काशिकाविवरणपञ्जिका/षष्ठोऽध्यायः/प्रथमः पादः

काशिकाविवरणपञ्जिका
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

षष्ठोऽध्यायः

प्रथमः पादः

1. एकाचो द्वे प्रथमस्य। (6.1.1)
इह केचित्‌ स्वार्था एव विधयो भवन्ति, न पदार्थाः, तद्यथा--`अण्कुटिलिकायाः' (4.4.18) इति कुटिलिकाशब्दादण्‌ विधीयमानः स्वार्थो भवति। केचित्‌ पुनः स्वार्थाः, परार्थश्च तद्यथा--`पदरुजविशस्पृशो घञ्‌' (3.3.16) इति पदादिभ्यो घञ्‌ विधीयमानः स्वार्थो भवति, स्वरितलिङ्गासङ्गादुत्तरेषु योगेष्वनुवर्त्तमानः परार्थश्च। केचित्‌ पुनः परार्था एवाधिकारा भवन्ति, न स्वार्थाः, यथा--`समर्थानां प्रथमाद्वा' (4.1.82) इति; तत्‌ किमयं स्वार्थ एव? अथोभयार्थ एवाधिकारः? उत परार्थ एवेति सन्देहापनयनाय परार्थतामेवास्य दर्शयितुमाह--`एकाच इति च' इत्यादि। एतद्ग्रहणकं वाक्यम्‌, अस्य च `इत उत्तरम्‌' इत्यादि। विवरणम्‌। सिंहावलोकितन्यायेन पूर्वत्राप्यधिकाराणामनुवृत्तिर्भवति, अतस्तन्निवृत्तिरस्वरितत्वाद्विज्ञेया। कस्य पुनः `एकाचो द्वे भवतः' इत्येवं तद्वेदितव्यम्‌? इत्यत यद्येषा धातोरेव्‌ समानाधिकरणा षष्ठी स्यात्‌, तदा पचादीनामेव द्विर्वचनं स्यात्‌, न जागर्त्त्यादीनाम्‌, न हि तत्रैकाच इति मन्यमानो नैषैकाच इति सामानाधिकरणा षष्ठी--धातोरेकाच इति, अपि त्ववयवयोगा--धातोर्योऽवयव एकाच इति दर्शयितुमाह--`धातोरवयवस्य' इति। `जजागार' इत्यत्र जागित्येतद्‌द्विरुच्यतदे, `पपाच' इत्यत्र पच्छब्दः; पूर्वत्र `अचो ञ्णिति' (7.2.115) इति वृद्धिः, उत्तरत्र `अत उपधायाः' (7.2.116) इति। `इयाय' इति। `इण्‌ गर्तौ (धा.पा.1045) `अचो ञ्णिति'(7.2.115) इति वृद्धौ कृतायां `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावादिकारो द्विरुच्यते, आयादेशः, `अभ्यासस्यासवर्णो' (6.4.78) इतीयङ्‌। `आर इति। `ऋ गतौ' (धा. पा. 1098) ऋ इत्येतस्य द्विर्वचनम्‌, `उरत्‌' (7.4.66) इत्यत्त्वम्‌ रपरत्वम्‌, `अत आदेः' (7.4.70) इति दीर्घः, सर्वर्णदीर्घत्वञ्च।
एकाच इति तत्पुरुषोऽयं वा स्यात्‌ एकश्चासावच्चेति एकाच्‌, बहुव्रीहिर्वा एकोऽञ्‌ यस्येति? तत्र यद्ययं तत्पुरुषः स्यात्‌, इणादीनामेव द्विरुक्तिः स्यात्‌--इयाय आरेत्येवमादौ; पचादीनां तु पपाचेत्यादौ न स्यात्‌, तेषामज्झल्समुदायात्मकत्वादित्येतन्मनसि कृत्वाऽऽह--`एकाच इति बहुव्रीहनिर्देशोऽयम्‌' इति। बहुव्रीहिणा विवक्षितस्यार्थस्य निर्देशः=कथनम्‌। बहुव्रीहेर्निर्देशः=कथनम्‌, उच्चारणं वा बहुव्रीहिनिर्देशः। कुतः पुनरेतदवसितम्‌--बहुव्रीहेनिर्देशोऽयमिति? `हलादिः शेषः', (7.4.60) `शर्पूर्वाः खयः' (7.4.61) इत्येवमादिलिङ्गात्‌। ननु च तत्पुरुषस्यापि लिङ्गमस्ति--`दीर्घ इणः किति' (7.4.69) इतीणोऽभ्यासस्य दीर्घविधानम्‌? नैतदस्‌ति; बहुव्रीहावपि ह्यस्मिन्‌ व्यपदेशिवद्भावादिणो द्विर्वचनेऽभ्यासस्य दीर्घविधानमुपपद्यत एव, न तु तत्पुरुषेऽस्मिन्‌ हलादिशेषादिकार्यमुपपद्यतेः पचादीनामज्झल्समुदायानां द्विर्वचनानुपपत्तेः। तस्माद्बहुव्रीहेरेव लिङ्गमस्ति, न तत्पुरुषस्येति बहुव्रीहिनिर्देश एवायम्‌। यद्येवम्‌; बहुव्रीहेरेवान्यपदार्थप्रधानत्वादुपलक्षणविनिर्मुक्तस्य शुद्धस्यैवान्यार्थस्य बहुव्रीहिणाभिधानादचावयवेन य उपलक्षितोऽन्यपदार्थस्तस्यैवानच्कस्य द्विर्वचनं प्राप्नोति, न तूपलक्षणभूतस्यापि। न ह्युपलक्षणं कार्योपयोगि भवति। तथा हि यथा चित्रगुरानीयतामित्युक्ते यस्य चित्रागावः सन्ति स एव आनीयते, न तूपलक्षमभूता गावोऽपि। अत एव तस्य निरासाय तद्गुणसंविज्ञानोऽयं बहुव्रीहिरित दर्शयन्नाह--`तत्र' इत्यादि। `समुदायः समासार्थः' इति। सह तेनोपलक्षणभूतेनाचावयवेन समुदाय एवान्यपदार्थ इत्यर्थः। `उभ्यन्तरश्च' इति। तदन्तर्भूत इत्यर्थः। चशब्दोऽवधारणे। अभ्यन्तर एवेत्यर्थः। इतिकरणो हेतौ। यस्मात्‌ समुदाये समासार्थेऽवयवोऽभ्यन्तरो भवति, तस्मात्‌ साच्कस्यैव द्विर्वचनं भवति। लोकेऽपि क्वचिदुपलक्षणस्य समासेऽन्तर्भावात्‌ कार्योपयोगित्वं दृष्टमेव, यथा शुकलवाससमानयेत्युक्ते सहैव शुक्लेन वाससानीयते। पचित्यत्र यनैवाचा समुदाय एकाच्‌ तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्चेति, ततश्वावयवानिमपि प्रत्येकं द्विर्वचनं प्राप्नोति। यथा यनैव हस्तेनावयवेन बाहुर्हस्तवान्‌ भवति, तेनैव देवदत्तोऽपि हस्तवान्‌ भवति; तथा पचतौ घातौ येनैवाकारेम पच्छब्दः समुदाय एकाच्‌ तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्तेति। ततश्चावयवानमपि प्रत्येकं द्विर्वचनं प्राप्नोत्येव। द्विर्वचनञ्च कायिण एकाचः, सामान्येन निर्देशात्‌। एवञ्च समुदायस्य तदवयवनाञ्चैकाचां पृथग्द्विर्वचने कृतेऽन्ष्यटं रूपं स्यात्‌, अत एतद्द्वेष्यमपाकर्तुमाह--`तत्र' इत्यादि। तेषु समुदायेष्वेकाक्षु मध्ये पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि? समुदायैकाजेव। अवयवैकाजिति कर्मधारयः। `समुदायैकाच्‌' इति। अयमपि कर्मधारय एव।
कुतः पुनरयं सामान्याभिधाने विशेषो लभ्यते? इत्यत आह--`तथा हि' इत्यादि। यद्यपि समुदायीऽवयवश्चैकाच्‌, तथापि यस्य द्विर्वचने कृते सर्वेषामनुग्रहो भवति तस्यैव द्विर्वचनं युक्तम्‌। एवं शास्त्रहानिनं भवति; सर्वेषामेव शास्त्रविहितकार्यस्य निष्पत्तेः। अयमेवानुग्रहो या शास्त्रविहितकार्यस्य निष्पत्तिः। समुदायस्यैव द्विर्वचने कृते सर्वेषामनुग्रहो भवति। यथा वृक्षः प्रचलन्‌ सहावयवैः प्रचलति, तथैकयैव शास्त्रप्रवृत्त्या समुदायो द्विरुच्यमानः सहावयवैद्विरुच्यते, न हि विनावयवैः समुदायो द्विर्वक्तुं शक्यते; तस्य तदात्मकत्वात्। अवयवानां तु द्विर्वचनं नैकया प्रवृत्त्या सर्वेषां कर्त्तु शक्यते। न तद्‌द्विरुक्तौ सर्वेषामनुग्रहो भवति। कथम्‌? सर्वेषां हि तेषामेकाज्व्यपदेश एकोऽजिति हेतुः; तत्र यदा येनाचैकोऽवयव एकाजिति व्यपदिष्यते, तदा तेनैव तस्याक्षिप्तत्वान्न शक्यतेऽपर एकाजिति व्यपदेष्टुम्‌। ततश्चैकस्य द्विर्वचने विधित्सिते तदेदानीं तेनाचा य एकगाच्‌ कश्चिदवयवस्तस्यैव द्विर्वचनं स्यात्‌, नेतरस्य; अनच्कत्वात्‌। अत्रैतत्‌ स्यात्‌ "एकाचः' (6.1.1) इति सर्वेषां पष्ठ्या निर्दिष्टत्वात्‌ सर्वेषामेव तेषां द्विर्वचनं कर्तव्यम्‌, न च तद्युगपत्‌ सम्भवति, अत एकस्य तावत्‌ क्रियते। एकस्मिन्‌ कृते पुनः प्रवृत्त्यन्तरेणापरस्यापि करिष्यत" इति? एतच्च न; यस्य ह्यवयवस्य पूर्वं द्विर्वचनं कृतं तेनैव सहाचो द्विरुक्तत्वान्न युज्यते पुनस्तस्यावयवान्तरेम द्विर्वचनं कर्त्तुम्‌। अकृतद्विरुक्तस्य हि द्विर्वचनं क्रियते, न द्विरुक्तस्य; अन्यथा ह्यनवस्था स्यात्‌। `अनभ्यासस्य' (6.1.8) इति वचनाच्चायुक्तमेवैकस्मिन्नवयवे द्विरुक्तेऽपरस्य द्विर्वचनं कर्तुम्‌। अतो नावयवद्विर्वचने सर्वेषामनुग्रहः सम्भवति। तत्र यसय द्विर्वचनं न सम्भवति तस्य शास्त्रहानिः स्यात्‌। तदयुक्तमवयवानां प्रत्येकं द्विर्वचनम्‌।
अथैषां युगपदवयवानां द्विर्वचनं न सम्भवतीति प्रयोगान्तरे पर्यायेण करिष्यते पूर्वोक्तदोषपरिहारार्थम्‌? एवमपि यदा पचेरच्छब्दस्य द्विर्वचनं स्यात्‌, तदा पपाचेत्येवमादि न सिध्येत्‌। किञ्च `णिजिर्‌ शौचपोषणयोः' (धा.पा.1093) इत्यस्त्राल्लट्‌, झि, शप्‌, तस्य जुहोत्यादित्वात्‌ श्लुः, `श्लौ' (6.1.10) इति द्वर्वचनम्‌। तत्र यदि निशब्दमात्रस्य द्विर्वचनं क्रियते तदा `णिजां त्रयाणाम्‌' (7.4.75) इति गुणः। अत्रेदानीम्‌ `अदभ्यस्तात्‌' (7.1.4) इत्यदादेश इष्यते--तेनिजतीति रूपं यथा स्यादित्येवमर्थम्‌, स च न प्राप्नोति; जकारेण व्यवहितत्वात्‌। न हि जकारस्याभ्यस्तसंज्ञा, किं तर्हि? निशब्दस्य; द्विरुक्तत्वात्‌, जकारस्य चाद्विरुक्तत्वात्‌। अनेनिजुरिति--अत्र लङादेशस्य झेः `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति जुस्‌ न प्राप्नोति; पूर्वस्मादेव हेतोः। नेनिजदित्यत्र `नाभ्यस्ताच्छतुः' (7.1.78) इति नुम्प्रतिषधो न स्यात्‌, अत एव हेतोः। न च शक्यते वक्तुम्‌--वचनसामर्थ्याद्व्यवधानेऽपि भविष्यतीति; यदा समुदायस्य द्विर्वचनं तदा वचनस्य सावकाशत्वात्‌। यदा त्विकारसहितस्य जकारसय द्विर्वचनं तदा नेनिजतीत्यादिकं रूपमेव न स्यात्‌। तस्मादयुक्तमवयवानां द्विर्वचनम्‌। अतः समुदाय एव द्विर्वक्तव्यः।
अथ पपाचेत्यत्र कथं द्विर्वचनम्‌, यावता `एकाचो द्वे प्रथमस्य (6.1.1) इत्युच्यते, न चात्रैकाचः प्रथमव्यपदेशोऽस्ति, प्रथमशब्दो ह्यप्रथमापेक्षो भवति, सम्बन्धिशब्दत्वात्‌; सत्स्वनेकेषु यस्मात्‌ पूर्वो नास्ति स प्रथमः, यः पुनरेक एव नासौ प्रथमव्यपदेशं लभते, एकश्चात्रैकाच्‌। तेनात्र द्विर्वचनं न स्यात्‌, जजागारेत्यादावेव स्यात्‌? इयाय, आरेत्यत्रापि कथं द्विर्वचनम्‌, यावतैकाचस्तदुच्यते, न चैकाच्त्वमस्ति, अज्व्यतिरिक्तस्यानच एकाज्व्यपदेशहेतोरभावात्‌? इत्यत आह--`पपाचेत्यत्र' इत्यादि। एकसंख्याव्यवच्छिन्नस्वरसम्बनधहेतुको व्यपदेशः, स यस्यास्ति स व्यपदेशी। जागर्त्त्यादिषु धातुषु जागित्येवमादिः। `तेन तुल्यं वर्त्तते'(5.1.115) इति व्यपदेशिवत्‌, तस्य भावो व्यपदेशिवद्भावः। एकाच्त्वमपीत्यपिशब्दादद्वितीयत्वमपीति। ततोऽनेन जजागारेत्यत्र यथा वास्तवे प्रथमत्वे जाग्‌ इत्येतस्य प्रथमस्यैकाचो द्विर्वचनं भवति, तथा परमार्थतो सत्यपि प्रथमत्वे प्रथमस्यैकाचो द्विर्वचनं भवति व्यपदेशिवद्भावेन पपाचेत्यत्र पच्छब्दस्य। इयाय, आरेत्यत्राप्यसति वास्तव एकाच्त्वे द्वितीयत्वे च व्यपदेशिवद्भावेन द्विर्वचनं भवति; यथा--अटिटिषतीत्यत्र वस्तुत एवैकाचो द्वितीयस्य टिशब्दस्येति।
न चै तद्वक्तव्यम्‌--`यस्मादप्रथमस्यापि पच्‌ इत्येवम्प्रकारस्य व्यपदेशिवद्भावेन द्विर्वचनं भवति' इति। अत्र `लिट्यभ्यासस्योभयेषाम्‌' (6.1.17) इति वचनं ज्ञापकम्‌, असत्यपि वास्तव एकाच्त्वे द्वितीयत्वे च पुनर्व्यपदेशिवद्भावेन चेण्प्रभृतनां द्विर्वचनं भवतति। अत्राभ्यासस्य दीर्घविधानार्थम्‌ `दीर्घ इणः किति' (7.4.69) इति वचनं ज्ञापकम्। इह `आदशभ्यः संख्याः संख्येये वर्त्तन्ते न तु संख्यानमात्रे' इति द्विशब्दोऽत्र संख्येये वर्त्तते। तच्च संख्येयं शब्दरूपं वा स्यात्‌? उच्चारणं वा? तत्र यदि शब्दरूपं संख्येयं स्यात्‌ तदा `द्वे' इत्यनेन द्विशब्दरूपे भाव्यमानतया निर्दिश्येते इति। अत एकाच इत्यस्य च स्चाने योगलक्षणः सम्बन्धो भवति, अतः `स्थाने द्विर्वचनम्‌' इत्येष पक्षो भवति। तदैकाच इति स्थानषष्ठी जायते।
अथ पुनरुच्चारणं सख्येयं तदा स्थान्यादेशसम्बन्धो न भवति। उच्चारणं नाम शब्दानुगतो धर्मः। यद्यसावदेशो विदीयते तदा निवृत्तिधर्मा स्थानी भवतीति शपब्दस्य स्थानिनो निवृत्त्या भवितव्यम्‌, ततश्चोच्चारणमपि न स्यात्‌; तस्य तद्धर्मत्वात्‌। तस्मादुच्चारणे संख्येये स्थाने द्विर्वचनं न सम्भवतीति `द्विष्प्रयोगो द्विर्वचनम्' इत्येष पक्षो भवतीति। तदैकाच इति `कर्त्तृकर्मणोः कृति' (2.3.65) इति कर्मणि षष्ठी, सा ह्यैकाजुच्चारणक्रियया व्याप्तुमिष्टतमत्वात्‌ कर्म भवति। तत्र यदि `स्थाने द्विर्वचनम्‌' इत्येष पक्ष आश्रीयेत, तदा जिघांसतीत हन्तः कुत्वं न स्यात्‌। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत आश्रीयेत, तदा जीघांसतीति हन्तेः कुत्वं न स्यात्‌। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत एतन्नास्ति। अयं प्रत्ययः इयं प्रकृतिरिति सन्दिग्धत्वात्‌ प्रकृतिप्रत्ययस्य हन्तिर्नष्टो भवतीति `अभ्यासाच्च' (7.3.55) इति कुत्वं हन्तिहकारस्य न स्यादितीमं स्थानेद्विर्वचनपक्षे दोषं दृष्ट्वा द्विष्प्रयोगो द्विर्वचनमिति पक्षमाश्रित्याह--`द्विष्प्रयोगश्च' इत्यादि। चकारोऽवधारणे। द्विष्प्रयोग एवेत्यर्थः। न स्थाने द्विष्प्रयोग इत्यर्थः। अथ द्विष्प्रयोगद्विर्वचने कथमयं दोषो न भवति? इत्याह--`आवृत्तिसंख्या हि' इत्यादि। पुनः पुनरुच्चारणम्‌=आवृत्तिः। तत्‌ पुनः संख्याव्यवस्थितस्यैव धातोर्विधीयते। `तेन' इत्यादि। यस्मादावृत्तिः सख्याव्यवस्थितस्यैव धातोर्विधीयते, तेन स एव शब्दो व्यवस्थित एव द्विरुच्चार्यते, न तु तस्य स्ताने शब्दान्तरं विधीयत इति कुतः पुनः पूर्वोक्तदोषाव सरप्रसङ्गः!
यदि तर्ही द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आक्षीयते, एवं च सति `वस्वेकाजाद्घसाम्‌' (7.2.67) इत्यत्रादिवान्‌, आशिवान्‌, पेचिवान्‌, शेकिवान्‌, इत्युदाहृत्य यद्वक्ष्यति--`धात्वभ्यासयोरेकादेशे कृत एवाभ्यासलोपयोः कृतयोः कृतद्विर्वचना एत एकाचो न भवन्ति' इति, तन्न युज्यते; अकृतेऽपि धात्वभ्यासयोरेकादेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचनानामष्येषामेकाच्त्वात्‌। स्थाने द्विर्वचने हि शब्दान्तरमेवा नेकाजादिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्‌, न तु द्विष्प्रयोगपक्षे। तत्र हि स एव शब्दो द्विरुच्चार्यते। न चासौ शतकृत्वोऽप्युच्चार्यमाम एकाच्त्वं जहाति, किं पुनर्द्विरुच्यमानः।
यदपि नियमस्य व्यवच्छेद्यचं दर्शयितुं बिभिद्वानित्यादि तत्रोपन्यसिष्यति, तदप्ययुक्तमेव; भिविप्रभृतीनामेव यथोक्तादेव हेतोः कृतद्विर्वचनानामप्येकाच्त्वात्‌। यदप्याद्ग्रहणमनेकाजर्थमित्यभिधास्यति, तदप्ययुक्तमेव; तत एव हेतोराकारान्तानां कृतद्विर्वचनानामप्यनेकाच्त्वानुपपत्तेः। तस्मात्‌ स्थाने कृतद्विर्वचनपक्षोऽप्यङ्गीकर्त्तव्यः। एवं तर्ह्यन्यथा व्याख्यायते। इह पक्षद्वयं पूर्वोक्तं, सम्भवति। तत्र किं द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आश्रीयते? उत स्थाने द्विर्वचनपक्षः?--इति प्रश्नावसर इदमाह--`द्विष्प्रयोगश्च द्विर्वचनम्‌' इति। चकारः स्थाने द्विर्वचनमित्यमुमर्थं द्योतयति। ननु च `षष्ठी स्थानेयोगा' (1.1.49) इति वचनात्‌ स्थाने द्विर्वचनपक्षेमात्र [द्विर्वचनपक्षे नात्र--मुद्रितः पाठः] भवितुं युक्तम्‌, तत्‌ कथं द्विष्प्रयोगपक्षोऽप्युपपद्यत इत्यत आह--`आवृत्तिसंख्या हि' इत्यादि। यदि शब्दान्तरं तस्य स्थाने विधीयते तदा स्थान्यादेशसम्बन्धे प्रतिस्थाने द्विर्वचनमित्येष पक्षो जायत इत्यक्तम्‌। यदा त्वावृत्तिसंख्या विधीयते तदेतरः पक्षो भवतीति। एदपि प्रतिपादितं प्राक्‌। तस्मात्‌ द्विष्प्रयोगपक्षो यदाङ्गीकर्तुमिष्यते, तदावृत्तिसंख्या द्वे इति विधीयते, तेन स एव शब्दो द्विरुच्चार्यते, न तु शब्दान्तरं तस्य स्थाने विदीयते। तस्माद्‌द्विष्प्रयोगद्विर्वचनपक्षोऽप्यङ्गीकर्त्तव्यः।
अथ कथं स्थाने द्विर्वचनमित्येषोऽपि पक्ष आश्रीयते, यावता जिघांसतीत्यत्र हन्तेर्हकारस्य कुत्वं न प्राप्नोतीत्युक्तम्‌? नैष दोषः; उच्यते चेदम्‌--अब्यासाच्च (7.3.55) हन्तेः कुत्वं भवतीति। न च तस्य स्थाने शब्दान्तर एवादेशे कृते हन्तिरस्ति। तत्र वचनसामर्थ्यादादेशैकदेशे हन्तिप्रतिरूपके हन्तिशब्दो विज्ञास्यते।
अन्ये त्वनयोः पक्षयोर्दोषा य आशङ्क्यन्ते ते भाष्य एवोत्क्षिप्य प्रतिक्षिप्ताः। इह त्वतिविस्तरग्रन्थभयान्न लिख्यन्ते।।

