योऽन्यो योऽर्थः स शेषः, तत्र भवः शैषिकः, `अध्यात्मादिभ्यष्ठञ्' (वा.456) । तस्माच्छैषिकः सरूपः प्रत्ययो नष्टः। शालायाम्भव इति `वृद्धाच्छः' (4.2.114) शालीयः, शालीये भव इति पुनश्छो न भवति। विरूपस्तु भवत्येव-- अहिच्छत्रे भव आहिच्छत्रः, `प्राग्दीव्यतोऽण्' (4.1.83) आहिच्छत्रे भव आहिच्छत्रीयः-- अणन्ताद्वृद्धाच्छो (4.2.114) भवति। मतुबर्थे भवः प्रत्ययो मतुबर्थीयः, `गहादिभ्यश्च' (4.2.138) इति च्छः, मतुबर्थोऽस्यास्तीति मतुबर्थिकः प्रत्ययः, `अत इनिठनौ' (5.2.115) इति ठन्। मतुबर्थोऽस्यास्तीतिमतुबर्थीयात् प्रत्ययान्मतुबर्थिकः सरूपः प्रत्ययो नेष्टः। दण्डोऽस्यास्तीति दण्डिकः, पूर्ववट्ठन्, दण्डिकोऽस्यास्तीति मतुबर्थीयात् पुनष्ठन् न भवति। विरूपस्तु भवत्येव-- दण्डोऽस्यास्तीति दण्डी, दण्डिनोऽस्यां शालायां सन्तीति दण्डमती शाला, इन्नन्तान्मतुप् भवति। `सन्नतान्न सनिष्यते' इति। `सरूपः' इति सम्बध्यते। तत्र यद्यपि सनो रूपसारूप्यव्यभिचारो नास्ति, तथापि विशेषणसामर्थ्यादर्थसारूप्यमाश्रीयते। तेनेच्छासनन्तादिति गम्यते, पूर्वम् `इच्छासनन्तात्प्रतिषेधो वक्तव्यः' (वा.181) इत्यभिधानाच्च। यस्तु निन्दादिषु गुपादिभ्यः सन् तत् इच्छासन् भवत्येव। तथा चैवं वृत्तादुदाहृतम्।एतत्सर्वं न्यायप्राप्तमेवोदाहृतम्। कथम् ? निष्पन्ना हि प्रकृतिः प्रत्ययविधेर्निमित्तं भवति। न च सरूपशैषिकप्रत्ययविधानकाले तथाविधप्रत्ययानता निष्पन्ना प्रकृतिरस्ति, नापि सरूपमतुबर्थिकप्रत्ययविधानकाले तथाविधप्रत्ययान्ता निष्पन्ना प्रकृतिः, नापीच्छासनि विधीयमान इच्छासनन्तात् प्रकृतिर्लब्धसत्ताकास्ति; इदानीमेव हि `तत्र भवः' (4.3.53) इत्यादिभिर्लक्षणैः सरूपाणां शैषिकादीनां भाव्यमानत्वात्। तस्मादविद्यमानप्रकृतिकत्वात् ते यथोक्तप्रकारायाः प्रकृतेर्न सम्भवन्तीति।।
8. सुप आत्मनः क्यच्। (3.1.8)
आत्मशब्दः परस्य व्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स इह परिगृह्यते, न तु योऽन्तर्व्यापारवति पुरुषे भोक्तरि वर्त्तते; स इह गृह्यमाणोऽकिञ्चित्करः स्यात्। तेनेच्छा विशिष्येत, सुबन्तं वा; तत्रेच्छा तावदात्मनः, अन्यस्य न सम्भव्तयेवेति तद्विशेषणता तस्यायुक्ता। सुबन्थमप्येषित्रान्येन वा सम्बध्यमानमात्मसम्बद्धमेव भवति; उभयोरपि तयोरात्मसम्बन्धित्वात्। तस्मात् सुबन्तविशेषणत्वमपि तस्यायुक्तमिति परप्रतियोगिवचन एव गृह्यते। एवं हि कपरनिवृत्तिः शक्यते कर्त्तुम्, नान्यथा। अत्रापीच्छायाः सन्निधानात् तयैव व्याप्यमानस्य कर्मत्वं विज्ञायते, इत्याह-- `इषिकर्मणः' इति। आत्मग्रहणेन यदीच्छा विशिष्येत तदेहापि स्यात्-- राज्ञः पुत्रमिच्छतीति। राज्ञोऽपि पुत्र इष्यमाणे सत्यात्मन एवैषितुरिच्छा भवति। तस्मासुबन्तमेवात्मगर्हणेन विशेषयितुं युक्तमिति मत्वाऽऽह-- `एषितुरात्मसम्बन्धिनः' इति। आत्मसम्बन्धित्वं तु सुबन्तस्यार्थद्वारकं वेदितव्यम्। अथैषितुरेवैतत् कुतो लभ्यते ? इच्छया सन्निधीयमानयेहैषितुः सन्निधापितत्वात्। एतदपि कुतः ? तेन विना तदभावात्। `पुत्रीयति' इति। `क्यचि च' (7.4.33) इतीत्त्वम्।
सब्ग्रहणमिह प्रातिपदिकनिवृत्त्यर्थं वा स्यात् ? धातुनिवृत्त्यर्थं वा ? तत्र प्रातिपदिकनिवृत्त्यर्थं तावन्नोपपद्यते, न हि सुबन्तात् प्रत्ययोत्पत्तौ प्रातिपदिकाद्वा कश्चिद्विशेषोऽस्ति। धातुनिवृत्त्यर्थमपि न युज्यते, ततो विहितस्य सनो बाधकत्वादित्यभिप्रायेणाह-- `सुब्ग्रहणं किम्' इति, `वाक्यान्मा भुत्' इति। सुब्ग्रहणप्रयोजनमाह-- असति सुब्रग्रहणे वाक्यादपि स्यात्, अतस्तन्निवृत्त्यर्थं कृतं सुब्ग्रहणम्। अथ किमिदानीं न भवितव्यमेव महापुत्रीयतीति ? भवितव्यं यदा समासे कृत एतद्वाक्यं भवति-- महापुत्रमिच्छतीति, यदात्वेतद्वाक्यं भवति-- महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्। पदसमुदायोपलक्षणञ्च वाक्यग्रहणं वेदितव्यम्। तस्मान्महान्तं पुत्रमित्यतः समुदायात् प्राप्तिराशङ्क्यते, न चैतद्वाक्यम्; अपरिसमाप्त्यर्थत्वात्। किञ्च स्यात् यद्यतः स्यात् ? प्रत्ययार्थे गुणीभूतयोर्महत्पुत्रशब्दयोरसत्येकार्थीभावलक्षणेऽसामार्थ्ये समासो न स्यात्। ततश्चोत्तरपदे विधीयमानं `आन्महतः समानाधिकरणजातीययोः' (6.3.46) इत्यात्त्वं न स्यात्। अथ वा-- प्रत्ययार्थे गुणीभूतस्य पुत्रशब्दस्य पूज्यमानताविशेषणं न स्यादिति `सन्महत्' (2.1.61) इत्यादिना समासो न स्यात्, तदभावादात्त्वमपि न स्यात्। अथ क्रियमाणे सुब्ग्रहणे कस्मादेवात्र न भवति, सुबन्तं ह्येतत् ? नैतत्; प्रत्ययग्रहणपरिभाषया यतः सुबूत्पन्नः सुब्ग्रहणे सति तदादेरेव ग्रहणं भवति। न चेह वाक्यात् सुबुत्पन्नः, किं तर्हि ? अवयवात्। तेन वाक्यादुत्पत्तिर्न भवति। अवयवात् तर्हि पुत्रशब्दात् कस्मान्न भवति? अगमकत्वात्। वृत्तिसमानार्थेन हि वाक्येन प्रत्ययान्तेन भवितव्यम्। यश्चेह महान्तं पुत्रमिच्छतीति वाक्यनार्थः प्रतीयते नासौ प्रत्ययान्तेन। {तथा हि महान्तं पुत्रमिच्छतीति वाक्येनार्थः कञ्चित्-- वाराणसीमुद्रणम्} तथा हि महान्तं पुत्रीयतीत्युक्ते महान्तं कञ्चित् पुत्रमिवाचरतीत्येषोऽर्थो वाक्यार्थद्भिन्नजातीय ए गम्यते। `राज्ञः पुत्र मिच्छति' इति। ननु च सापेक्षत्वादसामर्थ्ये सति न भविष्यति, किमात्मग्रहणेन,कथमसामर्थ्यम् ? सापेक्षमसमर्थं भवति' (चां.प.27) इति वचनात् ? नैतत्। यदा तर्ह्यर्थात् प्रकरणाद्वाऽनपेक्षं निर्ज्ञातं भवति तदा प्राप्नोति। इह च प्राप्नोति-- पापमिच्छति, अघमिच्छतीति। अत्र हि तृतीयस्य परपदस्य प्रयोगमन्तरेणापि परस्येति गम्यते, न हि कश्चिदात्मनः पापमिच्छति। `ककारः' इत्यादि। असति ककारेऽस्य ग्रहणं न स्यात्; `नः क्ये' (1.4.15) इत्यत्र ककारानुबन्धवतो ग्रहणात्। चकारस्तदविघातार्थः। असति चकारे तु सति क्यच्क्यङक्यषो द्वनुबन्धका भवन्तीति सामान्यग्रहणस्य विघातो न भवति। अन्तोदात्तार्थस्तु चकारो न भवति; `घातोः' (6.1.162) इति तस्य सिद्धत्वात्। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। व्याख्यानन्तु-- वेत्यनुवर्त्तमानस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। तेन मान्ताव्ययेभ्यएः क्यज्न भवति।
`छन्दसि' इत्यादि। छन्दसि परेच्छायामपि क्यज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पुनर्यद्यं क्यचि कृते `अश्वाद्यस्यात्' (7.4.37) इतीत्त्वबाधनार्थमघशब्दस्येत्त्वं शास्ति तज्ज्ञापयति-- छन्दसि परेच्छायामपि क्यज्भवति। न हि कश्चिदात्मनोऽघमिच्छति। `अघायवः' इति। ज्ञापकसुत्रेणात्त्वम्, `क्याच्छन्दसि' (3.2.170) इत्युप्रत्ययः, `जसि च' (7.3.109) इति गुणः, अवादेशः।।
9. काम्यच्च। (3.1.9)
ननु च द्वावप्येतौ क्यच्काम्यचौ सुबन्तात् कर्मण आत्मेच्छायां विधीयेते, तदेकयोग एव कथं न कृत इत्याह--- `योगविभागः' इत्यादि। `सुप आत्मनः क्यच्काम्यचौ' (इत्येक योगे सत्युत्तरत्र द्वयोरप्यनुवृत्तिः स्यात्। ननु च योगविभागेऽप्यानन्तर्यात् काम्यच एवानुवत्तिः स्यात्, न क्यचः ? नैष दोषः; चकारोऽत्र क्रियते क्यचोऽनुकर्षणार्थः; क्यचोऽनुकर्षणस्यैतत्प्रयोजनम्-- उत्तरसूत्रेऽनुवृत्तिर्यथा स्यात् इह योजनाभावात्। काम्यजपि कस्मान्नानुवर्त्ततत इति चेत्, न; योगविभागसामर्थ्यात्। अथ `लशक्वतद्धिते' (1.3.8) इति ककारस्येत्संज्ञा कस्मान्न भवतीत्याह-- `ककारस्येत्संज्ञा' इत्यादि। ननु च लोप एव कार्यम् ? न कार्यम्; लोप इह हि वर्णस्य कार्यार्थो भव्तयुपदेशः, श्रवणार्थो वा। कार्यं तावदिह नास्ति। तत्रि यदि श्रवणार्थो न स्यादुपदेशोऽनर्थकः स्यात्। इदं तर्हि कार्यम्-- अग्निकाम्यतीति गुणप्रतिषेधो यथा स्यात् ? नैतत् प्रयोजनम्, सार्वधातुकार्धधातुयोरङ्गस्य गुण उच्यते। धातोर्विहितश्च प्रत्ययः शेष आर्धधातुकसंज्ञो भवति; न चायं धातोर्विधीयते, किं तर्हि? सुबन्तात्। इदं तर्हि प्रयोजनम्-- उपयट्काम्यतीति, वच्चादिना (6.1.15) संप्रसारणं यथा स्यात् ? नैतदपि; यस्मात् तत्र यजादिभिः किद्विशिष्यते-- यजादीनां यः किदिति। कश्च यजादीनां कित् ? यो यजादिभ्यो विहितः, न चायं तथा विहितः। अभ्युपगम्यापि प्रयोजनं परीहारान्तरमाह-- `चकारादित्वात्' इति। एवं मन्यते-- क्रियते विन्यास एवम्, द्विचकारो निर्देशः, सुप आत्मनः क्यच्च काम्यच्चेति; स इत्संज्ञकश्चकारः ककारस्यत्संज्ञापरित्राणार्थो भविष्यतीति। अथ द्वितीयश्चकारः किमर्थः, यावता `धातोः' (6.1.162) इत्येवमन्तोदात्तत्वं सिद्धम् ? इह पुत्रकाम्यिष्यीतति सतिशिष्टस्वरमपि बाधित्वा चित्करणसामर्थ्यात् काम्यच एव स्वरो यथा स्यात्। `उपयट्काम्यति' इति। `विजुपे छन्दसि' (3.2.73) इति विच्, उपयजमिच्छतीति काम्यच्, व्रश्चादिना (8.2.36) षत्वम्, तस्य जश्त्वं डकारः, तस्यापि `वावसाने' (8.4.56) इति चर्त्वं टकारः।।
10. उपमानादाचारे। (3.1.10)
`क्यजनुवर्त्तते न काम्यच्' इति। अत्र च कारणं पूर्वमुक्तम्। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयवोपमानस्य कर्मता; पूर्ववत् प्रत्यासत्तेः।
`अधिकरणाच्च' इत्यादि। अधिकरणादाचारे क्यज्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। व्याख्यानन्तु पूर्ववच्चकारकरणमनुवर्त्त्य तस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्त्तव्यम्।।
11. कर्त्तु- क्यङ् सलोपश्च। (3.1.11)
सलोपसन्नियोगेन चायं क्यङ विधीयते। तेन यत्रैव सलोपस्तत्रैव स्यात्-- पयायत इत्यादौ, इह तु न स्यात्-- काकः श्येनायत इत्यादौ। एकं हीदं वाक्यम्,चकारश्च समुच्चये, तेनैतदुक्तं भवति-- क्यङसलोपौ भवत इति। तथा च युगपदनयोर्विधानात् सलोपाभावे क्यङा न भवितव्यम्। युगपदनयोर्विधाने हि नान्यतराभावे कार्यमुपयुज्यते, यथा-- `स्थाध्वोरिच्च' (1.2.17), इत्यत आह-- `अन्वाचशिष्टः' इत्यादि। एतदनेन हि। नायं समुच्चये चकारः, किं तर्हि ? अन्वाचये। तत्र द्वे वाक्ये भवतः-- कर्त्तुः भवति सर्वत्र, यत्र त्वस्ति सकारस्तत्र तस्यापि लोपः। तत्राद्येन वाक्येन सलोपमनपेक्ष्य प्राधान्येन विधीयमानः क्यङ सलोपविधावपि प्रवर्त्तते। `श्येनायते' इति। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः।
`सलोपविधावपि वाग्रहणं सम्बध्यते' इति। अन्यथा पयस्यत इति न सिध्येत्। `सा च व्यवस्थितविभाषा' इति। अन्यथौजसोऽप्सरसोरपि विभाषा सलोपः स्यात्। `ओजसोप्सरसोर्नित्यं पयसस्तु विभाषया' (वा.185-- (जै.सू.2.1.91) इति यदुक्तम्, सा च व्यवस्थितविभाषा भवतीति, तदनेन विस्पष्टीकरोति। अथ हंसायते सारसायत इत्यत्र सलोपः कस्मान्न भवतीत्याह-- `सलोपविधौ च' इत्यादि। यदि सलोपविधावपि कर्त्तुरित्येषा पञ्चमी स्यात तदा हि `अलोऽन्त्यस्य' (1.1.52) इत्यस्यानुपस्थानात् यत्रतत्रस्थस् सलोपो भवन्निहापि स्यात्। न च सलोपविधौ कर्त्तुरित्येषा पञ्चमी, किं तर्हि ? षष्ठी। यस्मादर्थाद्विभक्तिपरिणामो भवतीति स्थानषष्ठी सम्पद्यते। स्थानषष्ठ्यां च `अलोऽन्त्यस्य' (1.1.52) इत्युपस्थानेऽन्त्यस्यैव लोपेन भवितव्यम्। तेन हंसायत इत्यादौ न भवति लोपः।
`आचारे' इत्यादि। क्यङविषयोपलक्षणार्थम्; तेन क्यङपवादः क्विब्दिधीयते। अत्र चावगल्भादीनामनुदात्तमकारमनुबन्धमासज्य निर्देशादवगल्भत इत्यात्मनेपदं भवति, पुनरवल्भादिभ्यो विकल्पेन क्विब् विधीयते, यावता `{गल्भ धार्ष्ट्ये-- धा.पा.} अवगल्भ आ धृष्टे' (धा.पा.392), `क्लीबृ {अधार्ष्ट्ये-- धा.पा.) मदे' (धा.पा.381), `हुडृ होडृ गतौ' (धा.पा.352, 354) इत्यात्मनेपदिनः, तत्रैतेभ्यो यदा लकारस्तदावगल्भत इत्यादि भविष्यति, यदा तु कृतमुत्पाद्याचं प्रातिपदिकानि कृत्वा क्यङुत्पाद्यते तदावगल्भायत इति भविष्यति ? इदं प्रयोजनं विकल्पेन क्विब्विधानस्य-- अवगल्भाञ्चक्र इति `कास्प्रत्ययादाममन्त्रे' (3.1.35) इत्यां यथा स्यात्। अन्यथा ह्यप्रत्ययान्तात् प्रत्ययान्ताद्धातोरामुच्यमानो न स्यात्।
`सर्वप्रातिपदिकेभ्यः' इति। तरप्यवगल्भाद्यनुकर्षणं कर्त्तव्यम्-- अनुबन्धासञ्जनार्थम्। इह चाचारे क्विब् वेत्यपेक्षते। तेन सर्वप्रातिपदिकेभ्य आचार एव क्विब् भवतीति वाक्यं निष्पद्यते। अथ किमर्थं ककारपकारौ क्विपोऽनुबन्धावासज्येते, यावताककारस्य गुणप्रतिषेधः प्रयोजनम्, न चेह गुणप्राप्तिरस्ति ? क्विपो धातोरित्यविधानात् सार्वधातुकत्वाभावात्। सार्वधातुकार्धधातुकयोर्हि गुण उच्यते। पकारस्य चानुदात्तत्वं प्रयोजनं, तच्च क्विपो न सम्भवति; अनच्कत्वात्, सर्वलोपित्वाच्च `वेरपृक्तस्य' (6.1.67) इति। तर्हि द्वावेतौ सामान्यग्रहणाविघातार्थौ, न; अन्यतरेणैव सामान्यग्रहणाविघातस्य सिद्धत्वात। अन्यथा विज्विटोरपि तदर्थोऽनुबन्धः कर्त्तव्यः स्यादिति चिन्त्यमेतत्।।
12. भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः। (3.1.12)
`भुवि' इति। भवनं भूः, सम्पदादित्वाद्भावे क्विप्। इह हल्ग्रहणेन यथासम्भवं भृशादयो विशिष्यन्ते, विशेषेणेन न तदन्तविधिर्भवतीत्याह-- `हलन्तानाञ्च' इत्यादि। इहापि पूर्ववदन्वाचयशिष्टो हलो लोपः, तेन तदभावेऽपि क्यङ भवत्येव। हलो लोपविधौ भृशादिभ्य इति स्थानषष्ठी सम्पद्यते, अर्थाद्विभक्तिविपरिणामात्। तत्र `अलोऽन्त्यस्य ' (1.1.52) इति नियमे सति भृशायत इत्यादावहलन्त्यस्य हलो लोपो न भवति। ननु च भृशादीनां बहुत्वात् तत्सम्ब्नधेनाच्विभ्य इति बहुवचनेन भवितव्यम्, तत्कथमच्वेरित्येकवचनेन निर्देश इत्याह--- `अच्वेः' इत्यादि। भृशादच्वेः, शीघ्रादच्वेरिति प्रत्येकमभिसम्बध्यते। तस्मादेकवचनं न्याय्यम्।
`किमर्थं पुनः ' इत्यादि। अच्वेरित्यधिकृत्य प्रश्नः। कस्मान्न कर्त्तव्यमित्याह-- `यावता' इत्यादि। `अभूततद्भाव' इत्यादिना भवतिप्रयोगे च्विर्विधीयते। तत्र तेनैवोक्तार्थत्वाच्च्व्यन्तेभ्यः क्यङ न भविष्यति, `उक्तार्थानामप्रयोगे' (व्या.प.60) इति कृत्वा। ननु चानुप्रयोगं बाधित्वा क्यङेव स्यात् ? नैतदस्ति; अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्च क्यङ। क्व ? अच्च्व्यन्ता ये भुशादयस्तत्र; अच्व्यन्तात् च्वेर्विकल्पेन विधानात्। तत्राच्वेरित्यनुवर्त्तमाने ज्व्यन्तेषूभयप्रसङ्गे परत्वादनुप्रयोगेणैव भवितव्यम्, अत एवाह-- `तत्सदृश' इत्यादि। `नञिवयुक्तमनयसदृशाधिकरणे तथा ह्यर्थगतिः' (व्या.प.65) इति च्व्यन्तसदृशाभृशादयः कथं नाम प्रतीयेरन्नित्येवर्थोऽच्वेरिति प्रतिषेधः। तत्सांदृश्यं च्व्यन्तस्याभूततद्भावविषयत्वात् अर्थकृतमेवाश्रीयते, न शब्दादिकृतमित्याह-- `अभूततद्भावविषयेभ्यः' इत्यादि। इह भृशादिषु कैश्चिन्मनस्प्रभृतयः सोपसर्गाः पठ्यन्ते, तेभ्यः सोपसर्गेभ्य एव प्रत्ययः स्यात्। ततशचोदमनायतेति सोपसर्गस्याङ्गसंज्ञात्वादुपसर्गात् प्रागडागमः स्यात्। सुमनाय्य गत इत्यत्र सोपसर्गस्य क्वान्तेऽनुप्रवेशात् तद्व्यतिरिक्त उपसर्गो नास्तीति समासो न स्यात्, ततश्च लब्न स्यात् ? नैतदस्ति; यथैव हि प्रकृर्त्तुमैच्छदिति सोपसर्गस्यापि कर्मत्वे धातुग्रहणेनोपसर्गान्निष्कृष्य धातुमात्रात् प्रत्ययो भवति, तथेहापि भविष्यति। ननु तत्र धातुग्रहणमस्तीति चेत् ? इहापि सुब्ग्रहणमनुवर्त्तत इति हेतुः। सुमनस् इत्यादीनि सुबन्तसमुदायानि। तेन सुबन्तसमुदायात् क्यङ। लङ कस्मान्न भवति? उच्यते-- लङविधावपि धातुग्रहणमनुवर्त्तते। अथ `लोपः' (3.1.11) इत्यनुवर्त्तमाने पुनर्लोपग्रहणं किमर्थम् ? सकारनिवृत्त्यर्थम्। पूर्वकं हि लोपग्रहणं सकारेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, ततश्च तस्यानन्तस्यापि लोपः प्रसज्येत; इतरथा हि तदनुवृत्तिरपार्थिका स्यात्।।
13. लोहितादिडाज्भ्यः क्यष्। (3.1.13)
`लोहितयाते' इति। `वा क्यषः' (1.3.90) इत्यात्मनेपदम्। `पटपटायते' इति। पटच्छब्दात् `अव्यक्तानुकरणात्' (5.4.57) इति डाच्। `डाचि बहुलं द्वे' (वा.888) इति द्विर्वचनं डाचः प्रागेव भवति; डाचीत्यस्य हि विषयसप्तमीत्वात्। डाचि कृते टिलोपः। द्विर्वचने योऽच्छब्दस्तदवयवस्य तकारस्य `नित्यमाम्रेडिते डाचि' (6.1.100) इति पररूपम्-- पकारः। `लोहितडाज्भ्यः क्यष्वचनम्' इत्यादि। लोहितादिसूत्रेण यदेतत् क्यषो विधानं तल्लोहितात्, डाजन्तेभ्यश्चेत्यर्थः। ननु चान्यान्यपि नीलादिशब्दरूपाणि लोहितादिषु पठ्यन्ते, अतस्तेभ्योऽपि क्यषा भवितव्यमित्याह-- `भृषादिषु' इत्यादि। लोहितशब्दादितराणि यानि तानि भृशादिषु द्रष्टव्यानि। यस्त्विह तेषां पाठः, स प्रमादतः। अर्वाक्कालभावित्वादनार्ष इत्यभिप्रायः। यदि तर्हि भृशादिष्वितराणि पठ्यन्ते, एवमादिशब्दस्यानर्थक्यम्, न हि किञ्चिदस्ति यत् तेनोपादीयेत ? अत आह-- `यानि' इत्यादि। यानि प्रामादाल्लोहितादिषु पठ्यन्ते तेषां भृशादिषु पाठो वेदितव्यः। न त्वपरिपठितानां वर्मादीनाम्। अतस्तेषामादिग्रहणेन ग्रहणे सति क्यषेव भवति। `वर्मायते' इति। `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नलोपः, `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। निद्रादयोऽत्र शब्दाः पठ्यन्ते, ते यद्यपि धरममात्रवचनास्तथापि क्यष्वृत्तिविषये तद्वपि द्रव्ये वर्त्तन्ते; शब्दशक्तिस्वाभाव्यात्। `निद्रायते' इति। अनिद्रावान् निद्रावान् भवतीत्यर्थः। कथं पुनरपरिपठितानां लोहितादित्वं भवतीत्याह-- `आकृतिगणश्चायम्' इति। कथमेतज्ज्ञायत इत्याह-- `तथा च' इत्यादि। केयति सामान्यग्रहणार्थमित्याह-- `नः क्ये' इति। तत्रैतत् स्यात्। परिपठितानां मध्ये यो नकारान्तस्तस्य पदसंज्ञार्थः ककारोऽनुबध्यत इत्याह-- `न हि' इत्यादि। कथं पुनः क्यषा योगे डाज्भवति, यावता `कृभ्वस्तियोगे' इत्यनुवृत्तेः करोत्यादियोगे डाज् विधीयते, न क्यषा ? इत्याह--- `{कृभ्वस्तिभिरेव' इति मुद्रितः पाठः}कृभ्वस्तिभिरिव' इत्यादि। यदेतत् डाजन्तेभ्यः क्यषो विधानमेतदेव ज्ञापयति-- यथा कृभ्वस्तिभिर्योगे डाज्भवति तथा क्यषापीति। अन्यथा डज्ग्रहणमनर्थकं यदि क्यषा योगे डाज् न स्यात्। ननु च यदा भवतियोगे डाज्भवति तदा तदन्तात् क्यष् भविष्यति, त्तकुत आनर्थक्यम् ? नैतत्; न हीदानां क्यष् भवितुमर्हति, भुवो भवतिनैवोक्तार्थत्वात्। `अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते' इति। मञिवयुक्तन्यायेनेति भावः। यथैव हि पूर्वसूत्रेऽच्वेरिति प्रतिषेधादमुना न्यायेनाभूततद्भावविषये क्यङ विधीयते, तथेहापि क्यषिति।।
14. कष्टाय क्रमणे। (3.1.14)
`क्यङनुवर्त्तते, न क्यष्' इति। क्यङ एव स्वरितत्वात्। `चतुर्थी समर्थात्' इति कष्टायेति निर्देशादेव चतुर्थी समर्थविभक्तिर्लभ्यते, अतस्तत्समर्थ्यात् प्रत्ययो विज्ञायते। क्रमणशब्दोऽयमस्ति पादविहरणे, असति चानार्जवे; तत्र क्रमण इत्यविशेषाभिधाने पादविहरणे प्रत्ययो मा विज्ञायीति विशेषणमुपात्तम्। जिह्मम्, पापम्, अनार्जवमित्यनर्थान्तरम्। ततोऽनार्जव इत्यनेन क्रमेण विशेषिते सत्यानार्जवलक्षणं यत्क्रमणं तत्रैव प्रत्ययो विज्ञायते, न क्रमणमात्रे। एतच्च `धातोः कर्मणः' (3.1.7) इत्यादेः सूत्राद्वाग्रहणस्यानुवर्त्तमानस्य व्यवस्थितविभाषात्वाल्लभ्यते। `कष्टाय क्रमणे' इति तादर्थ्ये चतुर्थी। `कष्टायते' इति। कष्टाय क्रमणमनार्जवं करोतीत्यर्थः।
`अत्यल्पमिदमुच्यते' इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह- `{सत्त्रकक्ष' इति मुद्रितः पाठः} सत्रकष्ट' इत्यादि। अस्मिन् न्यसान्तरे यद्यपि समर्थविभक्तिनिर्दशो नास्ति, तथापि सुबधिकारात् तत्समर्थयोग्या विभक्तिरध्याहर्त्तव्या। सत्रं चिकीर्षतीति सत्त्रायते, पापं कर्त्तुमिच्छीत्यर्थः।
`अजः कष्टं क्रामति' इति। क्रमिरत्र पादविहरणे। कष्टमिति कर्मपदमेतत्। कष्टं देशं गहनं क्रामतीत्यर्थः। अथ वा-- कष्टमिति क्रियाविशेषणमेतत्। अजः कष्टं यथा भवति तथा सञ्चरतीत्यर्थः। क्रियाविशेषमपक्षेऽपि कष्टमिति द्वितीयान्तमेतत्। प्रसिपादितं हि `करणे च स्तोकाल्प' (2.3.33) इत्यादौ सूत्रे-- क्रिया विशेषाणानां कर्मतेति। तेनात्र सूत्रे प्रत्युदाहरणे द्वितीयान्तस्य कष्टशब्दस्य निर्देशः। मूलोदाहरणेष्वपि द्वितीया समर्थविभक्तिरध्याहर्त्तव्येति विज्ञायते।।
15. कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः। (3.1.15)
कर्मण इति पञ्चमी; रोमन्थतपोभ्यां पञ्चम्यन्ताभ्यां सामानाधिकरण्यात्। सत्यपि ताभ्यां सामानाधिकरण्ये द्विवचनं न भवति, प्रत्येकं वाक्यपरिसमाप्तेः। ` वर्त्तिचरोः' इति। वर्त्तनं वर्त्तिः, ण्यन्तात् स्त्रियां क्तिन्। ननु च क्तिना न भवितव्यम्, `ण्यासश्रन्थो युच्' (3.3.107) इति युचा बाधितत्वात्। अस्मादेव निपातनात् क्तिन् भविष्यतीत्यदोषः। चरणं चरिति सम्पदादित्वात् क्विप्।
`हनुचलने' इत्यादि। अभ्यवहृतस्य यत् पुनरुद्गीर्य चर्वणं हनुचलनम्। अत्रार्थे रोमन्थशब्दात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु वाग्रहणमनुवर्त्त्य तद्व्यवस्थितरकविभाषात्वमाश्रित्य कर्त्तव्यम्। वाग्रहणं त्ववश्यमनुवर्त्तयितव्यम्, रोमन्थं वर्त्तयतीति वाक्यं यथा स्यात्। `कीटो रोमन्थं वर्त्तयति' इति। उद्गीर्णं वहिर्निरस्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वर्त्तयति, गुटिकां करोतीत्यर्थः। तेनात्र हनुचलनं न विद्यते। मूलोदाहरणे तु विद्यत एव, तथा हि रोमन्थायत इति। अभ्यवहृतं पुनराकृष्य चर्वयीत्यर्थः। तच्चर्वणं हनुचलनात्मकमेव।
अन्ये तु हनुचलने प्रत्ययमन्यथा प्रतिपादयन्ति। अस्ति चायं रोमन्थशब्दः क्रियापदार्थको यो रोमन्थशब्दात् प्रातिपदिकाद्धात्वर्थ इत्यादिना णिचमुत्पाद्य घञन्तो व्युत्पाद्यते, स ह्यभ्यवहृतस्य द्रव्यस्य पुनराकृष्य यच्चर्वणं तत्र वर्तते। अस्ति च द्रव्यवचनोऽयं य उद्गीर्णमवगीर्णं वा रोमन्थक्रियाविशिष्टं द्रव्यमाह। तत्र यः क्रियावचनस्तस्येदं ग्रहणम्, यतो द्रव्येऽप्ययं वर्त्तमानः क्रियाद्वारेणैव वर्त्तते। अतो द्रव्ये गौणः, क्रियायां मुख्यः; गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (व्या.प.4)। तेन क्रियावचनादेव भवति, न द्रव्यवचनादिति।
`तपसः परस्मैपदं च' इति। वक्तव्यमित्यपेक्षते। ङित्त्वादात्मनेपदे प्राप्ते परस्मैपदं वक्तव्यम् = व्याख्येयम्। व्याख्यानं तु `अनुदात्तङितः' (1.3.12) इति सूत्रे `नपुंसकमनपुंसकेन' (1.2.69) इत्यादेः सूत्रान्मण्डूकप्लुतिन्यायेनानुवर्त्तमानस्यान्थतरस्यांग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। तेन तपसः क्यङन्तादात्मनेपदं न भवति। तदभावात् `शेषात् कर्त्तरि परस्मैपदम्' (1.3.78) इति परस्मैपदमेव भवति।
16. बाष्पोष्मभ्यामुद्ववने। (3.1.16)
`फेनाच्चेति वक्तव्यम्' इति। फेनशब्दाद्वमनेऽर्थे वर्त्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- `भृशादिभ्यः' (3.1.12) इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कर्त्तव्यम्।।
17. शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे।
करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् `कर्मणः' (3.1.15) इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह-- `करणे करोत्यर्थे'इति।
`सुदिन' इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवतिीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कर्त्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति।
`अटाट्ट' इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च `तत्करोति' (वा.200) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते-- शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या।।
18. सुखादिभ्यः कर्त्तृवेदानायाम्। (3.1.18)
`वेदनायामर्थेऽनुभवे' इति। प्रत्यक्षेण वस्तुन उपलब्धिः = अनुभवः। ननु च वेदनाशब्द उपलब्धिमातर्वचनो लोके दृष्टः, तत्कथमेष विशेषो लभ्यते ? यथा लभ्यते तथोत्तरसूत्रे प्रतिपदायिष्यामः। कर्त्ता कारकम्, कारकञ्च क्रियापेक्षं क्रियाया एव भवति। वेदना चेह क्रिया श्रूयते, नान्या। तस्मात् तस्या एव कर्त्ता विज्ञायते। तस्याश्च सो वेदयिता स एव विज्ञायते। तस्मादविशेषाभिधानेऽपि वेदयितरि कर्त्तरि वर्त्तमानः कर्त्तृशब्दः गृह्यत इति-- `वेदयितुश्चेत् कर्त्तुः' इत्यादि। एतेन कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न तु वेदनेति दर्शयति। यदि कर्त्तृग्रहणेन वेदना विशिष्येत-- कर्त्तुः सम्बन्धिनी चेद्वेदना भवतीति, तदेहापि स्यात्--- देवदत्तस्य सुखं वेदयति प्रसाधक इति। प्रसाधकस्यापि सम्बन्धिनी वेदना भवत्येव, तथा हि सोऽपि तस्याः कर्त्ता। यथैव हि प्रसाध्यः सुखं वेदयते तथा प्रसाधकोऽपि। एतावांस्तु विशेषः-- एकः प्रत्यक्षेण वेदयते, अपरश्चानुमानेन; सर्वथा हि तदकर्त्तृकत्वे वेदयत इत्येतन्न स्यात, न ह्यकर्त्ता वेदयत इत्युच्यते। तस्मात् सुखादीनामेव कर्त्तृग्रहणं विशेषणं युक्तिमिति भावः। ननु च सुखादिविशेषणत्वेऽपि स एव दोषः, यस्मात् प्रसाधकस्यापि जन्यजनकभावलक्षणेन सम्बन्धेन सुखादयः सम्बन्धिनो भवन्ति ? नैतत्; सर्वत्रैव हि कर्त्तृसम्बन्धिनः सुखादयः, क्रियते चेदं कर्त्तृग्रहणम्। अतः कर्त्तृग्रहणसामर्थ्याद्विशिष्टो यः कर्त्ता सुखादीनामाश्रयः समवायिकारणं स एव गृह्यते। तेनाश्रयाश्रयिभावेन सम्बन्धेन कर्त्तृसम्बन्धिभ्यः सुखादिभ्यः प्रत्ययो विज्ञायते। न च प्रसाधकः सुखादीनां समवायिकारणम्, किं तर्हि ? निमित्तकारणम्। सुखादिसमवायिकारणस्य कर्त्तुर्ये सुखादय आश्रयाश्रयिभावेन सम्बन्धिनस्ते प्रत्यक्षेणोपलभ्यन्ते। तेन तदुपलब्धिरनुभवस्वभावा भवतीति युक्तमुक्तम्-- वेदनायामर्थेऽनुभव इति। यदि तर्हि कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न वेदना, ततश्च कर्त्तृवेदनायामिति षष्ठीसमासो न प्राप्नोति, असामर्थ्यात् ? सौत्रत्वान्निर्देशस्य सत्यप्यसामर्थ्ये समासो भविष्यतीत्यदोषः। अथ वा-- असमास एव, षष्ठ्यास्त्वश्रवणम्; `सुपां सुलुक्' (7.1.39) इति लुप्तत्वात्।।
