काशिकाविवरणपञ्जिका/षष्ठोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिकाविवरणपञ्जिका द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ षष्ठोऽध्यायः
द्वितीयः पादः
1. बहुब्रीहौ प्रकृत्या पूर्वपदम्। (6.2.1)
`पूर्वपदग्रहणम्' इत्यादि। प्रकृतिभावो ह्यत्र तस्य यूज्यते विधातुम्, यस्यानुदात्तलक्षणो विकारः प्राप्नोति। नच पूर्वपदस्याज्झल्समुदायस्यासौ प्राप्नोति, किं तर्हि? स्वरितस्य, उदात्तस्य वा। तत्र यदीह पूर्वपदग्रहणं पूर्वपद एव वर्त्तते, अपार्थकमेवेदं वचनं स्यात्! तस्मात् पूर्वपदस्ये स्वर उदात्ते स्वरिते वा पूर्वपदग्रहणं वर्तत इति विज्ञायते। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा--`मञ्चाः क्रोशन्ति' इति। `स्वभावेनावतिष्ठते' इति। अनेन प्रकृत्या भवतीतयस्यार्थमाचष्टे। तमेव वाक्यान्तरेण स्पष्टीकर्त्तुमाह--`विकारमनुदात्तत्वमापद्यते' इति। कथं पनरनुदात्तलक्षणो विकारः प्राप्नोति, यन्निवृत्तये प्रकृतिभावोऽयमारभ्यते? इत्याह--`समासान्तोदात्तत्वे हि सति' इत्यादि। `समासान्तोदात्तत्वापवादोऽयम्' इति। नाप्राप्ते तस्मिन्नारम्भात्। `कृष्णो मृगः' इति। कृष्णगृणत्वात्। `आद्युदात्तः' इति। ञित्स्वरेण।
`तत्र च' इत्यादि। तत्र `स्तुवो दीर्घश्च' (द.उ7.4) इति दीर्घग्रहणमनुवर्त्तते। `सुशृभ्यां निच्च' (द.उ.7.6) [सृशृभ्यामूर्च--द.उ.] इत्यतो निच्चेति च। `तेनाद्युदात्तः' इति। नित्स्वरेण। `कृदुत्तरपद' इत्यादि। ब्रह्मचारीति `व्रते' (3.2.80) इति णिनिः, उपपदसमासः। तत्र `गतिकारकोपपदात् कृत्' (6.2.139) इति ब्रह्मचारीति शब्दः कृत्स्वरेणान्तोदात्तः।
`स्नातकशब्दः कन्प्रत्ययान्तः' [स्नातशब्दः--मुद्रितः पाठः---काशिका] इति। क्षोत्रियँश्छन्दोऽदीते' (5.2.74) इति निपात्यते, तेन नित्सवरेणाद्युदात्तः।
`मनुष्यशब्दस्तित्स्वरितमिति' इति। `मनोर्जातावञ्यतौ षुक्च' (4.1.161) इति यत्प्रत्ययान्तत्वात्। `उदात्तग्रहणम्' इत्यादि। तत्रोदात्तग्रहणम् `कर्षात्वतो घञोऽन्त उदात्त' (6.1.159) इत्यतोऽनुवर्तते। `स्वरितग्रहणम्' इति। `तित् स्वरितम्' (6.1.1.85) इत्यतः। ततः किं सिद्धं भवति? इत्याह--`तेन' इत्यादि। उदात्तसरितानुवृत्तेर्ह्येतदेव प्रयोजनम्--यत्रोदात्तः स्वरितो वास्ति तत्रैव यता स्यात्।
समशब्दो हि `सुनोतेर्डमप्' (?) इति डमप्प्रतययान्तो व्युत्पाद्यते, तेन धातोष्टिलोपे कृते प्रत्यस्य पित्त्वात् सर्वानुदात्तो भवति।।
2. तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः। (6.2.2)
`यतोऽनाव इत्याद्युदात्तः' इति। `नौवयोधर्म' (4.4.91) इत्यादिना यत्प्रत्ययान्तस्य तुल्यशब्दस्य व्युत्पादितत्वात्--तुलया सम्मितं तुल्यमिति। `सदृक्शब्दः' इत्यादि। `त्यादादिषु दृशोऽनालोचने कञ्च' (3.2.60) इत्यत्र `समानान्ययोश्चेति वक्तव्यम्' (वा.261) इत्युपसंख्यानं कृतम्, तेन सदृक्छब्दः कन्नन्तः. `दृग्दृशतुषु' (6.3.89) इति समानस्य सभावः। `सदृशशब्दोऽपि' इत्यादि। कृदुत्तरपदप्रकृतिस्वरेणेत्यपेक्षते।
`इकारः प्रत्ययः' [इकारप्रत्ययः--काशिका] इति। तत्र `अत्र इः' (द.उ.1.67) इत्यत इकार प्रत्ययानुवृत्तेः। `कित्' इति। `भुजेः किच्च' (द.उ.1.71) इत्यतः किद्ग्रहणानुवृत्तेः।
`सप्रत्ययान्तोऽक्षशब्दः' इति। `अशेर्देवने' (द.उ.9.24) इत्यत्र `वॄतॄवदिहनिकमिकषिभ्यः सः' (द.उ.9.21) [`कमिकषियुमुचिभ्यः'--द.उ.] इत्यतः सप्रतययानुवृत्तेः।
`नब्विषयस्य' इति। नपुंसकलिङ्गविषयस्येत्यर्थः। `मध्योदात्तत्वञ्च' इति। `न्यग्रोधस्य च केवलस्य' इति। निपातनादित्यनेन सम्बन्धः।
`अब्राह्मणः' इति। नञ्समासः। `कुब्रह्मणः' इत्यादौ `कुगतिप्रादयः' (2.2.18) इति। `एतान्यव्ययान्याद्युदात्तानि' इति। `निपाता आद्युदात्ताः' (फि.सू.80) इति वचनात्, एषां च निपातत्वात्। तत्र न्कुशब्दयोः `चादयो।सत्वे' (1.4.57) इति चादिषु पाठान्निपातत्वम्, निरतिशब्दयोस्तु `प्रादयः' (1.4.58) इति, तयोः प्रादिषु पाठात्।
`अव्यये' इत्यादि। अव्यये पूर्वपदे प्रकृतिभावे कर्त्तव्ये नञ्प्रभृतीनामेव भवतीत्येतदर्थरूपं व्याख्येयम्। तत्रेदं व्याख्यानम्--`चङ्यन्यतरस्याम्' (6.1.218) इत्यतोऽनयतरस्यांग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन नञ्कुनिपातानामेव भविष्यतीति। `स्वात्वाकालकः' इति। `मयूरव्यंसकादित्वात्' (2.1.72) समासः `क्त्वातोसुन्कसुनः' (1.1.40) इति पूर्वपदस्याव्ययत्वम्।
`मुहूर्त्तसुखम्' इत्यादौ `कालाध्वनोरत्यन्तसंयोगे' (2.3.5) इति द्वितीया। `सर्वरात्रशब्दोऽप्यच्प्रत्यान्तः' इति। सर्वा च रात्रिश्चेति `पूर्वकालैक' (2.1.49) इत्यादिना समासे `अहः सर्वैक' (5.4.87) इत्यादिनाचप्रत्ययविधानात्।।
3. वर्णौ वर्णोष्वनेते। (6.2.3)
`रुहे रश्च लो वा' इति। अत्र `हृश्याभ्यामितन्' (द.उ.6.12) इतीतनोऽनुवर्तनात्। `परमकृष्णः' इति। अत्र समासान्तोदात्तत्वमेव।।
4. गाधलवणयोः प्रमाणे। (6.2.4)
`शम्बगाधम्' इति। गाध्यत इति गाधः, `गाधृ `प्रतिष्ठालिप्सयोः' (धा.पा.4) [प्रतिष्ठालिप्सयोर्ग्रन्थे च--धा.पा.] अर्धर्चादित्वात् (2.4.31) पक्षे नपुंसकत्वम्। `अर्तिलूधूसू' इति। अनेन सूत्रैकदेशेन `अर्तिलूधूसूखनसहचर इत्रः' (3.2.184) इत्येतत्सूत्रमुपलक्ष्यते। `मध्योदात्तः' इति। प्रत्ययस्वरेण। `अशूप्रुषि' इति। `अशूप्रुषिलटिकणिघटिविशिभ्यः कन्' (द.उ.8.125) [अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्य) क्वन्--द.उ.] इति सूत्रमुपलक्षयति। ननु चायामः=प्रमाणम्, `आयामस्तु प्रमाणं स्यात्' इति वचनात्; न च शम्बगाधमित्यादिस्तत्पुरुषः प्रमाणवाची, किं तर्हि, इयत्तावाची? इत्याह--`प्रमाणम्' इत्यादि। इयतो भाव इयत्ता, सा परिच्छिद्यते येन स इयत्तापरिच्छेदः, स एवात्र प्रमाणं वेदितव्यम्। न पुनरायाम एव। तत् कथम्? प्रमीयतेऽनेनेति प्रमाणमिति क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते, न तु रूढिशब्दः; लक्ष्यानुरोधात्। तेन येनेयत्ता परिच्छिद्यते तत् सर्वं प्रमाणम्। `स्वरव्यङ्ग्यं च' इति। अस्य स्वरे योऽयं प्रकृतिभावो विधीयते तेन व्यङ्ग्यं द्योत्यमित्यर्थ-. `एतेषाम्' इति। शम्बगाधादीनाम्।।
5. दायाद्यं दायादे। (6.2.5)
दायः=भागः, अंश इत्यर्थः। दायमादत्त इति दायादः। मूलविभुजादित्वात् कः (वा.232)। दायादस्य कर्म दायाद्यम्। किं पुनस्तत्? दाय एव। स हि दायादिरादीयमानः कर्म भवति। `उदात्त इति च तन्न वर्तते' इति। `मन्त्रे वृष' (3.3.96) इत्यादेः सूत्रात्। ननु च निपूर्वः सूत्रे धातुरुदात्तः तत् कथं केवलाद्भवति? इत्याह--`बहुलवचनात्' इत्यादि। यदि `स्वामीश्वराधिपति' (2.3.39) इत्यादिना षष्ठी विधीयते। सप्तम्येव हि विधातव्या, न षष्ठी, तस्याः `शेषे' (2.3.50) इत्येव सिद्धत्वात्? इत्यत आह--`तस्यास्तु' इत्यादि। यदि सप्तम्येव विधीयते, ततोऽसौ विशेषविहितत्वात् षष्ठ्या बाधिका विज्ञायेत, न त्वेवं विज्ञायेतेति पुनरनयैव शेषलक्षणषष्ठ्यभ्यनुज्ञायते, न त्वपूर्वा विधीयते। तेनाप्रतिपदविहितत्वाद्भवत्येव समासः। `परमदायादः' इति। अत्र पूर्वपदं पूजावाचि, न दायाद्यवाचि।।
6. प्रतिबन्धि चिरकृच्छ्रयोः। (6.2.6)
कार्यसिद्धिं प्रतिवध्नाति विहन्तीति प्रतिबन्धि। ताच्छील्य आवश्यके वा णिनिः। `विशेषणसमासे कृते' इति। ननु च विशेषणसमासः सामानाधिकरण्ये भवति; न चेदं सामानाधिकरण्यम्, कथं पुनरत्र पूर्वपदं प्रतिबन्धि भवति? इत्याह--`गमनम्' इत्यादि। अचिरकालभाविनि गमने कार्यसिद्धिर्निष्पद्यते। `कृच्छ्रयोगि च' इति। कृच्छ्रम्=दुःखम्, तद्योगिनि गमने गन्ता प्राप्यमर्थं दुःखेनाभिहन्यमानो न प्राप्नोति तस्माच्चिरकालभावि कृच्छ्रयोगि वा यद् गमनं तत् कार्यसिद्धेः प्रतिबन्धि जायते।।
7. पदेऽपदेशे। (6.2.7)
`व्याजः' इति। छद्मेत्यर्थः। `मूत्रपदेन' इति। मूत्रव्याजेनेत्यर्थः। `ष्ट्रन्प्रत्ययान्तः' इति। `सिविमुच्योष्टेरूच्च' (द.उ.8.83) [षिविमुच्योष्टेरू च-द.उ.] इत्यत्र ष्ट्रन्नित्यस्यानुवृत्तेः। `मूत्रयतेः' इति। `मूत्र परस्रवणे' (धा.पा.1909)। उच्चारशब्दोऽपि घञन्तः। ``थाथादि' इत्यादि। `घञन्तत्वात्।।
8. निवाते वातत्राणे। (6.2.8)
`कुड्यादिहेतुके' इत्याद। कुड्यादिहेतुके वर्तन्ते; कार्ये कारणोपचारात्। भवति कारणे कार्योपचारः, यथा--`सर्वमिदं पुरातनं कर्म भुजयते' इति। `कवतेः' इति। `कु शब्दे (धा.पा.1042)। `आद्युदात्तः' इति। `यतोऽनावः' (6.1.213) इत्यनेन। `ड्यक्प्रत्ययांन्तोऽन्तोदात्त इत्यपरे' इति। ते `कवतेर्ड्यक्' (द.उ.8.20) इति सूत्रमधीयते।।
9. शारदेऽनार्तवे। (6.2.9)
`रज्जुशारदम्, `दृषच्छारदम्' [दृषच्छारदाः--काशिका] इति। योगविभागात् समासः। `शारदशब्दोऽय प्रत्यग्रवाची' इति। प्रत्यग्रम्=अभिनवम्, अचिरकालभावीत्यर्थः। एतेन नानार्थवाचित्वं शारदशब्दस्य दर्शयति। `नित्यसमासः' इति। महाविभाषायाः प्रकृताया व्यवस्थितविभाषात्वात्। `अनुपहतम्' इति। रजोभिः। अनुपहतत्वं तु सद्यउद्धृतत्वात्। `उप्रत्ययान्तः' इति। `सृजेरसुं च' (द.उ.1.100) इत्यत्र `भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' (द.उ.1.92) [भृमृशीतॄचरित्सरितनिमिमस्जिब्यः उः--द.उ.] इत्यत उकारप्रत्ययानुवृत्तेः। `अदिप्रत्ययान्तः' [अदिक्प्रत्ययान्तः--मुद्रितकाशिका, आदिप्रत्ययान्तः--मुद्रितन्यासः] इति। `दृणातेः षुग् ह्रस्वश्च' (द.उ.6.45) इत्यत्र `शॄदॄभसोऽदिः' (द.उ.6.42) इत्यतोऽदिप्रत्ययानुवृत्तेः।
`परमशारदम्' इति। शरदि भवं शारदम्। `सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्' (4.3.16) इति सूत्रेणोत्पन्नोऽयं शब्दः।।
10. अध्वर्युकषाययोर्जातौ। (6.2.10)
`जातिवाचिनो नियतविषयाः' इति। नियतो विषयो येषामिति विग्रहः। नियतविषयत्वं तु जातिविशेषत्व एव वर्तमानत्वात्। अध्वर्युप्रभॄतीनाम् `गोत्रञ्च चरणैः' (का.वृ.4.1.63) इति चरणत्वाज्जातित्वम्। `यत्प्रत्ययान्तः' इति। `द्युप्रागपागुदक्प्रतीचो यत्' (4.2.101) इति। `कठशब्दः पचाद्यचि व्युत्पादितः' इति। `कठ कृच्छ्रजीवने' (धा.पा.333) इत्यस्मात्। `तदेवम्' इति। यस्मादेदं कालापशब्दोऽणन्तः, तस्मात् प्रत्ययस्वरेणान्तोदात्तः। `ठकि सत्यन्तोदात्तः' इति। `कितः' (6.1.165) इत्यनेन।।
11. सदृशप्रतिरूपयोः सादृश्ये। (6.2.11)
`पितृसदृशः' इति। `तुल्यार्थेः' (2.3.72) इत्यादिना षष्ठी, तृतीया च, `पूर्वसदृश' (2.1.31) इत्यादिना समासः। `पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ' इति। `नप्तृनेष्टृत्वष्टृहोतृपोतृभातृजामातृपितृदुहितृ' (द.उ.2.3) इत्यत्र।
अथ सदृशग्रहणं किमर्थम्, यावता मातृसादृश पितृसदृश इत्यत्र `तत्पुरुषे तुल्यार्थं' (6.2.2) इत्येव सिद्धम्? इत्यत आह--`षष्ठीसमासार्थञ्च' इत्यादि। तुल्यार्थे हि प्रयोगे षष्ठ्यपि विधीयते। तत्र यदा मातृसदृश इति षष्ठीसमासः क्रियते, तदपि यथा स्यादित्येवमर्थं सदृशग्रहणम्। सति त्वस्यारम्भे तृतीयासमानसेऽपि सदृशग्रहणं कर्त्तव्यमित्यत आह--`इह' इत्यादि। `दास्याः सदृशः, वृषल्याः सदृस' इति अत्र `षष्ठ्या आक्रोशे' (6.3.21) इत्यलुकि कृते षष्ठीसमासस्तत्सदृशग्रहणं प्रयोजयति; अलुकि सति रूपविशेषस्य विद्यमानत्वात्। यदि षष्ठीसमासार्थं सदृशग्रहणमिह क्रियते, तृतीयासमासो न कर्तवयः; विशेषाभावात्? नैतदस्ति; तत्रापि हि कर्त्तव्य एव यत्र षष्ठ्यर्थे नास्ति तदर्थः, यथा--विद्यया सदृशो विद्यासदृश इति, न ह्यत्र षष्ठ्यर्थो विद्यते, किं तर्हि? तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः। `अत्र' इत्यादि। तत्र दासीशब्दस्य ङीबुदात्तनिवृत्तिस्वरेणान्तोदात्तार्थः। `दशि सेवने' (धा.पा.1786) [दसि आप्यायने--धा.पा] इति, `दंशेष्टटनौ न आ च' (द.उ.9.103) इति टप्रत्ययान्तो नकारस्य चाकारादेशः। `टिड्ढाणञ्' (4.1.15) इति ङीप्, `यस्येति' (6.4.148) लोपः `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्युदात्तत्वम्। वृषलीशब्दः `जातेरस्त्रीविषयात्' (4.1.63) इति ङीषन्तोऽन्तोदात्तो भवति प्रत्ययस्वरेण।।
12. द्विगौ प्रमाणे। (6.2.12)
`प्राच्यसप्तशमः' इति। षष्ठीसमासः। `प्राच्यशब्द आद्युदात्तः' इति। यत्प्रत्ययान्तत्वात् `यतोऽनावः (6.1.213) इति। `गान्धारिशब्दः कर्दमादित्वादाद्युदात्तो मध्योदात्तो वा' इति। `कर्दमादीनाञ्च' (फि.सू.3.10) इत्यत्रादिग्रहणं चानुवर्तते, तत्र यदादेरुदात्तो विधीयते तदाऽऽद्युदात्तो भवति; यदा तु द्वितीयस्य तदा मध्योदात्तः।
13. गन्तव्यपण्यं वाणिजे। (6.2.13)
गमनीयम्=गन्तव्यम्। पण्यम्=व्यवहर्त्तव्यमिति। `मद्रवाणिजः' इति। मद्रेषु यो व्यवहरति स एवमुच्यते। `सप्तमीसमासः' [सप्तमीसमासाः--काशिका] इति। `सप्तमी' (2.1.40) इति योगविभागात्। `रक्प्रत्ययान्तत्वात्' इति। `स्फयितञ्चि' (द.3.8.31) इत्यादिना मदे रकं विधाय व्युत्पादितत्वात्।।
14. मात्रोपज्ञोपक्रमच्छाये नपुंसके। (6.2.14)
`तुल्यप्रमाणे वर्तते' [तुल्यप्रमाणं--मुद्रिपाठः] इति। तुल्यं प्रमाणं यस्येति विग्रहः। `अस्वपदविग्रहः' इति स्वपदविग्रहः कस्मान्न भवति? ताशं हि--वाक्यं कर्तव्यं यथा समासार्थः प्रतीयते। `भक्षामात्रम्' इति। अस्य च भिक्षायास्तुल्यप्रमाणमित्येषोऽर्थः। न चायं स्वपदविग्रहेण शक्यः प्रतिपादयितुम्; मात्रशब्दस्य तुल्यप्रमाणवृत्तित्वात्। स हि समास एव तुल्यप्रमाणे वर्तते, न वाक्ये। अत एवोक्तम्--`मात्रशब्दोऽयं वृत्तिविषयः' इत्यादि। वृत्तिरिह समासवृत्तिरेव विषयः। `अप्रत्ययाऽन्तोदात्तः' [अप्रत्ययान्तोदात्तः--काशिकामुद्रितः पाठः] इति। टापा सहैकदेश उदात्तनोदात्तत्वात्।
15. सुखप्रिययोर्हिते। (6.2.15)
`तत्र सुखप्रियशब्दौ' इत्यादि। तच्छब्देन सुखप्रिययोः प्रत्यवमर्शः, तयोः सुशप्रिययोः हेतुरायत्याम्=जन्मान्तरे प्रीतिकरः। तत्र सुखप्रियशब्दौ वर्त्तते। किं कारणमेवं व्याख्यायते? इत्याह--`तद्धि हितम्' इत्यादि। हि तदा चेत्यर्थः। तत्पुरुषे प्रकृतिभावोच्यं विधीयते। एष हि तत्पुरुषो हितवाची भवति, यदि सुखप्रियशब्दावृत्तरपदे हितहोतौ वर्त्तते। हितञ्च किम्? यदायत्यां प्रीति करोति। कथं पुनः सुखाप्रियशब्दौ तद्धेतौ वर्त्तते कारणे कार्योपचारात्, यथा --नड्वलोदकं पादरोग इति।।
16. प्रीतौ च। (6.2.16)
अथ प्रीतौ चेतीदं ग्रहणं किमर्थम्, यावता सुखप्रिययोः प्रीत्यव्यभिचारात्। एवं प्रीतौ गम्यमानायां भविष्यति? इत्यत आह--`सुखप्रिययोः प्रीति' [प्रीत्येत्यादि--मुद्रितः पाठः] इत्यादि। प्रीतिग्रहणमन्तरेणापि सिद्धे सुखप्रिययोः प्रीत्यव्यभिचाराद्यदिह प्रीतिग्रहणं क्रियते, तदतिशयिता या प्रीतिस्तस्या यथा स्यादित्येवमर्थम्। `ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ' इति। ब्राह्मणशब्दोऽणन्तः। छात्रशब्दः `छत्त्रादिभ्यो णः' (4.4.62) इति णप्रत्ययान्तः। `कन्याशब्दः स्वरितान्तः' इति। अध्न्यादिषु (द.उ.8.14) तथा भूतस्यैव पाठात्।
`राजसुखं राजप्रीयम्' इति। अत्र यद्यपि सुखप्रिययोः प्रीत्यव्यभिचारित्वात् प्रीतिर्गम्यते, तथाप्यतिशयेन या प्रीतिः सा न गम्यत इति भवति प्रत्युदाहरणम्।।
17. स्वं स्वामिनि। (6.2.17)
18. पत्यावैश्वर्ये। (6.2.18)
`धान्यमन्तःस्वरितम्' इति। ण्यदन्तत्वात् तित्सवरेण। `वृषल्या भर्त्तेत्यर्थः' इति। वृषल्याः कामयितेति यावत्।।
19. नभूवाक्चिद्दिधिषु। (6.2.19)
`भुवः संज्ञान्तरयोः' (3.2.179) इति क्विपा भूशब्दो धातुस्वरेणान्तोदात्तः। एवं वाक्शब्दः, वचः `क्विब्वचिप्रच्छि' (द.उ.10.2) इत्यादिना क्विप्। `चित्' इति। `चितौ संज्ञाने' (धा.पा.39) इत्यस्मात् `अन्येभ्योऽपि दृश्यते' (3.2.187) इति क्विप्। `नृतिशृध्योः कूः' (द.उ.1.174) इत्यधिकृत्य `अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द.उ.1.176) दिधिषूशब्दः कूप्रत्ययान्तोऽन्तोदात्त इति।।
20. वा भूवनम्। (6.2.20)
21. आशङ्काबाधनेदियःसु सम्भावने। (6.2.21)
`शकि शङ्कायाम्' (धा.पा.86) इत्येतस्मात् `गुरोश्च हलः' (3.3.103) इत्यकारप्रत्ययः। केचित्तु घञन्तसय शङ्कशब्दस्य ग्रहणमिति वर्णयन्ति। `बाधु लोडने' (धा.पा.5) इत्यस्मादाङ्पूर्वात् धञि `आबाधः'। अत्यर्थमन्तिकं `नेदीयः'। अन्तिकशब्दस्य `अन्तिकबाढयोर्नेदसाधौ' (5.3.63) इतीयसुनि परतोनेदादेशः। `अस्तित्वाध्यवसायः' इति। असतित्वनिश्चय इत्यर्थः. `गमनाशङ्कम्' इति। षष्ठीसमासः। क्रियाविशेषणत्वान्नपुंसकलिङ्गम्, लोकाश्रयत्वाद्वा लिङ्गस्य।।
22. पूर्वो भूतपूर्वे। (6.2.22)
`आढ्यो भूतपूर्वः' इति। यः पूर्वमाढ्य आसीत् स एवमुच्यते। समासे गम्यमानार्थत्वाद्भूतशब्दो न प्रयज्यते, यथा--दध्योदन इत्यत्रोपसिक्तशब्दः।
`परमपूर्वः' इति। अत्र `सन्महत्' (2.1.61) इत्यादिना समासः। `अत्र परमश्चासौ पूर्वश्चेति समासः' इति। इतिकरणोऽर्थनिर्देशार्थः। परमश्चसौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदाहरणे समास इत्यर्थः। `न तु परमो भूतः' इति। तुशब्दोऽवधारणे। परमो भूतपूर्व इति योऽयं वाक्यार्थः परमपूर्वकाललक्षणः, तस्मिन्नेवातर समास इत्यर्थः। किं कारणम्? इत्याह--`तथा च' इत्यादि। चशब्दो हि हीत्यर्थे। अयं समासो न भवति। एवं सत्यदाहरणमेवेदं भवति, न प्रत्युदाहरणम्, पूर्वशब्दस्य भूतपूर्ववाचित्वात्। यस्तु प्रायेण पुस्तकेषु पाठोऽत्र `परमश्चासौ भूतपूर्वश्चेति विग्रहो न तु परमो भूतपूर्वः' इति; स प्रमादपाठो वेदितव्यः; वाक्यद्वयेऽपि भूतपूर्वयोर्गम्यमानत्वात्।।
23. सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये। (6.2.23)
सह विषया सविधः, `तेन सहेति तुल्ययोगे' (2.2.28) इति बहुव्रीहिः, `वोपसर्जनस्य' (6.3.82) इति सहसय सभावः। एवं सनीडादिष्वपि बहुव्रीहिः सभावश्च वेदितव्यः। मद्रसविधमित्यादयः षष्ठीसमासाः।
ननु च सह विषयेत्येवमादावर्थे सविधादयः शब्दा व्युत्पाद्यन्ते, तत् कथमेषां सामीप्ये वृत्तिः? इत्याह--`सह विषयेत्यवमादिका' इत्यादि। आदिशब्देन सह नीडेन सह मर्यादयेत्येवमादीनां ग्रहणम्। एवकारोऽवधारणार्थोऽभिधेयव्यवच्छेदं करोति--व्युत्पत्तिनिमित्तमेव, नाभिधेयमिति। `समीपवाचिनस्त्वेते' इति। अत्रापि तुशब्दोऽवधारणार्थ एव। वसमीपवाचिन एव, न तु सह विधयेत्येवमादिवाक्यार्थवाचिन इति।।
24. विस्पष्टादीनि गणवचनेषु। (6.2.24)
`विस्पष्टकटुकम्' इति। कटुशब्दात् `संज्ञायां कन्' (4.3.147)। `सुप्सेति समासः' इति।
अथ `विशेषणं विशेष्येण बहुलम्' (2.1.57) इति विस्पष्टकटुकमित्यत्र विगृह्य कस्मात् कर्मधारय एव न क्रियते? इत्याह--`विस्पष्टादयो ह्यत्र' इत्यादि। कर्मधारयो हि सामानाधिकरण्ये सति भवति। न चेह सामानाधिकरण्यमस्ति। तस्माद्विस्पष्टादयोऽत्र कटुकादेः शब्दस्य यत् प्रवृत्तिनिमित्तं कटुकत्वादि तस्य विशेषणम्, न तद्वतो द्रव्यस्य। कटुकादिभिश्च शब्दैः कटुकत्वलक्षणो [कटुकस्यास्तिलक्षणो यस्यास्ति--इति मुद्रितः पाठः] गुणो यस्यास्ति तद्गुणवद्द्रव्यमभिधीयते। ततो वैयधिकरण्ये नास्ति कर्मधारायः। तस्माद्यथोक्तेन विधिना समासोऽत्रि कर्त्तव्यः।
`विस्पष्टः' [विस्पष्टशब्दः--काशिका] इति। `स्पश बाधनस्पर्शनयोः' (धा.पा.887) इत्यस्य निष्ठायाम् `दस्तस्पष्टच्छन्नज्ञप्ताः' [वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः--पा.सू.] (7.2.27) इति स्पष्टशब्दो निपतितः, तस्य विशब्देन गतसमासः। `विचित्रशब्दः' इत्यादि। `चित्र चित्री करणे' (धा.पा.1917) चुरादि, तस्माद्घञ, विशेषेण चित्रं विचित्रम्, प्रादिसमासः। `अव्ययस्वरेण' इति। `तत्पुरुषे तुल्यार्थं' (6.2.2) इत्यादिना विहितेन। अवययं पुनरत्र विशब्दः, तस्य च `निपाता आद्युदात्ताः' (फि.सू.4.80) इत्याद्युदात्तत्वम्। `विचित्तशब्दम्' इति। चिती संज्ञाने' (धा.पा.39) इत्यस्य निष्ठायां चित्तम्। विगतं चित्तमस्येति बहुव्रीहि। `बहुव्रीहिस्वरेण' इति। `चिती संज्ञाने' (धा.पा.39) इत्यस्य निष्ठायां चित्तम्। विगतं चित्तमस्येति बहुव्रीहि। `बहुव्रीहिस्वरेण' इति। `बहुव्रीहौ प्रकृत्या' (6.2.1) इति विहितेन। `व्यक्तशब्दः' इत्यादि। अञ्जेर्विपूर्वस्य निष्ठायां गतिस्वर उदात्तः, तत्रेकारस्य स्थाने यो यण् स उदात्तयण् भवति, ततः परस्यकारस्यानुदात्तस्य स्वरितः। `सम्पन्नशब्द' इत्यादि। पदेः सम्पूर्वस्य निष्ठायां सम्पन्नशब्दः कर्त्तरि चेति। `पटुपण्डितशब्दौ प्रत्ययस्वरेण' इति। अन्तोदात्तग्रहणमेकवचनान्तं यत् प्रकृतं तस्य विपरिणामं कृत्वाऽन्तोदात्ताविति सम्बन्धः कर्त्तव्यः। पाटयतेः `फलिपाटिनमिजनीनां गुक् पाटिनाकिधश्च' [फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च--द.उ.] (द.उ.1.103) इत्युप्रत्ययः, पटिशब्दश्चादेशः--पटुः। `पडि गतौ' (धा.पा.281) अस्मान्निष्ठायां `पण्डितः'। `कुशलः' इति। कुशाँल्लातीति `लाऽऽदाने' (धा.पा.1058) इत्यस्मात् `आतोऽनुपसर्गे कः' (3.2.3) इति कः, उपपदसमासः, `गतिकारकोपपदात् कृत्' (6.2.139) इत्युत्तरपदप्रकृतिस्वरः। `चपलशब्दश्चित्स्वरेण' इति। अन्तोदत्त इत्यपेक्षते। कथमयमन्तोदात्तश्चित्स्वरेण? इत्याह--`कलस्तृपश्च' (द.उ.8.107) इत्यतः कलप्रत्ययान्तो व्युत्पाद्यते। तत्र `बृषादिभ्यश्चित्' (द.उ.8.109) इत्यतश्चिद्ग्रहणमनुवर्त्तते। तेन चित्स्वरेणान्तोदात्तः। `निपुणशब्दः' इत्यादि। `अन्तोदात्तः' इति। प्रकृतेन सम्बन्धः। `पुणेः' इति `पुण कर्मणि शुने' (धा.पा.1333) इत्यस्मात् `इगुपधाज्ञाप्रीकिरः कः (3.1.135) इति कप्रत्ययः।।
25. श्रज्यावमकन्पापवत्मु भावे कर्मधारये। (6.2.25)
`गमनश्रेष्ठम्' इति। `ल्युट् च' (3.3.115) इति ल्युट्; विशेषणसमासः। अतिशयेन प्रशस्यः श्रेयः। दृष्ठन्नीयसुनोः `प्रशस्यस्य श्रः' (5.3.60) इति श्रादेशः। `वचनज्येष्ठम्' इति। अत्रापि। तयोरेव प्रत्यययोः परतः प्रशस्यशब्दस्य ज्यादेशः। `गमनकनिष्ठम्, गमनकनीयः' इति। इष्ठन्नीयसुनोः परतो युवशब्दस्याल्यशब्दस्य च `युवाल्पयोः कनन्यतरस्याम्' (5.3.64) इति कनादेशः। ननु च `श्रज्यकनाम्' इति कथम्? इतिकरणो हेतौ। यस्माच्छ्रज्यकनामिहादेशानां ग्रहणं ते चाजादौ प्रत्यये प्रशस्यादीनां विधीयन्त इति केवलानामसम्भवः। तस्मात् सामर्थ्यात् तद्वदुत्तरपदं गृह्यते।।
26. कुमारश्च। (6.2.26)
`कुमारश्रमणा' इति। `प्रातपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (व्या.पा.21) इति कुमारीशब्दोऽत्र समस्यते। एवं हि श्रमणशब्देन स्त्रीलिङ्गेन सामानादिकरण्यमुपपद्यते; नान्यथा। `कुमारशब्दोऽन्तोदात्तः' इति। `कुमार क्रीडायाम्' (धा.पा.1877) इत्यस्मात् पचाद्यचि व्युत्पादितत्वात्।
`केचित् पुनः' इत्यादि। कथं पुनर्लक्षणप्रतिपदोक्तपरिभाषायां (व्या.प.3) सत्यामविशेषेणेति लभ्यते? एवं मन्यते--चकारोऽत्र क्रियते। स चास्यैव विधेः समुच्चयार्थः. तेन सर्वत्राविशेषेण भवति। एवं हि समुच्चयो भवति, नान्यथेति। ये तु `कुमारः श्रमणादिभिः' (2.1.70) इत्यत्रैव समासमिच्छन्ति, ते पूर्वविध्यपेक्षया चकारमिह समुच्चयार्थं वर्णयन्ति।।
27. आदिः प्रत्येनसि। (6.2.27)
`प्रतिगत एनसा' इति। अनेन `अवादयः क्रुष्टाद्यर्थे तृतीयया' (वा.92) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। `प्रतिगतमेनो वा यस्य' इति। अनेन बहुव्रीहित्वम्। `कुमारप्रत्येनाः' इति। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।
ननु च नेह सूत्र उदात्तग्रहणमस्ति, तत् कथमुदात्तस्वरो लभ्यते? इत्याह--`उदात्त इत्येतदिह' इत्यादि। किं पुनस्तत्सामर्थ्यम्? इत्याह--`पूर्वपद' इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते। किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते--प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामर्थ्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः।।
28. पूगेष्वन्यतरस्याम्। (6.2.28)
29. इगन्तकालकपालभगालशरावेषु द्विगौ। (6.2.29)
`तद्धितार्थे द्विगोर्यप्' इति। `मासाद्व्यसि' (5.1.81) इत्यनुवर्त्तमाने `द्विगोर्यष्' (5.1.82) इति यप्। `ठञो लुक्' इति। प्राग्वतीयस्य। `पञ्चकपलः' इति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इति `संस्कृतं भक्षाः' (4.2.16) इत्यण्, तस्य `द्विगोः' (4.1.88) इत्यादिना लुक्।
`एते समासाः' इति। पञ्चकपाल इत्येवमादयो दशशरावपर्यन्ताः। `कृताष्प्रत्ययलोपा' इति। कृतोऽण्प्रत्ययलोपो येषां ते तथोक्ताः। पञ्चदशशब्दावत्र `ग्रः संख्यायाः' (फि.सू.2.28) इत्युदात्तौ।
`पञ्चाश्वः' इति। तद्धितार्थे समासः। `आर्हादगोपुच्छ' (5.1.19) इत्यादिना ठक्। `अध्यर्धपूर्व' (5.1.28) इत्यादिना लुक्। पञ्च शरावाण्यस्मिन्निति बहुव्रीहिः।
अथेह कथं भवति?--पञ्चारत्न्यो दशारत्न्य इति, यवाता यणादेशे कृते गुणे च नात्रेगन्तमुत्तरपदम्? इत्याह--`पञ्चारत्न्यः' इत्यादि। यद् यण्गुणौ ह्यजादौ विभक्तौ परत इति ताविह बहिरङ्गौ, स्वरस्त्वन्तरङ्ग; प्राग्विभक्त्युत्पत्तेर्भावात्, `असिद्धं बहिरङ्गमन्तरङ्गे' (व्य.प.42)। तेन पञ्चारत्न्य इत्यत्रापि द्विगुस्वर इगन्तलक्षणः प्रवर्त्तते। `स्थानिवद्भावाद्वा' इति। `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति पूर्वस्वरे कर्त्तव्यो यो गुणः स्थानिवद्भावेनेगन्तलक्षणः प्रवर्तते। ननु च स्वरविधौ `न पदन्त' (1.1.58) इत्यादिना स्थानिवद्भावः प्रतिषिध्यते? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्' इत्युक्तत्वात् (का.1.1.58) न चैवमिको यण्गुणौ लोपाजादेशौ। `पञ्चारत्न्यः' इति। अरत्निशब्दोऽत्र `कृदिकारादक्तिनः' (ग.सू.50) `सर्वतोऽक्तिन्नर्थादित्येके' (ग.सू.51) इति बह्वादिषु पाठान्ङीषन्तः। इहापि पूर्ववत् तद्धितार्थे द्विगुः, मात्रचस्तु लोपः।।
30. बह्वन्यतरस्याम्। (6.2.30)