2. अजादेर्द्वितीयस्य। (6.1.2)
`प्रथमद्विर्वचनापवादोऽयम्‌' इति। ननु च `एकाचो द्वे प्रथमस्य' (6.1.1) इत्यनेन प्रथमस्यैकाचो द्विर्वचनं विधीयते, `अजादेर्द्वितीयस्य' (6.1.2) इत्यनेन तु द्वितीयस्य; तत्‌ कथमन्यस्योच्यमानमिदमन्यस्य बाधकं स्यात्‌? सति खलु सम्भवे बाधकं भवति, अस्ति च सम्भवो यदुभयं स्यात्‌। स्यादेतत्‌--घातोरित्येषा षष्ठी, तसया द्वितीयेनैकाचा प्रथमेन च सम्बन्धो नोपपद्यते, अतो नास्त्युभयसम्भव इति? एतच्च नास्ति; अन्यद्धि वाक्यं प्रथमद्विर्वचनस्य विधायकम्‌, अन्यचच द्वितीयद्विर्वचनस्य। तत्र वाक्यबेदे च सति किमिति सम्बन्धो नोपपद्यते, तस्मात्‌ कृतेऽपि द्वितीयद्विर्वचने प्रथमद्विर्वचनं सम्भवत्येवेत्युक्तं बाधनम्‌? नैष दोषः; इह द्वीपम्‌, अन्तरीपमित्यत्र `द्व्यन्तरुपसर्गेभ्योऽप ईत्‌' (6.3.97) इतीत्त्वम्‌, `अलोऽन्त्यस्य' (1.1.52) इत्यनैनान्तस्यालः प्राप्तम्‌ `आदेः परस्य' (1.1.54) इत्यनेनादेर्विधीयते, तत्र यथा सत्यपि सम्भवेऽनन्त्यविकारोन्त्यविकारं बाधते, तथा द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते। यदि तर्हि प्रथमस्यैकाचो द्विर्वचनमनेन बाध्यते, व्यञ्जनस्यापि प्रथमद्विवचनसम्बन्धिनो द्विर्वचनं बाध्येत। तद्यथाभूतस्यैव प्रसङ्गस्तथाभूतस्यैव द्विर्वचननिवृत्तिर्भवति। किम्भूतस्य च प्रथमद्विर्वचनस्य प्रसङ्गः? सव्यञ्जनस्य। तत्र यथा प्रथमस्यैकाचो द्विर्वचनं न भवति, एवमेकाज्व्यपदेशिनो व्यञ्जनस्यापि न स्यात्‌? नैष दोषः; यदयं `न न्द्राः संयोगादयः' (6.1.3) इति प्रतिषेधं शास्ति, तज्ज्ञापयति--व्यञ्जनस्य द्विर्वचननिवृत्तिर्न भवति। अन्यता हि नदराणां द्विर्वचनप्रतिषेधोऽनर्थकः स्यात्‌, प्राप्त्यभावात्‌।
`अटिटिषति; अशिशिषति' इति। अटेरशेश्च सनीटि कृते टिष्शबदः, शिष्शब्दश्च द्विरुच्यते। `अरिरिषति' इति अर्त्तेः सन्निङ्गुणरपरत्वेषु कृतेषु रिष्शब्दो द्विरुच्यते। `स्थानिवद्भावः प्राप्नोति' इति। `सन्यङोः' (6.1.9) इत्यनेन सन्नन्तस्य द्विर्वचनमुच्यते, इट्‌ च सम्भक्तः। तस्मादसौ द्विर्वचनस्य निमित्तमित्यभिप्रायः। स्थानिवद्बावे च सति रेफरहितस्येषो द्विर्वचने कृते सवर्णदीर्घत्वे चारीषतीत्यनिष्टं रूपं स्यात्‌।
`कार्यी' इति। द्विरुक्तिरेव कार्यम्‌, तदस्यास्तीति कार्यी। स्यादेतत्‌--यद्यप्यसौ कार्यी तथापि कार्ये। स्यादेतत्‌--यद्यप्यसौ कार्यी तथापि कार्यं प्रति निमित्तमेवेत्यादह--`न च' इत्यादि। कथं पुनर्ज्ञायते एतत्‌ कार्यी निमित्तत्वेनाश्रीयते इति? अत आह--`तथा हि' इत्यादि। तथा हीति यस्मादित्यर्थे। इतिकरणः प्रकारे। यस्मात्‌ क्ङिन्निमित्तयोः गुणवृद्ध्योः `क्ङिति च' (1.1.5) इति प्रतिषेधो विधीयमानः शयितेत्येवम्प्रकारविषये न भवति, ततो ज्ञायते--न हि कार्यी निमित्तत्वेनाश्रीयत इति। यदि ह्याश्रीयेत, तदा शीङो ङित्वात्‌ तन्निमित्ताच्च गुणवृद्ध्योः `क्ङिति च' (1.1.5) इति विधीयमानः शयितेत्यत्र गुणप्रतिषेधश्च स्यात्‌, शायक इत्यत्र वृद्धिप्रतिषेधश्च। ननु च येन विना यन्न भवति तत्‌ तस्य निमित्तम्‌, यथा--वृष्टेर्मेघः। यथा च प्रत्ययेन विना गुणवृद्धी न भवतस्तथा कार्येणापि; तत्‌ कथं शीङो गुणबुद्धिप्रतिषेधो नेह भवति? इत्यत आह--`न हि कार्यिणः' इत्यादि। अत्राश्रीयत इत्यध्याहर्यम्‌। सत्यम्‌, कार्यपि शीङ्निमितम्‌, तस्य गुणं प्रति वृद्धिं द्रष्टव्यम्‌। इतिकरणोऽनन्तरोऽस्यप्रतिविधानस्य स्वरूपं दर्शयति। कथं पुनर्ज्ञायते--न हि कार्यी निमित्तत्वेनाश्रीयत इति? `दीधीवेवीटाम्‌' गुणवृद्ध्योः `क्ङिति च' (1.1.5) इति फार्यो प्रतिषेधः सिद्ध ेवेति तयोर्गुणप्रतिषेधोऽनर्थकः स्यात्‌।
`अत्र केचिदजादेरिति कर्मधारयात्‌ पञ्चमीमिच्छन्ति' इति। `अच्चासावादिश्चेत्यजादिः, तस्मादजादेः' इति। एवं वर्णयन्तः कर्मधारयात्‌ पञ्चमीमिच्छन्ति। यदि तर्हि कर्मधारयादियं पञ्चमी तेषां द्वितीयग्रहणमनर्थकम्‌; यस्मात्‌ तृतीयस्य प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठ्यभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठ्यभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्नोतीति तन्निवृत्त्यर्थं युक्तं द्वितीयग्रहणम्‌। येषां च कर्मधारयादियं पञ्चम्यभिमता तेषां द्वितीय ग्रहणमनर्थकम्‌; `तस्मादित्युत्तरस्य' (1.1.67) इत्यनेनानन्तरस्यैव द्वितीयस्य भविष्यति, न तृतीयस्य, व्यवहितत्वात्‌? इत्यत आह--तेषाम्‌' इत्यादि।।