19. नमोवरिवश्चित्रङः क्यच्। (3.1.19)
`करणविशेषे पूजाद्वौ' इति। आदिशब्देन परिचर्याश्चर्ययोर्ग्रहणम्। `नमसः' इत्यादिनाऽनन्तरस्योक्तार्थस्य विषयविभागं दर्शयति। एष चार्थो यद्यपि करण इति करणसामान्यमनुवर्त्तते, तथाप्यभिधानशक्तिस्वाभाव्यल्लभ्यते विनापि वचनेन, यथा--- पचादीनां विक्लेदादिषु वृत्तिः, बहुव्रीहेश्च मत्वर्थे। `नमस्यति देवान्' इति। ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति, अतस्तद्योगे `नमः स्वस्ति' (2.3.16) इत्यादिना चतुर्थ्या भवितव्यम् ? नैतदस्ति; `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इत्यर्थवतो नमःशब्दस्य कर्त्तुमशक्यत्वात्। अथ वा-- `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (चां.प.69) इति द्वितीयैव भवति। उपपदसम्बन्धनिरपेक्षत्वात् कारकविभक्तेर्बलीयस्त्वम्। उपपदविभक्तेस्तु पदान्तरसापेक्षत्वाद्दुर्बलत्वम्। `नमस्यति' इति। नमस्कारं करोतीत्यर्थः। `वरिवस्यति'। परिचरीत्यर्थः। `चित्रीयते' इति। विस्मापयत इत्यर्थः।।
20. पुच्छभाण्डचीवराण्णिङ्। (3.1.20)
`पुच्छात्' इत्यादि। उदसनम् = ऊर्ध्वक्षेपणम्, पर्यसनम् = परितः क्षेपणम्। यदोदसने प्रत्ययस्तदा तस्य द्योतनार्थ उच्छब्दः प्रयुज्यते--- `उत्पुच्छयते' इति। यदा पर्यसने प्रत्ययस्तदा परिशब्दः-- `परिपुच्छयते' इति। `णाविष्ठवत् कार्यम् प्रातिपदिकस्य' (वा.813) इतीष्ठवद्भाववाट्टिलोपः। समाचयनम्-- राशीकरणम्। अर्जनम् = अलब्धस्य लाभः। परिधानम् = आच्छादनम्।।
21. मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्। (3.1.21)
`प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (धा.पा.ग.सू.186) इत्यनेन मुण्डादिभ्यः सिद्धो णिच्। अयञ्च तस्यैव प्रपञ्चः। यद्यपि तस्य तत्करोतीत्यादिः प्रपञ्च उक्तः, तथापीह मन्दबुद्धीनामनुग्रहाय पुनरुच्यते। `तन्निवृत्तौ वा' इति। भोजननिवृत्तौ। `पयो व्रतयति' इत। पयो भुङ्क्त इत्यर्थः। `वृषलान्नं व्रतयति' इति वृवलान्नं न भुङ्क्त इत्यर्थः। `हलिं गृह्णाति हलयति, कलिं गृह्णाति कलयति' इति। ननु चेह हलकलशब्दयोः एतेनैतद्दर्शयति-- सूत्रेऽपि हलिकल्योरेव ग्रहणम्, तयोस्त्वत्त्वनिपातनं कृतम्, `सन्वल्लघुनि' (7.4.93) इत्यादिना सन्वद्भावो मा भूदिति। अतो युक्तं हलिकल्योर्ग्रहणम्। तथा हि-- नात्र णिज् दुर्लभः, गणसुत्रेणैव सिद्धत्वात्। केवलं प्रपञ्चार्थमिदमुच्यते। स च प्रपञ्चो हलिकल्योरपि ग्रहण उपपद्यत एव। अयन्तु विशेषः-- अकारान्तयोर्ग्रहणे सतीकारान्ताभ्यामपि गणसूत्रेणैव णिच् प्राप्नोति, तत्र कृते सतीष्ठवद्भावेन टिलोपः प्राप्नोति, `अचो ञ्णिति' (7.2.115) इति वृद्धिश्च,उभयोरपि तयोरनित्यत्वम्। तथा हि, टिलोपस्य सत्यपि कृताकृतप्रसङ्गित्वे शब्दान्तरप्राप्त्याऽनित्यत्वम्। तथा हि, कृतायां वृद्धावैकारस्य प्राप्नोति, अकृतायान्त्विकारस्य; वृद्धेस्तु टिलोपे सत्यप्राप्त्याऽनित्यम्। अप्राप्तिस्त्वनजन्तत्वात्। उभयोरनित्ययोः परत्वाद्वृद्धिः, तस्यां कृतायां टिलोपः, तत्राप्यग्लोप्यङ्गं न भवति। तथा च सति `सन्वल्लघुनि' (7.4.93) इति सन्वद्भावेऽभ्यासस्येत्वे `दीर्घो लघोः' (7.1.94) इति दीर्घत्वे च अचीकलत्, अजीहलदित्यनिष्टं रूपं प्रसज्येत। हलिकलिशब्दयोस्तु कृतात्त्वयोर्ग्रहणे सति यद्यपि परत्वाद्वृद्धिर्भवति, तथापि सत्यामपि तस्यामगेव लुप्यत इत्यग्लोप्यङ्गं भवति। ततश्च सन्वद्भावात् अचकलत्, अजहलदितीष्टं रूपं सिध्यति। तत्र ययोर्ग्रहणे सतीष्टं सिध्यति तयोरेव ग्रहणम्, न तु ययोर्ग्रहणेऽनिष्टं प्राप्नोति। नह्यनिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता।।
22. धातोरेकाचो हलादेः क्रियासमाभिहारे यङ्। (3.1.22)
`एकाच्' इति। बहुव्रीहिरयं न तत्पुरुषः; `हलादेः' इति विशेषणात्। `क्रियासमभिहारे वर्त्तते' इति। एतेन क्रियासमभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। `तस्माद्यङप्रत्ययो भवति' इति। क्व ? `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति'(पु.प.पा.90) इति तत्रैव क्रियासमभिहारे। विप्रकीर्णानामकेत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः। स च क्रियागामुत्पन्नापवर्गिणीनां सहानवस्थानादेकेन च धातुनाऽनकस्याः क्रियाया युगपदनभिधानान्न सम्भवतीति गौणं समभिहारं दर्शयतुमाह--`पौनः पुन्यम्' इत्यादि। उभयमपि ह्येतत् समभिहारसादृश्यादुपचारेण समभिहारे व्यपदेशमासादयति। यथा द्रव्याणां समाहृतानां द्रव्यान्तरैरव्यपेतानां समाहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवतीति सादृश्यम्। क्रिया च द्विप्रकारा--- प्रधाना,अप्रधाना च । तत्र प्रधानक्रिया विक्लेदनादिः, गुणक्रिया चाधिश्रयणादिः। तत्र यः फलान्तं पाकमवसाय्य क्रियान्तरमनारभ्य पुनः पाकमेवारभते स प्रधानक्रियां समभिहरति, तासां पौनःपुन्यं समभिहारः। यस्त्वधिश्रयणादीरेव क्रियाः क्रियान्तरैरव्यपेताः साकल्येन करोति स गुणक्रियाः समभिहरति, तासां भृशार्थता समभिहारः। फलातिरेको वा भृशार्थता। तथा हि--- यो ज्वलनफलमवाप्य ज्वलति, दीप्यते वा, स जाज्वल्यते देदीप्यते इति चोच्यते। `पापच्यते' इति। `सन्यङोः' (6.1.9) इति द्विर्वचनम्, `दीघोऽकितः' (7.4.83) इति दीर्घः। अत्र `क्रियासमभिहारे द्वे भवतः' (वा.886) इति द्वित्वं न भवति; क्रियासमभिहारे विधीयमानस्य यङः स्वयमेव तदभिव्यक्तौ सामर्थ्यात्। यस्तु `क्रियासमभिहारे लोड् लोटो हिस्वौ वा च तध्वमोः' (3.4.2) इति लोड् वक्ष्यते स क्रियासमभिहारव्यक्तौ स्वयमशक्त इत्यपेक्षते द्विर्वचनम्। न ह्यसौ क्रियासमभिहारे विधीयते, किं तर्हि ? कर्मादिषु; `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इति वचनात्। तेन तस्य प्रयोगे द्विर्वचनं भवत्येव-- `लुनीहि लुनीहीत्येवायं लुनाति। `देदीप्यते' इति। `गुणो यङ लुकोः' (7.4.82) इति गुणः।
`भृशं प्राटति' इति। असति धातुग्रहणे, एकाज् यः शब्दो हलादिः क्रियासमभिहारे वर्त्तते तस्माद्यङ प्रत्ययो भवतीत्ये। सूत्रार्थः स्यात्। ततश्च प्रपूर्वादटतेर्यङ प्रसज्येत; प्रपूर्वस्याटतेर्यः समुदायस्तस्य यथोक्तविशेषणविशिष्टत्वात्। धातुग्रहणे सत्येष प्रसङ्गो न भवति। न ह्ययं धातुः, किं तर्हि ? धातूपसर्गसमुदायः। `जागर्ति' इति। आदादित्वाच्छपो लुक्। अथ क्रियाग्रहणं किमर्थम्, न समभिहार इत्येवोच्येत ? नैवम्। साधनसमभिहारेऽपि स्यात्। नैतदस्ति, प्रकृतिविशेषणं ह्येतत्। न च प्रकृतेः साधनसमभिहारे वृत्तिः सम्भवति। अपि च `करणे' (3.1.17) इति वर्त्तते, तेन समभिहारो विशेषयिष्यते-- करणसम्बन्धी चेत् समभिहारः, तत् कुतः साधनसमभिहारे प्रसङ्गः ? इदं तर्हि प्रयोजनम्--- क्रियामात्रसमभिहारे यथा स्यात्; अन्यथा प्रधाने कार्यसम्प्रत्ययात् प्रधानक्रियासमभिहार एव स्यात्, न गुणक्रियासमभिहारे।
`सूचि' इत्यादि। `सूच पैशून्ये' (धा.पा.1873), `सूत्र {वेष्टने' धा.पा.} अवमोचने' (धा.पा.1908), `मूत्र प्रस्रवणे' (धा.पा.1909) `अट गतौ' (धा.पा.295), `ऋ गतौ' (धा.पा.1098), `अश भोजने' (धा.पा.1523) `ऊर्णूञ् आच्छादने' (धा.पा.1039),-- आसां प्रकृतीनां यङविधौ ग्रहणं कर्त्तव्यम्, तच्च पूर्वस्यैव चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते, किमर्थं पुनरासां प्रकृतीनां ग्रहणमित्याह--- `अनेकाजहलाद्यर्थम्' इति। अनेकाज् अहलादिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। सूच्यदीनां तिसृणां चुरादिणिजन्तानामनेकार्थं ग्रहणम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थञ्च, शेषाणां तु अहलाद्यर्थमेव। `सोसूयते' इति। `णेरनिटि' (6.4.51) इति णिलोपः, पूर्ववदभ्यासस्य गुणः। `अटाटयते' इति। `अजादेर्द्वितीयस्य' (6.1.2) इति ट्यकारस्य द्विर्वचनम्, हलादिः शेषः, दीर्घश्च। `अरार्यते' इति। `यङि च' (7.4.30) इति गुणः। द्वितीयस्यैकाचो र्यशब्दस्य द्वर्वचनम्। `न न्द्राः संयोगादयः' (6.1.3) इति तु नास्ति, `यकारपरस्य रेफस्य प्रतिषेधः' (वा. 651) इति वचनात्। `अशाश्यते' इति। द्वितीयस्यैकाचः `श्य' इत्यस्य द्विर्वचनम्। `प्रोर्णुनूयते' इति। अत्रापि नुशब्दस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते, तथैव प्रतिषेधात्। `भृशं रोचते, भृशं शोभत इत्यत्र नेष्यते' इति। तदर्थं वेत्यनुवृत्तस्य व्यवस्थितविभाषात्वं व्याख्येयम्।।
23. नित्यं कौटित्ये गतौ। (3.1.23)
धातोरित्येव। `गतौ' इति। प्रकृतिविशेषणमेतत्। गतौ वर्त्तमानाद्धातोरित्यर्थः। अमुमेवार्थं पर्यायान्तरेणाचष्टे--- `गतिवचनाद्धातोः' इति। `चंक्रकम्यते, दंद्रम्यते' इति। `क्रमु पादविक्षेपे' (धा.प.473), द्रम हम्म मीमृ गतौ (धा.पा.466, 467, 468) `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुमागमः। योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन् चंक्रभ्यते देद्रम्यत इति चोच्यते। अथ नित्यग्रहणं किमर्थम्, यावताऽनभिदानादेवात्र वाक्यं न भविष्यति ? न हि चङक्रम्यत इति वृत्तेरर्थं कुटिलं क्रामतीति वाक्यं शक्नोति गमयितुम्। तथा हि कुटिलं क्रामतीति वाक्यात् संशयो भवति-- किं गतिकौटिल्यम् ? उत मनः-- कौटिल्यमिति ? चंक्रम्यत इति वृत्तौ त्वसंशयं गतिकौटिल्यमेव गम्यते, इत्याह-- `नित्यग्रहणम्' इत्यादि। गतिकौटिल्यं विषयः। तत्र यङो नियमोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। `गतिवचनात्' इत्यादिना नियमस्य प्रयोजनं दर्शयति। `न तु' इत्यादिना तद्व्यवच्छेद्यम्। नित्यम् = सर्वकालं गतिवचनात् कौटिल्य एव भवति, न तु कदाचित् क्रियासमभिहारे। तेन `भृशं क्रामति' इति क्रियासमभिहारे पूर्वेण प्राप्तो यङ् न भवति।
24. लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्। (3.1.24)
`लुप्लृ छेदने' (धा.पा.1431), `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.1427), `अभ्र वभ्र चर गत्यर्थाः' (धा.पा.556, 557, 559), `जप जल्प व्यक्तायां वाचि' (धा.पा.397, 398), `{जभी धा.पा.}जभ {जृभि-धा.पाक} गात्रविनामे' (धा.पा.388,389), `दह भस्मीकरणे' (धा.पा.991), `दन्श दंशने' (धा.पा.989), `गॄ निगरणे' (धा.पा.1410)। `धात्वर्थगर्हायाम्' इत्यनेन भावगर्हायामित्यस्यार्थमाह। `गर्हितं लुम्पति' इति। गर्हितमिति क्रियाविशेषणमेतत्। तेन भावगर्हात्र गम्यते। गर्हितत्वं छेदनसय् निरर्थकत्वात्, दोषदुष्टत्वाच्च। एवमुत्तरत्रापि गर्हितत्वं वेदितव्यम्। `चञ्चूर्यते' इति। `चरफलोश्च' (7.4.87) इति नुक्। `उत्परस्यातः' (7.4.88) इत्युत्त्वम्, `हलि च' (8.2.77) इति दीर्घः। `जञ्जप्यते' इति। `जपजभ' (7.4.86) इत्यादिना नुक्। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रपरत्वम्, द्विर्वचनम्। गिर्याशब्दस्य रेफयकारयोस्तु हलादिशेषेण निवृत्तिः, पुर्ववद्गुणः, `ग्रो यङि' (8.2.20) इति लत्वम्।
`साधु जपति' इति। नात्र धात्वर्थस्य गर्हा, किं तर्हि? प्रशंसा। `मन्त्रं जपति वृषलः' इति। अत्र साधनस्य वृषलस्य गर्हा गम्यते; वृषलस्य = शूद्रस्य वैदिकमन्त्रजाप्यं प्रत्यनधिकारात्।।
25.सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। (3.1.25)
चुरादिभ्योऽन्येंषामिह ग्रहणं प्रपञ्चार्थम्। `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (वा.813) इति सिद्धत्वात्।
`अर्थवेद' इत्यादि। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु-- प्रातिपदिकाद्धात्वर्थे बहुलमिति कार्यान्तरविधानार्थाद्बहुलणादेषां णिच्सन्नियोगेनापुग्भवतीति। सत्यशब्दस्य तु `सत्याप' इत्यत एव निपातनादापुग्भवतीति वेदितव्यम्। `विपाशयति' इति। पाशं विमोचयतीत्यर्थः। `निरूपयति' इति। रूपं पश्यतीत्यर्थः। `अभिषेणयति' इति। `उपसर्गात्' (8.3.65) इत्यादिना षत्वम्। `त्वचयति' इति। ननु च त्वच्शब्दो हलन्तः, तस्मात् णिचि `णाविष्ठवत्' (वा.813) इतीष्ठवद्भावाट्टिलोपे प्राप्ते तत्र `प्रकृत्यैकाच्' (6.4.163) इति प्रकृतिवद्भावे कृते `अत उपधायाः' (7.2.116) इति वृद्धिः प्राप्नोति, तत् कथं त्वचयतीति हि भवितव्यमित्याह-- `अकारान्तोऽयं त्वचशब्दः' इति। शब्दान्तरमेवेदमकारान्तं त्वच्शब्दसमानार्थम्। अत एव त्वच इत्यकारान्तस्य सूत्रे निर्देशः, तस्यकारस्य लोपे कृते स्थानिवद्भावाद्वृद्धिर्न भवति। `चुरादिभ्य स्वार्थ' इति। स्तेयादौ। ननु च नेह सूत्र आख्यानादयोऽर्था उपात्ताः, तत्कथं ते लभ्यन्ते ? अलब्धाश्च कथं निर्दिश्यन्ते ? इत्याह-- `स्वाभाविकत्वात्' इत्यादि। शब्दानामर्थाभिधानं स्वाभाविकम्,न तु वाचनिकम्; तस्याशक्यत्वादिति प्रागेवोक्तम्। तस्मात् स्वभावत एव यो यस्यार्थस्याभिधायकः स सूत्रानुपात्तोऽर्थो युक्त एव निर्देष्टुम्। `यथायथम्' इति। यो यस्यात्मीय इत्यर्थः।।
26. हेतुमिति च। (3.1.26)
फलसाधनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति तस्य यदीह ग्रहणं स्यादिहापि णिच् स्यात्-- अध्ययनेन वसतीति। तस्मात् पारिभाषिकस्य हेतोर्ग्रहणमिति दर्शयितुमाह= `हेतुः स्वतन्त्रस्य प्रयोजकः' इति। स पुनर्यस्य `तत्प्रयोजको हेतुश्च' (1.4.55) इति हेतुसंज्ञा विहिता। कुतः पुनरेतदवगम्यते ? हेतुमद्ग्रहणात्, पूर्वसूत्रे चुरादिग्रहणाच्च। इह हि `करणे' (3.1.17) इति वर्त्तते, धात्वधिकाराच्च धातोः करणे क्रियायां णिच्प्रत्ययेन भवितव्यम्। यदि च लौकिकस्य हेतोर्ग्रहणं स्यात् `हेतुमति' इति करणविशेषणं न कुर्यात्; व्यावर्त्याभावात्-- सर्वेव हि क्रिया हेतुमतीति। पूर्वसूत्रे च चुरादिगर्हमं न कुर्यात्, चुरादयोऽपि धातव एव। तदर्थश्च क्रियालक्षण एव। `सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णेभ्यश्च णिच्' इत्येकयोगं कुर्यात्। एवं हि चकाराद्धातोः प्रकृतत्वात् करणे प्रत्ययो भविष्यतीति विज्ञास्यते। सोऽयमेकयोगेनैव सिद्धे यत् पृथग्योगमारभते, पूर्वसूत्रे च चुरादिग्रहणं करोति, ततोऽवसीयते पारिभाषिकस्य हेतोर्ग्रहणमिति। `तदीयः' इति। तत्सम्बन्धी क्रियात्मको व्यापारः। कः पुनरसावित्यत आह-- `प्रेषण' इत्यादि। भृत्यादेर्निकृष्टस्य क्वचिदर्थे नियोजनम् = आदेशः, प्रेषणम्। गुर्वादेराराध्यस्य सत्कारपूर्वव्यापारणमध्येषणम्। आदिशब्देन तत्समर्थाचरणस्य। एतत् प्रेषणादिकं लक्षणं स्वभावो यस्य स तथोक्तः। ननु च चत्वारोऽत्र हेतुमन्तः सम्भवनति-- प्रयोज्यः, प्रयोज्यव्यापारोऽधिश्रयणादिः, सर्वसाधनसाध्यश्च प्रधानक्रिया विक्लेदादिः, प्रयोजनकव्यापारश्च प्रेषणाध्येषणादिः। चतुर्णामपि ह्येषां हेतुना सह सम्बन्धोऽस्ति। तत्र प्रथमस्य तदधिष्ठितस्य प्रवर्त्तनात्, तदभिप्रायसम्पादनाच्च। द्वितीयस्य सम्बन्धाय हेतोः प्रवृत्तेः। तृतीयस्य तत्प्रवर्त्तितेन प्रयोज्येनाधिश्रयणादिक्रियां कुर्वाणेन साधनात्। चतुर्थस्य तु तन्निर्वर्तितत्वात् तत्र च समवायात्। तत्र `करणे' इत्यधिकारादयुक्तं प्रयोज्यस्य ग्रहणम्, इतरेषामेव ग्रहणं क्रियात्मकत्वात् सर्वेषां न्याय्यम्, तत् कस्मात् प्रयोजनकव्यापार एव गृह्यते ? सत्यपि सर्वेषां क्रियात्मकत्वे तदग्रहणस्यैव न्याय्यत्वात्। तथा हि-- हेतुरिति कारकविशेषस्यैषा संज्ञा, कारकञ्च क्रियानिमित्तम्, तच्च तस्य निमित्तं भवति यद् यस्मिन् सत्येव भवति, असति तु तस्मिन् न भवत्येव। न च प्रयोज्यव्यापारः प्रयोजके सत्येव भवति; विनापि तेनार्थित्वादेव प्रयोज्यस्याधिश्रयणादिव्यापारस्य सम्भवात्। सत्यपि च तस्मिन् प्रयुक्तस्यापि स्वार्थमपश्यतः प्रयोज्यस्याप्रवृत्तेः। तस्मात् प्योज्यस्य व्यापारं प्रति प्रयोजकस्य कारकत्वाभावाद्धेतुत्वं नास्तीति न स हेतुमान्। एतेन विक्लेदनादिरपि प्रधानक्रियाविशेषो हेतुमान्न भवतीति वेदितव्यम्। भवतु नाम तौ प्रति कथञ्चित् तस्य हेतुत्वम्, तथापि न तयोर्हेतुमत्त्वं युक्तम्; यस्मात्---
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः।।
इति वचनात् भूमादिविशिष्टस्यार्थस्य सत्तायां मतुबादयः प्रत्यया विधीयन्ते, इह च नित्ययोगादन्ये भूमादयोऽर्था न सम्भवन्ति; अप्रतीतेः। न हि यथा गोमानित्यत्र बहुत्वं प्रतीयते, यथा च ककुदावर्त्तीत्यत्र च निन्दा, यथा च रूपवानित्यत्र प्रशंसा, यथा चोदरिणी कन्येत्यत्रातिशयः, तथा `हेतुमति' इत्यत्र। संसर्गाऽपीह न सम्भाव्यते--- संसर्गो हि संयोगः,स च द्रव्ययोरेव परस्परं सम्भवति, यथा-- दण्डीत्यत्र दण्डपुरुषयोः। न च व्यापारो द्रव्यम्, अतो नास्ति केनचित् संसर्गः।तस्मान्नित्ययोगे एवायं मत्वर्थीयः, यथा-- क्षीरिणो वृक्षा इति। न च प्रयोज्यव्यापारस्याधिश्रयणादेर्विक्लेदादेश्च हेतुना नित्ययोगोऽस्ति; उपरतेऽपि तस्मिन् प्रयोक्तरि तयोः सम्भवात्। सत्यपि तस्मिन् विरोधिसन्निधानात्, असम्भवाच्च। न चान्यतरासन्निधाने सम्बन्धो युज्यते; तस्य द्विष्ठत्वादिति। न तौ हेतुमन्तौ। प्रेषणादेस्तु प्रयोजको भवति निमित्तम्च तेन विना तदसम्भवात्, सति च तस्मिंस्तत् सम्भवात्; अतस्तं प्रति कारकत्वं तस्योपद्यते। तेन तस्य हेतुसंज्ञा। नित्योगेऽपि मतुपो निमित्तमस्त्येव; उत्पत्तेः प्रभृत्याविनाशात्, प्रेषणादेर्व्यापारस्य हेतौ समवायात्। तस्मात् स एव हेतुमानिति तस्यैव ग्रहणं न्याय्यम्। `तस्मिन्नभिधेये' इति। प्रत्ययेन वाच्ये। एतेन प्रत्ययार्थविशेषणं हेतुमद्ग्रहणं न प्रकृत्यर्थविशेषणमिति दर्शयति। तेन प्रकत्यर्थविशेषणपक्षे ये दोषास्ते तत्पक्षानङ्गीकारेणैव निरस्ताः। येऽपि प्रत्ययार्थविशेषणपक्षे दोषाः सम्भाव्यन्ते,ते भाष्ये एवोद्भाविताः, परिहृताश्च। इह त्वतिग्रन्थविस्तरभयान्न लिखिताः।
अथेह कथं णिज्भवति-- भिक्षा वासयति, कारीषो।ञग्निरध्यापयतीति ? कथञ्च न स्यात् ? अचेतनत्वात्, चेतनवतो ह्येतद्भवति प्रेषणमध्येषणं वा ? नैष दोषः; उक्तं ह्येतत्-- `आदिग्रहणेन तत्समर्थाचरणस्य ग्रहणम्' इति। तच्छब्देन यत्र वसनादौ प्रयोज्यो नियुज्यते तत्सम्बध्यते तत्र वासादौ। ये समर्थाः = योग्याः, अनुकूलास्तृप्तिविशेषादयस्तेषामाचरणं सम्पादनम् = तत्समर्थाचरणम्, तदपि प्रयोजकव्यापार एव। भिक्षा हि प्रचुरतरव्यञ्जनवत्यो लभ्यमाना रसानुकूलं तृप्तिविशेषमुपजनयन्त्येव। कारीषोऽग्निरपि निर्वातप्रदेशेषु सुप्रज्वलितोऽध्ययनविरोधिनं शीतादिकृतमुपद्रवमुपशमयन्नध्ययनानुकूलं सामर्थ्यमादधाति। अतस्तयोरपि युक्तं प्रयोजकत्वम्।
`तत्करोति' इत्यादि। तदिति कर्मपदम्। एतत् करोतीत्यर्थनिर्देशः। तदिति कर्मणः प्रातिपदिकात् करोतीत्यस्मिन्नर्थे णिच उपसंख्यानं प्रतिपादनं कर्त्तव्यमित्यर्थः। किमर्थमित्याह--- `सूत्रयतीत्याद्यर्थम्' इति। तत्रेदं प्रातिपादनम्-- चुरादौ `प्रातिपदिकद्धात्वर्थे' इत्यस्य `तत्करोतति' इत्ययं प्रपञ्चः पठ्यते। तेन सूत्रादिभ्यः प्रातिपदिकेभ्यः कर्मभ्यः करोत्यर्थे णिज् भवतीति। `आख्यानात् कृतः' इत्यादिकं वाक्यम् `आख्यानात् कृदन्तात्' इत्यादिना व्याचष्टे। आख्यायत इत्याख्यानम्। यत् किञ्चिदाख्यायते तत् सर्वं राजागमनादिकमपीहाख्यानमभिप्रेतम्, न तु संज्ञाभूतमेव कंसवधादिकम्। तस्य यो वाचकः शब्दः सोऽप्यभिधानेऽभिधेयोपचारादाख्यानमित्युच्यते। कृदिति प्रत्ययग्रहमम्, प्रत्ययग्रहणे च तदन्तविधिर्भवतीत्याह--- `कृदन्तात्' इत्यादि। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। `तत्' इति। कर्मपदमेतत्। `आचष्टे' इति । प्रत्ययार्थः। `कुल्लुक्' इति। येन कृता तदन्तमाख्यानमुच्यते तस्य लुग्भवतीत्यनेन वक्ष्यमाणेन सम्बन्धः। `प्रकृतिप्रत्यापत्तिः' इति. यासौ प्रकृतिः प्रत्ययमुत्पादितवती साऽविकृतार्थेनैव रूपेणावतिष्ठत इत्यर्थः। `प्रकृतिवच्च कराम्' इति। चकारो भिन्नक्रमः कारकस्यानन्तरं द्रष्टव्यः। कार्यशब्दश्चात्राध्याहार्यः। तेनायमर्थो भवति-- कृतो या प्रकृतिर्हन्यादिस्तस्या यथा कार्यमडागमादि, तथा ण्यन्ताया अपि भवतीति। किञ्च कारकञ्च प्रकृतिवद्भवतीति ? कृतः प्रकृतेर्यादृशं कारकमभूत् ण्यन्ताया अपि प्रकृतेस्तादृशमेव भवतीति। तत्रेदं व्याख्यानम्-- चुरादौ `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (वा. 813) इति पठ्यते, `तत्करोति' इत्यादिकञ्च तस्यैव प्रपञ्चः। बहुलं तत्राधिकविधानार्थमिति सर्वमेतद्यथोक्तं भविष्यतीति। एवमुत्तरत्रापि व्याख्यानं कर्त्तव्यम्। किमर्थं पुनः कार्यशब्दमध्याहृत्य कार्यातिदेशो वर्ण्यते ? आख्यानावयवभूतायाः प्रकृतेरडागमादिकार्यं यथा स्यात्। अन्यथा हि यदि प्रकृतिवच्च कारकं भवतीति कारकातिदेश एव क्रियेत तदा `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (व्या.प.126) इति कंसवधादिभ्यो णिचि कृतेऽङ्गसंज्ञा नामधातुत्वञ्च तेषामेव स्यात् ततश्चाड्द्विर्वचने तेषामेव स्याताम्। किञ्च-- धातोः स्वरूपग्रहणे तत्प्रत्यये तत् कार्यं विज्ञायेत, कंसवधशब्दाच्च णिचि विहिते तत्वकुत्वे न स्याताम्, ततश्च कसंमघातद्राजानमजीगमदित्यादि न सिध्येत्। कार्यातिदेशे यद्यपि समुदायेभ्यः कंसवधादिभ्यो णिज्विहितः, तथापि कृतो या प्रकृतिर्हन्यादिस्तस्याः केवलाया अकृदन्ताया यथाऽडागमादिकार्यं भवति, तथा कृदन्ताया अपि णिचि विहिते भवतीति न भवत्येष दोषः। तस्मात् कार्यमतिदिश्यते। `कंसं घातयति' इति। हन्तेर्भावे `हनश्च वधः' (3.3.76) इत्यप्प्रत्ययः, तत्सन्नियोगेन वधादेशः। हननं वधः, कंसस्य वध इति षष्ठीसमासः। रककंसवधशब्दाण्णिच, अपो लुक्। प्रकृतेः प्रत्यापत्तिः वधादेशपरित्यागेन हन्तेः स्वरूपेणावस्थानम्। `अत उपधायाः'(7.2.116) इति वृद्धिः, `हो हन्तेर्ञ्णिन्नेषु' (7.3.54) इति हकारस्य घकारः, `हनस्तोऽचिण्णलोः' (7.3.32) इति तत्वम्। कारकञ्च कंसवध इत्यस्याः प्रकृतेर्यादृशमासीत् तादृशमेव भवति, कर्म च कारकं कंस आसीत्। तथा च कृद्योगलक्षणायाः कर्मषष्ठ्या कंसवध इति समासः। स कंस आख्यानक्रियायामप्यतिदेशात् कर्मैव भवति। असत्यतिदेशे, आख्याक्रियायाः कंसवधशब्दस्तदर्थो वा कर्म स्यात्; तयोरेव तथा व्याप्यमानत्वात्। कंसस्त्वाख्यानक्रियायामुज्झितव्यापार एवेति कर्मभावं न प्रतिपद्येत्। तस्मात् कारकातिदेशः। `बलिं बन्धयति' इति। बन्धनं ब्नधः, भावे घञ्। राज्ञ आगमनमिति कर्त्तरि कृद्चयोगलक्षणाया षष्ठ्याः समास। शेषं कृल्लुगादिकं यथायोगं पूर्ववत्। अथ राजानमिति कथं द्वितीया, यावता राजागमनमित्यस्याः कृदन्तायाः प्रकृते राजा कर्त्तासीत्, तत्र `प्रकृतिवच्च कारकम्' (2.3.65) इति षष्ठ्यैव भवितव्यम् ? अथ `न लोकाव्यय' (2.3.69) इति षष्ठीनिषेधः; एवं तर्हि तृतीया प्राप्नोति ? नैष दोषः; `गतिबुद्धि' (1.4.52) इत्यादिना गमेर्गत्यर्थत्वाद्राजोऽत्र कर्मसंज्ञा। तेन द्वितीयैव न्याय्या।
अन्ये त्वस्यैव चोद्यस्य परिहारर्थ कारकातिदेशमन्यथा वर्णयन्ति-- नैवं विज्ञायते प्रकृतिरिव प्रकृतिवत्, प्रकृतेर्यत् कार्यमिष्टं तत् णिजन्तस्यैव भवतीति; न ह्यत्र `तत्र तस्येव' (5.1.116) इति वतिः, किं तर्हि ? `तेन तुल्यम्' (5.1.115) इत्यादिना। तस्मादेव विज्ञायते-- प्रकृत्या तुल्यं वर्त्तत इति प्रकृतिवदिति। प्रकृतिशब्देनेह णिचो या प्रकृतिः कंसवध इत्यादिः सा विवक्षिता।तस्याश्चाख्यानक्रियया व्याप्यमानत्वात् कर्त्तव्यम्। अतः प्रकृतिवच्च कारकं भवतीत्यस्यायमर्थः-- यथा णिच्प्रकृतेराख्यानभूतायाः कर्मत्वं तथा कारकस्यापीति, तेन कर्तुः कर्मत्वं सिद्धं भवति। यद्येवम्, पुष्ययोगं जानाति पुष्येण योजयतीत्यत्रापि कर्मत्वं पुष्यस्य स्यात् ? नैतदस्ति; यतः प्रकृतिवच्च कारकं भवतीत्युच्यते, न च पुष्यस्य कारकत्वं भवति; सहयोगे तृतीया विधानात् पुष्येण सह चन्द्रमसो यो योगस्तं जानाति पुष्येण योजयति।
`आङलोपश्च' इत्यादि। मर्यादावाची य आङ तस्य लोपो वक्तव्यः। चकारात् पूर्वोक्क्तञ्च णिजादिकार्यम्। `कालात्यन्तसंयोगे' इति। कृत्स्नस्य कालस्य व्याप्तिः = कालात्यन्तसंयोगः, तस्मिन् गम्यमाने। `आरात्रिविवासमाचष्टे' इति। विवसनं विवासः, भावे घञ्। रात्रेर्विवास इति षष्ठीसमासः। पश्चात् `आह मर्यादाभिविध्योः' (2.1.13) इत्यवय्यीभावसमासः। रात्रिशब्दश्चेह रात्रिसहचरितासु क्रियासु वर्त्तते, वसिरपि विपूर्वोऽतिक्रमे। तेनायमर्थो भवति-- असत्मयनात् प्रभृति याः प्रवृत्ताः क्रियास्ता यावदतिक्रान्ता रात्रिः साकल्येन कथयीति। `प्रकृतिवच्च कारकम्' इत्यतिदेशात् कृल्लक्षणायां कर्त्तरि षष्ठ्यां प्राप्तायां रात्रौ कर्मणि द्वितीया भवति। अतिक्रमणे हि रात्रिः कर्त्री। कर्मत्वञ्च तस्याः पूर्ववद्गत्यादि (1.4.52) सूत्रेण।