पूर्वोणेगन्तादिषूत्तरपदेषु बहुशब्दस्यापि नित्यं प्रकृतिस्वरे प्राप्ते विकल्पोऽयमुच्यते। `बहुरत्निः' इति। पूर्ववत् समासादि। `बहुमास्यः' इति। पूर्ववद्यप्। बहुकपालादयः समासाः, इहपि `संस्कृतं भक्षाः' (4.2.16) इत्यत्रापि तद्धितार्थे कृतेऽण्प्रत्ययलोपा द्रष्टव्याः। `बहुशब्दोऽन्तोदात्तः' इति। स हि `कुर्भ्रश्च' (द.उ.1.107) इत्यनुवर्त्तमाने `बहि महि वृद्धौ' (धा.पा.633,634) इत्यस्मात्। `लन्धिर्ब्रह्योर्नलोपश्च' (द.उ.1.114) इति कुप्रत्ययं विधाय व्युत्पाद्यते, तेन प्रत्ययस्वरेणान्तोदात्तः। `यत्र यणादेशः' इति। बह्वरत्निरित्यत्र।।
31. दिष्टिवितस्त्योश्च। (6.2.31)
अबह्वर्थोऽयमारम्भः. `पञ्चदिष्टिः' इति। पञ्चारत्निरित्यनेन तुल्यम्।।
32. सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्। (6.2.32)
`साङ्काश्यसिद्धः' इति। `सिद्धशुष्कपक्वबन्धैश्च' (2.1.41) इति समासः। `साङ्काश्यकाम्पिल्यशब्दौण्यप्रत्ययान्तत्वात्' इति। `वुच्छण्' (4.2.80) इत्यादिना सङ्काशादिलक्षणं चातुरार्थिकप्रत्ययं विधाय व्युत्पादितत्वात्।
`ऊकशब्दः' इत्यादि। `कृदाधारार्चिकलिभ्यः कः (द.उ.3.18) इत्यधिकृत्य `सृदृभूशुषिमुषिभ्य कक्' [कित्--द.उ.मुद्रितः पाठः] (द.उ.उ.19) इति कक्प्रत्ययः किद् विधीयमानोऽवतेरपि भवतीति। तनोकशब्दः कक्प्रत्ययान्तः। `ज्वरत्वर' (6.4.20) इत्यादिना वतेरूठ्। `निधनशब्दो निघाञः क्युप्रत्यये मध्योदात्तः' इति। निधनशब्दोऽयं `कॄपॄवृजिमन्दि निधाञः क्युः' (द.उ.5.26) [`निधाञ्भ्यः' मुद्रितः पाठः--द.उ. सप्तम्येकवचने `इकोऽचि विभक्तौ' (7.1.73) इति नुमं कृत्वा शब्दरूपापेक्षया नपुंसकलिङ्गं वेदितव्यम्। क्युरित्येतस्मिन् शब्दरूपे प्रत्ययसंज्ञकं इत्यर्थः। `कुम्भीकलसीशब्दौ ङीपन्तौ' इति। तेनान्तोदात्ताविति भावः। ङीषन्तता तु `जातेरस्त्रीविषयात्' (4.1.63) इत्यादिना विहितेन ङीषा वेदितव्यमा। `भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः' इति। `ष्ट्रन्' (द.उ.8.79) इति वर्त्तमाने `भ्रस्जिगमिनमिहनिविष्यशां वृद्धिश्च' [`विश्यशां' इति मुद्रितन्यासपाठः]
34. राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु। (6.2.34)
राजन्यवाचीनि यान्यसमस्तानि बहुवचनान्तानि तदवयवको यो द्वन्द्वः स राजन्यबहुवचनद्वन्दव इत्युक्तः। `श्वाफल्कचैत्रकरोधकाः' इति। श्वाफल्काश्च चैत्रकाश्च रोधकाश्चेति द्वन्द्वः। तत्र रोधकशब्दमपेक्ष्य चैत्रकशब्दस्य पूर्वपदत्वम्, चैत्रकशब्दमपेक्ष्य श्वाफल्कशब्दस्य, तयोरपि प्रकृतिभावः। अत एव तयोर्द्वयोरपि स्वरं दर्शयितुमाह--`श्वाफल्कशपब्दश्चैत्रकशब्दश्च' इत्यादि। `शिनिशब्द आद्युदात्तः' इति। स हि--`वीज्याज्वरिभ्योनिः' (द.उ.1.18) इति निप्रत्ययेऽनुवर्तमाने `वहिश्रिश्रुद्रुग्लाहात्वरिभ्यो नित्' (द.उ.1.21) [वहिश्रियुश्रुग्लाहात्वरिभ्यो--द.उ.] इति विधीयमाने शीङोऽपि भवति। बहुलवचनाद् ह्रस्वत्वं च तत एव। तेनाद्युदात्तो भविता नित्स्वरेण। `तदपत्येषु' इति। तस्य शिनेः श्रत्त्रियस्य यान्यपत्यानि तेष्वित्यर्थः। `अभेदेन' इति। उपचरेणेत्यर्थः।
`हैमायनाः' इति। `यञिञोश्च' (4.1.101) इति फक्। ननु च राजन्यशब्दोऽयं क्षत्रियजातिवचनः, तथा चोक्तम्--`राज्ञोऽपत्ये जातिग्रहणम्' (वा.392) इति; राजन्यो भवति क्षत्रियश्चेत्' इति। यश्चान्धकवृष्णिषु वर्तते द्वन्द्वः स तु क्षत्रियवाचिनामेव भवति; अन्धकवृष्णीनां क्षत्रियत्वात्। ततश्च द्वैप्यहैमायना इत्युक्तं प्रत्युदाहरणम्। अयमपि हि राजन्यवाचिनामेव द्वन्द्वः; अन्धकवृष्णिषु वर्तमानत्वदित्यत आह--`अन्धकवृष्णयः' इत्यादि। `अन्धकवृष्णिषु' इत्येतावतैव क्षत्रियग्रहणे सिद्धे यद्राजन्यग्रहणं क्रियते, तस्यैतत् प्रयोजनम्--विशिष्टा येऽभिषिक्तवंश्यास्तेषां ग्रहणं यथा स्यादित्येवमर्थम्। विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानः=वंशः, इह तु जन्मना य एकलक्षणः सोऽभिप्रेतः, तत्र भवो वंश्यः, दिगादित्वात् (4.3.54)। यत्। तत्रैतत् स्यात्। द्वैप्यहैमायना अप्यभिषिक्तवंश्य एव क्षत्त्त्रियाः? इत्यत आह--`एते च' इत्यादि।
`सङ्कर्षणवासुदेवौ' इति। सङ्कर्षणश्च वासुदेवश्चेत्येकवचनान्तयोरयं द्वन्द्वः। `वृष्णिकुमाराः' इति। तत्पुरुषोऽयम्। `कुरुपाञ्चालाः' इति। अत्र सर्वमस्ति, तथाप्यन्धकवृष्णिग्रहणान्न भवति; तत्रावृत्तेः।।
35. संख्या। (6.2.35)
`एकादश' इति। एकश्च दश चेति द्वन्द्वः। `द्वादश' इति द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (6.3.47) इत्यात्तवम्।।
36. आचार्योपसर्जनश्चान्तेवासी। (6.2.36)
आचार्य उपसर्जनं प्रधानं यस्य स ततोक्तः। अन्ते वसतीत्यन्तेवासी। गौणश्चायं निर्देशः। द्वन्द्वस्य यान्यवयवभूतानि तान्याचार्योपसर्जनवाचीनि। तस्मादन्तेवासिवाचित्वाच्चाभिधेय उपचारेण तान्याचार्योपसर्जनान्तेवासिशब्दाभ्यामुच्यन्ते। तदवयवोऽपि द्वन्द्वावयवधर्मेणाचार्योपसर्जनान्तेवासीति चोच्यते। `आपिशलिराचार्यः' इति। `अत इञ्' (4.1.95)। `आपिशलिरेव वा छात्रा आपिशालाः' इति। पूर्ववदण्। `उभयथा' इत्यादि। उभयप्रकारेणापि व्युत्पत्तावचार्योपसर्जनश्चान्तेवासी भवति। तथा हि--उभयतर शिष्या एव प्रधानभूता एवमुच्यन्ते, आचार्यस्तु तद्विशेषणत्वादुयसर्जनीभूतः। आपिशलशब्दोऽणन्तत्वात् प्रत्ययसवरेणान्तोदात्तः। पाणिनिना प्रोक्तमिति `वृद्धाच्छः' (4.2.114) `तदधीते' (4.2.59) इत्यण्, तस्य लुक्। पाणिनीयशब्दः प्रत्ययस्वरेण मध्योदात्तः।
`पाणिनीयरौढीयाः' इति। रोढस्यापत्यं रौढिः, `अत इञ्' (4.1.95) रौढेराचार्यस्य च्छात्रा इति `इञश्च' (4.2.112) इत्यणः प्रापतस्य `न द्व्यचः' (4.2.113) इति प्रतिषेधे कृते `वृद्धाच्छः' (4.2.114)। अथ वा--रौढिना प्रोक्तं रौढियम्, ततश्च `तदधीते' (4.2.59) इत्यण्, तस्य पूर्ववल्लुक्--रौढीयाः। रौढीयशब्दोऽपि पूर्ववन्मध्योदात्तः। काशकृत्स्नेन प्रोक्तमित्यण् तदधीयते काशकृत्स्नाः, पूर्ववदणो लुक्।
`छान्दसवैयाकरणाः' इति। भवत्ययमन्तेवासिना द्वन्द्वः, न त्वाचार्योपसर्जनः। त्र ह्यन्तेवासिन एव छान्दसवैयाकरणाभ्यामुच्यन्ते, न त्वाचार्योपसर्जनीभूताः। छन्दोऽधीयते च्छान्दसाः, व्याकरणमधीयत इति वैयाकरणाः। तत्र ते च यत आचार्यादधीयते तस्यान्तेवासिनः। `आपिशलपाणिनीये शास्त्रे' इति। आपिशलिना प्रोक्तमापिशलम्। पाणिनिना प्रोक्तं पाणिनीयम्। यत्र शास्त्रे प्राधान्येनोच्येत तत्र प्रत्ययस्य विधानादाचार्यः प्रधानभूतः; तद्विशेषणत्वात्। आचार्यत्वं तस्येह शास्तरापेक्षम्। न ह्याचार्यतान्तेवास्यपेक्षैव भवति, अपि तु शासत्रापेक्षापि।।
37. कार्तकौजपादयश्च। (6.2.37)
`अणन्तावेतौ' इति। तेन प्रत्ययस्वरेणान्तोदात्ताविति भावः। उत्तरत्राप्यणन्तस्यानोदात्तता वेदितव्या।
`सौवर्णिरिञन्तः' [`सावर्णिः--काशिका] इति। ञित्स्वरेणाद्युदात्त इत्यभिप्रायः। एवमुत्तरत्रापीञन्तस्याद्युदात्तत वेदितव्या। माण्डूकेयशब्दः `ढक् च मण्डूकात्' (4.1.119) इति ढगन्तः।
`अवन्तेः' इत्यादि। अवन्तेरपत्यानि बहुनीति `बृद्धेत्कोशलाजादाञ्ञ्यङ्' (4.1.171) इति ञ्यङ्, तस्य `तद्राजस्य' (2.4.62) इत्यादिना लुक्। अवन्तीनां निवासो जनपदः `तस्य निवासः' (4.2.69) इति चातुर्थिकोऽण्। तस्य `जनपदे लुप्' (4.2.81) इति लुप्। `अवन्तयः, तथाश्मकाः' इति। यथावन्तय इति कृतस्तथाश्मका इत्यत्रापि। अत्र क्षत्त्रियवाचिनो जनपदवाचिनश्च शब्दाः। तद्धितेऽपत्येषु यो बहुषत्पद्यते तदन्ताचच निवासे चातुरर्थिकः। तस्य लुप् कृतः। तथाश्मका इत्यत्रापि। एतावन्मात्रमतिदिश्यते। अश्मकस्यापत्यानि बहूनि, `साल्वावयव' (4.1.173) इत्यादिनेञ्, तस्य लुक् पूर्ववत्, तेषां निवासेऽण्, तस्य पूर्ववल्लुप्। अवन्तिशब्दो घृतादित्वादन्तोदात्त इत्येके। चित्स्वरेणेत्यपरे, ते हि `भुवो झिच्' (पं.उ.330) बहुलवचनादवतेरपि झिज्भवतीति वर्णयन्ति।
`युवद्वन्द्वोऽयम्' इति युदसंज्ञकप्रत्ययान्तयोरयं द्वन्द्व इत्यर्थः। `फैलः' इति। `पीलाया वा' (4.1.118) इत्यण्। `श्यायर्णशब्दो बिदादिः' इति तेन ततोऽप्त्यविवक्षायामञ् भवतीति भवाः। `स्त्री' इति। `शार्ङ्गरवाद्यञो ङीन्' (4.1.73)। `श्यापर्णेयः' इति। `स्त्रीभ्यो ढक्' (4.1.120)। `बहुचचनमतन्त्रम्' इति। अविवक्षितत्वात्। `तेन' इत्यादिना बहुवचनाविवक्षायाः फलं दर्शयति।
`कपिरन्तोदात्तः' इति। प्रातिपदिकस्वरेण। `तेन' इत्यादि। यस्मात् कपिशब्दोऽयं लुगन्त; तेन बहुवचनमत्राश्रीयत एव। `ऋष्यण्' इति। `ऋष्यन्धक' (4.1.114) इत्यादिना। `यूनि य इञ्' इति। `अत इञ्' (श्र4.1.95) इत्यनेन। `पाञ्चाली' इति। `जनपदशब्दात् क्षत्रियादञ्' (4.1.168) इत्यञ्। तदन्तात् पूर्ववन्ङीप्। `पाञ्चालेयी' [पाञ्चालेयः--काशिका] पूर्ववड्ढक्। एवं `वार्चलयी' इत्यत्रापि। `शाकल्यः' इति। गर्गादित्वात् (4.1.195) यञ्। शाकल्यशब्दो ञित्स्वरेणाद्युदात्तः।
`शणकबाभ्रवाः' इति। शणं करोतीति `कै गै शब्दे' (धा.पा.916,917) इत्यस्माद्धात्तोः `आतोऽनुपसर्गे कः' (3.2.3), तेन प्रत्ययस्वरेण शणकशब्दोऽन्तोदात्तः। `बाभ्रवः' इति। `ओर्गुणः' (6.4.146)।
`आर्चाभिनः' इति। प्रोक्तार्थे णिनिः, तस्मादध्येतर्यण्, तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। एवमुत्तरत्रापि प्रोक्तप्रत्ययान्तादध्येतृप्रत्ययस्य लुग्वेदितव्यः। `मुद्गलः कण्वादिः' इति। गर्गाद्यन्तर्गणः। `तदपत्यस्य' इति। मौद्गलाः' इति। मौद्गल्यशब्दात् `कण्वादिभ्यो गोत्र' (4.2.111) इत्यण्, `यस्येति च' (6.4.148) इत्यकारलोपः। `आपत्यस्य च तद्धेतेऽनाति' (6.4.151) इति यकारस्य। आर्चाभिशब्दः प्रत्ययस्वरेणान्तोदात्तः।
`कुन्ते सुराष्ट्रस्य' इत्यादि। `कमु कान्तौ' (धा.पा.443) इत्यस्मात् पूर्ववत् क्तिच्, बहुलवचनादुत्त्वम्। कुन्ति शोभनं राष्ट्रमस्येति सुराष्ट्रः। कुन्तेरपत्यानि बहूनि `वृद्धेत्कोशलाजादञ्ञ्यङ्' (4.1.171); सुराष्ट्रस्यापत्यानि बहूनि, जनपदशब्दादिना (4.1.168) अण्, तयोः `तद्राजस्य' (2.4.62) इत्यादिना बहुषु लुक्। ततः कुन्तीनां निवासो जनपदः `तस्य निवासः' (4.2.69) इति चातुरर्थिकोऽण्, `तस्य जनपदे लुप्' (4.2.81) इति लुप्। कुन्तयश्च सुराष्ट्राश्च कुन्तिसुराष्ट्राः। एवं कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे जनपदद्वन्द्वादयं भवति। कुन्तिशब्दाश्चित्स्वरेणान्तोदात्तः। `चिन्तिसुराष्ट्राः' इति। चिन्तिशब्दोऽप्यान्तोदात्त एव। सोऽपि `चिति समृत्याम्' (धा.पा.1535) इत्यस्मात्। क्तिच्प्रत्ययान्तः। केचिदवन्तिकुन्तिशब्दौ `क्तिच्क्तौ च संज्ञायाम्' (3.3.174) इति क्तिच्प्रत्ययान्तौ व्युत्पादयन्ति।
`पचाद्यन्प्रत्ययान्तौ' इति। `तडि हर्षे' (धा.प.280) इत्यस्मात् केवलादवपूर्वाच्च पचाद्यच्। `वष्टि भागुरिरल्लोपमवाप्योरुपसरगयोः' इत्यवशब्दाकारस्य लोपः। `यञो लुक् क्रियते' इति। `यञञोश्च' (2.4.64) इति।
`अविमत्तकामविद्धा' इति। `मदी हर्षे' (धा.पा.1208) इत्यस्माद्विपूर्वान्निष्ठा--विमत्तः, न विमत्तोऽविमत्त इति। `तत्पुरुषे तुल्यार्थं' (6.2.2.) इत्यादिना पूर्वपदसय प्रकृतिभावे कृते नञ्स्वरेणाद्युदात्तः। `बह्वचः' इति। अनेन सूत्रैकदेशेन `बह्वच इञः प्राचयभरतेषु' (2.4.66) इत्येतत् सूत्रमुपलक्षयति। `शलङ्कु शलङ्कञ्च' इति। नडादिष्वेतत् पठ्यते। अस्यायमर्थः--शलङ्कुशब्दः फकमुत्पादयति शलङ्कादेशञ्चापद्यत इति।
`बाभ्रवदानच्युताः' इति। ब्रभ्रोरपत्यं बाभ्रवः, अणन्तः। दानच्युतशब्दादिञो बह्वचो लुगिति पूर्ववत्। `कठकालपाः' इति। कठशब्दः पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। लोकाक्षस्यापत्यं `लौकाक्षि)' तसय च्छात्रा `लौकाक्षाः'। `स्त्रीकुमाम्' इति। `सत्यायतेर्ड्रट्' (पं.उ.4.165) तदन्तात् `टिड्ढाणञ्' (4.1.15) इति ङीप्, तत्र प्रतद्ययस्वरेणान्तोदात्ताकारस्य `यस्येति च' (6.4.148) इति लोपः, `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इति ङीप उदात्तत्वे कृते स्त्रीशब्दो ह्युदात्तः।
`तस्य च्छात्रा मीदाः' इति। `इञश्च' (4.2.112) इत्यण्। `तथा पैप्पलादाः' इति। पिप्पलावस्यापत्यं पौप्यलादिः, तस्य च्छात्राः पैप्पलादाः। `वत्सजरत्' इति। `वॄतॄवदिहनिकमिकषिभ्यः सः' (द.उ.9.21) [वॄतॄवदिहिनिकमिकषियुमुचिभ्यः सः--द.उ.] इति वदेः सः, अनेन वतसशब्दोऽन्तोदात्तः, `जीर्यतेरतृन्' (3.2.104)। जरत्, तयोर्द्वन्द्वः। `सौश्रुतपर्थवाः' इति। सुश्रुतस्य छात्राः सौश्रुताः। `पृथोश्छात्राः पार्थवाः' इति। उभयत्र `तस्येदम्' (4.3.120) इत्यण्।
`जरामृत्यु' इति। जॄषित्येतस्मात् `षिद्भिदादिभ्योऽङ्' (3.3.104) इत्यङ्, जरा, तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्। म्रियतेः `भृजडिमृङ्भ्यां युक्त्युकौ' (द.उ.1.135) इति त्युक्, मृत्युः।।
38. महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु। (6.2.38)
`महच्छब्दोऽन्तोदात्तः' इति। `वर्त्तमाने पृषद्बृहन्महत्' (द.उ.6.5) इत्यन्तोदात्तस्य तस्योणादिषु निपातनात्। अथेह कस्मान्न भवति। महतो व्रीहिर्महद्व्रीहिः? इत्यात आह--`तस्य' इत्यादि। एतच्च लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) लभ्यते। अथ किमर्थं प्रवृद्धशब्द इह पठ्यते, यावता निष्ठान्तोऽसौ, तत्र `कर्मधारयेऽनिष्ठा' (6.2.46) इति वक्ष्यमाणेनैव सिदधम्? इत्यत आह--`कर्मधारयेऽनिष्ठ' इत्यादि। तथैव हि परिभाषया `श्रेण्यादयः कृतादिभः' (2.1.59) इति तेन प्रतिपदोक्तेनायं समासः। तत्र `कर्षारयेऽनिष्ठा' (6.2.46) इत्यनेन प्रकृतिबावस्याविधिः। न च महाप्रवृद्ध इत्ययं प्रतिपदोक्तेन निष्ठान्तेन कर्मधारयः; तत्र यदि प्रवृद्धशब्दोऽत्र न पठ्यते, तत्र परतः प्रकृतिभावो न स्यात्। तस्मात् तस्येह पाठः क्रियते। योगश्चायं समासस्वरस्यापवादः।।
39. क्षुल्लकश्च वैश्वदेवे। (6.2.39)
`क्षुधं लातीति क्षुल्लः' इति। `आतोऽनुपसर्गे कः' (3.2.3) इति कप्रत्ययः। `तोर्लि' (8.4.60) इति परसवर्णः।।
40. उष्ट्रः सादिवाम्योः। (6.2.40)
`सर्वधातुभ्यः ष्ट्रन्' (पं.उ.4.158) इत्यस्मात् ष्ट्रन्नितयनुवरतमाने उषिखनिभ्यां कित् (पं.उ.4.161) इत्येवं व्युत्पादितत्वात्।।
41. गौः सादसादिसारथिषु। (6.2.41)
`गोः सादः' इत्यनेन वाक्यशेषेण गोसादशब्दस्य षष्ठीसमासत्वं दर्शयति। `गां सादयतीति च' [वा--काशिका] इति। एतेनाप्युपदसमासत्वम्; सवेर्विशरणार्थत्वात् गोशब्दे कर्मण्युपपदे कृते गोसाद इति भवति। गोशब्दः `गमेर्डोस्' (द.उ.2.11) [गमेर्डोः--पं.उ;द.उ.] इति डोस्प्रत्ययान्तत्वात् प्रत्ययसवरेणान्तोदात्तः।।
42. कुरुगारहपतिरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च। (6.2.42)
अत्र `कुरुगार्हपत' इत्येवमादयः पण्यकम्बलपरयन्ताः समस्ता-। तत्र कुरुगार्हपत--रिषतगुरु--इत्येतावविभक्तिकौ। इतरे तु असूतजरतीतयेवमादयः प्रथमैकवचनान्ताः। सा च प्रथमा सुबध्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। `दासीभाराणाम्' इति बहुवचनं गणस्य सूचनार्थम्। अत एवाह--`दासाभारादीनां च' इति। `कुरुशब्दः कुप्रत्ययान्तः' इति। `कुर्भ्रश्च' (द.उ.1.107) इत्यतः `कु' इत्यधिकृत्य `कृग्रोरुचच' (द.उ.1.109) इति कुप्रतययान्तत्वेन व्युत्पादितत्वात्।
`कुरुवृज्योर्गार्हपत इति वक्तव्यम्' इति। कुरुवृजिशब्दयोर्गार्हपतशब्द उत्तरपदे प्रकृतिभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--कुरुशब्दस्य तावत् `कुरुगार्हपत' (6.2.42) इति सूतद्र एवोपादानाद्भविष्यति। वृजिशब्दस्यापि चकारस्येहानुक्तसमुच्चयार्थत्वादिति। `वृजिशब्द आद्युदात्तः' इति। वृजेरिन्। `इगुपधात् किच्च' (द.उ.1.48) इत्येवं व्युत्पादितत्वात्।
`रिक्तगुरुः' इति। रिक्तगुरुशब्दस्य समानाधिकरणसमासतां दर्शयति। एवं `असूता जरती' इत्यनेनाप्यस्यासूतजरतीशब्दस्य। `अश्लौला दृढरूपा' इत्यनेनाश्लीलदृढरूपशब्दसाय। न सूतेत्यसूताशब्दोऽपि नञ्स्वरेणाद्युदात्तः। एवमश्लीलाशब्दोऽपि। न श्लीलाऽश्लीला। `सिध्मादेराकृतिगणत्वाल्लच्' इति। `सिध्मादिभ्यश्च' (5.2.97) इति `प्राणिस्थादातो लजन्यतरसयाम्' (5.2.96) इत्यतो लजितयस्यानुवृत्तेः। `कपिलकादित्वाच्च लत्वम्' इति। `कृपो रो लः' (8.2.18) इत्यत्र `कपिलकादीनाञ्चोपसंख्यानम्' (वा.915) इति लत्वस्योपसंख्यानात्। कथं पुनर्ज्ञायते---श्रीर्यस्यास्ति तच्श्लीलशब्देनीच्यते? इत्याह--`अश्लीलदृढरूपा' इत्यादि। न श्लीलमश्लीलमिति अश्लोलशब्दस्यार्थः प्रतिषिध्यते। तत्र यदि श्लीलशब्दस्य श्रीर्यस्यास्ति स इत्यर्थो न स्यादश्लीलदृढरूपेत्यत्र निःश्रीका नोच्येत, उच्यते च, ततो ज्ञायते श्रीमदद्वस्तु श्लीलशब्देनोच्यत इति। `संख्थानमात्रेण शोभना' इति। दृढत्वाच्च संस्थानस्य। श्रीरहितत्वाच्च संस्थानमात्रेण शोभना। मात्रशब्दः श्रीमत्ताया व्यवच्छेदकः। `लावण्यरहिता' इत्यनेन निःश्रीकेत्यस्यार्थं विस्पष्टीकरोति।
`पारे वडवेव पारेवडवा' इति। केन पुनरत्र समासः? न हीवार्थे समासस्य किञ्चिल्लक्षणमस्ति। अथापि कथञ्तित् समासः स्यात्। एवमपि `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति विभक्तिलोपः कस्मान्न भवति? इत्याह--`निपातनादेव' इत्यादि। `तितिलिनोऽपत्यम्' इति एतेनापत्यार्थे तितिलिञ्शब्दात् तद्धितोत्पत्तिमिह दर्शयति। `छात्त्रा वा' [छात्त्रो वा तैतिलः--काशिका] इति। तितिलन इत्यपेश्रते। एतेनापि `तस्येदम्' (4.3.120) इत्यर्थे तैतिला इति। पूर्ववदुपसंख्यानाट्टिलोपः। `यदन्तत्वात्' इति। `अवद्यपण्य' (3.1.101) इति यदन्तस्य निपातनात्। `आद्युदात्तः' इति। `यतोऽनावः' (6.1.213) इत्यनेन।
`पण्यकम्बलः संज्ञायामिति वक्त्व्यम्' [`संज्ञायां वक्तव्यम्' इति मुद्रितः पाठः] इति। पण्यकम्बलशब्दः संज्ञायां पूर्वपदप्रकृतिसवरो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम्--`पूगेष्वन्यतरस्याम्' (6.2.28) इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। संज्ञायामेव पण्यकम्बलशब्दः पूरग्वपदप्रकृतिस्वरो भवति, नान्यत्रेति। `अन्यत्र समासान्तोदात्तत्वमेव' इति। ननु च पण्यशब्दोऽयं कृत्यप्रत्ययान्तः `तत्पुरुषे' (6.2.2) इत्यादिना तवस्मिन् पणितव्ये पूर्वपदस्य प्रकृतिसवरेणैव भवितव्यम्, तत् कथं समासन्तोदात्तत्वम्? इत्याह--`प्रतिपदोक्ते हि' इत्यादि। `कुत्यतुल्याख्या अजात्या' (2.1.68) इति यः कृत्यसमासः प्रतिपदोक्तः तत्र `द्वितीयाकृत्याः' (6.2.2) इति पूर्वपदस्य प्रकृतिभावो विहितः। न चायं प्रतिपदोक्तः समासः। `विशेषणं विशेष्येण (2.1.57) इति समान्येन विहितत्वात्। कुत एतत्? कम्बलशब्दस्य जातिशब्दत्वात्। `द्वितीयाकृत्या' इत्यनेन सूत्रैकदेशेन `तत्पुरुषे तुल्यार्थ' इत्यादिकं सूत्रमुपलक्षयति।
`दासीभारः' इति। दासीशब्दः पूर्वमुक्तस्वर। `देवहूतिः' इति। पचाद्यजन्तत्वादन्तोदात्तः। `ओषशब्दो घञन्तत्वात्' इति। `उष दाहे' (दा.पा.696) इत्यस्य घञि व्युत्पादितत्वात्। `चन्द्रे माङो डित्' [चन्द्रे मो डित्--द.उ.,पं.उ.--`चन्द्रे मोऽसिः'--काशिकामुद्रितः पाठः] (द.उ.9.88) इत्यसिपरत्ययान्तोऽयम्। `मिथुनेऽसिः पूर्ववच्च सर्वम्' (द.उ.9.82) इत्यतोऽसिप्रत्ययस्यानुवृत्तेः। `चन्द्रशब्दस्तु रक्प्रतययान्तत्वात्' इति। `स्फायितञ्चि' (द.उ.8.31) इत्यादिना सूत्रेण रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। `स सर्वो दासीभारादिषु द्रष्टव्यः' इति। दासीभारादेराकृतिगणत्वात्।।
43. चतुर्थी तदर्थे। (6.2.43)
`तदर्थे' इति। तस्मै इदम्, चतुर्थ्यन्तम्, तस्य योर्थस्तदर्थ इत्यर्थः। कथं पुनर्यूपशब्द आद्युदात्त? इत्याह--`कुसुयुभ्याञ्च' इत्यादि। `पानीविषिभ्यः पः' (द.उ.7.2) इत्यतः `पः' इत्यनुवर्त्तमाने `कुसुयुभ्याञ्च' (द.उ.7.5) [कुयुभ्याञ्च--मुद्रितः पाठः] इति यूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते। तत्र `सुशॄभ्यां निच्च' (पं.उ.3.26) इत्यतो निदिति वर्तते, तेनादयुदात्तो भवति। दीर्घत्वं तु `स्तुवो दीर्घश्च' (पं.उ.3.25) इत्यतो दीर्घग्रहणानुवृत्तेः। `कलप्रत्ययान्तः' इति। `वृषादिभ्यश्चित् (द.उ.8.109) इत्यत्र `कलस्तृपशच' (द.उ.8.107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदात्तः' इति। हनिकुषिनीरमिकाशिभ्यः क्थन्' (द.उ.8.107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदत्तः' इति। `हनिकुषिनीरमिकाशिभ्यः क्थन्' (द.उ.8.107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदात्तः' इति। `हनिकुषिनीरमिकाशिभ्यः क्थन्' (द.उ.6.27) इति कथन्प्रत्ययान्तत्वात्। `वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः' इति। ङीष्प्रत्ययस्तु गौरादित्वात्। (4.1.41) वेदितव्यः। `प्रकृतिविकारभावे' इत्यादि। कथं पुनः सामान्येनोच्यमानः प्रकृतिविकारभावे लभ्यते? पूर्ववदन्यतरस्यांग्रहणानुवृत्तेः। तस्य च व्यवस्थितविभाषात्वाद्वक्ष्यमाणज्ञापकात्।।
44. अर्थे। (6.2.44)
`मातृपितृशब्दावन्तोदात्तौ' इति। `नप्तृनेष्ट्ट' (द.उ.2.3) इत्यादौ तृजन्तयोस्तयोर्निपातितत्वात्। `लित्स्वरेण मध्योदात्तः' इति। `देवात् तल्' (5.4.27) इति तल्प्रत्ययन्तत्वात्। किमर्थं पुनरेतत्, न `चतुर्थी तदथे' (6.2.43) इत्येवं सिद्धम्, अर्थशब्दोऽपि तदर्थमेवोत्तरपदं भवति? इत्याह--`तदर्थविशेषा एव' इत्यादि। एवं मन्यते--अर्थशब्दोऽपि वृत्तौ विशेषवाची भवतीति। युक्तञ्चैतत्। तदा मात्रर्थमित्युक्ते मात्रादिभ्यो व्यावृत्तरूपं विशिष्टमेव मात्रर्थं वस्तु प्रतीयते। `अश्वधासः' इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति।।
45. क्ते च। (6.2.45)
`अश्वशब्द आद्युदात्तः' इति। क्वन्परत्ययान्तत्वत्। `मनुष्यशब्दोऽन्तस्वरितः' इति। `मनोर्धातावञ्यतौ षुक्च' (4.1.161) इति यत्प्रत्ययान्तत्वात्। `परिशिष्टमन्तोदात्तम्' इति। तत् पुनर्गोशब्दः, तापसशब्दश्च। तत्र `गमेर्डोस्' (द.उ.2.11) [गोमर्डोः--द.उ; पं.उ.] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्। स हि `तपःसहस्राभ्यां विनीनी' (5.2.102) `अण् च' (5.2.103) इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ `गोरक्षितम्' इति कथमिदमस्योदाहरणम्, यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी, तत्र हि योगत उत्तरपदेन भवितवयम्? इत्यत आह--`गोभ्यो रक्षितम्' इत्यादि। न ह्यत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः, किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्। तस्मात् सम्प्रदान एषा चतुर्थी, तत् कुतस्तादर्थ्यम्!।।
46. कर्मधारयेऽनिष्ठा। (6.2.46)
`श्रेणिकृताः' इत्यादि। `श्रेण्यादयः कृतादिभिः' (2.1.59) इति समासः। `श्रेणिशब्द आद्युदात्तः' इति। नित्स्वरेण। स हि `वीज्याज्वरिभ्यो निः' (द.उ.1.18) इत्यतो निरिति वर्त्तमाने `वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्' (द.उ.1.21) [`वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्' द.उ.] इत्येवं व्युत्पाद्यते, तेनाद्युदात्तः। `पूगशब्दोऽन्तोदात्तः' इति। `मुदिग्रोर्गग्गौ' (द.उ.3.66) इति बहुलवचनात् पूञोऽपि गक्। तेन प्रत्ययस्वरेणान्तोदात्तः।
`कृताकृतम्' इति। कृतञ्च तदकृतं चेति `क्तेन नञ्विविशिष्टेनानञ्' (2.1.60) इति समासः। एकदेशस्य कृतत्वात् कृतम्, तदैवैकदेशस्याकृतत्वादकृतम्।।
47. अहीने द्वितीया। (6.2.47)
हीनम्=त्यक्तम्, न हीनमहीनम्। `कष्टशब्दोऽन्तोदात्तः' इति। क्तप्रत्ययान्तत्वात् प्रत्ययस्वरेण। `कृच्छ्रगहनयोः कष' (7.2.22) इतीट्प्रतिषेधः। `बहुविरीहिस्वरेणाद्युदात्तः' इति। त्रिशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः। तत्र `बहुव्रीहौ प्रकृत्या' (6.2.1) इति प्रकृतिस्वरे कृते बहुव्रीहिस्वरेण त्रिशकलशब्द आद्युदात्तः। ग्रामशब्दोऽपि आद्युदात्त एव। तथा ह्यसौ `अर्तिस्तुसुहुसृधुक्षि' (द.उ.7.26) इत्यतो मन्परतययेऽनुवर्तमाने `अवतेष्टिलोपश्च' (द.उ.7.27) `ग्रसतेरा च' (द.उ.7.28) इति मन्प्रत्ययान्तो व्युत्पाद्यते। `कान्तारातीतः' इति। कान्तारमतीतवान्, त्यक्तवानित्यर्थः। कान्तारातीतशब्दोऽत्रि हीनशब्दवची।
`द्वितीयानुपसर्ग इति वक्तव्यम्' इति। द्वितीयान्तमनुपसर्गे क्तन्ते प्रकृतिस्वरं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि तस्यैवान्यतरस्यांग्रहणस्यानुवृत्तिं व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्।।
48. तृतीया कर्मणि। (6.2.48)
`तत्पुरुषे तुल्यार्थ' (6.2.2) इत्येव सिद्धे पूर्वपदप्रकृतिस्वरे च कृत्सवरेण थाथादिस्वरेण (6.2.144) बाधिते तत्प्रतिपादनार्थ वचनम्। `अहिहतः' इति। `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। `अहिरन्तोदात्तो व्युत्पादतः' इति। आङ्पूर्वाद्धन्तेः `जनिघसिभ्यामिण्' (द.उ.1.58) इति वर्तमाने `वातेर्डिचच' इति डिदिति च `आङिश्रिहनिभ्यां ह्रस्वश्च' (द.उ.1.66) इत्यनेनाहिरिणन्तो व्युत्पादितः। `केचिदादयुदात्तमिच्छन्ति' इति। ते `समाने ख्यः स चोदात्तः' (पं.उ.4.136) इत्युदात्तग्रहणमप्यनुवर्तयन्ति। `रक्प्रत्ययान्तः' इति। `स्फायितञ्चि' (द.उ.8.31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। `महाराजष्टच्प्रत्ययान्तः' इति। `स्फायितञ्चि' (द.उ.8.31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्वादितत्वात्। `महाराजष्टच्परत्ययान्तः' इति। `राजाहःसखिभ्यष्टच्' (5.4.91) इति टच्प्रत्ययान्तत्वात्। `दात्रलूना' इति। `धः कर्मणि ष्ट्रन्' (3.2.181) इत्यनुवर्त्तमाने `दाम्नीशस्' (3.2.182) इत्यादिना ष्ट्रन् प्रत्ययान्तो दात्रशब्दो व्युत्पाद्यते, तेनाद्युदात्तः। सर्वत्र `तयोरेव कृत्यतखलार्थाः' (3.4.70) इति कर्मणि क्तः।।
49. गतिरनन्तरः। (6.2.49)