3. न न्द्राः संयोगादयः। (6.1.3)
`तदन्तर्भावात्‌' इति। अवयवानां समुदायाभ्यन्तरत्वात्‌ तदन्तभविः। `अवयवभूताः' इति। आदिशब्दस्य नियतदेशावयववाचित्वाद्विशिष्टदेशावयवभूता इत्येषोऽर्थो वेदितव्यः। `अन्दिविषति' इति। `उन्दी क्लेदने', (धा.प.1457) सनीट च कृते दिष्शब्दस्य द्विर्वचनम्‌। `अड्डिडिषति' इति। `अद्ड अभियोगे (धा.पा.348) इत्यत्र यः संयोगः स दकारादिः, तस्य ष्टुत्वेन दकारस्य डकारः, ष्टुत्वञ्च द्विर्वचनेऽसिद्धम्‌, तेन सनीटि कृते विष्शब्दो द्विरुच्यते ततः ष्टुत्वम्। `अर्चिचिषति' इति `अर्च पूजायाम्‌' (धा.पा.204), चिष्शब्दस्य द्विर्वचनम्‌। `ईचिक्षिषते' इति। `ईक्ष दर्शने' (धा.पा.610) सनीटि च कृते क्षिष्शब्दस्य द्विर्वचनम्‌ `हलादिः शेषः' (7.4.60), `कुहोश्चुः' (7.4.62) इति चुत्वम्‌। `प्राणिणिषति' इति। `श्वस प्राणने' (धा.पा.1069), `अन च' (धा.पा.1070) प्रपूर्वः। `दिद्रासति' इति। `द्रा कुत्सितायाङ्गतौ' (धा.पा.1054)।
`केचिदजादेः' इत्यादि। तेषां मतेनाजादेरुत्तरे ये नकारादयः संयोगादिभूतास्ते न द्विरुच्यन्त इति शूत्रार्थः। किं पुनस्तदनुवर्तनस्य प्रयोजनम्‌? इत्यत आह--`तस्य' इत्यादि। दकारस्तु द्विरुच्यत एवेति कर्मधारयपञ्चम्यन्तानुवृत्तौ हि `तस्मादित्युत्तरस्य' (1.1.67) इत्यनन्तराणामेव नकारादीनां द्विर्वचनप्रतिषेधेन भवितव्यम्‌; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्‌। दकारस्तत्र यद्यपि रेफदकारयोर्यः संयोगस्तदादिभूतः, तथापि नकारेण व्यवहितः। तस्माद्दकारोऽपि द्विरुच्यत एव। `इन्दिद्रीयिषति' इति। इन्द्रशब्दात्‌ क्वचि कृते `क्यचि च' (7.4.33) इतीत्त्वम्‌, क्यजन्तात्‌ सन्‌, इट्‌, `अतो लोपः' (6.4.48) इत्यकारलोपः। `उब्जिजिषति' इति। `उब्ज आर्जवे' (धा.पा.1303)। `यदा बकारोपध उब्जरुपदिश्यते तदायं प्रतिषेधो वक्तव्यः। दकारोपदेशे तु न वक्तव्यः `न न्द्राः' इत्यनेनैव सिद्धत्वात्‌। `बत्वं तु तदा दकारस्य विधातव्यम्‌' इति। उब्जित, उब्जिजिषतीति यथा स्यात्‌। तदपि बतद्वमकुत्वविषये विधातव्यम्‌; अन्यथाऽभ्युद्गः, समुद्ग इति न सिध्येत्‌। दकारोपधस्यैव युक्तः पाठः। बत्वमात्रं वक्तव्यम्‌? तदपि न वक्तवयम्‌; तत्र `भुजन्युब्जौ पाण्युपतापयोः' (7.3.61) इति निपातनादेव लिङ्गाव्‌ बत्वं लभ्यते। न चाभ्युद्गः, समुद्ग इत्यत्रापि प्रसज्येत, अकृत्वविषयत्वान्निपातनस्य; यत्र कुत्वं नास्ति तत्रैव बत्वं विज्ञायते, न तु कुत्वविषये।
`यकारपरस्य' इत्यादि। यकारः परो यस्मात्‌ तस्य प्रतिषेधो न स्यादित्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्र कैश्चिदेवं व्याख्यायते--बहिरङ्गो रेफः, `गुणोऽर्त्तिसंयोगाद्योः' (7.4.29) `यङि च' (7.4.30) इति गुणोऽङ्गस्य विधीयमानो यङि भवति बहिरङ्गः, तदाश्रितो रेफोऽपि बहिरह्ग एव, ततश्च सोऽन्तरङ्गे प्रतिषेऽसद्धः। तस्मात्‌ तसय द्विर्वचनप्रतिषेधो न भवतीति। यद्येवम्‌, इन्दिदिषतीति नुमोऽपि प्रतिषेधो न प्राप्नोतीति? नैष दोषः; वक्ष्यति ह्येतत्‌--नुम्विषावुपदेशिवद्वचनमिति।
नैयायिकास्त्वन्यथा वर्णयन्ति--`न न्द्राः संयोगादयः' (6.1.3) इति। तैः किमुक्तम्‌? संयोगात्‌ पूर्वे नकारादयो न द्विरुच्यन्ते स चेद्भवति यकारान्तः संयोगः' इति तेनारार्य्यत इत्यत्र संयोगस्य यकारान्तत्वात्‌ प्रतिषेधो न भवतीति । `अरार्य्यते' इति। `यङि च' (7.4.30) इति गुणे रपत्वे च र्यशब्दस्य द्विवचनम्‌, हलादिशेषः (7.4.60) `दीर्घोऽकितः' (7.4.83) इति दीर्घः। ननु चार्तेरहलादित्वाद्‌यङा न भवितव्यम्‌, स हि `धातोरेकाचः' (3.1.22) इत्यादिना हलादेरेव धातोर्विधीयते? इत्याह--`अर्त्तेः' इत्यादि।
`व्यञ्जनस्य' इति। ईर्ष्यतेर्व्यञ्जनं यदेकाच्‌ द्विर्वचनं कर्त्तव्यम्‌। तच्च व्यञ्जनं यकारः, तस्येटि कृते साच्कस्यैव द्विर्वचनं कर्त्तव्यमम्‌।
`एकाचः' इति। सनः। स हीटि कृते तृतीय एकाज्‌ भवति। तस्य द्विर्वचने कृते `सन्यतः' (7.4.79) इतीत्त्वम्‌। पूर्वं पूर्वमिणमाश्रित्य सर्वसकाराणां षत्वम्‌। `कण्डूयियिषति' इति। `असूयियिषति' इति। `कण्डूञ्‌', `असूञ्‌' इति कण्ड्वादिषु पठ्येते, ततः `कण्ड्वादिभ्यो यक्‌' (3.1.27)।
`वा नामधातूनाम्‌' इति। सुब्धातुर्नामधातुरभिधीयते। `अश्वीयियिषति' इति। अश्वशब्दात्‌ क्यजन्तात्‌ सनीटि च कृते यिष्शब्दस्य द्विर्वचनम्‌। `आशिश्वीयिषति' इति। श्वीशब्दस्य द्विर्वचनम्‌, ह्रस्वत्वम्‌, हलादिशेषः (7.4.60)।
`यथेष्टम्‌' इति। प्रथमादीनामन्यतरस्य यस्येष्यते तस्य कर्त्तव्यमिति।।

4. पूर्वोऽभ्यासः। (6.1.4)
अभ्यासशब्दोऽयमावृत्तिवचनो लोके प्रसिद्ध एव। सा चावृततिः प्रथमस्य नास्तीत्यभ्यासप्रदेशेषु परस्य ग्रहणे प्राप्ते पूर्वस्य ग्रहणं यथा स्यावित्येवमर्थं तस्याभ्याससंज्ञा विधीयते। पूर्वशब्दोऽवयववचनः, यथा--पूर्वं कायस्य पशोरिति। अवयवाश्चावयविनो भवन्ति, स चेह यद्यपि न निर्दिश्यते, तथापि `द्वे' (6.1.1) इत्युनुवृत्तेस्तद्वाच्यस्यैवार्थस्य पूर्वो विज्ञायत इत्याह--`द्वे इति प्रथमन्तं यदनुवर्त्तते' इत्यादि। ननु च `द्वे' इति प्रथमन्तमनुवर्त्तते, षष्ठ्यन्तेन चेहार्थः, न ह्यटन्यथा पूर्वशब्देन सम्भन्धः शक्यते दर्शयितुमित्यत आह--`तदर्थात्‌' इत्यादि। अर्थाद्विभक्तिविपरिणामो भवतीति। तदिह षष्ठ्यन्तं जयत इत्यर्थः। अथ पुनरत्रावयवावयविलक्षणा षष्ठी भवति, यथा वृक्षस्य शाखेति? एवमपि यदि `द्वे' इत्यनुवृत्तेर्द्वयोर्यः पूर्वस्तस्याभ्याससंज्ञा विधीयते तदा `सर्वस्य द्वे' (8.1.1) इत्यत्रापि प्रकारणे ये द्वे विहिते तयोर्यः पूर्वस्तस्याप्यभ्याससंज्ञा प्राप्नोतीत्यत आह--`तत्र' इत्यादि'। `पूर्वोऽवयवः' इति। पूर्वशब्दो व्यवस्थावचनोऽप्यस्ति, अतस्तद्व्यवच्छेदार्थमवयवग्रहणम्‌, पपाचेत्यत्राभ्याससंज्ञायां सत्यां `ह्रस्वः (7.4.59) इत्यभ्यासस्य ह्रस्वत्वम्‌, हलादिशेषः (7.4.60), प्रकृतिचरां प्रकृतिचरो भवन्तीति चर्त्वम्‌। `पिपक्षति' इति। `जुहोति' इति पूर्ववद्धकारस्य चुत्वम्‌, तस्य `अभ्यासे चर्च' (8.4.54) चकारः। `अपिपचत्‌' इति। पचेर्ण्यन्ताच्‌च्लेश्चङ्‌, णिलोपः, `णौ चङ्युपधाया ह्रस्वः' (7.4.1) द्विर्वचनम्‌, `सन्वल्लघुनि' (7.4.93) इतीत्त्वम्‌, `दीर्घो लघोः' (7.4.94) इति दीर्घः। सर्वाण्यभ्याससंज्ञायाः प्रयोजनान्येतानि।।

5. उभे अभ्यस्तम्‌। (6.1.5)
इह उभेग्रहणं संज्ञिनिर्देशार्थं क्रियते। स च संज्ञिनिर्देशः `द्वे' (6.1.1) इत्यनुवृत्तेरन्तरेणाप्युभेग्रहणं प्रकल्प्यत एव, तत्‌ किमर्थं द्वे इत्यनुवर्त्तमान उभेग्रहणं क्रियते? इत्यत आह--`द्वे इत्यनुवर्त्तमाने' इत्यादि। यद्युभेग्रहणं न क्रियेत, तदा प्रत्येकमभ्यस्तसंज्ञा प्रवर्तते। प्रत्येकमपि हि तयोः प्रवर्तमानासौ प्रवृत्तैव भवति। तथा हि द्वावानीयेयातामित्युक्ते प्रत्येकमप्यानयनेन तावानीतौ भवतः। तस्मात्‌ समुदाये संज्ञायाः प्रवृत्तिर्यथा स्यादेकैकस्य मा भूदित्येवमर्थमुभेग्रहणम्‌। `समुदिते' इति। सहिते समुदाभूते इत्यर्थः। ननु च यत्राभ्यासः श्रूयते तत्रैव यथा स्यात्‌, यत्र तु न श्रूयते तत्र मा भूत। ईप्सन्ति, ईप्सन्‌, ऐप्सन्नित्यादौ विषये मा भूदित्येवमर्थमुभेग्रहणं स्यात्‌? नैतदस्ति; अभ्यासग्रहणं ह्यनुवर्त्तते, तत्रैवमभिसम्बन्धः क्रियते---द्वे अभ्यस्तसंज्ञे भवतः, अभ्यासश्चेदस्तीति। एवच्च सति विनाप्यभेग्रहणं यत्राभ्यासः श्रूयते, तत्रैव भविष्यति, नान्यत्र। तस्माद्वृत्तिकारोपदर्शितमेवोभेग्रहणस्य प्रयोजनं युक्तम्‌। `ददति' इति। ददातेर्लट्‌, झि, शप्‌, `जुहोत्यादिभ्यः श्लुः' (2.4.75) `श्लौ' (6.1.10) इति द्विर्वचनम्‌। अत्राब्यस्तसंज्ञायां सत्यां `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः, `अदभ्यस्तात्‌' (7.1.4) इति झेरदादेशः। `दधातु' [`दधतु'--काशिका] इति। लोट्‌, `एरुः' (3.4.86)
`समुदाय उदात्तत्वं यथा स्यात्‌' इति। उभेग्रहणे ह्यसति प्रत्यकमभ्यस्तसंज्ञा स्यात्‌। तस्मात्‌ `अभ्यस्तानामादिः' (6.1.189) इत्याद्युदात्तमपि प्रत्येकं स्यात्‌। अथपि `अनुदात्तं पदमेकवर्जम्‌' (6.1.158) इति नास्ति यौगपद्यसम्भवः, एवमपि पर्यायेण स्यात्‌? तस्मात्‌ `अम्यस्तानामादिः' (6.1.189) इत्येतत्‌ कार्यं समुदाये यथा स्यात्‌, प्रत्येकं पर्यायेण वा मा भूदित्येवमर्थमुभेग्रहणम्‌। ।