`चित्रीकरणे प्रापि' इति। चित्रीकरणम् = तस्मिन् गम्यमाने णिच्। कृल्लुगादिकञ्च पूर्ववत्। उज्जयिन्या माहिष्मती विदूरदेश इति तावतो देशस्याल्पकालेनातिक्रमणमाश्चर्यम्। `सूर्योद्गमनम्' इति। कर्त्तरि कृद्योगलक्षणायाः षष्ठ्याः समासः। सूर्य उद्गमने कर्त्ता। `सम्भावयते' इति। प्राप्नोतीत्यर्थः। `भू प्राप्तावात्मनेपदी' (धा.पा.844) चुरादौ पठ्यते, तस्येदं रूपम्। `सूर्यमुद्गमयति' इति. सूर्योद्गमनशब्दाण्णिच्, ल्युटो लुक्। `प्रकृतिवच्च कारकम्' इत्यतिदेशात् पूर्ववत् कर्त्तरि षष्ठ्यां प्राप्तायां तस्य कर्मसंज्ञकत्वाद्द्वितीया। कर्मसंज्ञा तु पूर्ववत्।
`नक्षत्रयोगे ज्ञि' इति। नक्षत्रयोगे यत् प्रातिपदिकं वर्त्तते तस्मान्नक्षत्रयोगवाचिनो णिच्। कृल्लुगादिकं यथायोगं पूर्ववत्। ज्ञीति सप्तम्या धात्वर्थो निर्दिश्यते, तेन जानात्यर्थे णिज् भवति। पुष्येण करणभूतेन चन्द्रमसो योगः पुष्ययोगस्तस्माण्णिच्, घञ्, कृतो लुक्, प्रकृतिप्रत्यापत्तिः। `प्रकृतवच्च कारकम्' इत्यतिदेशात् ज्ञानक्रियायामकारकस्यापि पुष्यस्य करणत्वमिति करणे तृतीया। यदा तु पुष्येण सह चन्द्रमसो योग इत्यर्थो विवक्ष्यते, तदा कारकातिदेशस्य विषयो न भवति,पुष्यस्याकारकत्वात्। पुष्येणेति तृतीया सहार्थं एव वेदितव्या।।
27. कण्ड्वादिभ्यो यक्। (3.1.27)
किं पुनरिमे कण्ड्वादयो धातवः ? उत प्रातिपदिकानि ? तत्र यदि धातवः, यकि कृते कण्डूरिति न सिध्यति। कण्डूयेति प्राप्नोति। ननु च वेत्यनुवर्तिष्यते, ततर् यदा यङ नास्ति तदा कण्डूरिति भविष्यति ? नैतदस्ति; न हि धातोः सुब्विभक्तिरुत्पत्तुमुत्सहते; तस्याः प्रातिपदिकाद्विधानात्। स्यादेतत्-- यगन्तात् `अन्यभ्योऽपि' (3.2.178) इति क्विपि कृते अतो लोपे (6.4.48) वलि यकारलोपे (6.1.66) च कण्डूरिति भविष्यति ? असदेतत्; कर्त्तरि क्विब् विधीयते, कण्डूरिति च वेदनामात्रमुच्यते, न कर्ता; तथापि सम्पदादेराकृतिगणत्वात् भावे क्विपं विधाय कण्डूरिति व्युत्पाद्यते। एवमपि मन्तुः, वल्गुरिति न सिध्येत्। यदि तावद्वेत्यनुवृत्त्या मनुवल्गुशब्दाभ्यां पक्षे यग्न भवति तदा विभक्तिस्ताभ्यां नोपपद्येत, तथा च मन्तु, वल्गु इत्यविभक्तिकं रूपं स्यात्। अथापि ताभ्यां यकं विधाय क्विप् क्रियते ? एवमपि मन्तूर्वल्गुरित्यनिष्टं रूपं स्यात्। अवश्यं यकि कृते `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घत्वेन भवितव्यम्। अथ प्रातिपदिकानि कण्डवादयस्तदा यकः करारोऽनर्थकः स्यात्, स हि `सार्वधातुकार्धधातुकयोः' (7.3.84) इति प्राप्तस्य गुणस्य `क्ङिति च' (1.1.5) इति प्रतिषेधो यथा स्यादित्येवमर्थं क्रियते। प्रातिपदिकत्वे तेषामेतत्प्रयोजनं नोपपद्यते, न हि प्रातिपदिकाद्विहितः प्रत्यय अर्धधातुकसंज्ञां लभत इति यो देशयेत्, तं प्रत्याह-- `द्विविधाः' इत्यादि। तत्रेति निर्धारणे सप्तमी। तेषु धातुप्रातिपदिकेषु मध्ये ये धातवः कण्ड्वादयस्तेभ्यो यक्। `धात्वधिकारात्' इत्यत्रवोपपत्तिः। एवमेवार्थं द्रढयितुमाह-- `तथा च' इत्यादि। यत एवं धातुभ्यः प्रत्ययो विधीयते; धात्वधिकारात् , प्रातिपदिकेभ्यः। एवञ्च कृत्वा यकः ककारोऽनुबध्यते गुणप्रतिषेधात्। यदि तु प्रतिपदिकेभ्यो यक् स्यात् तस्यानार्धधातुकत्वाद्गुणस्य प्राप्तिरेव नास्ति, तत्प्रतिषेधार्थं ककारानुबन्धकरणमनर्थकं स्यात्।
`धातुप्रकरणाद्धातुः' इति। प्रत्ययमुत्पादयतीति शेषः। `धातोरेकाचः' (3.1.22) इत्योत धातुग्रहणमनुवर्तते। तेन धातुरेव कण्ड्वादिशब्दः प्रत्ययमुत्पादयति, न प्रातिपदिकम्। `कस्य' इत्यादि। यच्चेदं ककारानुबन्धासञ्जनमतोऽपि हेतोरेव धातुः प्रत्ययमुत्पादयति। अन्यथा ककारानुबन्धकरणं पूर्वोक्तया रीत्या निरर्थकमेव स्यात्। अतएव धातुभूतेभ्यः कण्डवादिभ्यो यग्विधानात् ककारानुबन्धासञ्जनाच्च तेषां धातुत्वं विज्ञायते। न ह्यधातुभूतेभ्यो यग्विधानमुपपद्यते, नापि ककारानुबन्धकरणम्; प्रयोजनाभावात्. अथ प्रातिपदिकत्वं कण्ड्वादीनां कथमवसीयते ? इत्याह-- `आह चायम्' इत्यादि। चकारो हेतौ। यद्येते धातव एव स्युस्ततो यकि कृते `अकृत' (7.4.25) इति दीर्घत्वस्य सिद्धत्वात् कण्डूञ्, हृणीङ्, महीङिति दीर्घं नोच्चारयेत्, उच्चारयति च दीर्घम्, अतोऽवसीयते-- `धातुर्विभाषितः' इति। धातुत्वमेषां विकल्पितमित्यर्थः। ननु च पक्षे यत्र यङ नास्ति तत्रायगन्तेभ्यः क्विबादौ प्रत्यय उत्पन्ने कण्डूः, कण्डूतिः, कण्डूतवानिति दीर्घस्य श्रवणं यथा स्यादित्येवमर्थं दीर्घोच्चारणं स्यात्। तत् कुतस्तस्यानर्थक्यम्! कथं पुनरयगन्तेभ्यः क्विबादयो भवन्ति, यकः पाक्षिकत्वात्, तदपि कुतः ? वेत्यनुवृत्तेः, नैतत्; नित्यत्वादस्य विधेः। नित्यत्वन्तु वाग्रहणस्य निवर्तितत्वात्। कुतः पुनस्तन्निवृत्तिरवीसयते ? `आयादयः' (3.1.31) इत्यादेः सूत्रारम्भात्। यद्यत्र वेत्यनुवृत्तिस्तदोत्तरत्राप्यनुवर्त्तनादायादयो वा भविष्यन्तीत्येतन्नारभेत। न च तदनारम्भे सार्वधातुकेऽप्यायादयो विकल्पेन प्राप्नुवन्ति; वाग्रहणस्य व्यवस्थितविभाषात्वात्। तस्मादायादय इत्यादेरारम्भाद्वाग्रहणनिवृत्तिरवसीयत इति नित्यं यका भवितव्यम्। ततश्च यद्येषां पक्षे प्रातिपदिकत्वं न स्याद्दीर्घोच्चारणमनर्थकं स्यात्। तस्माद्दीर्घोच्चारणसामर्थ्यात् प्रातिपदिकत्वमेषामस्तीत्येकान्त एष पक्षः। तत्र धातुपक्षे कण्डूयत इत्यादयः सिध्यन्ति, प्रातिपदिकपक्षे त्वसति यकि कण्डूर्मन्तुर्वल्गुरित्यादयः। मगध इत्यादयो येऽकारान्ताः कण्ड्वादिषु पठ्यन्ते तेषां `अतो लोपः' (6.4.48) इत्यकारलोपः--- मगध्यति, सुख्यति, दुःख्यति। लेट्लोटौ शब्दौ पठ्येते, तयोः ल्वरूपेणैव ग्रहणम्, न तु प्रत्ययत्वेन, कण्ड्वादिभिः स्वरूपशब्दैः साहचर्यात्।।
28. गुपूधूपविच्छिपणिपनिभ्य आयः। (3.1.28)
`स्तुत्यर्थेन' इत्यादि। `पण व्यवहारे स्तुतौ च' (धा.पा. 439) `पन च' (धा.पा.440) इत्यनयाऽनुपूर्व्या गणे पाठः। तत्र `पन च' (धा.पा.440) इत्यत्र स्तुतावित्यनुवर्त्तते, न व्यवहारार्थः तेन पणिर्व्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्यते। तेनासौ स्तुतावेव वर्त्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। `शतस्य' इति। `व्यवहृपणोः समर्थयोः' (2.3.57) इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठ्यते ? तत्र `अनुदात्तङितः' (1.3.12) इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह-- `अनुबन्धः' इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्।।
29. ऋतेरीयङ्। (3.1.29)
`सौत्रः' इति। सूत्रे परिपठितत्वात्। सूत्रे भवः सौत्रः। `घृणायां वर्त्तते' इति। घृणा = जुगुप्सा। तस्यामयं स्वभावत एव वर्त्तते। अथ कस्मादीयङुच्यते, न च्छङित्येवोच्येत, तस्येयादेशे ऋतीयत इति सिध्यति ? न सिध्यति; परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशो न स्यात्। ननु चान्तरङ्गत्वादीयादेश एव भविष्यति, अन्तरङ्गत्वन्तु तस्यायन्नादिषु `उपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थम्' (7.1.2.वा.1) इति वचनात्; एवं तर्ह्येतज्ज्ञापयति-- `धातुप्रत्ययानामायन्नादयो न भवन्ति' इति। तेन शमेर्ढप्रत्यये कृते शण्ढः इत्येवमादयः सिद्धा भवन्ति। अथ वा-- स्वरविधावुपदेशिवद्भावः स्वरसिध्यर्थमिति वचनात्। तेन नास्त्यन्तरङ्गतेति परत्वादिडागमः स्यात्, तस्मादीयङ् विधीयते।।
30. कर्मर्णिङ्। (3.1.30)
`णकारो वृद्ध्यर्थः' इति `अच उपधायाः'(7.2.116) इति वृद्धिर्यथा स्यात्। यद्येवम्, किमर्थं `न कम्पमिचमाम्' (धा.पा.817) इति कमेर्मित्संज्ञा प्रतिषिध्यते `मितां ह्रस्वः' (6.4.92) इति ह्रस्वो मा भूदिति ? नैतदस्ति; णित्करणसामर्थ्यादेव तन्न भविष्यति; अन्यथा णित्करणमनर्थकं स्यात्। नानर्थकम् ? `णेरनिटि' (6.4.51) इति सामान्यग्रहणार्थत्वात्। यदा च `आयादय आर्धधातुके वा' (3.1.31) इति णिङ् नास्ति, तदा हेतुमण्णिचि ह्रस्वत्वं मा भूदिति मित्संज्ञा प्रतिषिध्यते।।
31. आयादय आर्धधातुके वा। (3.1.31)
`आर्धधातुकविषये' इत्येतेनार्धधातुक इत्यस्य विषयसप्तमीत्वं दर्शयति। आर्धधातुकविषयत्वं तु तद्विवक्षायां सत्यां बुद्धिस्थे तस्मिन् सम्भवति,नान्यथेत्याह-- `आर्धधातुकविवक्षायाम्' इति। केन पुनरभिसन्धिना विषयसप्तमीत्वमाश्रीयत इति ? एवं मन्यते-- परसप्तम्यामुत्पत्तिर्वा विकल्प्यते ? निवृत्तिर्वा ? यद्युत्पत्तिस्तदा गुपेः स्त्रियां क्तिनि विहिते तत्र यदायप्रत्ययो नोत्पद्यते तदा कामं गुप्तरितीष्टं सिध्यति। यदा तूत्पद्यते, तदातो लोपे (6.4.48) वलि लोपे (6.1.66) इत्यकारे कृते तत्र परतो यदा निवृत्तिर्न भवति तदा कामं गोपायेतीष्टं सिध्यति। यदा तु भवति तदा गोपेत्यनिष्टं प्राप्नोति। गुप्तिरिति सत्यामसत्यां वा निवृत्ताविष्टं न सिध्यति; विषयसप्तम्यां तूत्पतौ विकल्पितायामुत्पत्स्यते। अर्धधातुकमिति आर्धधातुकविवक्षायामादावेव विकल्पः। तत्रानुत्पत्तिपक्षे स्त्रियां क्तिनि विहिते गुप्तिरिति सिध्यति, उत्पत्तिपक्षे गोपायेति। न च गोपातिरित्यनिष्टमपि; आयप्रत्ययान्तात् क्तिनोऽभावात्। नापि गोपेत्यनिष्टमापद्यते, आयप्रत्ययस्यानुत्पत्तेः। `नित्यप्रत्ययप्रसङ्गे' इति। पूर्वकैस्त्रिभिः सूत्रेर्नित्यमायादिषु प्राप्तेष्वित्यर्थः। `तदुतप्त्तौ' इत्यादि। तेषामायादीनामार्धधातुकविषय उत्पत्तिर्विकल्प्यते, न तूत्पन्नानां निवृत्तिः। यदि हि निवृत्तिर्विकल्प्येत तदार्धधातुके विषयभूते सत्यायप्रत्यये निवृत्ते प्रत्ययलक्षणेन `अ प्रत्ययात्' (3.3.102) इत्यकारप्रत्यये विहिते विषयसप्तम्यामपि गोपेत्यनिष्टं स्यादित्यभिप्रायः। `यथायथम्' इति। यो यतः प्राप्नोति स पश्चादुत्पत्तिविकल्पादुत्तरकालं ततो भवतीत्यर्थः।।
32. सनाद्यन्ता धातवः। (3.1.32)
`सनादयोऽन्ते येषाम्' इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा-- कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। `समुदायाः' इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। `{धातुसंज्ञाः-- काशिका, पदमञ्जरी च.}धातुसंज्ञकाः' इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। `सुप्तिङन्तं पदम्' (1.4.14) इत्यत्र चान्तग्रहणेन ज्ञापितमेतत-- `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (पि.प.वृ.44) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह--- यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह-- `प्रत्ययग्रहणपरिभाषयैव' इत्यादि। न ह्यनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि ? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवर्त्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ `भूवादयो धातवः' (1.3.1) इत्यस्यानन्तरं `सनाद्यन्ताश्च इति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कर्त्तव्यं भवति ? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि `सनाद्यन्ता धातवः' (3.1.32) इत्यस्यानन्तरं `भूवादयश्च' इति कस्मान्नोक्तम् ? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्येरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्।।
33. स्यतासी लृलुटोः। (3.1.33)
इह द्वे लृरूपे--- एकं लृटः सम्बन्धिः, द्वितीयं लृङ। द्वयोरपि तेयोर्ग्रहणम्,इष्टत्वात्, विशेषानुपादानाच्च। ततश्चैते द्वे तृतीयञ्च लुडिति त्रीणि निमित्तानि भवन्ति। निमित्तिनौ तु द्वौ स्यातासी इति वैषम्यम्। अतः संख्यातानुदेशो न स्यादिति यो देशयेत्, तं प्रत्याह-- `लृरूपम्'इत्यादि। टकारङकारयोरनुबन्धयोः परित्यागेन ततकृत्यस्य भेदस्याभावाल्लृरूपं लृङलृटोः सामान्यमेकमेवेति निमित्तयोरपि द्वित्वम्। तेन संख्यतानुदेशो न विरुध्यत इत्यभिप्रायः। अत एवाह-- `यथा संख्यम्' इति। `करिष्यति' इति। `लृट् शेषे च' (3.3.13) इति लुट्, ऋद्धनोः स्ये' (7.2.70) इतीट्। `अकरिष्यत्' इति। लृङ, अडागमः, `इतश्च' (3.4.100) इतीकारलोपः। `कर्त्ता' इति। `अनद्यतने लृट्', (3.3.15) `लुटः प्रथमस्य' (2.4.85) इत्यादिना तिपो डादेशः,टिलोपः। `इदित्करणम्' इत्यादि। इच्चासावित् इत्संज्ञकश्चेतीति,तस्य करणमिदित्करणम्। इकारस्येत्संज्ञकस्य करणित्यर्थः। अथ वा-- इदित् यस्य तासेः स इदित् तासिः, तस्य करणमिदित्करणसंज्ञकेकारस्य तासेः करणमित्यर्थः। `अनुनासिकलोपप्रतिबन्धार्थम्' इति। असति तु तस्मिन् `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः स्यात् । अतस्तस्य प्रतिबन्धः प्रवृत्तिविघातो यथा स्यादित्येवमर्थमिदित्करणम्। `मन्ता' इति। `मन ज्ञाने' (धा.पा.1176), `मनु अवबोधने'(धा.पा.1471) इति वा। `अनुदात्तङितः'(1.3.12) इत्यात्मनेपदम्। `संगन्ता' इति। अत्रापि संपूर्वाद्गमेः `समो गमि' (1.3.29) इत्यादिना अत्रोभयत्रापि टिलोपे कृते ङित्वादात्मनेपदमाश्रित्यानुनासकिलोपः प्राप्नोति, स इदित्करणेन प्रतिषिध्यते। यदि तर्हि तासेरिदित्करणमनुनासिकलोपप्रतिबन्धार्थम्, एवं सति `इदितो नुम् धातोः' (7.1.58) इत्यत्र यद्वक्ष्यति `तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते' इति तद्विरुध्यते ? नास्ति विरोधः, भिन्नकर्त्तृकत्वात्। इदं हि जयादित्यवचनम्, तत् पुनर्वामनस्य। वामनवृत्तौ तु तासिसिचोरिकार उच्चारणार्थो नानुबन्धो पठ्यते, तेन विरोधो नाशङ्कनीयः। केन पुनरभिसन्धिना जयादित्यस्तासेरिकारस्यानुनासिकलोपप्रतिबन्धार्थतां कृतवान् ? वामनस्तूच्चारणर्थताम् ? येनाभिसन्धिना स तावच्छरूयताम्-- आभाच्छास्त्रीयमसिद्धत्वमनित्यम्, अनित्यत्वं तु तस्य तत्रैव प्रतिपादयिष्यते जयादित्येन। आभाच्छास्त्रीयस्य टिलोपस्यासिद्धत्वमिह नास्ति। अनित्यत्वादित्यभिप्रेत्य तासेरिकारस्यानुनासिकलोपे प्रतिबन्धार्थतोक्ता। वामनेनत्वसिद्धत्वमिहास्त्येवेति मन्यमानेनोच्चारणार्थतोक्ता। न हि टिलोपस्यासिद्धत्वे सत्यनुनासिकलोपः प्राप्नोति। तदयुक्ता तत्प्रतिबन्धार्थतेकारस्य। यथैव हि गोनर्द्दीय आचार्यः-- सन्निपातलक्षणपरिभाषाया उपस्थानमाश्रित्यातिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैर्ब्राह्मणकुलैरिति भवितव्यमित्याह; अन्ये त्वनित्यत्वादस्याः परिभाषाया अनुपस्थानमाश्रित्यातिजरसं ब्राह्मणकुलमतिजरसैरिति भवितव्यमित्याहुः, तथेदमपि प्रयोजनद्वयमाभाच्छास्त्रीय्सयास्तित्वञ्चाश्रित्य वृत्तिकारावुक्तवन्ताविति वेदितव्यम्।
अन्ये चाचक्षते-- प्राग भादसिद्धाधिकार इतीमं पक्षमाश्रित्येकारस्यानुनासिकलोपप्रतिबन्धार्थतोक्ता। सह तेनासिद्धाधिकार इत्यश्रित्योच्चारणार्थतेति। एतच्चाशक्यं विज्ञातुम्; प्राग् भादसिद्धाधिकार इत्यस्य पक्षस्य जयादित्यवामनाभ्यामनाश्रित्वात्। अनाश्रितत्वंतु तत्रैव वृत्तावभिव्यक्तमिति तत एवावगन्तव्यम्। एते च स्वादयो येननाप्राप्तिन्यायेनान्तरङ्गत्वाच्च सर्वेषां यगादीनामपवादाः; अन्तरङ्गत्वं तु तेषां लावस्थायामेव विधानात्।।
34. सिब्बहुलं लेटि। (3.1.34)
`जोषिषत्' इति।`जुषी प्रीतिसेवनयोः' (धा.पा.1288) लिङर्थे लेट्। सिप इकार उच्चारणार्थः, पकारः स्वरार्थः, `लेटोऽडाटौ' (3.4.94) इत्यट्। `इतश्च लोपः परस्मैपदेषु' (3.4.97) इतीकारलोपः, `आर्धधातुकस्येडवलादेः' (7.2.35) इतीट्, लघूपधगुणः, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। `तारिषत्' इति। `तॄ प्लवनतरणयोः' (धा.पा.969) `सार्वधातुकार्धधातुकयोः' (7.3.84) `व्यत्ययो बहुलम्' (3.1.85) इति वर्णव्यत्ययेन धात्वकारस्याकारः। शेषं पूर्ववत्। `मन्दिषत्' इति। `मदि {स्तुतिमोदमदस्वप्नकान्तिगतिषृ' धा.पा.} स्तुतिमोदनस्वप्नगितषृ' (धा.पा.13), `इदितो नुम् धातोः' (7.1.58) इति नुम्। `पदाति' इति। `पद गतौ' (धा.पा.1169), दिवादिरनुदात्तेत्, व्यत्ययेन परस्मैपदम्, शप्प्रत्ययश्च, अटा सह सवर्णदीर्घत्वम्। तिप इकारलोपोऽत्र न भवति; तद्विधौ `वैतोऽन्यत्र' (3.4.96) इत्यतो वेत्यनुवृत्तेः। `च्यावयाति' इति। `च्यङ {न स्तो धातुपाठे} छ्युङ ज्युङ {न स्तो धातुपाठे} झयुङ प्रुङ प्लुङ गतौ' (धा.पा.955,956,957,958)। हेतुमण्णिच्। सिपः पित्करणं बोभूयिषातामित्यत्रोदात्तनिवृत्तिस्वरेणोदात्तत्वे प्राप्तेऽनुदात्तार्थम्। यङन्तात् बोभूयशब्दाल्लेट आत्मनेपदम्, त, टेरेत्वम्। `एत ऐ' (3.4.93) `लेटोऽडाटौ' (3.4.94) इत्याट् `तस्यानुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः' (6.1.186) इति सार्वधातुकस्यानुदात्तत्वं पित्करणसामर्थ्यादन्तरङ्गोऽपि सिप्स्वरं प्रतीक्षते। तेन कृते तस्मिन् सिप इडागमः। स चागमानुदात्तत्वेनानुदात्तः। `अतो लोपः' (6.4.48) इति यङोऽकारस्योदात्तस्य लोपः। उदात्तत्वं तु तस्य धातुस्वरेण च। `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्युदात्तत्वे प्राप्ते पित्करणादनुदात्तत्वमिटो भवति।।
35. कास्प्रत्ययादाममन्त्रे लिटि। (3.1.35)
प्रत्ययग्रहणेनेह सन्नादीनां प्रत्यायानां ग्रहणम्। `प्रत्ययग्रहणे यस्मात्' (पु.प.वृ.44) इति परिभाषया `येन विधिस्तदन्तस्य' (1.1.72) इति वा तदन्तविधिर्विज्ञायते।धात्वधिकाराच्च प्रत्ययग्रहणेनेह धातवो विशिष्यन्त इत्याह--- `प्रत्ययान्तेभ्यो धातुभ्यः' इति। आम्प्रत्ययो भवतीति हलन्तपक्षमाश्रित्योक्तम्। अदन्तपक्षे त्वामः प्रत्ययो भवतीत्येवं वक्तव्यम्, तच्च नोक्तम्; वक्ष्यमाणादामोऽमित्त्वमदन्तत्वादित्यत एवावगम्यमानत्वात्। `अमन्त्रे' इति विषयसप्तमीयम्, न परसप्तमी, तेन मन्त्रप्रतिषेधात् भाषायां ब्राह्मणे च विषयेऽयं विधिर्विज्ञायते। ब्राह्मणो नाम मन्त्राणामेव व्याख्यानग्रन्थः। न च नञिवयुक्तन्यायेन (व्या.प.65) ब्राह्मण एव भवितव्यम्, न भाषायाम् ? नैतत्; यदि भाषायामपि न स्यात् ब्राह्मण इत्येवं ब्रूयात्। `कासाञ्चक्रे' इति। `आमः' (2.4.81) इति लेर्लुक्। लिटः कृत्तवाल्लुप्ते तस्मिन् `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा, सुः, स्वरादिपाठात् ` तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वाऽव्ययसंज्ञायां सोर्लुक्। अथ `हल्ङ्याब्भ्यः' (6.1.68) इत्यनेनात्र सोर्लोपो भविष्यति, किमत्राव्ययसंज्ञया। `लोलूयाञ्चक्रे' इति। लोलूयशब्दाद्यङन्तादाम्।
`नोनाव' इति। `णु स्तुतौ' (धा.पा.1035), `णो नः' (6.1.65) इति नत्वम्, यङ, नोनूयत इति स्थिते `यङोऽचि च' (2.4.74) इति यङो लुक्, लिट्, तिप्, `परस्मैपदानाम्' (3.4.82) इति णल्, वृद्धिः। अत्र प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात्, अमन्त्र इति वचनान्न भवति।
`कास्यनेकाचः' इत्यादि। प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्त्तव्यमित्यर्थः। किमर्थमित्याह-- `चुलुम्पाद्यर्थम्' इति। यथान्यासं हि क इत्यस्मात् प्रजापतिवाचिनो विष्णुवाचिनोऽशब्दादाचारक्विपि तदन्तादप्याम् प्रसज्येत, चकासृप्रभृतिभ्योऽप्रत्ययान्तेभ्यश्च न स्यात्, तस्मादिदं न्यासान्तरं द्रष्टव्यम्। अन्ये तु प्रत्ययग्रहणस्यानेकाजुपलक्षणान्न कर्त्तव्यमेतदिति मन्यन्ते, एतच्चायुक्तम्; न हि प्रत्ययग्रहणमनेकाजुपलक्षणार्थमुपपद्यते, एकाचामपि प्रत्ययानां धातूनां विद्यमानत्वात्। यथा त्वेतन्न्यासान्तरं प्रत्याख्येयं भवेत् तथोत्तरत्र दर्शयिष्यामः। `चकासाञ्चकार, दरिद्राञ्चकार' इति। `चकासृ दीप्तौ' (धा.पा.1074), `दरिद्रा दुर्गतौ' (धा.पा.1073)। `चुलुम्पाञ्चकार' इति। चुलुम्पतेर्धातुष्वपरिपठितस्यापि कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनप्रामाण्यात् धातुत्वं वेदितव्यम्।
अथामो मकारस्य `हलन्त्यम्' (1.3.3) इतीत्संज्ञा कस्मान्न भवतीत्याह-- `आमोऽमित्तवम्' इत्यादि। मकार इद्यस्य सोऽयमित्, न मिदमित्, तस्य भावोऽमित्त्वम्। कथममित्तवमित्याह-- `अदन्तत्वात्' इत्यादि। मकारान्तत्वे हि सति मकार्सयेत्संज्ञा स्यात्। न चास्य मकारान्तत्वम्, किं तर्हि ? अदन्तत्वम्। तेनाकार एव `उपदेशेऽजनुनासिक इत्' ((1.3.2ः इतीत्संज्ञामनुभवन् मकारस्येत्संज्ञां प्रतिबध्नाति। यथा चामेऽमित्तवमदन्तत्वादगुणत्वं विदेस्तथा। गुणाभावोऽपि हि विदेर्विदाञ्चकारेत्यत्राकारान्तत्वादावेव भवति. अथाकारान्तत्वे सत्यतो लोपे (6.4.48) तस्याः `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावादिकार उपधा न भवति, तेन लघूपपधगुणो न भवति। अदन्तत्वं तु विदेः `उषविदजागृभ्योऽन्यतरस्याम्' (3.1.38) इत्यनेनाम्प्रत्ययसन्नियोगेनाकारान्तत्वनिपातनात्। अभ्युपेत्यामो मकारान्तत्वममित्त्वं प्रतिपादयितुमाह-- `आश्चकासोर्विधानाच्च' इति। आमोऽमित्त्वमिति प्रकृतेन सम्बन्धः,`दयायासश्च'( 3.1.37) इत्यास आमो विधानात्। कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्युपसंख्यानाच्चकासेः। आदिग्रहणेन हि चकासेरपि ग्रहणम्। मकारस्येत्संज्ञैयतत् प्रयोजनम्-- अचोऽन्त्यात् परो यथा स्यादिति। यदि चामोऽमित्त्वं स्यात् तदाऽऽश्चकासोरामो विधानमनर्थकं स्यात्। न हि तयोरचोऽन्त्यात् प आशि भवत्यभवति वा कश्चिद्विशेषः। उभयथा हि `अकः सवर्णे' (6.1.101) इति दीर्घत्वे तदेव रूपं स्यात्, तदेतदाश्चकासोरामो विधानं कथमर्थवद्भवति ? यद्यमित्तवमामो भवति नान्यथा। न ह्यन्यत् किञ्चित्प्रयोजनमस्तीति प्रयोजनाभावादित्संज्ञा न भविष्यति। आश्चकासोर्विधानसमार्थ्यात् सवर्णदीर्घत्वमिह न भविष्यति। `मिदचोऽन्त्यात् परः' (1.1.47) इति परिभाषा वा नोपस्थास्य इत्येतच्च नाशङ्कनीयं लक्ष्यविरोधमनिच्छता। एवं ह्यनिष्टं रूपं स्यात्। न चानिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता। यदि तर्ह्यमोऽदन्तत्वमेवं सत्याममन्त्र इति निर्देशो नोपपद्यते, सवर्णदीर्घत्वे `आमामन्त्रे' इति भवितव्यमित्याह-- `पररूपं कतन्तवत्' इति। यथा` सर्वत्र लोहितादिकतन्तेभ्यः' (4.1.18) इत्यत्र पररूपं तथेहापीति न भवति निर्देशानुपपत्तिः।।
36. इजादेश्च गुरुमतोऽनृच्छः। (3.1.36)
`{यजादेः इति मुद्रितः पाठः।} इजादेः' इति। आदिर्यस्येति बहुव्रीहिः। `इच्' इति प्रत्याहारग्रहणम्। गुरुरस्यास्तीति गुरुमान्। `ऋच्छतिवर्जितः' ऋच्छिना त्यक्तः। तद्रूपरहित इत्यर्थः। `ईहाचञ्क्रे' इति। `ईह चेष्टायाम्' (धा.पा.632) `ऊहाञ्चक्रे' इति। `ऊह वितर्के' (धा.पा.648)।
`ततक्ष, ररक्ष' इति। `तक्षू त्वक्षू तनूकरणे' (धा.पा.655, 656), `रक्ष पालने' (धा.पा.658)। `इयज; उवप' इति। यजिवप्योरुत्तमे णलि `णलुत्तमो वा' (7.1.91) इति णित्त्वाभावपक्षे वृद्ध्यभावाद्गुरुमत्ताभावः। केचित् इयेष, उवोषेति प्रत्युदाहरन्ति। `{इष धा.पा.} इषु इच्छायाम्' (धा.पा.1351) `उष दाहे' (धा.पा.696), णलि लघूपधगुणःष द्विर्वचनम्, `अभ्यासस्यासवर्णे' (6.4.78) इतीयङुवङौ। ननु च गुणे कृत एतावपि गुरुमन्तो भवत इति भवितव्यमेवामात्र ? न भवितव्यम्; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इति लिट्सन्निपातो गुरुमत्ताया हेतुः। गुरुमत्ता च `आमः' (2.4.81) इति लिटमेव विहन्ति। अथ वा-- गुरुमत इति नित्ययोगे मतुप्, तेन नित्यं यस्य गुरुमा योगस्ततो भवितव्यम्, न चेषेरुषेश्च नित्यं गुरुणा सह योगः। यद्येवम्, `उछी विवासे' (धा.पा.216) -- उच्छाञ्चकारेत्यत्र तुकि कृते न प्राप्नोति ? नैष दोषः; ऋच्छिप्रतिषेधो हि ज्ञापयति-- आगमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीति।
`आनर्च्छ' इति। `ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' (धा.पा.1296), `छे च' (6.1.73) इति तुक्, `ऋच्छत्यॄताम्' (7.4.11) इतिगुणः, द्विर्वचनम्, हलादिशेषः, `अत आदेः' (7.4.70) इति दीर्घः, `तस्मान्नुड् द्विहलः' (7.4.71) इति नुट्। ननु च `ऋच्छत्यॄताम्'(7.4.11) इति ऋच्छतेरनन्तरे लिटि गुणवचनं ज्ञापकम्-- ऋच्छेराम् न भवति। सति हि तस्मिन्नागमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीत्येतज्ज्ञापितं न स्यात्। तस्मादनृच्छ इति प्रतिषेधः कर्त्तव्यः।
`ऊर्णोतेः' इत्यादि। इजादित्वाद्गुरुमत्त्वाच्च प्राप्नोत्याम्। तस्मात् प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। व्याख्यानं तु-- वक्ष्यमाणस्यान्यतरस्यांग्रहणस्य सिंहावलोकितन्यायेनानुवर्त्तितस्य व्यवस्थितविभाषात्वविज्ञानात् कर्त्तव्यम्। `प्रोर्णुनाव' इति। `अजादेर्द्वितीयस्य' (6.1.2) इति `नु'इत्यस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते; `न न्द्राः संयोगादयः' (6.1.3) इति प्रतिषेधात्।
`अथ वा' इत्यादि। `णु स्तुतौ' (धा.पा.1-35)। `तेन तुल्यं वर्त्तते' इति नुपवत्, तस्य भावो नुवद्भाव इति. नौतिना तुल्यं वर्त्तत इत्यर्थः। किं पुनस्तस्य प्रयोजनम्, येनासौ तथा वाच्यः ? इत्याह--- `यङप्रसिद्धिः प्रयोजनम्' इति। नुवद्भावे सति यथा नौतेः `धातोरेकाचः' (3.1.22) इतियङ भवति नोनूयत इति, एवमूर्णोतेरपि- प्रोर्णोनूयत इति। `आमश्च प्रतिषेधार्थम्' इति नुवद्भावो वाच्य इत्यपेक्षते। तस्मिन् सति यथा नौतेरनिजादित्वाद्गुमत्ताभावाच्चाम् न भवति, तथोर्णोतेरपि-- प्रोर्णुनावेति। `एकाचश्चेडुपग्रहात्' इति। `नुवद्भावो वाच्यः' इति सम्बध्यते। कर्मणि `ल्यब्लोपे' (वा.127) इति पञ्चमी, यथा-- प्रासादात् प्रेक्षते, आसनात् प्रेक्षत इति। इडुपग्रह इति इट्प्रतिषेधः। एतदुक्तं भवति-- एकाचः' (7.2.10) इत्यनुवर्त्तमाने `श्रयुकः किति' (7.2.11) इति य इडुपग्हः क्रियते तदुद्दिश्य प्रयोजनमूर्णोतेर्नुवद्भावो वाच्य इति। तेन यथा नौतेः `श्रयुकः किति' इतीट्प्रतिषेधः-नुतः, नुतवानिति, तथोर्णोतेरपि-- प्रोर्णुतः, प्रोर्णुतवानिति।