`प्रकृतः' इति। कुगतिप्रादयः' (2.2.18) इति समासः। प्रादयोऽबिवर्जिता आद्युदात्तगणे निपात्यन्ते, तेन प्रशब्द आद्युदात्तः। `अभ्युद्धृतः' इति। अत्र अभिशब्दस्यानन्तरस्य न भवति; अत्रोच्छशब्दस्य क्तान्तेन समासं कृत्वा पश्चादभिशब्दस्योद्धृशब्देन समासः कर्त्तव्यः। अथ वा--`कुगतिप्रादयः' (2.2.18) इत्यत्र सुब्ग्रहणस्य निवर्तितत्वादनेकसर्यापि समासो भवति। `समुदाहृतः' इति। अत्रापि समुदोरन्तरयोर्न भवति। `कारकपूर्वस्य ति' इत्यादि। दूरादागत इत्यत्राङी गतिसमासे कृते सत्यनेन प्रकृतिस्वरः, तत उदात्तो भवति। ततो दूरादागत इति `स्तोकान्तिक' (2.1.39) इत्यादिना पञ्चमीसमासः, तस्मिन् कृते `गतिकारकोपपदात् कृत्' (6.2.139) इति वर्तमाने `थाथघञ्' (6.2.144) इत्यादिनोततरपदस्यान्तोदत्तत्वं विधीयते। स च गतिस्वरे सति विधीयत इति शिष्टत्वेन स एव भवति। `पञ्चम्याः स्तोकादिभ्यः' (6.3.2) इत्यलुक्।
अथ कथं `समुद्घृतः' इत्यादि प्रत्युदाहरणमुपपद्यते, यावता `कृद्ग्रहणे गतकारकपूर्वस्यापि ग्रहणम्' (व्या.प.126) इति गतिरिह निष्ठाग्रहणेनैव गृह्यते, एवञ्चानन्तर एव समुद्धृत इत्यत्र सम्शब्दः, समुदाहृत इत्यत्रापि समुच्छब्दौ? इत्यत आह--`अनन्तरग्रहणसामर्थ्यात्' इति। अनन्तरगरहणेन ह्येवमर्थः क्रियते--समुद्धृतमित्यादौ मा भूदिति। यदि परिबाषेयमिहश्रीयतेत, तदा हि उद्धृत इत्यादौ गतिरनन्तर एवेति व्यावर्त्याभावादनन्तरग्रहणमपार्थकं स्यात्।
`प्रकृतः कटं देवदत्तः' इति। `आदिकर्मणि क्तः कर्त्तरि च' (3.4.71) इति करत्तरि हि क्वप्रत्ययः।।
50. तादौ च निति कृत्यतौ। (6.2.50)
`प्रकर्तुम्' इति। तुमुन्। `प्रकर्तेति तृन्नन्तः' इति। तृजन्ताशङ्कां निराकरोति। `कृत्स्वरबाधनार्थम्' इत्यादि। अव्ययस्वरापवादः `गतिकारकोपपदात् कृत्' (6.2.139) इति कृत्स्वरः प्राप्नोति, अतस्तद्बाधनार्थं वचनम्। `प्रजल्पाकः' इति। `जल्पभिक्ष' (3.2.155) इत्यादिना षाकन्। `तृजन्तः' इति। तृन्नन्ताशङ्कां निराकरोति। अथ निद्ग्रहणं किमर्थम्? प्रकृष्टमृष्टमृत्तिका प्रभृत्तिका इत्यतर मा भूदिति चेत्? नैतदस्ति; तथा हि--यत्क्रयायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति, (जै.प.वृ.99) मृत्तिकाशब्दश्चायं नामधेयत्वात् क्रियावची न भवति, तेन तं प्रत्युपसर्गसंज्ञा नास्त्येव? इत्यत आह--`कृद्ग्रहणम्' इत्यादि। `कृति' इत्यनेन संज्ञासम्बन्धकालो लक्ष्यते, तेन कृत्संज्ञावेलायां यस्तादिरित्येषोऽर्थः सम्पद्यत इति कृद्ग्रहणमुपदेशे ताद्यर्थं भवति; कृत्संज्ञाप्रतिपत्तिकालस्योपदेशकालत्वात्। तस्मात् पुनरुपदेशे यस्तादिस्तदर्थं यत्नः क्रियत इत्याह--`इह' इत्यादि। यदि तदुपदेशग्रहणं ताद्यर्थ न क्रियेत, तदा प्रलपितेत्यत्र न स्यात्; इटा तादिताया विहतत्वात्। यस्मिंश्च सतद्युपदेश एव तादिर्भतीति यद्यप्युत्तरकालं तादिता विहन्यते, तथापि भवत्येव। `आगन्तुः' इति। `सितनिगमिमसि' (द.उ.1.122) इत्यादना तन् प्रत्ययः।।
51. तवै चान्तश्च युगपत्। (6.2.51)
`अन्त उदात्तो भवति' इति। कथं पुनरुदात्तो भवतीत्येषो लभ्यते, नेहोदात्तग्रहणमस्ति? न ह्यत्रापूर्व एव स्वरो विधीयते, किं तर्हि? `तिकारकोपपदत् कृत्' (6.2.139) इति प्रकृतिभावेनादेर्यः स्वरः प्राप्नोति न एव, तत् कथं प्रकृत्येति वर्तते? तत्रैवमभिसम्बन्धः क्रियते--तवापरत्ययान्तस्य यः प्राप्नोति सोऽन्त्यस्य भवतीति। स चोदात्त एवेति समार्थ्यादुदात्तो लभ्यते। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। `अन्वेतवा' [आम्वेतवै--काशिका] इति। अनुपूर्वादेतेः `कृत्यार्थे `तवैकेन्केन्यत्वनः' (3.4.14) इति तवैप्रत्ययः, गुणः। `परिपातवा' [परिपातवै--काशिका] इति। परिपूर्वात् विबातेः। `अभिचरितवा' [अभिचरितवै--काशिका] इति। अभिपूर्वाच्चरतेः। `अभिरन्तोदात्तः' इति। प्रातिपदकस्वरेण।
52. अनिगन्तोऽञ्चतौ वप्रत्यये। (6.2.52)
`वप्रत्यये' इति। वकारः प्रत्ययो यस्य स तथोक्तः। `प्राङ्' इत्यादि। प्राञ्चीतीति `ऋत्विक्' (3.2.59) इत्यादिना क्विन्प्रत्ययः, स च वकारमात्र एव; ककारादीनामनुबन्धत्वात्; तेषां चानैकान्तत्वात्। `उगिदचाम्' (7.1.70) इति नुम्, एकवचने हल्ङ्यादि (6.1.68) संयोगान्तलोपौ (8.2.23), `क्विन् प्रत्ययस्य कुः' (8.2.62) इति नकारस्य कुत्वं ङ्कारः। द्विवचनबहुवचनयोस्तु `स्तोश्चुना श्चुः' (8.4.40) इति श्चुत्वं ञकारः। उपसर्गाकारेण सह `अकः सवर्णे दीर्घः' (6.1.101)। `पराङ्' इत्यादि। पराशब्द आद्युदात्तः। तेन `स्वरितो वानुदात्ते पदादौ' [`स्वरिते वाऽनुदातेऽपदादौ' इति मुद्रितः पाठः--न्यासः काशिका, पदमंजरी च] (8.2.6) इत्येष विधिर्न भवति।
`प्रत्यङ्' इति। अत्र प्रतिशब्दस्येगन्तत्वात् परकृतिभावो न भवति। ननु च यणादेशे कृते सोऽप्यनिगन्त एष? स्थानिवद्भावादिगन्तव्यपदेशः कृतेऽपि यणादेशे भविष्यतीत्यदीषः। स्वरविधौ स्थानिवद्भावः प्रतिषिध्यत इति चेत्? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवत्, अन्यस्तु स्थानिवदेव' (का.वृ.1.1.58) इत्युक्तमेतत्। `उदञ्चनः' इति। ल्युट्। अत्राप्युत्तरपदप्रकृतिस्वर एव भवति। `चोरनिगन्तोऽञ्चतौ' इत्यादि। चोरित्यनेन `चौ' (6.1.222) इत्यनेन यदन्तोदात्तत्वं विधीयते तदुपलक्षयति। चोरितयस्यावकाशः--दधीचः, यत्र गतिर्न भवति; अनिगन्तसवरस्यावकाशो यत्राञ्चतेरकारनकारौ न लुप्येते--पराङ्, पराञ्चादिति; इहोभयं प्राप्नोति--पराचः पराचेति अनिगन्तः स्वरो वति विप्रतिषेधेन। प्रतिषेधशब्दस्तत्राध्याहार्यः।।
53. न्यधी च। (6.2.53)
इगन्तार्थोऽयमारम्भः। `उदाततसवरितयोः' इत्यादि। निरुदात्तः `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इति, तेन तदकारस्थाने यो यणादेशः स उदात्तयण्। तेन `उदात्तस्वरितयोः' (8.2.4) इत्यादिना ततः परमञ्चतेरकारः स्वरितो भवति। अध्यङित्यादौ तु न भवति; आदेशाद्युदात्तत्वात्, यणादेश उदत्तयण् न भवतीति कृत्वा।।
54. ईषदन्यतरस्याम्।
समासस्वरापवादोऽयं योगः। `ईषत्कडारः' इति। `ईषदकृता' (2.2.7) इति समासः। यदायं प्रकृतिभावो न भवति, तदा समासान्तोदात्तत्वमेव भवति।
`ईषद्भेद इत्येवमादौ कृत्स्वर एव भवति' इति। परत्वादिति भावः। आदिशब्देन ईषत्कर इत्यादीनां ग्रहणम्। `ईषद्दुःसुषु' (3.3.126) इत्यादिना खल्।।
55. हिरण्यपरिमाणं धने। (6.2.55)
हिरण्यपरिमाणं परिमाणवद् हिरण्यमित्यर्थः। इह तु तद्वाचिशब्दरूपं गृह्यते। `द्विसुवर्णधनम्' इति। सुवर्णशब्दो हिरण्यपरिमाणविशेषवाची। द्वे सुवर्णे परिमाणमस्येति `तद्धितार्थ' (2.1.51) इति समासः। `तदस्य परिमाणम्' (5.1.57) इति `प्राग्वतेष्ठञ्' (5.1.18) `अध्यर्धपूर्व' (5.1.28 इत्यादिना लुक्, ततो धनशब्देन सह कर्मधारयः। द्विसुवर्णशब्दः समासस्वरेणान्तोदात्तः। `बहुव्रीहावपि' इत्यादि। यद्वा--द्विसुवर्ण धनं यस्येति बहुव्रीहिः; तदपि परत्वाद्विकल्प एव भवति; न तु `बहुव्रीहौ प्रकृत्या' (6.2.1) इत्येष नित्यो विधिः।
`प्रस्थधनम्' इति। अयमपि कर्मधारयः। बहुव्रीहिर्वा। प्रस्थशब्दो भवति परिमाणं, न तु हिरण्यसय, किं तर्हि? धान्यादेः। `काञ्चनधनम्' इति। यदि परिमाणग्रहणं न क्रियेत, तदा `हिरण्यम्' इत्येताददुच्यमान इहापि स्यात्; काञ्चनशब्दस्य हिरण्यवाचित्वात्। हिरण्यवाच्यपि परिमाणवाची न भवतीति न भवत्येष प्रसङ्गः। अयमपि समासस्वरापवादो योगः।।
56. प्रथमोऽचिरोपसम्पत्तौ। (6.2.56)
`अचिरोपश्लेषः' इति। अचिरकालसम्बन्ध इत्यर्थ-। अस्यैवार्थ प्रसिद्धतरार्थेन प्रदर्शयतुमाह--`अभिनवत्वम्' इति। `प्रथमवैयाकरणः' इति। प्रथमश्च वैयाकरणश्चेति `पूर्वापर' (2.1.58) इत्यादिना समासः। तत्र यत्तद्वैयाकरणत्वं व्याकरणस्याध्येतृत्वम्। अनेनाचिरकालसम्बन्धोऽध्येतुर्गम्यते। अभिनववैयाकरणादिनाऽचिरकालोपसम्पत्तिमुदाहरणे दर्शयति।
`आद्यो मुख्यो यः सः' इति। अनेनापि प्रत्युदाहरणविषयस्य प्रथमशब्दस्यान्यार्थतां च पक्षेऽचिरोपसम्पत्तेरभावं च। अयमपि समासस्वरापवादो योगः. एवमुत्तरेऽपि।।
57. कतरकतमौ कर्मधारये। (6.2.57)
`किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्' (5.3.92) `वा बूनां जातिपरिप्रश्ने डतमच्' (5.3.93) इति कतरकतमशब्दौ व्युत्पाद्येते, तेन तौ चित्स्वरेणान्तोदात्तौ। `कतरकठः' इति। `कतरकतमौ जातिपरिप्रश्ने' (2.1.63) इति समानाधिकरणसमासः। एतदर्थमपि कर्मधारयग्रहणं कस्मान्न भवति? इत्याह--`इह तु' इत्यादि। कतरकतमशब्दयोर्हि यः प्रतिपदसमासः स एव लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) विज्ञायते। स च कर्मधारय एव। तस्मात् प्रतिपदोक्तत्वादेवैतत्समासस्य कर्मधारयत्वम्। तस्मन्नैतदर्थं कर्मधारयग्रहणमुपपद्यते।।
58. आर्यो ब्राह्मणकुमारयोः। (6.2.58)
`आर्यब्राह्मणः' इति। आर्यश्चासौ ब्राह्मणश्चेति विशेषणसमासः। `आर्यशब्दो ण्यदन्तः' इति। `ऋहलोर्ण्यत्' (3.1.124) इति ण्यति व्युत्पादितत्वात्। `अन्तस्वरितः' इति। तित्स्वरेण। प्रत्युदाहरणे तु समासान्तोदात्तत्वमेव भवति।।
59. राजा च। (6.2.59)
राजब्राह्मणम्' [`राजब्राह्मणः'--काशिका] इति। पूर्ववत् समासः। प्रत्युदाहरणेऽपि पूर्ववत्। राजशब्दः क्वनिन्प्रतययान्तत्वादाद्युदात्तः।
`पृथग्योगकरणमुत्तरार्थम्' इति। उत्तरो विधी राजशब्दस्यैव यथा स्यात्। आर्यशब्दस्य मा भूदिति।।
60. षष्ठी प्रत्यनसि। (6.2.60)
`राज्ञ) प्रत्येनाः' इति। `षष्ठ्या आक्रोशे' (6.3.21) इति विभक्तेरलुक्।।
61. क्ते नित्यार्थे। (6.2.61)
नित्यशब्द आभीक्ष्ण्ये, न कूटस्थे। कुत एतत्? क्त इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः। क्रियापाश्च कौटस्थ्यं नोपपद्यते; क्षणिकत्वात् क्रियायाः। तस्यास्तु पौनःपुन्याद्यपेक्षया युक्तमाभीक्ष्ण्यम्। `कालाः (2.1.28) इति द्वितीयासमासोऽयम्' इति। द्वितीया तु `कालाध्वनोरत्यन्तसंयोगे' (2.3.5) इति। अथ वा--कर्मण्येव। कर्मसंज्ञा तु `कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (म.भा.1.4.51) इति वचनात्। `नित्यशब्दः' इत्यादि। अनेन `ध्रुव उपसंक्यानम्' (वा.434) इति नेर्नित्यशब्दो व्युत्पाद्यते त्यदन्तः। ततश्च त्यपः पित्त्वेनानुदात्तत्वान्नेश्चोदात्तत्वादाद्युदात्तो भवति। `सततमिति यदा कर्मणि क्तस्तदा थाथादिस्वरेणान्तोदात्तः' इति--अयुक्तोऽयं पाठः। यदा हि कर्मणि क्तस्तदा `गतिरनन्तरः' (6.2.49) इति गतेः प्रकृतिभावे सत्याद्युदात्तेन सततशब्देन भवितव्यम्। तस्मात् `सततमिति यदा भावे क्तस्तदा थाथादि (6.2.144) स्वरेणान्तोदात्तः' इत्ययं तत्रानवद्यः पाठो वेदितव्यः। तथा हि सततशब्दोऽपि थाथादिस्वरेणान्तोदात्तः (6.2.144)। भावे हीयं निष्ठेति गतिस्वरो न भवतीत्युक्तम्। यदा तु क्रमणि क्तस्तदा तु गतिस्वरेण सततशब्द द्युदात्त एव भवति। `समो वा हितततयोः' (वपा.6.1.144) इति समो मकारलोपः।
`मुहूर्तप्रहसितः' इति। अत्र थाथादिस्वर (6.2.144) एव भवति प्रहसित इति हसेरकर्मक्तावत् कर्तरि क्तः। समासस्वरे द्वितीयापूर्वपदप्रकृतिसवरेण बाधिते सति थाथादिस्वरः प्राप्नोति। अतस्तदपदादो योगः।।
62. ग्रामः शिल्पिनि। (6.2.62)
सप्तमीनिर्दिष्टग्रहणमनुवर्तते। तेन शिल्पिनीत्यर्थग्रहणम्। ग्राम इति स्वरूपग्रहणमेव।
`ग्रामनापितः' इति। षष्ठीसमासः समासस्वरापवादो योगः। एवमुत्तरोऽपि।।
63. राजा च प्रशंसायाम्। (6.2.63)
`कर्मधारये' इत्यादि। राजनापितः' इति। कर्मधारयोऽयं वा स्यात्, षष्ठीतत्पुरुषो वा? तत्र यदा कर्मधारयस्तदा राजशब्दस्य नापित उपचारेण वृत्तिः। उपचारस्तु राजगुणारोपनिबन्धनः, अतस्तेनैवोत्तरपदस्य प्रशंसा भवति। कथं पुनर्नापितः षष्ठीसमासेन राजनापितशब्देनोच्यते? इत्याह `राजयोग्यतया तस्य' इत्यादि। स हि स्वकर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति। अतोऽपि राजनापित इति षष्ठीसमासेनोच्यते। अत्र पक्षे तस्यैव योग्यतयोत्तरपदस्य प्रशंसा वेदितव्या।।
64. आदिरुदात्तः। (6.2.64)
`अदिः' इत्यादिनाद्यधिकारस्यावधिं दर्शयति। `उदात्तः' इत्यादिनाप्युदात्ताधिकारस्य।।
65. सप्तमीहारिणौ धर्म्येऽहरणे। (6.2.65)
हारीत्यावश्यके णिनिः। सप्तमीत्यनेन साहचर्याद्हारीति स्वरूपग्रहणं न भवति। अत एवाह--`हारिवाचि पर्वपदम्' इति। `धर्म्ये' इत्यत्रापि स्वरूपग्रहणं न भवति; अहरण इति प्रतिषेधात्। अत एवाह--`धर्म्यवाचिनि' इति। `आचारनियतम्' इति। आचारे नियतमिति; ततोऽन्यत्राभावत्. आचारे नियतम्, आचारेण वा नियतमाचारनियतम्। यदाचारवशादवश्यकर्त्तव्यं तदाचारनियतं भवति। कथं पुनराचारनियतं धर्मयमुच्यते? इत्याह--`धर्मो ह्यनुवृत्तः' इत्यादि। अनुवृत्त इति व्यवस्थित इत्यर्थः। `तस्मात्' इति। धर्मादनपेतमिति। अनुगतमित्यर्थः। `तेन' इति। धर्मेण। `प्राप्तम्' इति। लभ्यमित्यर्थः। उभयथाप्यर्थे `नौवयोधर्म' (4.4.91) इत्यादिना यत्। इतिकरणो हिशब्दश्च हेतौ। यस्मादाचारविशेषो धर्म उच्यते, यच्च तस्माद्धर्मादनपेतम्। यद्वा तेन प्राप्यं तद्धर्म्यम्। तेनाचारनियतं धर्म्यमित्युच्यते। `संज्ञायाम्' (2.1.44) इति सप्तमीसगासः' इति। यद्येवम्, विभक्तेर्लुक् प्राप्नोति? इत्यत आह--`कारनाम्नि च' इत्यादि। `याज्ञिकाश्वः' इत्यादौ तु षष्ठीसमासः।
`क्वचित्' इत्यादिना स्तूपेशाण इत्याद्युदाहरणेषु शाणादेर्यस्याचारनियततां दर्शयत् उत्तरपदस्य धर्म्यवाचित्वं दर्शयति--`याज्ञिकादीनामश्वादि' इति। क्वचिदयमाचारे व्यवस्थित इत्यनेन दातव्यमित्यनेन च सम्बन्धः। याज्ञिकादयो हि हारिणः, ते देयमश्वादिकं स्वीकुर्वन्ति।
`स्तम्बेरमः' इति। म्तम्बकर्णयो रमिजपोः' (3.2.13) इत्यच्, उपपदसमासः, `तत्पुरुषे कृति बहुलम्' (6.3.14) इति विभक्तेरलुग्भवति। अत्र स्तम्बेरम इत्यत्र स्तम्ब इत्येत् सप्तम्यन्तम्, न तु रमशब्दो धर्म्यवाची। `कर्मकरवर्द्धितकः' इति। अत्र कर्मकरो हारी भवति, स हि वर्द्धितकं स्वीकरोति। न तु वर्द्धितकशब्दो धर्म्यवाची। न हि क्वचिदयमाचारो व्यवस्थितः कर्मकराय वर्द्धितको दातव्य इति। `वडवाया अयं वाडवः' इति। `तस्येदम्' (4.3.120) इत्यण्। `बीजनिषेकात्' इति। गर्भाधानम्=बीजनिषेकः। अत्र वाडवोऽश्वो हारी स हि हरणं देयं स्वीकरोति। हरणम्=देयं धर्म्यम्। क्वचिदयमाचारो व्यवस्थितः--येनाश्वेन वडवायां गर्भ आधीयते तस्य बीजनिषेकादुत्तरकलं शरीरपुष्ट्यर्थं योग्याशनादिकं दातव्यमिति। तेन हरणशब्दो धर्म्यवाची भवति। तथाप्यहरण इति प्रतिषेधान्न भवति। ततश्च कृत्स्वरे प्राप्ते `अनो भावकर्मवचनः' (6.2.150) इत्युत्तरपदं ल्युडन्तमन्तोदात्तं भवति। ननु च परत्वादेवायं स्वरो भविष्यति, तत् किमहरण इति प्रतिषेधेन? इत्यत आह--`परोऽपि' इत्यादि। तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। `वाडवहार्यम्' इति। `ऋहलोर्ण्यत्' (3.1.124) इति हरतेर्ण्यत्--हार्यम्, तत् पुनस्तदेव ग्रहणम्। वाडवस्य हार्यं वाडवहार्यम्। तत्र यदि ज्ञापनार्थमनन्तरोक्तस्यार्थस्य हरणप्रतिषेधो न क्रियेत, तदा परत्वात् `गतिकारकोपपदात् कृत् (6.2.139) इति कृत्स्वरेणोत्तरपदस्यान्तस्वरितत्वं स्यात्। अस्मिंस्तु सत्ययमेव हारिस्वरो भवति। स्तूपेशाण इत्यादौ यत्र सम्पम्यन्तं पूर्वपदं तत्र `समासस्य' (6.1.223) इत्यस्यापवादे `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदप्रकृतित्वरे प्राप्ते पूर्ववदाद्युदात्तमिदमुच्यते।
पूर्वपदानि च प्रायेणान्तोदात्तानि, तथा हि--`स्टूप समुच्छ्राये' (धा.पा.1672) इत्यस्य चौरादिकस्य पचाद्यचि स्तूपशब्दो व्युत्पाद्यते, तेनाऽसावन्तोदात्तः। सप्तम्या सहैकदेशे विकृतेऽन्तोदात्त एव भवति। `एकादेश उदात्तेनोदात्तः' (8.2.5) इति। `मकि मण्डने' (धा.पा.89) इत्येतस्मात् `उणादयो बहुलम्', (3.3.1) इत्युणादित्वम्, नलोपश्च, तेन मकुटशब्द आद्युदात्तः। `हल विलेखने' (धा.पा.837) इत्येतस्मात् `खनो घ च' (3.3.125) इति घित्करणेनान्यतोऽदि घो भवतीति ज्ञापितत्वाद्घप्रत्ययः। तेन हलशब्दोऽन्तोदात्तः। `दॄ विदारणे' (धा.पा.1493) इत्यस्मात् `शृदॄभसोऽदिः' (द.उ.6.42) इति, `दृणातेः षुग् ह्रसवश्च' (द.उ.6.45) इति दृषच्छब्दो व्युत्पाद्यते, तेन सोऽप्यन्तोदात्तः।
`याज्ञिकाश्वः' इत्यादयः षष्ठीसमासाः। तत्र समासस्वरे प्राप्ते हारिवाचिनः पूर्वपवस्याद्युदात्तत्वं यथा स्यादित्येवमर्थमिदम्। अत्र च पूर्वपदानामुत्तरपदानां चासमासावस्थायां यः स्वरः स नाऽऽख्यायते; समासे कृते तस्य प्रयोगसमवायित्वात्। नापि समासे कृते तस्य प्राप्तिरसति। स `प्रकृतिभावेन तस्मिन् प्राप्ते सतीदमारभ्यते' इत्यस्यार्थस्य प्रदर्शनार्थमाख्यायते। अत एव च पूर्वत्रापि नाख्यातः।।
66. युक्ते च। (6.2.66)
युक्तः=समाहितः, कार्ये तत्पर इत्युच्यते। `गोबल्लवः' इति। अधिकारनाम, सोऽस्यास्तीति `वप्रकरणेऽन्येभ्योऽपि दृश्यते (वा.580) इति वप्रत्ययः, गवां बल्लव इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्ते पूर्वपदाद्युदात्तत्वं विधीयते। `गोमणिन्दः' इति। मणिं ददातीति `आतोऽनुपसर्गे कः' (3.2.3), `तत्पुरुषे कृति बहुलम्' (6.3.14) इति विभ्क्तेरलुक्, ततो गवां मणिन्द इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्तेऽयं विधिः। `गोसंख्यः' इति। गां सञ्चष्ट इति `समि ख्यः' (3.2.7) इति कः, उपपदसमासः `गतिकारकोपपदात्' (6.2.139) इति कृत्स्वरे प्राप्ते पूर्वपदस्योदात्तार्थमिहापि वचनम्! ननु च परत्वात् थाथादिस्वरः (6.2.144) प्राप्नोति, तस्माद्गोबल्लवादौ कथमिदं वचनमिति, युक्तस्वरं कृत्सवर एव बाधेत? एवं तर्हि पूर्वविप्रतिषेधो वक्तव्यः; परशब्दस्येष्टवाचित्वात्।
गोबल्लव इत्येवमादयः समासाः सर्वे युक्तवाचिन इति दर्शयन्नाह--`युक्त इति समाहितः' इत्यादि। अनेन `युज समाधौ' (धा.प.1177) इत्यस्य निष्ठायां युक्त इत्येतद्दर्शयति।।
67. विभाषाऽध्यक्षे। (6.2.67)
अध्यक्षशब्दोऽपि समासे युक्तवाच्येव, तत्र पूर्वेण नित्यमाद्युदात्तत्वे प्राप्ते विभाषेयमारभ्यते। आद्युदात्तत्वेन मुक्ते समासान्तोदात्तत्वमेव भवति। गवामध्यक्ष इति षष्ठीसमासः।।
68. पापं च शिल्पिनि। (6.2.68)
पापमिति स्वरूपग्रहणम्। शिल्पिनीत्यत्रार्थग्रहणम्। अर्थग्रहणं किमर्थम्, ग्रामशिल्पिनीत्यत्र शिल्पिग्रहणादर्थग्रहणं प्रसिद्धम्, अत इहाप्यर्थग्रहणं विज्ञायते? नित्यं समासस्वरे प्राप्ते विकल्पेन पूर्वपदस्याद्युदात्तत्वं विधीयते, तेनमुक्ते समासस्वर एव भवति। अथेह कस्मान्न भवति--पापस्य नापित इति? अत आह--`पापशब्दस्य प्रतिपदोक्तः' इति। `तस्मात् षष्ठी समासे न भवति' इति। प्रतिपदोक्ते हि समासे सति लक्षण प्रतिपदोक्तपरिभाषया (व्या.प.3) तस्यैव ग्रहणं भविष्यति; नान्यस्य।।
69. गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे। (6.2.69)
`गोत्राधिकारादन्यत्र गोत्रग्रहणे लोकिकं गोत्रं गृहते' (का.वृ.4.2.39) इत्युक्तम्। लोके चापत्यमात्रे प्रसिद्धम्, तेनेह तस्यैव ग्रहणम्, न तु पारिभाषिकस्य। अन्तेवासी=शिष्यः। तत्रान्तेवसिग्रहणादर्थग्रहणं प्रसिद्धम्। अत इहाप्यर्थ एव गृह्यते, न स्वरूपम्। माणवब्राह्मणयोः स्वरूपमेव। मनोरयं माणवः, अस्मादेव निपातनाण्णत्वम्। `अबाधकान्यपि निपातनानि भवन्ति' (पु.प.वृ.99) इति पक्षे मानव इत्यपि भवति। ब्रह्मणोऽयं ब्राह्मणः। यस्तु `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः' (का.वृ.4.1.161) इति माणवकशब्दो व्युत्पाद्यते, यश्च ब्रह्मणोऽपत्यं ब्राह्मण इत्यर्थे ब्राह्मणशब्दः तयोर्गोत्रग्रहणेनैव सिद्धम्। क्षेपः निन्दा। `जङ्घावात्स्यः' इति। `सुप् सुपा' (2.1.4) इति समासः। कथं पुनरत्र क्षेपः? इत्याह--`यो जङ्घादानम्' इत्यादि। जङ्घादानं किमप्याचारनियतं देयमुच्यते, तद्ददान्यहमित्यतोऽभिप्रायेण वात्स्यः सम्पद्यते। वात्स्योऽहमित्यभ्युपगच्छति यः सः जङ्घावात्स्य इत्येवं निन्द्यते। अवात्स्यस्यापि सतो जङ्घादानं प्रति वात्स्यत्वाभ्युपगमात्। वात्स्यशब्दोऽयं गर्गादिः। `भार्यासौश्रुतः' इति। सुश्रुतोऽपत्यं सौश्रुत इत्यण्, भार्याप्रधानः सौश्रुतो भार्यासौश्रुतः। `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च' (वा.83) इति समासः। सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति। सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याण्प्रतययान्तत्वम्। `वशाब्राह्मकृतेयः' इति। तेनैवोपसंख्यानेन समासः। अत्रापि वशाप्रधानतया ब्रह्मकृतापत्यस्य क्षेपः।
`कुमारीदीक्षाः' इति। `सुप् सुपा' (2.1.4) इति समासः। एवं `कम्बलचारायणीयाः' इत्यत्रापि। दाक्षिणा प्रोक्तं दाक्षं शास्त्रम्। `इञश्च' (4.2.112) इत्यण्, दाक्षमधीयते तद्वेत्तीति वा पुनरण्, तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। चरशब्दो नडादिः, चरस्यापत्यं चारायणः, तेन प्रोक्तं चारायणीयम्। `वृद्धाच्छः' (4.2.114), `तदधीते' (4.2.59) इति पूर्ववदण्। पाणिना प्रोक्तं पाणनीयम्, ततः पूर्ववदध्येतर्यण् तस्य च लुक्। `कमार्यादिलाभकामाः' इति। आदिशब्देन कम्बलौदनादीनां ग्रहणम्। अत्रापि `सुप् सुपा' (2.1.4) इति समासः। तेनैवोपसंख्यानेन वा कुमारीलाभकामा दाक्षाः कुमारीदाक्षाः।
`भिक्षामाणवः' इति। पूर्ववत् समासः। भिक्षालाभकामो माणवो भिक्षामाणवः। `दासीब्राह्मणः' इति। दास्याः कामयिता ब्राह्मणो दासीब्राह्मणः। एवं `वृषलीब्राह्मणः' इति। `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति बहुलवचनादकृतापि समासः। `तृतीया' (2.3.18) इति योगविभागाद्वा।
`दासीश्रोत्रियः' इति। दासीब्राह्मण इत्यनेन तुल्यम्। समासस्वरापवायो योगः।।
70. अङ्गानि मैरेये। (6.2.70)
अङ्गशब्दोऽयं कारणवाची। आरम्भकं यत् तदङ्गमुच्यते। अङ्गानीति बहुवचनं स्वरूपविधिनिरासार्थम्। सुरावर्ज्यं मद्यम्=मैरेयमित्यभिधीयते। `गुडमैरेयः, मधुमैरेयः' इति। ष्ठासमासः। `गुडविकारस्य मैरयस्य गुडोऽङ्गम्' इति। तत्कारणत्वात्। अयमपि समासस्वरापवादो योगः।।
71. भक्तख्यास्तदर्थेषु। (6.2.71)
आख्याग्रहणं स्वरूपविधिनिरासार्थम्। ननु च बहुवचनादेव स्वरूपविधिर्न भविष्यति? नैतदस्ति; बहुवचनं ह्येतदर्थस्यैव बहुत्वमाचक्षीत--बह्वर्थवृत्तिर्यो भक्तशब्द इति। अपि च बहुवचनेन स्वरूपविधौ बाधितेऽन्नादय एव ये भक्तशब्देन समासार्थपर्यायास्ते गृह्येरन्, न तु भकतविशेषवाचिनो भिक्षादयः। आख्याग्रहणे तु स्वरूपविदौ बाधिते बहुवचनेन तद्विशेषाणां ग्रहणं सम्पद्यते। तस्मा इदं तदर्थम्। तच्छब्देन भक्ताख्यानामर्थो निर्दिश्यते। `भिक्षाकंसः' इत्येवमादयः `चतुर्थी तदर्थार्थ' (2.1.36) इति चतुर्थीसमासाः। ननु च प्रकृतिविकृतिग्रहणं तत्र चोद्यते, न चेह प्रकृतिविकारभावः? सत्यमेतत्; इदमेव तु वचनं ज्ञापकम्--भक्ताख्यायां तादर्थ्यमात्रे चतुर्थी समस्यत इति।
`समशनं समाशः' इति। `अशू भोजने' (धा.पा.1523) [अश भोजने--धा.पा] इत्यस्मात् सम्पूर्वाद्भावे घञ्। `क्रियामात्रमुच्यते' इति। मात्रशब्देन भक्तव्यवच्छेदं करोति। `अत्र पूर्वपदमन्तोदात्तम्' इति। भिक्षाशब्दः `गुरोश्च हलः' (3.3.103) इति भिक्षेरप्रत्ययं कृत्वा व्युत्पाद्यते, श्राणाशब्दोऽपि `श्रै पाके' (धा.पा.919) इत्यस्मात् क्तप्रत्ययम्। तेन द्वावपि प्रत्ययस्वरेणान्तोदात्तौ। `बहुव्रीहौ प्रकृत्या' (6.2.1) इति प्रकृतिभावेनान्तोदात्तादेव भवतः। समाससवरापवादो योगः।।
72. गोबिडालासिंहसैन्धवेषूपमाने। (6.2.72)
उपमानशब्दोऽयं गवादिभिः प्रत्येकमभिमसम्बध्यते; अन्यथैकवचनान्तस्य बहुवचनान्तैः समानाधिकरणेन विशेष्यविशेषणभावो न स्यात्। थ वा सुब्व्यत्यये बहुवचनस्यैव स्थान इदमेकवचनं द्रष्टव्यम्। `धान्यगवः' इति। `गोरतद्धितलुकि' (5.4.91) टच समासान्तः। अत्र चित्स्वरे प्राप्ते पूर्वपदस्याद्युदात्ततवं विधीयते। `भिक्षाबिडालः' इत्येवमादौ समासस्वरे। उपमानार्थोऽपि' इत्यादि। योऽयमत्रोदाहरणे उपमानार्थः सम्भवति, स तत्र योजयितव्यः। `यथाप्रसिद्धि च' इति। यस्योपमानस्यार्थस्य च लोके प्रसिद्धिः स तथा योजयितव्यः। तत्र दिङ्मात्रमुपमानार्थयोजनस्य दर्शयितुमाह--गवाकृतिः=गोसंस्थानम्, तया सन्निवेशितं गोर्यत्संस्थानं तेन सन्निवेशितं व्यवस्थापितं धान्यगवशब्देनोच्यते; तुल्याकृतित्वात्। एवमन्यत्रापि यत् किञ्चित् सादृश्यं योज्यम्। यथा गोरचनाविशेषावयवानामेवं यस्य हिरण्यस्य तद्धिरण्यं हिरण्यगवशब्देनोच्यते। यथा बिडाला अल्पप्रमाणास्तथा हि भिक्षा, यथा वा बिडालाः क्वचिद्भवन्ति न सर्वत्र तथा भिक्षापि। एवं श्राणाबिडालयोः सादृश्यमेवञ्जातीयकं योजयितव्यम्। सिंहाकृत्या सन्निविष्टं तृणं तृणसिंहः। यथा सैन्धवं शुक्लमेवं सक्तुः सक्तुसैन्धवः। एवं पानसैन्धवः।।
73. अके जीविकार्थे। (6.2.73)
`अके इति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (नी.प.वृ.31) तदन्तस्य ग्रहणं विज्ञायत इत्याह--`अकप्रत्ययान्त उत्तरपदे' इति। `जीविकावाचिनि' इति। जीविका=जीवकः तद्वाचिनीत्यर्थः। जीविकाशब्दो ह्यर्शआदेराकृतिगणत्वान्मत्वर्थीयाकारान्तः सूत्र उपात्तः। अत एव वृत्तौ दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्त इत्याह--`दन्तलेखलः' इति। लिकेर्ण्वुल्, षष्ठीसमासः। षष्ठी पुनः `कर्तृकर्मणोः कृति' (2.3.65) इति कर्मणि। `अवस्करशोधकः' इति। `शुध शौचकर्मणि' (धा.पा.1191) [`शौचे'--धा.पा.] इत्यस्माण्ण्यन्ताण्ण्वुल्। `रमणीयकारकः' इत्यत्रापि करोतेः।
`रमणीयकर्त्ता' इति। पूर्ववत् समासः। अत्र `गतिकारकोपपदात् कृत्' (6.2.139) इति प्रकृतिभावेनोत्तरपदमन्तोदात्तम्। `इक्षुभक्षिकाम्' इत्यादि। `पर्यायर्हणोत्पत्तिषु ण्वच्' (3.3.111) इति भक्षयतेर्ण्वुच्। अत्र `षष्ठी' (2.2.8) इति समासलक्षणेनैव समासः। अत्रापि पूर्ववदुत्तरपदमन्तोदात्तम्। कृत्स्वरापवादो योगः। एवमुत्तरत्रापि योगाः।
`युक्तारोह्यादयश्च' (6.2.81) इत्यतः प्राक् कृत्स्वरापवादो वेदितव्यः।।
74. प्राचां क्रीडायाम्। (6.2.81)
`प्राग्देशवर्त्तिनां या क्रीडा' इति। एतेन प्राग्ग्रहणमिह न विभाषार्थम्, किञ्च क्रियाविशेषणमिति दर्शयति। `उद्दालक्पुष्पभञ्जिका' इत्यादि। उद्यालकपुष्पादिषु कृद्योगे कर्मणि षष्ठी। `जीवपुत्रप्रचायिका' इति। अत्रापि प्रपूर्वाच्छिनोतेः संज्ञायां ण्वुल्। पूर्ववत् समासः। लित्स्वरेणोत्तरपदं मध्योदात्तम्। `तव पुष्पप्रचायिका' इति। `षष्ठी' (2.2.8) इत्यनेनैवात्र समासः। चित्स्वरेरेणोत्तरपदं मद्योदात्तम्।।
75. अणि नियुक्ते। (6.2.75)
`छत्त्रधारः' इति। `कर्मण्यण्' (3.2.1)।..