6. जक्षित्यादयः षट्‌। (6.1.6)
`जक्षित्यादयः' इति। एष निदशो जक्षेः श्तिबन्तस्यादिशब्देन बहुव्रीहावपि कृते भवति, द्वन्द्वेऽपि--यदा जक्षेरनजन्तस्येत्यादिशब्दस्य च द्वन्द्वः क्रियते। वाक्येऽपि यदानयोरनन्तरोक्तयोरुभयोरपि प्रयोगो भवति, तदा तत्र बहुव्रीहौ गृह्यमाणे यदि तद्गुणसंविज्ञानोऽयं बहुव्रीहिराश्रीयेत, तदा वेवीङो ग्रहणं न स्यात्‌; अथातद्गुणसंविज्ञानोऽयम्‌, तदा जक्षेर्न स्यादितीमं बहुव्रीहेराश्रयणे दोषं दृष्ट्वेतरयोः पक्षरोरन्यतरमाश्रित्याह--`जक्षित्ययं धातुरित्यादयश्च' इत्यादि अत्रेतिशब्देऽतिक्रान्तप्रत्यवमर्शी। जक्षित्ययं धातुरनन्तरमतिक्रान्त इति स एव तेन प्रत्यवमृश्यते। इति आदिर्येषां त इत्यादयः, जक्षादय इत्यर्थः। ते पुनर्जागृप्रभृतयो वेवीङ्पर्यन्ताः। `सेयं सप्तानां धातूनामभ्यस्तसंज्ञा' इति। जक्षित्येतदुपलक्षितानां जागर्तिप्रभृतीनां षष्णां जक्षितिरित्येतस्य च सप्तमस्य तेभ्यः पृथग्निर्दिष्टस्य।
ननु च दीध्यते, वेव्यत इत्यत्रादादेशः `आत्मनेपदेष्वनतः' (7.1.5) इत्यनेनैव सिद्धः, शेषं चाभ्यस्त कार्यमाकारलोपादिकम्‌ तच्च दीधीवेव्योर्न सम्भवत्येव, तत्राकारलोपस्तावदाकारस्याभावान्न सम्भवति; जुस्भावोऽपि झेरभावात्‌, नुम्प्रतिषेधोऽपि ङित्वादात्मनेपदित्वाच्छतुः, तत्‌ किमर्थमनयोरभ्यस्तसंज्ञा विधीयते? इत्याह--`दीध्यते वेव्यते' इत्यादि। `दीष्यदिति च शतरि' इत्यादिना प्रयोजनान्तरमपि दर्शयति। आत्मनेपदित्वादनयोर्व्यत्ययेन विना शता न सम्भवतीति व्यत्यग्रहणम्‌।।

7. तुजादीनां दीर्घोऽभ्यासस्य। (6.1.7)
आदिशब्दोऽयमस्त्येव व्यवस्थायाम्‌, अस्ति च प्रकारे, तत्र यदि व्यवस्थायां वर्त्तमानो गृह्येत, तदा `तुज पिज हिंसायाम्‌' (धा.पा.1566,1567) इत्यत आरभ्य ये पठितास्तेषामेव ग्रहणं स्यात्‌; एवञ्च सौत्राणां गणान्तरपठितानाञ्च दीर्घो न स्यादित्येतदालोच्याह--`तुजादीनाम्‌' इत्यादि। `प्रकार आदिशब्दः' इति। स च प्रकारोऽनिर्दिष्टत्वान्न ज्ञायत इति पृच्छति--`कश्च प्रकारः' इति। तुजो दीर्घत्वमित्यादिना प्रकारार्थत्वं दर्शयति। `ये तथाभूताः' इति। अनन्तरोक्तप्रकारमापन्ना इत्यर्थः। `दीर्घः साधुर्भवति' इति। एतेन सत एव दीर्घस्य साधुत्वमात्रमनेन क्रियते। न त्वपूर्वो दीर्घ इति दर्शयति। `तूतुजानः' इति। लिट्‌। एतच्च प्रकारवाचिन आदिशब्दस्य परिग्रहाल्लभ्यते, तस्य कनाच्‌। `मामहानः' इति। `मह पूजायाम्‌' (धा.प.730) शेषं पूर्ववत्‌। `दधान' [उदाहरणमिदं नास्ति--काशिका] इति। `डुधाञ्‌ धारणपोषणयोः' (धा.पा.1092)। `मीमाय' इति। `डुमिञ्‌ प्रक्षेपणे', (धा.पा.1250) लिट्‌ णल्‌। `दधार' इति। `धृञ्‌ धारणे' (धा.पा.900) `तूनाव' इति। `तु' इति सौत्रो धातुः; `तुरुस्तुशम्यम' (7.3.95) इत्यादिसूत्रे पठितत्वात्‌।
`दीर्घश्चैषाम्‌' इत्यादिना यस्य सत एव साधुत्वमनेन क्रियते, स च दीर्घश्छन्दस्येव दृश्यते, न भाषायाम्‌। तत्रापि च्छन्दसि विषये प्रत्ययविषये कानजादौ, न प्रत्ययमात्रे। `ततोऽन्यत्र न भवति' इति। यथोक्ताद्विषयादन्यत्र न भवतीत्यर्थः। तुजेश्छन्दसि कानचि दृष्टः, ततोऽन्यत्र भाषायां छन्दस्यपि कानजादौ प्रत्ययान्तरे न भवति। यच्चैवं तेनास्यान्यत्राव्यापारः। सत एव दीर्घस्य साधुत्वमात्रमनेन विधीयते। न चान्यत्र दीर्घोऽस्ति यस्यानेन विधीयेत साधुत्वम्‌। एतच्च प्रकारवाचिन आदिशब्दाल्लभ्यत इति। `तुतोज' इति। भाषायां प्रयोगः। यदि तर्हि च्छन्दसि सत एव दीर्घस्य साधुत्वमनेन विधीयते, `व्यत्ययो बहुलम्‌' (3.1.85) इत्यनेन सुब्ब्यत्ययस्य विहितत्वादपार्थकमेतत्‌? नापार्थकम्‌; तस्यैव प्रपञ्चार्थत्वात्‌।।

8. लिटि धातोरनभ्यासस्य। (6.1.8)
`एकाचो द्वे प्रथमस्य' (6.1.1) इति, `अजादेर्द्वितीयस्य' (6.1.2) इति चानुवर्त्तते। धातोरित्यवयवयोगा षष्ठी। सामानादिकरण्ये हि प्रथमस्य द्वितीयस्येति च सम्बन्धो नोपपद्यते। `अनभ्यासस्य' इति च प्रतिषेधाच्च। सामानाधिकरण्ये हि प्रतिषधोऽनर्थकः स्यात्‌, न ह्यभ्यासवानेकाज धातुः सम्भवति। `यथायोगम्‌' इति। हलादेः प्रथमस्यैकाचोऽवयवस्य, अजादेस्तु द्वितीयस्येत्येष यथायोगार्थः। `प्रोर्णनाव' इति। `ऊर्णुञ्‌ आच्छादने' (धा.पा.1039) `अजादेर्द्वितीयस्य' (6.1.2) इति नुशब्दस्य द्विर्वचनम्‌। रेफस्य तु `न न्द्राः' (6.1.3) इति प्रतिषेधान्न भवति। ननु चोर्णोतेरिजादित्वात्‌ `इजादेश्च गुरुमतोऽनृच्छः' (3.1.36) इत्यामि कृते `आमः' (2.4.81) इति लेर्लुक्‌, `कृञ्चानुप्रयुज्यते लिटि' (3.1.40) इति कृञो लिट्‌परस्यानुप्रयोगः, ततश्च प्रोर्णुवाञ्चकारेति भविष्यति, तत्कथं प्रोर्णनावेति? अत आह--`वाच्य ऊर्णोः' इत्यादि। नुवद्भावेन यथा नौतेराम्‌ न भवति, तथोर्णोतेरपीति दर्शयति।
`विश्रृण्विरे' इति। `श्रु श्रवणे' (धा.पा.942) `लिटस्तझयोरेशिरैच्‌ (3.4.81) इति इरेच्‌। `छन्दस्युभयथा' (3.4.117) इति लिटः सार्वधातुकत्वम्‌, ततः `श्रुवः शृ च' (3.1.74) इति श्नुः श्रृभावश्च। `हुश्नुवोः सार्वधातुके' (6.4.87) इति यणादेशः। `सुन्विरे' इति। `षुञ्‌ अभिषवे' (धा.पा.1247)। धातुग्रहणादिह विकरणस्य द्विर्वचनं न भवति। यतस्तत्र धातुस्तस्य विकरणेन व्यवहितत्वान्न भवतीत्येके। छन्दसत्वादित्यपरे, `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.पा.35) इति। एतच्च `व्यवहितत्वान्नभवतीत्येके। छन्दसत्वादित्यपरे, `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.पा.35) इति। एतच्च `व्यत्ययो बहुलम्‌' (3.1.85) इत्यस्माद्बहुलग्रहणाल्लभ्यते। एवञ्च कृत्वा `द्विर्वचनप्रकरणे छन्दसि वा' (वा. 656) इत्येतन्न कर्त्तव्यं भवति। `नोनाव' इति। `णु स्तोतौ' (धा.पा.1035), यङ्, द्विर्वचनम्‌, `गुणो यङ्लुकोः (7.4.82) इति गुणः, `नोनूय' इति गुणः, `नोनूय' इति स्थिते `यङोऽचि च' (2.4.74) इति यङो लुक्‌, लिट्‌। `अमन्त्रे' (3.1.35) इति निषेधाद्न भवति। `सस्मिमिक्षुः' इति। `मिह सेचने' (धा.पा.992), अतः सम्पूर्वात्‌ सन्‌ `हो ढः' (8.2.31) इति ढत्वम्‌, `षढोः कः सि' (8.2.41) इति कत्वम्‌, `एकाचः' (7.2.10) इत्यादिनेट्प्रतिषेधः `हलन्ताच्च' (1.2.10) इति कित्वाद्गुणः, द्विर्वचनम्‌, षत्वम्‌; सम्मिमिक्ष इति स्थिते लिट्‌, `अमन्त्रे' (3.1.35) इति प्रतिषेधादाम्‌, न भवति। झि, तस्य उस्‌, अतो लोपः' (6.4.48)।
`जागार' इति। लिट्‌। `दाति' इति। श्लुः। वेति वचनात्‌ पक्षे जजागार, ददातीत्यपि भवति।।

9. सन्योरिति सप्तम्यन्तमिदं वा स्यात्‌? षष्ठ्यन्तं वा? तत्र यदि सप्तम्यन्तं स्यात् तदायमर्थः स्यात्‌--सन्यङोः परत इति, ततश्चेटः सन्भक्तत्वात्‌ सन्ग्रहणेनेन ग्रहणात्‌, सनश्चेह द्विर्वचननिमित्तत्त्वान्निमित्तस्य च कार्यिणोऽयोगादिटो द्विर्वचनं न स्यात्‌, ततश्चाटिटिषतीत्यादि न सिद्ध्येत्‌। षष्ठ्यन्ते त्वस्मिन्‌ प्रत्ययग्रहणपरिभाषया (भो.पसू.7) तदन्त उपस्थापिते सत्ययमर्थो जायते--सनन्तस्य यङन्तस्य च यः प्रथम एकाज्‌ द्वितीयो वा तेनेटो द्विर्वचनं भवतीति। तथा चाटिटिषतीत्यादि सिध्यतीत्यतदालोच्याऽऽह--`सन्यङोरिति षष्ठ्यन्तमेतत्‌' इति। अत्र च ज्ञापको योगविबाग इति। यदि हि `सन्यङोः' इति सप्तम्यन्तं स्यात्‌ `श्लुसन्यङः' इत्येकमेव योगं कुर्यात्‌। ननु चासत्यपि प्रयोजने ज्ञापकमस्ति, अस्ति चेह योगविभागस्य प्रयोजनम्‌, किं तत्‌? सामर्थ्याद्यथासंख्यं यथा स्यात्‌--सनि प्रथमस्य, यङि द्वितीयस्येति? नैतदस्ति; यदि ह्यत्र यथासंख्यमभिप्रेतं स्यात्‌ तदा `नीग्वञ्चु' (7.4.84) इत्यादिना वञ्चप्रभृतीनामभ्यासस्य यङ्लुको नीगागमविधानं नोपपद्यते। यथासंख्ये हि सति यद्येषां द्विर्वचनं नास्तीति नीगागमं न विदध्यात्‌। तस्माद्योगविभागात्‌ षष्ठ्यन्तमेतदित्यवसीयते।
`अटाट्यते' इति। यङ्‌विधौ `सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतीनामुपसंख्यानम्‌' (वा.198) ति यङ्‌। `र्प्रोर्णोनूयते' इति। `अकृत्‌सार्वधातुकयोः' (7.4.25) इति दीर्घः। `जुगुप्सिषते' इति। गुपेः `गुप्तिज्किद्भ्यः सन्‌' (3.1.5) ति सन्‌ तदन्तात्‌ `धातोः कर्मणः समानकर्तृकात्‌' (3.1.7) इत्यादिनेच्छायां पुनः सन्‌। `लोलूयिषते' इति। यङ्न्तात् सन्‌।।

10. श्लौ। (6.1.10)
`श्लौ परतः' इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्‌, न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्‌ श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्‌द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः।।