अथ वा-- इडुपग्रहादिति हेतावियं पञ्चमी, यथा-- `तदशिष्यं संज्ञाप्रमाणत्वात्' (1.2.53) इति। एकाचो यत इडुपग्रहो विधीयते तस्मात् प्रयोजनाद्धेतोरूर्णोतेर्नुवद्भावो वाच्य इत्यर्थः। अथ `इजादेश्च' इति किमर्थश्चकारः ? अनुक्तसमुच्चयार्थः , तेन `कास्यनेकाचः' (वा. 205) इति वक्तव्यं न भवति। यथान्यासेऽपि चकारेण चकासाञ्चकारेत्यादेः सिद्धत्वात्। ननु च यदीदं नोच्येत, तदा प्रत्ययान्तोऽपि यो धातुरेकाच् ततोऽपि प्रसज्येत् ? यदि नेष्यते, तदा वक्ष्यमाणमन्तयतरस्यांगर्हणमनुवर्त्यं व्यवस्थितविभाषात्वमङ्गीकर्त्तव्यम्।।
37. दयायासश्च। (3.1.37)
`पलायाञ्चक्रे' इति। परापूर्वस्यायतेः `उपसर्गास्यायतौ' (8.2.19) इति लत्वम्।
38. उषविदजागृभ्योऽन्यतरस्याम्। (3.1.38)
उषजागृभ्यां साहर्याद्विदेरपि परस्मैपदिनो ज्ञानार्थस्य ग्रहणम्, न तु सत्त्ाविचारणार्थं योरात्मनेपदिनोः, नापि लाभार्थस्योभयपदिनः; जागर्त्तिनाऽऽदादिकेन वा साहचर्याद्विदेरादादिकस्यैव ग्रहणमित्याह-- `विद ज्ञाने' इति। विवेदेत्यत्रादन्तत्वाभावाद्गुणो भवत्येव। आम्सन्नियोगेन विदेरदन्तत्वं विज्ञायते, तेन तत्रैव गुणाभावो नान्यत्रेति। अत आह-- `विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति' इति।।
39. भीह्रीभृहुवां श्लुवच्च। (3.1.39)
`भीह्रीभृहुवाम्' इति। पञ्चम्यर्थे षष्ठी। सुपां सुपो भवन्तीति। `श्लुवत्' इति। श्लविव श्लुवत्। `तत्र तस्येव' (5.1.116) इति सप्तमीसमर्थाद्वतिः। कार्यातिदेशश्चायम्। अत एवाह--- `श्लुवच्चास्मिन् कार्यं भवति' इति। `द्वित्वमित्त्वञ्च' इति। `श्लौ' (6.1.10) इति द्विर्वचनम्, `भृञामित्' (7.4.76) इतीत्त्वम्। असति ह्यतिदेशे लिडाश्रयं द्विर्वचनमामा व्यवधाने न स्यात्। इत्त्वमपि नैव स्यात्, तद्विधौ हि `णजां त्रयाणां गुणः श्लौ' (7.4.75) इत्यतः श्लावित्यनुवर्त्तते। तस्मात् तस्योभयस्य सिद्धये `श्लुवच्च' इत्यतिदेशः।।
40. कृञ्चानुप्रयुज्यते लिटि। (3.1.40)
`अनुप्रयुज्यते' इति। अनुप्रशब्दौ प्रत्येकं प्रथमान्ते पदे। `युज्यते' इत्यात्ममनेपदे प्रथमपुरुषैकवचनान्तं पदम्। `आम्प्रत्ययस्य' इति। आम् प्रत्ययो यस्मादिति बहुव्रीहिः। पश्चादित्यनेनानुशब्दस्यार्थमाचक्षाणः प्राक् प्रयोगं निराकरोति। सावधारणफलत्वाच्च सर्ववाक्यानामाम्प्रत्ययस्यैव पश्चात् कृञ् प्रयुज्यते-- इत्यवधारणमिहाश्रितम्, तेन व्यवधाने प्रयोगो निराकृतो भवति। न हि व्यवधाने कृञनुप्रयुज्यमान आम्प्रत्ययस्यैवानुप्रयुक्तो भवति, अपि तु शब्दान्तरस्यापि।`लिटि परतः' इत्यनेन प्रत्ययान्तरे परे प्रयोगाभावमाह। ननु च `आमः' (2.4.81) इति लिटो लुका भवितव्यम्, तत्कथं लिटि परतः कृञ नुप्रयुज्यते ? नैष दोषः; न ह्ययमत्रार्थः-- लक्षणान्तरेण यो विहितो लिट्परः कृञनुप्रयुज्यत इति यावत्। ननु च कृञित्युच्यते, पाचयाम्बभूव पाचयामासेति भवतेरस्तेश्चानुप्रयोगो न सिध्यतीत्याह-- `कृञिति प्रत्याहारेण' इत्यादि।`अभूततद्भावे कृभ्वस्तियोगे' (5.4.40) इतीतं कृशब्दं गृहीत्वा `कृञो द्वितीयतृतीयशम्बबीजात् कृषौ' (5.4.58) इति ञकारेण प्रत्याहारग्रहणमेतत्। तेन प्रत्याहारग्रहणेन कृभ्वस्तयस्त्रयो गृह्यन्ते। तत्र च त्रयाणामप्यन्तर्भावादित्यदोषः। एवमप्यस्तेरनुप्रयोगो न सिध्यति, यस्मात् `अस्तेर्भूः' (2.4.52) इति भूभावेन भवितव्यमित्याह-- `तत्सामर्थ्यात्' इति। प्रत्याहेरण कृभ्वस्तीनां ग्रहणसामर्थ्यादस्तेर्भूभावो न भवति। तेषां प्रत्याहारगर्हणस्यैतत् प्रयोजनम्-- अस्तेरनुप्रयोगो यथा स्यात्। यद्यस्तेरनुप्रयोगस्य भूभावः स्यात् निष्फलं प्रत्याहारग्ररहणं स्यात्, `कृभ्वनुप्रयुज्यते लिटि' इत्येवं ब्रूयात्। तत्राप्ययमर्थः-- किमिदं करोतेर्ग्रहणम् ? उत प्रत्याहारस्य ? इति सन्देहः परिहृतो भवति। यदि तर्हि कृञिति प्रत्याहारग्रहणम्, एवं सति `अभिविधौ सम्पदा च' (5.4.53) इति सम्पदानुप्रयोगः प्राप्नोति; तस्य प्रत्याहारेऽन्तर्भूतत्वात् ? नैष दोषः; `सनाद्यन्ता धातवः' (3.1.32) इत्यतो धातुग्रहणमनुवर्त्तते, तेन च कृञ् विशिष्यते--कृञ् यो धातुरिति, न च सम्पदेत्यं धातुः, किं तर्हि ? धातूपसर्गसमुदायः, तस्मान्नानुप्रयुज्यते।
`पाचयाम्बभूव' इति। पचेर्ण्यन्तादाम्। `अयामन्ताल्वाय्येत्न्विष्णुषु' (6.4.55) इति णेरयादेशः। `भवतेरः' (7.4.73) इत्यभ्यासस्यात्त्वम्। `भुवो वुग् लुङलिटोः' (6.4.88) इति वुगागमः।
किमर्थं पुनरिदमुच्यते, यावताऽमन्तमिदम्, अनभिव्यक्तक्रियापदार्थम्। अतो हि क्रियाकालमात्रस्याभिव्यक्तिर्भवति, न साधनपुरुषसंख्यानम्। न हि विना तिङन्तपदेन तासामभिव्यक्तिर्भवति। तस्मादपरिसमाप्त्यर्थत्वादेवामन्तस्यानुप्रयोगो भविष्यति ? कृभ्वस्तीनामनुप्रयोगो यथा स्यात्, `{पचादीनां मा भूत्। पचादीनामिति चेन्न'} इति मुद्रितः पाठः} पचादीनां मा भूदिति चेत्, न; पचादीनां विशेषवाचित्वादनुप्रयोगस्यानुपपत्तेः। विशेषवाची ह्यनुप्रयुज्यमानः सामान्यवाचिनो ह्यामन्तस्यानुप्रयुज्यते ? विशेषवाचिनो वा ? तत्र न तावत् सामान्यवाचिन आमन्तस्य विशेषवाच्यनुप्रयोगमर्हति, तस्यासम्भवात्। कृभ्वस्तयो हि सामान्यवाचिनः, न च तेभ्यः केनचिदाम् विहितः। विशेषवाचिनोऽप्यामन्तस्य विशेषवाची समानार्थोऽनुप्रयुज्येत ? भिन्नार्थो वा ? तत्र समानार्थस्तावन्नानुप्रयुज्यते; उक्तार्थत्वात्। तस्मिंश्चानुप्रयोक्तुमिष्ट आमन्तस्य सकलक्रियाकालाद्यर्थाभिव्यक्तिर्भवति। सामर्थ्यात् स एवानुप्रयोक्तव्यो यत्र सर्वाभव्यक्तिर्भवति। तत्र क्रियामन्तेन समानार्थेन पूर्वेण ! भिन्नार्थोऽपि नानुप्रयोगमर्हति; तदर्थानभिव्यक्तेः। अनुप्रयोगो ह्यामन्तस्यार्थस्याभिव्यक्तये क्रियते, न चात्यन्तभिन्नार्थेनामन्तवाच्यस्यार्थस्य सम्बन्धिनः साधनादयः शक्यन्तेऽभिव्यङक्तुम्। सामान्यवाचिना तु शक्यन्तेऽभिव्यङक्तुम्। विशेषसन्निधौ हि सामान्यशब्दस्य विशेषेऽवस्थानादामन्तस्य सन्निधौ सामान्यशब्दाः कृभ्वस्तयोऽनुप्रयुज्यमानास्तद्वाच्य एवार्थविशेषे वर्त्तन्ते, तस्मादेषामेव कृभ्वस्तीनामनुप्रयोगो भविष्यतीति नारब्धव्यमिदम् ? नैतदस्ति; यथैव हि कृभ्वस्तयः क्रियासामान्यवचनाः, एवं विद्यतिरपीति तस्याप्यनुप्रयोगः स्यात्। तस्मात् तन्निवृत्त्यर्थमिदमारब्धम्। व्यवहितप्रयोगनिवृत्त्यर्थञ्च, पाचयां देवदत्तश्चकारेति मा भूत्। व्यवहितप्रयोगानिवृत्तिस्त्ववधारणविशेषाल्लभ्यते। अवधारणं तु सर्ववाक्यानां व्यवच्छेदफलत्वात् सावधारणफलत्वाच्चकारस्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। विपर्ययनिवृत्त्यर्थश्चारब्धव्यः, विपर्ययनिवृत्तिस्त्वनोः पश्चादर्थत्वाल्लभ्यते।।
41. विदाङ्कुर्वन्त्वित्यन्यतरस्याम्। (3.1.41)
`विदेर्लोट्याम्प्रत्ययः' इति। विदेर्लिट्याम् विहितो लोटि न प्राप्नोतीत्यतोऽपि निपात्यते। अममाश्रित्य लघूपधगुणः प्राप्नोतीति तदभावश्च। `आमः' (2.4.81) इति लेर्लुग्विधीयमानो लोटो न सिध्यतीत्यतो लोटो लुक्। लिट्परस्य कृञोऽनुप्रयोग उक्तो लोट्परस्य न प्राप्नोति, सोऽपि निपात्यत इति सर्वत्र सम्बन्धनीयम्। `कुर्वन्तु' इति। बहुवचनम्, झेरन्तादेशः, `एरुः' (3.4.86), विकरणमश्रित्य धातोर्गुणः, ` अत उत् सार्वधातुके' (6.4.110) इत्युत्त्वम्, विकरणस्य यणादेशः। `इतिकरणः' इत्यादि। लोड्वचनानामुपलक्षणार्थत्वे सतीतिकरणस्य यदिष्टं तद्दर्शयितुमाह-- `न केवलम्' इत्यादि। `कुरुताम्' इति। `तस्थस्' (3.4.101) इत्यादिना तसस्ताम्। `कुरु' इति. `सेर्ह्यपिच्च' (3.4.87) इति हिः, `उतश्च प्रत्ययात्' (6.4.106) इत्यादिना हेर्लुक्। `कुरुतम्' इति। तसस्तम्।।
42.अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि। (3.1.42)
`अभ्युत्सादयाम्' इति। `कुगतिप्रादयः' (2.2.18) इति समासे कृत एकमेवेदं प्रथमान्तम्। एवं `प्रजनयाम्' इत्येतदपि। शेषाण्यप्यामन्तानि प्रथमान्तान्येव। `अकः' इति। करोतेर्लुङ। प्रथमपुरुषैकवचनान्तम्। `अक्रन' इति। प्रथमपुरुषबहुवचनान्तम्। `सदिजनिरमीणाम्' इति। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.1427), `जनी प्रादुर्भावे' (धा.पा.1449), `रमु क्रीडायाम्' (धा.पा.853)। `ण्यन्तानाम्'इति। हेतुमण्णिजन्तानाम्। `पचतेः' इति। लिटि विहितत्वाल्लिङि न प्राप्नोति, ततो निपात्यते। `अस्य' इति। पुनातेः पवतेर्वा ण्यन्तस्य। `लृङ्याम् निपात्यते' इति। पूर्ववन्न प्राप्नोतीति कृत्वा। `विदेरपि गुणाभावश्च' इति। `पुगन्तलघूपधस्य' (7.3.86)इति गुणः प्राप्नोति, अत्सतदभावो निपात्यते। `अभ्युत्सादयाम्' इति। पूर्ववण्णेरयादेशः। लुङो लुक्। `अकः' इति। करोतेर्लुङ, अडागमः, तिप्, च्लिः, तस्य `मन्त्रे घसह्वर' (2.4.80) इति लुक्, गुणः, रपरत्वम्, `हल्ङ्याब्भ्यः' (6.1.68) इति तिलोपः, रेफस्य विसर्जनीयः। `अभ्युदसीषदत्' इति। `णिश्रि' (3.1.48) इत्यादिना चङ, `णौ चङ्युपधायाः' (7.4.1) इति ह्रस्वः, `चङि' (6.1.11) इति द्विर्वचनम्, हलादिशेषः, `सन्वल्लघुनि' (7.4.93) इति सन्वद्भावे सतीत्त्वम्, `दीर्घो लघोः' (7.4.94) इति दीर्घः। एषा प्रक्रिया यथायोगमुत्तरत्रापि वेदितव्या।
`प्रजनायाम्' इति। `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' (धा.पा.817) इति मित्त्वात् ह्रस्वत्वम्। `चिकयाम्' इति। ककारोऽप्यत्र निपात्यते। गुणायादेशौ। `अचैषीत्' इति। `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, सिचि वृद्धिः। `रमयाम्' इति। `मितां ह्रस्वः' (6.4.92)। `पावयाम्' इति। `आमः' (2.4.81) इति लिङो लुक्। `क्रियात्' इति। कृञ आशिषि लिङ, तिप्, `इतश्च' (3.4.100) इतीकारलोपः, यासुट्, `रिङ शयग्लिङक्षु' (7.4.28) इति रिङादेशः; `स्को संयोगाद्योरन्ते च' (8.2.29) इति सलोपः। `पाव्यात्' इति। पूर्ववल्लिङ, `लिङाशिषि' (3.4.116) इत्यार्धधातुकत्वाच्छपोऽभावः, `णेरनिटि' (6.4.51) इति णिलोपः। `विदाम्' इति। विदेर्लुङ, आम्, गुणाभावः, लुङो लुक्। `अक्रन्' इति। कृञो लुङ, च्लिः, झेरन्तादेशः, `इतश्च' (3.4.100) इतीकारलोपः, संयोगान्तलोपः, च्लेः `मन्त्रे घसह्वर' (2.4.80) इति लुक्, अट, यणादेशः। `अवेदिषुः' इति। सिच इट्, `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्। ` इतिकरणः प्रयोगदर्शनार्थः' इति। अन्येऽप्येवंजातीयाश्छन्दसि वेदितव्या इत्यर्थः।।
43. च्लि लुङि।। (3.1.43)
`इकार उच्चारणार्थः' इति। उच्चारणमेवास्यार्थो नान्यत् किञ्चित् प्रयोजनमित्यर्थः। एतेनेत्संज्ञाकार्यं न भवतीति दर्शयति। `चकारः स्वरार्थः' इति। `चितः' (6.1.163) इत्यन्तोदात्तत्वं यथा स्यात्। अथ `मन्त्रे घसह्वरणशववृदहाद्वृच्कृगमिजनिभ्यो लेः' (2.4.80) इत्येकारः सामान्यग्रहणार्थः, चकारस्तदविघातार्थः कस्मान्न विज्ञायते ? एवं मन्यते-- मन्त्रेघसादिभ्यो नैवाभ्यो लिरस्ति यस्य सामान्यग्रहणार्थोऽयमिकारः स्यात्, तस्मिंश्चासति सामान्यग्रहणार्थे तदविघातार्थतापि चकारस्य नोपपद्यते। `आमः' (2.4.81) इत्यत्र तर्हीकारचकारौ कस्मान्न सामान्यग्रहणाविघातार्थौ भवतः, तत्र हि मन्त्रेघसादि (2.4.80) सूत्राल्लेरित्यनुवर्त्तते, तत्रेकारचकारयोरभावे `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति तस्यैव ग्रहणं स्यात्, न लिङलिटोः ? नैतदस्ति; अत्र मा भूल्लिग्रहणानुवृत्तिः,अविशेषेणापि प्रत्ययमात्रस्य लुग् भवष्यति; नैवं सति किञ्चिदनिष्टमापद्यते। न हि सोऽस्ति प्रत्ययो यस्य लुकि सति किञ्चिदनिष्टं भवेत्। सत्यामपि लिग्रहणानुवृत्तौ न दोषः, अनेकस्मिन् ग्राह्ये सति सामान्यग्रहणं भवति, न चामः परस्यानेकं ग्राह्यमस्ति। न हि क्वचिदामः परो लिटोन्यः प्रयोगोऽस्ति, तस्मादन्याभावाल्लिट एव ग्रहणम्। तत्र नार्थः सामान्यग्रहणार्थेनेकारेण,नापि तदविघातार्थेन चकारेण। ननु च पावयाङ्क्रियादित्यत्रान्योऽपि लिरस्ति ? नैतदस्ति; निपातनादेव तत्सिद्धम्।तच्चावश्यं निपातनमाश्रयितव्यम्; अन्यथा क्रियमाणेऽपीकारे तदविघाता्रएथे च चकारे अब्युत्सादयामिति न सिद्ध्येत्। तस्मात् पूर्वोक्तमेव प्रयोजनं न्याय्यम्। यथोत्तरार्थश्चकारस्तथोत्तरत्र प्रतिपादयिष्यामः।
अथ किमर्थं च्लिप्रत्ययमासज्य तस्य सिजादय आदिश्यन्ते, न सिचमेवोत्सर्गं विधाय तस्य क्सादय आदेशा विधीयेरन्निति ?नैवं शक्यम्; एवं हि `शल इगुपधादनिटः क्सः' (3.1.45) इत्यत्र च्लेरभावादनिड्ग्रहणं धातोर्विशेषणं विज्ञायेत- धातोरनिट इति। तथा च गुहेर्न सिद्ध्येत-- अघुक्षदिति।तस्य हि ऊदित्त्वात् स्वरत्यादिना (7.2.44) विकल्पेड्विधानान्नास्त्यनिट्त्वम्। च्लौ सत्यनिड्ग्रहणेन स एव विशिष्यते-- च्लेरनिट इति। गुहेश्च परस्य च्लेर्विभाषितेट्त्वात् यदेण् नास्ति तदा च्लेरनिट्त्वात् क्सः सिद्धो भवति।।
44. च्लेः सिच्। (3.1.44)
`इकार उच्चारणार्थः' इति। एतेनेहोच्चारणादन्यप्रयोजनं नास्तीति दर्शयन्नित्संज्ञायां अभावमाह। ननु चासतीकारेऽनुबन्धे `अनिदिताम्' (6.4.24) इत्यनेनामंस्तेत्यत्रानुनासिकलोपः प्राप्नोति, ततस्तत्प्रतिषेधार्थोऽयमित्संज्ञकः कस्मान्न भवति ? एवं मन्यते-- असत्यपीकारेऽनुबन्धेनैव सिजन्तस्यानुनासिकलोपेन भवितव्यम्; `हन सिच्' (1.2.14) इति कित्करणाज्ज्ञापकात्। तथा हि हन्तेः कित्करणस्यैतत् प्रयोजनम्-- आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिजन्तस्यानुनासिकलोपः स्यात् हन्ते सिचः कित्करणमनर्थकं स्यात्। `चकारः स्वरार्थः' इति। अन्तोदात्तार्थः। ननु च सिचोऽनच्कत्वाच्चकारस्य स्वरार्थता नोपपद्यते ? इटि कृते साच्को भवतीत्यदोषः। नन्वेवमपि लुङ्यत्राडागमस्योदात्तत्वे सतिशिष्टस्वरेणाद्युदात्तत्वेन भवितव्यम्, किमर्थश्चकारः ? यत्र तर्हि `न माङयोगे' (6.4.74) इत्यडागमः प्रतिषिध्यते तत्र चकारस्य स्वरार्थता भविष्यति। ननु तत्रापि `तिङङतिङः' (8.1.28) इति निघातेन भवितव्यम् ? तर्हि यत्र `हि च' (8.1.34) इति निघातः प्रतिषिध्यते-- मा हि लावीदित्यादौ , तत्र स्वरार्थो भविष्यति। ननु च च्लेस्तत्र स्थानिवद्भावादेव चित्सरो भविष्यतीतिकिमादेशे चकारोऽनुबध्यते ? इत्याह-- `आगमानुदात्तत्वं हि' इत्यादि। यासुट उदात्तवचनेनागमानुदात्तत्वं ज्ञापयिष्यते। तच्च नाप्राप्ते स्वरान्तरे विधीयते। तथा हि-- ये प्रकृतिभक्ता आगमा अडानुकप्रभृततयस्तेषां प्रकृतिस्वरः प्राप्नोति, ये च प्रत्ययभक्ता इडादयस्तेषां प्रत्ययस्वरः; तस्मादगमानुदात्तत्वं सर्वस्य स्वरान्तरस्य बाधकम्। ततश्चैव तद्यथा प्रत्ययस्वरं बाधते तथा चित्स्वरमपि स्थानिवद्भावकृतं बाधेत। तस्मादादेशेऽपि चकारोऽनुबध्यते। हि-शब्दोयस्मादर्थे,इतिशब्दस्तस्मादर्थे। यस्मादेवं चितस्वरमपि बाधेत तस्मात् स्थानिन्यादेशेऽपि द्विश्चकारोऽनुबध्यते. ननु च मा हि लावीत्यादावागमानुदात्तत्वं यदि स्यात् च्लेश्चित्करणमनर्थकं स्यात्, प्रयोजनाभावात्; तस्मात् च्लेश्चित्करणसामर्थ्यादागमानुदात्तत्वेन चित्स्वरो न बाधिष्यते-- इत्यपार्थकं सिचश्चित्करणम् ? नापार्थकम्; पक्षे सार्थकत्वात्. कथम् ? इह हि यथा व्यक्तिपदार्थपक्षमाश्रित्य `सरूपाणामेकशेषः' (1.2.64) इत्येतत्सूत्रमारब्धम्, तथा व्यक्तिपदमार्थक्षाश्रयत्पद्विश्चकारोऽनुबध्यते। व्यक्तौ हि पदार्थे यथा चित्स्वरलक्षमं प्रतिलक्ष्यं प्रवर्त्तते तथागानुदात्तत्वज्ञापकमपि यासुट उदात्तवचनम्। ततश्च मा हि लावीदित्यत्रागमानुदात्तत्वं तेन ज्ञापितमेव। तथा च-- यथेह चित्स्वरो भवति तथागमानुदात्तत्वेनापि भवितव्यम्; अन्यथा ह्येतद्विषयस्य ज्ञापकस्य वैयर्थ्यं स्यात्। न च द्वयोरप्यनुदात्तयोर्यौगपद्यं सम्भवतीति पर्यायः स्यात्। तत्र पक्षे स्थानिनश्चकारस्य पक्षान्तर आगमानुदात्तत्वेन बाध्येत। द्विरनुबध्यमाने तु चकारे यद्यपि पक्षेऽनुदात्तोऽभिनिर्वर्त्तते, तथाप्यभिनिर्वृत्ते तस्मिन् द्विश्चकारा4नुबन्धकरणसामर्थ्यात् पुनश्चित्स्वरोऽभिनिर्वर्त्तते, अतो न दोषः।
`स्पृशमृश' इत्यादि। स्पृशिमृशिकृषिभ्यः `शल इगुपधादनिटः क्सः' (3.1.45) इति क्से प्राप्ते, तृपिदृपिभ्यां पुषादित्वादङि प्राप्ते सिज्वा वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम्--- क्सविधौ `विदांकुर्वन्त्वित्यन्यतस्याम्' (3.1.41) इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, पुषादिसूत्रेऽपि `आत्मनेपदेषु' (3.1.54) इत्यतः। सा च व्यवस्थित विभाषितोभयत एव विज्ञायते। तेन स्पृशिमृशिकृषिभ्यो विकल्पेन क्सो भविष्यति, अन्येभ्यस्तु नित्यम्। तृपिदृपिभ्यामन्यतरस्यामङ् च भविष्यति, अन्येभ्यस्तु पुषादिभ्यो नित्यमेव। तेन यस्मिन् पक्षे क्साङोरभावस्तस्मिन् पक्षे सामान्यविहितः सिजेव भवति। `अस्पृक्षत्' इति। `स्पृश संस्पर्शे' (धा.पा.1422), क्सः, व्रश्चादिना (8.2.36) षत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्, `आदेशप्रत्ययोः' (8.3.59) इति षत्वम्। `अस्प्राक्षीत्' इति। `अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' (6.1.59) इत्यमागमः; `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, ऋकारस्य यणादेशः। `अस्पाक्षीत्' इति। सिच्। यदाऽमागमो नास्ति तदा ऋकारस्यैव वृद्धिः।एवं `मृश आमर्शने' (धा.पा.1425), `कृष विलेखने' (धा.पा.1286) इत्येतयोरपि रूपद्वयं, वेदितव्यम्। `अतु पत्' इति। `तृप प्रीणने' (धा.पा.1195)। `अत्राप्सीत्, अताप्सीत्' इति। पूर्ववत्। एवं `दुप हर्षणमोचनयोःट (धा.पा.1196) इत्यस्यापि रूपत्रयं वेदितव्यम्।।
45. शल इगुपधादनिटः क्सः। (3.1.45)
`अघुक्षत्' इति। `दुह प्रपूरणे' (धा.पा.1014), `दादेर्धातोर्घः' (8.2.32), `एकाचो बशो भष्' (8.2.37) इत्यनेन दकारस्य भष्भावेन धकारः, धकारस्य `खरि च' (8.4.55) इति चर्त्वम्-- ककारः। `अलिक्षत्' इति। `लिह आस्वादने' (धा.पा.1016), `हो ढः' (8.2.31) इति ढत्वम्, पूर्ववत् षत्वकत्वे। `अधाक्षीत्' इति।` दह भस्मीकरणे' (धा.पा.991), पूर्ववत् ढत्वकत्वषत्वभष्भावचर्त्वानि। `अकोषीत्' इति। `कुष निष्कर्षे' (धा.पा. 1518) लघूपधगुणः।।
46. श्लिष आलिङ्गने। (3.1.46)
`अत्र' इति। आलिङ्गने। `नियमार्थमेतत्' इति। पूर्वेण सिद्धे सत्यारम्भात्। `अश्लिक्षत्' इति। पूर्ववत् कत्वम्।
`समाश्लिषज्जतु काष्ठम्' इति। पुषादित्वादङ्। प्रत्यासत्तिरत्र नैरन्तर्यलक्षणा श्लिषेरर्थः, न त्वालिङ्गनम्। यद्ययं पुषादौ पठ्यते, कथमिदं नियमार्थम्; सिद्धे सत्यारम्भो नियमाय भवति, न च पूर्वेण क्सः सिद्धः, अङा वाधितत्वात् ? मन्यते-- `श्लिषः' इति योगविभागः कर्त्तव्यः। किमर्थम् ? अङबाधनार्थम्-- क्स एव भवति, नाङ्। ततः। `आलिङ्गने' इति किमर्थम् ? नियमार्थम्-- आलिङ्गन एव क्सो भवति, अन्यत्राङेवेति। यद्येवम्, `श्लिषः' इत्येवं योगविभागो यथाङं बाधते तथा `चिण्भावकर्मणोः' (3.1.66) इति चिणमपि बाधेत-- उपाश्लेषि कन्या देवदत्तेनेति ? नैतदस्ति; `पुरस्तादप वादा अनन्तरान् विदीन् बाधन्ते नोत्तरान् (व्या.प.9) इत्ययमङं बाधते, न चिणम्। अथ वा-- `चिण्भावकर्मणोः' (3.1.66) इत्यत्र `चिण् ते पदः' (3.1.60) ित्यतश्चिणित्यनुवर्तमाने पुनश्चिण्ग्रहाहणस्यैतत्प्रयोजनम्-- चिणेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति। अथ `श्रिषु श्लिषु प्रुषु प्लुषु दाहे' (धा.पा.701,704) इत्येतस्य श्लिषो ग्रहणं कस्मान्न भवति ? आलिङ्गने तस्य वृत्त्यसम्भवात्, `अनिटः' (3.1.45) इत्यधिकाराच्च, अस्य सेट्त्वात्।।
47. न दृशः। (3.1.47)
`अदर्शत्' इति। अङ्। `ऋदशोऽङि गुणः' (7.4.16) इति गुणः। अद्राक्षीत्' इति। `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्यमागमः। `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, पूर्ववत् षत्वकत्वे।।
48. णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्। (3.1.48)
`चकारो विशेषणार्थः' इति। `चङि' (6.1.11) इत्यत्राङीत्यच्यमाने `अस्यतिवक्तिख्यातिभ्योऽङ् (3.1.52) इत्यनेनापि विहितेऽङि द्विर्वचनं स्यात्। `अचीकरत्, अजीहरत्' इति। `चङि' (6.1.11) इति द्विर्वचनं कृहृशब्दयोः उरत्त्वम्, `कुहोश्चुः' (7.4.62) इति चुत्वम्-- ककारस्य चकारः, हकारस्यापि झकारः, `अभ्यासे चर्च' (8.4.54) इति झकारस्य जकारः। शेषमभ्युदसीषददित्यनुसारेण वेदितव्यम्। `अशिश्रियत्' इत्यादि। `श्रिञ् सेवायाम्' (धा.पा.897), `दु द्रु गतौ' (धा.पा.944, 945), `स्रु गतौ' (940), `अचि श्नुधातु' (6.4.77) इत्यादिना यथायोगमियङुवङौ। `अकारयिषताम्' इति। कर्मणि द्विवचनम्, आताम्, इड्गुणायादेशषत्वानि।
`कमेरुपसंख्यानम्' इति। ननु `कमेर्णिङ्' (3.1.30) इति णिङि कृते ण्यन्तत्वादेव कमेश्चङ्, सिद्धः, तत् कथमुपसंख्यायत इत्याह-- `आयादयः' इत्यादि। `अचकमत'इति। अनुदात्तेत्त्वादात्मनेपदम्, पूर्ववदभ्यासस्य कुत्वम्। `णिङ्भावपक्षे सन्वद्भावः' इति। न त्वणिङ्पक्षे इति दर्शयति; यस्मात् `सन्वल्लघुनि चङ् परे' (7.4.93) इत्यस्य चङ् परो यस्माण्णेः स चङ्परो तस्मिन् परतो यदङ्गं तस्याभ्ययासस्य सन्वत् कार्यं भवतीत्येषोऽर्थः, न चायमर्थो णिङभावपक्षे सम्भवति।।
49. विभाषा धेट्श्व्योः।
`अदधत्' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। पूर्ववदभ्यासस्य जश्त्वं दकारः। `अधासीत्' इति। लुङ्, सिच्, `यमरमनमातां सक् चट (7.2.73) इतीट्, प्रकृतेश्च सगागमः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, `इट ईटि' (8.2.28) इति सिचो लोपः। `अशिश्वियत्' इति। पूर्ववदियङ्। `अङप्यत्र विकल्प्यते' इति। `जॄस्तम्भु' (3.1.58) इत्यादिसूत्रेण। `अश्वत्' इति। `श्वयतेरः' (7.4.18) इत्यत्वम्, `अतो गुणे' (6.1.97), पररूपत्वम्। `अश्वयीत्' इति। ह्यन्तक्षणाश्वस' (7.2.5) इत्यादिना वृद्धिप्रतिषेधे कृते गुणेऽयादेशः। `अधिषाताम्' इति। कर्मणि द्विवचनम्, आताम्, `स्थाघ्वोरिच्च' (1.2.17) इति कित्त्वमित्त्वञ्च।
50. गुपेश्छन्दसि। (3.1.50)
`यत्रायप्रत्ययो नास्ति तत्रायं विधिः' इति। अनायप्रत्ययान्तकस्योपादानात्। आयप्रत्ययान्तस्य धात्वन्तरत्वात्। `अझूगुपतम्' इति। `गुपू रक्षणे' (धा.पा.395), लुङ्, द्विर्वचनम्,थस्, `तस्थस्थ' (3.4.101) इत्यादिना तम् `दुजादीनां दीर्घोऽभ्यासस्य' (6.1.7) इति दीर्घः। `अगौप्तम्' इति। `झलो झलि' (8.2.26) इति सिचो लोपः,तस्यासिद्धत्वात् `वदव्रज' (7.2.3) इत्यादिना वृद्धिः। `अगोपिष्टम्' इति। ऊदित्त्वात् `स्वरति' (7.2.44) इत्यादिना पक्षे इट्, `नेटि' (7.2.4) इति वृद्धौ प्रतिषिद्धायां लघूपधगुणः। `अगोपायिष्टम्' इति। आयप्रत्ययान्तात् सिच्, इट्, `अतो लोपः' (6.4.48)।`रूपत्रयम्' इति। पाश्चात्यम्।।
51. नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः। (3.1.51)
`एभ्यो ण्यन्तेभ्यः' इति। ऊनयत्येलयतिभ्यां चुरादिण्यन्ताभ्यम्। `पूर्वेण' इति। `श्रिणि' (3.12.48) इत्यादिना। `औनयीत्' इति। तिप्, सिच्, `इट ईटि'
(8.2.28) इति सिचो लोपः, तस्यासिद्धत्वाद्वृद्धौ प्राप्तायां `ह्म्यन्तलक्षण' (7.2.5) इति प्रतिषेधः, गुणायादेशौ, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः। `औनिनत्' इति। `अजादेर्द्वितीयस्य' (6.1.2) इति द्विर्वचनम्। णिलोपः। `ध्वनयीत्' इति। ध्वनयीदित्यतदेव निपातनाददन्तत्वम्, `अतो लोपः' (6.4.48), तस्य स्थानिवद्भावात् `अत उपाधायाः' (7.2.116) इति वृद्धिर्न भवति। `बहुलं छन्दत्यमाङ्योगेऽपि' (6.4.75) इत्यड्निषेधः। `अदिध्वनत्' इति। सन्वद्भावादित्त्वम्। `ऐलिलत्' इति। `अजादेर्द्वितीयस्य' (6.1.2) इति लिशब्दस्य द्विर्वचनम्, पूर्ववदाट्। `आर्दिदत्' इति। इहापि द्वितीयस्यैकाचो द्वर्वचनं पूर्ववत्। रेफस्तु न द्विरुच्यते; ` न न्द्राः संयोगादयः' (6.1.3) इति प्रतिषेधात्। आट्, वृद्धिः।।
52. अस्यतिवक्तिख्यातिभ्यऽङ्। (3.1.52)
`ब्रूञादेशो वा' इति। ब्रूवो वचिः' (2.4.53) इति। `चक्षिङादेशो वा' इति। ` चक्षिङः ख्याञ्' (2.4.54) इति। `पर्यास्थत' इति। `उपसर्गादस्यत्यूह्योर्वचनम्' (वा.49) इत्युपसंख्यानात्मनेपदम्। `अस्यतेस्थुक्' (7.1.17)। `अवोचत्' इति। `वच उम्' (7.4.20) `आख्यत्' इति। पूर्ववदाकारलोपः।।
53. लिपिसिचिह्वश्च। (3.1.53)
`अह्वत्' इति। पूर्ववदाकारलोपः। अथ किमर्थो योगविभागः, न `अस्यतिवक्तिख्यातिलिपिसिचिह्वश्च' इत्येक एव योगः कियतामित्याह-- `पृथक्' इत्यादि। उत्तरसूत्रे लिपिप्रभृतिभ्य एवात्मनेपदेष्वङ्विकल्पो यथा स्यादित्येवमर्थो योगविभागः। एक योगे ह्यस्यत्यादीनामप्युत्तरत्रानुवृत्तिः स्यात् तथा च तेभ्योऽपि विकल्पेनाङ् प्रसज्येत।।
54. आत्मनेपदेष्वन्यतरस्याम्। (3.1.54)