किमर्थं पुनरिदम्, यावता युक्तोऽभिमतः, तद्वाची न भवति? `नियुक्तोऽधिकृतः' इत्यादि। `युक्ते च' (6.2.66) इत्यनेन हि यः कर्तव्ये युक्तः समाहितः तस्य पूर्वपदस्याद्युदात्तत्वम्, तेनाधिकृतवाचिनि न सिध्यति। तस्मादधिकृतच्छत्त्रादिषु यः सहिनियुक्तोऽभिप्रेतः, स च कस्मिंश्चिच्छत्त्रधारणे तत्परो न भवति तेन च्छत्रधार इत्यादिसमासो यादृशः `युक्ते च' (6.2.66) इत्यत्र युक्तोऽभिमतस्तद्वाची न भवति। `नियुक्तोऽधिकृतः' इत्यनेन `युजिर् योगे' (धा.पा.1444) इत्यस्य निष्ठायां नियुक्त इत्येतद्रूपमिति दर्शयति।
`काण्डलावः' इति। अत्र काण्डलवनक्रियां प्रति कर्तृत्वमात्रं गम्यते, नादिकृतत्वम्। तेनेष स्वरो न भवति।।
76. शिल्पिनि चाकृञः। (6.2.76)
अनियुक्तार्थ वचनम्। `अकृञः' इति। शिल्पिवशेषे प्रतिषेधं वक्ष्यामीत्येवमर्थञ्च। `तन्तुवायः' इति। `वेञ् तन्तुसन्ताने' (धा.पा.1006) इति। तन्तून् वयतीति ह्वावामश्च' (3.2.2) इत्यण्, `आतो युक् चिण्कृतोः' (7.3.33) इति युक्।
`अयस्कारः' ति। `अतः कृकमि' (8.3.46) इत्यादिना विसर्जनीयस्य सकारः। प्रत्युदाहरणेषु कृत्स्वर एव भवति।।
77. संज्ञायां च। (6.2.77)
78. गोतन्तियवं पाले। (6.2.78)
`गोपालः' इति। `पा रक्षणे' (धा.पा.1056), पूर्ववदण्। `अनियुक्तार्थ आरम्भः' इति। नियुक्ते `अणि नियुक्ते' (6.2.75) इत्यनेनैव सिद्धत्वात्। `गोरक्षः' इति। `रक्ष पालने' (धा.पा.658)।।
79.णिनिः। (6.2.79)
`पूष्पहारी' इति हरतेः `व्रते' (3.2.80) `बहुलमाभीक्ष्ण्ये' (3.2.81) इति वा णिनिः।।
80. उपमानं शब्दार्थप्रकृतावेव। (6.2.80)
`शब्दार्थप्रकृतौ' इति। शब्दार्थः प्रकृतिर्यस्मिन्निति बहुव्रीहिः। `उपमानं नियम्यते' ति। यत एवकारस्ततोऽन्यत्रावधारणं भवति। इह च शब्दार्थप्रकृतेरेवकारः, तस्मादुपमाननियमो भवति, अतस्तन्नियम्यते। `उष्ट्रकोशी' इति। `क्रुश आह्वाने' (धा.पा.856) [आह्वाने रोदने च--धा.पा.] इत्यस्मात् `कर्त्तर्युपमाने' (3.2.79) इति णिनिः। णिनिनैव सादृश्यस्योक्तत्वाद्वृत्ताविवशब्दो न प्रयुज्यते। `ध्वाङ्क्षरावी' इति। `रु शब्दे' (धा.पा.1034) पूर्वलक्षणाण्णिनिः। `खरनादी' इति। `णद अव्यक्ते शब्दे' (धा.पा.54)।
`उपमानग्रहणम्' इत्यादि। यद्युपमानग्रहणं न क्रियते, तदा पूर्वस्य योगस्यास्य च विषयविभागो न ज्ञायेत। यदि योगविभागकरणसामर्थ्याद्विषयान्तरम्य कल्प्येत, तथापीष्टो विषयविभागो न ज्ञायेत। उपमानग्रहणे तु सति पूर्वस्य सामान्यं विषयः, अस्य तु विशेष उपमानमिति विषयविभागो निश्चीयेत। तेन विषयविभागार्थमुपमानग्रहणम्।
`वृकवञ्ची' इति। `वञ्चु प्रलम्भने' (धा.पा.1703)। `वृकप्रेक्षी' इति। `ईक्ष दर्शने' (धा.पा.610) प्रपूर्वः। अत्र कृत्स्वर एव भवति। `प्रकृतिरेव' इत्यादि। यदि प्रकृतिग्रहणं न क्रियेत, तदा शब्दार्थात् परो यो णिनिस्तदन्त उत्तरपद इत्येवं विज्ञायेत? ततश्च गर्दभोच्चारी कोकिलाभिव्याहारीत्यस्यापि स्यात्; भवति ह्यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात् परो णिनिः, अतस्तदन्तमुततरपदम्। तस्मादिह मा भूदिति प्रकृतिग्रहणं क्रियते, तेनेह न भवति। प्रकृतिग्रहणे सति यत्रोपसर्गनिरपेक्षा गत्यर्थत्वात्, हरतेश्च हरणार्थत्वात्। यद्वा--योऽत्र शब्दार्थो धातूपसर्गसमुदायः, न तस्माण्णिनेर्विधानम्।
यदि पूर्वेणैव सिद्धे नियमार्थं वचनम्, एवं सिद्धे विधिरारभ्यमाणो नियमाय भवतीत्यनर्थकमेवकारकरणम्? इत्याह--`एवकारकरणम्' इत्यादि। असति ह्येवकार उपमान एव शब्दार्थप्रकृतावित्येवमवधारणं स्यात्, ततश्च शब्दार्थप्रकृतिरेव नियम्येत--शब्दार्थप्रकृतौ यदि भवत्युपमान एव भवति, नानुपमान इति। ततश्चानुपमाने न स्यात्। तस्मादुपमानावधारणं यथा स्यादित्येवमर्थमेवकारः क्रियते। किं कारणम्? इत्याह--`शब्दार्थप्रकृतौ तु' इत्यादि। तुशब्दो हेतौ। तस्मात् शब्दार्थप्रकृतावुपमानमनुपमानं चाद्युदात्तं भवति। तस्मादुपमानावधारणार्थमेवकारकरणम्। उपमाननियमे हि सति शब्दार्थप्रकृतेरनियतत्वात् तत्राविशेषेण सर्वस्याद्युदात्तत्वं लभ्यते। `सिंहविनर्दी' इति। उपमानस्योदाहणम्। `पुष्कलजल्पी' इति। अनुपमानस्य। पुष्कलजल्पीत्यत्र `व्रत्ते' (3.2.80) `बहुलमाभीक्ष्ण्ये' (3.2.81) इति वा णिनिः।।
81. युक्तारोह्यादयश्च। (6.2.81)
`युक्तारोहि' इत्यादिषु यत्र कृदन्तमुत्तरपदं तत्र कृत्स्वरापवादो योगः। अन्येषु तु समासस्वरापवादः। युक्तारोहीत्येवमादिषु आगतप्रहारीत्येवम्यर्यन्तेषु `रुह जन्मनि' (धा.पा.859), [रुह बाजजन्मनि प्रादुर्भावे च--धा.पा.] `युध सम्प्रहारे (धा.पा.1173), `वञ्चु प्रलम्भने' (धा.पा.1703), `टुणदि समृद्धौ' (धा.पा.67) [टु नदि समृद्धौ--धा.पा.] `हृञ् हरणे' (धा.पा.899) प्रपूर्वः--इत्येभ्यो धातुभ्यो यथायोगं युक्तागतपूर्वभ्यः `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः। यद्येते णिन्यन्तास्तत् किमर्थमिह पठ्यन्ते यावता `णिनि' (6.2.79) इत्यनेनैव सिद्धम्? इत्यत आह--`णिनीत्यस्यैवोदाहरणार्थं पठ्यन्ते' इति।
`पूर्वोत्तरपद' इत्यादिना केषांचिन्मतेन तेषामिह पाठस्य प्रयोजनान्तरं दर्शयति। पूर्वोत्तरपदयोनिर्यमोऽर्थो येषां ते तथोक्ताः। यत्र युक्तादीन्येव पूर्वपदान्यारोह्यादीन्येव चोत्तरपदानि तत्रैव यथा स्यादिति, इह मा भूत्--ध्वाङ्क्षारोही, वृक्षारोहीति, अत्रान्यत्पूर्वपदम्। युक्ताध्यायीत्यत्रान्यदुत्तरपदम्। `इङ् अध्ययने' (धा.पा.1046) इत्यस्माण्णिनिः। `आगतमतस्या' इति। विशेषणसमासः। `क्षीरहोता' इति। क्षीरस्य होता। अस्मादेव निपातनात् षष्ठीसमासः। याजकादित्वाद्वा (2.2.9) `हु' इत्येतस्मात् तृच्। `भगिनीभर्ता' इति। अयमपि पूर्ववत् षष्ठीसमासः। भृञस्तृच्।
`ग्रामगोधुक्' इति। दुहेः क्विप्, `दादेर्धातोर्घः' (8.2.32)। `एकाचो बशो भष्' (8.2.37) इत्यादिना दकारस्य धकारः, `झलां जशोऽन्ते' (8.2.39) इति घकारस्य गकारः, तस्य `वाऽवसाने' (8.4.56) इति चर्त्वम्--ककारः।
`त्रिरात्रः' इति। तिस्रो रात्रस्यः समाहृताः इति समाहारे द्विगुः। `अहःसर्वैकदेश' (5.4.87) इत्यादिनाऽच् समासान्तः।
`एकशितिपात्' इति। `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138) इत्यकारलोपः। ननु चैकशब्दोऽयम् `इष्भीकापाशल्पतिमर्चिभ्यः कन्' (द.उ.3.21) इति कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। तत्रैकः शितिः पादोऽस्येति बहुव्रीहिः। तत्र कृते प्रकृतिभावेनैव सिद्धमिहाद्युदात्तत्वम्, ततो नार्थ इहास्य पाठेन? इत्यत आह--`एकः शितिः पादोऽस्य' इति। द्विपदे बहुव्रीहावेष दोषः स्यात्, न चायं द्विपदः, किं तर्हि? त्रिपदः। अत्र पादशब्द उत्तरपदे परतः `तद्धितार्थोत्तरपद' (2.1.51) इति पूर्वपदयोरेकशितिशब्दस्यान्तोदात्तत्वं प्राप्तमिति `समासस्य' (6.1.223) इत्यनेन। इतिकरणो हेतौ। यस्मात् तस्यान्तोदात्तत्वं प्राप्तं तस्मात् तस्याद्युदात्तत्वं विधीयते। ततो नापार्थक एकशितिपाच्छब्दस्य पाठ इत्यभिप्रायः। कस्मात् पुनस्तस्यान्तोदात्तत्वं प्राप्नोति, बहुव्रीहिस्वरेणैव हि परत्वादन्तोदात्तत्वं बाधित्वा युक्तं भवितुम्? इत्याह--`निमित्तस्वरबलीयस्त्वात्' इति। निमित्तपदं द्विगोस्त्रिपदबहुव्रीहिः। तत्र हि कृते द्विगुत्तरपदे परतः पूर्वपदयोर्भवति। यच्च यस्मिन् सति भवति तत् तस्य निमित्तम्, तस्य निमित्तस्य बहुव्रीहिस्वरो निमित्तस्वरः, तस्माद्बलीयस्त्वं निमित्तस्वरबलीयस्त्वम्। `पञ्चमी' (2.1.37) इति योगविभागात समासः। तदेतदुक्तं भवति--तस्माद्बहुव्रीहिस्वरात् समासान्तोदत्तत्वमस्य बलीयस्त्वम्, तस्मात् तत् प्राप्नोतीति। बलीयस्त्वं तु तस्य सतिशिष्टत्वात्। तद्धि बहुव्रीहोराद्युदात्तत्वे सति भवति। तस्मात् सतिशिष्टस्य बलीयस्त्वमुक्तम्। वक्ष्यमामज्ञापकाद्वा निमित्तस्वरबलीयस्त्वम्।
`एवमपि' इत्यादि। एवमपि त्रिपदे बहुव्रीहौ कल्प्यमानेऽपि। `नार्थ एतेन' इति। एकशितिपाच्छब्देनेह भवति नार्थः। कस्मात्? इत्याह--`इगन्त' इत्यादि। त्रिपदे हि बहुव्रीहावेकशितिशब्दयोरुत्तरपदे यः समासः `संख्यापूर्वो द्विगुः' (2.1.52) इति द्विगुसंज्ञः स इगन्तश्च भवति। ततश्च `इगन्त--द्विगौ' (6.2.29) इत्याद्युदात्तत्वं सिद्धम्, ततो नार्थ एतेन। `एवं तर्हीत्यादिनैकशितिपाच्छब्दपाठस्य ज्ञापकत्वं दर्शयति। किं पुनस्तज्ज्ञापयति? इत्याह--`एतत्' इत्यादि। `तेन' इत्यादिना प्रयोजनं दर्शयति। यद्येषोऽर्थो न ज्ञाप्यते, तेन द्वौ शिति पादावस्येति त्रिपदे बहुव्रीहौ कृते, तत्र चोत्तरपदे परतः पूर्वपदयोर्द्विगौ सति `इगन्त--द्विगौ' (6.2.29) इति पूर्वपदप्रकृतस्वरे कृते तिशब्दो द्विशितिपादित्यत्रोदात्तः स्यात्। अस्मिस्त्वर्ये ज्ञापिते `इगन्त--द्विगौ' (6.2.29) इत्येष स्वरो न भवति। तस्मिंश्चासति समासस्वरेण तिशब्द उदात्तो भवति, निमित्तस्वरबलीयस्त्वं न स्यात्। ततक्च त्रिपदे हि बहुव्रीहौ परत्वात् समासस्वरं बाधित्वा बहुव्रीहिस्वर एव भवति, ततस्तेनैव सिद्धत्वादेकशितिपाच्छब्दस्येह पाठो न क्रियेत, कृतश्च। तस्मात् स एव ज्ञापयति--निमित्तस्वरबलीयस्त्वमिति।।
82. दीर्घकाशतुषभ्राष्ट्रवटं जे। (6.2.82)
कृत्स्वरापवादो योगः। `कृटीजः' इति। कुट्यां जात इति `सप्तम्यां जनेर्डः (3.2.97) इति डप्रत्ययः।।
83. अन्त्यात्पूंर्व बह्वचः। (6.2.83)
अयमपि कृत्स्वरपबादो योगः।
`दग्धजानि' इति। अत्र कृत्स्वर एव भवति।।
84. ग्रामेऽनिवसन्तः। (6.2.84)
`निवसन्तशब्दोऽयमौणादिको गृह्यते। `जृविशिभ्यां झच्' (द.उ.6.17) इति वर्तमाने `तॄभूवहिवसिभासिसाधिगतिमण्डिजिनन्दिभ्यश्च' (द.उ.6.19) [तॄभृवहिवसिभासिसाधिगाडिमण्डिजिवन्दिभ्यश्च--द.उ.] इति वसेर्निपूर्वाज्झच्। निवसतीति निवसन्तः। केचिच्छन्नन्तस्य वसच्छब्दसय ग्रहणं वर्णयन्ति। `मल्लग्रामः' इति। षष्ठीसमासः। `देवग्रामः' इति। वाटकपरिक्षिप्ते गृहसमुदाये ग्रामशब्दो वर्तते। तस्माद्देवस्वामिक इत्यर्थः। एतेन स्वस्वामिभावसम्बन्धा या साऽत्र षष्ठी समस्यते, न तु क्रियावाससम्बन्धेति दर्शयति; अन्यथा देवशब्दः पूर्वपद निवसन्तवाच्येव स्यादित्यभिप्रायः।
`दाक्ष्यादयो निवसन्ति यस्मिन्' इत्यादिना प्रत्युदाहरणे पूर्वपदस्य निवसन्तवाचित्वं दर्शयति।।
85. घोषादिषु च। (6.2.85)
समाससवरापवादो योगः। एवमुत्तरेऽपि। `न भूताधिकसञ्जीव' (6.2.91) इत्यादेः सूत्राद्ये योगास्त समासस्वरापवादा द्रष्टव्याः। `दाक्षीघोषः'इत्येवमादयः षष्ठीसमासाः। `यानयत्र' इत्यादि। कथं पुनरेतललभ्यते, यावताऽनिवसन्त इति प्रकृतम्? इत्यत आह--`अनिवसन्तः' इति। `अपरे' इत्यादि। तेषां मतेन यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यप्युदात्ता भवन्ति।।
86. छात्त्र्यादयः शालायाम्। (6.2.86)
`यदा शालान्तः' इत्यादि। `विभाषा सेनासुरा' (2.4.25) इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम्? इह च शालाशब्दस्य स्त्रीलिङ्गस्य ग्रहणम्। तत्र यथा समासो नपुंसकलिङ्गो न भवति तथा `तत्पुरुषे शालायां नपुंसके' (6.2.123) इत्यनेन परत्वादुत्तरपदाद्युदात्तत्वेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तन्निरासाय `यदा शालान्तः' इत्यादेर्ग्रन्थस्योपन्यासः। यो नपुंसकलिङ्गः शालान्ततत्पुरुषो न भवति सोऽस्यावकाशः--छात्त्रिशाला, ऐलिशालेति। यस्तु नपुंसकलिङ्गो न छात्त्रादिपूर्वपदस्तत्पुरुषः स `शालायां नपुंसके' (6.2.123) इत्यस्यावकाशः--ब्राह्मणशालम्, क्षत्त्रियशालमिति; इहोभयं प्राप्नोति--छात्त्रिशालमिति, पूर्वविप्रतिषेधेनायमेव स्वरो भवति।।
87. प्रस्थेऽवृद्धमकर्क्यादीनाम्। (6.2.87)
प्रस्थशब्दो यदि व्युत्पाद्यते `घञर्थे कविधानं स्थास्नपाव्यधिहनियुध्यर्थम्' (वा.306) इति, तदा थाथादिस्वरे (6.2.144) प्राप्ते। अथ न व्युत्पाद्यते, तदा समासान्तोदात्तत्वे। `इन्द्रप्रस्थः' इत्यादयः षष्ठीसमासाः।।
88. मालादीनां च। (6.2.88)
89. अमहन्नवं नगरेऽनुदीचाम्। (6.2.89)
`सुह्यनगरम्' इत्यादयोऽपि षष्ठीसमासा एव। किमर्थं प्राचामित्येवं नोच्यते, [नोच्येत--मुद्रितः पाठः] लधु हि प्राचामिति वचनमनुदीचामिति वचनात्? नैवं शक्यम्; मध्यदेशनगरे विराटनगरमित्यत्र न स्यात्। पूर्वपदाद्युदात्तत्वे प्राप्ते प्रतिषेधोऽमुच्यते, न समास एव भवति।।
90. अर्मे चावर्णं द्व्यच्त्र्यच्। (6.2.90)
91. न भूताधिकसञ्जीवमद्राश्मकज्जलम्। (6.2.91)
`मद्राश्मग्रहणम्' इत्यादि। उभयत्रापि द्व्यच् त्र्यजिति च प्राप्तिरस्ति। तस्मात् सङ्घातार्थं विगृहीतार्थञ्च वचनम्। कथं पुनः संघातविगृहीतार्थत्वं लभ्यते? एकाशेषं कृत्वा मद्राश्म इति निर्देशात्। मद्राश्मा च मद्राश्मानौ चेत्येकशेषः। एकशेषे सति मद्रशब्दस्य केवलस्य, मद्रशब्दस्य च सङ्घातस्य प्रतिषेध उपपद्यते।
आद्युदात्तस्य प्रकरणमित्याद्युदात्तप्रकरणम्, प्रकान्तम्। तत्र दिवोदासा दीनां छन्दस्याद्युदात्तो भवतीत्येत दर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानां तु--`युक्ते च' (6.2.66) इत्येवमादौ येऽस्मिन् प्रकरणे चकाराः, तेषामन्यतमस्यानुक्तसमुच्चयार्थतामाश्रित्य कर्त्तव्यम्।।
92. अन्तः। (6.2.92)
93. संर्व गुणकार्त्स्न्ये। (6.2.93)
`गुणकार्त्स्न्ये' इति। गुणकार्त्स्न्य गुणस्य सर्वत्राभावः। `सर्वश्वेतः' इति। `पूर्वकालैक' (2.1.49) इत्यादिना समानाधिकरणसमासः। अत्र समुदायगुणस्य सर्वत्र भावः। न तु तदवयवे तत्र सर्वशब्दो वर्तत इति गुणकार्त्स्न्यस्य वृत्तिर्भवति। `परमश्वेतः' इति। कथं पुनरत्र गुणकार्त्स्न्ये परमशब्दो वर्तते, यावतासौ प्रकर्षवाची, अन्यश्च प्रकर्षः, अन्यच्च गुणकार्त्स्न्यम्? इत्यत आह--`आश्रयव्याप्त्या' इत्यादि। इतिकरणो हेतौ। यस्मादाश्रयव्याप्त्या परमत्वमुत्कर्षे भवति, नान्यथा। एवं हि तस्योत्कर्ष उपपद्यते यदि सर्वमाश्रयं व्याप्नोति। तस्माद्गुणकार्त्स्न्यं इह परमशब्दो वर्तते। `सर्वसौवर्णः, सर्वराजतः' इति। सुवर्णस्य विकारः सौवर्णः, रजतस्य विकारो राजतः--नात्र गुणकार्त्स्न्यम्, किं तर्हि? जातियुक्तस्य विकारवषयं कार्त्स्न्यम्। सर्व हि विकारद्रव्यं प्रकृतिभावेन व्याप्नोतीति द्रव्यकार्त्स्न्यमिह, तत्र च सर्वशब्दो वर्तते। `सर्वेषां श्वेततरः सर्वश्वेतः' इति। अत्र गुणकार्त्स्न्ये। कथं पुनरत्र समासः, यावता `पूरणगणसुहित' (2.2.11) इत्यादिना गुणवचनेन षष्ठीसमासः प्रतिषिद्धः? अथापि कथञ्चित् समासः स्यात्, एवमपि श्वेततरशब्देन समासे कृते सर्वश्वेततरमिति वक्तव्यम्? इत्यत आह--`गुणात् तरेण समासः' इत्यादि। औपसंख्यानिकाविह समासतरलोपाविति दर्शयति। समासस्वरापवादो योगः। एवमुत्तरेऽपि योगाः। `न हास्तिनफलकमार्देयाः' (6.2.101) इत्यतः प्राक् समासस्वरापवादो वेदितव्यः।।
94. संज्ञायां गिरिनिकाययोः। (6.2.94)
`अञ्जनागिरिः' इत्येवमादयः षष्ठीसमासाः। अञ्जनभञ्जनशब्दयोः `वनगिर्योः संज्ञायाम्' (6.3.117) इति दीर्घत्वम्। `शापिण्डिमौण्डिशब्दौ' इञन्तौ। `चिखिल्लिशब्दः' मत्वर्थीयेनिप्रत्ययान्तः।।
95. कुमार्यां वयसि। (6.2.95)
`वृद्धकुमारी' इति। `विशेषणं विशेष्येण' (2.1.57) इति समासः। `जरत्कुमारी' इति। जरती चासौ कुमारी चेति `पूर्वकाल' (2.1.49) इत्यादिना समासः। उभयत्र `पुंवत् कर्मधारय' (6.3.42) इत्यादिना पुंवद्भावः।
ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा हि `वयसि प्रथमे' (4.1.20) इति ङीबत्र विहितः, वृद्धाजरतीशब्दौ चरमे वयसि वर्तते, तत्कथमिह सामानाधिकरण्यम्? इत्यत आह--`कुमारीशब्दः पुंसा सहासम्प्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तः' इति। असम्प्रयोगः=असम्बन्धः। तन्मात्रप्रवृत्तिनिवृत्तिसमुदायावयवः सामान्ये प्रवृत्तः। कुमारीशब्दो यथा वृद्धादिभिः वयोविशेषवचनैर्विशेष्यते तदा तैः समानाधिकरणो भवति। वयोविशेषोऽन्त्यं वयः। कथं पुनर्विशेषवचनं सामान्ये वर्तते? वयोग्रहणसामर्थ्यात्। यदि वृद्धकुमारीशब्दः प्रथमे वयसि वर्तते वयोग्रहणमनर्थकं स्यात्। यतर कुमारीशब्दः प्रयुज्यते प्रथमवयोवाची, तत्र नियोगतो वयो गम्यत एवेति किं वयोग्रहणेन! तस्माद्वयोग्रहणसामर्थ्यात् यथोक्तेन प्रकारेण वयःसामान्ये प्रवर्तते। वयोग्रहणेन हि तस्माद्विशेषादपनीयासौ सामान्यवृत्तिराश्रीयते। `तच्च वय इह गृह्यते' इति। यत्र वर्त्तमानो विशेषवचनैः सह समानाधिकरणो भवति, तच्च वयो गृह्यते। चशब्दादन्यच्च यौवनादीनकुमारत्वमेवेति, न प्रथमवय इत्यर्थः।
`परमकुमारी' इति। अत्र समासात् पूज्यमानता; पूज्यमानत्वं तु दर्शनीयत्वात्। दर्शनीया कन्येत्यर्थः। न ह्यत्र समासो वयोऽभिधानपरः। नापयुत्तरपदं वयःसामान्ये वर्तते।।
96. उदकेऽकेवले। (6.2.96)
`मिश्रम्' इति। द्रव्यान्तरसम्पृक्तमित्यर्थः। `गुडमिश्रम्' इति। शाकपार्थिवादित्वा(वा.83)दुत्तरपदलोपिसमासः।
`शीतोदकम्' इति। विशेषणसमासः। पूर्वपदमत्र गुणोपसर्जनमुदकं ब्रूते। उत्तरपदमपि जात्युपसर्जनम्। तथैव तेनैकमेव वस्तु जातिगुणाब्यामुच्यत इति केवलोदकवाचिसमासः।।
97. द्विगौ क्रतौ। (6.2.97)
`गर्गत्रिरात्रादयः' षष्ठीसमासाः। तिसृणां रात्रीणां समाहारस्त्रिरत्रः। `अहःसर्वेकदेश (5.4.87) इत्यादिनाच् समासान्तः। `अतिरात्रः' इति। रात्रिमतिक्रान्त इति प्रादिसमासः।।
98. सभायां नपुंसके। (6.2.98)
`गोपालसभम्' इत्येवमादयोऽपि षष्ठीसमासाः, `सभाराजाऽमनुष्यपूर्वा' (2.4.23) इति नपुंसकत्वम्। `राजसभा, ब्राह्मणसभा' इत्यत्र `अमनुष्यपूर्वा' इति प्रतिषेधान्नपुंसकता न भवति।
अथेह कस्मान्न भवति--रमणीया सभाऽस्य ब्राह्मणकुलस्य रमणीयसभम्? इत्यत आह--`प्रतिपदोक्तम्' इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) यत् प्रतिपदोक्तं नपुंसकं तदिह गृह्यते। न चेह तथाविधं नपुंसकत्वम्। अत्र तु `अभिधेयवल्लिङ्गवचनानि भवन्ति' (व्या.प.73) इति ब्राह्मणकुलस्याभिधेयसय नपुंसकत्वात्। न तत् प्रतिपदोक्तम्।।
99. पुरे प्राचाम्। (6.2.99)
`ललाटपुरम्' इत्येवमादयः षष्टीसमासाः।।
100. अरिष्टगौडपूर्वे च। (6.2.100)
`अरिष्टपुरम् गौडपुरम्' इति। एतावपि षष्ठीसमासावेव। `पूर्वग्रहणं किम्' इति। एवं मन्यते--अरिष्टगौडयोरिति वक्तव्यम्, एवमप्युच्यमानेऽरिष्टगोडयोः पुरशब्द उत्तरपदेऽन्तोदात्ततवं सिध्यत्येवेति। `इहापि यथा स्यात्' इति। यदि पूर्वग्रहणं न क्रियेत् तदारिष्टं श्रितस्तस्य पुरमरिष्टश्रितपुरमिति। गौडानां भृत्या गौडशब्दौ। पूर्वग्रहणे तु सति बहुव्रीहिर्लभ्यते--अरिष्टगौडौ पूर्वौ यस्मिन् समासे सोऽरिष्टगौडपूर्व इति। तेनारिष्टश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि यदुत्तरपदं तस्याप्यन्तोदात्तत्वं भवत्येव। अत्रापि ह्यरिष्टशब्दो गौडशब्दश्च पूर्वः। पूर्वश्चायमवयववचनः।।
101. न हास्तिनफलकमार्देयाः। (6.2.101)
102. कुसूलकूपकुम्भशालं बिले। (6.2.102)
`कुसूलबिलम्' इत्येवमादयः षष्ठीसमासाः। समासस्वरापवादो योगः। एवमुत्तरेऽपि `बहुव्रीहौ विश्वं संज्ञायाम्' (6.2.106) इत्यतः प्राग्योगाः समासस्वरापवादाः वेदितव्याः।।
103. दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु। (6.2.103)
`पूर्वेषुकामशमी' इति। `दिक्संख्ये संज्ञायाम्' (2.1.50) इति समासः। एवं `अपरेषुकामशमी' इत्यत्रापि। `पूर्वकृष्णमृत्तिका' इति। पूर्वा चासौ कृष्ममृत्तिका चेति `पूर्वापर' (2.1.58) इत्यादिना समासः। एवं `अपरकृष्णमृत्तिका' इत्येवमादावपि। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। `अधिकृत्य कृते ग्रन्थे' (4.3.87) इत्यण्। अथ यता--चानराटे रूपग्रहणं तथा ग्रामादिष्वपि कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशस्य स्वरूपग्रहणं भवतीत्युक्तम्। इह चानराट एव शब्दप्रधानो निर्देश, ग्रामादिष्वर्थप्रधान एव।
अथ शब्दग्रहणं किमर्थम्, न दिगित्येवोच्यते? इत्यत आह--`शब्दग्रहणम्' इत्यादि। असति हि शब्दग्रहणे पूर्वाधिरामम्, पूर्वयायातमित्यत्र न स्यात्। कस्मात्?इह कालवाची पूर्वशब्दः। दिग्वाचिशब्दग्रहणे सति दिक्शब्दमात्रग्रहणं भवति। तस्मात् कालवाचिनोऽपि दिक्शब्दस्य परिग्रहो यथा स्यादित्येवमर्थं शब्दग्रहणम्।।
104. आचार्योपसरजनश्चान्तेवासिनि। (6.2.104)
`आचार्योपसर्जनश्च' इति। सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्, एतच्चान्तेवासिविशेषणम्। `आचार्योपसर्जनान्तेवाचिन्युत्तरपदे' इति। आचार्य उपसर्जनम्=अप्रधानं यस्य अन्तेवासिनः स तथोक्तः। आचार्योपसर्जनश्चान्तेवासी चाचार्योपसर्जनान्तेवासी, तं वक्तुं शीलं यसयोत्तरपदस्य तदाचार्योपसर्जनान्तेवासिवाचि। `पूर्वपाणिनीयाः' इति। `पूर्वापर' (2.1.58) इत्यादिना समासः पाणिनेराचार्यस्यान्तेवासिनः पाणिनीयाः, अत्रान्तेवासिनः प्राधान्येनोच्यन्ते प्रत्ययान्तेन; आचार्यस्तु तद्विशेषणत्वादुपसर्जनभावेनेत्याचर्योपसर्जनान्तेवासिवाच्युत्तरपदं भवति। `पूर्वकाशकृत्स्नाः' इति। काशकृत्स्नस्येमे काशकृत्स्नाः, औत्सर्गिकोऽण्।
`पूर्वपाणिनीयं शास्त्रम्' इति। पाणिना प्रोक्तं पाणिनीयम्, अत्राचार्योपसर्जनशास्त्रवाच्युत्तरपदम्, न त्वाचार्योपसर्जनान्तेवासिवाचि।।
105. उत्तरपदवृद्धौ सर्वं च। (6.2.105)
`उत्तरपदवृद्धौ' इति। उत्तरपदाधिकारविहिता वृद्धिरुत्तरपदवृद्धिः, इह तु तद्वदुत्तरपदं गृह्यते। तमेवार्थं दर्शयितुमाह--`उत्तरपदस्योत्येवम्' इत्यादि। कथं पुनरुत्तरपदवृदधावित्युच्यमान एषोऽर्थः शक्यते विज्ञातुम्? तदुच्यते; उत्तरपदं स्वर्यते, स्वरितेनाधिकारो लक्ष्यते, तेनोत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तास्यास्तावद्ग्रहणं विज्ञायते। पूर्वपदस्येदमन्तोदात्तत्वं विधीयते। पूर्वपदं च सम्बन्धिशब्दत्वादुत्तरपदमुपस्थापयति। न च वृद्धिमात्र उत्तरपदमुपपद्यत इति सामर्थ्याद्वृद्धिशब्दसाहचर्यादुत्तरपदं वृद्धिमुपलक्षयति। तेनोत्तरपदाधिकारे वृद्धिमत्युत्तरपद एष स्वरो भवतीति विज्ञायते। `सर्वपाञ्चालकः' इति। `पूर्वकालैक' (2.1.49) इत्यादिना समासः। `पूर्वपाञ्चालकः' इत्यादौ `पूर्वापर' (2.1.58) इत्यादिना।
`जनपदलक्षणो वृञ्प्रत्ययः' इति। `धन्वयोपधाद्वुञ्' (4.2.121) इत्यनुवर्त्तमाने `जनपदतदवध्योश्च' (4.2.124) इत्यतो जनपदग्रहणे च `अवृद्धादपि बहुवचनविषयात्' (4.2.125) इत्यनेन वञ्।
`सुसर्वार्द्धात्' इत्यादि। `सर्वपाञ्चालकः' इति। `सुसर्वर्धाज्जनपदस्य' (7.3.12) इत्युत्तरपदवृद्धिः। `पूर्वपाञ्चालकः' इत्यादौ तु `दिशोऽमद्राणाम्' (7.3.13) इति। एषा चोत्तरपदाधिकारविहिता, तत्र चोत्तरपदस्येत्यनुवृत्तेः।
किं पुनः कारणमुत्तरपदाधिकार उत्तरपदग्रहणेन लक्ष्यत इत्येवं विज्ञायते? इत्याह--`अधिकार लक्षणात्' इत्यादि। यद्युत्तरपदग्रहणेनोत्तरपदाधिकारो लक्ष्येत, तदा वृद्धिमात्रवत्युत्तरपदे वैतद्वुञो ह्यु वात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्युदात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्युत्तरपदाधिकारविहिता वृद्धिः। `भासृ दीप्तौ' (धा.पा.624) भासत इति भासः, पचाद्यच्। करोतीति कारकः, ण्वुल्, `अचो ञ्णिति' (7.2.115) इति वृद्धिः, सा चोत्तरपदाधिकारविहिता न भवति।।
106. बहुव्रीहौ विश्वं संज्ञायाम्। (6.2.106)
`पूर्वपदकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्' इति। `बहुव्रीहौ प्रकृत्या' (6.2.1)। इत्यादिना विश्वे च ते देवा विश्ववेवा इति विशेषणसमासः, तत्पुरुषोऽयम्। अत्र समासान्तोदात्तत्वमेव भवति। `विश्वदेवः' इति। अत्र पूर्वपदप्रकृतिस्परत्वेनाद्यदात्तत्वमेव भवति। विश्वशब्दसय क्वन्प्रतययन्तस्य नित्स्वरेणाद्युदात्तत्वम्।
`विश्वामित्रः' इति। `बहुवरीहौ विश्वं संज्ञायाम्' (6.2.106) इति पूर्वपदान्तोदात्तस्यावकाशः--विश्वदेवः, विश्वयशा इति। `संज्ञायां मित्त्राजिनयोः' (6.2.165) इत्युत्तरपदान्तोदात्तत्वस्यावकाशः--कुलमित्त्रम्, कुलाजिनमिति; विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयं प्राप्नोति, `संज्ञायां मित्राजिनयो' (6.2.165) इत्येतत्तु भवति विप्रतिषेधेन।।
107. उदराश्वेषुषु। (6.2.107)
वृकस्येवोदरमस्य `वृकोदरः'। दाम उदरे यस्येति `दामोदरः'। हरिरश्वो यस्येति `हर्यश्वः'। यौवनमेव अश्वो यस्य स `यौवनाश्वः'। शोभनो वर्णो येषां ते सुवर्णाः पुङ्खां येषामिषूणां ते सुवर्णपुङ्खाः, सुवर्णपुङ्खा इषवो यस्य सः `सुवर्णपुङ्खेषुः। महान्त इषवो यस्य स `महेषुः'। `आन्महतः' (6.3.46) इत्यात्त्वम्। अत्र पूर्वपदानाम् `बहुव्रीहौ प्रकृत्या' (6.2.1) इति प्रकृतिभावः। यतर स्वरे प्राप्तेऽयं विधिरारब्धः स आख्यायते। `कृदाधारार्चिकलिभ्यः कः' (पं.उ.3.40) इत्यतः `कः' इत्यानुवर्तमाने `अजिवृरीभ्यो निच्च' (पं.उ.3.38) इत्यतो निद्ग्रहणे `सृवृभूशुषिमुषिभ्यः कक्' (पं.उ.3.41) इति ककपरत्ययान्तो वृकशब्दो व्युत्पाद्यते, तेनायमाद्युदात्तः। एवं दामन्शब्दोऽपि; मनिन्प्रत्ययान्तत्वात्। हृञित्येतस्मात् `सर्वधातुभ्य इन्' (पंउ.4.117) इति हरिशब्द आद्युदात्तः।।
108. क्षेपे। (6.2.108)
`कुण्डोदरः' इति। `शकिशम्योर्नित्' (पं.उ.1.111) इति वर्तमाने `क्वादिभ्य कित् (पं.उ.1.114) इत्यतः किद्ग्रहणे च `कुडि दाहे' (धा.पा.270) इत्येतस्मात् `अमन्ताड्डः' (पं.उ.113) इति डप्रत्यये कुण्डमाद्युदत्तम्। `घटोदरः' इति। घटशब्दोऽयम् `घट चेष्टायाम्' (धा.पा.763) इत्यस्य पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। तस्मात् पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति त्वस्यान्यार्थ आरम्भेऽपवादत्वात् पचाद्यजन्तादनेनैवान्तोदात्तत्वं युक्तमिति मन्यमानो वृत्तिकार एतदप्युदाहरति। `कटुकाश्वः' इति। कटुकोऽस्वो यस्य स कटुकाश्वः। कटुशब्दात् `संज्ञायां कन्' (5.3.87) इति कन् ते न कटुकशब्द आद्युदात्तः। स्पान्दितोऽश्वोऽस्य `स्पन्दिताश्वः'। `स्पदि किञ्चिच्चलने' (धा.पा.14) इत्यस्मात् क्तः। तेन स्यन्दितशब्दः प्रत्ययस्वरेणान्तोदात्तः। अनिघात इषुरस्येति `अनिघातेषुः'। निहन्यतेऽनेनेति निघातः, `हलश्च' (3.3.121) इति घञ्, न निघातोऽनिघातः `तत्पुरेषे तुल्यार्थ' (6.2.2) इत्यादिनाऽव्ययप्रकृतिभावादनिघातशब्द आद्युदात्तः। चलाचल इषुरस्य `चलाचलेषुः'। `चल कम्पने' (धा.पा.832) तस्य पचाद्यचि `चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्य' (वा.658) इति द्विर्वचनम्, अभ्यासस्यागागमश्च। एतेन चलाचलशब्दोऽन्तोदात्तः।
`अनुदरः' इत्यादि। `उदराश्वेषुषु' (6.2.107) `क्षेषे' (6.2.108) इत्यस्यावकशः--कुण्डीदरः, घटोदर इति, `नञ्सुभ्याम्' (6.2.172) इत्युत्तरपदान्तोदात्तस्यावकाशः--अयवः, सुयव इति; इहोभयं प्राप्नोति--अनुदरः सूदर इति। `नञ्सुभ्याम्' (6.2.172) इत्येतद्भवति विप्रतिषेधेन।।
109. नदी बन्धुनि। (6.2.109)
`बन्धुनि' इति। शब्दरूपापेक्षया नपुंसकलिङ्गनिर्देशः, अन्यथा बन्धुशब्दस्य पुंल्लिङ्गत्वात् `बन्धौ' इति निर्देशं कुर्यात्। `गार्गीबन्धुः, वात्सीबन्धुः' इति। गर्गवत्सशब्दाभ्यां गर्गादित्वात् (4.1.105) यञ् तदन्तात् `यञश्च' (4.1.16) इति ङीप्। गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदात्तौ।
`ब्रह्मबन्धुः' इति। अत्र प्रकृतिभाव एव भवति पूर्वपदस्य। ब्रह्मशब्दश्चायं `मनिन्' (द.उ.6.73) इत्यनुवर्त्तमाने `बृहेर्नोऽच्च' (द.उ.6.74) इति भनिन्प्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। `गार्गीप्रियः' इति। गार्गीशब्दोऽपि प्रकृतिभावेनाद्युदात्त एव भवति।।
110. निष्ठोपसर्गपूर्वमन्यतरस्याम्। (6.2.110)
`प्रक्षालितपादः' इति। `क्षल शौचकर्मणि' (धा.पा.1597) अस्माण्णयन्तात् क्तः। पक्षालितशब्दः `गतिरनन्तरः' (6.2.49) इत्याद्युदात्तः। `प्रधौतमुखम्' इति। `धावु गतिशुद्ध्योः' (धा.पा.601) अस्मात् क्तः। `च्छ्वोः शूडनुनासिके च' (6.4.19) इत्यूठ्, `एत्येधत्यूठ्सु' (6.1.89) इति वृद्धिः।
`यदि मुखशब्दः' इत्यादि। मुखशब्दोऽयं स्वाङ्गवाच्यपि। तत्र यद्ययमिह स्वाङ्गवाची तदानेन पूर्वपदान्तोदात्तत्वमेव। मुक्ते पक्षे `मुखं स्वाङ्गम्' (6.2.167) इत्युत्तरपदाद्युदात्तत्वं भवति। अत्र निष्ठोपसर्गपूर्वमन्यतरस्यांग्रहणानुवृत्तेर्यदाऽन्तोदान्तत्वं भवति तदा `गतिरनन्तरः' (6.2.49) इत्येतत्। तेन स्वाङ्गवाचिनि मुखशब्दे त्रयः स्वरा भवन्ति। अनेन पूर्वपदान्तोदात्तत्वम्, `मुखं स्वाह्गम्' (6.2.167) इत्यनेनोत्तरपदन्तोदात्तत्वम्, `गतिरनन्तरः' (6.2.49) इति प्रकृतिभावात् पूर्वपदस्याद्युदात्तत्वम्। `न चेत्' इत्यादि। यदि मुखशब्दोऽत्र स्वाङ्गावची न भवति तदा `मुखं स्वाङ्गम्' (6.2.167) इत्यस्यायं विषयो न भवतौति `गतिरनन्तरः' (6.2.49) इति विधिना मुक्ते प्रवर्तते। तेन स्वाङ्गवाचिनि मुखशब्दे द्वौ स्वरौ भवतः--पूर्वपदस्याद्युदात्तत्वम्, अन्तोदात्तत्वञ्च।