11. चङि। (6.1.11)
`अपीपचत्‌' इत्यादि। पचादिभ्यो ण्यन्तेभ्यो लुङ्‌, अडागमः, च्लिः, `णिश्रि' (3.1.48) इत्यादिना च्लेश्चङ्‌। अत्रेदानीं द्विर्वचनं प्राप्नोति णिलोपश्च; द्वयोरपि कृताकृतप्रसङ्गित्वान्नित्यत्वम्‌, ततश्चोभयोस्तुल्यबलत्वात्‌ परत्वाण्णिलोपः। `आटिटत्‌' इति। अत्रापि णिलोपे कृते णिलोपस्य स्थानिवत्वादद्विर्वचनं भवत्येव। स्थानिवद्भावस्तु `द्विर्वचनेऽचि' (1.1.59) इत्यनेन।
णिलोपोऽपि नित्यः, अकृतेऽपि द्विर्वचने तेन भवितव्यम्‌, कृतेऽपि। न च शब्दान्तरप्राप्तिः, द्विष्प्रयोगो द्विर्वचनं भवतीति कृत्वा। स्थाने द्विर्वचनं त्वत्र न स्वीक्रियते; लक्ष्यानुरोधात्‌। ततश्चोभयोस्तुल्यबलयोः परत्वाणिणलोपः। तत्र कृते द्विर्वचनं प्राप्नोत्युपधाह्रस्वश्च; तयोरपि कृताकृतप्रसङ्गित्वान्नित्यत्वम्‌। द्विर्वचनमपि ह्यकृते ह्रस्वत्वे प्राप्नोति, कृतेऽपि। न च शब्दान्तरप्राप्तिः; `एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इति वचनात्‌। ह्रस्वत्वमपि कृते द्विर्वचने प्राप्नोत्यकृतेऽपि। न च शब्दान्तरप्राप्तिः, स एव शब्दो द्विरुच्यत इति कृत्वा। स्थाने द्विर्वचनं त्वत्र नाश्रीयते; लक्ष्यानुरोधात्‌। तत्रोभयोस्तुल्यबलयोः परत्वाद्‌ ह्रस्वत्वम्‌, ततो द्विर्वचनेन `सन्वल्लघुनि' (7.4.93) इति सन्वद्भावादित्वम्‌, `दीर्घो लघोः' (7.4.94) इति दीर्घः--इत्येतानि कार्य्याणि कर्त्तव्यानि। अत एवाह वृत्तौ--`पचादीनाम्‌' इत्यादि। किं पुनः कारणं तथा शास्त्रप्रवृत्तिः क्रियते, यथैषां कार्याणामयं प्रवृत्तिक्रमो भवति? इत्याह--`तथा च' इत्यादि। `ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यते' इति। तस्याभावादिति भावः। हेतौ चेयं पञ्चमी। यथा--`तदशिष्यं संज्ञाप्रमाणत्वात्‌' (1.2.53) इति। अत्र हि `सन्वल्लधुनि' (7.4.93) इत्यादिना लघुनि धात्वक्षरे परे सन्दद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावाद्धेतोः प्रतिषिष्यते, तस्मिन्‌ सति लघुता निवर्त्तत इति कृत्वा। स चास्मिन्‌ क्रमे सति स्थानिवद्भावो न सम्भवतति सन्वद्भावो न प्रतिषिध्यते; प्रतिबन्धहेतोरभावात्‌।
कथं पुनरस्मिन्‌ क्रमे सति कार्याणां स्थानिवद्भावो न सम्भवतीत्याह--`यो ह्यानादिष्टात्‌' इत्यादि। `अचः परस्मिन्‌ पूर्वविधौ" (1.1.57) इत्यत्र यो ह्यनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीत्येष सूत्रार्थो व्यवस्थितः। न चास्मिन्‌ क्रमे सत्यत्राभ्यासोऽनादिष्टदचः पूर्वो भवति, किं तर्हि? आदिष्टादेव। तेन तस्य विधौ कर्त्तव्ये ह्रस्वस्य स्थानिवद्भावो न भवतीति लघुत्वं न निवर्त्तते। ततश्च `सन्वत्‌' (7.4.93) इत्यादिना लघुनिमित्तकः सन्वद्भावो विधीयमानो न व्याहन्यते। यदि पुनर्द्विर्वचनं कृत्वा ह्रस्वादिकार्यं विधीयते ततोऽनादिष्टादचः पूर्वोऽभ्यासः स्यात्‌, ततश्च तस्य विधौ कर्त्तव्ये ह्रस्वस्य स्थानिवद्भावः स्यादेव । एवं `दीर्घञ्च' (1.4.12) इति लब्धस्वभावया गुरुसंज्ञया लघुसंज्ञायां निस्तायां सन्वद्भावोऽयन्त्र सावकाश इह न स्यात्‌। कः पुनस्तस्यावकाशः? अशीशमदित्यादि। अत्र हि णौ परभूते प्रागेव `मितां ह्रस्वः' (6.4.92) विधीयते।
यदि तर्ह्ययं कार्यक्रमः, आटिटदित्यत्र णिलापे कृते द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति; तदभावात्‌? इत्यत आह--`आटिटदित्यत्र द्विर्वचनेऽचि' इत्यादि। अथ किमर्थमेतानि त्रीणि सूत्राणि पृथक्‌ क्रियन्ते--`लिटि धातोरनभ्यासस्य', `श्लौ', `चङि' इति, न `लिङ्श्लुचङ्क्षु' इत्येक एव योगः क्रियताम्‌; तत्रायमप्यर्थः--पुनः पुनर्विभक्तिर्नोच्चार यितव्या, लिटि श्लौ च द्विर्वचनम्‌? तदनित्यमिति ज्ञापनार्थं पृथग्योकरणम्‌। तेन `यो जागार तमृचः कामयन्ते' `दाति प्रियाणि' `धाति प्रियाणि' इत्यत्र न भवति द्विर्वचनम्‌, ततश्च `द्विर्वचनप्रकरणे छन्दसि वा' (वा.656) इत्येतन्न कर्त्तव्यं भवति।।

12. दाश्वान्‌ साह्वान्‌ मीढ्वांश्च। (6.1.12)
`अविशेषेण निपात्यन्ते' इति। विशेषानुपादानात्‌। `अनिट्त्वं च' इति। `वस्वेकाजाद्घसाम्‌' (7.2.67) इतीट्‌ प्राप्नोति, अतस्तदभावो निपात्यते। ननु च कृतद्विर्वचनानामेकाचामिङ् विधास्यते, अयंचाकृतद्विर्वचनमेकाज्‌ भवति; अकृतद्विर्वचनत्वात्‌, तदयुक्तमनिट्त्वनिपातनम्‌? नैतदस्ति; लिटि हि श्रूयमाणैकाजुपलक्षणार्थं तत्र कृतद्विर्वचनग्रहणं कृतम्‌। अस्ति चात्र लिटि श्रूयमाणैकाच्त्वमिति कात्रायुक्तता? `परस्मैपदम्‌' इति। सहेरात्मनेपदित्वात्‌ परस्मैपदं न प्राप्नोतीत्यतस्तन्निपात्यते।
किं पुनः समार्थ्यमित्याह--`हलादिशेषः' इत्यादि। यदि हलादिशेषः स्यात्‌, एवञ्च सत्यामाकारादेशमेव कुर्यात्‌, न हि हलादिशेषे सत्यागमस्यादेशस्य वा विशोषोऽस्ति।
णिलुक्चेति। `णेरनिटि' (6.4.51) इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेनोपधावृद्धिर्माभूदित्येवमर्थम्‌। लोपे हि सति प्रत्यलक्षमेनोपधावृद्धिः स्यात्‌, लुकि तु `न लुयताङ्गस्य' (1.1.63) इति प्रतिषेधान्न भवति।।

13. ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्युरुषे। (6.1.13)
सम्प्रसारणमिति यण्स्थानिकस्येक एषा संज्ञा विहिता, वाक्यार्थस्य च। `इग्यणः' (1.1.45) इति योऽयं वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणस्तस्य तत्र चेदमुक्तमनुवादे वर्ण उपतिष्ठते, विधौ तु वाक्यार्थ इति; विधिश्चायम्‌, अतो वाक्यार्थस्यैवोपस्थानमित्याह--`यणः स्थाने' इत्यादि। `ततश्चापि विहिते' इति। `यङ्श्चाप्‌' (4.1.74) इत्येनेन। `इभ्यापुत्रः' इति। इभमईतीति `दण्डादिभ्यो यः' (5.1.66)। `क्षत्रियापुत्रः' इति। क्षतत्रस्यापत्यमिति `क्षत्रात्‌ धः' (4.1.138) इति धः।
`ष्यङः' इति प्रत्ययग्रहणमिदम्‌, तत्र प्रत्यग्रहणपरिभाषाया (पु.प.वृ.44) अपस्थानाद्‌ यस्मात्‌ स विहितस्तदादेस्तदन्तस्येति तदादितदन्तग्रहणमिहैव स्यात्‌--कारीषगन्धीपुत्र इति, इह तु न स्यात्‌--परमकारोषगन्धीपुत्र इति; कारीषगन्धशब्दाद्धि ष्यङ् विहितः, न परमकारीषगन्धशब्दात्‌? अत इदं द्वेष्यमपाकर्त्तु माह--`ष्यङिति स्त्रीप्रत्ययग्रहणम्‌' इति `स्त्रियाम्‌' (4.1.3) इत्यधिकृत्य विहितत्वात्‌। स्त्रीत्वं स्थानिवद्बावेन च प्रत्ययत्वं ष्यङः, न हि तस्यान्यथा स्त्रीप्रत्ययत्वमुपपद्यते; आदेशपक्षस्य च तत्राश्रितत्वात्‌। यदि स्त्रीप्रत्ययग्रहणमेतत्‌; ततश्च किमिति? तदादिनियमो न भवति; यतोऽधिकस्याप्यत्र ग्रहणं स्यात्‌, अतिप्रसङ्गो वा। असति हि नियमे यथेह भवति--परमकारीषगन्धीपुत्र इति, तथेहापि स्यात्‌--अतिकारीषग्न्ध्यापुत्र इति, अत आह--`नस्त्रीप्रत्यये च' इत्यादि। प्रत्यग्रहणपरिभाषाया `न स्त्रीप्रत्यये चानुपसर्जने' (पु.प.वृ.45) इत्ययमपवादः कृतः। तेन यत्रानुपसर्जनः स्त्रीप्रत्ययस्तत्रैषा प्रत्ययग्रहणपरिभाषां न प्रवर्त्तत इति तदादिनियमो नास्ति, तेन परमकारीषन्धीपुत्र इत्यत्र भवत्येव। अत्र हि परमाचासौ कारीषगन्ध्या चेति `सन्महत्‌' (2.1.61) इत्यादिना समासः, स्त्रीप्रत्ययस्य प्राधान्यम्‌, `स्त्रियाः पुंवत्‌' (6.3.34) इत्यादिना पुंवद्भावः। यत्र तूपसर्जनं स्त्रीप्रत्ययस्तत्रानुपर्जन इति वचनादुपतिष्ठत एवैषा परिभावा। तेन भवत्येवात्र तदादिनियमः। तेनेह न भवति--अतिकारीषन्ध्यापुत्र इति। अत्र हि कारीषगन्ध्यामतिक्रान्त इति प्रादिसमासः। अत्र योसावतिक्रान्तः स प्रधानम्‌, कारिषगन्ध्या तूपसर्जनम्‌। अत एव `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वो भवति। पुत्रपत्योः सम्प्रससारणे तदादावतिप्रसङ्गः। इहापि प्राप्नोति--कारीषगन्ध्यापुत्रकुलमिति। तथा हि--पुत्रपत्योरिति सप्तमी कार्यिण आनन्तर्यमाचष्टे, ततश्च शुद्धयोस्तदादौ चाविशिष्टम्‌। अथापि कथञ्चित्‌ तदादौ न स्यात्‌, एवमपि `येन विधिस्तदन्तस्य' (1.1.72) इति तदन्तेऽतिप्रसङ्ग इहापि प्राप्नोति--करीषगन्ध्या परमपुत्र इति।
विधिविधानविधिभाजां त्रयाणां सन्निधाने तदन्तर्विधिर्भवति। ते चेह सन्ति--विधिः सम्प्रसारणम्‌, विधिभाक्‌ ष्यङ्‌, विधानं पतिपुत्रशब्दौ। इह च तत्पुरुषेमाव्यभिचारात्‌ सन्निधापितं यदुत्तरपदं तत्‌ पुत्रपतिशब्दाभ्यां विशेष्यते, विशेषणेन च तदन्तर्विधिर्भवतीति पुत्रशब्दान्ते पतिशब्दान्ते चोत्तरपदे सम्प्रसारणं भवतीति कस्यचित्‌ भ्रान्तिः स्यात्‌, अस्तां निराकर्त्तुमाह--`पुत्रपत्योः' इत्यादि। एवं मन्यते--तत्पुरुषोऽत्र पुत्रपत्योः ष्यङ्श्चाधिकरणभूतो निर्दिश्यमानस्तत्पुरुषावयवत्वं पुत्रपत्योः ख्यापयति, तद्यथा--वृक्षे शाखेति। वृक्षः शाखाया अधिकरणत्वेन निर्दिश्यमानः शाखायाः वृक्षावयवत्वं बोधयति; तत्र प्रत्यासत्तेः। यत्र तत्पुरुषे ष्यङ् कार्यभागवयवः स्थितः, तस्यैव तत्पुरुषस्य याववयवौ पुत्रपती तयोरेव ग्रहणम्‌, न तु पुत्रपत्यादावुत्तरपदे यौ पुत्रपतिशब्दौ तौ तस्यैव ष्यङः पूर्वपदस्य तत्परुरुषस्यावयवौ। अति तु तत्पुरुषान्तरस्यापि पुत्रकुलशब्दस्य पतिकुलशब्तदस्य च। तस्मात्‌ तदादौ तावन्न भवत्यतिप्रसंगः। तदन्तेऽपि न भवत्येव; यस्मादिह पुत्रपतिग्रहणं यच्च ततपुरुषेण सन्धापितमुत्तरपदं तयोर्विशेषणविशेष्यभावं प्रति कामचारः। तत्र यदीहोत्तरपदं पुत्रपतिशब्दाभ्यां विशिष्येत तदा स्यात्‌ तदन्तविधिः, विशेषणेन तदन्तविधिर्भवतीति कृत्वा। न चेह ताभ्यां तद्विशिष्यते, अपि तु तावेव तेन; ततश्च तदन्तरविधेरभावात्‌ केवलयोरेवेदं विशेषणं भवतीति कुतस्तदन्तोऽतिप्रसङ्ग? ननु च यद्युत्तरपदेन पुत्रपती विशिष्येते तेन तयोस्तदन्तता विज्ञायते, ततश्चोत्तरपदपदान्तयोरेव ग्रहणं, न केवलयोः, एवञ्च तदादावतिप्रसङ्गः? नैतदस्ति; न हि पुत्रपतिशब्दावुत्तरपदान्तौ सम्भवतः। यस्मादयमन्तशब्दोऽवयववचनः। न च पुत्रपतिशब्दयोरहुत्तरपदमवयवः। किं तर्हि? समासस्य, न च तौ समासौ। तस्मानन्नैवं विज्ञायते---उत्तरपदान्तयोःस पुत्रपतिशब्दयोरिति, किं तर्हि? पुत्रपत्योरेवोत्तरपदयोः केवलयोरिति।
`येन विधिस्तदन्तस्य' (1.1.72) इति तदन्तविधिनाऽत्र ष्यङन्तस्य सम्प्रसारणं विज्ञायते, ततश्च वाराहीपुत्र इत्यत्र वकारसयापि सभ्प्रसारणं प्राप्नोतीत्यत आह--`ष्यङ्न्ते च' इत्यादि। तत्रैव कारणमाह--`निर्दिश्यमानस्य' इत्यादि। सम्प्रसारणगरहणमुत्तरार्थम्‌। अति हिकारग्रहणेनापि सिध्यत्येव। तां चोत्तरार्थतां तत्रैव दर्शयिष्यामः। तामेवोत्तरार्थतां सूचयन्नाह--`सम्प्रसारणम्‌' इत्यादि।।