`स्वरितञिचः' इत्यात्मनेपदम् इति. लिपिसिच्योः स्वरितेत्त्वात्, ह्वयतेस्तु ञित्त्वात्। `अलिप्त, असिक्त' इति। `झलो झलि' (8.2.26) इति सिचो लोपः, तस्या (8.2.26) सिद्धत्वाल्लघूपधगुणः प्राप्तः, स `लिङ्सिचावात्मनेपदेषु' (1.2.11) इति कित्त्वान्न भवति, `चोः कुः' (8.2.30) इति कुत्वम्।।
55. पुषादिद्युताद्य्लृदितः परस्मैपदेषु। (3.1.55)
लृकार इद्येषां ते लृदितः। पुषादिरस्त्येव भावाद्यन्तर्गणः-- पुष पुष्टौ' (धा.पा.700) श्रिषु श्लिषु प्रुषु प्लुषु दाहे' (धा.पा.701-704) इत्येवमादिः, अस्ति च दिवाद्यन्तर्गणः--`पुष पुष्टौ' (धा.पा.1182), `शुष शोषणे' (धा.पा.1183) इत्येवमादिः, अस्ति च क्र्याद्यन्तर्गणः-- पुष पुष्टौ' (धा.पा.1529), `मुष स्तेये' (धा.पा.1530) इत्येवमादिः, तदिह कस्य ग्रहणमित्याह-- `पुषादिर्दिवाद्यन्तर्गणः' इत्यादि. यदि भ्वाद्यन्तर्गणो गृह्यते, पुषाद्यनन्तरं द्युतादीनां पाठात् पृथग्ग्रहणं न कुर्यात्; पुषादिग्रहणेनैव गृहीतत्वात्, तस्मात् स तावन्न गृह्यते। क्र्याद्यन्तर्गणोऽपि नैव गृह्यते, तत्र हि चत्वार एव पठ्यन्ते धातवः-- पूर्वोक्तौ द्वौ `खच भूतप्रादुर्भावे' (धा.पा.1531), `ग्रह उपादाने' (धा.पा.1533) इत्येतौ, यदि चैते जिघृक्षिताः स्यर्लृदित यएवैतान् कुर्यात्, एवं पुषादिग्रहणं न कर्त्तव्यं भवति। तस्मात् पारिशेष्याद् दिवाद्यन्तर्गणानां पुषादीनां ग्रहणं विज्ञायते। अथ पुषादय लृदितः कस्मान्न कृताः ? न; न हि ते लृदितः शक्यन्ते कर्त्तुम्। लृदित्वे हि तेषां उदित आदितश्च पठ
्यन्ते तेषाम् `उदितो वा' (7.2.56) `आदितश्च' (7.2.16) इत्येतयोः कार्ययोरभावः स्यात्। अथ द्युतादयः कस्मात् लृदितो न कृताः ? यत एव हेतोः पुषादय लृदितो न कृतास्तत एव द्युतादयश्च। तेष्वपि हि केचिदुदित आदितश्च पठ्यन्ते। तत्र पुषादय आदिवादि परिसमाप्तेः। यत्तु `ष्णिह प्रीतौ' (धा.पा.1200) इत्यनन्तरं वृदिति वृत्करणं तद् रवादीनां परिसमाप्त्यर्थम्, न पुषादीनामित्याचार्याणां स्मृतिः। द्युतादयस्तु `कृपू सामर्थ्ये' (धा.पा.762) इत्येवंपर्यन्ताः, तदनन्तरं वृत्; `घट चेष्टायाम्' (धा.पा.763) इति वृत्करणात्। `अद्युतत्' इति। `द्युद्भ्यो लुङि' (1.3.91) इति पक्षे परस्मैपदम्। `अश्वतत्' इति। श्विता वर्णे' (धा.पा..742)। `अगमत्, अशकत्' इति। `गम्लृ गतौ' (धा.पा.982), `शक्लृ शक्तौ' (धा.पा.1261)। `व्यद्योतिष्ट' इति। अनुदात्तेत्त्वादात्मनेपदम्। `अलोटिष्ट' इति। `रुट लुट् प्रतीघाते' (धा.पा.747,748)।।
56. सर्त्तिशास्त्यत्तिभ्यश्च। (3.1.56)
`असरत्' इति। `ऋदृशोऽङि गुणः' (7.4.16)। `अशिषत्' इति। `शास इदङ्हलोः' (6.4.34) इतीत्त्वम्, `शासिवसि' (8.3.60) इति षत्वम्। `आरत्' इति। पूर्ववद् गुणः, अजादित्वादाट्, सवर्णदीर्घः।
`पृथक' इत्यादि। यदि `पुषादिद्युताद्लृदित्सर्त्तिशास्त्यसर्तिभ्यश्च' इत्येकयोग एव क्रियेत; सर्त्तिप्रभृतिभ्य परस्मैपद एव स्यात्, नात्मनेपदे। तस्मादेभ्य एवात्मनेपदेऽपि यथा स्यादित्येवमर्थं पृथग्योगकरणम्। `समरन्त' इति। सम्पूर्वादर्त्तेः `समो गमि' (1.3.29) इत्यादिनात्मनेपदम्। `बहुलं छन्दस्यमाङयोगेऽपि' (6.4.75) इत्यडागमाभावः; छान्दसत्वादयस्य प्रयोगस्य। ननु च यद्यात्मनेपदेष्वङ भवत्येव, तत् किं परस्मैपदेष्वित्यनुकर्षणार्थेन चकारेणेत्याह-- `तच्च' इत्यादि। तदिति परस्मैपदेष्वित्येतदपेक्षते। `उत्तरत्रोपयोगं यास्यति' इति। न त्विहैवोपयोगं याति; अन्यथा पृथग्योगकरणमनर्थकं स्यात्।।
57. इरितो वा। (3.1.57)
इश्च रश्च इरौ, इतौ यस्य त इरित्। तत्रेकारस्य `उरजेषेऽजनुनासिक इत्' (1.3.2) इतीत्संज्ञा, रेफस्य `हलन्त्यम्' (1.3.3) इति।अथ वा इरित् यस्यैव समुदायस्य तत्येत्संज्ञा, न प्रत्येकमवयवस्य ? इरित्ययं समुदाय इत्संज्ञको यस्य स इरित्। समुदायस्येत्संज्ञाऽस्मादेव वचनाद्वेदितव्या। न ह्यन्येन केनचित् तस्येत्संज्ञा विहिता। `अभैत्सीत्' इति। `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्। `अरुद्ध, अभित्त' इति। स्वरितेत्त्वादात्मनेपदम्,पूर्ववत् सिचो लोपः।।
58. जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुढञ्चुश्विभ्यश्च। (3.1.58)
स्तम्भेरुदित्करणम् `उदितो वा' (7.2.56) इति विशेषणार्थम्. `अस्तभत्' इति। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः। `अश्वत्' इत्यादि। रूपत्रयं `विभाषा धेट्श्व्योः' (3.1.49) इत्यत्र व्युत्पादितम्। `ग्लुचुग्लुञ्स्वोरन्यतरोपादाने रूपत्रयं सिध्यति' इति। कथं कृत्वा ? यदि तावत् ग्लुचिरुपादीयेत तस्याङि सिचि चाग्लुचत्, अग्लोचीदित्येतद्रूपद्वयं सिध्यति; ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयेत, तस्याङि सिचि चाग्लुचत्, अग्लुञ्चीदिति रूपद्वयं सिध्यति। ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति। यद्येवम्, किमर्थमुभयोरुपादानम्, रूपत्रयं हि साध्यम्, तच्चान्यतरोपादानेऽपि सिध्यत्येवेत्यत आह-- `अर्थभेदात्' इत्यादि। तुशब्दोऽवधारणे। भिन्नो ह्यनयोरर्थः। तत्रान्यतरस्योपादाने य एव नोपादीयेत तत्रैवार्थेऽग्लुचदिति न सिध्येत्। तस्माद्भिन्नार्थत्वादद्व्योरुपादानम्। `केचित्' इत्यादि। अनेकार्थत्वाद्धातूनामभिन्नार्थता न विरुद्ध्यते। तस्मादुभयोरुपादानग्लुञ्चदिति सिद्ध्य इति।।
59. कृमृदृरुहिभ्यश्छन्दसि। (3.1.59)
`डुकृञ् करणे' (धा.पा.1472), `मृङ प्राणत्यागे' (धा.पा.1403), `दृ विदारणे' (धा.पा.1493), `हुह {बीजजन्मणि प्रादुर्भावे च धा.पा.} जन्मनि' (धा.पा.859)। तत्राद्यानां त्रयाणां सिचि प्राप्ते, रुहेश्च `शल इगुपधादनिटः' (3.1.45) इति क्से प्राप्ते। `अकरत्' इति। पूर्ववद्गुणः। `अमरत्' इति। व्यत्ययेन परस्मैपदम्। भाषायां तु अकार्षीत्, अमृत, अदारीत्, अरुक्षदिति भवति।।
60. चिण् ते पदः। (3.1.60)
`सामर्थ्यात्' इत्यादि। तशब्दो। ञयमस्त्येवात्मनेपदैकवचम्, अस्ति च परस्मैपदमध्यमपुरुषबहुवचनं यस्यस्य स्थाने विधीयते; तत्रास्य धातोरात्मनेपदित्वात् परस्मैपदबहुवचनं न सम्भवति, अतः पारिशेष्यावात्मनेपदैकवचनस्य ग्रहणम्। इयमेव च पारिशेष्यसिद्धिः सामर्थ्यम्। `उदपादि' इति। `चिणो लुक्' (6.4.104) इति तशब्दस्य लुक्। `उदपत्साताम्' इति। आताम्, `खरि च' (8.4.55) इति चर्त्त्वम्। `उदपत्सत' इति। झे `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः। इह वेति निवृत्तम्। उत्तरत्रान्यतरस्यांग्रहणात्।।
61. दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्। (3.1.61)
`जनी प्रादुर्भावे' (धा.पा.1149), `बुध अवगमने' (धा.पा.1172) इति। एतेन `जन जनने' (धा.पा.1105), `{ बुधिर् बोधने धा.पा.875 भ्वादिगतः (858) दिवादिगतश्च (1172) `बुध अवबोधने' इत्येव पठ्यते। `अदुग्ध' इति। `शल इगुपधादनिटः क्सः' (3.1.45) इति क्सः, तस्य `क्सस्याचि' (7.3.72) इत्यतः `क्सस्य' इत्यनुवर्त्तमाने `लुग्वा दुहदिह' (7.3.73) इति लुक्। `दादेर्धातोर्घः' (8.2.32) पूर्ववज्जश्त्वम्। `अदोहि' इति। शुद्धे कर्मणि तशब्दः, तेनात्र नित्यं चिण् भवति।।
64. न रुधः। (3.1.64)
कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। `अरुद्ध' इति। `झलो झलि' (8.2.2) इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः `लिङसिचावात्मनेपदेषु' (1.2.11) इति कित्त्वान्न भवति। पूर्ववद्धत्वजश्त्वे।।
65. तपोऽनुतापे च। (3.1.65)
`तपस्तपः कर्मकस्यैव' (3.1.88) इत्यतिदेशात् `चिण् भावकर्मणोः' (3.1.66) इति प्राप्तस्य चिणोऽयं प्रतिषेधः। `अतप्त तपस्तापसः' इति। उपवासादिलक्षणं तपस्तापसं तपति दुःखयतीत्यर्थः। तपसोऽत्र कर्त्तृत्वम्, तापसस्य तु कर्मत्वम्। यदा तु स तापस्त्वगस्थीभूतः स्वर्गाय तपस्तप्यते, तदायं प्रयोगः- अतप्त तपस्तापस इति। इदानां तपसः कर्मत्वं तापसस्य कर्त्तृत्वम्। तपःशब्दश्चेह ज्ञानविशेषे स्वर्गाद्यवाप्तिहेतौ वर्त्तते। तपिरप्यर्जने। अर्जितवान् ज्ञानविशेषं तापस इत्यर्थः। `अन्ववातप्त पापेन कर्मणा' इति। यत् पूर्वं पापकर्म कृतं तेन पश्चात् तप्तोऽभ्याहत इत्यर्थः। कर्मण्यत्र लकारः।।
66. चिण् भावकर्मणोः। (3.1.66)
`भावकर्मणोरर्थयोः' इति। तशब्दस्येदं विशेषणम्। `भावकर्मणोर्यस्तशब्दः' इति। अथ चिण्ग्रहणं किमर्थम् ? यावता `चिण् ते पदः' (3.1.60) इत्यतश्चिण्ग्रहणमनुवर्त्तत एव ? स्यादेतत्-- `दीपजन' (3.1.61) इत्यन्यतरस्यांग्रहणेन `न रुधः' (3.1.64) इति निषेधेन च सम्बद्धं तत्, अतो यदि तदनुवर्त्तेत तत्सम्बद्धमेवानुवर्त्तेतेति, एतच्च नास्ति; अनयतरस्यांग्रहणस्य पूर्वयोरेव योगयोर्निवर्तितत्वात्, प्राप्तिपूर्वकत्वाच्च निषेधस्य। यदि भावकर्मणोश्चिणः प्राप्तिः स्यात्, तदा तत्प्रतिषेधार्थं नेत्यस्यानुवृत्तिः स्यात्। न च तयोस्तस्य केनचित् प्राप्तिः; चिण्विधौ सर्वत्र कर्त्तरित्यनुवृत्तेः। तदपार्थकं पुनश्चिण्ग्रहणमित्याह-- `चिण्ग्रहणं विस्पष्टार्थम्' इति। असति चिण्ग्रहणे मन्दधियः प्रतिपत्तिगौरवं स्यात्, अतस्तमनुग्रहीतुं न्यायप्राप्तस्यैवार्थस्य स्पष्टीकरणाय पुनश्चिण्ग्रहणम्।।
67. सार्वधातुके यक्। (3.1.67)
भावकर्मणोरित्यनुवर्त्तते,तच्चेह सार्वधातुकस्य विशेषणमिति दर्शयन्नाह-- `भावकर्मवाचिनि' इत्यादि। भावकर्मणोरर्थयोर्वर्त्तते यत् सार्वधातुकं तद्भावकर्मवाचि। ताच्छील्य आवश्नके णिनिः। अथैवं कस्मान्न भवति-- भावकर्मणोरभिधेययोः सार्वधातुके परतो यग्भवतीति ? अशक्यमेवं वक्तुम्; सार्वधातुकवाच्यत्वेन भावकर्मणोः शास्त्रे प्रतिज्ञानात्। कुत एतदिति चेत् ? `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इति वचनात्। ननु चाकारि कटो भवता, अशायि भवता, अबिभर्भवानित्यादौ सार्वधातुकाभावेऽपि कर्मादीनां प्रतीयमानत्वात् सार्वधातुकार्थता नोपपद्यते; न हि यो यदभावे प्रतीयते स तस्यार्थो युज्यते, अन्वयव्यतिरेकसमधिगम्यत्वादर्थस्य ? नैष दोषः; न ह्ययं नियमः-- अन्वयव्यतिरेकसमधिगम्यत्वादर्थवत्तया। भवितव्यमिति, किं तर्हि ? प्रतिज्ञा। प्रापिता च सा भवति यथा क्विबादीनाम्। अस्ति च सार्वधातुकस्येति यत्किञ्चिदेतत्। `शय्यते' इति।`अयङयि क्ङिति' (7.4.22) इत्ययङादेशः।
`ययग्विधाने' इत्यादि। ननु च कर्मवदित्यतिदेशादेव यग्भविष्यतीति किमुपसंख्यानेनेत्यत आह-- `विप्रतिषेधाद्धि' इत्यादि। `कर्त्तरि शप्' (3.1.68) इत्यस्यावकाशः-- शुद्धः कर्त्ता भवतीति; `सार्वधातुके यक्' (3.1.67) इत्यस्यावकाशः- शुद्धं कर्म, पच्यत ओदन इति। पच्यत ओदनः स्वयमेवेत्यत्र कर्मवद्भावाद्यक् प्राप्नोति, वत्करणात् स्वाश्रयकमपि यथा स्यादिति कर्त्तृत्वस्य सम्भवाच्छबपि, तत्र परत्वाच्छबेव स्यात्। शशास्त्रं यक्शास्त्रात् परं भवति, तस्मात् कर्मकर्त्तरि यक उपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। प्रतिपादनं त्विदम् -- ज्ञापकात् कर्मकर्त्तर्यपि यग्भविष्यतीति। किं तज्ज्ञापकम् ? `न दुहस्नुनमां यक्चिणौ' (3.1.89) इति प्रतिषेधः। यदि हि कर्मकर्त्तरि यग्न स्यात् प्रतिषेधोऽनर्थकः स्यात्। विप्रतिषेधाद्धि शपो बलीयस्त्वं शास्त्रातिदेशत्वमभ्यपेत्योक्तम्, न त्वसौ शास्त्रातिदेशः, किं तर्हि ? कार्यातिदेशः। कार्यातिदेशसूत्रमेव स्वतन्त्रं यगादेः कार्यस्य विधायकम्, तच्च परम्; अतो विप्रतिषेधाद्यक एव बलीयस्त्वम्।।
68. कर्त्तरि शप्। (3.1.68)
` पकारः स्वरार्थः' इति। `अनुदात्तौ सुप्पितौ' (3.1.4) इत्यनुदात्तत्वं यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः' इति। `तिङशित्सार्वधातुकम्' (3.4.113) इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्।।
69. दिवादभ्यः श्यन्। (3.1.69)
`शपोऽपवादः' इति। तत्प्राप्तावेवास्यारम्भात्। `नकारः स्वरार्थः' इति। `ञ्नित्यादिर्नित्यम्' (6.1.197) इति पदस्याद्युदात्तत्वं यथा स्यात्। `दीव्यति' इति। `हलि च' (8.2.77) इति दीर्घः।।
70. वा भ्राशभ्लाशभ्रमुत्रसित्रुटिषः। (3.1.70)
`सनोति, क्षणोति' इति। `षणु दाने (धा.पा.1464), क्षणु हिंसायाम्' (धा.पा.1465)। `नियमार्थम्' इति।एतदेव तनादिकार्यं यथा स्यादित्येष नियमो यथा स्यात्। अन्यत् तनादिकार्यं तदभावम्। असति हि नियमार्थे यथान्येभ्यस्तनादिभ्यो विभाषा सिचस्तथासोर्लुग् भवति-- अतत, अतथाः, अतनिष्ट, अतनिष्ठाः, तथा करोतेरपि स्यात्। अस्मिंस्तु सति न भवति, तदभावे च `ह्रस्वादङ्गात्' (8.2.27) इत्याष्टमिक एव लोपो भवति-- अकृत, अकृथाः। ननु सत्यपि तस्मिंस्तनादिकार्ये नैव किञ्चिदनिष्टमापद्यते, अलुक्पक्षेऽपि `ह्रस्वात्' (8.2.27) इति लोपप्रवृत्तेः ? नैतत्; नाप्राप्ते सिचो लोपे लुगारभ्यमाणस्तस्य बाधकः स्यात्। `पूर्वत्रासिद्धम्' (8.2.1) इत्यासिद्धत्वादयुक्ता लोपबाधेत्येतन्ाशङ्कनीयम्; यस्माद्वक्ष्यत्येतत्-- `नास्त्यपवादेष्वसिद्धत्वम्, अपवादवचनप्रामाण्यात्' इति। यदि तर्हि करोतेरन्यत् तनादिकार्यं नेष्यते, कस्मात् तर्हि भ्वादावेव पठितः ? कः पुनरेवं लाघवकृतो विशेषः। भ्वादावपि पाठे नियोगतोऽस्य विकरणविधौ ग्रहणं कर्त्तव्यमित्यदेश्यमेतत्।।
80. धिन्विकृण्व्योर च। (3.1.80)
भ्वादित्वाच्छपि प्राप्ते वचनम्। `अकारादेशो भवति' इति। अलोऽन्त्यस्य (1.1.52) परिभाषया। `धिनोति' इति। `अतो लोपः' (6.4.48)। अथ लघूपधगुणोऽत्र कस्मान्न भवतीत्याह-- `अल्लोपस्य' इत्यादि। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इत्यल्लोपस्य स्थानिवद्भावनादनुपधत्वादिकारस्य गुणो न भवति। लाघवारथं `धिविकृव्योः' इति वक्तव्ये नुमनुषक्तयोर्ग्रहणं कृतमुपदेशावस्थायामेव नुम्भवतीति ज्ञापनार्थम्। तेन नुम्विधावुपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थमिति न वक्तव्यं भवति।।
81. क्र्यादिभ्यः श्ना। (3.1.81)
82. स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च। (3.1.82)
चकारः श्नानुकर्षणार्थः। `स्तभ्नाति' इति। आदौ `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः। श्नुश्नाभ्यां सह निर्देशात् तद्विषयतैवैषां धातूनामिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तुमाह-- `उदित्त्वप्रतिपादनात्' इत्यादि। एषां ह्युकार इत्संज्ञकः प्रतिज्ञायते, तस्य क्त्वाप्रत्यय इड्विकल्पः फलम्। यदि त एतद्विकरणविषयाः स्युः, उदित्करणमनर्थकं स्यात्। तस्मादुदित्करणप्रतिज्ञानात् सर्वार्थत्वमेषामवसीयते। अर्थशब्दोऽयं विषयवाची। सर्वविषयत्वमित्यर्थः।।
83. हलः श्नः शानज्झौ। (3.1. 83)
`पुषाण, मुषाण' इति। विध्यादौ लोट्, `सेर्ह्यपिच्च' (3.4.87), क्र्यादित्वाच् श्ना, तस्यानेन शानच्। चकारोऽन्तोदात्तार्थः। `अतो हेः' (6.4.105) इति हेर्लुक्।
`क्रीणीहि' इति। `ई हल्यघोः' (6.4.113) इतीत्त्वम्। ननु च श्नाप्रत्ययस्य प्रकृतत्वात् स एवेह स्थानित्वेन विज्ञास्यते, तत् किमर्थः `श्नः' इति निर्देश इत्याह-- `श्न इति स्थानिनिर्देशः' इत्यादि। शानच्शब्दोऽयमादेश इत्येष संप्रत्ययो यथा स्थादित्येवमर्थः श्न इति निर्देशः। किं पुनः कारणमसति तस्मिन्नेव संप्रत्ययो न स्यादित्यत आह-- `प्रत्ययान्तरं हि' इत्यादि। सर्वे धातवोऽन्यगणपठिता अपि विषयो यस्य तत्तथोक्तम्।`श्नः' इत्यस्मिन् ह्यसति स्थानिर्देशे श्नाप्रत्ययस्यानुवृत्तिर्न ज्ञायेत्। ततश्च सर्वेभ्यो धातुभ्यो हलन्तेभ्यः शानजपवादः प्रत्ययो भवति तस्य च शानजादेशः, तदा मिदेर्गुणो मा भूत्; इतरथा ह्ययं गुणः प्रतिषेधविषय आरभ्यमाणो यथेह भवति-- मेध्यतीति, तथेहापि स्यात्-- मिदान इति। पुनः शित्करणे तु `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वमपि पुनः प्रवर्त्तते। तेन मिदेः प्रतषेधविषयेऽपि गुण आरभ्यमाण इह न भवति।।
84. छन्दसि शायजपि। (3.1.84)
`अत्रापि चित्-- शित्करणयोः पूर्वोक्तमेव प्रयोजनम्। `{नास्ति काशिकायाम्।} गृहाण्' इति। `ग्रहण उपादाने' (धा.पा.1533) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् (6.4.105), ग्रह्यादीना (6.1.16) सम्प्रसारणम्। `गृभाय' इति, क्वचित् पाठः। तत्र `हृग्रहोर्भश्छन्दसि' (वा. 8.2.32) इति भत्वम्। `बधान'इति। `बन्ध बन्धने' (धा.पा.1508) `अनिदिताम्' (6.4.24) इति नलोपः। शेषं पूर्ववत्।।
85. व्यत्ययो बहुलम्। (3.1.85)
`यथायथम' इति. यो यस्यात्मीयो विषयः = यथायथम्। यस्मिन् यस्मिन् विषय इत्यर्थः। किं पुनरयं व्यत्ययो नामेत्याह--- `व्यतिगमनं व्यत्ययः' इति। तमेव व्यत्ययं स्पष्टीकर्त्तुमाह-- `{व्यतिहारः-काशिका} व्यतिकरः' इत्यादि। `क्वचित्' इत्यादिना व्यत्यस्य प्रकारान्तरं दर्शयति। `भेदति' इति। श्नमो विषये शपो विधानम्। `मरति' त्यत्रापि शविषये शप्, परस्मैपदञ्च व्यत्ययेनैव। `म्रियते' इति। पूर्ववद्रिङ, तस्येयङ।
`नेषतु' इति। नयतेर्लोट्, तिप्, `एरुः' (3.4.86) सिप्, तस्मात् परः शप्, धातोर्गुणः, सिपः षत्वम्।
त्रिविकरणतायास्तूदाहरणम्-- `{तरुषेम वृत्रम्' -- काशिका} तरुषेम दृषदम्' इति। तरतेराशिषि लिङ्, मस्, `नित्यं ङित्, (3.4.99) इतिवस्मसोः सलोपः, यासुट्, `छन्दस्युभयथा' (3.4.117) इति सार्वधातुकत्वाल्लिङ उप्रत्ययः, तस्मात् परः सिप्, तस्मादपि परोऽङ, धातोर्गुणः, सिपः षत्वम्, `अतो येयः' (7.2.80)इतीयादेशः। अङा सह `आद्गुणः' (6.1.87), `लिङः सलोपोऽनन्तस्य' (6.1.79) इति सलोपः। `लोपो व्योर्वलि' (6.1.66) इति यलोपः।
अथ `व्यत्ययः' इत्येतावत् कतं नोक्तम्,किं बहुलग्रहणेन, पूर्वसूत्राद्ध्यपिशब्दस्यानुवृत्तौ सत्यां छन्दसि व्यत्ययो भवति, अपिशब्दाद्यथाप्राप्तञ्चेति, एवमभिसम्बन्धे क्रियमाणेऽन्तरेणापि बहुलग्रहणं सर्वमिष्टं सिध्ययत्येवेत्यत आह-- ` बहुलग्रहणम्' इत्यादि। सर्वस्य प्रकृतस्याप्रकृतस्य विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थ बहुलम्, इतरथा ह्यसति बहुलग्रहणे प्रकृतानामेव स्यादीनां शानच्पर्यन्तानां स्यात्, नान्येषां श्नम्प्रभृतीनाम्, इष्यते च तेषामपि। स बहुलग्रहण एव सति लभ्यते। एतमेवार्थं दर्शयितुमाह--- `सुप्तिङुपग्रह' इत्यादि। ततर् सुपां व्यत्ययः-- धुरि दक्षिणायामिति प्राप्ते सप्तम्या विषये षष्ठी। तिङाम्-- ये यूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यक्रियाविशेषो मुख्य उपग्रहः। इह तु तद्व्यक्तिनिमित्तत्वात् परस्मैपदात्मनेदयोरुपग्रहशब्दो वर्त्तते। एतदुक्तं भवति-- आत्मनेपदपरसमैपदयोर्व्यत्यय इति। स ब्रह्मचारिणमिच्छते, प्रतीतमन्यदग्निं युध्यति। इच्छति, बध्यत इति प्राप्ते। लिङ्गस्य-- मधोस्तृप्ता इवासत इति। मधुन इति प्राप्ते। नरस्य = प्रथमपुरुषादेः-- अतोपचारैर्दशभिर्वियूयाय इति। वियूयादिति प्रथमपुरुषविषये मध्यमपुरुषः, `यु मिश्रणे' (धा.पा. 1033), विपूर्वादाशिषि लिङ, सिप्, यासुट्, `अकृत्सार्व धातुकयोः' (7.4.24) इति दीर्घः, `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सलोपः। कालस्य-- सोऽग्नीनाधास्यमानेन। लुटो विषये लुट्; कालशब्दोऽत्र कालविषयत्वाल्लुडादिप्रत्ययेषु वर्त्तते। न हि मुख्यकालस्य व्यत्ययः शक्यते कर्त्तुम्। हलाम्-- शुफितं मुखबीजम्। शुभितमिति प्राप्ते। `शुभ शुम्भ शोभार्थे' (धा.पा.1321,1322) निष्ठा, इट्, भकारसय् फकारः। अचाम्-- उपगायन्तु मां पत्नयो गर्भिणयः। पत्न्यो गर्भिण्य इति प्राप्ते। ईकारस्य इकारः। स्वराणाम्-- `अन्तोऽवत्या' (6.1.220) इत्यन्तोदात्तत्वं यथेह भवति-- अश्ववतीं सोमवतीं प्रजावतीं सूर्यवतीं दृषदमित, तथेहापि स्यात्-- अश्ववती सोमवती प्रजावती। व्यत्यये तु सत्यश्वशब्दस्य प्रकृतिस्वर एव भवति। कः पुनः प्रकृतिस्वरः ? आद्युदात्तत्वम्। तथा हि ङीपोऽनुदात्तत्वं पित्त्वात्। मतुपोऽप्यत एव। `{अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्यः क्वन्' इति द.उ.सूत्रम्} अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' (द.उ.8.125) इति क्वन्प्रत्ययान्तत्वात् नित्स्वरेणाद्युदात्तोऽश्वशब्दः। कर्त्तृगर्हणं कारकोपलक्षणार्थम्। कारकाणां व्यत्यय इत्यर्थः। आसादयद्भिरुभयोर्वेदाः। आसादयद्भ्य इति प्राप्ते सम्प्रदानस्य करणत्वम्। `यङ' इति प्रत्याहारग्रहणार्थम्-- `सार्वधातुके यक्' (3.1.67) इति यक आरभ्य `लिङ्याशिष्यङ' (3.1.86) इत्यतो ङकारेण। यगादीनां प्रत्ययानामङपर्यन्तानां व्यत्यय इत्यर्थः। मुण्डा शुष्मस्य भेदतीति। श्नमि प्राप्ते शप्। एषां शप्प्रभृतीनां व्यत्ययमिच्छति शास्त्रकृत्-- पाणिनिः। `सोऽपि च सिध्यति बाहुलकेन' अपिशब्दात् स्यादिव्यत्ययः। बाहुलस्य भावो बाहुलकम्, द्वन्द्वमनोज्ञादित्वाद्वुञ् (5.1.133)। चशब्दो हेतौ। यस्मादेवं प्रकृतानामप्रकृतानाञ्तच बाहुलकेन व्यत्ययः सिध्यति तस्माद्बहुलग्रहणं कृतमिति।।
86. लिङ्याशिष्यङ्। (3.1.86)
`शपोऽपवादः' इति। ननु चाशिषि यो लिङ विहितस्तस्य `लिङाशिषि' (3.4.116) इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्विहितः, तत्कथं शपोऽपवाद इत्याह-- `छन्दस्युभयथा' इत्यादि।
स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह-- `स्थागागमि' इत्यादि. `उपस्थेयम्' इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य `तस्थस्' (3.4.101) इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् `लिङ सलोपोऽनन्त्यस्य' (7.2.79) इति सलोपः। क्वचित् `उपस्थेषम्' इति पाठः। तत्रार्द्धधातुकत्वात् सलोपाभावः, वलि यलोपः। `उपगेयम्' इति। `गै शब्दे' (धा.पा.917) `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्। शेषं पूर्ववत्। `गमेम' इति। गमेः परस्य लिङो मस्, `नित्यं ङितः' (3.4.99) इति सलोपः। यासुडादि सर्व पूर्ववत्। `वोचेयम्' इति। `वच भाषणे' (धा.पा.1842)। सिप्, तस्याम्, अङ, अङि परतः `वच उम्' (7.4.20), `या' इत्यस्य इय्, उभयत्र `आद्गुणः' (6.1.87)। `विदेयम्' इति। `विद ज्ञाने' (धा.पा.1064)। `शकेयम्' इति। `शक्लृ शक्तौ' (धा.पा.1261)। `आरुहेयम्' इति। `रुह {बीजजन्मणि प्रादुर्भावे-- धा.पा.} जन्मनि (ध.पा.859) इयादेशादि सर्व पूर्ववत्।
`दृशेरग्वक्तव्यः' इति। अङि हि सति `ऋदृशोऽङि गुणः' (7.4.16) इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः। व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्।।
87. कर्मत्कर्मणा तुल्यक्रियः। (3.1.87)
`कर्मवत्' इति। `तेन तुल्यं क्रिया चेद्वतिः' (5.1.115) इति; न तु `तत्र तस्येव' (5.1.116) इति; तुल्यक्रिय इति प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये, तुल्यक्रियस्यति सप्तम्या षष्ठ्या वा निर्देशं कुर्यात्। तुल्याक्रियाऽस्येति तुल्यक्रियः। केन तुल्यक्रियः ? कर्मणा। सापेक्षत्वेऽपि गमकत्वात् समासः। तुल्यशब्दोऽयं सदृशवचनः। न च साधनस्य कर्मणः क्रियया सादृश्यमुपपद्यते; अत्यन्तभेदात्। तथा हि-- कर्म द्रव्यं परिनिष्पन्नम्। त्दविपरीतस्वभावा क्रिया। तस्मात् कर्मणेति कर्मशब्दोऽयं गौणस्तात्स्थ्यादुपचारेण कर्मस्थायां क्रियायां वर्त्तते, यथा-- मञ्चाः क्रोशन्तीति, अत्र मञ्चशब्दः पुरुषेषु। उपचारस्तु कर्मस्थबावकानां कर्मस्थक्रियाञ्च कर्मवद्भावो यथा स्यात्, कर्तृस्थभावकानां कर्तृस्थक्रियाणां च मा भूदित्येवमर्थः। एतत्सर्वं चेतसि कृत्वाह-- `कर्मणि क्रिया कर्म' इति। एतेन कर्मशब्दोऽयं कर्स्थक्रियावाचीत्याचष्टे। कर्मस्थक्रियावाचिनि च कर्मशब्दे यः सूत्रार्थः सम्पद्यते तं दर्शयितुमाह-- `कर्मस्थया' इत्यादि। एवं स्थिते सूत्रार्थे तुल्यशब्दोऽयं साधारणवचन इति मन्यमानो यो देशयेत्-- `यदि कर्मस्थया क्रियया तुल्यक्रियः साधारणक्रियः कर्त्ता कर्मवद्भवति तदा पचत्योदनं देवदत्त इत्यत्रापि स्यात्; यस्मादिहापि यासौ प्रधानक्रिया तामुद्दिश्य सर्वाणि कारकद्रव्याणि प्रवर्त्तन्ते, तयाकर्मस्थया प्रवर्त्तन्ते, तयाकर्मस्थया साधारणक्रियः कर्त्ता भवति, यथैव ह्यसावन्येषां कारकाणां सम्बन्धिनी तथा कर्त्तुरपि' इति, तं प्रत्याह-- `यस्मिन् कर्मणि' इत्यादि। तद्वद्यथाशब्दौ सादृश्यार्थौ प्रयुञ्जानः `सदृशवचनोऽयं तुल्यशब्द-,न साधारणवचनः' इत्याचष्टे। यस्मिन् कर्मणि कर्त्तृभूतेऽपि कर्त्रवस्थां प्रतपन्नेऽपि तादृशी क्रिया लक्ष्यते यादृशी कर्मावस्थायां स कर्ता कर्मवद्भवति। सादृश्यञ्च कञ्चिद्भेदाधिष्टानमित्यसाधारण एवाधिश्रयणादिलक्षणः कर्त्तृव्यापारो गृह्यते, न तु साधारणो विक्लेदादिलक्षणः। स चासाधारणः पचच्योदनं देवदत्त इत्यत्र कारकान्तरव्यापारविसदृशो देवदत्तस्य कर्त्तुर्व्यापार इति न भवति कर्मवद्भावः। अथ वा-- कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता कर्मवद्भवतीत्युक्ते सदृशवचनस्तुल्यशब्द इति मन्यमानो यो देशयेत्-- `यद्येवम्, भिद्यमानः कुसूलः पात्राणि भिनत्तीत्यत्रापि प्राप्नोति, तथा हि यादृशी पात्रेष्ववयवविभागात्मिका क्रिया तादृश्येव कुसूले कर्त्तरि लक्ष्यते' इत्यस्मिन् पूर्वपक्ष इदमाह-- `यस्मिन् कर्मणि' इत्यादि। स इत्यनेन यस्मिन्नित्यनेन योऽर्थो निर्दिष्टः स एव प्रत्यवमृश्यते। एतेनैकद्रव्याधारयैव कर्मस्थयाक्रियया तुल्यक्रियः कर्त्ता कर्मवद्भवतीति दर्शयन् पूर्वपक्षं प्रतिक्षिपति। एवच्च प्रत्यासत्तेर्न्यायाल्लभ्यते। एकद्रव्यसमवायिनो हि क्रिया प्रत्यासन्ना, द्रव्यान्तरसमवेता तु विप्रकृष्टा।