`प्रसेचकमुखम्' [प्रसेचकमुखः--काशिका] इति। अत्र पूर्वपदप्रकृतिस्वर एव भवति। प्रसिच्यत इति प्रसेचकः `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्मणि ण्वुल्, `कुगतिप्रादयः' (2.2.18) इति समासः, `तत्पुरुषे तुल्यार्थे' (6.2.2) इत्यादिनाऽव्ययप्रकृतिभावः। तेन प्रसेचकशब्द आद्युदात्त इति। `शुष्कमुखः' इति। `शुषः कः' (8.2.51) इति निष्ठायां कादेशः। प्रत्ययस्वरेण शुष्कशब्दोऽन्तोदात्तः। बहुव्रीबौ प्रकृतिभावेन नित्यमेवान्तोदात्तो भवति।।
111. उत्तरपदादिः। (6.2.111)
112. कर्णौ वर्णलक्षणात्। (6.2.112)
वर्णम्=शुकलादि, लक्ष्यतेऽनेनेति लक्षणम्=चिह्नम्, वर्णञ्च लक्षणञ्च वर्णलक्षणम्। द्वन्द्व एकवद्भावः। अर्थग्रहणं चेह वर्णलक्षणयोः; अर्थप्रधानत्वान्निर्देशस्य। `श्वेतकर्णः कृष्णकर्णः' इति। श्वेतकृष्णशब्दावन्तोदात्तौ। तथा हि--`शिता वर्णे' (धा.पा.742) इत्यस्मात् पचाद्यचि श्वेतशब्दो व्युत्पाद्यते। कृष्मशब्दोऽपि `इण्सिञ्चिदीङ्युष्यविभ्यो नक्' (द.उ.5.35) [इण्सिञ्दीङुष्वविभ्यो नक्--द.उ.] इत्यनुवर्तमाने `कृषेर्वर्णे' (द.उ.5.37) इति नक्प्रत्यये। `दात्राकर्णः' इति। `धः कर्मणि ष्ट्रन्' (3.2.181) इति वर्तमाने `दाम्नीशस्' (3.2.182) इत्यादिना ष्ट्रन्प्रत्ययः, तेन दात्रशब्द आद्युदात्तः। `शङ्कूकर्णः इति। `कृग्रोरुच्च' (द.उ.1.109) [कृग्रोरुच्च--द.उ.] इत्यनुवर्तमाने `खरुशङ्कुपीयुनीलङ्गुलिगु (द.उ.1.120) इति कुप्रत्ययान्तः शङ्कुशब्दोऽन्तोदात्तो निपात्यते। `धापृवस्यज्यतिभ्यो नः' (द.उ.5.39) इत्यधिकृत्य `कॄवॄच्छसिद्रूपन्यनिस्वपिभ्यो नित्' (द.उ.5.42) [कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्--द.उ] इति कर्णशब्दो व्युत्पाद्यते, भिन्नच्छिन्नद्रस्रुवस्वस्तिकस्य' (6.3.115) इति सूत्रमुपलक्षयति।
`श्वेतपादः' इत्यादि। पूर्वपदस्य प्रकृतिस्वर एव भवति।
अथेह कस्मान्न भवति--स्थूलकर्ण इति, स्थूलेनापि हि कर्णेन लक्ष्यत एव ततश्च लक्षणादित्येव सिद्धम्? इत्यत आह--`पशूनां विभागज्ञापनार्थम्' इत्यादि। तेन स्थूलकर्ण इत्यत्र न भवतीति भावः। कथं पुनः सामान्येनोक्तौ विशेषसय ग्रहणं लभ्यते? वर्णग्रहणाज्ज्ञापकात्। यदि लक्षणमात्रस्येह ग्रहणभिमतं स्याद्वर्णग्रहणं न क्रियेत, वर्णो हि लक्षणं भवत्येव। तेनापि लक्ष्यत इति कृत्वा, कृतश्च। तस्मात् तदेव ज्ञापयति--विशिष्टमिह लक्षणं गुह्यत इति। यत् पुनर्विशिष्टं व्याख्यानात् तद्विज्ञेयम्।
`श्वेतपादः' इति। `श्विता वर्णे' (धा.पा.742) इत्यस्मातद् पचाद्यचि श्वेतशब्दो व्युत्पाद्यते, तेनान्तोदात्तोऽयम्। `कूटशृङ्गः' इति। `कूट दाहे' (धा.पा.1890) [कूट परितापे (परिदाहे इत्यन्ये) धा.पा.] इति, अस्मादिगुपधलक्षणः (3.1.135) कः, तेन कूटशब्दोऽप्यन्तोदात्त एव। `शोभनकर्णः' इति। `शुभ शुम्भ शोभार्थे' (धा.पा.1321,1322) अस्मात् `अनुदात्तेतश्च हलादेः' (3.2.149) इति युच्। चित्स्वरेण शोभनशब्दोऽप्यन्तोदात्तः। पूर्वपदप्रकृतिस्वरापदादो योगः। एवमुत्तरेऽपि योगाः प्रागव्ययीभावसंशब्दनात्। तेन सर्वत्र प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरः प्रत्युदाहार्यः।।
113. संज्ञौपम्ययोश्च। (6.2.113)
`कुञ्चि कर्णः, मणिकर्णः' इति। `कुचि शब्दे तारे' (धा.पा.184) [कुच--धा.पा.] `अण रण वण भण मण' (धा.पा.444.448) इति मणिर्भ्वादौ पठ्यते आभ्याम् `सर्वधातुभ्य इन्' (पं.उ.4.117) `इगुपधात् कित्' (पंउ.4.119) इतीन्प्रत्ययः, किच्च। तेन कुञ्चि। तेन कुञ्चिमणिशब्दावाद्युदात्तौ। `गोकर्णः' इति। गौरिव कर्णोऽस्येति विग्रहः। गोशब्द उक्तस्वरः। `खरकर्णः' इति। खरस्येत्यादि विग्रहः। खमस्यास्तीति `रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् (वा.577) इति रप्रत्ययः, तेन खरशब्दोऽन्तोदात्तः।।
114. कण्ठपृष्ठग्रीवाजङ्घं च। (6.2.114)
`कणेष्ठः' (पं.उ.1.105) इति ठप्रत्ययान्तत्वात् कण्ठशब्दोऽन्तोदात्तः। `डित्यपृष्ठगूथयूथप्रोथाः' (द.उ.6.37) [तिथ--द.उ; पं.उ.] इति पृष्ठशब्दोऽन्तोदात्तो निपात्यते। `इण्शीभ्यां वन्' (द.उ.8.126) इत्यतो वन्प्रत्ययेऽनुवर्तमाने `शेवयह्वजिह्वाग्रीवाप्वमावा:' (द.उ.8.128) इति ग्रीवाशब्दोऽन्तोदात्तो निपात्यते। अत्यन्तं हनित गच्छतीति हन्तेर्यङ्, द्विर्वचनम्, नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्, `अभ्यासाच्च' (7.3.55) इति कुत्वम्, जङ्घन्य इति स्थिते पचाद्यच् `यङोऽचि च' (2.4.74) इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा--`हन्तेरच् जङ्घ च' (2.4.74) इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा--`हन्तेरच् जङ्घ च' (पं.उ.5.31) [`अच् तस्य जङ्घ च--पं.उ.] इति हन्तेरच्प्रत्ययो जङ्घ इत्ययमादेश इत्येवं वा जङ्घशब्दो व्युत्पाद्यते। एषां कण्ठादीनां समाहारे द्वन्द्वः।
`शितिकण्ठः' इति। `सर्वधातुभ्य इन्' (पं.उ.4.117) इति वर्तमानं `क्रमितमिशाडिस्तम्भामत इच्च' (पं.उ.4.121) [शति--पं.उ.] इति शितिशब्द आद्युदात्तः। `नीलकण्ठः' इति। `नील वर्णे' (धा.पा.522), [`नील वर्णे--धा.प.] अस्मात् घञ्, तेन नीलशब्दोऽप्याद्युदात्तः। `खरकण्ठः' इति। खरस्येव कण्ठोऽस्येति विग्रहः। खमस्यास्तीति `रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानात् (वा.577) रप्रत्ययः, तेन खरोऽन्तोदात्तः। `उष्ट्रकण्ठः' इति। उष्ट्रस्येव कण्ठोऽस्येति `ष्ट्रन्' (द.उ.8.79) इति वर्तमाने `उषखनिब्यां कित्' (द.उ.8.82) इति `उष दाहे' (धा.पा.696) इत्यस्मात् ष्ट्रन्, किच्च। तेनोष्ट्रशब्द आद्युदात्तः।
`काण्डपृष्ठः' इति। काण्डं पृष्ठमस्येति काण्डशब्दः `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्युदात्तः। `नाकपृष्ठम्' इति। नास्याकमस्तीति `न भ्राट्' (6.3.75) इत्यादिना प्रकृतिभावान्नलोपाभावः। `नञ्सुभ्याम्' (6.2.172) इत्युत्तरपदान्तोदात्तविधानान्नाकशब्दोऽन्तोदात्तः `गोपृष्ठम्' इ। गोरिव पृष्ठमस्येति। गोशब्द उक्तस्वरः। `अजपृष्ठम्' इति। अजस्येव पृष्ठमस्येति `अज गतिक्षेपणयोः' (धा.पा.230) अस्मात् पचाद्यच्। अजादिष्वजाशब्दस्य पाठाद्वीभावो न भवति। चित्स्वरेणाजशब्दोऽन्तोदात्तः।
`सुगरीवः' इति। शोभना ग्रीवाऽस्येति `निपाता आद्युदात्ताः' (फि.सू.4.80) इति सुशब्द आद्युदात्तः। `नीलग्रीवः' इति। नीला ग्रीवाऽस्येति `नील वर्णे' (धा.पा.522) [`नील वर्णे--धा.प.] अस्मात् घञ्। तेन नीलशब्द आद्युदात्तः। `दशग्रीवः' इति। दश ग्रीवा अस्येति दशशब्दः `न्रः संख्यायाः' (फि.सू2.28) इत्याद्युदात्तः। `अश्वग्रीवः' इति। अश्वस्येव ग्रीवाऽस्येति। गोशब्दोऽश्वशब्दश्चोक्तस्वरः।
`नारीजङ्घः' इति। नारी जङ्घा यस्येति। शर्ङ्गरवादिषु `नृनरयोश्च' (ग.सू.57) इति पठयन्ते, तेनाद्युदात्तः। `तालजङ्घः' इति। तालो जङ्घा यस्येति `तल प्रतिष्ठाकरणे (धा.पा.1598) [प्रतिष्ठायाम्--धा.पा.] चुरादिः, तस्मात् वचाद्यच्। तेन तालशब्दोऽन्तोदात्तः। `गोजङ्घः' इति। एण्या इव जङ्घा यस्येति। एणीशब्दः `जातेरस्त्रीविषयात्' (4.1.63) इति ङीषन्तः। तेनान्तोदात्तः।।
115. शृङ्गमवस्थायां च। (6.2.115)
`उद्गतशृङ्गः' इति। `गन्गम्यद्योः' (पं उ.1.122) इत्यधिकृत्य `भृञः किन्नुट् च' (पं.उ.1.124) इति च `शृणातेर्ह्रस्वश्च' (पं.उ.1.125) इति गन्प्रत्ययान्तः शृङ्गशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। उद्गतशब्दस्थाथादि(6.2.144)स्वरेणान्तोदात्तः। `द्व्यङ्गुलशृङ्गः' इति। द्वे अङ्गुली प्रमाणमस्येति तद्धितार्थे द्विगुः `प्रमाणे द्वयसच्' (5.2.37) इत्यादिना विहितस्य मात्रच आगतस्य लोपः। `प्रमाणे लो द्विगोर्नित्यम्' (वा.558,559) इति `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः' (5.4.86) इत्यच् समासान्तः। तेन द्व्यङ्गुलशब्दोऽन्तोदात्तः। द्व्यङ्गुलं शृङ्गमस्येति। `त्त्रङ्गुलशृङ्गः' इति। पूर्वेण तुल्यम्। `अत्र' इत्यादि। आदिशब्देन द्व्यङ्गुलाविग्रहणम्। `ऋष्यशृङ्गः' इति। ऋष्यं शृङ्गंयस्येति। `अर्ध्यादयश्च' इत्याद्युदात्त ऋष्यशब्दो निपात्यते। `मेषशृङ्गः' इति। मेषस्येव शृङ्गो यस्येति `मिष स्वर्धायाम्' (धा.पा.1352), अस्मात् पचाद्यच्। तेन मेषशब्दोऽन्तोदात्तः।
`स्थूलशृङ्गः' इति। स्थूलशब्दः प्रातिपदिकस्वरेणान्तोदात्तः।।
116. नञो जरमरमित्त्रमृताः। (6.2.116)
`अजरः' इति। जरणं जरः `ऋदोरप्' (3.3.57)। तेनायं धातुस्वरेणाद्युदात्तः। अविद्यमानो जरोऽस्येति। `अमरः' इति। मरणं मरः, `कृत्यल्युटो बहुलम्' (3.3.113) इत्यप्। तेनायमपि पूर्ववदाद्युदात्तः। `अमित्त्रः' इति। `अमिचिमिदिशसिभ्यः क्त्रः' (द.उ.8.86) इदि मिदेः क्त्रः। तेन मित्त्रशब्दोऽन्तोदात्तः। `अमृतः' इति। `मृङ् प्राणत्यागे' (धा.पा.1403) मरणम्=मृतम्। `नपुंसके भावे क्तः' (3.3.114)। तेन मृतशब्दोऽन्तोदात्तः।
`ब्राह्मणमित्त्रः' इति। ब्राह्मणशब्दोऽणन्तत्वादन्तोदात्तः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। `अशत्रुः' इति। `रुशातिभ्यां (द.उ.1.159) इति क्रुन्नन्तः शत्रुशब्द आद्युदात्तः। `नञ्सुभ्याम्' (6.2.172) इत्युत्तरपदान्तोदात्ततवापवादो योगः। एवमुत्तरेऽपि योगः प्राक् `कूलतीरतूल' (6.2.121) इत्यतः द्रष्टव्याः।।
117. सोर्मनसी अलोमोषसी। (6.2.117)
`सुकर्मा' इति। `कृदृचरिभ्यो मनिन्' (द.उ.6.73) [`मनिन्' इत्येव द.उ.पाठः; `सर्वधातुभ्यो मनिन्' इति.पं.उ.पाठ--4.144] `सर्वनामस्थाने च' (6.4.8) इति दीर्घः। `सुप्रथिमा' इति। पृथोर्भावः प्रथिमा, `पृथ्वादिभ्यः' (5.1.122) इतीमनिच्। `र ऋतो हलादेर्लघोः' (6.4.161) इति ऋकारस्य रेफः। `सुपयाः' इति। `असुन्' (द.उ.9.49) इति वर्त्तमाने `पिबतेरिच्च' (द.उ.9.50) [पिबतेरि च--द.उ.] इति पयःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। `अत्वसन्तस्य'(6.4.14) इति दीर्घः। `सुयशाः' इति। `अश भोजने' (धा.पा.1523) [`अशू भोजने'--मुद्रितः पाठः] `अशर्देवने युट् च' (द.उ.9.24;पं.उ.3.65) [पंचपारिवशपाद्युणाद्योरुभयत्रापि `यूट् च' इति नास्ति] इत्यसुन्येव यशःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः, पूर्ववद्दीर्घः। `सुस्रोताः' इति। `सर्वधातुब्योऽसुन् (पं.उ.4.188) इति वर्त्तमाने `स्रूरिभ्यां तुट् च' (द.उ.9.62) [स्रूरीभ्यां--पं.उ.द.उ.] इति। `सुस्रत् सुध्वत्' इति। स्रन्सुध्वनसुभ्यां क्विप् `वसुस्रंसु' (8.2.72) इत्यादिना दत्त्वम्, तस्यासिद्धत्वादवासन्तत्वम्।
`सुराजा, सुतक्षा' इति। राजन्, तक्षन्निति कनिन्नन्तः। `सुलोमा' इति। लुनातेर्मनिनि लोमेति। `सुधा' इति। `उष दाहे' (दा.पा.696) `मिथुनेऽसिः' (पं.उ.4.222) इति वर्तमाने `उषः कित्' (पं.उ.4.234) इति कित्। अथ कथं सुप्रथिमेत्यतर सुस्रोताः, सुस्रत्, सुध्वदित्येतेषु चोत्तरपदमाद्युदात्तं भवति, यावतार्थवतोर्मनसोरर्थवद्ग्रहणपरिभाषयेह ग्रहणम्, न चेह तावर्थवन्तौ? इत्यत आह--`अनिनस्मन्' इत्यादि। `अनिनस्मन् ग्रहणान्यनर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' (व्या.पा.129) इति ब्रुवता वाक्यकारेणानिनस्मन्प्रभृतीनामनर्थकानामपि ग्रहणं भवतीत्युक्तं भवति। अन्यथाप्येतत् तदन्तविधेः प्रदर्शनार्थं स्यात्।
`कपि तु परत्वात्' इत्यादि। `सोर्मनसी' (6.2.117) इति सूत्रस्यावकाशः--सुकर्माः, सुवयाः, `कपि पूर्वम्' (6.2.173) इत्यस्यावकाशः--अयवकः, सुयवक इति, `शेषाद्विभाषा' (5.4.154) इति कप्। इहोभयं प्राप्नोति--सुकर्मकः, सुस्रोतस्क इति, `कपि पूर्वम्' (6.2.173) इत्येतद्भवति विप्रतिषेधेन।।
118. क्रत्वादयश्च। (6.2.118)
कृञः क्रतुः, तेन नित्स्वरेण क्रतुराद्युदात्तः। दृशीकप्रतीकशब्दौ `अर्ध्यादयश्च' इत्याद्युदात्तौ। सूपूर्वस्यत्वरतेः क्तिन्। `तादौ च निति कृत्यतौ' (6.2.50) इति गतिस्वरेम प्रतूर्तिशब्द [`प्रपूर्त्ति' क्रत्व दिषु पठ्यते--काशिका] आद्युदात्तः, `ज्बरत्वर' (6.4.20) इत्यादिनोठ्। जुहोतेः `अचो यत्' (3.1.97) `यतोऽनावः' (6.1.213) इत्याद्युदात्तो भवति हव्यशब्दः। भजेः `खनो घ च' इति घः। अत्र हि घित्करणेन ज्ञापितम्--अन्येभ्योऽपि धो भवतीति। वृषादित्वाद्भगशब्द आद्युदात्तः।
119. आद्यदात्तं द्वयच्छन्दसि। (6.2.119)
`नित्स्वरेणाश्वरथशब्दावाद्युदात्तौ' इति। अश्वशब्दस्य `अशिपुषि' (पं.उ.1.151) [`अशूप्रुपि....'पं.उ.] इत्यादिना क्वन्प्रत्ययान्तस्य व्युत्पादितत्वात्। रथशब्दस्यापि `हनिकुषिनीरमिकाशिभ्यः क्थन्' (द.उ.6.27) इति क्थन्प्रत्ययान्तस्य।
`बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः' इति। `कुर्भ्रश्च' (द.उ.1.107) इत्यतः कुरिति वर्तमाने `अर्जिदृशिकम्यमिपशिबाधामृजिपसितुग्दीर्घहकारश्च' (द.उ.1.112) [अर्जिदृशिकम्यमिपशिबाधामृजितुग्धुग्दीर्घहकारश्च--द.उ.] इति कुप्रत्ययान्तस्य व्युत्पादितत्वात्। `सुहिरण्यः' इति। हिरण्यशब्दः `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तः।।
120. वीरवीर्यौ च। (6.2.120)
`स्फायितञ्चि' (द.उ.8.31) इत्यादिनाऽजे रकिप्रत्यये वीरशब्दो व्युत्पाद्यते। तेनान्तोदात्तः। अथ वा--`वीर विक्रान्तौ' (धा.पा.1903) इत्यस्य पचाद्यचि व्युत्पादितत्वात्। `वीर्यमिति यत्प्रत्ययान्तम्' इति। वीरे साधुः, `तत्र साधुः' (4.4.98) इति प्राग्घितीयो यत्। अथ वा--वीर इत्यसमाच्चौरादिकादस्मादेव निपातनात् `अचो यत्' (3.1.97), तेन वीर्यमिति यत्प्रत्ययान्तम्। एवं सति `यतोऽनावः' (6.1.213) इत्याद्युदात्तत्वं प्राप्नोति? इत्यत आह--`तत्र' इत्यादि। कथं पुनर्वीर्यग्रहणं ज्ञापकम्? इत्याह--`तत्र हि' इत्यादि। यद्याद्युदात्तं स्यात् तदा `आद्युदात्तं द्व्यच्छन्दसि' (6.2.119) इत्यनेनैव सिद्धं स्यात्। ततश्चेह वीर्यग्रहणं न कुर्यात्, कृतञ्च; तस्मात् तदेव ज्ञापयति--वीर्यशब्दस्य यदन्तस्याप्याद्युदात्तत्वं न भवतीति। तस्मिन्नसति `तित्स्वरितम्' (6.1.185) इत्यन्तस्वरितमेव भवति।।
121. कूलतीरतूलमूलशालाक्षसममव्ययीभावे। (6.2.121)
`कूल संवरणे' (धा.पा.525), [`कूल आवरणे--धा.पा.] `पार तीर कर्मसमाप्तौ' (धा.प.1911,1912), `तूल निष्कर्षे' (धा.पा.527), `मूल प्रतिष्ठायाम्' (धा.पा.529)--एभ्यो घञ्, तेनैते कूलादय आद्युदात्तः। `शुल हुल पत्लृ गतौ'--(धा.पा.843,844,845) अस्माद्घञ्। शालाप्याद्युदात्ता। स्त्रीत्वम् `तत्पुरुषे शालायाम्' (6.2.123) इति निपातनात्। `तॄवदिहनिकमिकसिभ्यः सः' (द.उ.9.21,पं.उ.3.62) [वॄतॄवदिहनिकमिकषियुमुचिभ्यः सः--द.उ; वॄतॄवदिनिकमिकषिभ्यः सः--पं.उ.] इति `अशेर्देवने' (द.उ.9.24) इति च सप्रत्ययान्तत्वादक्षशब्दोऽन्तोदात्तः। योऽपि `अक्ष्णोऽदर्शनात्' (5.4.76) इत्यचि समासान्ते कृतेऽक्षशब्दः सम्पद्यते, सोऽप चित्स्वरेणान्तोदात्तः, तस्यापीह ग्रहणम्। `षमु वैकल्ये'--(धा.पा.829) [षम अवैकल्ये--धा.पा.] अस्मात् पचाद्यच्, तेन समोऽन्तोदात्तः। यस्तु सर्वादिषु समशब्दः सोऽनुदात्तस्तत्रैव पठ्यते, तस्यापीह ग्रहणम्। `उपकूलम्' इति। कूलस्य समीपमिति `अव्ययं विभक्ति' (2.1.6) इत्यादिनाव्ययीभावः। `परिकूलम्' इति। `उपपरी वर्जने' (1.4.88) इति परिशब्दः कर्मप्रवचनीयसंज्ञ)। तेन योगे `पञ्चम्यपाङ्परिभिः' (2.3.10) इति कूलात् पञ्चमी। `अपपरिबहिरञ्चवः पञ्चम्या' (2.1.12) इत्यव्ययीभावः। `सुषमम्' इत्यादौ `सुषमादिषु च' (8.3.98) इति षत्वम्, तस्यासिद्धत्वात् समशब्द एवायम्। `तिष्ठद्गुप्रभृतिष्वेते पठ्यन्ते' इति। तेन `तिष्ठद्गुप्रभृतीनि च' (2.1,17) इत्येतेऽव्ययीभावा इति दर्शयति।
`उपकुम्भम्' इति। अत्र समासान्तोदात्तत्वमेव। `परमकूलम्, उत्तमकूलम्' इति। परमं कूलमस्योत्तमं कूलमस्येति बहुव्रीहिः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। यौ तु तत्पुरुषौ परमकूलोत्तमकूलशब्दौ, तत्र बहुव्रीह्यधिकारादेव न भविष्यतीति तन्निवृत्त्यर्थमव्ययीभावग्रहणमयुक्तम्।
`पर्यादिभ्यः' इत्यादि। `परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु' (6.2.33) इत्यस्यावकाशो यत्र कूलादयो न सन्ति। परिंत्रिगर्तमिति, कूलादीनामाद्युदात्तस्यावकाशो यत्र पर्यादयो विद्यन्ते---अपकूलमिति; परिकूलमित्यत्र तूभयं प्राप्नोति, तत्र विप्रतिषेधेनेदमेवाद्युदात्तत्वं भवति।
समासस्वरापवादो योगः। एवमुत्तरेऽपि `नाचार्यराज' (6.2.133) इत्यादे सूत्रात् प्राक्।।
122. कंसमन्थशूर्पपाय्यकाण्डं द्वीगौ। (6.2.122)
`वॄतॄवदिहनिकमिकषिभ्यः सः' (पं.उ.3.62) इति कमेः सः, तेन कंसोऽन्तोदात्तः। `मन्थ विलोड्ने' (दा.पा.42) अस्मात् `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति घञ्, तेन मन्थ आद्युदात्तः। `पानीविषिब्यः पः' (पं.उ.3.23) इति वर्तमाने `सुशृब्यां निच्च' (पं.उ.3.26) इति शृणातेः पः निच्च। बाहुलकादूत्त्वं च। अथ वा--`शूर्प माने' (धा.पा.1612) असमाद्घञ्, तेन शूर्पशब्द आद्युदात्तः। पाय्यशब्दो ण्यति `पाय्यसान्नाय्य' (3.1.129) इति निपात्यते तेनायमन्तस्वरितः। कुण्डशब्दः पूर्वमेवोक्तस्वरः। `द्विकंसः' इति। द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः, ततः प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात् `कंसाट्टिठन्' (5.1.25) इति टिठन्, तस्य चापि `अध्यर्द्धपूर्व' (5.1.28) इत्यादिना लुक्। `त्रिकंसः' इति। पूर्वेण तुल्यम्। `द्विमन्थः' इति। `आर्हादगोपुच्छ' (5.1.19) इत्यादिना ठक्। शेषं समासादि पूर्ववत्। `द्विशूर्पः' इतिष `शूर्पादन्यतरस्याम्' (5.1.26) इत्यञ्। शेषं पूर्ववत्। `द्विपाय्यः' इति। प्राग्वती यष्ठञ्। शेषं पूर्ववत्। `द्विकाण्डम्' [द्विकाण्डः--काशिका] इति। द्वे काण्डे प्रमाणमस्येति `प्रमाणे द्वयसच्' (5.2.37) इत्यादिना मात्रजादयः, तेषाम् `प्रमाणे लो द्विगोर्नित्यम्' (वा.558, 559) इति लोपः, समासः पूर्ववत्।
`परमकंसः' इति। अत्र समासस्वर एव भवति।
123. ततपुरुषे शालायां नपुंसके। (6.2.123))
शालशब्दः `कूलतीर' (6.2.121) इत्यत्रोक्तस्वरः। `ब्राह्मणशालम्, क्षत्त्रियशालम्' इति ब्राह्मणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः, `क्षत्राद् धः' (4.1.138) इति घप्रत्ययान्तत्वात्। `दृढशालम्' इति। बहुव्रीहिरयम्, तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) `विभाषा सेना' (2.4.25) इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता, किं तर्हि? अभिधेयवशेन लक्षणोक्ता `अभिधेयवल्लिङ्गवचनानि भवन्ति' (व्या.प.73) इति। तत् किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्यु त्तरार्थं तत्पुरुषग्रहणम्। `चेलखेट कटुककाण्डं गर्हायाम्' (6.2.126) इत्यनेन दधि च तत् कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्। दधिकटुकम्, `उदश्वित्कटुकम्' इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या.प.3) चेह नाश्रयितव्या भवति--एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत् प्रत्युदाहरणमुपन्यस्तम्।।
124. कन्था च। (6.2.124)
कथि `क्लेशने' (?) अस्मात् `गुरोश्च हलः' (3.3.103) इत्यकारः, तेन कन्थान्तोदात्ता। `सौशमिकन्थम्' इति। शोभनः शमोऽस्य शुशमः `तस्यापत्यम्' (4.1.95) इत्यत इञ्। तेनाद्युदात्तः सौशमिशब्दः। `आह्वकन्थम्' इति। आङ्पूर्वस्य ह्वयतेः `आतश्चोपसर्गे' (3.1.136) इति कः, तेनाह्वशब्दस्याथादिस्वरेणा (6.2.144) न्तोदात्तः। `चप्पकन्थम्' इति। `चप सान्त्वने' (धा.पा.399), अस्मात् `पानी विषिभ्यः पः' (द.उ.7.2) इति बहुलवचनाच्चपोऽपि भवति। तेन चप्पशब्दोऽन्तोदात्तः।।
125. आर्दिश्चहणादीनाम्। (6.2.125)
पूर्वेणोत्तरपदस्य सिद्धेऽयं पूर्वपदस्याद्युदात्तत्वार्थ आरम्भः। चिनोतेः क्विप् चित्। हन्तेः पचाद्यच् हनः। निपातनात् तलोपो णत्वं च चिहणः। `मल मल्ल धारणे'--(दा.पा.493,494) आभ्यां रप्रत्ययः, लस्य निपातनात् तलोपो णत्वं च चिहणः। `मल मल्ल धारणे'--(धा.पा.493,494) आभ्यां रप्रत्ययः, लस्य निपातनात् डत्वम्। मडरमडडरशब्दौ मद्योदात्तौ। विगता तुला तस्य स वितुलः, तस्यायं वैतुलः। अणन्तत्वादन्तोदात्तः। पटदिति कायतीति `कै गै शब्दे' (धा.पा.916,917) `आतोऽनुपसर्गे कः' (3.1.136) पटत्कोऽन्तोदात्तः। चित्तमादत्त इति `ला आदाने' (धा.पा.1058) इत्यस्मादाङ्पूर्वादस्मादेव निपातनात् कः--चित्तालः, तस्यापत्यमिति `अत इञ् (4.1.95) चैत्तालिः, स कर्मावस्य चैत्तालिकर्णः। बहुव्रीहिरयं पूर्वपदप्रकृतिस्वरेणाद्युदात्तः। पूर्वपदं हि ञित्स्वरेणाद्युदात्त्म्। अन्ये त्विञन्तं चैत्तालिकर्णिरिति समुदायमधीयते। `कुक वृक आदाने' (धा.पा.91,92) अस्मात् क्विप्--कुक्; `कुट कौटिल्ये' (धा.पा.1366) इत्यस्मादिगुपधलक्षणः कः, कुटः, कुकः, कुटः, कुक्कुटः। समासस्वरेणान्तोदात्तः। चिनोतेः क्विप्, चित्, कणतेः पचद्यचि कणः, चितः कणाश्चिक्कणः, तकारस्य ककारो निपातनात्। चित्करण इत्यपरे पठन्ति। चिहणादयश्चैते मुष्यनामधेयानि चेति स्मर्यते।
अथादिग्रहणं किमर्थम् यावतादिरनुवर्तत एव? इत्यत आह--`आदिरिति वर्तमाने' इत्यादि। पूर्वकं ह्यादिगरहणमुत्तरपदाभिसम्बद्धम्। पूर्वपदानां चिहणादीनामाद्युदात्तत्वमिष्यते। तस्मात् पूर्वपदभूतानां तेषामाद्युदात्तत्वं यथा स्यादित्येवमर्थं पुनरादिगरहणम्।।
126. चेलखेटकटुककाण्डं गर्हायाम्। (6.2.126)
`वेलृ चेलृ केलृ चलने' (धा.पा 535,536,537) अस्मात् संज्ञायां घञ्, चेलम्=वस्त्रमुच्यते। `खिट उत्त्रासने' (धा.पा.302) [त्रासे-धा.पा.] अस्मादपि भावे घञ्--खेटः, तृणनामैतत्। ञित्स्वरेण चेलखेटशब्दावाद्युदात्तौ। कटुशब्दात् संज्ञायां कन् (4.3.147), गुणवचनमेतदाद्युदात्तम्। काण्डमप्याद्युदात्तमेवेत्युक्तम्।
`चेलादीनां सादुश्येन पुत्रादीनां गर्हा' इति। यता चेलमकुलीनेन तन्तुवायेनोपजनितमेवं पुत्रोप्यकुलीनजो यः स `पुत्रचेलम्' इत्युच्यते। यथा काण्डं सत्वपीडाकरमेवं भूतमपि। तत्र पुत्रशब्दः प्रत्ययस्वरेणान्तोदात्तः। स हि `अमिचिमिदिशसिभ्यः क्यः (द.उ.8.86,पं.उ.4.163) इत्यनुवर्तमाने `पुरो ह्रस्वश्च (द.उ.8.87,पं.उ.4.164) [पूञो ह्रस्वश्च--द.उ.,पुवो ह्रस्वश्च--पं.उ.] इति पुत्रशब्दः क्तप्रत्ययान्तो व्युत्पाद्यते। भार्याशब्दः `ऋहलोर्ण्यत्' (3.1.124) इति ण्यदन्तत्वादन्तस्वरितः। `णह बन्धने' (दा.पा.1166) अस्मादुपपूर्वात् क्विप् `नहिवृति' (6.3.116) इत्यादिना पूर्वपदस्य दीर्घत्वम्, `नहो धः' (8.2.34) इति नकारस्य धकारः, तस्य चर्त्वम्--तकारः। उपानच्छब्दः कृत्स्वरेणान्तोदात्तः। नगा अस्मिन् विद्यन्त इति `नगरात् कुत्सनप्रावीण्ययोः' (4.2.128) इत्यस्मादेद निपातनाद्रप्रत्ययः, तेन नगरमन्तोदात्तम्। दधीति `आदृगम' (3.2.171) इत्यादिन क्विन्प्रत्ययान्तो दधातेर्व्युत्पाद्यते, तेनाद्युदात्तः। उदकेन शूयत इत्युदश्वित्, क्विप्। `क्विब्वचिप्रच्छि' (द.उ.10.2) इत्यादिना बहुलवचनाद्दीर्धोऽस्य न भवति। `उदकस्योदः संज्ञायाम्' (6.3.57) इत्युदभावः, कृत्स्वरेणान्तादात्तः। बूतशब्दोऽपि निष्ठान्तत्वादन्तोदात्तः। प्रजाशब्दः `उपसर्गे च संज्ञायाम्' (3.2.99) इति डप्रत्ययान्तः,--कतेन कृत्स्वरेणान्तोदात्तः।
`परमचेलम्' इति। अत्र पूजा गम्यते, न गर्हा।।
127. चीरमुपमानम्। (6.2.127)
`सुसूदागृधिभ्यः क्रन्' (द.उ.8.42,पं.उ.2.25)[सुसूदाञ्गृधिब्यः क्रन्--द.उ.,पं.उ.] इति वर्तमाने--`शुसिचिमीनां दीर्घश्च' (द.उ.8.43,पं.उ.2.26) इति क्रन्प्रत्ययान्तश्चीरशब्दः, तेनाद्युदात्तः। `वस्त्रचीरम्' इति। पूर्ववद्व्याघ्रादित्वात् समासः. वसेराच्छादनार्थात् ष्ट्रन् वस्त्रम्, तेनाद्युदात्तम्। `कम्बलचीरम्' इति। `घृतादीनाञ्च' (फि.सू.1.21) इति कम्बलशब्दोऽन्तोदात्तः।।
128. पललसूपशाकं मिश्रे। (6.2.128)
`पल रक्षणे' (धा.पा.839), [पल गतौ--धा.पा.] `कलस्तृपश्च' (द.उ.8.107) इति वर्तमाने `वृषादिभ्यश्चित्' (द.उ.8.109) इति कलप्रत्ययस्य चित्वात् पलशब्दोऽन्तोदात्तः। `रोदेर्णिलुक् च' (द.उ.8.39) इति विद्यमाने `बहुलमन्यत्रापि संज्ञाच्छन्दसोः (द.उ.8.40) इति बहुलवचनाण्णिलुक्, च। `पानी विषिभ्यः पः' (द.उ.7.2) इत्यधिकृत्य `स्तुवो दीर्घश्च' (द.उ.7.4) इति च `सुशृभ्यां निच्च' (द.उ.7.6) [मुशृम्यामूर्च--द.उ.] इति सूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। `इण्भीकापाशल्यतिमर्चिभ्यः कन्' (द.उ.3.21) इति बहुलवचनात् `शो तनूकरणे' (धा.पा.1270) अस्मादिगुपधलक्षणः कः, तेन गुडशब्दोऽन्तोदात्तः। `धृ `क्षरणे' (धा.पा.1096) इत्यस्मात् `अञ्चिघृसिभ्यः क्तः' (द.उ.6.9) ति क्तः, तेन घृतमन्तोदात्तम्। `मुदिग्रोर्गग्गौ' (द.उ.3.66) इति मुदेर्गक् तेन मुद्गोऽन्तोदात्तः।।
129. कूलसूदस्थलकर्षाः संज्ञायाम्। (6.2.129)
कूलशब्द उक्तस्वरः, `षूद क्षरणे' (धा.पा.1717) इत्यस्मात् `इगुपदात् कः' (3.1.135), तेन सूदोऽन्तोदात्तः। `स्थल स्थाने' (?) इत्यस्मात् पचाद्यच्, तेन स्थलमन्तोदात्तम्। कर्षशब्दः `कर्षात्वतो धञोऽन्त उदात्तः' (5.1.159) इत्यन्तोदात्तः। `दाक्षिकूलम्' इत्यादि। दाक्षिमाहकिशब्दाविञन्तावाद्युदातौ। देवशब्दः पचाद्यजन्तत्वादाद्युदात्तः। भाजीशब्दो जानपदादिसूत्रेण (4.1.42) ङीषन्तत्वादन्तोदात्तः। दाण्डायनशब्दो नडादित्वात् (4.1.99) फगन्तः, तेन `कितः' (6.1.165) इत्यन्तोदात्तः।
ननु च सूत्रे स्थलशब्द उपात्तः, तत्कथं स्थलीशब्द उत्तरपदमाद्युदात्तं चोदाह्रियते? इत्याह--`स्थलग्रहणम्' इत्यादि।।
130. अकर्मधारहये राज्यम्। (6.2.130)
राज्ञो भावः, कर्म वा राज्यम्, ष्यन्तत्वादाद्युदत्तम्। ब्राह्मणक्षत्रियशब्दौ उक्तस्वरौ।
`चेलराज्य' इत्यादि। चेलराज्यस्वरस्यावकाशः--भार्याचेलम्, ब्राह्मणराज्यमिति, `तत्पुरुषे तुल्यार्थ' (6.1.2) इत्यादिना विहितस्य स्वरस्यावकाशः--निष्कौशाम्बिरिति; इहोभयं प्राप्नोति--कुचेलम्, कुराजयमिति, अव्ययस्वरो भवति पूर्वप्रतिषेधेन। आदिशब्देन वर्ग्यादिस्वरपरिग्रहः।।
131. वर्ग्यादयश्च। (6.2.131)
वर्ग्यादयो दिगादियदन्ताः। तेषु ये द्व्यचस्ते `यतोऽनावः' (6.1.213) इत्याद्युदात्ताः। परिशिष्टास्तु `तित् स्वरितम्' (6.1.185) इत्यन्तस्वरिताः। वसुदेवस्यापत्यम् `ऋष्यन्धक' (4.1.114) इत्यादिनाण्, तेन वासुदेवशब्दोऽन्तोदात्तः। `अरज अर्जने' (धा.पा.224) इत्यस्माच्चुरादिणिजन्तात् `अजेर्णिलुक् च' (द.उ.5.57) इत्युनण्प्रत्ययः। तेनार्जुनो मध्योदात्तः। `इत्येवमादयः' इति। आदिशब्देन पक्षशब्दात् परे ये पठ्यन्ते तेषां ग्रहणम्।।
132. पुत्रः पुम्भ्यः। (6.2.132)
`कौनटिपुत्रः' इति। पुत्रशब्द उक्तस्वरहः। कुनटस्यापत्यं कौनटिः, तेनायमाद्युदात्तः। दामकमाहिषकशब्दावपि कन्नन्तावाद्युदात्तौ।
`गार्गीपुत्रः, वात्सीपुत्रः' इति। गार्गयवात्स्यशब्दाभ्याम् `यञश्च' (4.1.16) इति ङीप्। तेन गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदातौ।
सर्वत्रास्मिंस्तत्पुरुषाधिकारे प्रत्युदाहरणे `समासस्य' (6.1.223) इत्यन्तोदात्तत्वं वेदितव्यम्।।
133. नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः। (6.2.133)
पूर्वेणाचार्यादिभ्योऽपि परस्य पुत्रशब्दस्याद्युदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। तथा च समासान्तोदात्तत्वमेव भवति। `आख्याग्रहात्' इत्यादि। आख्याग्रहणमाचार्यादिभिः प्रत्येकमभिसम्बध्यते। तथा चाख्याग्रहणेऽनिरस्ते तस्याचार्यादेः पर्यायाणं विशेषणाञ्च ग्रहणं भवति। `आचार्यपुत्रः' इति स्वरूपस्योदाहरणम्। `उपाध्यायपुत्रः' इति पर्यायस्य। `शाकटायनपुत्रः' इति विशेषस्य। `राजपुत्रः' इति स्वरूपस्य। `ईश्वरपुत्रः' इति पर्यायस्य। `नन्दपुत्रः' इति विशेषस्य। `ऋत्विक्पुत्रः' इति स्वरूपस्य। `याजकपुत्रः' इति पर्यायस्य। `होतुःपुत्रः' इति विशेषस्य। `संयुक्तपुत्रः' इति स्वरूपस्य। `सम्बन्धिपुत्रः' इति पर्यायस्य। `स्यालपुत्रः' इति। विशेषस्य। `ज्ञातिपुत्रः' इति स्वरूपस्य। `भ्रातुष्पुत्रः' इति विशेषस्य। `कस्यादिषु च' (8.3.48) इति षत्वम्। तत्राचार्यशब्दः कृत्स्वरेणान्तस्वरितः। स हि चरेराङ्पूर्वस्य ण्यति व्युत्पाद्यते। उपाध्यायशब्दोऽन्तोदात्तस्थाथादिस्वरेण (6.2.144), स `इङश्च' (3.3.21) इति घञन्तो व्युत्पाद्यते। राजशब्द आद्युदत्तः, कनिन्प्रत्ययान्तत्वात्। ईश्वरशब्दोऽन्तोदात्तः; `स्थेशभास' (3.2.175) इत्यादिना वरच्प्रत्ययान्तत्वात्। नन्दशब्दोऽप्यन्तोदात्तः; अजन्तत्वात्। ऋत्विक्शब्दः `ऋत्विग्दधृक्' (3.2.59) इत्यादिना क्विन् प्रत्ययान्तः। कृत्स्वरेणान्तोदात्तः। याजकशब्दो ण्वुलन्तः, तेन लित्स्वरेणाद्युदात्तः। होतृशब्दस्तृन्नन्तत्वादाद्युदात्तः। संयुक्तशब्दः `गतिरन्तरः' (6.2.49) इत्याद्युदात्तः। `स्यल वितर्कगे' (?) अस्माच्चुरादिणिजन्तात्त् पचाद्यचि स्यालशब्दोऽन्तोदात्तः। `ज्ञा' इत्यस्मात् `क्तिच्क्तौ च संज्ञायाम्' (3.3.174) इति ज्ञातिशब्दोऽन्तोदात्तः। `तृन्स्तृचौ शंसिक्षदादिभ्यः' (द.उ.2.1) इति प्रकृत्य भातृशब्दस्तृन्न्नन्तो व्युत्पाद्यते, तेनाद्युदात्तः। संयुक्तशब्दोऽयमस्त्येव रूढिशब्दो यो विवाहकृतेन सम्बन्धेन स्यालश्वशुरादिषु वर्तते, अस्ति क्रियाशब्दो यः सर्वत्र केनचित् सम्बन्धेन वर्तते; तत्रेह रूढिशब्दस्य ग्रहणम्। कुत एतत्? आचार्यानीनां पृथग्ग्रहणात्। यदि हि क्रियाशब्दस्य ग्रहणं स्यात्, तदा संयुक्तग्रहणेनैव निषिद्धत्त्वादाचार्यादीनां पृथग्ग्रहणं न कुर्यात्। तेऽपि हि विद्यादिकृतेन सम्बन्धेन संयुक्ता भवन्त्येव। तस्माद्रूढिशब्दस्य ग्रहणम्। तेन क्रियाशब्दो यः संयुक्तशब्दस्तस्मात् प्रतिषेदो न भवति।।