14. बन्धुनि बहुव्रीहौ। (6.1.14)
`बन्धुनीति नपुंसकनिर्देशः' इत्यादि। बन्धुनीति शब्दरूपापेक्षया नपुंसकलिङ्गन निर्देशः कृत इत्यर्थः। किं पुनः कारणमेवं व्याख्यायते? इत्याह--`पुलिङ्गाभिधेयोऽयम्‌' इत्यादि। ननु बन्धाविति पुलिङ्गेनैव निर्देशः कस्मान्न कृतः/ पर्यायेषु मा भूत्‌। एवं हि क्रियमाणेऽर्थप्रधानोऽयं निर्देश इत्यादिः स्यात्‌, ततश्च पर्यायेष्वपि प्रसज्येत। अर्थप्रधाने निर्देशे स्वरूपपरिभाषा नोपतिष्ठत इत्युक्तम्‌।
`मातच्‌' इत्यादि। ननु च मातजिति शब्दरूपं नास्त्येव, न ह्यस्य स्वतन्त्रस्य क्वचित्‌ प्रयोगो लभ्यते, कथं तत्र सम्प्रसारणं कर्त्तं शक्यम्‌? इत्यत आह `अस्मादेव' इत्यादि। `तत्र' इत्यादि। यदि च `बहुव्रीहौ प्रकृत्या पूर्वपदम्‌' (6.2.1) इति बहुव्रीहिस्वरः स्यात्‌, चित्करणमनर्थकं स्यात्‌। तस्मान्मा भूत्‌ तस्यानर्थक्यमिति चित्कारणसामर्थ्याम्‌ बहुव्रीहिस्वर' `चितः' (6.1.163) इत्यन्तोदात्तत्वं विधीयमानं बाधते।
ननु च मातृशब्दो बहुव्रीहावुत्तरपदं न सम्भवत्येव, `नद्युतश्च' (5.4.153) इति नित्यं कपा भवितव्यम्‌, तत्‌ कथं तत्रोत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणमुपपद्यते? इत्याह--`मातृमातृकयोश्च' इत्यादि। यदि च नित्यं कप्‌ स्यात्‌ मातृमातृकयोर्भेदेनोपादानं न कुर्यात्‌, कृतञ्च। तस्माद्भेदेनोपादानात्‌ कब्‌ विकल्पेन क्रियते, न केवलं मातजादेश इत्यपिशब्दस्यार्थः।।

15. वचिस्वपियजादीनां किति। (6.1.15)
आदिशब्दोऽयं यजिनैव सम्बध्य इति, न वच्यादिभिः प्रत्येकम्‌। यदि हि प्रत्येकमभिसम्बन्धोऽभिमतः स्यात्‌ `वच भाषणे' (धा.पा.1063) इत्यधीत्य `ञिष्वप्‌ शये' (धा.पा.1068) इत्यधीयताम्‌, तत्र वच्यादीनामित्येवं स्वपेरपि सिध्यतीति पृथगुपादानं न कर्त्तव्यं जायते। नन्वेवम्‌, `रुदश्च पञ्चभ्यः' (7.3.98) इत्यत्र स्वपेर्ग्रहणं च स्यात्‌? नैष दोषः; शक्यते हि रुदादीनामादौ स्वपिमधीत्य `स्वपश्च पञ्चभ्यः' इत्येवं सूत्रं प्रणेतुम्‌। तस्माद्युक्तमुक्तम्‌---यजिनैव सम्बध्यत इति। वचेः स्वपिना साहचर्य्याद्धातुनिर्देशार्थ इकारः, न विशेषणार्थः। तेन च ब्रञादेशस्यैव ग्रहणं भवतीत्याह--`वच परिभाषणे, ब्रुवो वचिरिति च' इति। `उक्तः' इति। `सम्प्रसारणाच्च' (6.1.108) इति परपर्वत्वम्‌। `इष्टः' इति। व्रश्चादिना (8.2.36) षत्वम्‌, ततः ष्टुत्वम्‌। `ऊढः' इति। `हो ढः' (8.2.31) इति ढत्वम्‌, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्‌, `ढो ढे लोपः' (8.3.13) इति ढकारलोपः, `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इति दीर्घत्वम्‌। `उषितम्‌' इति। `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्‌। `संवीतः आहूतः, शूनः' इति। `हलः' (6.4.2) इती दीर्घः। `शूनः' इत्यत्र `ओदितश्च' (8.2.45) निष्ठानत्वम्‌।
अथेह कस्मान्न भवति--वाचमिच्छति वाचा तरतीति ठक्‌ वाच्यति वाचिक इति? यद्यपि वचेः `क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसप्रसारणञ्च' (वा.288) इति वा दीर्घः कृतः, तथापि `एकदेशविकृतमनन्यवद्भवति' इत्यस्ति प्राप्तिरित्याह--`धातोः' इत्यादि। यत्र धातुः सामान्यवाचिना धातुशब्देन नोपादीयते, अपि तु स्वशब्देनैव, तत्र तत्प्रत्यये दातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च भ्रौणहत्येति निपातनं कुर्वन्‌ ज्ञापयति--तद्धितत्वार्थ निपातनम्‌। यदि च धातोः स्वरूपग्रहणे तत्प्रत्यय एव कार्यं न विज्ञायेत, तत्वनिपातनमनर्थकं स्यात्‌। `हनस्तोऽचिण्णलोः' (7.3.32) इत्यनेनैव तत्वस्य सिद्धत्वात्‌। `वाच्यति वाचिकः' इत्यत्र यद्यपि `विवबन्ता धातुत्वं न जहति' (व्या.प.132) इति, तथापि धातोरित्येवं नासौ प्रत्ययो विहितः। तथा ह्येकत्र सुप इत्येवं प्रत्ययो विहितः--`सुप आत्मनः क्यच्‌' (3.1.8) इति, इतरत्र च `प्रातिपदिकात्‌' इत्येवं ङ्याप्प्रातिपदिकाधिकारात्‌ (4.1.1.)। तस्मादिह वचेः स्वरूपग्रहणात्‌ तत्प्रत्यय एव कार्यसंविज्ञानं न भवति।।

16. ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। (6.1.16)
`गृहीतम्‌' इति। `ग्रहोऽलिटि' (7.2.37) इति दीर्घः। `जरीगृह्यते' इति। यङि सम्प्रसारणं द्विर्वचनम्‌। `रीगृदुपधस्य' (7.4.90) इति रीगागमः।
वयिरयमस्त्येवात्मनेपदी--`अय वय गतौ (धा.पा.474,475) अस्ति च परस्मैपदी--`वेत्रो वयिः' (2.4.42) इति; तत्र ग्रह्यादिभिरनात्मनेपदिभिः साहचर्यादनात्मनेपदी गृह्यते? इत्याह--`वयिर्लिटि' इत्यादि। तस्माच्च परस्य लिटः `असंयोगाल्लिट्‌ कित्‌' (1.2.5) इति कित्त्वेन भवितव्यम्‌? इत्यत आह--`तस्य' इत्यादि। `यद्येवम्‌' इति। यदि वेञादेशस्य वयेर्ग्रहणमित्यर्थः. `यजादिषु वेञ्‌ पठ्यते' इति। ततश्च पूर्वसूत्रेणैव तस्य स्थानिवद्भावात्‌ सम्प्रसारणं सिद्धमित्यभिप्रायः। `नैवं शक्यम्‌' इति। विज्ञातुमिति शेषः। नानयोपपत्त्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। किं कारणम्‌? इत्याह--`लिटि तस्य' इत्यादि। स्यादेतत्‌--विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह--`अत्र यतैव' इत्यादि। स्यादेतत्‌--विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह--`अत्र यथैव' इत्यादि। यदि विरोधादेकत्रासम्भवः, पर्यायोऽस्तु, न तु द्वयोरन्यत्र चरितार्थत्वादेकेनैव भवितव्यम्‌। नापरेणेत्येषोऽर्थो लभ्यत इति भवाः। `नैष दोषः' इति। कथं नैष दोषः? इत्यत आह--`लिटि' इत्यादि। `लिटि वयो यः' इति यकारस्य सम्प्रसारणप्रतिषेधो लिङ्गम्‌--विधो वेञोग्रहणेन वयिग्रहणं भवतीत्यस्यार्थस्य। असति विधौ ग्रहणे प्राप्तेरसम्भवात्‌ प्रतिषेधोऽनर्थकः स्यात्‌। वेञ इत्यत्र प्रतिषेधे वयेर्ग्रहणं न भवतीति अत्राप्येतदेव प्रतिषेधवचनं लिङ्गम्‌। सति हि वेञ्‌ग्रहणे वेञ इत्यनेनैव प्रतिषेधस्य सिद्धत्त्वात्‌, पनः `लिटि वयो यः' (6.1.38) इति। अनन्तरोक्तमर्थमभ्यनुजानाति। यदि सत्यमेतत्‌, तर्हि किमर्थं वयिग्रहणम्‌? इत्याह--`एष एव' इत्यादि। तेन स्पष्टीकरणार्थं वयिग्रहणमित्याचष्टे। `विध्यति' इति। दिवादित्वाच्छ्यन्‌। `उष्टः' इति। तसन्तमेतत्‌, अदादित्वाच्छपो लुक्‌ व्रश्चादिसूत्रेण (8.2.36) षत्वम्‌, ष्टुत्वम्‌। `विचति' इति। तुदादित्वाच्छः।
वृक्ण इति पूर्ववन्नत्वम्‌, `स्कोः' (8.2.29) इति सलोपः। `झलादिर्निष्ठा न भवति' इति। तेनात्र षत्वं न भवतीति भावः। झलाचौ हि तद्विधीयते; `झलो झलि' (8.2.26) इत्यतो झल्ग्रहणानुवृत्तेः। `कृत्वे तु कर्त्तव्ये तदसिद्धमेव' इति। न हि यथा षत्वादौ निष्ठादेशस्य सिद्धत्वमुच्यते, तथा कुत्वेऽपि, तेन तत्‌ प्रवर्तत एव। `वृश्चति' इति। पूर्ववच्छः। `वरीवृश्च्यते' इति। `रीगृत्वत इति वक्तव्यम्‌' (वा.880) इति रीगागमः। `पृष्टः' इति। पूर्ववत्‌ षत्वम्‌। `यजयाच' (3.3.90) इत्यादिना नङि विहिते प्रश्न इत्यत्र सम्प्रसारणं कस्मान्न भवति? इत्यत आह--`नङि' इत्यादि। `भृष्टः' इति। पूर्ववत्‌ षत्वम्‌। `भृज्जति' इति। पूर्ववच्छः। `बरीभृज्यते' इति। पूर्ववद् रीक्‌। `सकालस्य' इत्यादि। ननु स्खोः संयोगाद्योरन्ते च' (8.2.29) इति तस्य लोपेन भवितव्यम्‌्? नैतदस्ति; झलि पदान्ते च स उच्यत इति।।

17. लिट्यभ्यासस्योभयेषाम्‌। (6.1.17)
`उवयिथ' इति। क्रादिनियमादिट्‌ प्राप्तः `उपदेशेऽत्वतः' (7.2.62) इति प्रतिषिद्धः `ऋतो भारद्वाजस्य' (7.2.63) इति नियमात्‌ पुनर्भवति।
`ग्रहेरविशेषः' इति। यस्मात्‌ सति सम्प्रसारणे हलादिशेषेण (7.4.60) रेफनिवृत्तौ जग्राहेति ग्रहेर्यद्रूपं भवति, सत्यपि सम्प्रसारण उरत्वरपरत्वहलादिशेषेष्वपि कृतेषु तदेव भवति। `जिज्यौ' इति। `आत औ णलः' (7.1.34)। `जिज्यथ' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः. `वृश्चतेः सत्यसति वा योगे नास्ति विशेषः' इति। यद्यन्यार्थो योग आरभ्यते न वृश्चत्यर्थः, ततो वृश्चत्यर्थमेतद्वचनं न भवतीति सत्यप्येतस्मिन्नन्यार्थवचने वृश्चतेरभ्यासस्य नैव सम्प्रसारणेन भवितव्यम्‌। न ह्यसति तदर्थे वचने केनचित्‌ प्रकारेण सम्प्रसारणमुपपद्यत इत्यभिप्रायः ततश्चासत्यस्मिन्‌ योगे वव्रश्चेति यद्रूपं भवति सत्यपि तदेवेति नास्ति वृश्चतेर्विशेषः। एतच्च वृत्तिकारमतेनोक्तम्‌। भाष्यकारमतेन त्वाह--`योगारम्बे' इत्यादि। तस्यायं भावः--सति वचऽनेन्यार्थो क्रियमाणे तस्य वृश्चत्यर्थतापि भवति; वृश्चतेरहपि ग्रह्यादिष्वन्तर्भावात्‌। ततश्च तदर्थोऽप्ययं योगारम्भ इति तदभ्यासस्यापि सम्प्रसारणेन भवितव्यमिति तुशब्दो वृत्तिकारमताद्विशेषं दर्शयति। `यदि सम्प्रसारणमकृत्वा' इत्यादि। ननु चोभयग्रहमस्य प्रयोजनं वक्ष्यति--हलादिशेषं (7.4.60) परमपि बाधित्वा सम्प्रसारणमेव यथा स्यादितदि, तत्‌ कुतोऽस्य पक्षस्य सम्भवः? उभयग्रहणरहिते योगे सतीत्यभिप्रायः। `अथ रेफस्य' इत्यादि। उभयग्रहणसहिते योगे सतीति भावः। `उरदत्वस्य स्थानिवद्भावात्‌' इति। केन पुनः स्थानिवद्भावः? `अचः परस्मिन्‌ पूर्वविधौ' (1.1.57) इति। कः पुनरसौ? प्रत्ययोऽचः परः, यन्निमित्तमोरत्वं स्यात्‌। अह्गस्य योऽभ्यास इति विज्ञायमाने सामर्थ्यात्‌ प्रत्यय आश्रितो भवति; विना तेनाह्गव्यपदेशाभावात्‌ वृत्तिकारमतं चेषितव्यम्‌; अन्यथा तत्रोभयग्रहणाभावात्‌ हलादिशेषेण (7.4.60) प्रागेव सम्प्रसारणाद्रेफे निवर्त्तिते वकारस्य सम्प्रसारणं स्यात्‌। ततश्च उव्रश्चेत्यनिष्टं रूपं स्यात्‌।
`पृच्छतिभृज्जत्यीरविशेषः' इति। ग्रहेरिव वेदितव्यः। `अकिदर्थम्‌' इत्यादि। किं पुनः कारणमकिदर्थं मिदं व्याख्येयम्‌? इत्यत आह--`किति' इत्यादि। यस्मात्‌ किति परत्वात्‌ सम्प्रसारण कृते कृतसम्प्रसारणस्य पुनः प्रसङ्गविज्ञानाद्‌द्विर्वचने कृतेऽन्तरेणाप्येतद्वचनम्‌, ऊचतुरित्यादि सिद्ध्यत्येव। तस्मान्नेदं किदर्थम्‌, अपि त्वकिदर्थमेवेति।
अथ किमर्थमुभयेषामित्युच्यते, यावता स्वरितलिङ्गासङ्गादेवोभयेषामित्यस्यानुवृत्तिर्भविष्यति? न चानुवृत्तौ सत्यां ङिति वच्यादीनामपि सम्प्रसारणं प्राप्नोतीत्येतच्च नाशङ्कनीयम्‌; यदि वच्यादीनामपि ङिति सम्प्रसारणं स्याद्योगविभागोऽनर्थकः स्यात्‌; मण्डूकप्लुतिन्यायेन वा व्रच्यादीनामनुवृत्तिर्भविष्यति, तत्कुतोऽस्य दोषस्यावसरः? इत्याह--`अधिकारादेव' इत्यादि। अधिकारादेवोभयग्रहणे सिद्धे पुनरुभयेषांग्रहणात्‌ पुनःश्रुतिर्भवति। तस्याश्चैतदेव प्रयोजनम्‌---यत्र सम्प्रसारणं चान्यच्च प्राप्नोति तत्र सम्प्रसारणमेव यथा स्यात्‌, मा भूदन्यदिति। तेन विव्याध, विव्यधिथ इत्यत्र हलादिशेषं (7.4.60) परमपि बाधित्वा सम्प्रसारणमेव भवति; अन्यथात्र परत्वात्‌ प्राक्‌ प्रवर्तमानेन हलादिशेषेण यकारस्य निवृत्तौ कृतायां वकारस्य सम्प्रसारणमापद्येत, ततश्च--उव्याध उव्यधिथेत्यनिष्टं रूपं स्यात्‌।।