ननु च शक्तिः कारकमिति दर्शनम्, न च कर्मशक्तिः कदापि कर्त्तृभावमापद्यते, तदयुक्तमुक्तम्-- यस्मिन् कर्मणि कर्त्तृभूतेऽपीति ? शक्तिशक्तिमतोर्भेदस्याविवक्षायां शक्त्याधारं द्रव्यमेवैतदुक्तमित्यदोषः। इदं तर्ह्ययुक्तमुक्तम्-- `तद्वत् क्रिया लक्ष्यते यथा कर्मणि' इति। यस्माद्य एव कर्मावस्थायां व्यापारः स एव कर्त्रवस्थायामपीति सादृश्यं नोपपद्यते, तस्य भेदाधिष्ठाने सति सत्त्वात् ? नैष दोषः; अवस्थाभेदेन क्रियाबेदाद्यद्यप्यवस्थावद्द्रव्यमभिन्नम्, तथाप्यवस्थाभेदोऽस्ति-- अन्यैव हि कर्त्रवस्था,अन्या च कर्मावस्था। अवस्थाभेदेन क्रियाभेद इति तदधिष्ठानं सादृश्यं भवति।
इहातिदेशो निमित्त-- व्यपदेश--शास्त्र-- कार्यभेदादनेकविधः। तत्रेह निमित्तातिदेशो न भवति, न हि कर्मणो यन्निमित्तं कर्त्तुरोप्सिततमत्वं तत् कर्त्तर्यतिदेष्टुं शक्यते; वस्त्वन्तरधर्माणां वस्त्वन्तरेण विरुद्धधर्मिणा सम्बन्धाभावात्। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। संज्ञापक्षे तु वक्ष्यमाणो दोषः, वतिग्रहणञ्चानर्थकं स्यात्। शास्त्रातिदेशपक्षे तु शास्त्रमतिदिश्यते, तस्मिन्नतिदिष्टे तैरेव शास्त्रैर्यगादयः प्राप्यन्ते; ततश्च यद्ययं शास्त्रातिदेशः स्यात् कर्मकर्तरि परत्वाच्छबादयो बाधकाः स्युः, तत्र प्रतिविधेयं स्यात्। कार्यातिदेशे त्वनेनैव यगादयो विधीयन्ते। तेन येन कर्त्राश्रयाः कर्मकर्त्तरि शबादयः प्राप्नुवन्ति ते परत्वाद्यगादिभिर्बाध्यन्त इति न किञ्चित्प्रतिविधातव्यम्। प्रधानं तु कार्यातिदेशः; तदर्थत्वनादतिदेशशास्त्राणाम्। अतः कार्यातिदेशतामस्य दर्शयन्नाह-- `कर्माश्रयाणि' इत्यादि। ननु च `तुल्यक्रियः' इति प्रथमानिर्देशात् तदन्तस्य कर्तुरतिदेशो विज्ञायते, न च सूत्रे कर्त्तृग्रहणमस्ति। यद्यपि च प्रकृतं तदपि सप्तम्यन्तम्, प्रथमानिर्दिष्टेन चेहार्थः तत्कथं प्रथमान्तकर्त्तृग्रहणमन्तरेण शक्यतेऽतिदेशः कर्त्तुमित्याह-- `कर्त्तरि' इत्यादि।
किं पुनरस्यातिदेशस्य प्रयोजनमित्याह-- `यगात्मनेपद' इत्यादि। `भिद्यते' इति यक उदाहरणम्। `अभेरि' इति चिणः। `कारिष्यते' इति चिष्वद्भावस्य। कर्मणि हि `स्यसिच्सीयुट्' (6.4.62) इत्यादिना चिण्वद्भावो विहितः। आत्मनेपदस्य तु सर्वाण्येवैतान्यदाहरणानि।
`स्वाश्रयमपि' इत्यादि। यद्विनाप्यतिदेशो न भवति तत् स्वाश्रयम्, तद्यथा स्यादित्येवमर्थं वत्करणम्। असति हि तस्मिन् संज्ञासूत्रमिदं स्यात्, ततश्च कर्मणा तुल्यक्रियः कर्त्ता कर्मसंज्ञकः स्यात्। एवञ्च सति सकर्मकत्वात् `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इति भावे लकारो न स्यात्। वत्करणे तु सत्यतिदेशो भवति। तेन चाप्राप्तमेव कर्त्तुः कर्म कार्यं भवति, न स्वाश्रयं कर्त्तृत्वम्। अकर्मकस्वभावत्वमपनीयते, तत्र तस्या व्यापारात्। एतेनाकर्मकाणां भावे लः सिद्धो भवति-- भिद्यते कुसूनेति। अथ भिद्यते कुसूलः स्वयमेवेत्यत्र कुसूलशब्दाद्द्वितीया कस्मान्न भवति, एतदपि कर्म कार्यं भवत्यत आह-- `लिङ्याशिष्यङिति' इत्यादि। द्वौ लकारौ यस्मिन् स द्विलकारो निर्देशः। यदि द्विलकारको निर्देशस्तदा किमित्याह-- `तत्र' इत्यादि। कार्यं प्रतीत्यध्याहार्यम्। द्विलकारनिर्देशे सति `लिङ्याशिष्यङ' (3.1.86) इत्यतो लानुवृत्तेलन्तिस्यैव कार्यं प्रति कर्त्ता कर्मवद्भवति, न तु प्रातिपदिकस्य। इतिकरणो हेतौ। यत एवं तस्मात् कुसूलाद्द्वितीया न भवति।
`करणाधिकरणाभ्याम्' इति। कर्मणेत्यसत्यस्मिन् करणाधिकरणस्थयापि क्रियया तुल्यक्रियः कर्त्ता कर्मवत् स्यात्, अस्मिंस्तु सति न भवति। `साध्वसिश्छिनत्ति' इति। कणस्य कर्त्तृत्वविवक्षायां करणस्थयापि क्रियया छेद्यद्रव्यान्तःप्रवेशलक्षणया तुल्यक्रियोऽत्रासिः कर्त्ता। `साधु स्थाली पचति' इति। अत्राधिकरणस्य कर्त्तृत्वविवक्षायामधिकरणस्थया क्रियया सम्भवति धारणात्मिकया तुल्यक्रियः कर्त्ता। अथेह कस्मान्न भवति-- पचत्योदनं देवदत्तः, राध्यत्योदनः स्वयमेवेति; भवति ह्यत्रापि कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता, तथा हि यादृश्योदेने कर्मभूते क्रिया विक्लेदनलक्षणा लक्ष्यते तादृश्येव कर्त्तृभूतेऽपि, पचतिराध्यत्योरेकार्थत्वादित्याह--- `धात्वधिकारात्' इत्यादि। समानशब्दोऽयमेकपर्यायः, यथा-- देवदत्तयज्ञदत्तयोः समाना मातेति। एका मातेति गम्यते। `धातोरेकाचः' (3.1.22) इत्यतो धातुग्रहणमनुवर्त्तते। कर्मादिशब्दाश्च सम्बन्धिशब्दाः,ये च सम्बन्धिशब्दास्ते प्रकृत्यैव नियतरूपं सम्बन्धिनमुपस्थापयन्ति। तथा हि-- मातरि भक्त्या प्रवर्तितव्यामित्युक्तेऽन्तरेणापि स्वस्यामिति वचनं स्वस्यां मातरीति गम्यते। तेन यं धातुमपेक्ष्य तस्य कर्मणः कर्त्तृत्वं तमेव धातुं सन्निधापयति, नान्यम्। ततश्च धातुग्रहणेऽनुवर्त्तमाने सत्ययमर्थो लभ्यते। यस्मिन् धातौ कर्मणोपस्थापिते यत् करम तस्मिन्नेव धातौ स यदि कर्त्ता भवत्येवं सत्ययमतिदेशः, नान्यथा। तेन पचत्योदनं देवदत्तः,राध्यत्योदनः स्वयमेवेत्यत्र न भवति, भिन्नयोर्धात्वोरोदनस्य कर्मकर्त्तृत्वासम्भवात्। अथ वा-- धातोरिति येयमेका संख्या सा विवक्षिता, तेनैकस्मिन्नेव धातौ कर्मवद्भावो भवति।
`कर्मस्थभावकानाम्' इत्यादिना न्यायप्राप्तमेवार्थं दर्शयति।तथा हि-- कर्मस्थया क्रियया तुल्यक्रियस्य कर्त्तुः कर्मवद्भावो भवति। न च कर्त्तृस्थभावकानां कर्त्तृस्थक्रियाणां कर्त्ता तथाविधोऽस्ति। यद्यपि क्रियाप्युपादीयते, `लक्षणहेत्वोः क्रियायाः' (3.2.126) इत्यत्र च भावोऽपि परिगृह्यते; तथापीह द्वयोरुपादानसामर्थ्यादर्थभेदो द्रष्टव्यः।
सा परिस्पन्दनसाधनसाध्या क्रिया क्रियाशब्देनोच्यते, अपरिस्पन्दनसाध्या तु भावशब्देन। येषां कर्मस्थोभावः कर्मस्था च क्रिया; येषां कर्त्तृस्थो भावः कर्त्तस्था च क्रिया, तेषामुदाहरणं दर्शयितुमाह-- `कर्मस्थः पचतेर्भावः' इति। पच्यते घटः स्वयमेवेत्यत्र यदा तद्देशस्थघटकर्मकपाको निष्पद्यते तदाऽपरिस्पन्दनसाधनसाध्यस्वभावः पाकः कर्त्तस्थो भवति, यदा तु देशान्तरं गच्छतः पाकद्रव्यस्य पाकाभिनिर्वृत्तिर्भवति तदा कर्मस्थैव पचेः क्रिया, यथा -- पच्यत ओदन इत्यत्रोदाहरणे। `कर्मस्था टच भिदेः क्रिया' इति। भिद्यते कुसूलः-- स्वयमेवेति। अवयवविभागलक्षणा हि भिदेः क्रिया,सा च दशान्तरप्राप्तौ सत्यां भवतीति भिद्यते परिस्पन्दः,तेन कर्मस्था क्रिया भवति। `मासासिभावः कर्त्तस्थः' इति। आसेर्धातोर्भाव असिभावः। आसनं हि भावः; तस्याः परिस्पन्दनसाधनसाध्यत्वात्। तथा हि-- व्यापारोपरतावास्त इति प्रयुज्यते। माससहचरित आसिभावः। शाकपार्थिवादित्वात् समासः-- मासासिभावः। कदा स माससहचरित आसिभावो भवति ? यदा मासमास्त इति प्रयुज्यते। मासमिति कर्मणि द्वितीया। कर्मसंज्ञा तु `कालभावाध्वगन्तव्याः क्रमसंज्ञा ह्यकर्मणाम्' (वा.1.4.51) इति वचनात्। मासासिभावः कर्त्तस्थो भवति, आसितरि समवायात्। तेनास्यते मासः स्वयमेवेति न भवति। `कर्त्तृस्था च गमेः क्रिया' िति। गमनं पाद विहरणात्मकम्। तच्च परिस्पन्दनसा नसाध्यत्वाच्च क्रिया, सा च गन्तरि देवदत्तादौ समवेता, न कर्मणि ग्रामादौ। तेन कर्मस्थक्रियाभावाद्गम्यते ग्रामः स्वयमेवेति न भवति।।
88. तपस्तपः कर्मकस्यैव। (3.1.88)
`तपः कर्मकस्यैव' इति। एवकारो विस्पष्टार्थः; व्यवच्छेदफलत्वात्, सर्ववाक्यानामित्येवं तदर्थस्य लब्धत्वात्। यदि ह्यतपःकर्मकस्यापि स्यात्, तपःकर्मग्रहणमनर्थकं स्यात्। `नान्यकर्मकस्य' इत्यवधारणेन यद्व्यवच्छिन्नं तद्दर्शयति। `क्रियाभेदात्' इति। क्रियाविसदृशत्वादित्यर्थः। पूर्वं हि क्रियासादृश्ये कर्मवद्भावो विहित इति वैसदृश्येन प्राप्नोति, अतो विध्यर्थमेतत्। अत एव कर्मस्थया क्रियया तुल्यत्वं न सम्भवतीति `कर्मणा तुल्यक्रियः' (3.1.87) इत्येतन्नानुवर्त्तते। `उपवासादीनि' इत्यादिना तमेव क्रियाभेदं दर्शयति। उपवासादिशब्देन तपः शब्दस्यार्थमाचष्टे। `दुःखयन्तीत्यर्थः' इत्यनेन तापसस्य कर्मावस्थायां तपेर्दुःखनमर्थ इति दर्शयति। `स्वर्गाय तपस्तप्यते' इति। तपःशब्दोऽत्र ज्ञानविषेय स्वर्गाद्यवाप्तिहेतौ वर्त्तते। `अर्जयीत्यर्थः'इत्यनेन तापसस्य कर्त्रवस्थायां तपिरर्जने वर्त्तत इति दर्शयति। निवर्त्तयतीत्यर्थ इति, न दुःखयतीति; तपसोऽचेतनत्वाद्दुःखासम्भवात्।।
`उत्तपति सुवर्णम्' इत्यादौ सुवर्णकर्मकत्वात् तपेः कर्मवद्भावो न भवति।।
89. न दुहस्नुनमां यक्चिणौ। (3.1.89)
`कर्मकर्त्तरि यक्चिणानुपदिष्टौ न भवतः' इति। कर्मकर्त्तरीति विशेषणम्। `कर्मवत् कर्मणा तुल्यक्रियः' (3.1.87) इति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः, न तु चिण्वद्भावकर्मणोः। `सार्वधातुके यक्' (3.1.67) इति च। शुद्धे कर्मणि यौ प्राप्तौ तयोरपीति दर्शनार्थम्। एतच्च `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति परिभाषया लभ्यते। `दुग्धे' इति। यकि प्रतिषिद्धे शप्, तस्यादादित्वाल्लुक्। पूर्ववद् घत्वघत्वजश्त्वानि। `अदुग्ध' इति। लुङ। चिणि प्रतिषिद्धे क्सः, तस्य `लुग्वा' (7.3.73) इत्यादिना लुक्। `प्रस्नुते' इति। `{ष्णु प्रस्रवणे' धा.पा.} स्नु प्रस्रवणे' (धा.पा.1038), पूर्ववच्छपो लुक्। `प्रास्नोष्ट' इति। लुङ। `नमते' इति। `णम प्रह्वत्वे शब्दे' (धा.पा.981)। अन्तर्भावितण्यर्थोऽत्र नमिः कर्मणि वर्त्तत इति वेदितव्यम्। एवं हि कर्मस्थक्रियो भवति; अन्यथा कर्त्तृस्थक्रियत्वात् प्राप्तिर्नास्त्येवेति प्रतिषेधोऽनर्थकः स्यात्। अन्तर्भावितव्यर्थस्तु कर्मस्थक्रियो भवति-- नमति दण्डं देवदत्तः। `नमते दण्डः स्वयमेव' इति। यथा ण्यन्तावस्थायाम्। `यक्चिणोः प्रतिषेधे' इत्यादि। यक्चिणोः प्रतिषेधे कर्त्तव्ये श्रन्थ्यादीनामपि तस्य प्रतिषेधस्योपसंख्यानम् = प्रतिपादनं कर्त्तव्यमित्यर्थः। प्रतिपादनं तु नेति योगविभागादिष्टसिद्ध्यर्थात् कर्त्तव्यम्। णीति हेतुमण्णिच इतरस्य च णेर्ग्रहणम्। हेतुमण्णिच्। `कारयति' कटं देवदत्तः। कारयते कटः स्यवमेव' इति। यकि प्रतिषिद्धे शप्। `अचीकरत कटः स्वयमेवट इति। चिणि प्रतिषिद्धे `णिश्रि' (3.1.48) इत्यादिना चङ,णौ चङ्युपधाया ह्रस्वः' (7.4.1) इति ह्रस्वः। `चङि' (6.1.11) इति द्विर्वचनम्, अभ्यासकार्यम्। इतरो णिः-- `पुच्छभाण्ड चीवराण्णिङ' (3.1.20)। `उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव' (इति)। यकि प्रतिषिद्धे शप्। एवमुत्तरत्रापि वेदितव्यम्। `उदपुपुच्छत गौः स्वयमेव' इति। चिणि प्रतिषिद्धे पूर्ववच्चङ। एवमुत्तरत्रापि वेदितव्यम्। `श्रन्थ ग्रन्थ सन्दर्भे' (धा.पा.1512,1513)। चुरादौ ग्रन्थिश्रन्थी पठ्येते (धा.पा.1837,1838)। `आ धृषाद्वा' (धा.पा.1805 अनन्तरम्) इति विभाषाणिचौ। तयोर्यदा णिज् नास्ति तदोदाहरणे; अन्यथा णीत्येवं सिद्धिः। ग्रन्थि ग्रन्थं देवदत्तः। ग्रन्थते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। श्रन्थति मेखलां देवदत्तः। श्रन्थते मेखला स्वयमेव। `श्रन्थ ग्रन्थ सन्दर्भे' (धा.पा.1512,1513) इतिक्र्यादावपि पठ्येते, तयोरप्ययं प्रतिषेधः--- श्रथ्नीते मेखलां देवदत्तः, श्रन्थीते मेखला स्वयमेव। `ई हल्यघोः' (6.4.113) इतीत्त्वम्। अश्रन्थिष्ट मेखला स्वयमेव। ग्रथ्नीते ग्रन्थं देवदत्तः। ग्रन्थीते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। ब्रूते कथां देवदत्तः। ब्रूते कथा स्वयमेव। पूर्ववच्छपो लुक्। अवोचत कथां देवदत्तः। अवोचत कथा स्वयमेव। `ब्रुवो वचिः' (2.4.53) इति वचिरादेशः, `अस्यतिवक्तिख्यातिभ्योषऽङ' (3.1.52) इत्यङादेशः; `वच उम्' (7.4.20)। अन्तर्भावितण्यर्थत्वात् कर्मस्थक्रियात्वं वेदितव्यम्। `आत्मनेपदाकर्मकाणाम्' इति। आत्मनेपदविधावकर्मका ये धातवो गृह्यन्ते त आत्मनेपदाकर्मकाः। `विकुर्वते सैन्धवाः स्वयमेव' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः। `व्यकृषत सैन्धवाः स्वयमेव' इत्यत्रापि कृञो विपूर्वात् `अकर्मकाच्च' (1.3.35) इत्यात्मनेपदविधानादात्मनेपदाकर्मकत्वम्। अत्रापि वल्गने वर्त्तमानः करोतिरन्तर्भावितण्यर्थः कर्मस्थकियो भवति।।
90. कृषिरजोः प्राचां श्यन्परस्मैपदं च। (3.1.90)ट
रञ्जेः कृतानुनासिकलोपनिर्देशो लाघवार्थः। `यगात्मनेपदयोरपवादौ' इति। श्यन् यकोऽपवादः; परस्मैपदं त्वात्मनेपदस्य। `रज्यति' इति। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः। `प्राचां ग्रहणं विकल्पार्थम्' इति। एतेन पूजार्थतामपनयति। पूजार्थे तस्मिन् विकल्पो न लभ्येत। `कुष्यते' इत्यादिना विकल्पार्थे प्राग्ग्रहणे यदिष्टं सिध्यति तद्दर्शयति। `स्यादिविषये च' इत्यादि। आदिशब्देन तासिप्रभृतीनां ग्रहणम्। `चुकुषे, ररञ्जे' इति। लिट्, आत्मनेपदम्, तप्रत्ययः, तस्यैशादेशः। `कोषिषीष्ट' इति। आशिषि लिङ, सीयुट्, `सुट् तिथोः' (3.4.107) इति सुट्, लघूपधगुणः, षत्वम्, ष्टुत्वञ्च। `रङक्षीष्ट' इति। `एकाचः' (7.2.10) इतीट्प्रतिषेधः, `चोः कुः' (8.3.30) इति कुत्वम्-- गकारः। `खरि च' (8.4.55) इति चर्त्वम्--ककारः। `अकोषि, अरञ्जि' इति। लुङ,चिण्।।
91. धातोः। (3.1.91)
`यङविधौ धातोरित्यधिकारात्' इति। `धातोरेकाचः' (3.1.22) इति यङविधौ यत् धातुग्रहणं तस्येहाधिकारादित्यर्थः। इयञ्च धातुग्रहणस्यानर्थकत्वे युक्तिः। `कृदुपपदसंज्ञार्थं तु' इति। आनर्थक्यमपाकरोति। ननु च पूर्वेणापि धातुग्रहणेन कृदुपपदसंज्ञे सिध्यत स्याताम्, इह करिष्यतीति स्यप्रत्ययस्य `कृदतिङ' (3.1.93) इति कृत्संज्ञा स्यात्। ततश्च `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रातिपदिकसंज्ञा प्रसज्येत, तस्याञ्च सत्यां सुबुत्पत्तिः। `च्लि लुङि' (3.1.43) इत्यत्र च `तत्रोपपदम्' (3.1.92) इति लुङोऽप्यपपदसंज्ञा स्यात्, ततश्च लुङ्युपपदे च्लिरित्ययमर्थश्च सम्भाव्येत। तसमादिह धात्वधिकारे कृदुपपदसंज्ञे यथा स्यातां पूर्वत्र मा भूतामिति पूनर्धातुग्रहणम्। अथाधिकारेणैते संज्ञे विधास्येते प्रत्ययसंज्ञावत्, तेन पूर्वत्र न भविष्यतीति चेत् ? न हि; सिंहावलोकितन्यायोप्यस्ति। अधिकारेण विधाने पूर्वत्रापि सम्भाव्येयाताम्। तत्र व्याख्यानं कर्त्तव्यं भवेत्। व्याख्यानाच्च लघु धातुग्रहणं भवति। अवश्यञ्चान्यार्थं धातुग्रहणं कर्त्तव्यम्, तदन्यार्थ क्रियमाणं कृदुपपदसंज्ञाविधावपि विस्पष्टार्थं भविष्यति। तामेव चान्यार्थतां दर्शयितुमाह--- `आर्धधातुकसंज्ञार्थम्' इत्यादि। चशब्दाद्वाऽसरूपविधानार्थञ्चेत्ययमत्रार्थो वेदितव्यः। `वाऽसरूपोऽस्त्रियाम्' (3.1.94) इत्यस्मिन् धात्वधिकारेऽसरूपोऽपवादो बाधको यथा स्यात्, पूर्वत्र मा भूत्। तेन क्सादिभिः सिचः समावेशो न भवति। ननु च पूर्वेणापि धातुग्रहणेनार्धधातुकसंज्ञा सेत्स्यति, किं द्वितीयधातुग्रहणेन ? इत्यत आह-- `धातोरित्येवम्' इत्यादि। धातोरित्येवं धातुशब्दमुच्चार्य विहितस्यार्धधातुकसंज्ञा यथा स्यादित्येवमर्थं पुनर्धातुकृग्रहणमित्यर्थः। किमर्थं पुनर्धातोरित्येवं विहितस्यार्धधातुकसंज्ञोच्यते ? इत्याह-- `इह मा भूत्' इतति।असति द्वितीये धातुग्रहणे लूभ्याम्, लूभिरित्यत्रार्धधातुकसंज्ञा स्यात्. भवति ह्यत्र धातोः परः प्रत्ययः-- `क्विबन्ता धातुत्वं न जहति' (व्या.प.132) इति कृत्वा। आर्धधातुकत्वे सत्यार्धधातुकलक्षण इट् प्रसज्येत। द्वितीयं तु धातुग्रहणं क्रियमामं सामर्थ्याद्छबन्दपदात्मकं भवति। तेनायमर्थो लभ्यते-- धातोरित्येवं धातुसंशब्दनेन यो विहितः स अर्धधातुकसंज्ञो भवतीति। तेन लूभ्यामित्यादावार्धधातुकत्वं न भवति। न हीह धातोरित्येवं प्रत्ययो विहितः, किं तर्हि ? प्रातिपदिकादित्येवम्।।
92. तत्रोपपदं सप्तमीस्थम्। (3.1.क92)
`सप्तम्या निर्दिष्टम्' इत्यनेन सप्तमीस्थमित्यस्यार्थमाचष्टे। शब्दस्य हीयं संज्ञा विधीयते, स च कः सप्तमीस्थो भवति ? यस्याः सप्तम्या निर्देशः। `कुम्भकारः' इति। उपपदसंज्ञायां `उपपदमतिङ' (2.2.19) इति समासः, `गतिकारकोपपदात् कृत्' (6.2.139) इत्यत्तरपदस्य प्रकृतिस्वरत्वं भवति।
`स्थग्रहणम्' इत्यादि। निर्दिश्यतेऽनेनेति निर्देशः। सप्तमी निर्देशो यस्य स सप्तमीनिर्देशः। तत्प्रतिपत्त्यर्थं स्थग्रहणम्। एतदुक्तं भवति-- सूत्रे यत् सप्तम्या निर्दिष्टं तस्य संज्ञित्वेन प्रतिपत्तिर्यथा स्यादित्येवमर्थं स्थग्रहणम्। यदि पुनः स्थग्रहणं न क्रियते, ततः किं स्यादित्यत आह-- `इतरथा हि' इत्यादि। इतरथा ह्यक्रियमाणे स्थग्रहणे `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' (पु.प.वृ.81) इतिसैव सप्तम्युपपदसंज्ञां प्रतिपद्येत। न चासतः संज्ञिनः संज्ञा युक्तेति यत्र श्रूयते सप्तमी-- स्तम्बेरम इत्यादौ तत्रैव स्यात्। स्यादेतत्-- नैतत् प्रत्ययग्रहणम्,किं तर्हि ? सप्तमीशब्दस्य स्वरूपस्य ग्रहणमित्याह-- `यत्र' इत्यादि। गतार्थम्। `स्थग्रहणात्तु' इत्यादि। स्थग्रहणे तु क्रियमाणे ग्रन्थाधिक्यात् सूत्रे यस्य सप्तम्या निर्देशस्तत् संज्ञित्वेन निर्दिश्यते, तेनु सर्वं सिद्धं भवति; येषामियं संज्ञेष्यते तेषां सर्वेषामेव सूत्रे सप्तमीनिर्देशात्। तथा हि-- `स्तम्बकर्णयोः' (3.2.13) इत्यत्र स्तम्बकर्णशब्दौ सूत्रे सप्तम्या निर्दिष्टौ। `सप्तम्यां जनेर्डः' (3.2.97) इत्यत्राप्युपसरादयः। `कर्मण्यण्' (3.2.1) इत्यत्रापि कर्माभिधायिनः कुम्भप्रभृतयः।
ननु च लाघवार्थं संज्ञाकरणम्, तत्किमर्थं गुर्वी संज्ञा क्रियते ? इत्याह-- `गुरुसंज्ञाकरणम्' इत्यादि। उपशब्दः सामीप्ये। उपोच्चारितं पदमुपपदमित्यन्यर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारो यथा स्यादित्येवमर्थं गुरुसंज्ञाकरणम्। समर्थपरिभाषोपस्थाने सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह-- `पश्य कुम्भम्' इत्यादि. अन्वर्थसंज्ञायां हि सत्यामुपपदाश्रयः प्रत्ययः पदविधिर्भवति। यत्र च पदगन्धोऽप्यस्ति तत्र समर्थपरिभाषोपतिष्ठते। तेन पश्य कुम्भं करोति कटमित्यत्र `कर्मण्यण्' (3.2.1) न भवति। न हीह कुम्भस्य करोतिना सामर्थ्यम्, किं तर्हि ? पश्येत्यनेन। पदशब्दोऽप्यत्रान्वर्थ एव, न पारिभाषिकः। तथा हि सुबन्तस्य पदसंज्ञा टचोपपदसंज्ञाविधनकाले सुबन्ततयास्ति; यस्मादुपपदसंज्ञायां विहितायामुपपदाश्रयेऽपि प्रत्यय उपपदसमासोऽपि `गतिरकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः' (व्या.प.वृ.138) इति सुबुत्पत्त्या भवितव्यः। तस्मादन्वर्थोऽयं पदशब्दः-- पद्यते गम्यतेऽर्थो येन तत् पदमिति। `तत्र' ग्रहणं सप्तमीस्थस्य प्रत्योत्पत्तिं प्रति निमित्तभावे सत्युपपदसंज्ञा यथा स्यादित्येवमर्थम्। असति हि तत्र ग्रहणे कर्मण्युपपदेऽनुपपदेऽपि प्रत्ययः स्यात्। यस्तु कर्मणीति सप्तम्या निर्देशः, स यदा सप्तम्यन्तः सम्भवति, तदा तस्योपपदसंज्ञार्थः स्यात्; न तु तस्मिन् सत्येव प्रत्ययेन भवितव्यमित्येषोऽर्थो लभ्यते। तस्मात् यथोक्तप्रयोजनार्थं तत्रग्रहणम्। ननु चानन्तरस्य धात्वदिकारस्य निर्देशार्थं तत्रग्रहणं कस्मान्न भवति, तत्रैतस्मिन् धात्वधिकारेऽनन्तर उपपदसंज्ञा यथा स्यादिति ? नैतदस्ति; अधिकारादप्येतत् सिद्धम्। उपपदसंज्ञाधिकरिष्यते, तेन वक्ष्यमाणेषु संज्ञिषु संज्ञा भविष्यतीति नार्थ एतदर्थेन तत्रग्रहणेन। `तत्रैतस्मिन्' इत्यादिस्तु वृत्तिग्रन्थ एवमुन्नीयते-- एतस्मिन् धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। तत्र च निमित्ते प्रत्यय इत्येषोऽर्थः सोपस्कारत्वाद्वृत्तिग्रन्थस्य लभ्यते।।
93. कृदतिङ्। (3.1.93)
`कर्त्तव्यम्' इति। कृत्संज्ञायां सत्यां `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रातिपदिकसंज्ञा। `चीयात्' इति। आशिषि लिङ,`लिङाशिषि' (3.4.116) इत्यार्धधातुकसंज्ञा। अतिङिति यदि नोच्येत, तिङोऽपि कृत्संज्ञा स्यात्; ततश्च `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घत्वं न भवेत्। अतिङिति तु सत्यकृद्यकारत्वाद्भवति।।
94. वाऽसरूपोऽस्त्रियाम्। (3.1.94)
अपवादविषयमुत्सर्गो नाबिनिविशत इत्येष उत्सर्गधर्मः, कृताञ्च केषाञ्चिदुत्सर्गाणामपवादविषये प्रवृत्तिरिष्यते, सा च वचनमन्तरेण न सिद्ध्यतीति तदर्थमिदम्। ननु चारभ्यमाणेऽप्येतस्मिन् नैवायमर्थः सम्पद्यते, तथा हि-- अस्योत्सर्गेण वा सम्बन्धः स्यात्, अपवादेन वा, उभाभ्यां वा ? तत्र यदि पूर्वकल्प आश्रीयेत तदा वाशब्देन विकल्पार्थेनोपस्थापितयोर्भावाभावयोरस्यायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां पक्षे भवतीति, पक्षे न भवतीति। तथा चापवादस्य स्वस्मिन् विषये नित्याप्राप्तिः स्यात्। न ह्यनेनापवादस्य किञ्चित्कृतम्; तेन सहास्यासम्बन्धात्। न च बाधकेऽपवादेऽविकल्पां प्रवृत्तिमनुभवति सति तत्रोत्सर्गः प्रवर्तितुमुत्सहत इति स्वविषय एव विकल्पः प्रवर्तेत। अथ द्वितीयः, तदायमर्थः स्यात्-- असरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादविषयं परिहति, तदापवादस्य बाधकत्वात्। तच्च बाधकत्वमस्मिन्नपि पक्षे तदवस्थमेव, न ह्यनेन तदपनीतम्, किं तर्हि ? स्वस्मिन् विषये तस्य भावाभावौ प्रतिपादितौ-- पक्षे भवति,पक्षे न भवति। न चान्यद्वचनमस्ति; यतोऽपवादविषयमुत्सर्गोऽव्यास्ते। अपवादस्याभावपक्षे प्रापकवचनमन्तरेणापि उत्सर्गो भविष्यति। प्रतिबन्धाभावादिति चेत् ? सत्यमेतत् कार्यबाधायाम्; शास्त्रबाधायान्तु यत् कार्यस्य विधायकं तदपवादेन बाध्यमानं तद्विषपरीहारेणैव प्रवर्तेत, तस्मिन् प्रवृत्ते पश्चापदवादे विकल्पेन प्रवृत्तिमनुबव्तयपि तद्विषय उत्सर्गप्रवृत्तिर्न सम्भवति, सामान्यशास्त्र्सयातद्विषयत्वात्।
अस्तु कार्यवधापक्ष इति चेत्? न; अयुक्तत्वात्। न ह्यबाधिते विधायके शास्त्रे तत्कार्यबाधा युज्यते। निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्त्तुम्, नान्यथा। न हि प्रदीपेऽनुच्छिन्ने तत्प्रभोच्छिद्यते। तस्मादपवादः शास्त्रमेव बाधते,तस्मिश्च बाधिते सत्यपवादाभावपक्षेऽपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिः स्यात्. अथ तृतीयः पक्षः, तदायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां वा भवति, अपवादोऽपीति। एवमपि तयोः स्वस्मिन् विषये विकल्पेन प्रवृत्तिः स्यात्, न तूत्सर्गस्यापवादविषये; पूर्वोक्तादेव हेतोः। तस्मात् क्रियमाणेऽप्येतस्मिन् नैवाभिमतोऽर्थः सम्पद्यत इति देशयेत्, तं प्रत्याह-- `असरूपोऽपवादप्रत्ययो वा बाधको भवति' इति। एतेनापवादस्यानेन सम्बन्धः, न तु भावाभावौ विकल्प्येते, किं तर्हि ? पक्षे बाधकत्वमिति दर्शयति। एवञ्च यस्मिन् पक्षेऽपवादो बाधको न भवति, तस्मिन् विषये प्रतिबन्धाभावादुत्सर्गः प्रवर्त्तत इति सिध्यति समावेशः। `स्त्र्यधिकारविहितं प्रत्ययं वर्जत्वा' इति.कथं पुनः `अस्त्रियाम्' इति वचनादेषोऽर्थो लभ्यते ? एवं मन्यते-- `स्त्रीग्रहणमिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति; तेन स्त्रयधिकारविहितमाश्रित्य यावुत्सर्गापवादौ विहितौ तद्वि,ये प्रतिषेधो विज्ञायते' इति। अथैवं कस्मान्न विज्ञायते-- स्त्रियामभिधेयायामसरूपोऽपवादो बाधको वा न भवतीति ? एवमशक्यं विज्ञातुम्; एवं हि विज्ञायमाने लव्या लवितव्येति यद्विषये तव्यो न स्यात्। एवं तर्हि कस्मान्न विज्ञायते-- स्तिरयामित्येवं स्त्रीशब्दसंशब्दनेन यः प्रत्ययो विहितः स इह स्त्रीशब्देनोक्तः, तत्र स्त्रियामित्येवं विहितेऽसरूपोऽपवादो बाधको वा न भवतीति ? एवमशक्शं विज्ञातुम्; एवं हि विज्ञायमाने व्यावक्रोशी, व्यावक्रुष्टिरिति णचो विषये क्तिनः प्रवृत्तिर्न स्यात्,; यस्मात् `कर्मव्यतीहारे णच् स्त्रियाम्' (3.3.43) इति णज्विहितः, स्त्रियां क्तिन्नपि; तस्मात् पूर्वोक्त एवार्थः। यद्येवम्, `क्तल्युट्तुमुन्खलर्थेषु' (पु.प.वृ.76) इति परिभाषा न प्राप्नोतिच तेषामस्त्र्यधिकारविहितत्वात् ? `नपुंसके भावे क्तः' (3.3.114), `ल्युट् च' (3.3.115)-- हसितम्, हसनम्, तयोर्विषये `भावे' (3.3.18) इति घ़ञपि प्राप्नोति । `समानकर्त्तृकेषु तुमुन्' (3.3.158) -- इच्छति भोक्तुम्,तस्य विषये `इच्छार्थेषु लिङलोटौ' (3.3.157)अपि प्राप्नुतः ? `आतो युच्' (3.3.128) --ईषत्पानम्, तस्य विषये `ईषव्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्' (3.3.126) इति खलपि प्राप्नोति ? वावचनस्य व्यवस्थितविभाषात्वान्न भवतीत्यदोषः। `ण्वुल्तृचावित्युत्सर्गा' इति। सामान्यविहितत्वात्। `इगुपधापीकिरः कः इत्यपवादः' इति। विशेषविहित्वात्।
`कर्मण्यण्' (3.2.1) इत्युत्सर्गः, `आतश्चोपसर्गे' (3.1.136) इति कप्रत्ययोऽपवादः। ननु चानुबन्धकृतेनासारूप्येण सोऽप्यसरूप इत्याह-- `नानुबन्धकृतम्' इत्यादि। अत्र `ददातिदधात्योर्विभाषा' (3.1.139) इति विभाषाग्रहणं ज्ञापकम्। यदि ह्यनुबन्धकृतमसारूप्यं स्याद्विभाषाग्रहणमनर्थकं स्यात्. अनुबन्धकृतादसारूप्यादेव हि `श्याऽऽद्व्यध' (3.1.141) इत्यादिसूत्रेण पक्षे णो भविष्यति।।
95. कृत्याः प्राङ् ण्वुलः। (3.1.95)