134. चूर्णादीन्यप्राणिषष्ठ्याः। (6.2.134)
`चूरी दाहे' (धा.पा.1158), अस्मान्निष्ठा, ते चूर्णमन्तोदात्तम्। करिणः पातीति `आतोऽनुपसर्गे कः' (3.2.3) पकारस्य पक्षे वकारो निपात्यते--करिपः, करिवः। कृत्स्वरेण थाथादिस्वरेण वान्तोदात्तः। `महेरितण् च' (द.उ.5.19) बहुलवचनाच्छकेरपि भवति, शाकिनम्, प्रत्ययस्वरेण मद्योदात्तम्। `शकादिभ्योऽटच्' (द.उ.5.2;पं.उ.4.81) [शकादिभ्योऽटन्--.दउ;पं.उ.] शकटम्। तद्वहतीति शकटवण् शाकटम्। प्रत्ययस्वरेणान्तोदात्तः। द्राग्द्रूतं क्षीयत इति द्राक्षा, पृषोदरादित्वात्। अन्तोदात्तोऽयं शब्दः। `तुस ह्रस ह्लस रसशब्दे' (धा.पा.710, 711,712,713), ततो बहुलवचनात् `हसिमृग्रिणवामिदमिलूपूधुर्वीभ्यस्तन्' (द.उ.6.7,पं.उ.3.86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन्--द.उ; हसिमृगरण्वामिदमूलपूर्विभ्यस्तन्--पं.उ.] इति तन्, निपातनाद्दीर्घश्च। तूस्तमाद्युदात्तम्। `कुत्सितं दुनोतीति `क्विबवचिप्रच्छि' इत्यादौ सूत्रे (वा.288) क्विबिति योगविभागः। `दुदु उपतापे' (दा.पा.1256) इत्यस्मादपि क्विप्, `बहुलवचनात् अनित्यत्वाद्वागमशासनस्य' (व्या.प.99) तुगभावः, पूर्वपदस्य च बहुलवचनादेव मुम्--कुन्दु, तन्मिमीत इति `माङ्माने' (दा.पा.1088) इत्यस्मात् कः, कुन्दुमोऽन्तोदात्तः। `उषिकुटिदलिकचिखजिभ्यः कपन्' (द.उ.7.9) तेन दलप आद्युदात्तः। `अत्यविचमितमिनमि' (द.उ.9.44) इत्यादिनाऽसच्--चमसः, ततो जातिलक्षणो ङीष् (4.1.63) चमसी। `चक तृप्तौ' (धा.पा.783) इत्यस्मात् कविप्, चक्। `कनी दीप्तिकान्तिगतिषु' (धा.पा.460) [कन दीप्तिकान्तिगतिषु--धा.पा.] तस्मादच्, कनः। चककनः। चोलस्यापत्यं चौलः, `द्व्यञ्मगध' (4.1.170) इत्यादिनाऽण्। एते चूर्णादयः। `मुद्गचूर्णम्' इति। `मुदि ग्रोर्गग्गौ' (द.उ.3.66) इति मुद्गोऽन्तोदात्तः। `मसूरचूर्णम्' इति। `मसेरूरन्' (द.उ.8.95) मसूर आद्युदात्तः। `मत्स्यचूर्णम्' इति। मत्स्यः प्रातिपदिकस्वरेणान्तोदात्तः।
`तत्रोयग्रह इति षष्ठ्यन्तमेव' इति। अनेन तुल्यार्थतां सूत्रयोर्दर्शयति। कथं पुनरुपग्रहः षष्ठ्यन्तमेव गृह्यते? इत्याह--`पूर्वाचार्योपचारेण' इति। पूर्वाचार्या हि षष्ठ्यन्तमुपग्रह इत्येवमुपचरन्ति स्म। तेनेह पूर्वा चार्योपचारेण हेतुना षष्ठ्यन्तमेवोपग्रह इति गृह्यते। समासस्वरापवादो योगः एवमुत्तरेऽपि त्रयः।।
135. षट् च काण्डादीनि। (6.2.135)
`चेलखेटकटुककाण्डम्' (6.2.126) इत्यादिषु चतुर्षु योगेषु सन्निविष्टानि काण्डादीनि षट् गृह्यन्ते। यद्येवं तैरेव योगैरेषामाद्युदात्तत्वं सिद्धम्, तत्किमर्थमिदम्? यत्र तैर्विहित ततोऽन्यत्रापि यथा स्यात् प्राणिषष्ठ्याश्च मा भूदित्येवमर्थञ्च। `दर्भकाण्डम्' इति। `दॄदलिभ्यां भः' (पं.उ.3.151) इति भप्रत्ययान्तो दर्भशब्दोऽन्तोदात्तः। `तृणधान्यानाञ्च द्व्यषाम्' (फि.सू.2.27) इति वा। `शरकाण्डम्' इति। शरशब्दोऽप्यनन्तरेणैव `द्व्यषाम्' इत्याद्युदात्तः। एवं कुशशब्दोऽपि। तथा तिलशब्दोऽपि। पललमूलकशब्दावुक्तस्वरौ। नदडति पचादिषु पठ्यते, तेन टित्त्वान्नदशब्दान्ङीप् `यस्येति च' (6.4.148) इत्यकारलोपः, `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इति ङीप उदात्तत्वम्। तेन नदीशब्दोऽन्तोदात्तः। `पाटलापालङ्काम्बासागरार्थानाम्' (फि.सू.1.2) इति फिषा समुद्रशब्दोऽन्तोदात्तः। `राजसूदः' इति। शूदशब्दः षङ्भ्यः परः पठ्यते। तेनात्र समासान्तोदात्तत्वमेव भवति। सर्वे च ते दर्भकाण्डादयः षष्ठीसमासाः।।
136. कुण्डं वनम्। (6.2.136)
`कुण्डशब्देऽत्रि कुण्डसादृश्येतन वने वर्त्तते' इति। यथा कुण्जं कस्यचिदुदकादेराश्रयस्तथा वनमपि। अतः कुण्जसादृश्येनात्र कुण्डशब्दो वने वर्तते। भवति हि सादृश्येन ताच्छब्द्यं यथा--अग्निमणिवक इति। `मृत्कुण्डम्' इति। अत्र कुण्ड आकारविसेषो मृद्विकारे वर्तते, न वने। तेन समासान्तोदात्तत्वमेव भवति।।
137. प्रकृत्या भगालम्। (6.2.137)
भगालमित्यर्थग्रहणम्; अर्थप्रधानत्वान्निर्देशस्य, अर्थप्रधाने हि निर्देश स्वरूपग्रहणं न भवतीत्युक्तम्। अर्थग्रहणे च सति तद्वाचिनामेतत् कार्यं विज्ञायते। अत एवाह--`भगालवाचि' इत्यादि। `कुम्भीभागालम्' इति। कुम्भीशब्दः `जातेरस्त्रीविषयादयोषदात्' (4.1.63) इति ङीषन्तत्वादन्तोदात्तः। `भगालादयो मध्योदात्ताः' इति। `लगावन्ते द्वयोश्च बहवषो गुरुः' (फि.सू.2.42) इति फिषैषामाकारस्योदात्तत्वविधानात्।।
138. शितेर्नित्याबह्वज् बहुव्रीहावभसत्। (6.2.138)
`शितिपादः' इति। शितिशब्दः `वर्णानां तणतिनितान्तानाम्' (फि.सू.2.33) इति फिषाद्युदात्तः। `अंसौष्ठशब्दौ' इत्यादि। `अम रोगे' (धा.पा.1720) इत्यस्मात् `अमः सन्' (पं.उ.5.21) इति सन्प्रत्ययार्न्तोऽसशब्दो व्यत्पाद्यते। ओष्ठशब्दोऽपि `उषिकुषिगर्त्तिब्यस्थन्' (द.उ.6.29) इति थन्प्रत्ययान्तः। तेनैतौ प्रत्ययस्य नित्वादाद्युदात्तौ।
`दर्शनीयपादः' इति। दर्शनीयशब्दोऽनीयर् प्रत्ययन्तः। तेन `उपोत्तमं रिति' (6.1.217) इति मध्योदात्तः। ततोऽत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरेष्वपि प्रत्युदाहरणेषु। कथं पुनः ककुदशब्दो नित्यं बह्वज् न भवति? इत्याह--`ककुदस्यावस्थायां लोपः' इत्यादि। `शितिललाटः' इति। `लल ईप्सायाम्' (धा.पा.1687), अस्मात् `उणादयो बहुलम्' (3.3.1) इत्याटप्रत्ययः, तेन ललाटशब्दो मद्योदात्तः। `शितिपादः' इति। शितेः पाद इत्यत्र समासस्वर एव भवति। `शितिभसत्' इति `शॄदॄभसोदिः' (द.उ.6.42) इति भसच्छब्दो व्युत्पाद्यते। ततोऽयमन्तोदात्त-।।
139. गतिकारकोपपदात्कृत्। (6.2.139)
`प्रकारकः, प्रहारकः' इति। ण्वुल्। `प्रकरम्' इत्यादिषु ल्युट्। `ईषत्करः' इत्यादिषु `ईषद्दुःसुषु' (3.3.926) इति खल्। यदत्राव्ययपूर्वपदं तत्र `तत्पुरुषे तुल्यार्थ' (2.2.17) इति समासः। `कारकात्' इति। षष्ठी तु `कर्त्तुकर्मणोः कृति'
(2.3.65) इति कर्मणि कारके वेदितव्या। इध्मादयो हि व्रश्चनक्रियाया व्याप्तुमिष्टतमत्वात् कर्मबावमनुभवन्ति। `ईषत्करः' इत्यादौ तु `उपपदमतिङ्' (2.2.19) इति समासः। तत्र प्रशब्दः `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्याद्युदात्तः। इध्मशब्दो हि `इषियुधीन्धि' (द.उ.7.31) इत्यादिना मक्प्रत्ययान्तत्वादन्तोदात्तः। `शो तनूकरणे' (दा.पा.1145), पलं श्यतोति [श्यतोति--मुद्रीतः पाठः] `आतोऽनुपसर्गे कः' (3.2.3)। पलाशः कृत्स्वरेणथाथादिस्वरेण (6.2.144) वान्तोदात्तः। शदेर्णिजन्तस्य `शदेरगतौ तः (7.3.42) इति तकारे कृते ल्युटि `शातनः' इति भवति। `श्मनि श्रयतेर्डन्' (द.उ.1.161) इति लत्वे कृते `कल्पनः' इति भवति। ईषच्छब्दोऽन्तोदात्तः; स्वरादिषु तथाभूतेषु तथांभूतस्यैव पाठात्। सुदुरावाद्युदात्तौ; प्रादिषु तथाभूतयोः पाठात्। `सर्वत्रैवात्र लित्स्वरः' इति। स पुनः प्रत्ययात् पूर्वस्योदात्तत्वम्।
`देवदत्तस्येति सेषलक्षणा षष्ठी' इति। कर्मणि षष्ठीत्वं निराकरोति। कर्मषष्ठ्यां ह्यस्यां कारकमेव देवदत्तः स्यात्, तथा च प्रत्युदाहरणं नोपपद्यते।
अथ कारकग्रहणं किमर्थम्, निर्गतः कौशाम्ब्या निष्कौशाम्बिरित्यत्र मा भूदिति चेत्? नैतदस्ति; तथा हि--यात्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति (जै.प.वृ.99), न हि कौशाम्बीशब्दः क्रियावाची, तत् कुतस्तं प्रति निसोऽत्र गतिसंज्ञा? इत्यत आह--`कृद्ग्रहणं विस्पष्टार्थम्' इति। यदि तर्हि कृद्ग्रहणं क्रियते, प्रपचतितरामित्यत्र परकृतिसवरो न प्राप्नोति। ततश्च समासस्वरं बाधित्वाव्ययस्वर एव स्यात्? इत्यत आह--`प्रपचतितराम्' इत्यादि। अत्र हि पचतिशब्दादतिशयविवक्षायां तरप्तपमौ। ततसतरबाद्यन्ते `कुगतिप्रादयः' (2.2.18) इति प्रशबदस्य समासः। समासे तु कृते पूर्वपदस्य `तत्पुरुषं तुल्यार्थ' (6.2.2) इत्यादिना प्रकृतिस्वरः। पश्चात् `किमेत्तिङ्व्यय' (5.4.11) इत्यादिनामुः। आमन्तसय च `आद्युदात्तश्च' (3.1.3) इति प्रत्ययसवरः प्राप्रः, सोऽव्ययसवरे सति सतिशिष्टः, सतशिष्टस्य च बलीयस्त्वमुक्तम्। तेन यद्यप्यनेनामन्तस्य कृद्ग्रहणे क्रियमाणे सति प्रकृतिस्वरो भवति, तथाप्याम्स्वरो भवत्येव; तस्य सतिशिष्टत्वात्। अथ कथं तरवाद्यन्तेन समासः? कथं च न स्यात्? `गतिकारकोपपदादीनां कृद्धिः सह समासवचनं प्राक्सुबुत्पत्तेः' (है.प.पा.88) इति वचनात्? नैष दोषः; अत्र हि द्वे दर्शने गतिकारकोपपदात् कृद्भिरेव समासो भवति, स च प्राक् सुबुत्पत्तेरित्येकं दर्शनम्; गतिकारकोपपदानामविशेषेण समासो भवति, कृद्भिस्तु प्राक् सुबुत्पत्तेरिति द्वितीयम्। तत्र द्वितये दर्शने युज्यत एव तरबाद्यन्तेन समासः। तत्र कृद्ग्रहणं विस्पष्टार्थमित्यनेन सम्बद्धम्। एक आचार्याः कृद्ग्रहणं विस्पष्टार्थमित्येव व्याचक्षत इत्यर्थः।
`प्रपचति देश्याद्यर्थ तु' इत्यादि। तुशब्दः पूर्वस्माद् व्याख्यानाद्विशेषद्योतनाय। प्रपचतिदेश्य आदिर्यस्य स प्रपचतिदेश्यादिः। आदिशब्देन प्रपचतिदेशीय इत्यस्य ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य तत् प्रपचतिदेश्याद्यर्थम्। `कृद्ग्रहणं दृश्यते' इति। एवं `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (5.3.67) इत्यत्र `तिङ्श्च' (5.3.56) इत्यनुवृत्तेः प्रपचतिशब्दाद् देश्यदेशीयरौ। तदन्तेन च प्रशब्दस्य गतिसमासे कृद्ग्रहणं न क्रियेत। तथा प्रपचतिदेश्यः, प्रपचति वेशीय इत्यत्राप्युत्तरपदस्य प्रकृतिस्वरः स्यात्, न चेष्यते। तस्मादिह मा भूदित्येवमर्थं कृद्ग्रहणं दृश्यत एव। तस्मादेतन्न विस्पष्टार्थम्। तदपि तु प्रपचतिदेश्य इत्यादौ विषये मा भूदित्येवमर्थ मित्यभिप्रायः।।
140. उभे वनस्पत्यादिषु यूगपत्। (6.2.140)
वनशब्दः `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्तः। पतिशब्दोऽपि प्रत्ययस्वरेण। स `पातेर्डतिः' (द.उ.1.27) इति डतिप्रत्ययान्तः। `बृहदित्यन्तोदात्तम् इत्यादि। बृहच्छब्दः `वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' (द.उ.65) इति केवलमन्तोदात्तो यदयपि निपात्यते, तथापि बृहस्पतिरित्यत्राद्युदात्तत्वं निपातयति।
`तनोतेरौणादिक ऊप्रत्ययः' इति। `कषिचमितनिषनिसर्जिखर्जिभ्यऊः' (पं.उ.1.82) इत्यनेन तनू शब्दोऽन्तोदात्तः। न पाति न पालयतीत्यनेन `पा रक्षणे' (धा.पा.1056) इत्यसमान्नपादित्येतन्निपात्यत इति दर्शयति। न पातयतीत्यनेनापि। `नलोपो नञः' (6.3.73) ति नलोपः प्राप्नोति, `नभ्रान्नपात्' (6.3.75) इत्यादिना प्रकृतिभावान्न भवति। `नरा अस्मिन्नासीनाः शंसन्ति' इति। एतेनाधिकरणसाधनं शंसशब्दं दर्शयति। एवं शंसन्तीत्यनेनापि कर्मसाधनम्। `शंस स्तुतौ' (धा.पा.728) इत्यस्मात् `अंकर्त्तरि च कारके' (3.3.19) इति घञ्। `अबन्तः' इति। `ऋदोरप्' (3.3.57) इत्यनेन।
`शुनःशेपः' इति। बहुव्रीहिरयम्। तेनात्र पूर्वपदस्य प्रकृतिभावे प्राप्ते वचनम्। `उभावाद्युदात्तौ' इति। तत्र श्वञ्शब्दः `श्वन्नुक्षन्' (द.उ.6.55) इत्यादिना कनिन्प्रत्ययान्तो व्युत्पाद्यते। शेपशब्दो `वृङ्शीङभ्यां रूपस्वाङ्गयोः पुट् च्' (द.उ.9.61) इत्यसुन्प्रत्ययान्तो व्युत्पाद्यते, तेन द्वावपि तावाद्युदात्तौ।
`शण्डपर्कशब्दौ' इति। `शडि रुजायाम्' (धा.पा.279) इत्यस्य घञि शण्ड इति भवति। `पृची सम्पर्के' (धा.पा.1462) इत्यस्यापि तत्रैव परक इति भवति।
`तृष्णाशब्द आद्युदात्तः' इति। स हि तृषेर्निष्ठायां व्युत्पद्यते। तेन `निष्ठा च द्व्यजनात्' (6.1.205) इत्याद्युदात्तः।
`वम्बशब्दः' इति। `लवि अवस्रंसने' (धा.पा.379) [लबि अवस्रंसने च--धा.पा.] अस्य पचाद्यचि व्युत्पादित्वादस्मादेव निपातनाद्वत्त्वम्। `विश्ववयःशब्दः' इति। विश्वं वयो यस्येति बहुव्रीहिः। तत्र `बहुव्रीहौ विश्वं संज्ञायाम्' (6.2.106) इति विश्वशब्दोऽन्तोदात्तः। `तयोः' इति। वम्बविश्वयःशब्दयोः।
`मृङो विच्प्रत्ययः' [मृञः--काशिका. मृडः--पदमञ्जरी] इति। `विजुपे छन्दसि' (3.2.73) इत्यतो विजित्यनुवर्तमाने `अन्येभ्योऽपि दृश्यते' (3.2.75) [दृश्यन्ते--काशिका.] इति विच्। `मृत्युशब्दोऽन्तोदात्तः' इति। `भुजीमृङ्भ्यां युक्त्युकौ' (द.उ.1.135) इति त्युक्प्रत्ययान्तत्वात्।
`द्वन्द्वानाम्' इत्यादि। येऽत्र द्वन्द्वाः, तेषामदेवताद्वन्द्वार्थः पाठः। देवताद्वन्द्वे हि `देवताद्वन्द्वे च' (6.2.141) इत्यनेनैव सिद्धम्। `अनुदत्ताद्युत्तरपदार्थश्च' इति। द्वन्द्वानां पाठः। यदि हि तेषामिह पाठो न स्यात्, तदा `नोत्तरपदेऽनुदात्तादौ' (6.2.142) इति प्रतिषेदादन्तोदात्तत्वं स्यात्।।
141. देवताद्वन्द्वे च। (6.2.141)
`इन्द्रासोमौ' इति। `देवताद्वन्द्वे च' इति पूर्वपदस्यानङ्। `ऋज्रेन्द्र' इत्यादि। `वृधिवपिभ्यां रन्' (द.उ.8.45), इत्यतो रन्नित्यनुवर्तगाने `ऋज्रेन्द्रः' (द.उ.8.46) इतीन्द्रशब्दो रन्प्रत्ययान्तो निपात्यते, तेनाद्युदात्तः। `सोम इति मन्प्रत्ययान्तः' इति। तेन सोऽप्याद्युदात्त एवेत्यभिप्रायः। मन्प्रत्ययान्तत्वं च तस्य `षुञ् अभिषवे' (धा.पा.1247) इत्यस्मात् `अर्त्तिस्तुसुहुस्रु' (द.उ.7.26) इत्यादिना मन्प्रत्ययमुत्पाद्य व्युत्पादितत्वात्। `वरुण उनन्प्रत्ययान्तः' इति। `कृवृदारिभ्य उनन्' पं.उ.3.53) इति। बृहस्पतिशब्दो हि वनस्पत्यादिषु पठ्यते, तत्र च पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं विधीयते, तेन द्वावुदात्तौ। `तेनेन्द्राबृहस्पती इत्यत्र तत्र उदात्ताः' इति। इन्द्रशब्दादयः। `प्लक्षन्यग्रोधौ' इति। अत्र समासान्तोदात्तत्वमेव भवति। एवं `अग्निष्टोमः' इत्यत्रापि। षष्ठीसमासश्चायम्। समासस्वरापवादो योगः।।
142. नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु। (6.2.142)
`अग्निवायुशब्दावन्तोदात्तौ' इति। अग्निशब्दः `वीज्याज्वरिभ्यो निः' (द.उ.1.18) इति वर्तमाने `अङ्गेर्नलोपश्च' (द.उ.1.20) इति निप्रत्ययान्तः। वायुशब्दोऽपि `कृवापाजि' (द.उ.1.86) इत्यादिनोण्प्रत्ययान्तः, तेन प्रत्ययस्वरेण द्वावप्यन्तोदात्तौ।
अथोत्तरपदग्रहणं किमर्थम्, यावता `अनुदात्तादौ' इति सप्तम्येवात्रानुदात्तादेरपदत्त्वं बोधयिष्यति? इत्यत आह--`उत्तरपदग्रहणम्' इत्यादि। इह हि प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः, नोत्तरपदम्। तत्रानुदात्तादाविति सप्तमी द्वग्द्वस्यैव विशेषणमापद्यते--अनुदात्तादौ द्वन्द्वः। उत्तरपदग्रहणे तु सति द्वन्द्वे सप्तम्यांविहितायामनुदात्ता(दा) वित्येतदुत्तरपदस्य विशेषणं सम्पद्यते। तस्मादुत्तरपदविशेषणमेतद्यथा स्तात्, द्वन्द्वविशेषणं मा भूदित्येवमर्थमुत्तरपदग्रहणम्।
`अनुदात्तादौ' इति। असत्येतस्मिन्नविशेषणे विधिरपि देवताद्वन्द्व उच्यते, प्रतिषेधोऽपि, ततश्च तयोर्विषयविबागो न स्यात्; एवञ्च समानविषयत्वाद्विकल्पः प्रसज्येत। अनुदत्तादावित्यस्मिंस्तु सति यत्रानुदात्ताद्युत्तरपदो देवताद्वन्द्वस्तग्त्र प्रतिषेधः स्यात्, ततोऽन्यस्तु विधिरिति विधिप्रतिषेधयोर्विषयविभागो भवति। अतो विषयविबागार्थमनुदात्तादावित्युच्यते।
`पृथिवीशब्दो ङीष्प्रत्ययान्तः' इति। गौरादिषु पाठात्।
`रोदेर्णिलुक् च' इति। `रुदिर् अश्रुविमोचने' (धा.पा.1067) इत्यस्माण्ण्यन्तात् `स्फायितञ्चि' (द.उ.8.31) इत्यादि--सूत्रद्रगित्यनुवर्तमाने `रोदेर्णिलुक् च' (द.उ.8.39) इति रक्, तेन रुद्रोऽन्तोदात्तः।
`शुक्रामन्थिनौ' इति। शुक्रशब्दः `ऋजेन्द्रः' (द.उ.8.46) इत्यादिना रन्प्रत्ययान्तः, तेनाद्युदात्तः।।
143. अन्तः। (6.2.143)
144. थाथघञ्क्ताजबित्रकाणाम् (6.2.144)
`अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्' इति। यदीदं नारभ्येतेति भावः।
`उपसर्गे वसेः इत्यथप्रत्ययः' इति। तत्र `शीङ्शपिरुगमिवञ्चि' (द.उ.6.38) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्।
`दूरादागतः' इति। गमेः क्तः, `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपः, आगतशब्देन `स्तोकान्तिकार्थ' (2.1.39) इत्यादिना समासः, `पञ्चम्याः स्तोकादिभ्यः' (6.3.2) इत्यलुक्। `शुष्कः' [विशुष्कः--काशिका, पदमञ्जरी च] इति। `शुषः कः' (8.2.51) इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र `गतिरनन्तरः' (6.2.49) इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। `आतपशुष्कम्' [आतपशुष्कः--काशिका, पदमञ्जरी च] इति। `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। अत्र `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात् कृत्स्वरेणान्तोदात्तः।
`प्रक्षयः, प्रजयः' इति। `एरच्' (3.3.56) ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह--`क्षयो निवासे' इत्यादि। यदा `क्षयो निवासे' (6.1.201) `जयः करणम्' (6.1.202) इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्।
`प्रलवित्रम्, प्रसवित्रम्' इति। `अर्तिलूधूसूखन' (3.2.184) इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्। तेनोत्तरपदं मध्योदात्तं स्यात्।
`गोवृषः' इति। `पृषु वृषु मृषु सेचने' (धा.पा.705,706,707), अत्र `उपपदमतिङ्' (2.2.19) इति समासः `गतिकारकोपपदात् कृत्' (6.2.139) इत्युत्तरपदाद्युदात्तत्वं स्यात्।
`सुस्तुतम्' इति। `सुः पूजायाम्' (1.4.94), `अतिरतिक्रमणे च' (1.4.95) इति स्वती कर्मप्रवचनीयसंज्ञौ। `अत्राव्ययस्वर एव भवति' इति। `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना।।
145. सूपमानात् क्तः। (6.2.145)
`सुपीतम्' इति। `घुमास्था' (6.4.66) इत्यादिसूत्रेणेत्त्वम्। `वृकावलुप्तम्' इति। `लुप्लृच्छेदने' (धा.पा.1431)। `शशप्लुतम्' इति। `च्युङ् जयुङ् प्रुङ् प्लुङ् गतौ' (धा.पा.955,956,957,958)। `सिंहविनर्दितम्' इति। `नर्द शब्दे' (धा.पा.56) सर्वत्र `कर्तृकरणे कृता बहलम्' (2.1.32) इति समासः। वृकैरिवावप्लुतमित्यादिर्विग्रहः।।
146. संज्ञायामनाचितादीनाम्। (6.2.146)
`उपहूतः' इति। ह्वेञो निष्ठा, `वचिस्वपि' (6.1.15) इत्यादिना संप्रसारणम्, `हलपः' (6.4.2) इति दीर्घः। `परिजग्धः' इति। `अदो जग्धिर्ल्यप्ति किति' (2.4.36) इत्यदेर्जग्धिरादेशः। `झषस्ततोर्धोऽधः' (8.2.40) इति घत्वम्। `कर्मणि क्तः' इति। भवतेरकर्मकत्वात् कर्मनिष्ठा नोपपद्यत इति सम्भूत इति कर्तरीयं निष्ठेति कस्यचिद्भ्रमः स्यात्, अतस्तन्निराकरणायाह--`सम्भूतः' इति। अनेकार्थत्वाद्धातूनां भवतिरत्र प्राप्तौ वर्तते। ये च प्राप्त्यर्थास्ते नियोगतः प्राप्त्यैव कर्मणा सकर्मका सकर्मका भवन्ति। यथा--`णीञ् प्रापणे' (धा.पा.901) इत्येवमादयः। तास्मात् प्राप्त्यर्थाद्भवतेः सम्भूत इत्यत्र कर्मणि क्त-।
किं पुनः कारणं कर्मणि क्त इष्यते? इत्याह--`गतिरनन्तर इत्यत्र कर्मणीत्यनुवर्तते' (इति। ततः किम्? इत्याह--`तद्बाधनार्थं चेदम्' इति। `गतिरनन्तरः' (6.2.49) इत्यत्र हि कर्मणीत्यनुवर्तते। इदं च सूत्रं, तत् `गतिरनन्तरः' (6.2.49) इत्यस्यैव बाधनार्थम्। एवं चैतद्गतिस्वरस्य बाधकं भवति, यदि कर्मणि क्तो विहितः। तदन्तस्योत्तरपदस्यानेनान्तोदात्तत्वं विधीयते, नान्यथा। तस्मात् सम्भूत इत्यत्र कर्मणि क्तो द्रष्टव्य इत्यभिप्रायः। `धनुष्खाता' इति। `खन् अवदारणे' (धा.पा.878) `जनसनखनाम्' (6.4.42) इत्यात्तवम्। `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। एवं `कुद्दालखाता' इत्येवमादादपि। धनुःशब्दः `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदातद्तः। कुद्दालशब्दः `लघावन्ते' (फि.सू.2.42) इत्यादिना मध्योदात्तः। `हस्तिमृदिता' इति। `मृद क्षोदे' (धा.पा.1515), हस्तिशब्द `हस्ताज्जातौ' (5.2.133) इतीनिपरतययान्ततवादन्तोदात्तः।
`आस्थापितम्' इति। तिष्ठतेर्णिटच्, `अर्तिह्री' (7.3.36) इत्यादिना पुक्। `परिगृहीतम्' (इति। `ग्रहोऽलिटि दीर्घः' (6.2.37)। `निरुक्तम्' (इति)। `वच परिभाषणे' (धा.पा.1842), `वचिस्वपि' (6.1.15) इत्यादिना सम्प्रसारणम्, `चोः कुः' (8.2.30)। `प्रतिपन्नम्' इति। `पद गतौ' (धा.पा.1169), `रदाभ्याम्' (8.2.42), इति नत्वम्। `प्रश्लिष्टम्' इति। `ष्लिष आलिङ्गने' (धा.पा.1186)। `उपद्रूतम्' इति। `दु द्रु गतौ' (धा.पा.944),945) `स्थितम्' इति। `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वम्। `संहिता' इति। दधातेर्हिरादेशः।।
147. प्रवृद्धादीनां च। (6.2.147)
गतिस्वरे प्राप्त इदं वचनम्। `प्रवृद्धम्' इति `वृधु वृद्धौ' (धा.पा.759) `प्रयुता' [प्रयुंक्ताः--काशिका] इति। `युमिश्रणे' (धा.पा.1033)--`अवहितम्' इति। पूर्ववद्दधातेर्हिरादेशः। `खट्वारूढः' इति। `रुह बीजजन्मनि' (धा.पा.859), `झषस्ततोर्धोऽधः' (8.2.40), `ढो ढे लोपः' (8.3.13) `ढ्रलोपे पूर्वस्य दोर्घोऽणः' (6.3.111), `खट्वा क्षेपे' (2.1.26) इति समासः। असय `अहीने द्वितीया' (6.2.47) इति पूर्वपदप्रकृतिस्वरे प्राप्त इह पाठः। `कविशस्तः' इति। `शसु हिंसायाम्' (धा.पा.727), `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। अस्यापि `तृतीया कर्मणि' (6.2.48) इति पूर्वपदप्रकृतिस्वर एव।
`यानादीनाम्' इति। आदिशब्देन वृषादीनां ग्रहणम्। यानादीनामर्थानां य इह पाठः, स प्रवृद्धादीनांयानादिष्वर्तेषु प्रायो बाहुल्येन या वृत्तिस्तस्याः प्रदर्शनार्थम्। न तु प्रवृद्धस्य यानवृषलयोरवार्थयोरन्तोदात्तत्वं भवति। प्रयुक्तशब्दस्य सक्तुष्वेवतीत्येवमादिषु विषयियमार्थः। तेन किं भविष्यति? इत्याह--`यानादिभ्योऽन्यत्रापि' इत्यादि। `विषयनियमार्थ इत्येके' इति। तेषामनेन यानादिभ्योऽन्यत्र न भवितव्यम्।
`असंज्ञार्थोऽयमारम्भः' इति। संज्ञायां पूर्वेणैव सिद्धत्वात्।
`आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः' इति। कुत एत्? अकृतिगणतां तस्य सूचयितुमनुक्तसमुच्चयार्थस्य चकारस्येह करणात्; आकृतिगणत्वे यत् सिद्धं भवति, तद्दर्शयितुमाह--`पुनरुत्स्यूतं वासः' इत्यादि। `षिवु तन्तुसन्ताने' (धा.पा.1108) `चछ्वोः शूडनुनासिके च' (6.4.19) इत्यूठ्, यणादेशः। `पुनर्निष्कृतः' इति। `इदुदुपधस्य चाप्रत्यस्य' (8.3.41) इति विसर्जनीयस्य षत्वम्।।
148. कारकाद्दत्तश्रुतयोरेवाशिषि। (6.2.148)
`देवदात्तः' इति। `आशिषि लिङ्लोटौ' (3.3.163) इति वरतमाने `क्तिच्क्तौ च संज्ञायाम्' (3.3.174) इति क्तः। `दो दद् घोः' (7.4.46) इति ददादेशः, पूर्ववत् तृतीयासमासः। देवशब्दः पचादयजन्तत्वाच्चित्स्वरेणान्तोदात्त-। विष्णुशब्दोऽपि प्रातिपदिकस्वरेण। ब्रह्मशब्दो मनिन्प्रतययान्तत्वादाद्युदात्त इत्युक्तम्।
`सम्भूतो रामायणः' इति। कारकादित्यनुच्यमाने `गतिकारकोपपदात् कृत्' (6.2.139) इत्यधिकाराद्यतैव कारकान्नियमो भवत्येवं गतेरपि स्यात्, कारकग्रहणे तु सति न भवति। तेन गतेः परस्य `संज्ञायामनाचितादीनाम्' (6.2.146 इत्यनेन) अन्तोदात्तत्वं भवेदेव। अस्मिंस्तूच्यमाने सत्येष विषयो न भवति; नियमेन व्यावार्तितत्वात्। `तृतिया कर्मणि' (6.2.48) इति पूर्वपदप्रकृतिस्वर एव भवति।
`एककारकरणं किम्' इति। सिद्धे विधिरारब्यमाणोऽन्तरेणाप्येवकारकरणं नियमार्थो भविष्यतीत्यभिप्रायः। `कारकावधारहणम्' इत्यादि। असति ह्येवकारे कारकादेवेत्येषोऽपि नियमः स्यात्। तता चैवकारन्ततोऽन्यत्रावधारणमिति दत्तश्रूतावदारणं स्यात्--कारकादेव दत्तश्रुतयोरिति। एवं च कारकाद्दत्तश्रुतयोरनन्तरं क्रियमाणे कारकावधारणमिष्टं भवति, न दत्तश्रुतावदारणमिष्टम्। तेनैवकारः कृतः। किं पुनः कारणं कारकावधारणमिष्यते, न दत्तश्रुतावधारणम्? इत्याह--`अकारकादपि हि' इत्यादि। `देवैः खाता देवखाता' इति। नात्राशीर्विद्यते, तेनाशिषीति वचनान्नियमो न भवति। ततश्च `संज्ञायाम्' (6.2.146) इत्यादिनान्तोदात्तत्वं भवत्येव।
`कारकाद्दत्तश्रुतयोराशिष्येवेत्ययमप्यत्र नियमः' इति। कथं पुनरेकेन योगेन हि नियमद्वयं लभ्यते, एकः पुनरत्र योग इति? यतैव हि श्वेतो धावतीति कश्चित् तन्त्रेण वाक्यदवयमुच्चारयति तथेहाप्याचर्यस्तन्त्रेण वाक्यमुच्चारितवान्। तत्रैकेन योगेन कारकाद्दत्तश्रुतयोरेवाशिषीत्येव नियमो भवति, अपरेण तु कारकाद्दत्तश्रुतयोराशिष्येवेत्येष-. तेनाहतो नदति देवदत्त इत्यत्रानाशिषि न भवति। `देवदत्त् इति कस्यचिच्छङ्खस्य नाम' इति यदृच्छाशब्दतां देवदत्तस्य दर्शयन्नाशीरिह न दत्त इति प्रकाशयति।।
149. इत्थम्भूतेन कृतमिति च। (6.2.149)
इतिकरणोऽर्थनिर्देशार्थः। `आपन्नः' इति। प्राप्त इत्यर्थः। `सुप्तप्रलपितम्' इति। `रप लप व्यक्तायां वाचि' (धा.पा.401,402), अत्र सुप्तत्वं प्रकारमापन्नम्, तेन प्रलपितं कृतम्, तत्र समासो वर्तते। `उन्मत्तप्रलपितम्' इति। अत्राप्युन्मत्तत्वं प्रकारमापन्नं तेन प्रलपितं कृतम्। `प्रमत्तगीतम्' इति। अत्रापि प्रमत्तत्वं प्रकारमापन्नं तेन गीतं कृतम्। `कै गै शब्दे' (धा.पा.916,917), `घुमास्था' (6.4.66) इत्यादिसूत्रेणेत्त्वम्। `विपन्नश्रुतम्' इति। अत्रापि विपन्नत्वं प्रकारमापन्नं तेन श्रुतं कृतम्। सर्वत्र `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। तत्र सुप्तशब्दः प्रत्ययस्वरेणान्तोदात्तः। प्रलपितशब्दो यदि कर्मणि निष्ठा, ततः `गतिरन्तरः' (6.2.49) इति गतिस्वरेणाद्युदात्तः; अथ भावे, ततस्थाथादि (6.2.144) स्वरेणान्तोदात्तः। एवमुत्पन्नप्रकारा आपन्नविपन्नादिशब्दा अपि थाथादिस्वरेणै(6.2.144) वान्तोदात्ताः। `गतिरनन्तरः'(6.2.49) इत्येतत्त्विह न प्रवर्तते; तत्र कर्मणीत्यनुवृत्तेः. इहाकर्मकाद्धातोः कर्मणि क्तप्रत्यस्यानुपपत्तेः। गीतश्रुतशब्दौ सुप्तशब्दवदन्तोदात्तौ। अथ कथमेतान्युदाहरणाध्युपलभ्यन्ते, यावतेत्यम्भूतेन कृतमित्येतस्मिन्नर्थ एतत् कार्यमुच्यते, न चायमत्रार्थः सम्भवति, प्रलपितादीनामकृतार्थत्वात्? प्रकृते प्रलपनादौ करोतेरप्रवृत्तेः। अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, न प्रलपनादौ।
कस्मान्न प्रलपनादिकृतम्? इत्येतच्चोद्यमपाकर्त्तुमाह--`कृतमिति क्रियासामान्याम्' इत्यादि। न हि करोतिरभूतप्रादुर्भाव एव वर्तते? किं तर्हि? क्रियासामान्येऽपि। तच्च क्रियासामान्यं प्रलपनादप्यस्ति। तेन तेन प्रलपनाद्यपि कृतं भवति। `तृतीया कर्मणीत्यस्य' इति। पूर्वपदप्रकृतिस्वरभाव इति।
यदीत्यादिना यदा भावे निष्ठा, तदास्यानुपयोगं दर्शयति।।
150. अनो भावकर्मवचनः। (6.2.150)
`कारकात्' (6.2.148) इति वर्तते, `अनः' इति प्रत्ययग्रहणपरिभाषया (पु.प.वृ.44) तदन्तस्य ग्रहणं विज्ञायते? इत्याह--`अनप्रत्ययान्तम्' इत्यादि। `ओदनभोजनम्' इत्यादौ सर्वत्र षष्ठीसमासः। षष्ठी तु कृद्योगलक्षणा कर्मणि। `राजभोजनाः' इत्यादौ तु कर्तरि। ओदनशब्दः `लघावन्ते' (फि.सू.2.42) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्। पयःशब्दः `नब्विषयस्य' (फि.सू.2.42) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्। पयःशब्दः `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्त एव। चन्दनप्रियङ्गुकाशब्दो द्वन्द्वः, तेन समासस्वरेणान्तोदात्तः। `लेपनम्' इति। `लिप उपदाहे' (धा.पा.1433) [लिप उपदेहे--धा.पा.] इत्यस्यैवं रूपम्। राजशब्द उक्तस्वरः। आच्छादनशब्दः `छद अपवारणे' (धा.पा.1935) इत्यस्य रूपम्।
`कर्मणि च येन' इत्यादिनैकेनैव योगेन भाववचनः कर्मवचनश्च ल्युङ्भवतीति दर्शयति।
`हस्तहार्यम्' इति। हस्तशब्दः `हसिमृग्रिणवामिदमिपूधुर्वीभ्यस्तन्' (द.उ.6.7.;पं.उ.3.86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन्--द.उ; हसिमृग्रिण्वामिदमलूपूधूर्विभ्यस्तन्--पं.स.] इति स्तत्प्रत्ययान्तः, तेनाद्युदात्तः,। हार्यशब्दस्तु `ऋहलोर्ण्यत्' (3.1.124) इति ण्यदन्तस्तित्स्वरेणान्तस्वरितः। `दन्तधावनम्' इति। `धावु गतिशुद्धोः' (धा.पा.601) इत्यस्मात्करणे ल्युट्। दन्तशब्दः `स्वाङ्गशिटाम्' फि.सू.2.29) इत्याद्युदात्तः।
`निदर्शनम्' इति। दृशेर्भावे ल्युट्। `अवलेखनम्' इति। अत्रापि लिखेः।
`सर्वेषु प्रत्युदाहरणेषु' इत्यादि। एतेन `गतिकारकोपपदानां कृत् (6.2.139) इत्यस्यायमपवाद इति दर्शयति।।
151. मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः। (6.2.151)