18. स्वापेश्चङि। (6.1.18)
`स्वापेः' इति। `आप्लृ व्याप्तौ' (धा.पा. 1260) इत्यस्यापि सुपर्वस्येका निर्देशः सम्भवति, अतस्तद्ग्रहणाशङ्कानिराकरणायाह--`स्वपेर्ण्यन्तस्य ग्रहणम्‌' इति। ण्यन्तस्य ग्रहणं चङ्ग्रहणाद्विज्ञायते, न ह्यण्यन्ताच्चङ्‌ सम्भवति। `असूषुपत्‌' इति। `हेतुमति च' (3.1.26) इति णिच्‌। `द्विर्वचनात् पर्वमत्र सम्प्रसारणम्‌' इति। परत्वात्‌। `स्वाप्यते' इति। कर्मणि लकारः, `सार्वधातुके यक्‌' (3.1.67)। `स्वापितम्‌' इति। `निष्ठायां सेटि' (6.4.52) इति णिलोपः। ननु च ग्रह्यादि (6.1.16) सूत्रात्‌ ङितोत्यनुवर्त्तते, न च स्वापेश्चङोऽन्यो ङिदस्ति, तत्र सामर्थ्याचचङ्येव भविष्यतीति न कर्त्तव्यमेव चङ्ग्रहणम्‌? इत्यत आह--`ङितिति केवलम्‌' इत्यादि। ग्रह्यादिसूत्रे ह्युभयं सन्निहितम्--किद्ग्रहणम्‌, ङिद्ग्रहणञ्च, तत्रोभयोरविशेषेण सन्निधाने ङिद्ग्रहणमेवानुवर्त्तते, न किद्ग्रहणमिति मन्दधिया दुर्बोधम्‌। अतः सुखप्रतिपत्त्ये मन्दबुद्धेश्चङ्ग्रहणं क्रियत इति भावः।।

19. स्वपिस्यमिव्येञां यङि। (6.1.19)
`स्वप्नक्‌' इति। `स्वपितृषोर्नजिङ्' (3.2.172)।।

20. न वशः। (6.1.20

21. चायः की। (6.1.21)
अथ किमर्थं दीर्घोच्चारणम्‌, यावता ह्रस्वादेशेऽपि `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह--`दीर्घोच्चारणम्‌' इत्यादि। कथं पुनः `यङि च' (7.4.30) इत्युच्यमाने आदेशो यङ्लुकि स्यात्‌? प्रत्ययलक्षणेन स्यात्‌। अथापि `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्‌!
`चेकीतः' इति। तसन्तमेतत्‌। `यङोऽचि च' (2.4.74) इति यङो लुक्‌।।

22. स्फायः स्फी निष्ठायाम्‌। (6.1.22)
`स्फातिः' इति। `स्त्रियां क्तिन्‌' (3.3.94) वलि (6.1.66) यलोपः। `स्फातीभवति' इति। स्फायतेर्निष्ठान्ताच्चवौ कृते `अस्य च्वौ (7.4.32) इतीत्वे सतीदं रूपं भवतीति मन्यमानो यश्चोदयेत्‌--अथ कथं स्फातीभवतीत्येतद्रूपम्‌, यावताऽत्रापि निष्ठायामस्मिन्नादेशे स्फीतिभवतीत्येवं भवितव्यमिति? तं प्रत्याह--`स्फातीभवतीत्येतदपि' इत्यादि। एतदपि स्फातिशब्दात्‌ क्तिन्नन्ताच्च्वौ कृते `च्वौ च' (7.4.26) इति दीर्घत्वे च क्तिन्नन्तस्यैव रूपम्‌। अतो न भवत्येष दोषप्रसङ्गः।।

23. स्त्यः प्रपूर्वस्य। (6.1.23)
`सामान्येन ग्रहणम्‌' ति। द्वयोरप्यात्त्वे कृते पूर्वस्य `धात्वादेः षः सः (6.1.64) इति सत्वे समानत्वाद्रूपस्य। लक्षणप्रतिपदोक्तपरिभाषा (व्या.प.3) च नेहोपतदिष्ठते; उभयोलक्षिणिकत्वात्‌। अथात्र--`संयोगादेरातो धातोर्यण्वतः' (8.2.43) इति निष्ठानत्वं कस्मान्न भवति? इत्यत आह--`सम्प्रसारणे' इत्यादि। न त्वस्य पूर्वत्रासिद्धत्वात्‌ पूर्वं सम्प्रसारणं क्रियत इति, तत्र कृते च यण्वत्ता नास्तीति नत्वं न भवति।
`प्रस्त्य इत्येवं सिद्धे' इति। ननु चैवमुच्यमाने प्रशब्दस्यापि सम्प्रसारणं स्यात्‌, ततश्च प्रस्तीत इति रूपं स्यात्‌, तत्‌ किमुच्यते--प्रस्त्य इत्येवं सिद्ध इति? `अनन्त्यविकारेऽन्त्यसदेशस्य' (व्या.प.63) इति न भवत्येष दोष इति मन्यते। `इहापि यथा स्यात्‌' इति। कस्मात्‌ पुनर्न प्राप्नोति? संशब्देन व्यवहितत्वात्‌।
किं पूर्वग्रहणे क्रियमाणे शब्दार्थं एव तथाविदो भवति येनात्रापि भवति? अथ ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीत्याभिप्रायेणाह--`तत्‌ कथम्‌' इति। प्रथमकल्पं दर्शन्नाह--`प्रपूर्वस्य' इति। `षष्ठ्यर्थे बहुव्रीहिः' इति। पूर्वशब्दोऽयमवयववचन इति षष्ठ्यर्थे बहुव्रीहिर्भवति। अवयववाचिनि पूर्वशब्दे धातुरन्यपदार्थो नोपपद्यते। न हि धातोः प्रशब्दोऽयमवयवो भवति, अपि तु धातूपसर्गसमुदायस्य। तस्मात्‌ स एवान्यपदार्थो युक्त इत्याह--`प्रः पूर्वो यस्य' इत्यादि। `तदवयवस्य' इति। तस्यावयवस्तदवयव इति षष्ठीसमासः। तच्छब्देन धातूपसर्गसमुदायः परामृश्यते। `व्यधिकरणषष्ठ्यौ' इति। `प्रपूर्वस्य' इति। स्त्यावयवापेक्षया योऽयमवयवावयविसम्बन्धस्तत्र षष्ठी, `स्त्यः' इत्येषा तु यणवयवापेक्षया यः सम्बन्धस्तत्र। तेन भिन्नाभिदेयत्वात्‌ `सत्यः', `प्रवूर्वस्य' इति व्यधिकरणे षष्ठ्यौ। स्यादेवम्‌, प्रसंस्तीत इत्यत्र प्रपूर्वसमुदायावयवः स्त्याशब्दो न सम्भवति इत्यत आह--`तत्र' इत्यादि।।

24. द्रवमूर्त्तिस्पर्शयोः श्यः। (6.1.24)
`द्रवमूर्त्तौ द्रवकाठिन्ये' इति। अनेन द्रवमूर्त्तिशब्दस्यार्थमाचष्टे। द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते।
`स्पर्शे च' इति। रूपादिसहचरितो गुणः स्पर्श इत्युच्यते। `शीतमुदकम्' इति। कथं पुनरत्र सामानाधिकरण्यम्‌, यावता शीतशब्देन गुणविशेषोऽभिधीयते। वाय्वादिशब्देन तु द्रव्यविशेष इत्यत आह--`गुणमात्रे' इत्यादि। यथा--शुक्लादिशब्दा कदाचिद्गुणमात्रे वर्त्तन्ते, यता--पटस्य शुक्ल इति; कदाचित्तु तद्वति द्रव्ये सोऽयमित्यभेदसम्बन्धतद्वान्मतुब्लोपान्मत्वर्थीयाकारप्रत्ययान्तत्वाद्वा शुक्लः पट इति, तथा शीतशब्दोऽपि। तेन यदा तद्वति द्रव्ये वर्त्तते, तदोभयोरेकद्रव्ये निवेशितत्वादुपपद्यते सामानाधिकरण्यमिति भावः। `संश्यानः' इति। `संयोगादेः' (8.2.43) इत्यादिना नत्वम्‌।।

25. प्रतेश्च। (6.1.25)

26. विभाषाऽभ्यवपूर्वस्य। (6.1.26)
`सेयमुभयत्र विभाषा' इति। द्रवमूर्त्तिस्पर्शविषये पूर्वेण प्राप्ते, अन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्‌, न `विभाषाऽभ्यवाभ्याम्‌' इत्येवोच्येत? अत आह--`पूर्वग्रहणस्य' इत्यादि। क्रियमाणे पूर्वग्रहणे कस्मादेवात्र न भवतीत्याह--`न किल' इत्यादि। अयं हि द्विविधोऽपि समुदायो नाभिपूर्वः; नाप्यवपूर्वः, किं तर्हि? सम्पूर्वः। तेन पूर्वग्रहणादत्र न भवति। क्रियमाणेऽपि पूर्वग्रहणे प्राप्नोत्येवेति मन्यमानः किलशब्दमरुचिसूचनार्थं प्रयुक्तवान्‌। तामेव प्राप्ति दर्शयन्नाह--`योऽत्र' इत्यादि। समूशब्दात्‌ परो यो धातूपसर्गसमुदायस्तदाश्रयो विकल्पः कस्मान्न भवति, भवति ह्यसावब्यवपूर्व इत्यस्ति प्राप्ति? अत आह--`यत्नान्तरमास्थेयम्‌' इति। विभाषाग्रहणमिह क्रियते, सा च व्यवस्थितविभाषा विज्ञायते, तेनेह न भवतीति यतनान्तरम्‌। `पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यम्‌' इति। तत्‌ पुनरभिसंशीनम्‌, अभिसंश्यानम्‌, अवसंशीनम्‌, अवसंश्यानम्‌--इत्यत्रापि विकल्पो यथा स्यादित्येवं तद्वेदितव्यम्‌। एतच्च पूर्वग्रहणए क्रियमाणे यतोपपद्यते तथा `स्त्यः प्रपूर्वस्य' (6.1.23) इत्यत्र `प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः' इत्यादिना व्याख्यातम्‌।।