`कृत्याः' इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा-- अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन `केलिमर उपसंख्यानम्' (वा.121) इत्येतत् कर्त्तव्यं न भवति। `ण्वुल्तृचाविति वक्ष्यति' इति। अथ रोगाख्यायां ण्वुल् बहुलम्' (3.3.108) इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते ? ज्ञापकात्। यदयम् `अर्हे कृत्यतृचश्च' (3.3.169) इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते-- नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्, अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति ? नैतदस्ति; असति ह्येतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत्-- योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति-- एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते, तेन ण्वुलोऽपि न भविष्यतीति ? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्।।
96. तव्यत्तव्यानीयरः। (3.1.96)
`तकाररेफौ स्वरार्थौ' इति। तकारः `तित्स्वरितम्' (6.1.185) इति स्वरितार्थः। रेफः `उपोत्तमं रिति' (6.1.217) इतिमध्योदात्तार्थः।
`वसेस्तव्यत् कर्त्तरि णिच्च' इति।`वस निवासे' (धा.पा.1005) इत्यस्मात् कर्त्तरि तव्यप्रत्ययो भवति, स च णिद्भवतीति। न चैतद्वक्तव्यम्; `कृत्यल्युटो बहुलम्' (3.3.113) इति सिद्धत्वात्। वसतीति वास्तव्यः। णित्त्वाद्द्वृद्धिः।
`केलिमर उपसंख्यानम'इति। उपसंख्यानशब्दसय् प्रतिपादनमर्थः। प्रतिपादनं तु प्रागेव कृतम्। पुनरपि क्रियते-- `कृत्यल्युटो बहुलम्' (3.3.113) इतिबहुलवचनात् केलिमर्प्रत्ययोऽपि कृत्यो भविष्यति। ककारः कित्कार्यार्थः, रेफः स्वरार्थः। स्वयमेव पच्यन्ते `पचेलिमा माषाः'। शब्दशक्तिस्वाभाव्यादत ए बहुवचनाच्च कर्मकर्त्तर्येव भवति नान्यत्र।।
97. अतो यत्। (3.1.97)
`तकारः `यतोऽनावः' इति {स्वरार्थः-- काशिका} विशेषणार्थः' इति। आद्युदात्तार्थः। `गेयम्' इति। `कै गै शब्दे' (धा.पा.916,917), `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्, `ईद्यति' (6.4.65) इतीत्त्वम्, गुणः।
`यावता' इत्यादि। इह द्विविधा धातवः-- हलन्ता अजन्ताश्च; तत्र `ऋहलोर्ण्यत्' (3.1.124) इति ण्यतं हलन्तादिच्छति।अतः परिशेष्यादेवाज्ग्रहणमन्तरेणाप्यजन्तादेव यद्भविष्यतीत्यतोऽज्ग्रहणमपार्थकमित्यभिप्रायः। `अजन्तभूतपूर्वात्' इति। अजन्तश्चासौ भूतपूर्वश्चेति कर्मधारयः। यः प्रागजन्त आसीत् संप्रति तु हलन्तः, ततोऽपि यथा स्यादित्येवमर्थमज्ग्रहणम्। `दित्स्यम्'। `धित्स्यम्' । दाञो धाञश्च सन्, द्विर्वचनम्। `सनि मीमा' (7.4.54) इतीस्। `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः। `सः स्यार्धधातुके' (7.4.49) इति तत्त्वम्। अनुत्पन्न एवार्धधातुके विषयभावेन विवक्षिते `अतो लोपः' (6.4.48) इत्यकारलोपः। अस्यामवस्थायामसत्यज्गर्हणे न स्यात्; अनजन्तत्वात्। तस्मिंस्तु सति भूतपूर्वमजन्तत्वमाश्रित्य भवति। पाक्षिकञ्चैतत् प्रयोजनं वेदितव्यम्। क्व तस्मिन्पक्षे ? यदार्धधातुके विषयभावन विवक्षिते `अतो लोपः' (6.4.48) विधीयते। यदाऽऽर्धधातुकः, तदा नेदं प्रयोजनम्। विस्पष्टार्थं त्वज्ग्रहणं वेदितव्यम्।
`तकिशसि' इत्यादि। `तक { सहने इति मुद्रितः पाठः} हसने(धा.पा.117), `शसु हिंसायाम्' (धा.पा.727), `चते चदे याचने' (धा.पा.865,866) , `यती प्रयत्ने' (धा.पा.30), `जनी प्रादुर्भावे' (धा.पा.1149)--एषां यत्प्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। प्रतिपादनं तु बहुलग्रहणमाश्रित्य कर्त्तव्यम्।
`हनो वा वध च' इति। हन्तेर्धातोर्यत्प्रत्ययो भवति, ण्यतोऽपवादः। वावचनात् पपक्षे ण्यद्भवत्येव। यत्प्रत्ययस्तु तत एव बहुलवचनाल्लभ्यते। यदा यद्भवति तदा हन्तेर्बधादेशः। सोऽपि `हनो वध लिङि' (2.4.42) इत्यत्र `बहुलं छन्दसि' (2.4.39) इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। घात्य इति। `हनस्तः' (7.3.32) इति तत्वम्, `हो हन्तेः' (7.3.54) इति कुत्वम्।।
98.पोरदुपधात्। (3.1.98)
`प्राक्यम्। वाक्यम्' इति। `चजोः' (7.3.52) इति कुत्वम्। `कोप्यम्। गोप्यम्' इति. `कुप क्रोधे' (धा.पा.1233), `गुप {गोपने इत्येव-धा.पा.} गोपनकुत्सनयोः' (धा.पा.970), `गुप व्याकुलीकरणे' (धा.पा.1234)। आप्यमिति। `आप्लृ व्याप्तौ' (धा.पा.1260)।।
99. शकिसहोश्च। (3.1.99)
100. गदमदचरयमश्चानुपसर्गे। (3.1.100)
`अनुपसर्गे' इति। सुज्व्यत्ययेन पञ्चम्यर्थे सप्तमी। अत एवाह-- `अनुपसर्गेभ्यः' इति। अविद्यमानोपलसर्गेभ्य इत्यर्थः। अथैवं कस्मान्न विज्ञायते-- उपसर्गादन्योऽनुपसर्ग इति ? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमाने केवलेभ्यो न स्यात्। नञिवयुक्त (है.प.94) न्यायेनोपसर्गसदृशस्य सुबन्तस्य ग्रहणे सति `वदः सुपि क्यप् च' (3.1.106) इत्यत्र पुनः सुब्ग्रहणमनर्थकं स्यात्, अस्यैवानुपसर्गस्य तत्रानुवृत्तेः। तस्मात् पूर्वोक्त एवार्थो युक्तः। `नियमार्थम्' इति। अनुपसर्गादेव यथा स्यात्, सोपसर्गानमा भूदिति।
`चरेः' इत्यादि। सोपसर्गार्थमिदम्- चरेर्धातोराङि चोपपदे यद्भवतीति, अगुरावभिधेये। स तु ज्ञापकादेव सिध्यतीति नोपसंख्येयः, यदयम् `आश्चर्यमनित्ये' (6.1.147) `सम्माननोत्सञ्जनाचार्यकरण' (1.3.36) इत्यादि करोति, ततो ज्ञायते-- चरेराङि चागुरौ यद्भवतीति। `आचार्यो देशः' इति गन्तव्य इत्यर्थः। गुरुः= उपनेता।।
101. अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु। (3.1.101)
`अवद्यम्' इति। वदेर्नञ्युपपदे `वदः सुपि क्यप् च' (3.1.106) इति यत्क्यपोः प्राप्तयोर्यदेव निपात्यते। `अनुद्यम्' इति। यजादित्वात् संप्रासरणम्, `नलोपो नञः' (6.3.73), `तस्मान्नुडचि' (6.3.74) इति नुट्। `पण्यम्' इति। पणेर्व्यवहारार्थस्य ण्यति प्राप्ते यन्निपात्यते। `पाण्यम्' इति। स्तोतव्यमित्यर्थः।
`वर्या' इति। वृङो ण्यति प्राप्ते यन्निपात्यते। स्त्रियामित्यनेन सूत्रे लिङ्गनिर्देशस्य तन्त्रतां दर्शयति। `अप्रतिबन्धः' इति। अनेनानिरोधशब्दस्यार्थमाचष्टे। अप्रतिबन्धः प्रसराभिघात इत्यर्थः। `वृत्या' इति। निरोधनीया। प्रसरविघातोऽस्याः कर्त्तव्य इत्यर्थः। एतच्च वृञः `एतिस्तृशासु' (3.1.109) इति क्यपि कृते `ह्रस्वस्य पिति कृति' (6.1.71) इति तुकि च रूपम्। `वार्या ऋत्विजः' इति। वृङ एतद्रूपम्। ऋत्विजो हि धनेन संविभक्तव्या इत्यस्त्यनिरोधः। स्त्रीलिङ्गता तु नास्तीति ण्यदेव भवति। ननु `एतिस्तुशास्वृ' (3.1.109) इति क्यपा भवितव्यम् ? नैतदस्ति; वृञो हि तत्र ग्रहणम्, वृङश्चात्रोदाहरणम्।।
102. वह्यं करणम्। (3.1.102)
103. अर्यः स्वामिवैश्ययोः। (3.1.103)
`वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तन्त्रेणेह द्वावर्यशब्दावुच्चारितौ,तत्रैक आद्युदात्तः,अपरोऽन्तोदात्तः। य आद्युदात्तः स वैश्ये निपात्यते, इतरस्तु स्वामिनीति।।
104. उपसर्या काल्या प्रजने। (3.1.104)
`प्राप्तकाला काल्या' इति। `तदस्य प्राप्तस्य' (5.1.104) इत्यनुवर्त्तमाने `कालाद्यत्' (5.1.107) इति यत्। प्रजननम् = प्रजनः, भावे घञ्, `जनिवध्योश्च' (7.3.35) इति वृद्धिप्रतिषेधः। `उपसार्या' इति। उपसंक्रमणीत्येत्यर्थः।
105.अजंर्य सङ्गतम्। (3.1.105)
`जीर्यतेः' इति. `जॄष् झॄष् वयोहानौ' (धा.पा.1130, 1131)। `सङ्गमन' इति। सङ्गमनम् = सङ्गतिः। `ल्युट् च' (3.3.115) इति ल्युट्। एतेन सङ्तमित्यत्र `नपुंसके भावे क्तः' (3.3.114) इति दर्शयति। `कर्त्तरि यत्प्रत्ययो निपात्यते'इति। तृजादीनामपवादः। `अजरिता' इति। तृच्।।
106. वदः सुपि क्यप् च। (3.1.106)
`अनुपसर्ग इति वर्त्तते' इति। ननु च `सत्सूद्विष' (3.2.61) इत्यादौ सूत्रे वक्ष्यति-- एतदुपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति; एवञ्च तत एव ज्ञापकादुपसर्गे न भविष्यतीति किमिहानुपसर्गग्रहणानुवृत्त्या ? विस्पष्टार्थमित्येके। तत्र वाज्ञापनार्थमुपसर्गग्रहणं कर्त्तव्यम्; इह वानुपसर्गमनुवर्त्यमिति विकल्पदर्शनार्थमित्यपरे। `ब्रह्मोद्यम्' इति। ब्रह्मणो वदनमित्यर्थः। भावे क्यप्, पूर्ववत् संप्रसारणम्, `आद्गुणः' (6.1.87), उपपदसमासः।।
107. भुवो भावे। (3.1.107)
`यत् तु नानुवर्त्तते' इति। पूर्वसूत्रे चानुकृष्टत्वात्। `ब्रह्मभूयं गतः' इति। ब्रह्मत्वं प्राप्त इत्यर्थः। ननु च `तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवर्त्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामर्थ्याद्भाव एव भविष्यति, न कर्मणि, किं भावग्रहणेन ? इत्याह-- `भावग्रहणेन ? इ्तयाह-- `भावग्रहणमुत्तरार्थम्' इति। एतेन `हनस्त च' (3.1.108) इत्यत्रोपयोगमाह-- तत्र भाव एव यथा स्यात्। `भव्यम्' इति। अचो यत्' (3.1.97), धातोर्गुणः, `धातोस्तन्निमित्तस्यैव' (6.1.80) इत्यवादेशः।।
108. हनस्त च। (3.1.108)
`ब्रह्महत्या' इति। ब्रह्मणो हननमित्यर्थः। `धातः' इति। पूर्ववत् तत्वकत्वे। किमर्थं पुनर्घञ् प्रत्युदाह्रियते, न ण्यदित्याह-- `ण्यत्तु' इत्यादि। तत्रैव युक्तिमाह-- `अनभिधानात्' इति।अबिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति, न च हन्तेर्विहितेन ण्यता भावः शक्यतेऽभिधातुम्। तथा हि धात्य इत्युक्ते कर्मैव प्रतीयते, न भावः।।
109. एतिस्तुशास्वृदृजुषः क्यप्। (3.1.109)
`शिष्यः' इति। `शासु अनुशिष्टौ' (धा.पा.1075),` शास इदङहलोः' (6.4.34) इतीत्त्वम्, `शासिवसि'(8.3.60) इति षत्वम्। `आदृत्यः' इति। `दृङ आदरे' (धा.पा.1141), आङपूर्वः। `जुष्यः' इति। `जुषी प्रीतिसेवनयोः' (धा.पा.1288)। अथ किमर्थं क्यब्ग्रहणम्, यावता `वदः सुपि क्यप् च' (3.1.106) इत्यतः क्यब्ग्रहमनुवर्त्तत एवेत्यत आह-- `क्यबिति वर्त्तमाने' इत्यादि। `बाधकबाधनार्थम्' इति। एतद्विस्पष्टीकर्त्तुमाह-- `ओरावश्यके' इति। स्तुग्रहणस्यावकाशो यत्रावश्यकं न विवक्ष्यते-- स्तुत्य इति, ` ओरावश्यके' (3.1.125) इत्यस्यावकाशोऽन्यो धातुः-- अवश्यलाव्यमिति; इहोभयं प्राप्नोति-- अवश्यस्तुत्य इति, परत्वाद्बाधको ण्यत् स्यात्। पुनः क्यब्ग्रहणात् तमपि बाधित्वा क्यब्भवति। `वृग्रहणेन वृञो ग्रहणमिष्यते, न वृङः' इति। तत्कथम् ? `कृषिरजोः' (3.1.90) इत्यादेः सूत्रादिह परस्मैपदग्रहणमनुवर्त्तते, तेन वृशब्दो विशिष्यते-- परसमैपदंस्य यो वृशब्द इति। कश्च परस्मैपदस्य वृशब्दः ? यस्य परस्मैपदं प्रति निमित्त्भावो दृष्टः। वृञ एवोभयपदिनः स दृष्टः, न वृङः; तस्य नित्यात्मनेपदित्वात्। तेन वृञ एव ग्रहणं भवति, न वृङः।
`शंसिदुहि' इत्यादि। एभ्यः शंसिप्रभृतिभ्यो वा क्यब्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कर्त्तव्यम्। `शस्यम्' इति। `शन्सु स्तुतौ' (धा.पा.728), `अनिदिताम्' (6.4.24) इति नलोपः। `गुह्यम' इति। `गुहू संवरणे' (धा.पा.896)।
`अःङपूर्वादञ्जेः' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च पूर्ववत्। `अञ्जू व्यक्तिभ्रमणकान्तिगतिषु' (धा.पा.1458)। पूर्ववन्नलोपः। इयं च सर्पिषः संज्ञा।
`कथमुपेयम्' इति। इण एतद्रूपमिति मन्यमानस्य प्रश्नः। `ईङ एतद्रूपम्' इति. `ईङ गतौ' (धा.पा.1143) इत्यस्य `अचो यत्' (3.1.97) इति यति सत्येतद्रूपम्, न त्विणः। तस्य हि क्यपि सत्युपेत्यमिति भवितव्यम्।।
110. ऋदुपधाच्चाक्लृपिचृतेः। (3.1.110)
`क्लृपिचृतौ वर्जयित्वा' इति। `कृपू सामर्थ्ये' (धा.पा.762), `चृती {हिंसाश्रन्थनयोः' धा.पा.} हिंसाग्रन्थनयोः' (धा.पा.1324) इत्येतौ त्यक्त्वा। कृपेर्लत्वस्यासिद्धत्वादृदुपधत्वम्। `कल्प्यम्' इति। लत्वस्यामिद्ध्तवादृकारस्यैवाकारो गुणः। `ण्यदेव भवति-- कीर्त्त्यम्' इति। आर्धधातुकविवक्षायां चुरादिणिचः `णेरनिटि' (6.4.51) इति णिलोपे कृ-ते हलन्ततोपजायत इति कृत्वा `ऋहलोर्ण्यत्' (3.1.124) इति ण्यदेव भवति। `हलि च' (8.2.77) इति दीर्घः। ननु च `अचो यत्' (3.1.97) इत्यत्राज्ग्रहणस्य प्रयोजनमुक्तम्-- अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यमिति;एवञ्चेहापि णिचि यतैव भवितव्यम् ? एवं तर्ह्यनित्यण्यन्ताश्चुरादय इत्यण्यन्तादेवात्र ण्यद्भवतीत्यदोषः। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्ववत्।
पाणिभ्यां स्रष्टव्या `पाणिसर्ग्या रज्जुः' । `उपपदमतिङ्ट (2.2.19) इति समासः।
`समवपूर्वाच्च' इति। सृजेर्ण्यद्भवतीति सम्बध्यते। चकारः समुच्चये।न केवलं पाणावुपपदे ण्यद्वक्तव्यः; अपि तु समवपूर्वाच्च।।
111. ई च खनः। (3.1.111)
`खेयम्' इति। `खनु अवदारणे' (धा.पा.878), नकारस्य ईकारः, `आद्गुणः' (6.1.87)। अथ किमर्थं दीर्घ आदिश्यते, यावता ह्रस्वेऽपि कृते आद्गुणेन भवितव्यम्। न च ह्रस्वस्याद्गुणे कृते कश्चिद्विशेषः ? स्यादेतत्-- एकादेशस्तु तुग्विधावसिद्धो वक्तव्यः, तत्र यदि ह्रस्व आदिश्यते तदा ह्रस्व्सयाद्गुणे कृते तुग्विधावसिद्धत्वाद् ह्रस्वाश्रयस्तुक् स्यात्; दीर्घादेशे तु न भवति, अतो दीर्घादेशो वक्तव्य इति ? एतच्च नास्ति; यस्मात् पदान्तपदाद्योयं एवादेशः स तुग्विधावसिद्धो वक्तव्यः, न सर्वत्रेत्याह-- `दीर्घनिर्देशः। किमर्थं पुनर्द्वितीय सवर्णदीर्घत्वेन (6.1.101) द्व्योरिवर्णयोः प्रश्लेषो यथा स्यादित्येवमर्थो दीर्घनिर्देशः। किमर्थं पुनिर्द्वितीय इवर्णः, यावतैकेनैव खेयमिति रूपं सिध्यतीत्यत आह--` तत्र ' इत्यादि। द्वयोरिकारयोः प्रश्लेषनिर्देशः। तत्र यो द्वितीय इवर्णः सः `ये च' (6.4.109) इत्यात्त्वबाधा यथा स्यादित्येवमर्थः। `ये विभाषा' (6.4.43) इत्यस्यावकाशः-- खायते, खन्यते, इसि, अस्यादेशस्यावकाशो यस्मिन् पक्ष आत्त्वं नास्ति; आत्तवपक्षे तूभयं प्राप्नोति। उभयप्राप्तावसतीकारे पर्तवादन्तरङ्गत्वाच्चात्त्वं स्यात्, अस्मिंश्च सत्यात्त्वं बाधित्वेकार एव भवति। अन्तरङ्गत्वं पुनरात्त्वस्य यकारसामान्यमाश्रित्य विधानात्। इत्त्वस्य बहिरङ्गत्वम्; क्यब्विशेषमाश्रित्य विधानात्।।
112. भृञोऽसंज्ञायाम्। (3.1.112)
`भर्तव्या इत्यर्थः' इति। एतेन क्रियाशब्दत्वं भृत्यशब्दस्य दर्शयन् संज्ञाशब्दत्वमपाकरोति। `संपूर्वाद्विभाषा' इति। असंज्ञायामेवायं क्योप नित्यं प्रसक्तस्य क्यपो नित्यं प्रसक्तस्य विकल्पः। एतद्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोरपि योगयोः शेषभूतत्वादव्यवस्थितविभाषाविज्ञानाच्च लभ्यते।
`संज्ञायां पुंसि' इत्यादि। असंज्ञायामित्यस्य प्रतिषेधस्येति शेषः। एतेन पुंसि प्रतिषेधस्य चरितार्थतामाह-- यत एवं पुंसि चरितार्थः प्रतिषेधस्ततो न ते भार्या प्रसिध्यति। भार्याशब्दस्तव सूत्रकारस्य मते न प्रसिध्यतीत्यर्थः। पुंसि प्रतिषेधे हि चरितार्थे स्त्रियां क्यपा भवितव्यम्। ननु चासंज्ञायामित्युच्यते, संज्ञाशब्दश्च भार्याशब्दः, तथा हि अबिभ्रत्यपि देवदत्ते तस्य पत्नी भार्येत्युच्यते, तत्कुतः क्यप्प्रसङ्गः ? न ब्रूमः-- अनेन सूत्रेण क्यपा भवितव्यमिति किं तर्हि ? `संज्ञायां समजनिषद' (3.3.99) इत्यनेन, तत्र उत्तरमाह-- `स्त्रियां भावाधिकारोऽस्ति' इति। भावाधिकारशब्देनात्र भावस्याभिधेयभावोपगमलक्षणो व्यापारो विवक्षितः, न तु शास्त्रीयोऽधिकारः। स्त्रियाम् = स्त्रीप्रकरणे, `संज्ञायां समजनिषद' (3.3.99) इत्यादिना क्यपि विधीयमाने भावस्याधिकारः, शब्दशक्तिस्वाभाव्यात्। तत्र क्यब्विधीयमानो भाव एव भवति, न कर्मणि। `तेन भार्या सिध्यति' इति। कर्मणीत्यभिप्रायः। यस्मात् स्त्रियां भावाधिकारोऽस्ति। भाव एव वाच्यत्वेन व्याप्रियते, न कर्म,तेन कर्मणि भार्याशब्दः प्रसिध्यति। स्त्रियां भावाधिकारे हि भाव एव क्यपा भवितव्यम्। कर्मणि तु ण्यतैव।।
113. मृजेर्विभाषा। (3.1.113)
ऋदुपधत्वात् प्राप्तविभाषेयम्। `ऋदुधाच्चाक्लृपिचृतेः' (3.1.110) इति क्यपो विधानात्। `परिमार्ग्यः' इति। पूर्ववत् कुत्वम्, `गृजेर्वृद्धिः' (7.2.114)।।
114. राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः। (3.1.114)
`राज्ञा सोतव्यः' इति। वाक्यविशेषेण राजनि तृतीयान्त उपपदे कर्मणि निपातनमिति दर्शयति। `राजा वेह सूयते' इत्यनेनापि राजनि प्रथमान्त उपपदेऽधिकरणे निपातनमिति। `षुञ् अभिषवे' (धा.पा.1247) इत्यस्मात् क्यप्। तत्र चास्य तुगभावो दीर्घत्वञ्च निपात्यते। `सूसर्तिभ्याम्' इति। `षू प्ररणे' (धा.पा.1408), `सृ गतौ' (धा.पा.935)- आभ्यां यथाक्रमं `अचो यत्' (3.1.97) इति यति प्राप्ते `ऋहलोर्ण्यते' (3.1.124) इति च क्यब् निपात्यते। `सुवति' इति। कर्मणि। कार्ये लोकान्' प्रेरयतीति। तस्मिन् ह्युदिते लोकस्य क्रियाप्रवृत्तिः। `पक्षे यति प्राप्ते' इति। `वदः सुपि क्यप् च' (3.1.106) इत्यनेन। मृषाववनम् = मृषोद्यम्। क्यप्, सम्प्रसारणम्; `आद्गुणः' (6.1.87), उपपदसमासः। `रोचतेऽसौ'इति। कर्त्तृप्रत्ययान्तेनार्थमुपदर्शयन् कर्त्तरि निपातनं दर्शयति। तृजादौ प्राप्ते क्यब् निपात्यते। `गुपेः' इति। `गुप गोपने' (धा.पा.970), `गुपू रक्षणे' (धा.पा.395) इत्यस्य वा। `अव्ययः' इति। `व्यण {भयसंचलनयो धा.पा.} भयचलनयोः' धा.पा.764)--अस्मात् कर्त्तरि तृजपवादः क्यब् निपात्यते।।
115. भिद्योद्ध्यौ नदे। (3.1.115)
`उज्झेश्च' इति। `उज्झ उत्सर्गे' (धा.पा.1304)। `कर्त्तरि क्यब् निपात्यते' इति। तृजादेरपवादः।।
116. पुष्यसिद्ध्यौ नक्षत्रे। (3.1.116)
`पुषेः सिद्धेश्च' इति। `पुष पुष्टौ' (धा.पा.1182) `{षिधु धा.पा.}सिधु संराद्धौ (धा.पा.1192)। `अधिकरणे क्यब् निपात्यते' इति। ल्युटोऽपवादः।
117. विपूयविनीयजित्या मुञ्जककल्कहलिषु। (3.1.117)
`विपूर्वात् पवतेः' इति। `पङ पवने' (धा.पा.966)। `नयतेश्च' इति। विपूर्वादित्यपेक्षते। `यति प्राप्ते' इति। त्रयाणामप्यजन्तत्वात्। विपूयते विपूयः। विनीयते = सिद्धत्वं प्राप्यते विनीयः। तैलेन घृतेन वा त्रिफलादिद्रव्यसमवेतेन साध्यः कश्चिदौषधविशेषः कल्क इत्युच्यते। जेतव्यो `जित्यः' । बृहद्धलम् = हलिः।।
118. प्रत्यपिभ्यां ग्रहेश्छन्दसि। (3.1.118)
`प्रतिगृह्यम्' इति। `ग्रहिज्या' (6.1.16) इत्यादिना संप्रसारणम्। `कुगतिप्रादयः' (2.2.18) इति समासः।।
119. पदास्वैरिबाह्यापक्ष्येषु च। (3.1.119)
`अस्वैरी' इति.`ईर {गतौ कम्पने च -- धा.पा.}(धा.पा.1018)। स्वेन स्वयमीरितुं गन्तूं शीलमस्येति ताच्छीलिको णिनिः। निपातनाद्वृद्धिः स्वरी = स्वतन्त्रः। अस्वैरी उच्यते। `बाह्यायाम्' इति। बहिर्भूतायामित्यर्थः। `बहिषष्टिलोपश्च' (वा.378) इत्युपसंख्यानाद्यञ्, तत्र च टिलोपः। `पक्ष्ये चार्थे' इति। पक्ष्यशब्दो वर्गमाचष्टे। पक्षे भवः पक्ष्य इति। दिगादित्वाद्यत्। प्रगृह्यत इति प्रगृह्यं पदम्। असननिकर्षोऽत्र गृह्णातेरर्थः। स्वरा हि तत्र न सन्निकृष्यन्ते सन्निधीयन्त इत्यसन्निकर्षः। अवगृह्यत इत्यवगृह्यम्। `यस्यावग्रहः क्रियते' इति। तत्र समुदायपदेऽवयवपदानि विविधान्यवगृह्य विच्छिद्याख्यायन्ते। तेनावयवानामवगृह्यत्वादवगृह्यमित्युच्यते। `गृह्यकाः' इति। `अनुकम्पायाम्' (5.3.76) इति कन्। `गृहीतकाः' इति। संयताः परतन्त्रीकृता इति यावत्। `अन्यत्र' इति। पुंसि नपुंसके च। `वासुदेवगृह्याः' इति। षष्ठीसमासः।।
120. विभाषा कृवृषोः। (3.1.120)
`वृषेश्च' इति। वृषु {प्लुषु दाहे-धातु पाठः-703} प्लुषु मृषु मेचने' (धा.पा.706,707)।।
121. युग्यं च पत्त्रे। (3.1.121)
`पतन्त्यनेनेति पत्त्रम्' इति। `दाम्नीशस' (3.2.182) इत्यादिना ष्ट्रन्। ` युग्यम्' इति। `युजिर् योगे' (धा.पा.1444)। योजनीर्ये --- युज्यते वाहनेन {गमनमिति इति मुद्रितः पाठः} गवादिकमिति युग्यम्।।
122. अमावस्यदन्तरस्याम्। (3.1.122)
`अमावस्यत्' इति। ण्यत्प्रत्ययान्तमेतन्निपातनम्, न क्यप्प्रत्ययान्तमिति ज्ञापनार्थं तकारानुबन्धोच्चारणम्; अन्यथा क्यपः प्रकृतत्वात् क्यप्प्रत्ययान्तमेतदिति सम्भाव्येत। स चापि तित्प्रत्ययो ण्यदिहाभिप्रेतः, न यत्; अन्यथा हि निपातनमर्थकं स्यात्। यत्प्रकरणे `अमावसेरन्यतरस्याम्' इत्येव ब्रूयात्। दोषवत्त्वाच्च यत्प्रत्ययान्तनिपातस्य। दोषस्तूत्तरत्राविष्करिष्यते। यश्च यत्प्रत्ययान्तनिपातने दोषः स क्यबन्तेऽपि सम्प्रसारणाभावश्च निपातयितव्यतामापद्येत; तस्माण्ण्यत्प्रत्ययान्तमेतन्निपातनमिति मत्वाह-- `कालेऽधिकरणे ण्यत्प्रत्ययो भवति' इति । एकदेशविकृतत्वादिना ण्यत्प्रत्ययान्तनिपातनस्य गुणं दर्शयति। वृद्ध्यभावो हि ण्यति निपातितोऽमावस्याशब्द एव। अमावस्याशब्दो नात्रोपतिष्ठते वृद्ध्यभावपक्षे। ततश्च `एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इत्यमावस्याशब्दे गृह्यमाणेऽमावास्याशब्दस्यापि ग्रहणं भवति। तेन `पू्रवाह्णापराह्णार्द्रामूलप्रदोषावस्काराद्वुन्' (4.3.28) इत्यनुवर्त्तमाने `अमावास्याया वा' (4.3.30) इत्यमावास्याशब्दे वुन्नणौ विधायमानावमावस्याशब्दस्यापि सिध्यत ः।
`अमावसेः' इत्यादि। एकस्या अपि प्रकृतेर्वृद्धिभाक्त्वावृद्धिभाक्त्वधर्मभेदेन भेदस्य विवक्षितत्वाद्द्विवचने निर्देशः। अहमित्यात्मानं व्यपदेशयन्नपरेऽन्यथा कुर्वन्तीति सूचयति। `ण्यतोः' इति। ण्यत्प्रत्ययान्तयोरित्यर्थः। `निपातयाम्यवृद्धिताम्' इति। अन्यतरस्यामिति शेषः। तेन किं सिध्यीत्याह-- `तथैकवृत्तिता तयोः' इति। प्रसिद्ध्यतीति वक्ष्यमाणेन सम्बन्धः। क्वचित् `तथैकवृत्तिताम्'इति पाठः। तत्र निपातयामीति प्रकृतेन सम्बन्धः। निपातयामीत्यस्य च साधयामीत्येषोऽर्थः। `तयोः' इति। अमावास्याऽमावस्ययोः प्रत्यवमर्शः। वृत्तिः पुनर्वुन्नणोः प्रत्यययोरुत्पत्तिः। एका तुल्या ययोर्वृत्तिस्तावेकवृत्ती,तद्भाव एकवृत्तिता। सा ण्यत्प्रत्ययमुत्पाद्य तत्र वृद्ध्यभावनिपातनेन सिध्यतीति;एकदेशविकृतस्यानन्यत्वात्। `स्वरश्च मे प्रसिध्यति' इति। `तित् स्वरितम्' (6.1.185) इति। अन्तस्वरितत्वचेष्टम्। `सिध्यति' इति। ये त्वमापूर्वस्य वसेर्यतं निपातयन्ति, अन्यतरस्यांग्रहणाच्च पक्षे ण्यतमिच्छन्ति,तेषां यद्यप्यमावस्येति रूपं सिध्यति तथापि यत्प्रत्ययपक्षे स्वरो न सिध्यति; `यतोऽनावः' (6.1.213) इति स्वरितत्वापवाद आद्युदात्तत्वं वस्याशब्दस्य प्राप्नोति। अमाशब्देनापि समासे कृते `गतिकारकोपपदात् कृत्' (6.2.139) इतिकृदन्तस्योत्तरपदस्य प्रकृतिस्वरे कृते वस्याशब्द एवाद्युदात्तः स्यात्। अन्तस्वरितस्चेष्यते। एकवृत्तितापि पूर्वोक्ता न सिध्यति;शब्दान्तरत्वात्। एको हि यत्प्रत्ययान्तः अपरश्च ण्यत्प्रत्ययान्त इति ण्यति वृद्ध्यभावो निपात्यते।।
123. छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि। (3.1.123)
`क्यपि प्राप्ते' इति। ऋदुपधत्वात्। `आद्यन्तविपर्ययः' इति ककारस्यादेरन्तत्वं निपात्यते। तकारस्यान्तस्यादित्वम्। `ह्वयतेः' इत्यादि। यदा `ह्वेञ् स्पर्द्धायाम्' (धा.पा.1008) इत्यस्मात् क्यप् तदा यजादित्वात् (6.1.15) सम्प्रसारणम्, `हलः' (6.4.2) इति दीर्घः। यदा तु `{हु दानादनयोः' धा.पा.}हु दाने' (धा.पा.1083) इत्यसमात्, तदा तुगभावो निपात्यते दीर्घत्वं च। देवा हूयन्तेऽस्मिन्निति देवहूवः। `{उच्छिष्यम् इति काशिका} अच्छिव्यः' इति। `शिष्लृ {विशेषणे-धा.पा.} विशरणे' (धा.पा.1451)। `शश्छोऽटि' (8.4.63) इति छकारः, `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्। ` आभ्यां यत्प्रत्ययः' इति। ऋकारान्तत्वाण्ण्यति प्राप्ते। `स्त्रियामव निपातनम्'इति। अन्यथा स्तर्येति स्त्रीलिङ्गनिर्देशोऽपार्थकः स्यात्। `आपृच्छ्यः' इति। ग्रह्यादिना (6.1.16) सम्प्रसारणम्। `प्रतिषीव्यः' इति। `हलि च' (8.2.77) इत दीर्घः' `वदेर्ण्यत्' इति। `वदः सुपि क्यप् च' (3.1.106) इति क्यपि यति च प्राप्ते। `भाव्यः, स्ताव्यः' इति। भवतेः स्तौतेश्च यदपवादो ण्यत्।
`निष्टर्क्ये' इत्यादि। सुखोपग्रहणार्थौ सङग्रहश्लोकौ। `व्यत्ययम्' इति। आद्यन्तविपर्ययमित्यर्थः। `ण्यदेकस्मात' इति। कर्मणि ल्यब्लोप एषा पञ्चमी। एकं निष्टर्क्यशब्दमुद्दिश्य ण्यद्भवति। एकं शब्दं साधयितुं ण्यद्भवतीति यावत्। `चतुर्भ्यः क्यप्' इति। तादर्थ्य एषा चतुर्थी। ये देवहूयादयोऽनन्तराश्चत्वारस्तदर्थ तत्सिद्ध्यर्थ क्यब् भवतीति। `चततुर्भ्यश्च यतो विधिः' इति। एषापि तादर्थ्यं एव चतुर्थी। तदनन्तरा ये चत्वारो मर्यादयः खान्यपर्यन्तास्तदर्थम् = तत्सिद्ध्यर्थं यतो विधिर्भवति। `णय्देकस्मात्' इति। एषामपि ल्यब्लोपे कर्मणि पञ्चमी। खान्यमेकं शब्दमुद्दिश्य ण्यद्भवति। खान्यशब्दं साधयितुमित्यर्थः। `यशब्दश्च' इति। एकस्मादित्यनुकर्षणार्थः। देवयज्याशब्दमुद्दिश्य यशब्दो भवति। `द्वौ क्यपौ' इति। आपृच्छ्यप्रतीषीव्यशब्दयोः सिद्ध्ये द्वौ क्यपौ भवतः। `ण्यद्विधिश्चुतः' इति। चतुरो वारान् ण्यद्भवतीत्यर्थः। स पुनः परिशिष्टेषु ब्रह्मवाद्यादिषु।
अथ वा-- `ण्यदेकस्मात्' इत्येकस्माद्धातोरित्यर्थः। `चतुर्भ्यः क्यप्' इति। चतुर्भ्यो धातुभ्यः क्यब् भवतीति। ननु च नयतिरेकएव धातुः, तत्कथं चतुर्भ्यो धातुभ्य इत्युच्यते ? उपसर्गभेदादेकस्यापि भेदो विवक्षित इत्यदोषः। `चतुर्भ्यश्च यतो विधिः' इति। तदनन्तरेभ्यश्चतुर्भ्यो धातुभ्यो यतो विधिरित्यर्थः। `ण्यदेकस्मात्' इति. खन एकस्माद्धातोर्ण्यद्विधिः। `यशब्दश्च' इति। देवयज्याशब्द एकस्माद्धातोर्यशब्दो भवति। `द्वौ क्यपौ' इति। आपृच्छ्यप्रतिषीव्यशब्दयोः सिद्ध्य आप्रच्छिप्तिषिवशब्दाभ्यां द्वौ क्यपौ भवतः।।