मन्क्तिन्निति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु.प.वृ.44) तदवतस्य ग्रहणं विज्ञायते, इत्याह--`मन्नन्तं क्तिन्नन्तञ्च' इति। रथवर्त्मेत्यादयः षष्ठीसमासाः। रथशब्दः क्थन्प्रत्ययान्त आद्युदात्त इत्युक्तम्। `वृतु वर्तने' (धा.पा.748) इत्यस्मान्मनिन्। तेन वर्त्मशब्द आद्युदात्तः। शकटशब्दः पयःशब्दश्च नित्त्वादाद्युदात्तः. पाणिन्यापिशलिशब्दाविञन्तत्वात्। कृतिशब्दोऽपि क्तिन्नन्तत्वात्। करणसाधनश्चायं व्याख्यानशब्दो ल्युङन्तः। कृत्स्वरेण मध्योदात्तः। छन्दःशब्दः `सर्वधातुब्योऽसुन्' (पं.उ.4.188) [`असन्' इत्येव सूत्रम्--द.उ.] इति प्रत्ययग्रहणम्। तत्र कृते `चन्देरादेश्च च्छः' (पं उ.4.218) इत्यसुन्प्रत्ययान्तत्वादाद्युदात्तः। अयन्त्यनेनेत्ययनम्, ऋचामयनम्। ऋचामिति कर्णि षष्ठी। ऋगयनशब्दः कृत्स्वरेण मद्योदात्तः। `राजशयनम्' इत्यादि। सेरतेऽस्मिन्निति शयनम्, आसतेऽस्मिन्नित्यासनम् ताभ्यां राजब्राह्मणशब्दयोः षष्ठीसमासः। राजब्राह्मणशब्दाबुक्तस्वरौ। शयनासनशब्दौ लित्स्वरेणाद्युदात्तौ। अत्र कृद्योगलक्षणा पूर्ववदेव कर्त्तरि षष्ठी। एवं `गोस्थानमश्वस्थानम्' इत्यत्रापि। गवाश्वशब्दावुक्तस्वरौ। तिष्ठत्यस्मिन्निति स्थानम्, लित्स्वरेणाद्युदात्तम्। `ब्राह्मणयाज्यः' इत्यादौ कृद्योगलक्षणा कर्मणि षष्ठी। याजकादिषु ये ण्वुलन्ताः पठ्यन्ते, तेषु येऽनुपसर्गाः--याजकपूजकस्नापका इति, त आद्युदात्तः। ये तु सोपसर्गाः--परिवेषकाध्यापकोद्वर्त्तकोत्सादका इति, ते कृत्स्वरेण मध्योदात्ताः। होतभर्तृशब्दो तृन्नन्तौ प्रयोजयतः। यौ तु तृजन्तौ तयोः कृत्स्वरेणान्तोदात्त्वं सिद्धम्। `गोक्रीतः, अश्वक्रीतः' इत्यादि। `कर्तृकरणे कृता (2.1.32) इति समासावेतौ। क्रीतशब्दः प्रत्ययस्वरेणान्तोदात्तः।
`कृत्स्वरापवादो योगः' इति। क्रीतशब्दादन्येषु मन्क्तितन्व्याख्यानादिषु। क्रीतशब्दे तु `तृतीया कर्मण' (6.2.48) इत्यस्येति पूर्वपदप्रकृतिस्वरस्य।
`व्याख्यानशयनासनस्थानानामभावकर्मार्थ ग्रहणम्' इति। भावकर्मवचनस्यानन्तस्य `अनो भावकर्मवचनः' (6.2.150) इत्यनेनैव सिद्धत्वात्। `प्रकृतिः, प्रहृतिः' इति। अत्र `तुल्यार्थ' (6.2.2) इत्यादिना पूरवपदस्य प्रकृतिस्वरत्वमेव भवति। गतिसमासावेतौ।।
152. सप्तभ्याः पुण्यम्। (6.2.152)
`अध्यनपुण्यम्' इत्यादि। अध्ययनशब्दो ल्युडन्तः कृत्स्वरेण मध्योदात्तः। पुण्यम् `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्तम्। विद्यतेऽनेऽनेति वेदः, घञ्। तेन वेदशब्दश्चाद्युदात्तः।
`तत्पुरुषे तुल्यार्थ' इत्यादि। एतत् `उणादयोऽव्युत्पन्नानि प्रातिपदिकानि' (है.प.पा.103) इत्येवं पक्षमाश्रित्योक्तम्। इदानीं व्युत्पत्तिलक्षणमाश्रित्याह--`उणादीनां तु' इत्यादि। व्युत्पत्तिपक्षे हि पुण्यशब्दः `पुञो यण्णुग् ह्रस्वश्च' (पं.उ.5.15) इति यत्प्रत्ययान्तो व्युत्पाद्यते। तत्र यदीद नारभ्येत तदा
`गतिकारक' (6.2.139) इति कृत्स्वरेणाद्युदात्तोऽध्ययनमित्यादौ पुण्यशब्दस्य स्यात्। तस्मात् तदपदादोऽयमन्तोदात्तविषिरित्यभिप्रायः।
`वेदेन पुण्यं वेदपुण्यम्' इति। व्युत्पत्तिपक्षे `तृतीया' (2.1.30) इति योगविभागात् समासः। पूर्वपदपरकृतिस्वरत्वञ्च। अव्युत्पत्तिपक्षे `कर्त्तृकरणे कृता' (2.1.32) इति समासः, कृत्स्वरेण पुण्यशब्दस्याद्युदात्तत्वं च।।
153. ऊनार्थकलहं तृतीयायाः। (6.2.153)
`माषोनम्' इति। `पूर्वसदृश' (2.1.31) इत्यादिना तृतीया समासः। एवं `कार्षापणोनम्' इत्यादावपि। `कष खष शिष जष झष शष वष मष' (धा.पा.685-692) इत्यस्माद्घञ्, तेन माषशब्द आद्युदात्तः। `इण्सिञ्जिदीङुष्यविभ्यो नक्' (द.उ.5.36) इति, तेनोनशब्दोऽन्तोदात्तः। कार्षस्यापणः कार्षापणः। कार्षापणशब्दः समासस्वरेणान्तोदात्तः। विगतः कलोऽस्येति विकलः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन विकलशब्द आद्युदात्तः। `असिकलहः' इति। `अच इः' (द.उ.1.67) इति वर्तमाने `खनिकष्यञ्ज्यसि' (द.उ.1.68) इत्यादिना सिन्तोदात्तः `कल गतौ' (धा.पा.1865), अस्मात् पचाद्यच्। कलयतीति कलः, कलं हन्तीति `अन्येष्वपि दृस्यते' (3.2.101) इति डः। तेन कलहशब्दोऽन्तोदात्तः।
`अत्र केचित्' इत्यादि। तर्ह्यर्थ इति स्वरूपग्रहणम्, एवं सत्यूनशब्देऽपि स्वरूपग्रहणं प्रसज्येत्, ततश्च तदर्थानामन्येषां ग्रहणं न स्यात्? इत्यत आह--`उनशब्देनैव' इत्यादि। ऊनशब्दोऽन्यमतानां विशेषं दर्शयति। अन्ये हि--अर्थग्रहणे नानर्थकानां ग्रहणं भवतीति मन्यन्ते। केचित्तु-ऊनशब्देनैवार्थनिर्देशार्थेनार्थनिर्देशः प्रयोजनं यस्य स तथोक्तः। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं [स्वरूपं ग्रहणम्--इति मुद्रितः पाठः] भवतीत्युक्तम्। इह चोन इत्यर्थप्रधाननिर्देशः। तेनोनशब्दोऽर्थनिर्देशार्थः' इत्याहुः। तस्मात् तत्रैव तदर्थानां ग्रहणम्। इतिकरणो हेतौ। यस्मादूनशब्देनैवार्थनिर्देशार्थन तदर्थानां ग्रहणम्, तस्मादत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। `धान्यार्थः' इति। `तृतीया तत्कृतार्थेन' (2.1.30) इति समासः। `धने धान्ये' (धा.पा.1104), अस्माण्ण्यत्। धान्यमन्तस्वरितम्। अथ धाने साधु धान्यम्, `प्राग्धिताद्यत्' (4.4.75) तेन `यतोऽनावः' (6.1.213) इति धान्यमाद्युदात्तम्। अत्रार्थशब्दः `प्रामादीनाञ्च' (फि.सू.2.38) इत्याद्युदात्तः।
तृतीयाग्रहणं किमर्थम्? अनूनम्, अकलह इत्यत्र मा भूदिति चेत्? नैतदस्ति;इह हि प्रतिपदोक्तपरिभाषयो(व्या.प.3)नार्थकलहादीनां प्रतिपदोक्तो यः समासः स एव परिगृह्यते। तत् किमनूमकलह इत्येतन्निवृत्यर्थेन तृतीयाग्रहणेन? इत्यत आह--`प्रतिपदोक्तम्' इत्यादि। गतार्थम्।
154. मिश्रं चानुपसर्गमसन्धौ। (6.2.154)
`गुडमिश्राः' इति। पूर्ववत् `पूर्वसदृश' (2.1.31) इत्यादिना समासः। गुडशब्दः `इगुपध' (3.1.135) इति `गुड रक्षायाम्' (दा.पा.1370) इत्यस्मात् कः, तेनान्तोदात्तः। `स्फायितञ्चि' (द.उ.8.31) इत्यादिना रग्विधीयमानो बहुलवचनान् मिशेरपि रग्भवति, तेन मित्रशब्दोऽन्तोदात्तः। तिलशब्दः `तृणधान्यानाञ्च द्व्यषाम्' (फि.सू.2.27) इत्याद्युदात्तः।
प्रमिश्रम्, सन्मिश्रमित्यस्य प्राप्नोति, अतस्तन्निवृत्तयेऽनुपसर्गग्रहणं क्रियते? इत्याह--`इह' इत्यादि। अथ वा--मिश्रशब्देन तृतीयासमास उच्यमानः कथं सोपसर्गे लभ्यते? इत्याह--`इह' इत्यादि। यदि तदिहानुपसर्गग्रहणं क्रियते, तर्ह्यन्यत्र मिश्रशब्दग्रहणे सोपसर्गस्य ग्रहणं नास्तीतीहानुपसर्गग्रहणमनर्थकं स्यात्। `तेन' इत्यादि। ज्ञापनस्य प्रयोजनं दर्शयति।
`ब्राह्मणमिश्रो राजा' इति। `पूर्वसदृश'(2.1.31) इत्यादिनैव समासः। `ब्राह्मणैः सह संहितः' इत्यनेन प्रत्युदाहरणे सन्धिं दर्शयति। `ऐकार्थमापन्नः' इति। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। एकः=अभिन्नोऽर्थो यस्य स एकार्थः, तद्भाव ऐकार्थ्यम्। तदापन्नः प्राप्त इत्यर्थः।
कथं पुनर्ज्ञायते--सन्धिशब्दस्यायमर्थः? इत्याह--`सन्धिः' इत्यादि। पणबन्धः=परिभाषणम्--यदि मे भवानिदं कुर्यात् ततोऽहमपि भवत इदं करिष्यामीत्येवञ्जातीयकम्। तेन पणबन्धेन यदैकार्थ्यं तत् सन्धिरुच्यते। तस्मात् प्रत्युदाहरणे सन्धौ सति ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः--इत्येषोऽर्थो विज्ञायते। `केचित् पुनराहुः' इत्यादि। गृह्यमाणो विशेषो यस्यां प्रत्यासत्तौ सा गृह्यमणविशेषा सन्धिरिति केचिदेवमाहुः, तत्रैव स्यात्। एवंविधः सन्धिः प्रत्युदाहरणे नास्तीत्यत आह--`अत्र राज्ञो ब्राह्मणौ सह' इत्यादि। यद्यपि राज्ञा ब्राह्मणैः सह प्रत्यासत्तिः=देशसामीप्यमस्ति, तधापि सत्यामपि तस्यां मूर्तिविभागो मूर्तिविशेषो राज्ञो ब्राह्मणानाञ्च गृह्यत इत्येव। इतिकरणो हेतौ। यत एवम्, तेन ब्राह्मणैः सह मिश्रो राजेति प्रतयुदाह्रियते।
`उदाहणेष्वविभागापत्तिरेव' इति। एतेन गृडमिश्रा इत्यादौ तु सन्धेरभावं दर्शयति। यथा हि विलीनेन मिश्रा धानादयो भवन्ति, तथास्य गुडाः, तेषां च मूर्त्तिविभागो न गृह्यते; न तत्र सन्धेरविभागापत्तिरिति। न विभागोऽविभागः, तस्यापत्तिः=प्राप्तिः। यदा पणबन्धेनैकार्थ्यं सन्धिस्तदोदहरणेषु तस्याभावो वेदितव्यः स हि परिभाषणविशेषणलक्षणः। न चासौ गुडमिश्रेषु धानास्वचेतनेषु विद्यते; तस्य प्राणिधर्मत्वात्।।
155. नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः। (6.2.155)
`सम्पाद्याद्यर्थास्तद्धिताः' इति। तद्धितप्रत्ययाः। तस्मात् प्रत्ययग्रहणपरिभाषया (पु.प.वृ.44) तदन्तविधिर्ज्ञायते। `गुणप्रतषेधे' इति। यस्मिन् वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते--यथोक्तम्--`उपकारि सिद्धमङ्गम्, साध्योऽनुपकारकस्त्वङ्गी' इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच ऩञो विशेषणम्, गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। `कार्णवेष्टकिकम्' इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। `सम्पादिनि' (5.1.99) इति `प्राग्वतेष्ठञ्' (5.1.18), न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत् पुनः प्रवृत्तिनिमित्त्वम्। `छैदिकः' इति। छेदमर्हतीति `आर्हादगोपुच्छ' (5.1.19) इत्यादिनां ठक्। `वत्सीयः' इति। `प्रक्क्रीताच्छः' (5.1.1)। `सान्तापिकः' इति। `तस्मै प्रभवति सन्तापादिभ्यः' (5.1.101) इति `प्राग्वतेष्ठञ्' (5.1.18)। `विगार्दभरथिकः' इति। `तदर्हति' (5.1.63) इत्यार्हीयष्ठञ्। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन् प्रत्युदाहरणेऽपि यत् पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। `गार्दभरथिकदन्योऽगार्दभरथिकः' इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। `गुण इति तद्धितार्थप्रवृत्तिनिमित्तम्' इत्यादि। तद्धितार्थः--कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत् प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत् गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेर्ग्रहणम्। तद्धितान्तमलमर्थञ्च परिग्रह्यते। `तत्प्रतिषेधः' इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह--`कर्णवेष्टकाभ्यां न सम्पादि मुखम्' इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति।
`पाणिनीयम्' इति। `वृद्धाच्छः' (4.2.114। `अपाणिनीयः' इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्। `वोढा' इति। पूर्ववद् धत्वढत्वष्टुत्वढलोपा विधेयाः, `सहिवहोरोदवर्णस्य' (6.3.112) इत्योत्त्वम्। `अवोढा' इति। अत्राहार्थो य कृदतः स उत्तरपदम्। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। `प्राग्बहुव्रीहाविदमेतत्' (6.2.162) इत्यादियोगात्।।
156. ययतोश्चातदर्थे। (6.2.156)
`पाश्या' इति। प्रत्ययस्वरेणान्तोदात्तत्वम्। `अदन्त्यम्' इति। `यतोऽनावः' (6.1.213) इत्याद्युदात्तत्वम्। एवम्--`अकर्ण्यम्' इत्येतदपि तद्वदेवाद्युदात्तम्।
`पाद्यम्' इति। `पादार्धाभ्याञ्च' (5.4.25) इति यत्।
`दन्त्यादन्यददनत्यम्' इति। अत्र दन्त्यादन्यत्र नञ् वर्तते, न तु तदन्तस्य प्रतिषेदे। `अदेयम्' इति। `अर्हे कृत्यतृचश्च' (3.3.169) इत्यत्रार्हार्थे यत्, `ईद्यति' (6.4.65) इतीत्त्वम्। अथेह कस्मान्न भवति--वामदेवेन दृष्टं साम वामदेव्यम्? इत्यत आह--`निरनुबन्धक' इत्यादि। गतार्थम्।।
157. अच्कावशक्तौ। (6.2.157)
`अपचः' इति। पचाद्यच्। `अविक्षिपः' इति। `इगुपधज्ञाप्रीकिरः कः' (3.1.135) `अपचोऽदीक्षितः' इत्यादि। दीक्षितपरिव्राजकौ शास्त्रे प्रतिषिद्धत्वान्न पचतः; न त्वशक्तत्वात्। तेनात्र व्रतं गम्पते, न त्वशक्तिः।।
158. आक्रोशे च। (6.2.158)
अत्राक्रोशे दोषवचनमाक्रोशः। अगम्यमानायामप्यशक्तौ यथा स्यादिति वचनम्।।
159. संज्ञायाम्। (6.2.159)
`अदेवदत्तोऽपज्ञदत्तः' इति। देवदत्तयज्ञदत्तशब्दावन्तोदात्तौ। प्रातिपदिकस्वरेण। यो देवदत्तः सन् तत् कार्य न करोति स एवमाक्रुश्यते। एवं `अविष्णुमित्त्रः' इत्यत्रापि वेदितव्यम्।।
160. कृत्योकेष्णुच्चार्वादयश्च। (6.2.160)
कृत्य, उक, इष्णुजिति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु.प.वृ44) तदन्तोपस्थापनं भवति। चार्वादीनि प्रातिपदिकान्येव। `अकर्त्तव्यम्' इति। यदा तव्यदन्तस्तदा कर्तव्यशब्दोऽन्तस्वरितः। यदा तव्यान्तस्तदा मध्योदात्तः। `अकरणीयम्' इति। अनीयर्प्रत्ययान्तत्वात् `उपोत्तमं रिति' (6.1.217) इति रित्स्वरेण मध्योदात्तः करणीयशब्दः। `अनागामृकम्, अनपलाषुकम्' इति। `लषपतपद' (3.2.154) इत्यादिनोकञ्। आगामुकापलाषुकशब्दौ कृत्स्वरेण मध्योदात्तौ। `अनलङ्करिष्णुः' इति। `अलंकृञ्' (3.2.136) इत्यादिनेष्णुच्। अलङ्करिष्णुशब्दश्चित्स्वरेणान्तोदात्तः। एवं `निराकरिष्णु' शब्दोऽपि। एकानुबन्धकग्रहणपरिभाषया(व्या.प.42)इष्णुज्ग्रहणे द्ब्यनुबन्धकस्य खिष्णुचो ग्रहणेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`इष्णुज्ग्रहणे कर्तरि भुवः' (3.2.57) खिष्णुजित्यस्य द्व्यनुबन्धकस्यापि ग्रहणं भवति' इति वक्ष्यमाणेन सम्बन्धः। अत्रैव कारणमाह--`इकारादेर्विधानसामर्थ्यात्' इति। खिष्णुच इकारादेर्विधानस्यैतदेव प्रयोजनम्--इह सूत्रे सामान्येन ग्रहणं यथा स्यात्, अन्यथा तदपार्थकं स्यात्, उदात्तत्वाद्भवतेः ततः परस्य खिष्णुच इटैवेकारादित्वत्।
`अचारुः' इत्यादि। `दृसनिजनिचरिभ्यो ञुण्' (द.उ.1.88) [दृसनिजनिचरिचटिरहिभ्यो ञुण्--द.उ; दृ.उ; दॄसनिजनिचरिचटिभ्यो ञुण्--पंउ.] तेनाद्युदात्तश्चारुशब्दः। साद्युशब्दोऽन्तोदात्त; `कृवापा' (द.उ.1.86) इत्यादिनोण्प्रत्ययान्तत्वात्। युधा चरति यौधिकः, `प्राग्वहतेष्ठक्' (4.4.1) `कितः' (6.1.165) इत्यन्तोदात्तः। `अनङ्गमेजयः' इति। अव्ययस्वरेणाद्युदात्तः। अत्र द्वितोये नञ्समासे समासान्तोदात्तत्वमिति नञ्समासः स्यात्। `अत्रापि' इत्यादि। कस्माच्छब्दस्य नञ उत्तरस्याद्युदात्तत्वविधानात्। अत्रापि द्वितीयेन नञ्समासेनान्तोदात्तत्वमिति। वर्तमान, वर्धमान--इत्येदमादयः शानजन्तत्वादन्तोदात्ताः। विकारसदृशशब्दः समासस्वरेणान्तोदात्तः। गृहपतिकशब्दः `संज्ञायां कन्' (5.3.87) इति कन्नन्तत्वादाद्युदात्तः। `वदेरान्यः' (द.उ.8.9), वदान्यशब्दः प्रत्ययस्वरेण मध्योदात्तः।।
161. विभाषा तृन्नन्नतीक्ष्णशुचिषु। (6.2.161)
तृन्निति प्रत्ययग्रहणम्, तेन पूर्ववत् तदन्तस्योपस्थानम्। अन्नादीनि प्रातिपदिकानि। `अकर्त्ता' इति। ताच्छीलिकस्तृन्। तेन नित्स्वरेणाद्युदात्तः कर्त्तृशब्दः। अन्नशब्दोऽपि `नब्विषयस्य' (फि.सू.2.26) इति। `कृत्यसूभ्यां क्स्नः' (द.उ.5.49) इति `तिजेर्दीर्घश्च' (द.उ.5.50) इति तीक्ष्णशब्दोऽन्तोदात्तः। `इन्' (द.उ.1.46) इति वर्त्तमाने `इगुपधातु कित्' (द.उ.1.48), तेन शुचिशब्द आद्युदात्तः।।
162. बहुवरीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने। (6.2.162)
`प्रथमपूरणयोः' इति। प्रथमे स्वरूपग्रहणम्। पूरणग्रहणे पूरणेऽर्थे ये प्रत्यया विहितास्ते गृह्यन्ते, प्रथमसाहचर्यात्। अथ वा--पूरणग्रहणं स्वर्य्यते, स्वरितेन चाधिकारगतिर्भवति। तेन `तस्य पूरणे डट्'(5.2.48) इत्यधिकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं भवति। `इदम्प्रथमः' इति। प्रथमोऽन्तोदात्तः। `प्रथेरमत्' (द.उ.7.46) इत्यमच्परत्ययान्तत्वात्। इदमादयस्त्यदादिष्वन्तोदात्ता निपात्यन्ते; `इदन्द्वितीयः इदन्तृतीयः' इति। द्वेस्तीयः' (5.2.54) `त्रेः सम्प्रसारणं च' (5.2.55) इति तीयप्रत्ययान्तत्वान्मध्योदात्तौ द्वितीय तृतीयशब्दौ।
`अनेन प्रथम इदं प्रथमः' इति। अत्र `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वर एव भवति। `यत्प्रथमः' इति। यत् प्रथममेषामिति बहुव्रीह्रिः। अत्र `बहुव्रीहौ प्रकृत्या' (6.2.1) इति पूर्वपदप्रकृतिस्वर एव भवति। एवमुत्तरेष्वप्यस्मिन् बहुव्रीह्यधिकारे प्रत्युदाहरणेषु वेदितव्यम्। `इदं प्रधाना इत्यर्थः' इति। एतेनान्तरोक्ते प्रत्युदाहरणे प्रथमशब्दः प्रधानवचनः, न त्वेकसंख्यावचन इति दर्शयन् गणानाभावं दर्शयति।
`उत्तरपदस्य' इत्यादि। इह सूत्रे `प्रथमपूरणयोः' इति त्वन्यविभक्त्योरुत्तरपदनिर्देशः कृतः, न बहुव्रीहिनिर्देशः कृतः। तेनोत्तरपदस्यैव कार्यित्वम्, न बहुव्रीहेः। ततश्च यदा कबुत्पद्यते तदा `कपि पूर्वम्' (6.2.173) अन्तोदात्तं भवति। कप्प्रत्ययो हि [`कप्रत्ययो हि'--मुद्रितः पाठः] समासाधिकारे विहितत्वात् समासस्यैवान्तौ भवति, नोत्तरपदस्य। न ह्युत्तरपदं समासः, तेन `कबुत्तरपदक्रमेण गृह्यते' इत्युत्तरपदस्यान्तोदात्तत्वं विधीयमानं कपो न भवति, किं तर्हि? पूर्वस्य। `इदम्प्रथमकाः' इति। `शेषाद्विभाषा' (5.4.154) इति कप्। `बहुव्रीहौ परकृत्या' (6.2.1) इति पूर्वपदप्रकृतिस्वरापवादौ योगः।
एवमुत्तरेऽपि बहुव्रीह्यधिकारेऽस्मिन् योगा द्रष्टव्याः।।
163. संख्यायाः स्तनः। (6.2.163)
`द्विस्तना, त्रिसतना' इति। द्वित्रिशब्दौ प्रातिपदिकस्वरेणान्तोदात्तौ। `स्तनगदी देवशब्दे' (धा.पा.1859,1860) चुरादिरदन्तः, तस्माद्घञ्, तेन स्तनशब्द आद्युदात्तः। `चतुःस्तना' इति। `चरेरुरन्' (द.उ.8.78) इत्युरन्प्रतययान्तत्वाच्चतुःशब्द आद्युदात्तः।
दर्शनीयशब्दोऽनीयर्प्रत्ययान्तः `उपीत्तमं रिति' (6.1.217) इति मध्योदात्तः। `द्विशिराः' इति। शिरःशब्दः `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्तः।।
164. विभाषा छन्दसि। (6.2.164)
165. संज्ञायां मित्त्राजिनयोः। (6.2.165)
`देवमित्त्रो ब्रह्ममित्त्रः' इति। देवब्रह्मशब्दावुक्तस्वरौ। `अमिचिमिदिशसिभ्यः क्त्रः' (द.उ.8.86) इति मित्त्रशब्दोऽन्तोदात्तः। `वृकजिनः' इति। प्रकृतिविकारयोर्भेदस्याविवक्षितत्वाद्वृकविकारे वृकशब्दोऽत्र वर्तते। वृकमजिनमस्य वृकाजिनः। वृकशब्दः `प्राणिनां कुपूर्वाणाम् (फि.सू.2.30) [`प्राणिनां कुपूर्वम्'--फि.सू.] इत्याद्युदात्तः। `श्यास्त्याह्वेञविभ्य इनच्' (द.उ.5.12) इत्यधिकृत्य `अजेरज च' (द.उ.5.14) इतीनजादेशश्च। तेनाजिनमन्तोदात्तम्। `कूलाजिनः' इति। कु इति निपातः, तस्मिन्नुपपदे `ला आदाने' (धा.पा.1058) इत्येतस्मात् `अन्येष्वपि दृश्यते' (3.2.101) इत डः, `अन्येषामपि दृश्यते' (6.3.137) इति पूर्वपदसय दीर्घत्वम्। तेन कूल इत्यन्तोदात्तः। `कृष्णाजिनः' इति। `इण्सिञ्जिदीङुण्यविभ्यो नक्'(द.उ.5.35) इत्यधिकृत्य `कृषेर्वर्णे' (द.उ.5.37) इति नक्। तेन कृष्णोऽन्तोदात्त-।
`प्रियमित्त्रः' इति। प्रीणातीति प्रियः, `इगुपध' (3.1.135) इत्यादिना कः। तेन प्रियोऽन्तोदात्तः। `महाजिनः' इति। `नर्त्तमाने पृषद्बृहन्महजजगच्छतृवच्च'
(द.उ.6.5) इत महच्छब्दोऽन्तोदात्त।।
166.व्यावायिनोऽन्तरम्। (6.2.166.)
167.मुखं स्वाङ्गम्। (6.2.167)
`गौरमुखः' इति। `गुरी उद्यमने' (धा.पा.1396) एतस्मादच्। तदन्तदपि प्रज्ञादेरवृत्करणात् `परज्ञादिभ्यश्च' (5.4.38) इत्यण्, तेन गौरोऽन्तोदात्तः। `उदि दृणातेरजलौ [दृणातेरजलौ--मुद्रितः पाठः] पूर्वपदान्त्यलोपश्च' (पं.उ.5.19) इति प्रकृत्य `डित् खनेर्मुट् स चोदात्तः' (पं.उ.5.20) इति खनेरजलावित्येतौ प्रत्ययौ भवतः, तौ च डितौ, मुट् चोदात्तः। तेन मुखशब्द आद्युदात्तः। `भदरमुखः' इति। `ऋजेन्द्र' (द.उ.8.46) इत्यादिसूत्रेण भद्रशब्दो व्युत्पाद्यते। तेन भद्र इत्यन्तोदात्तः।
`दीर्घमुखा शला' इति। मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते। `स्वाङ्गमद्रवलक्षणमिह गृह्यते' इति `अद्रवं मूर्त्तिमत् स्वाङ्गम्' (का.वृ.4.1.54) इत्यादि यत्परिभाषितं स्वाङ्गमद्रवादिलक्षणं तदिह गृह्यते। तेन दीर्घमुखा शालेत्यत्र न भवतीति भावः।।
168. नाव्ययदिक्शब्दगोमहत्स्थूलमुष्ठिपृथुवत्सेभ्यः। (6.2.168)
पूर्वेण प्राप्तस्यान्तोदात्तत्वादयं प्रतिषेध उच्यते। `उच्चैर्मुखः' इति। उच्चैरित्येते स्वरादौ पठ्यन्ते, तेऽन्तोदात्ता इति निपात्यन्ते। `प्राङ्मुखः' इति। प्राङित्येतत् क्विन्नन्तमाद्युदात्तम्, तत्र `अनिगन्तोऽञ्चतौ वप्रत्यये' (6.2.52) इति पूर्वपदसय प्रकृतिस्वरः। `प्रत्यङमुखः' इति। अत्र कृदुत्तरपदप्रकृतिस्वरः। `गोमुखः महामुखः' इति। गोमहच्छब्दावन्तोदात्तावित्युक्तम्। `स्थूलमुखः' इति। `स्थूल परिबृंहणे' (धा.पा.1904), चुरार्दिः, तस्मात् पचाद्यच्। तेन स्थूलशब्दोऽन्तोदात्तः। `मुष्टिमुखः' इति। मुषेः क्तिच्। तेन मुष्टिशब्दोऽन्तोदात्तः। `पृथुमुखः' इति। `कुर्भ्रश्च' (पं.3.1.23) इत्यधिकृत्य प्रथिम्रदिभ्रस्जां सम्प्रसारणं `सलोपश्च' (पं.उ.1.29) इति कुप्रत्ययः। तेन पृथुरन्तोदात्तः। `वत्समुखः' इति। `वॄतॄवदिनि' (द.उ.9.21) इत्यादिना सः। तेन वत्सोऽन्तोदात्तः। `गोमुष्टि' इत्यादि। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणोऽपि यः प्राप्नोति सोऽप्यनेन बाध्यते। अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न; गौर्मुखमिव यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति सर्वत्र गवाद्युपमेयम्, नोपमानम्। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणस्य विकल्पस्यावकाशो यत्र गवादेरन्यदुपमानम्--सिंहमुखः, व्याघ्रमुख इति। यत्र गवाद्युपमानं तद् यत्र पूर्वपदं तत्रोभयप्राप्तावुपमानलक्षणं बाधित्वाऽयमेव प्तिषेधो पूर्वप्रतिषेधेन।।
169. निष्ठोपमानादन्यतरस्याम्। (6.1.169)
`मुखं स्वाङ्गम्' (6.2.167) इति नित्ये प्राप्ते विकल्पवचनमेतत्। `यदैतदुत्तरपदान्तोदात्तत्वम्' इत्यादि। अन्यतरस्यांग्रहणाद्विकस्पेनैतदुत्तरपदान्तोदात्तत्वं विधीयते। तेन यदैतन्न भवति तदा निष्ठोपसर्गपूर्वपदस्यान्यतरस्याम्' (6.2.110) [निष्ठोपसर्गपूर्वमन्यतरस्याम्--पा.सू.] इति पक्षे पूर्वपदान्तोदात्तत्वं भवति। तस्यापि विकल्पेन विधानाद्यादास्याभावस्तदा `गतिरनन्तरः' (6.2.49) इति पूर्वपदस्य प्रकृतिभावविधानाद्गतिस्वर एव। तेनाद्युदात्तत्वं भवति। यत एवं ततस्त्रीण्युदाहरणानि भवन्ति--एकमनेन सूत्रेणोत्तरपदस्यान्तोदात्तत्वविधानम्, द्वितीयं `निष्ठोपसर्गपूर्वादन्यतरस्याम्' (6.2.110) [निष्ठोपसर्गपूर्वमन्यतरस्याम्--पा.सू.] इत्यादिना पूर्वपदान्तोदात्तत्वविधानम्, तृतयं `गतरनन्तरः' (6.2.49) इति गतेः प्रकृतिस्वरविधानम्। `सिंहमुखः' इति। सिंहशब्दः पचाद्यजन्तत्वादन्तोदात्तः। `तृहि हिसि हिंसायाम्' (धा.पा.1455,1456), [`तृह'--धा.पा.] हिनस्तीति सिंहः--पृषोदरादित्वाद्वर्णव्यत्ययः। `व्याघ्रमुखः' इति। `घ्रा गन्धोपादाने' (धा.पा.926) इत्यस्माद्व्याङ्पूर्वात् `आतश्चोपसर्गे कः', (3.1.136), तेन व्याघ्रशब्दोऽप्यन्तोदात्त एव।।
170. जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः। (6.2.170)
`शाङ्गरजग्धः' इति। गुणातेरितेर्वा `शमि धातोः संज्ञायाम्' (3.2.14) इत्यच् शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्। तेन शाङ्गरशब्दोऽन्तोदात्तः। `पलाण्डुभक्षितः' इति। `पल गतौ' (धा.पा.839) `उणादयो बहुलम्' (3.3.1) इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। `सुरपीतः' इति। `सुसूधागुधिभ्यः क्रन्' (द.उ.य8.42) इति सुराशब्द आद्युदात्तः। `मासजातः' इति। `मसी परिमाणे' (धा.पा.1221) [`परिणामे'धा.पा.] अस्माद्घञ्, तेन मास आद्युदात्तः। `संवत्सरजातः' इति। `अशेः सरः' (द.उ.8.50) [`सरन्'--द.उ.प.उ. (3.70)] इत्यधिकृत्य `वसेश्च' (द.उ.8.51) `सम्पूर्वाच्चित्' (द.उ.8.52) इति। तेन संवत्सरोऽन्तोदात्तः। `द्व्यहजातः। त्र्यहजातः' इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्। `सुखजातः' इति। खनतेः सुपूर्वात् `अन्येष्वपि दृश्यते' (3.2.101) इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। `कृच्छ्रजातः' इति। `कृतेच्छः क्रू च' (द.उ.8.38,पं.उ.2.21) [`कृते च्छक् च--द.उ. `कृतेश्छक्रू च'--पं.उ.] इति कृच्छ्रशब्दोऽन्तोदात्तः। `असु क्षेणपे' (धा.पा.1209) अस्माद् `बहुलमन्यत्राऽपि' (द.उ.8.40) इति रक्, तेनास्लमन्तोदात्तम्। `वॄतॄवदहनिकमिकषिब्यः सः' (द.उ.9.21) [कषियुमुचिभ्यः--द.उ.] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। `अलकम्' इति। अलतेः `पुंसि संज्ञायां घः प्रायेण' (3.3.118), ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। `कॄवॄदारिभ्य उनन्' (पं.उ.3.53), तेन करुणशब्द आद्युदात्तः। `रञ्जेः क्वुन्' (?) इति बहुलवचनात् कृपेरपि भवति। तेन कृपणमाद्युदात्तम्। `सोढः' इति क्तान्तम्। तेनैतदन्तोदात्तम्। पूर्ववद्घत्वढत्वादयः कर्त्तव्याः। `प्रतीयम्' इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूः' (5.4.74) इत्यादिनाऽकारः समासान्तः, `द्व्यन्तरुपसर्गेभ्योऽपि ईत्' (6.3.97) इतीत्त्वम्। `पुत्रजातः' इति। अत्र बहुव्रीहिस्वर एव भवति। `अमिचिमिदिशसिभ्यः क्त्रः' (द.उ.8.86) `पुवो ह्रस्वश्च' (पं.3.4.164) तेन पुत्रशब्दोऽन्तोदात्तः।
कथं पुनर्जातशब्दस्य परनिपातः, यावता `निष्ठा' (2.2.36) इति पूर्वनिपातेनात्र भवितव्यम्? इत्यत आह--`आहिताग्न्यादित्वात्' इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठ्यते, तेन `वाऽऽहितागन्यादिषु' (2.2.37) इति जातादिशब्दसय परनिपातः। `वस्त्रच्छन्नः' इति। वस्त्रम्=आच्छादनम्, आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः `छद अपवारणे' (धा.पा.1833) इत्यस्य ण्यन्तस्य निष्ठायां `वा दन्तशान्त' (7.2.27) इत्यादिना निपातितः। `वसनच्छन्नः' इति। वसेराच्छादनार्थाल्ल्युट्। तेन वसनमाद्युदात्तम्। `कुण्डलकृतः' इति। कुण्डशब्दोऽयं `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्तः। `कुण्डमितः' इति। `माङ् माने' (धा.पा.1142), `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वम्।
अथ कथमेतेषु बहुव्रीहिषु `निष्ठा' (2.2.36) इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह--`एतेषु' इत्यादि। यस्मादेतत् कृतम्, तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्येतदन्तोदात्तत्वविदानं नोपपद्यते।।
171. वा जाते। (6.2.171)
जातशब्दोऽपि क्तान्त इति तस्यापि जात्यादिभ्यः परस्य पूर्वेण नित्यमन्तोदात्तत्वे विकल्पोऽयमुच्यते। `दन्तजातः' इति। `हसिमृग्रिण्वमिदमि'(द.उ.6.7) इत्यादिना तन्--दन्तः। तेनायमाद्युदात्तः। `स्तनजातः' इति। स्तनशब्द उक्तस्वरः।
172. नञ्सुभ्याम्। (6.2.172)
`अयवो देशः' इत्यादि। यवव्रीहिमाषाः `तृणधान्यानाञ्च द्व्यषाम्' (फि.सू.2.27) इत्याद्युदात्तः।
`समासस्य' इत्यादि। इह समासः प्रकृत उत्तरपदं च। तत्र यद्युत्तरपदस्यैतदन्तोदात्तत्वं स्यात् अनृचो बह्वृच इत्यत्र `ऋक्पूरब्धूः' (5.4.74) इत्यादिनाकारे समासान्ते कृते ततः पूर्वस्य ऋक्शब्दस्योत्तरपदस्यान्तोदात्तत्वं प्रसज्येत। समासस्य त्वन्तोदात्तत्वं विधीयमानमकारस्यैव भवति; तस्य समासावयवत्वात्। समासावयवत्वं तु `समासान्ताः' (5.4.68) इत्याधिकृत्य विधानात्। तस्मात् समासावयवस्यैतदन्तोदात्तत्वमिष्यते। कथं पुनरिष्यमाणमुपि लभ्यते? `कपि पूर्वम्' (6.2.173) इत्यत्र पूर्वग्रहणात्। तद्धि पूर्वग्रहणमनेन समास्सयान्तोदात्तत्वं विधीयमानं समासावयवस्य कप एव मा भूदित्येवमर्थं क्रियते। यदि तूभयपदस्यैतदन्तोदात्तत्वं स्यात्, तदान्तरेणापि कपिपूर्वग्रहणं कपिपूर्वस्योत्तरपदस्य सात्, न कपः; न हि कबुत्तरपदस्यावयवः, ततश्च पूर्वग्रहणनर्थकम्। इदं तावत्--`समासान्ताःप्रत्ययाः समासस्यैवावयवाः, नोत्तरपदस्य' इत्येतद्दर्शनमङ्गीकृत्योक्तम्। इदानीं `उत्तरपदस्यापि तेऽवयवाः, इत्येतद्दर्शनमाश्रित्याह--`समासान्ताश्च' इत्यादि। उत्तरपदं चेति शेषः। एतदन्तोदात्तत्वमिष्यत इति प्रकृतेन सम्बन्धः। इतिकरणो हेतौ। अथ वा--उत्तरपदस्यैवैतदन्तोदात्तत्वमिष्यते। कुतः? समासान्ता उत्तरपदावयवा भवन्तीत्यतो हेतोः। तेनानुचः बह्वृच इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति, तच्चोत्तरपदस्य भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। सान्तेऽन्तोदात्तत्वं भवति, तच्चोततरपदसय भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। यदि हि समासान्ता उत्तरपदावयवा न स्युः, तत उत्तरपदावयवस्यन्तोदात्तत्वं विधीयमानं समासान्तस्य न स्यात्। उत्तरपदावयवत्वे हि समासान्तानां तस्यैव समासान्तस्य भवति। कथं पुनः समासान्तानामुत्तरपदावयवत्वम्? समासार्थादुत्तरपदात् पूर्वं समासान्तं विधाय पश्चात् तदन्तेन समासविधानात्। तथा हि `न कपि' (7.4.14) इत्यत्र वक्ष्यति "`गोस्त्रियोरुपसर्जनस्य' (1.2.48) इतययमपि ह्रसवः कपि न भवति। समासार्थे ह्युत्तरपदे कपि कृते पश्चात् कबन्तेन सह समासेन भवितव्यममिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति" इति। समासान्तप्रत्ययान्तेन च पदेन यदि समासः क्रियते, तदा `तन्मध्ये पतितास्तद्ग्रहणेन गृह्यन्ते' (व्या.प.21) इति समासान्तः प्रत्ययः उत्तरपदावयवा भवन्ति। यद्यवम्, समासावयवत्वं तेषां नोपपद्यते? नैतदस्ति; अवयवावयवोऽपि हि समुदायावयवो भवति, तथा हि--`देवदत्तायाः सर्वेऽवयवा अलङ्क्रियन्ताम्' इत्युक्ते देवदत्तावयकस्य येऽवयवा अङ्गुल्यादयस्येऽप्यलङ्क्तियन्ते।।