124. ऋहलोर्ण्यत्। (3.1.124)
`पञ्चम्यर्थे षष्ठी' इति। `व्यत्ययो बहुलम्' (3.1.85) इत्यनेन। कस्याः पुनः पञ्चम्या अर्थे षष्ठी ? दिग्योगलक्षणायाः। प्रत्ययविधौ हि `परश्च' (3.1.2) इति सम्बन्धात् पञ्चम्या भाव्यम्।।
125. ओरावश्यके। (3.1.125)
`अवश्यम्भाव आवश्यकम्' इति। मनोज्ञादित्वाद्वुञ्। एतदेव ज्ञापकम्-- अव्ययानां भमात्रे टिलोपो भवतीति। अत्र द्वयं सम्भाव्यते-- उपपदत्वम्, आवश्यक उपपद इति; उपाधिकत्वञ्च, आवश्यके द्योत्य इति। तत्र यद्येवं ज्ञाप्यते-- आवश्यकउपपद इति, तदोपपदरहितादावश्यके द्योत्ये न स्यात्। `लाव्यं पाव्यम्' इति।
आवश्यके द्योत्य इत्येवं विज्ञायत इत्याह-- `आवश्यके द्योत्ये' इति। एतच्च प्रत्यासत्या लभ्यते। उपाधिर्हि प्रत्ययान्तद्योत्यत्वादन्तरङ्गः, उपपदेन च सम्बन्धो बहिरङ्गः, तदर्थस्य पदान्तरवाच्यत्वात्। `स्वरसमासानुपपत्तिः' इति। उपपदे ह्यावश्यके विज्ञायमाने `उपपदमतिङ' (2.2.19) इति समासो भवति। तस्मिंश्च सति `गतिकारकोपपदात् कृत्' (6.2.139) इत्युपपदाश्रय उत्तरपदप्रकृतिस्वरत्वम्, न तित्स्वरो भवति। द्योत्यपक्षे तु समासो न स्यात्; लक्षणाभावात्। अथापि कथञ्चिदुपपदसमासादन्यः समासः स्यात् ? एवमप्युपपदसमासाश्रयः स्वरो न स्यात्; ततश्च तित्स्वरो न लभ्येत्, समासान्तोदात्तत्वं हि स्यात्। `अवश्यलाव्यम्' इति। `लुम्पेदवश्यमः कृत्ये' इति मलोपः। `मयूरव्यंसकादित्वात्' इत्यादि। मयूरव्यंसकादेराकृतिगणत्वादवश्यलाव्यप्रभृतलाव्यप्रभृतयस्तत्र द्रष्टव्या इति दर्शयति। स्वरः कथमित्याह-- `उत्तरपदप्रकृतिस्वरत्वे च' इत्यादि. तत्रायं यत्नः-- `गतिकारकोपपदात् कृत्' (6.2.139) इत्यत्र `षट् च काण्डादीनि' (6.2.135) इत्यतश्चकारोऽनुवर्त्तिष्यते, स चानृक्तसमुच्चयार्थः। तेनावश्यलाव्यमित्यादावपि प्रकृतिस्वरो भवतीति।।
126. आसुयुवपिरपिलपित्रपिचमश्च। (3.1.126)
`यतोऽपवादः' इति। `षृञ् अभिषवे' (धा.पा.1247), `यु मिश्रणे' (धा.पा.1033) अनयो रजन्त्वात्। `डुवप बीजतन्तुसन्ताने' (धा.पा.1003), `रप लप व्यक्तायां वाचि' (धा.पा.401,402), `त्रपूष् लज्जायाम्' (धा.पा.374), `चमु अदने' (धा.पा.469)--एषामदुपधत्वनात् पवर्गान्तत्वात्। `दाभ्यम्' इति। दभिर्धातुष्वपठित एव प्रकृत्यन्तरमस्ति चुलुम्पवत्।।
127. आनाय्योऽनित्ये। (3.1.127)
`ण्यन्निपात्यते' इति। यति प्राप्ते। यद्यनित्ये निपात्यते घटादिष्वप्यतिप्रसङ्गः, तेषामनित्यत्वादित्याह-- `रूढः' इत्यादि। सत्यपि प्रवृत्तिनिमित्तत्वे रूढ्या नियतविषयत्वाच्शब्दा विशिष्ट एवार्थे वर्त्तन्ते, नाविशिष्टे, मयूरादिशब्दवत्। न हि मह्यां रौतीति सर्वो मयूर इत्युच्यते, नापि गच्छतीति सर्वो गौरित्युच्यते, किं तर्हि ? विशिष्ट एव प्राणी। तस्माद्रूढिशब्दाद्दक्षिणाग्नावेव वर्त्तते, न घटादिषु। `नित्यमजागरणात्' इति। सततमज्वलनादित्यर्थः। ज्वलनमेव हि तस् जागरणम्। दक्षिणाग्नावपि विशिष्ट एवावतिष्ठते न सर्वत्रेति दर्शयितुमाह-- `यश्च' इत्यादि। किं पुनस्तस्य योनिवकल्पोऽस्ति, येनैवं विशिष्यते ? इत्याह-- `तस्य हि' इत्यादि। योनिः = कारणमित्यर्थः। `वैश्वकृलात्' इत्यादिना योनिविकल्पं दर्शयति।
`आनाय्योऽनित्य इति चेत्' इति। घटादिष्वपि प्राप्नोतीति शेषः। `दक्षिणाग्नौ कृतं भवेत्' इति। `आनाय्यः' इत्येतस्मिन्निपातनं दक्षिणाग्नावेव विशिष्टे कृतं भवेत्, नान्यत्र। लिङ सम्भावनायाम्। एतत् सम्भाव्यते, नान्यथेत्यर्थः। `एकयोनौ च तं विद्यात्' इति। तमानाय्यशब्दमाहवनीयेन य एकयोनिर्दक्षिणाग्निस्तत्र विद्याजानीयादित्यर्थः। चशब्दोऽवधारणे-- एकयोनावेव। `आनेयो ह्यन्यथा भवेत्' इति। घटादावनित्ये दक्षिणाग्नौ चाहवनीयेन भिन्नयोनौ `अचो यत्' (3.1.97) इति यति कृत आनेय इत्येवं भवति।।।
128. प्रणाय्योऽसम्मतौ। (3.1.128)
अविद्यमाना सम्मतिरित्यनेन वाक्यविशेषेण बहुव्रीहिं दर्शयंस्तत्पुरुषाशङ्कां निराकरोति-- `सम्मतिः सम्मतता' इति। सम्मत इति पूजित इत्युच्यते। सम्मतस्य भावः सम्मतता। एतेन सम्मतिशब्देनेह पूजिताभिधेयतेति दर्शयति।
`यद्येवम्' इत्यादि। अविद्यमानपूजे चौरादौ प्रणाय्यशब्दस्यान्तेवासिनि प्रयोगो नोपपद्यते। न हि पूजाऽन्तेवासिनि न विद्यत इत्यभिप्रायः। `ब्रह्म प्रब्रूयात्' इति ब्रहमशब्देनात्र वेद उच्यते। `सम्मतिरभिलोषोऽप्युच्यते' इति। न केवलं पूजेत्यपिशब्देन दर्शयति। `तदभावेन' इति। अभिलाषाभावेन। `निष्कामतया' इति। भावभोगाभिलाषरहिततयेत्यर्थः।।
129. पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिदेनीषु। (3.1.129)
`पाय्य' इति।` आतो युक्' (7.3.33) `हविर्विशेषेष्वतिष्ठते' इति। यत्रैवायं रूढस्तत्रैवावतिष्ठते। न हविर्मात्रे। `धाय्या' इति । पूर्ववत् युक्। `ऋग्विशेषस्य वाचकः' इति। सर्वा ऋचो न सामिधेनीशब्देनोच्यते, किं तर्हि ? समिदाधानमन्त्रः। तथा हि समिदाधानमन्त्रे सामिधेनीशब्दो व्युत्पाद्यते। सामिधेन्यपि न सर्वा ऋगभिधीयते, किं तर्हि ? काचिदेवेति दर्शयन्नाह-- `तत्र' इत्यादि। कथं पुनः सामान्येन निपातनां क्रियमाणं विशेषविषयं लभत इत्याह-- `रूढिशब्दो ह्यमम् ' इति।धाय्याशब्दो रूढिशब्द ऋग्विशेषस्य वाचकः । सैवानेनोच्यते, नान्या। कथं पुनर्ज्ञायते रूढिशब्दोऽयमित्यत आह-- `तथा च' इत्यादि। यदि रूढिशब्दोऽयं न स्यात् सामिधेन्यां निपातितत्वाद् धाय्याः शंसतित्यत्र ऋग्विशेषे न दृश्येत, दृश्यते चासौ। तसमाद्रूढिशब्दोऽयमित्यवसीयते। यदि तर्ह्यसामिधेन्यामपि दृश्यते, सामिधेनीग्रहणमनर्थकं स्यात् ? नानर्थकम्; रूढिविशेषोपलक्षणार्थत्वात्।।।
130. क्रतौ कुण्डपाय्यसञ्चाय्यौ। (3.1.130)
`पिबतेः' इति। `पा पाने' (धा.पा.925)। `अधिकरमे यत्प्रत्ययः' इति। ल्युटि प्राप्ते। किं पुनः कारणं ण्यतं त्यक्त्वा यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्यते ? अत आह-- `यतोऽनाव इति स्वरः' इति। यत्प्रत्ययान्तत्वे ह्युत्तरपदाद्युदात्तत्वं भवति। ण्यत्प्रत्ययान्तत्वेऽन्तस्वरितत्वं स्यात्। `कुण्डपानम्' इति। क्रतोरन्यत्र ल्युडेव भवति।।
131. अग्नौ परिचाय्योपचाय्यसमूह्याः। (3.1.131)
`संपूर्वाद्वहेः' इत्यादि। हलन्तत्वाण्ण्यत् सिद्ध एव; तस्मिंस्तु सति सम्प्रसारणं न प्राप्नोति; अकित्त्वात्। ण्यतः कृतेऽपि सम्प्रसारणे `हलः' (6.4.2) इति दीर्घत्वं न प्राप्नोति; यसमादङ्गावयवाद्धल उत्तरं यत् सम्प्रसारणं तदन्तस्याङ्गस्य दीर्गत्वं विधीयते; न चायमेवम्प्रकारोऽस्ति,अत उभयं निपात्यते। न सम्पूर्वादूहेः सामान्यविहितेन ण्यतैव सिध्यति। अग्नावेव वहेः सम्पूर्वाण्ण्यद्यथा स्यात्, इह मा भूत्-- संवोढव्यो ब्राह्मण इति।।
132. चित्याग्निचित्ये च। (3.1.132)
`तेनान्तोदात्तत्वं भवति' इति। यत्प्रत्ययान्तनिपातने हि प्रत्ययस्वरेणान्तोदात्तत्वं पदस्य भवति। ण्यति तु सति तित्स्वरितत्वं भवति। तस्मात् प्रकृतं त्यक्त्वा यप्रत्ययो निपात्यत इति भावः।।
133. ण्वुल्तृचौ। (3.1.133)
`चकारः सामान्यग्रहणार्थः' इत्यादि। तृज्तृनोः सामान्यग्रहणं यथा स्यादिति। असति तु तस्मिन् `निरनुबन्धकरणे न सानुबन्धकस्य' (व्या.प.53) इति तृनो ग्रहणं न स्यात्। अथान्तोदात्तार्थः कस्मान्न भवति ? तस्य प्रत्ययस्वरेणैव सिद्धत्वात्।।
134. नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। (3.1.134)
`प्रत्यासत्त्या पचिनैवादिशब्दस्य सम्बन्धो मा विज्ञायीत्यत आह-- `प्रत्येकम्' इत्यादि।
`नन्दिवाशि' इत्यादि। `टुनदि सममृद्धौ' (धा.पा.67), `वाशृ शब्दे' (धा.पा.1163), `मदी हर्षे' (धा.पा.1208), `दुष वैकृत्ये' (धा.पा.1185), `राध साध संसिद्धौ' (धा.पा.1262,1263), `शुभ शुम्भ शोभायाम्' (धा.पा.1321,1322), `रुच दीप्तौ' (धा.पा.745)-- एभ्यो धातुभ्यो ण्यन्तेभ्यः संज्ञायां ल्युर्भवति। नन्दयतीति। नन्दनमित्येवमाद्युदाहरणम्। `दूषणम्' इति। `दोषो णौ' (6.4.90) इत्यूत्त्वम्। अण्यन्तानां त्वेषामसंज्ञायां संज्ञायां च तृजादय एव भवन्ति। ग्रह्यादीनां नन्द्यादीनाञ्च गणे पाठस्येदमेव प्रयोजनम्-- संज्ञाविशिष्टविषये तेषां साधुत्वं यथा स्यात्। अन्यथा हि प्रकृतीरेव गणे पठित्वेह चादिशब्देन ता उपलक्ष्य प्रत्ययं विदध्यात्। `सहितपि' इत्यादि। `षह मर्षणे' (धा.पा.1809), `तप सन्तापे' (धा.पा.985), `दमु उपशमे' (धा.पा.1203) - एभ्यः संज्ञायामण्यन्तेभ्यो ल्युः। `जल्पनः' इत्यादि। `जप जल्प व्यक्तायां वाचि' (धा.पा.397,398), `रमु क्रीडायाम्' (धा.पा.853), `दृप {हर्षमोहनयोः-धा.पा.} हर्षणमोचनयोः' (धा.पा.1196), `कदि क्रदि आह्वाने रोदने च' (धा.पा.70,71), `कृष विलेखने' (धा.पा.990) हृषु अलोके' (धा.पा.709),`अर्द हिंसायाम्' (धा.पा.1828), जनमर्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते ल्युः। `यु {मिश्रणेऽमिश्रणे च-धा.पा.} मिश्रणे' (धा.पा. 1033), `षूद क्षरणे' (धा.पा.1717), मधुं सूदयतीति मधुसूदनः। अत्रापि कर्मण्यणि प्राप्ते ल्युः। `ञिभी भये' (धा.पा. 1084)। विपूर्वात् `हेतुमति च' (3.1.26) इति णिच्; `भियो हेतुभये षुक्' (7.3.40)।`लवणः' इति। `लूञ् छेदने' (धा.पा.1483)। `निपातनाण्णत्वम्' इति। कृतणत्वस्य गणे पाठो निपातनम्। `णश अदर्शने' (धा.पा.1194) विपूर्वः, `दमु उपशमे' (धा.पा.1203)- द्वावप्येतौ हेतुमण्णिजन्तौ। वित्तं विनाशयतीति वित्तविनाशनः। कुलं दमयतीति कुलदमनः। `मितां ह्रस्वः'(6.4.92) इति ह्रस्वः, कर्मण्यणि प्राप्ते ल्युः।
`ग्रह' इत्यादि। `ग्रह उपादाने' (धा.पा.1533), `षह मर्षणे' (धा.पा.1809) उत्पूर्वः। `तसु {उपक्षये--धा.पा.}क्षेपणे' (धा.पा.1212), `दसु च' (धा.पा.1213),दसिवत् पूर्वः। `भस भर्त्सनदीप्त्योः' (धा.पा.1100) उत्पूर्वः। `ष्ठा गतिनिवृत्तौ' (धा.पा.928), `आतो युक्'(7.3.33)। स्थायी। `मत्रि {गुप्तपरिभाषणे' धा.पा.} गुप्तभाषणे' (धा.पा.1679), चुरादिणिजन्तः। `मृद क्षोदे' (धा.पा.1515) संपूर्वः। संमृद्नातीति संपूर्वादेव यथा स्यात्। `रक्षश्रुवसवपशां नौ' इति। `रक्ष पालने' (धा.पा.658), `श्रु श्रवणे' (धा.पा.942), `डुवप बीजतन्तुसन्ताने' (धा.पा.1003), `शो तनूकरणे' (धा.पा.1145)-- एषां निशब्द उपपदे णिनिः। `निशायी' इति। पूर्ववद्युक्। `याचि' इत्यादि। `टुयाचृ याच्ञायाम्' (धा.पा.863), `हृञ् हरणे' (धा.पा.899) , व्याङ्पूर्वः, पुनः स एव संपूर्वः, `वज व्रज गतौ' (धा.पा.252,253), वद व्यक्तायां वाचि' (धा.पा.1009), `वस निवासे' (धा.पा.1005) --एषां प्रतिषिद्धानां णिनिर्भवति। `प्रतिषिद्धानाम्' इति। `प्रतिषिद्धार्थानामित्य्रथः। प्रतिषिद्धार्थतांच नञ्पूर्वाणामेव भवतीति नञ्पूर्वेभ्यो णिनिर्विज्ञायते। कथं पुनः प्रतिषिद्धानां प्रयोगः ? उपचारसत्तयामप्रतिषेधाददोषः। न हि मुख्यैव पदार्थानां सत्ता; किन्तूपचरिताऽपि यथोक्तमर्थद्वारेण पदार्थानामन्या सत्तौपचारिकीति। तत्र मुख्या या सत्ता तस्या एव प्रतिषेधः, न तु बुद्धिस्थाया औपचारिक्या इति तन्निबन्धनप्रयोगो न विरुध्यते। `अचाम्' इत्यादि। अजन्तानां धातूनामचित्तकर्त्तृकाणां प्रतिषिद्धानां णिनिर्भवति। अविद्यमानं चित्तमस्येति अचित्तः स कर्त्ता येषां ते तथोक्ताः। अर्थद्वारकं चेदं विशेषणम्। अर्थस्य ह्यचित्तकर्त्तृकत्वात् तदभिधायिनो धातव उपचारेण तथोच्यन्ते। `विशयी विषयी देशे' इति। विशययिविषयिशब्दौ देशेऽभिधेये णिनिप्रत्ययान्तौ साधू भवतः। `शीङ स्वप्ने'((धा.पा.1032), `षिञ् बन्धने' (धा.पा.1477)--एतयोर्विपूर्वयोर्णिनिः। वृद्ध्यभावश्च निपातनात्। अभिभावी भूते' इति। अभिभाविशब्दो भूतकाले णिनिप्रत्ययान्तः साधुर्भवति। भवतेरभिपूर्वात् णिनिः। अभिभूतवानित्यभिभावी। `अपराधी, उपरोधी' इति। `राध साध संसिद्धौ' (धा.पा.1262,1263), `रुधिर् आवरणे' (धा.पा.1438)- आभ्यामपोपपूर्वभ्यां णिनिः। `परिभावी, परिभवी' इति। भवतेः परिपूर्वस्य। पक्षे वृद्धयभावः।
`पच' इत्यादि। `डुपचष् पाके' (धा.पा.996), `वच परिभाषणे' (धा.पा.1842), `डुवपबीजतन्तुसन्ताने {छेदनेऽपि--धा.पा.}'(धा.पा.1003), `वद व्यक्तायां वाचि' (धा.पा.1009), `चल कम्पने'(धा.पा.832), `शल गतौ' (धा.पा.843), `पत्लु गतौ' (धा.पा.845)। `नदट्' इति। `{णद' -धा.पा.}नद अवक्ते शब्दे' (धा.पा.54)। टकारानुबन्धो ङीबर्थः। `{भषट्-काशिका} भसट्' इति। `{भष भर्त्सने'} भस भर्त्सनदीप्त्योः' (धा.पा.1100) टकारो ङीबर्थः। `गृ निगरणे' (धा.पा.1410), `मिष स्पर्द्धायाम्' (धा.पा.1352), `कुप क्रोधे'(धा.पा.1233), `मिह सेचने' (धा.पा.992), `तॄ प्लवनतरणयोः' (धा.पा.969), `चुर स्तेये' (धा.पा.1534), `गाहू विलोडने' (धा.पा.649), `जॄष् झॄष् वयोहानौ' (धा.पा.1130,1131), `मृङ प्राणत्यागे' (धा.पा.1403), `क्षमूष् सहने' (धा.पा.442), `तुद व्यथने' (धा.पा.1281), `मृद् क्षोदे' (धा.पा.1515), `दिवु क्रीडादौ' (धापा.1107), `नृती गात्रविक्षेपे' (धा.पा.1116), `व्रण गात्रचूर्णने' (धा.पा.1937) चुरादिः; `दृशिर् प्रेक्षणे' (धा.पा.988)। `डुभृञ् धारणपोषणयोः' (धा.पा.1087)- अस्माज्जारशब्द उपपदेऽच्। जारं बिभर्तीति `जारभरः'। पचेः शुन्युपपदे कर्मण्यणपदादोऽच्-- श्वानं पचतीति `श्वपचः'। `आकृतिगणः' इति। पचादिसम्बन्धिन आदिशब्दस्य प्रकारार्थत्वात्। आकृतिगणत्वे चास्य चक्रधरादयः सिद्धा भवन्ति।।
135. इगुपधज्ञाप्रीकिरः कः। (3.1.135)
`विक्षिपः' इति। कित्त्वाद्गुणाभावः। `ज्ञः' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। `प्रियः' इति। `प्रीञ् तर्पणे' (धा.पा.1836), इयङ। `किरः' इति। `कॄ विक्षेपे' (धा.पा.1409), `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रपरत्वम्। अथ कथं देवादयः सिध्यन्ति, यावता दिवादीनामिगुपधत्वात् के कृते दिवः, सिव इत्येवमादिना रूपेण भवितव्यम् ? अत आह-- `देवसेव' इत्यादि। आदिशब्दः प्रकारे।।
136. आतश्चोपसर्गे। (3.1.136)
`णप्रत्ययस्यापवादः' इति। `श्याद्व्यध' (3.1.141) इत्यादिना प्राप्तस्य। `सुग्लः' इति। `ग्लै म्लै हर्षक्षये' (धा.पा.903,904)।।
137. पाघ्राध्माधेट्दृशः शः। (3.1.137)
`पा पाने' (धा.पा.925), `घ्रा गन्धोपादाने' (धा.पा.926), `ष्मा शब्दाग्निसंयोगयोः' (धा.पा.927) `ध्ट् पाने' (धा.पा.902)- एषामाकारान्तलक्षणे के णे च प्राप्ते शो विधीयते। यद्युपसर्ग इत्यनुवर्त्तते तदा के; अथ निवृत्तम्-- के प्राप्त इत्यनुपसर्गेभ्यो णे। दृशेस्त्विगुपधलक्षणे के। `उत्पिब' इत्यादिषु प्रत्ययस्य शित्त्वात् सार्वधातुकसंज्ञायां `कर्त्तरि शप्' (3.1.68)। प्राघ्रादिना (7.3.78) यथायोगं पिबादयः।
`संज्ञायां प्रतिषेधः' इति। प्रकृतत्वाच्शप्रत्ययस्य। तस्य प्रतिषेधस्य `व्याघ्रादिभिः' (2.1.56) इति वचनं लिङ्गम्।।
138. अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च। (3.1.138)
`अनुपसर्गात्' इति। सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनम्। `लिम्पः,विन्दः' इत्यादि। `लिप उपदाहे' (धा.पा.1433), `विद्लृ लाभे' (धा.पा.1432)। सनुम्कयोर्ग्रहणमुपदेशावस्थायामेव `नुम्' भवतीति ज्ञापनार्थम्। `धृञ् धारणे' (धा.पा.900), हेतुमण्णिजन्तः। `पारयः' इति। `पार तीर कर्मसमाप्तौ' (धा.पा.1911,1912) चुरादिः। अथ वा `पृ पालनपूरणयोः' (धा.पा.1489) इति हेतुमण्णिजन्तः। `विद {चेतनाख्यान धा.पा.पदमंजरी } वेदनाख्याननिवासेषु' (धा.पा.1708), चुरादिण्यन्तः। अथ वा-- ज्ञानाद्यर्थानां बिदादीनामन्यतमो हेतुमण्ण्यन्तः। `एजृ कम्पने' (धा.पा.234), हेतुमण्णिजन्तः। `चिती संज्ञाने' (धा.पा.39) चुरादिण्यन्सः। `षह मर्षणे' (धा.पा.1809) हेतुमण्ण्यन्तः, चुरादिण्यन्तो वा । `लिम्पः, विन्दः' इति। `तुदादिभ्यः शः' (3.1.77), `शे मुचादीनाम्' (7.1.59) इति नुम्।
`प्रलिपः, {नास्ति-काशिका}प्रविदः' इति। इगुपधलक्षमः क एव।
`नौ लिम्पेः'इत्यादि। निशब्द उपपदे लिम्पेर्धातोः शप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्वत्रस्थस्य चकारस्यानुक्तसमुच्चयार्थत्वात् कर्त्तव्यम्।
`गवादिषु' इत्यादि। गवादिषूपपदेषु संज्ञायां विषये शो भवति। कर्मण्यणोऽपवादःऋ। स च चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते।।
139. ददातिदधात्योर्विभाषा। (3.1.139)
`णस्यापवादः' इति। `श्याद्व्यध' (3.1.141) इत्यादिना प्राप्तस्य। कस्य त्वपवादो न भवति; अनुपसर्गादित्यनुवृत्तेः। `ददः,दधः' इति। शे कृते शप्। तस्य जुहोत्यादित्वात् श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्, `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः। `दायः' इति। `आतो युक्' (7.3.33)। `प्रदः' इति। `आतश्चोपसर्गे' (3.1.136) इति कः। ननु च `दद दाने' (धा.पा.17), `दध धारणे' (धा.पा.8)- इत्येताभ्यमचि कृते ददो दध इति, दा धा--इत्येताभ्यामपि णे कृते दायो धाय इति भविष्यति, तत्किमित्यनेन सूत्रेण ? नैतदस्ति; अचि हि सति `अच्कावशक्तौ'(6.2.157) इत्यन्तोदात्तत्वं स्यात्। शे तु नञ्स्वर एव भवति-- अददः, अदध इति।।
140. ज्वलितिकसन्तेभ्यो णः। (3.1.140)
`ज्वलिति' इति। ज्वल् इति = आदि येषामिति बहुव्रीहि। विभक्तेस्त्वश्रवणम्, `सुपां सुलुक्' (7.1.39) इति लुप्तत्वात्। `कसन्तेभ्यः' इति। कसोऽन्ता इति तत्पुरुषः, अन्तशब्द समीपवाची। अथ वा -- कसोऽन्त एषामिति बहुव्रीहिः। अन्तशब्दः समीपवाची, मर्यादावाची वा। `ज्वल दीप्तौ' (धा.पा.804,831) इति द्विष्पठ्यते-- घटादिषु , परस्ताच्च। `तेभ्यः' इति। तत्रासत्यस्मिन् विशेषणे सन्देहः स्यात्केभ्यो ज्वलादिभ्य इति ? अतस्तन्निरासार्थं ज्वलादयो विशिष्यन्ते-- कसन्ता ये ज्वलादय इति। न घटाद्यन्तर्गणः पर्युदस्तो भवति। कसेः परत्वाद्ये पठ्यन्ते तन्निवृत्त्यर्थं कसग्रहणं न भवति, कसमधीत्य वृदिति पाठात्। ननु च घटादिषु ज्वलादीनां पाठो मित्संज्ञार्थः, तत्र विनापि कसन्तग्रहणं कसन्ता एव ग्रहीष्यन्ते,तदनर्थकमिदं विशेषणम् ? नैतदस्ति; असति हि तस्मिन् पूर्वेषां ज्वलादीनामुभयार्थः पाठः स्यात्-- मित्त्वार्थः प्रत्ययार्थश्च। इतरेषां तु प्रत्ययार्थ एव। तस्मात् कसग्रहणं कर्त्तव्यम्। `अचोऽपवादः' इति। ज्वलादीनां पचाज्यन्तः पातित्वात्।
`तनोतेर्णस्योपसंख्यानं कर्त्तव्यम्' इति। णे विधातव्ये तनोतेरपि णस्य प्रतिपादनं कर्त्तव्यम्। प्रतिपादनं तूत्तरत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कर्त्तव्यम्।।
141. श्याऽऽद्वयधास्रूसंस्रवतीणवसावहृलिहश्लिषश्वसश्च। (3.1.141)
`श्येङ गतौ' (धा.पा.963)। आदित्याकारान्तानां दाधाप्रभृतीनां ग्रहणम्। `व्यध ताडने' (धा.पा.1181), `स्रु गतौ' (धा.पा.940) आङ्पूर्वः, पुनः स एव संपूर्वः। `इण् गतौ' (धा.पा.1045) अतिपूर्वः,`षोऽन्तकर्मणि' (धा.पा.1147) अवपूर्वः। `हृञ् हरणे' (धा.पा.899) अवपूर्वः। `लिह आस्वादने' (धा.पा.1016), `श्लिष आलिङ्गने' (धा.पा.1186), `श्वस प्राणने' (धा.पा.1069)। अत्र ये सोपसर्गाः पठितास्तेभ्यः सोपसर्गेभ्य एव भवति; शेषेभ्यस्तु सोपसर्गेभ्यः, अनुपसर्गेभ्यश्च। `अनुपसर्गादिति निवृत्तम्' इति। पुनरुत्तरत्रानुपसर्गग्रहणात्। `बिभाषेति च' इति। निवृत्तमिति सम्बध्यते। विभाषाग्रहणं ह्यनुपसर्गेण सम्बद्धम्। अतस्तन्निवृत्तौ तस्यापि निवृत्तिर्भवति। `बाधकबाधनार्थम्' इति। `आतश्चोपसर्गे' (3.1.136) इति विशेषविहितत्वात् कः सामान्यविहितस्य णस्य बाधकः, ्तस्तद्बाधनार्थम्। अवश्यतेरप्युपादानस्यैतत् प्रयोजनं वेदितव्यम्। अथ वा-- उपसर्गनियमार्मथ तस्य ग्रहणम्, अवपूर्वादेव यथा स्यात्। `अवश्यायः' इति। `आतो युक्' (7.3.33)।।
142. दुन्योरनुपसर्गे। (3.1.142)
`दुन्योः' इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। `अनुपसर्गे' इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह-- `दुनोतेर्नयतेश्चानुपसर्गात्' इति। `दावः' इति। `टु दु उपतापे' (धा.पा.1256)। `नायः' इति। `णीञ् प्रापणे' (धा.पा.901)।
`प्रदवः, प्रणयः'इति। पचाद्यच्, `उपसर्गादसमासेऽपि' (8.4.14) इति णत्वम्।।
143. विभाषा ग्रहः। (3.1.143)
`व्यवस्थितविभाषा चेयम्' इति। एतत् `जलचरे' इत्यादिना स्पष्टीकरोति।
`भवतेश्चेति वक्तव्यम्' इति। भवतेश्च विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु विभाषेति योगविभागात् कर्त्तव्यम्।।
144. गेहे कः। (3.1.144)
`गेहे कर्त्तरि' इति। एतेन `गेहे' इति प्रत्ययार्थस्य कर्त्तुरुपाधिरयम्, न तूपपदमिति दर्शयति। एतच्चाश्वपत्यादौ गृहपतिशब्दपाठाद्विज्ञायते। `तात्स्थ्याद्दाराश्च' इति। गेहमिति प्रकृतेन सम्बन्धः। एतेन गौणेऽपि गेहे प्रत्ययो भवतीत्याचष्टे। एतच्च तन्त्रेण गेहशब्दस्य द्वितीयस्योच्चारणाल्लभ्यते। `गृहम्'इति। ग्रह्यादिना (6.1.16) सम्प्रसारणम्।।
145. शिल्पिनि ष्वुन्। (3.1.145)
`शिल्पिनि कर्त्तरि' इति। पूर्ववदुपाधित्वं दर्शयन्नुपपदत्वमपाकरोति। एतच्च रजकस्य वस्त्रं ददातीति भाष्यकारप्रयोगाल्लभ्यते।
`नृतिखनिरञ्जिभ्यः परिगणनम्' इति। एतच्च विभाषेत्यनुवृत्तेर्व्यवस्थितविभाषात्वाल्लभ्यते। `रञ्जेरनुनासिकलोपश्च' इति। एषोऽपि तत एव भाष्यकारप्रयोगाल्लभ्यते। किञ्च `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' (धा.पा.819 तः पश्चात्) इति यद् रञ्जेर्मित्त्वं शास्ति, तज्ज्ञापयति-- अक्ङित्यपि रञ्जेरनुनासिकलोपो भवतीति। मित्त्वस्य ह्येतदेव प्रयोजनम्- `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वं यथा स्यात्, न चासत्यस्मिन्ननुसाकिलोपे वृद्धिरस्ति। न चासत्यां वृद्धौ ह्रस्वभाविन्युपधा भवति। तेन णौ रञ्जेर्यथानुनासिकलोपो भवति, तथा ष्वुनि च। परिगणनात् ह्वाता, ह्वायक इत्यत्र न भवति। ष्वुनो नित्करणमाद्युदात्तार्थम्, षकारो ङीषर्थः।।
146. गस्थकन्। (3.1.146)
`गः' इति। `आतो धातोः' (6.4.140) इत्याकारलोपं कृत्वा `गै शब्दे' (धा.पा.917) इत्यस्यायं निर्देशः। अत एवाह-- `गायतेः'इति। ननु च `गामादाग्रहणेष्वविशेषणः' (व्या.प.124) इति `गाङ् गतौ' (धा.पा.950) इत्यास्यपि ग्रहणेन भवितव्यम् ? नैतत्; यस्माद् गाथक इति थकन्प्रत्ययान्तेन गायत्यर्थविशेष एव शिल्पिनि कर्त्तृत्वं विज्ञायते; न तु गाङर्थविषये। थकनो नकार आद्युदात्तार्थः।।
147. ण्युट् च। (3.1.147)
`गायनः' इति। `आतो युक् चिण्कृतोः' (7.3.33) इति युक्। `गायनी'। टित्त्वान्ङीप्। `योगविभाग उत्तरार्थः' इति। उत्तरत्र चकारेण ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति। `गो ण्युट्थकनौ' इत्येकयोगे थकन्नप्यनुकृष्येत।।
148. हशच् व्रीहिकालयोः। (3.1.148)
`जहातेः' इति। ओहाक् त्यागे' (धा.पा.1090)। `जिहातेश्च' इति। `ओहाङ गतौ' (धा.पा.1089)। अस्यात्र ग्रहणमिष्यते। तयोः सामान्यग्रहणार्थ एव ककारो जहातेर्निर्दिश्यते। असति हि तस्मिन् यदीदमेकानुबन्धग्रहणम्, तदुपादाने द्वयनुबन्धकस्य जिहातेर्न स्यात्। अथ द्वयनुबन्धकस्य जहातेर्न स्यात्। ककारे तु सति द्वयोरपि सानुबन्धकत्वात् सामान्येन ग्रहणमुपपद्यते। `व्रीहौ काले च कर्त्तरि' इति। एतेन व्रीहिकालयोः प्रत्यार्थविशेषणं दर्शयति। उपपदत्वं तु निरस्यति। एतच्च `दामहायनान्ताच्च' (4.1.27) इति निर्देशाद्विज्ञायते। `हायनाः' इति। `आतो युक् चिण्कृतोः' (7.3.33) इति युक्। `जहत्युदकमिति कृत्वा' इति। व्रीहिषु हायनशब्दस्य प्रवृत्तिनिमित्तं दर्शयति। `जिहीते भावान्' इति। `जिहीते भावान्' इति। एतेनापि संवत्सरे।।
149. प्रुसृल्वः समभिहारे वुन्। (3.1.149)
`प्रसृल्वः' इति समभिहारं कृत्वा निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, अनित्यत्वादागमशासनस्य। `समभिहारे वुन्' इति। अन्यत्र समभिहारशब्दस्य पौनः पुन्यादिकमर्थ इति, इहापि स एवार्थ इति कस्यचित् भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `समभिहारग्रहणेन' इत्यादि। लक्ष्यते प्रदर्श्यत इत्यर्थः। एतच्चानेकार्थत्वाद्धातूनां लभ्यते। शिल्पिनीत्यनुवृत्तेरित्यपरे। शिल्पी = साधुकारी। `साधुकारिणि वुन्विधानम्' साधुकारित्वोपलक्षणस्य फलं दर्शयति। `सकृदपि' इत्यादि। अनन्तरस्यैव स्पष्टीकरणम्।।
150. आशिषि च। (3.1.150)
`आशिषि गम्यमानायाम्' इति। न वाच्यायाम्। `कर्त्तरि कृत्' (3.4.67) इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। `धातुमात्रात्' इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। `जीवतात्, नन्दतात्' इति। आशिषि लोट्प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह-- `आशीः प्रार्थनाविशेषः' इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। `सा चेह क्रियाविषया'इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। `अमुष्याः क्रियायाः' इति। जीवनक्रियाया नन्दनक्रियायाश्च कर्त्ता भवेदित्येवमाशास्यते-- जीवनं नन्दनञ्च ते भूयादिति।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणप़ञ्जिकायां
तृतीयस्याध्यायस्य
प्रथमः पादः
--------------------