173. कपि पूर्वम्। (6.2.173)
पूर्वेण कप एवान्तोदात्तत्वे प्राप्ते कपि पूर्वस्योदात्तत्वमनेन विधीयते। `अकुमारीकः' इत्यादि। `शेषाद्विभाषा' (5.4.154) इति कप्। कुमारीशब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः। वृषलीशब्दोऽपि जातिलक्षणेन ङीषा। ब्रह्मबन्धूरप्यूङन्तत्वात् प्रत्ययस्वरेण।।
174. ह्वस्वान्तेऽन्त्यात्पूर्वम्। (6.2.174)
`ह्रस्वोऽन्तोऽस्य' इत्यादि। अनेन ह्रस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। `अयवको देशः' इति। अत्र कपि परतो यव इत्येतत् ह्रस्वान्तमुत्तरपदम्, अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्, पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्।
अथ पूर्वग्रहणं किम्, यावता `कपि पूर्वम्' (6.2.173) इत्यतः पूर्वमिति वर्तत एव? इत्यत आह--`पूर्वमिति वर्तमाने' इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामर्थ्यात्, अन्यथा हि तदपार्थकं स्यात्। तत्रैकय प्रवृत्त्या ह्रस्वन्तेऽन्त्यात् पूर्वमन्तोदात्तं विथधीयते। अपरया तु ह्रस्वान्तेऽन्त्यात् पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। `तेन' इत्यादिना नियमो न स्यात्, तदात्रान्त्यात् पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्। `कपि पूर्वम्' (6.2.173) इत्यनेन नियमे तु सति न भवति। तेन `नञ्सुभ्याम्' (6.2.172) इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्।।
175. बहोर्नञ्वदुत्तरपदभूम्नि। (6.2.175)
`नञ्सुभ्याम्' (6.2.172) इत्यादिभिर्योगैर्नञ उत्तरस्य यत् स्वरवनिधानं तद्बहोरपि यथा स्यादित्येवमर्थमिदम्। नञ इव नञ्वत्। बहोर्भावो भूमा, पृथ्वादित्वादिमनिच्, `बहोर्लोपो भू च बहोः' (6.4.158) इति भूभावः। उत्तरपदस्य भूमेति षष्ठीसमासः। अथातिदेशः किमर्थः, न `नञ्सुबहुभ्य उत्तरपदभूम्नि' इत्येवोच्येत; न चैवं योगे क्रियमाणे नञ्स्वोरप्युत्तरपदभूम्नीत्येतद्विशेषणमापाद्यते; सम्भवापेक्षत्वादस्य, यथैव हि' हल्ङ्याब्भ्यो दीर्घात्' (6.1.68) इत्यत्र दीर्घग्रहणं सम्भवापेक्षं विशेषणं ङ्यापोरेव भवति न हलः; तथैतदपि बहोरेव भविष्यति न नञ्स्वोः, न हि तयोरुत्तरपदार्थबहुत्वे बृत्तिः सम्भवतीति? एवं तर्हि यदपि विदेशस्थं नञोपलक्षितं बहुव्रीहेः स्वरविधानम्, तदप्यस्मादतिदेशाद्यथा स्यादित्येवमर्थोऽयमतिदेशः क्रियते। तेन `नञो जरमरमित्त्रमृताः' (6.2.116) इत्युत्तरपदाद्युदात्तत्वमपि बहोरतिदिश्यते। `बहुमनाः' इति। अत्रोत्तरपदबहुत्वे बहुशब्दो न वर्तते।।
176. न गुणादयोऽवयवाः। (6.2.176)
पूर्वोणातिप्रसक्तोऽतिदेश इति गुणादिना प्रतिषिध्यते--`बहुगुणा रज्जुः' इति। बह्ववयवा इत्यर्थः। `गुण आमन्त्रणे' (धा.पा.1894) चुरादिः, तस्माद्घञ्। तेन गुणशब्द आद्युदात्तः। `अशेः सरः' (द.उ.8.50) [`सरन्'--द.उ.(पं.उ.-3.70)] इत्यनेनाक्षरशब्दोऽन्तोदात्तः। छन्दो मीयतेऽनेनेति च्छन्दोमानम्। कृत्स्वरेण छन्दोमाने मानशब्द आद्युदात्तः; तस्य घञन्तत्वात्। शोभनमुक्तं सूक्तम्। प्रादिसमासः। थाथादिस्वरेण (6.2.144) सूक्तशब्दोऽन्तोदात्तः। अधीयतेऽस्मादित्यध्यायः। `इङश्च' (3.3.21) इति घञ्। सूक्तवदध्यायोऽन्तोदात्तः।।
177. उपसर्गात् स्वाङ्गं ध्रुवमपर्शु। (6.2.177)
उपसर्गात् प्राद्युपलक्षणं वेदितव्यम्। स्वङ्गं प्रति क्रियायोगाभावात्। प्रादिग्रहणमेव तु न कृतं वैचित्र्यार्थम्। ध्रुवशब्दोऽयमवयवेप्यस्ति, यथा `ध्रुवमपायेऽपादानम्' (1.4.24) इति, एकस्वरूपेप्यस्ति, यथा ध्रुवमस्य शीलमिति; तदिहैकस्वरूपे वर्तमानो गृह्यत इति दर्शयितुमाह--`ध्रुवमित्येकरूपमुच्यते' इत्यादि। `सततम्' इत्यादिना ध्रुवत्वं पृष्ठस्य दर्शयति। पृष्ठशब्दोऽन्तोदात्तः। `पृषु मृषु वृषु सेचने' (धा.पा.705.706,707) इत्यस्य थकि व्युत्पादितत्वात्।
`दर्शनीयललाटः' इति। दर्शनीयशब्दः `उपोत्तमं रिति' (6.1.217) इति मध्योदात्तः। `लल ईप्सायाम्' (धा.पा.1687) इत्यस्मात् `उणादयो बहुलम्' (3.3.1) इत्याटप्रत्ययः। तेन ललाटशब्दो मध्योदात्तः। `प्रशाखो वृक्षः' इति। `उणादयो बहुलम्' (3.3.1) इति वचनात् `शो तनूकरणे' (धा.पा.1145) इत्यस्मात् खः, टाप्, सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः' (8.2.5)। तेन शाखाशब्दोऽन्तोदात्तः। उद्बाहुः क्ररीशति' इति। अत्र बाहोरेकरूपता नास्तीत्युध्रुवत्वम्। न ह्यसौ नित्यमूर्ध्वबाहुरेव क्रीशति, अपि तु कदाचिदधो बाहुरपि। `उत्पर्शुः' इति। `स्वृशेः श्वण्शुनौ पृ च'(पं.उ.5.27) [श्वण् शुनो पृ च--मु.पाठः] इति शुन्प्रत्ययान्तः पर्शुः। तेनायमाद्युदात्तः।।
178. वनं समासे। (6.2.178)
`समासमात्रे' इति। मात्रग्रहणेन बहुव्रीहेर्निवृत्ति सूचयति। `प्रवणे' इति। यदायं बहुव्रीहिस्तदा प्रकृष्टं प्रकृतं वा वनमस्येति विग्रहः। यदा तु तत्पुरुषः, तदा प्रकृष्टं वनं प्रगतं वा वनमिति विग्रहः। `निर्वणे' इति। अत्रापि यदा बहुव्रीहिः, तदा निर्गतं वनमस्येति विग्रहः। यदा तु तत्पुरुषस्तदा निरगतो वनादिति तत्पुरुषस्तु `कुगतिप्रादयः' (2.2.28) इति। किं पुनः स्याद्यदि समासमात्रपरिग्रहार्थं समासग्रहणं न क्रियेत? इत्यत आह--`बहुव्रीहावेव हि स्यात्' इति। `रञ्जेः क्युन्'(द.उ.5.24-पं.उ.2.80)। [`रजेः'--द.उ.] बहलवनात् `वनु याचने' (धा.पा.1470) इत्यस्मादपि भवति। तेन वनमाद्युदात्तम्।।
179. अन्तः। (6.2.179)
`अन्तः' इति स्वरादिष्वन्तोदात्तो निपात्यते। `अन्तर्वणो देशः' इति। अन्तर्वनं यस्मिन्निति बहुव्रीहिः, `वनेऽन्तः' इति शौण्डादिपाठात् (2.1.40) सप्तमीसमासो वा। `प्रनिरन्तरः' (8.4.5) इत्यादनना णत्वम्।
`अनुपसर्गार्थ आरम्भः' इति। उपसर्गात् पूर्वेणैव सिद्धत्वात्।।
180. अन्तश्च। (6.2.180)
अन्तःशब्दः `हसिमृग्रिण्वमिदमिलूपूधुर्विभ्यस्तन्' (द.उ.6.7) इति तन्प्रत्ययान्तत्वादाद्युदात्तः।।
181. न निविभ्याम्। (6.2.181)
पूर्वेण निविभ्यामप्युततरसयान्तोदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। `पूर्वपदप्रकृतिस्वरतवे कृते' इति। यदा बहुव्रीहिस्तदा `बहुव्रीहौ प्रकृत्या पूर्वपदम्' (6.2.1) इति प्रकृतिस्वरत्वम्। यदा तु तत्पुरुषस्तदा `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना।।
182. परेरभितोभावि मण्जलम्। (6.2.182)
`परिकूलम्, परितीरम्' इति। कूलतीरशब्दावुक्तस्वरौ `कूलतीरतूलमूल' (6.2.121) इत्यादौ सूत्रे। `परिमण्डलम्' इति। परितः=सर्वतो मणअडलं परिमण्डलम्। `मणि भूषायाम्' (धा.पा.321)--अस्मात् `कलस्तृपश्च' (द.उ.8.107) इति बाहुलकात् कलप्रत्ययः, `वृषादिभ्यश्चित्' (द.उ.8.109) इति च। तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्' इत्यादि। यदा बहुव्रीहिस्तदा--परितः कूलमस्य, परितस्तीरमस्येति तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्' इत्यादि। यदा बहुव्रीहिस्तदा--परितः कूलमस्य, परितस्तीरमस्येति विग्रहः। यदा तु प्रादिसमासस्तदा परिगतं कूलम्, परिगतं तीरमिति। यदा पुनरव्ययीभावस्तदा--परि कूलात्, परि तीरादिति। अव्ययीभावस्तु `अपपरिबहिरञ्चवः पञ्चम्या' (2.1.12) इत्यनेन। परि कूलादिति पञ्चमी `पञ्चम्यपाङपरिभिः' (2.3.10) इति कर्मप्रवचनीययोगे। कर्मप्रवचनीयत्वं तु परेः `अपपरी वर्जने' (1.4.88) इति। युक्तं यद्बहुव्रीहौ तत्पुरुषे चेदमन्तोदात्तत्वं विधीयते; तत्र हि समासान्तोदात्तत्वस्यापवादः, पूर्वपदप्रकृतिस्वरः प्राप्नोति। अव्ययीभावे त्वयुक्तम्; तत्र हि समासान्तोदात्तत्वेनैव सिद्धम्। न हि तस्यापवादः पूर्वपदप्रकृतिस्वरः केनचित् प्राप्त इत्यत आह--`अव्ययीभावपक्षेऽपि हि' इत्यादि। यदाप्यव्ययीभावपक्षः, तदापि `परिप्रत्युपपा' (6.2.33) इत्यादिना पूर्वपदप्रकृतिस्वरः प्राप्तोनेनान्तोदात्तत्वविधानेन बाध्यत इति किमत्रायुक्तम्। `यच्चैवंस्वभावम्' इत्यादि। अभितो भवनं यस्य स्वभावस्तदभितोभाविग्रहणेन गृह्यते, न तु तद्विपरीतस्वभावम्।।
183. प्रादस्वाङ्गं संज्ञायाम्। (6.2.183)
`प्रकोष्ठम्' इति। `उषिकुषिगार्तिभ्यस्थन्' (द.उ.6.29) इति कुषेस्थन्। तेन क्रोष्ठशब्द आद्युदात्तः। `प्रगृहम्' इति। `गेहि कः' (3.1.144) इति कप्रत्ययः। तेन गृहमन्तोदात्तम्। `प्रद्वारम् इति। `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इति द्वारमाद्युदात्तम्। `प्रपदम्' इति। पदं द्वारवदेवाद्यटुदात्तम्। `प्रहस्तम्' इति। `हसिमृग्रिण्वमिदमि' (द.उ.6.7) इत्यादिना हसेस्तन्। तेन हस्तशब्द आद्युदात्तः।।
184. निरुदकादीनि च। (6.2.184)
`निरुदकम्' इति। निष्क्रान्तमुदकमस्मादिति बहुव्रीहिः, निष्क्रान्तमुदकादिति वा प्रादिसमासः। उदकं कायतीति `आतोऽनुपसर्गे कः' (3.2.3), `उदकस्योदः संज्ञायाम्' (6.3.57) इत्युदभावः। तेनोदकमन्तोदात्तम्। `निरुपलम्' इति। `विटपविष्टपविशिपोलपाः' (द.उ.7.12) इत्युपलशब्दोऽन्तोदात्तो निपात्यते। `निरुपलमित्यन्ये' इति। उपपूर्वाल्लातेः `आतश्चोपसर्गे' (3.1.136) इति कः। तेनोपलशब्दस्थाथादि (6.2.144) स्वरेणाद्युदात्तः। `निर्मक्षिकम्, निर्मशकमित्यदीनाम्' इति। मशकमक्षिकाशब्दा(वा)द्युदात्तान्तोदात्तौ। तत्र हि `अथादिः, प्राक्, शकटेः'(फि.सू.2.24), `अथ द्वितीयः प्रादीषात्' (फि.सू.3.50) [`द्वितीयं'--फि.सू.] इति वर्तते। `एषाम्' इत्यादि। यदि प्रादिसमासस्तदा निर्गतमुदकं निर्गतं वोदकादिति विग्रहः। यदा तु बहुव्रीहिस्तदा निर्गतमुदकमस्मादिति। अथाव्ययीभावोऽप्येषां कस्यान्न भवति? इत्याह--`अव्ययी भावे तु' इत्यादि। बहुव्रीहिप्रादिसमासयोस्तु समासान्तोदात्तत्वेन न सिध्यति। तथा हि--`बहुव्रीहौ प्रकृत्या पूर्वपदम्' (6.2.1) इति समासस्वरापवादः पूर्वपदप्रकृतिस्वरो बहुव्रीहावुक्तः। प्रादिसमासेऽपि `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना।
`निष्कालकः' इति। कालशब्दः कन्प्रत्ययान्तत्वादाद्युदात्तः। `निष्कालिकः' इति। निष्क्रान्तः कालिकाया इति प्रादिसमासः। कालीति जानपदादिसूत्रेण (4.1.42) [`द्वितीयं'--फि.सू.] ङीषान्तत्वादन्तोदात्तः, ततः स्वार्थिके कनि कृतेऽप्याद्युदात्त एव भवति।
`निष्पेषः' इति। `विष्लृ सञ्चूर्णने' (धा.पा.1452) अस्माद्घञ्। तेन पेषशब्द आद्युदात्तः। `तरीं पाति' इति। `आतोऽनुपसर्गे कः' (3.2.3) इति तरीपशब्दोऽन्तोदात्तः। कुत्सितस्तरीप इति कुत्सितग्रहणेन दुस्तरीपशब्दे दुःशब्दः कुत्सायां वर्तत इति दर्शयति। `निस्तरीप इति केचित्' इति। ते च निर्गतस्तरीप इति विगृह्य प्रादिसमासं कुर्वन्ति। `अपरे निस्तरीक इति' इति। पठन्तीति सम्बन्धः।
`निरजिनम्' इत्यादि। `अजिनमन्तोदात्तम्' इत्युक्तम्।
`परेः' इत्यादि। हस्तपादकेशाः `स्वाङ्गशिटामदन्तानाम्' (फि.सू.2.29) इत्याद्युदात्ताः। शिटाम्=सर्वनाम्नामित्यर्थः। कर्षशब्दः `कर्षात्वतो घञोऽन्त उदात्तः' (6.1.159) इत्यन्तोदात्तः।।
185. अभेर्मुखम्। (6.2.185)
`अभिमुखः' इति। मुखशब्द उक्तस्वरः। अभिशब्दोऽन्तोदात्तः। `बहुव्रीहिरयम्'
इत्यादि। यदा बहुव्रीहिस्तदा--अभिगतं मुखमनेनेति विग्रहः। यदा तु प्रादिसमासस्तदा अभिगतो मुखम्, अभिगतो वा मुखेनेति। कस्मादयमव्ययीभावो न भवति? इत्याह--`अव्ययीबावे तु' इत्यादि।
`वचनमिदमबहुव्रीह्यर्थम्' इति। यदा मुखं ध्रुवं भवति तदाऽध्रुवार्थम्, अस्वाङ्गार्थ चेति। अध्रुवमस्वाङ्गञ्च मुखं बहुव्रीहावपि यदा भवति। `अभिमुखा शाला' इति। अभिगतं मुखं यस्या इति बहुव्रीहिः। अत्र `उपसर्गात् स्वाङ्गम्' (6.2.177) इति न सिध्यति; मुखशब्दस्यास्वाङ्गवाचित्वात्।।
186. अपाच्च्। (6.2.186)
`अव्ययीभावोऽप्यत्र प्रयोजयति' इति। न केवलं बहुव्रीहितत्पुरुषावित्यपिशब्दार्थः। तत्र यदा बहुव्रीहिस्तदा--अपगतं मुखमस्मादिति विग्रहः। यदा तु प्रादिसमासस्तदा अपगतं मुखमिति। यदा पुनरव्ययीभावस्तदा--अपमुखादिति, मुखं वर्जयित्वेत्यर्थः। अव्ययीभावस्तु `अपपरिबहिरञ्चवः वञ्चम्या' (2.1.12) इत्यनेन। कथं पुनरव्ययीभावः प्रयोजयति, यावता समासान्तोदात्तत्वेनैव सिद्धम्? इत्याह--`तत्रापि हि' इत्यादि। प्रकृतिस्वरत्वमित्यत्राध्याहार्यम्। तत्राप्यव्ययीभाव `परिप्रत्युपापा' (6.2.33) इत्यादिना पूर्वपदस्य प्रकृतिस्वरत्वमुक्तं समासस्वरापवादः। तस्मादव्ययीभावोऽपि प्रयोजयति।
`योगविबाग उत्तरार्थः' इति। `उत्तरसूत्रेऽपादित्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत्। अव्ययपूर्वादपि प्रकृतिस्वरापवादो योगः। एवमुत्तरेऽपि योगाः `द्वित्रिभ्यां पद्दन्मूर्धसु बहुव्रीहौ' (6.2.197) इत्यतो योगात् प्राग्वेदितव्याः।।
187. स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनाम नाम च। (6.2.187)
स्फिगदीनां नामपर्यन्तानां समाहारे द्वन्द्वः। `सीरनामानि च' इति। हलादीनि। `अपस्फिगम्, अपपूतम्' इति। प्रादिसमासः, बहुव्रीहिर्वा। स्फिगपूतशब्दौ `स्वाङ्गशिटामदन्तानाम्' (फि.सू.2.29) इत्याद्युदात्तौ। केचित्तु स्फिगशब्दं धृतादित्वा(फि.सू.1.21)दन्तोदात्तमिच्छन्ति। `रास्नासास्नास्थूणावीणाः' (द.उ.5.47) इति वीणाशब्द आद्युदात्तो निपात्यते। `अञ्जू' इत्येतदस्मादसुन्। तेनञ्ज आद्युदात्तः। `शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्' [क्वन्--इति मु. पाठः,] इत्यधिकृत्य `अदेर्धच' [अदेर्धश्च--द.उ.] इत्यध्वा। तेनायमाद्युदात्तः। `उपसर्गादध्वनः' इत्यादि। `अच्प्रत्यन्ववपूर्वात् सामलोभ्नः' (5.4.75) इत्यतोऽज्हणेऽनुवर्तमाने `उपसर्गादध्वनः' (5.4.85) इत्यनेनाच् समासान्तो विधीयते। तेन तस्मिन् समासान्तेऽच्प्रत्ययस्य चित्त्वादेव सिद्धमन्तोदात्तत्वम्। ननु च नित्यः समासान्तः, तत् किमुच्यते--यदा समासान्तो नास्तीति? अत आह--`अनित्यश्च' इत्यादि। यदि नित्यः समासान्तः स्यादध्वग्रहणमिह न कृतं स्यात्; अच्प्रत्ययस्य चित्त्वादेवान्तोदात्तस्य सिद्धत्वात्; कृतं च, तस्मादेतदेव ज्ञापयति--`समासान्तविधिरनित्यः' इति। तेन `तत्रोपासितलोकभर्त्तरि' इत्येवमादयः प्रयोगा उपपन्ना भवन्ति।
`प्लुषिकुषिशुषिभ्यः क्सिः' (द.उ.1.11) [`प्लुषिशुषिकुषिभ्यः क्सिः'--द.उ.]
189. अनोरप्रधानकनीयसी। (6.2.189)
`अनुज्येष्ठः' इति। `वृद्धस्य च' (5.3.62) इतीष्ठनि परतो वृद्धस्य ज्ज्यादेशः। जेष्ठशब्दो नित्सवरेणाणाद्युदात्तः। `अनुमध्यमः' इति। `मध्यान्मः' (4.3.8) इति मध्यमः, प्रत्ययस्वरेणान्तोदात्तः। `पूर्वपदार्थप्रधानः प्रादिसमसोऽम्' इति। अत्र हि योऽसौ ज्येष्ठमनुगतो मध्यमञ्च स प्राधान्येन प्रादिसमासेनोच्यते, ज्येष्ठमध्यमौ तु गुणभावेन। तस्मात् पूर्वपदार्थप्रधानोऽयम्। `अनुकनीयान्' इति। ईयसुनि परतो युवशब्दस्य `युवाल्पयोः कनन्यतरस्याम्' (5.3.64) इति कनादेशः। कनीयशब्दो नित्स्वरेणाद्युदात्त-।
`अनुगतो ज्येष्ठोऽनुज्येष्ठः' ति। उत्तरपदार्थप्रधानोऽयम्। तेन प्रधानवाचित्वं ज्येष्ठशब्दस्यास्ति।।
190. पुरुषश्चान्वादिष्टः। (6.2.190)
`पॄ पालनपूरणयोः' (दा.पा.1489)--अस्मात् `पुरः कुषन्' (द.उ.9.14) इति कुषन्प्रत्ययः. तेन पुरुषशब्द आद्युदात्तः। `अन्वादिष्टोऽन्वाचितः' इति। अप्रधानशिष्ट इत्यर्थः। यथा भिक्षामट गाञ्यानयेत्यत्र गोरानयनम्, यथा वा--`कर्त्तुः क्यङ् सलोपश्च' (3.1.11) इत्यत्र सलोपः. `कथितानुकथितो वा' इति। यः कथितात् पश्चात् कथितः स कथितानुकथितः। यो वा किञ्चित् पाक् कथयित्वा पश्चात् कथ्यते कथ्यते स कथितानुकथित इत्युच्यते।
`अनुगतः पुरुषोऽनुपुरुषः' इति। यः पश्चाद्भवः पुरुष स एवमुच्यते।।
191. अतेरकृत्पदे। (6.2.191)
`अकृत्पदे' इति। अकृच्च पदं चाकृत्पदे--प्रथमाद्विवचनान्तमेतत्। `अत्यङ्कुशो नागः' इति। अङ्कुशशब्दः `सानसिपर्णसि' (द.उ.10.17) [सानसिधर्णसिपर्णसि--द.उ. सानासिवर्णसिपर्णसि--पं.उ.पं.उ.4.107) इत्यादिना `अकि लक्षणे' (धा.पा.1024) अस्मात् पचाद्यच्, टाप्, `एकादेश उदात्तेनोदात्तः' (8.2.5)। तेन कशान्तोदात्ता। `अतिपदा शक्वरी' इति। `खनो घ च' (3.3.125) इति पदेर्घः। घित्करणेन हि ज्ञापितम्--तत्र घोऽन्यस्मादपि भवतीति। तेन पदमन्तोदात्तम्।
`अतिकारकः' इति। करोतेर्ण्वुल्। अत्र `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्वरो भवति।
`अतेर्धातुलोपः' इति। यत्र धातोर्लोपस्तत्रातेरुत्तरपदमन्तोदात्तं भवतीति वक्तव्यम्। किमर्थम्? इत्याह--`इह' इत्यादि। यद्यतेर्धातुलोप इति नोच्येत, तदिहापि स्यात्--शोभनो गार्ग्योऽतिगार्ग्य इति। भवति ह्यत्रातेरुत्तरपदमकृदन्तम्। इह च न स्यात्--अतिक्रान्तः कारकादतिकारक इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा.94) इति प्रादिसमासः। अत्र हि कृदन्तः कारकशब्दः उत्तरपदम्। तत्र यद्यतेर्धातुलोप ति नोच्यते तदिहापि न स्यात्। एवं तूच्यमान इहापि भवति, अस्ति ह्यत्र क्रमेर्धातोर्लोपः। लोपः पुनस्तस्य समासे गम्यमानार्थत्वादप्रत्युज्यमानस्यादर्शनम्।।
192. नेरनिधाने। (6.2.192)
`निधानमप्रकाशता' इति। न निधानमनिधानम्। `निर्मूलम्, न्यक्षम्' इति। `मूल प्रतिष्ठायाम्' (धा.पा.529)-अस्मात् पचाद्यच्। तस्मान्मूलशब्दोऽन्तोदात्तः। `वॄतॄवदिहनि कमिकषिभ्यः सः' (द.उ.9.21) [कमिकषियुमुचिभ्यः--द.उ.] इत्यधिकृत्य `अशेर्देवने' (द.उ.9.24) इति सप्रत्ययान्तत्वादक्षशब्दोऽप्यन्तोदात्तः। `नितॄणम्' इति। `नब्विषयस्य' (फि.सू.2.26) इति तॄणमाद्युदात्तम्। `बहुव्रीहिरयम्' इत्यादि। यदा बहुव्रीहिस्तदा--निगतानि मूला न्यस्येति विग्रहः। यदा प्रादिसमासस्तदा निगतं मूलमिति। अव्ययीभावः कस्मादयं न भवति? इत्याह--`अव्ययीभावे तु' इत्यादि। बहुव्रीहौ तु समासान्तोदात्तत्वापवादः `बहुव्रीहौ प्रकृत्या' (6.2.1) इत्यादिना पूर्वपदस्य प्रकृतिस्वर उक्तः। तत्पुरुषेऽपि `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना; तेन तयोर्विनाऽनेन वचनेनान्तोदात्तत्वं न सिध्यति। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिदधम्, न हि तत्र तस्यापवादः उक्तः।
`निवाग्वृषलः; निदण्डः' इति। अत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। वाक्शब्दः `क्विब्वचिप्रच्छि' (द.उ.10.2) इत्यादिना क्विबन्तो व्युत्पादित आद्युदात्तः। `दमु उपशमे' (धा.पा.1203)--अस्मात् `ञमन्ताङ्ङः' (द.उ.5.7) इति। तेन दण्डशब्दोऽप्यन्तोदात्तः। `निशब्दोऽत्रि निधानार्थं ब्रवीति' इति। अप्रकाशतां ब्रतीतीत्यर्थः। कथं पुनरत्र निशब्दो निधानार्थं ब्रवीति? इत्याह--`प्रादयो हि' इत्यादि। वृत्तिशब्देनेह समासवृत्त्यादिर्गुह्यते। प्रादयो हि स्वभावेनैव वृत्तिविषये ससाधनां क्रियामाहुः। तस्मादिह समासवृत्तौ विषयेयासावप्रकाशनात्मिका क्रिया निधानशब्दवाच्या वाक्साधना, दण्डसाधना च तां निशब्दो ब्रवीति।।
193. प्रतेरंश्वादयस्तत्पुरुषे। (6.2.193)
पूर्वपदप्रकृतिस्वरापवादो योगः। `प्रत्यंशुः' इति। प्रादिसमासः। `कुर्भ्रश्च' इत्यधिकृत्य `मुगय्वादयश्च' (द.उ.1.121) इत्यंशुशब्दो निपातितः। तेनान्तोदात्तः। जनेर्घञ्। तेन जन आद्युदात्तः। राजञ्शब्दोऽपि कनिन्प्रत्ययान्तत्वात्। `राजशब्दः' इत्यादि। `राजाहःसखिभ्यष्टच्' (5.4.91) इति यदाऽनित्यत्वाट्टज् नास्ति, तदा राजशब्द इह पाठे प्रयोजयति। अथ तस्मिन् समासान्ते सति कस्मान्न प्रयोजयति? इत्याह--`तस्मिन् हि सति' इत्यादि। अनित्यत्वं तु समासान्तविधेः पूर्वमेव ज्ञापितम्। राजशब्दस्य चेह पाठः समासान्तविधेरनित्यत्वं ज्ञापयति। `उष दाहे' (धा.पा.696)--इत्यस्मात् ष्ट्रन्। तेन उष्ट्रशबद आद्युदात्तः `शिट सन्तापे' [`खिट त्रासे'--धा.पा.] (धा.पा.302)--अस्माण्वुल्। तेन खेटकशब्दोऽप्याद्युदात्तः। `अजिरशिशिर' (द.उ.8.27) इत्यादिना किरच्प्रत्ययान्तोऽजिरशब्दो निपातितः। तेनान्तोदात्तः। `द्रो कुत्सायां गतौ' (धा.पा.1054)--अस्मादाङ्पूर्वात् `आतश्चोपसर्गे' (3.3.106) इत्यङ् निपातनात् पूर्वपदस्य रेफान्तता। ततश्चाव्ययरूपहानादसत्यस्मात् पूर्वपदप्रकृतिस्वरत्वे आर्देत्यन्तोदात्ता भवति। `श्रु श्रवणे' (धा.पा.942) इत्यस्माल्ल्युट्। तेन श्रवणशब्दो लित्स्वरेणाद्युदात्तः। `वृतेस्तिकन्' (द.उ.3.28) इति प्रकृते `कृतिभिदिलतिभ्यः कित्' (द.उ.3.29) इति तिकन्, टाप्। तेन कृत्तिकाशब्द आद्युदात्तः। `ऋध'--इत्येतस्मादच्, घञ् वा। तेनार्धशब्दोऽन्तोदात्तः, आद्युदात्तो वा। `पुर अग्रगमने' (धा.पा.1346)--अस्मादिगुपधलक्षणः (3.1.135) कः। तेन पुरशब्दोऽन्तोदात्तः।
`प्रतिगता अंशवोऽस्य' इत्यादि। अत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरो भवति।।
194. उपाद्द्व्यजजिनमगौरादयः। (6.2.194)
`उपदेवः' इति। प्रादिसमासोऽयम्। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। `उपसोमः' इति। अतिस्तुसुहुसृ' (6.4.149) इत्यादिना मन्। तेन सोमशब्द आद्युदात्तः। `हुडृ हुडृ गतौ' (धा.प.352,353) अस्मात् पचाद्यच्। तेन होडशब्दोऽन्तोदात्तः। अजिनमन्तोदात्तमित्युक्तम्, अद्व्यजर्थं चास्य ग्रहणम्।
गौरशब्दः प्रज्ञद्यणन्तत्वादाद्युदात्तः। तिष्येण युक्तः कालस्तैषः, `प्राग्दीव्यतोऽण्' (4.1.83)। `सूर्यतिष्य' (6.4.149) इति यलोपः। नैषतैटावणन्तौ। तेनान्तोदात्तो। `रट परिभाषणे' (धा.पा.297)--अस्मादच्। रलयोरेकत्वाद्रेफस्य लकारः। लटः। `लुट विलोडने' (धा.पा.314)--अस्मात् पचाद्यच्। तेन लटलोटावप्यन्तोदात्तौ। `शवयह्वजिह्वाग्रीवाप्वामीवाः' (द.उ.8.128) इति जिह्वान्तोदात्ता निपत्यते। `इण्सिञ्जि' (द.उ.5.35) [इण्सिञ्--द.उ.पं.उ. (3.2)] इत्यधिकृत्य `कृषेर्वर्णे (द.उ.5.37) इति कृषेर्नक्, टाप् सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः (8.2.5)। तेन कृष्णाशब्दोऽन्तोदात्तः। `अध्न्यादयश्च' (द.उ.8.14) इति कन्याशब्दोऽन्तस्वरितो निपात्यते। `गुड घनत्वे' [`गुड रक्षायाम्'--धा.पा.] (धा.पा.1370)--अस्मादिगपधलक्षणः(3.1.135) कः। तेन गुडोऽन्तोदात्तः। कल्पवाहशब्दौ वृषादित्वादन्तोदात्तौ।।
195. सोरवक्षेपणे। (6.2.195)
`सुस्थण्डिलः' इति। स्थानं स्थिरमस्मिन्निति स्थण्डिलम्। पृषोदरादित्वादाद्युदात्तः। `सुस्फिगाभ्याम्' इति। स्फिगशब्दः आद्युदात्तः। `सुप्रत्यवसितः' इति। प्रत्यवसितशब्दस्थाथादि(6.2.144)स्वरेणान्तोदात्तः। ननु च सुशब्देनापि सह समासे कृते थाथादिस्वरेणैवान्तोदात्तत्वं भविष्यति, तत् किमर्थमुदाहृतम्? एवं मन्यते--सत्यन्यार्थेऽस्यारम्भे परत्वादनेनैवात्राप्यन्तोदात्तत्वं युक्तमिति। यदि सुशब्दोऽत्र पूजायामेव वर्तते, अवक्षेपणं तर्हि कस्यार्थः? इत्याह--`वाक्यार्थस्त्ववक्षेपणम्' इति। अत्रैव कारणमाह--`असूण्या तथाभिधानात्' इति। इह खल्विदानीं `अस्स्व सुस्थण्डिलः' इत्येवम्प्रकारं वाक्यं यस्मादसूयया प्रयुज्यते, तस्माद्वाक्यार्थस्यैवावक्षेपणम्। `सुतृणेषु' इति। अत्र गुणोद्भावनेच्छयाभिधानम्, नासूयया। तेनावक्षेपणं नास्ति, पूजैव तु विद्यते।।
196. विभाषोत्पुच्छे। (6.2.196)
`उत्पुच्छः' इति। पुच्छशब्दः `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्तः।
`सेयमुभयत्र विभाषा भवति' इति। यदोत्पुच्छशब्दोऽच्प्रत्ययान्तो न भवति तदा समासान्तोदात्तत्वम्। यदा समासान्तोदात्तत्वापवादः `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरः, तदा तेनाप्राप्तेस्मिन्नन्तोदात्तत्वे विभाषेयम्। यदा तु पुच्छमुदस्यतीत्यस्यार्थस्य विवक्षायां `पुच्छभाण्डचीवराण्णिङ्' (3.1.20) ति णिङं विदाय तदन्तादुत्पुच्छयतेः पचाद्यचि कृते उत्पुच्छ इत्येतच्छपब्दरूपं भवति, तदा थाथादिस्वरेण (6.2.144) नित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः। तेन प्राप्ते विभाषेयम्।
`उदस्तं पुच्छमस्योत्पच्छः' इति। बहुव्रीहिप्रकृतिस्वर एव भवति।।
197. द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ। (6.2.197)
`द्वित्रिभ्याम्' इति। दिग्योगलक्षणा(2.3.29)पञ्चमी। `पाद्दन्मूर्धसु' इति। `यस्य च भावेन भावलक्षणम्' (2.3.37) इति भावलक्षणा सप्तमी। बहुव्रीहीः कार्यी। अत आह--`द्वि त्रि इत्येताभ्याम्' इत्यादि। `द्विपात्, त्रिपात्' इति। `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138), `संख्यासुपूर्वस्य' (5.4.140) इत्यकारलोपः। पादशब्दो घञन्तत्वादाद्युदात्त इति पाच्छब्दश्चाद्युदात्तः एव भवति। `द्विदन्' इति। `वयसि दन्तस्य' (5.4.141) इति दत्रादेशः। दन्तशब्द आद्युदात्त इत्युक्तम्। तेन दत्रादेशोऽपि स्थानिवद्भावेनाद्युदात्त एव भवति। `द्विमूर्धा' इति। मूर्धशब्दः `श्वन्नुक्षन्पूषन्प्लीहन्' (द.उ.6.55) इत्यादिना रन्प्रत्ययान्तो निपात्यते। तेनाद्युदात्तः। `मूर्धन्' इत्यादि। `द्वित्रिभ्यां ष मूर्ध्नः' (5.2.115) [`षो' इति मु. पाठः] इति षः समासान्तः प्राप्नोति, स न कृतः। तेनात्र नान्त एव मूर्धशब्दः। किं पुनः कारणमकृतसमासान्त एव मूर्धञ्शब्द उपात्तः? इत्यात आह--`तस्य' इत्यादि। यदि कृतसमासान्त उपादीयेत तदा सत्येव समासान्तेऽन्तोवात्तत्वं स्यात्, असति न स्यात्। तस्मादसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यादित्येतत् प्रयोजनमकृतसमासान्तनिर्देशस्य। ननुच नित्यमेव समासन्तेन भवितव्यम्, तत् कुतस्तस्यासत्त्वम्? इत्यत आह--`एतदेव' इत्यादि। यदिदमस्य प्रयोजनस्य सम्पादनारथमकृतसमासान्तस्य मूर्धन्शब्दस्योपादनाम्, एतदेव ज्ञापकम्--अनित्यः समासान्तो भवतीति। तेन द्विमूर्धत्यादिप्रयोग उपपन्नो भवति। यदि तर्ह्यकृतसमासान्त इह मूर्धन्शब्द उपात्तः, एवं सति यदा समासान्तः क्रियते तदान्तोदात्तेन न भवितव्यम्। कृतसमासान्तस्य शब्दान्तरत्वादित्यत आह--`यद्यपि' इत्यादि। इह हि बहुव्रीहिः कार्यी, तदेकदेशित्वं च समासान्तस्य। एकदेशोऽस्यासतीत्येकदेशी, स बहुव्रीहिरेकदेशी यसय समासान्तस्य स तदेकदेशी, तद्भावसतदेकदेशित्वम्। एतेन बहुव्रीह्यवयवत्वं समासान्तस्य दर्शयन् कृतसमासान्तस्य शब्दान्तरत्वं निरस्यति। तदेवं यस्मादिह बहुव्रीहिः कार्यी तदेकदेशित्वञ्च समासान्तस्य, तस्माद्यदापि समासान्तः क्रियते तदापि पक्षेऽन्तोदात्तत्वं भवत्येव। `कल्याणमूर्धा' इति। कल्याणशब्दः `नब्विषयस्य' (फि.सू.2.26) इत्याद्युदात्तः। `द्वयोर्मूर्धा' इति। अत्र नित्यमेव समासान्तोदात्तत्वं भवति।।
198. सक्थं चाक्रान्तात्। (6.2.198)
`सक्थमिति' इति। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्' (5.4.113) इत्यनेन षच् समासान्तो यस्य स सक्यिशब्दोऽत्र गृह्यते। `अक्रान्तात्' इति। क्रशब्दो अन्तो यस्य सः क्रान्तः। न क्रान्तोऽक्रान्तः। `गौरसक्यः' इति। गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदात्तः। `श्लक्ष्णसक्थः' इति। `कृत्यशूभ्यां क्स्नः' (द.उ.5.49) इति प्रकृते `श्लिषेरच्चोपधायाः' (द.उ.5.51) क्स्नप्रत्ययान्तः श्लक्ष्मशब्दः। तेनान्तोदात्तः।
`चक्रसक्थः' इति। `करोतेः किन् द्वे च' (द.उ.8.103) [`करोतेर्द्वे च'--द.उ.] इति चक्रशब्द आद्युदात्तः।।
199. परादिश्छन्दसि बहुलम्। (6.2.199)
`परशब्देनात्र सक्थशब्द एव गह्यते' इति। प्रत्यसत्तेः, स हि पूर्वसूत्रे सन्निहितत्वात् प्रत्यासन्नः। यद्येवुम्, परशब्दग्रहणमनर्थकम्, सक्थशब्द एव ह्यत्रानुवर्त्तिष्यते? नैतदस्ति; बहुव्रीहिग्रहणप्यत्रानुवर्तत इति तस्याप्याद्युदात्तत्वमाशङ्क्येत। `अञ्जिसक्थम्' इति। अञ्जिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। अथाप्यञ्जशब्दाग्मत्वर्थ इनिः क्रियते, एवमप्यन्तोदात्त एव। `लोमशसक्थम्' इति। `लोमादिपामादिपिच्छादिभ्यः शनेलचः' (5.2.100) इति शप्रत्ययान्तत्त्वाल्लोमशशब्दोऽन्तोदात्तः। `ऋजुबाहुः' इति। `कुर्भ्रश्च' (द.उ.1.107) इत्यधिकृत्य `अर्जिदशिकम्यमिपशिबाधामृजिपसितुग्धुग्दींर्घहकाराश्च' (द.उ.1.112) इति कुप्रत्ययान्तौ ऋजुबाहुशब्दौ। तेनान्तोदात्तौ। `वाक्पतिश्चित्पत्तिः' इति। षष्ठीसमासावेतौ। अत्रोत्तरपदमाद्युदात्तं भवति; बहुलग्रहणात्। विभाषाग्रहणे हि प्रकृते बहुलग्रहणेन यत् सिध्यति तद्दर्शनार्थमुपन्यस्तः।
`व्यत्ययो बहुलं ततः' इति। यत एवं बहुलग्रहणेनानेन कार्य सिध्यति, तेन व्यत्ययो बहुलं भवति। ननु च पूर्वमेव स्वराणां व्यत्ययो विहितः? सत्यमेतत्; तस्यैव तु प्रपञ्चोऽयम्। `परादिरुदाहृतः' इति। वाक्पतिश्चित्पत्तिरिति। अत्र च परग्रहणेनोत्तरपदमुक्तम्। `अन्तोदात्तप्रकरणे' इति। `अन्तः' `थाथघञ्क्ताजबित्रकाणाम्' (6.2.44) इत्यादौ। `पूर्वपदान्तोदात्तप्रकरणे' इति। `अन्तः' (6.2.92), `सर्वं गुणकार्त्सन्ये (6.2.93) इत्यादौ।
`पूर्वपदाद्युदात्तप्रकरणे' इति। आदिरुदात्तः--`सप्तमीहारिणौ धम्यऽहरणे' (6.2.65) इत्यादौ। `एवमादि सर्व संगृहीतं भवति' इति। बहुलग्रहणेन। यतस्तेन विभाषाग्रहणे प्रकृते बहुलग्रहणं कृतमित्यभिप्रायः। त्रिचक्रादीनां पूर्वमेव पूर्वोत्तरपदस्वर उक्त इति पुनरिह नोच्यते।।
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां षष्ठाध्यायस्य
द्वितीयः पादः।।
- - -