27. श्रुतं पाके। (6.1.27)
``श्रा पाके' इत्यस्य धातोः' इति। `श्रा पाके' (धा.पा.1053) इत्यदादौ पठ्यते घटादौ (धा.पा.810) च मित्संज्ञार्थम्‌। कैश्चिच्चुरादावपि, `श्रै पाके' (धा.पा.919) इति भ्वादौ, तत्रेहाविशेषेण ग्रहणं प्राप्तम्‌। श्रायतेरपि हि कृतात्त्वस्यैतद्रूपं भवत्येव। निपातनाच्च लक्षणप्रतिपदोक्तपरिभाषा (व्या.प.3) प्रतिबन्धं न करोति। `णन्तस्याण्यन्तस्य च' इति। विशेषानुपादानात्‌। तथा चोक्तम्‌--श्राश्रप्योः श्रृतमिति।
यदि विभाषेत्यनुवर्त्तते क्षीरहविषोरपि पक्षे श्राणम्‌, श्रपितमिति स्यात्‌; ताभ्यामन्यत्रापि पक्षे श्रृतमिति प्रसज्येत? इत्यत आह--`व्यवस्थितविभाषेयम्‌' इति।
`यदापि' इत्यादि। प्रयोजकव्यापारः प्रेषणाध्येषणादिः कार्ये कारणोपचारं कृत्वा प्रयोजकशब्देनोक्तः। स हि प्राकृतादर्थाद्बाह्यो भवति, तत्र तस्यानन्तर्भावात्‌। तत्र यदा `हेतुमति च' (3.1.26) इति द्वितीयो णिजुत्पद्यते, तदापि क्षीरहविषोरपि निपातनमेतन्नेष्यते; व्यवस्थितविभाषाविज्ञानादेव। तथा चोक्तम्‌--श्रपेः शृतमन्यत्र हतोरिति। हेतुमाण्णिचोऽन्यत्रेत्यर्थः। द्वितीयग्रहणं यदैकमेव भवति, तदेष्टत्त्वाच्‌ श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति तत्प्रयोजको हेतुश्च' (1.4.55) इति चकाराद्देवदत्तयज्ञदत्तयोः कर्त्तृ संज्ञाविधानादुभयत्रापि कर्त्तरि तृतीया। `श्रपितम्‌' इति। श्रातेर्णिच कृते `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्‌, `मितां ह्रस्वः' (6.4.92) क्षीरं स्वयमेव श्राति स्म--तद्यदा देवदत्तदेन प्रयुज्यते स्म तदा `हेतुमति च (3.1.26) इति प्रथमो णिच्‌। सोऽपि श्रपयन्‌ यदा यज्ञदत्तेन प्रयुज्यते स्म तदा द्वितीयः। `णेरनिटि' (6.4.51) इति पूर्वस्य णेर्लोपः, ततः क्षीरे प्रयोज्ये कर्मणि निष्ठा--श्रृतमिति।
`ण्यन्तस्याण्यान्तस्य च निपात्येते' इति प्रतिज्ञाते सति युक्तं ण्यन्तस्याप्येतन्निपातनम्‌--येषां श्रातिश्चुरादावपि पठ्यते इत्यभ्युपगमः। ये तु चुरादावस्य पाठं न प्रतिजानते तेषां कथं ण्यन्तस्येतन्निपातनं युज्यते, न च शक्यते वक्तुम्‌--तेषामपि हेतुमण्ण्यन्तरयैतन्निपातनं युज्यते; `श्रपेः शृतमन्यत्र हेतौः' इति भाष्यकारवचनादिति यश्चोदयेत्‌, तं प्रत्याह--`श्रातिरयम्‌' इत्यादि। कर्मभावापन्नेऽपि योऽर्थः सौकर्य्यात्‌ स्वातन्त्र्येण विवक्ष्यते स कर्मकर्त्ता, कर्म कर्ता भवतीति कृत्वा। कर्म चासौ कर्त्ता चेति विशेषणसमासः, स यस्य विषयः स कर्मकर्त्तृविषयः। अर्थद्वारकं चेदं विशेषणं पचेः कर्मकर्त्तृविषयत्वं वेदितव्यम्‌। तस्य योऽर्थः पच्यमानकर्त्तृकत्वं विक्लेदनमात्रं तत्रायमकर्मकः--श्रातिर्वर्त्तते। यदा तु स ण्यन्तो भवति तदा प्राकृतं पच्यर्थमाह। प्रकृतौ भवः प्राकृतः, स पुनर्यः प्रकृत्यन्तस्य पचेरर्थः पक्तृकर्त्तृको विक्लेदनोपसंहारादिः स इह वेदितव्यः। देवदत्तादिपक्तृकर्तृकं प्राकृतं पाकाख्यं पच्यर्थमाहेत्यर्थः। तत्र द्वयोरपि शृतमिष्यत इति योऽण्यन्तः श्रातिः कर्मकर्तृविषयेण पचिना समानार्थस्त्रत्रापीष्यते। योऽपि ण्यन्तः प्राकृतं पच्यर्थमाह तत्रापीष्यते। तत्र शृतं क्षीरं स्वयमेवेति प्रथमस्योदाहरणम्‌। शृतं क्षीरं देवदत्तेनेति द्वितीयस्य। ननु च `श्रपेः शृतमन्यत्र हेतोः' इति भाष्ये उक्तम्‌, तत्‌ कथं द्वयोरपीष्यते? एवं मन्यते--यदिदं भाष्ये उक्तम्‌--`श्रपेः शृतमन्यत्र हेतोः' इति, तत्र `अन्यत्र हेतोः' इत्यनेन सर्वस्य हेतुमण्णिचः पर्युदासो न विधित्सितः अन्यथा विप्रतिषिद्धमिदं स्यात्‌, असति हि श्रातेश्चुरादौ पाठे यदि श्रपेः शृतमिति निपात्यते, कथमन्यत्र हेतोरिति पर्युदासः! अथान्यत्र हेतोरिति पर्युदासो न तर्हि श्रपेः शृतमिति निपातनमुपपद्यते। न हि श्रातेश्चुरादावसत पाठे श्रातेर्हेतुमण्णिचं त्यत्क्वाऽन्यस्ततो णिजस्ति। तस्माद्यस्य हेतुमण्णिचो न केनचित्‌ प्रकारेण स्वार्थिकत्वमुपपद्यते स एव भाष्यकारस्य पर्युदासविषयत्वेनाभीष्टः। स पुनर्यो बाह्ये प्रयोजके द्वितीयो णिजुत्पद्यते स विज्ञेयः। यस्य तु केनचित्‌ प्रकारेण स्वार्थिकत्वमुपपद्यते, स एव भाष्यकारस्य पर्युदासविषयत्वेन न प्रकल्प्यते, तस्यैतन्निपातनमिष्टमेव। स पुनर्यस्मिन्नुत्पन्ने श्रातिः प्राकृतं पच्यर्थमाह स विज्ञेयः, शक्यते हि तस्य पचिना प्रकृत्यर्थेन समानार्थत्वात्‌ स्वार्थिकत्वमुपचारेणाभिधातुमिति। तदेवमिह पाठेऽपि चुरादौ श्रातेर्ण्यन्तस्याप्येतन्निपातनं युज्यत एवेति।।
28. प्यायः पी। (6.1.28)
`पीनम्‌' इति। `ओदितश्च' (8.2.45) इति निष्ठानत्वम्‌।
`इत्यमपि' इत्यादि। अपिशब्देन न केवलं पूर्वसूत्रे या विभाषा सैव व्यवस्थितविभाषा, अपि त्वेषापीति दर्शयति। तेन किं सिद्धं भवति? इत्याह--`तेन' इत्यादि। सोपसर्गस्य तु नैव भवतीत्यस्यापवादमाह--`आङ्पूर्वस्य' इत्यादि। नित्यश्चायमन्धूधसोः पीभावः। व्यवस्थितविभाषैव।।

29. लिङ्यङोश्च। (6.1.29)
`विभाषेति निवृत्तम्‌' इति। उत्तरसूत्रे पुनर्विभाषाग्रहणात्‌। अन्यथापीदमेव तत्रानुवर्त्तिष्यत इति तन्न कुर्यात्‌। अत एवोच्यते--द्वयोर्दिभाषयार्मध्ये ये विधयस्ते नित्या भवन्तीति। `प्यायः पीत्येतच्चशब्देनानुकृष्यते' इति। इतरथा हि सम्प्रसारणस्य प्रकृतत्वाल्लिङ्यङोः प्यायः सम्प्रसारणं विज्ञायेत। चशब्दे तु सत्यनन्तरेणैवपीभावेन सम्बन्धः सुखमवसीयते। नाप्राप्ते द्विर्वचने पीभावो विधीयते। तेन तस्य बाधकं प्राप्नोतीति कस्यचिदाशङ्का स्यात्‌। अतस्तां निराकर्त्तुमाह--`परत्वात्‌' इत्यादि। विरोधे हि सति बाधा स्यात्‌, इह तु विरोधो नास्ति। अतः परत्वात्‌ पीभावे कृते पुनःप्रसङ्गवज्ञानात्‌ सिद्धमिति द्विर्वचनं भवतीति।।

30. विभाषा श्वेः। (6.1.30)
`शुशाव' इति। लिटि णलि सम्प्रसारणे कृते वृद्ध्यावादेशौ। `शिश्वाय' इति। यदा न सम्प्रसारणं तदा वृद्ध्यायादेशौ। `शुशुवतुः, शिश्वियतुः, इति। यदा सम्प्रसारणं तदोवङ्‌, अन्यदेयङ्। `अप्राप्तम्‌' इति। केनचिवविहितत्वात्‌।
`लिट्यभ्यासस्योभयेषाम्‌' (6.1.17) इत्युभयत्रोभयग्रहणादन्यत्‌ कार्यं प्रवर्तमानमपास्याभ्यासस्य सम्प्रसारणमेव यथा स्यादित्येतदुभयेषांग्रहणस्य प्रयोजनमुक्तम्‌। ततश्चेयमपि विकल्पं बाधित्वा नित्यं सम्प्रसारण मेव स्यादिति कस्यचिद्भ्रान्तिः स्यात्‌ अतस्तां निराकर्त्तुमाह--`यदा च' इत्यादि। अत्र श्वयतेर्विभाषा सम्प्रसारणमुच्यते, यदि कदाचिद्धातोर्न सम्प्रसारणं भवति तदाब्यासस्य स्यात्‌ ततश्च श्वयतेः सम्प्रसारणं पाक्षिकं न कृतं स्यात्‌। स्यादेतत्‌--लिट्परस्य शक्यतेरिदं विकल्पेन कार्यं विधीयते, तस्य च तदस्त्येवेति? असम्यगेतत्‌; द्विष्प्रयोगे हि द्विर्वचने क्रियामात्रं भिद्यते, न धातुरूपमिति कुतः पूर्वपरयोः कार्यसम्बन्धं प्रति भेदः? तस्माद्यदा धातोर्न भवति तदाभ्यासस्यापि न भवत्येव।।

31. णौ च संश्चङोः। (6.1.31)
`णौ च संश्चङोः' इति भिन्नाधिकरणे सप्तम्यौ---संश्चङोः परतो यो णिस्तस्मिंण्णौ परतो यः श्वयतिरिति। `शुशावयिषति' इति। श्वयतेर्णिच्‌, सन्‌, सम्प्रसारणम्‌, वृद्धिरावादेशः `शु' इत्येतस्य द्विर्वचनम्‌। `अशूशवत्‌' इति। लुङ्, च्लेश्चङ्, सम्प्रसारणादिकम्‌, पूर्ववण्णिलोपः, `णौ चङि' (7.4.1) इति ह्रस्वः, द्विर्वचनम्‌, `दीर्घो लघोः' (7.4.94) इति दीर्घः। ननु च श्वयतेर्णिचि तदन्ताच्च सनि कृते चङि चान्तरङ्गत्वात्‌ पूर्ववृद्ध्यायादेशाब्यां भवितव्यम्‌, ततः सम्प्रसारणेन। तथा च सति शुशुययिषतीति सन्परे णौ भवितव्यम्‌, चङ्परे तु--अशूशुयदिति, तत्‌ कथं शुशावयिषति, अशूशवदिति चोदाहृतम्‌? इत्याह--`सम्प्रसारणम्‌' इत्यादि। आदिशब्देनायावेशः परिगृह्यते। सम्प्रसारणाश्रयं पुनरत्र `सम्प्रसारणाच्च' (6.1.108) इति परपूर्वत्वम्‌। `तेनापि वृद्ध्यादिकं बाध्यते' इति। नन्वेवमपि वृद्ध्यावादेशयोः कृतयोः शावित्यस्य द्विर्वचनं प्राप्नोति न केनचित्‌ णौ स्थानिवद्भावो विहितः? इत्यत आह--`ओः पुयण्ज्यपरे' इत्यादि। यत्र चैतज्ज्ञापकं तथा तस्यैव वृत्तावुपपादयिष्यामः।।

32. ह्वः सम्प्रसारणम्‌। (6.1.32)
`जुहावयिषति' इति। अत्रापि पूर्ववद्बलीयस्त्वाद्बृद्ध्यादेः प्राक्‌ सम्प्रसारणं भवति, अभ्यासस्य `कुहोश्चुः' (7.4.62) इति चुत्वम्‌--हकारस्य झकारः। तस्य `अभ्यासे चर्च' (8.4.54) इति जश्त्वम्‌--जकारः। अथात्र कस्मात्‌ `साच्छाशाह्वा' (7.3.37) इत्यादिना प्रागेव सम्प्रसारणाद्युगागमो न भवति? इत्याह--`सम्प्रसारणस्य' इत्यादि।
ननु च सम्प्रसारणग्रहणमनुवर्त्तत एव, तत्‌ किमर्थ पुनः सम्प्रसारणमित्युच्यते? इत्याह--`सम्प्रसारणमिति' इत्यादि। पूर्वकं हि सम्प्रसारणग्रहणं विभाषेत्यनेन सम्बद्धम्‌, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्‌। तस्माद्विभाषेत्यस्य निवृत्तये पुनः सम्प्रसारणमित्युक्तम्‌।
अथ कस्माद्योगविभागः क्रियते, यावता `ह्वः सम्प्रसारणमभ्यस्तस्य च' इत्येकयागेऽपि जुहावयिषतीत्यादि सिद्ध्यत्येव, अत्रापि ह्वयतरभ्यस्तस्य कारणत्वेन सम्बन्धी भव्त्येव, तथा च`एकाचो द्वे प्रथमस्य' (6.1.1) इति स एव द्विरुच्यमानोभ्यसतस्य कारणं भवत्येव? इत्याह--`ह्वः सम्प्रसारणम्‌' इत्यादि। एकयोगेनैव सिद्धे पृथग्योगकरणेनायमर्थो न ज्ञाप्येत, तदा स्यादेवात्र सम्प्रसारणम्‌। भवति ह्यत्रापि ह्वपतिरभ्यस्तस्य निमित्त्म्‌। ह्वायकशब्दाण्ण्वुलन्तात्‌ क्यच्‌, `क्यति च' (7.4.33) इतीत्त्वम्‌, क्यजन्तात्‌ सन्‌, इट्‌, `अतो लोपः (6.4.48) द्विर्वचनम्‌।।

33. अभ्यस्तस्य च। (6.1.33)
चकारः `ह्वः' इत्यनुकर्षणार्थः, अत एवाह--`ह्व इत्यनुवर्त्तते' इति। यदि `ह्वः' इत्येतन्नानुवर्त्तते ततोऽभ्यस्तमात्रस्य स्यात्‌। तत्र `ह्वः' इत्यनुवर्त्तमानस्याभ्यस्तस्येत्यनेन यदि समानाधिकरण्यं स्यात्‌, तदा द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात्‌। एवञ्च `न सम्प्रसारणे सम्प्रसारणम्‌ (6.1.37) इत्यभ्यासस्य सम्प्रसारणं न स्यात्‌। यद्यपि परेण हरूपेण व्यवधानम्‌, तथापि समानाङ्गग्रहणात्‌ तस्य व्यवधानेऽपि प्राप्नोत्येवात्र प्रतिषेधः, यथा यूनेत्यत्र--इतीमं पक्षे सामानाधिकरण्ये दोषं पश्यन्नाह--`तदभ्यस्तस्येत्यनेन व्यधिकरणम्‌' इति। भिन्नाभिधेयमित्यर्थः। `अब्यस्तस्य यो ह्वयतिः' इत्यादिना सम्बन्धलक्षणां षष्ठीं ख्यापयंस्तदेव वैयधिकरण्यं दर्शयति। तेन किं सिद्धं भवति? इत्याह--`तेन' इत्यादि। `जुहाव' इति। सम्प्रसारणे वृद्ध्यावादेशयोः स्थानिवद्भावेन हु इत्यस्य द्विर्वचनम्‌।।

34. बहुलं छन्दसि। (6.1.34)

35. चायः की। (6.1.35)
`निचिक्यु' इति। `एरनेकाचः' (6.4.82) इत्यादिना यणादेशः। `निचाय्य' इति। ल्यबन्तमेतत्‌। दीर्घोच्चारणं चिकीवानित्यत्र दीर्घस्य श्रवणार्थम्‌। इदं क्वसौ रूपम्‌।।

36. अपस्पृधेथामानृचुरानृहुश्चिच्युषेतत्याजश्राताः श्रितमाशीराशीर्त्ताः। (6.1.36)
`अकारलोपश्च' इति। धातोरवयवो योऽकारस्तस्य निपातनाल्लोपः। `अपास्पद्धैथाम्‌' इति। अपाकारस्य `आटश्च' (6.1.90) इति सवर्णदीर्घत्वम्‌।
`विषयविभागमिच्छति' इति। स च निपातनसामर्थ्यालल्लभ्यत इति वेदितव्यम्‌। यदिक्वचिदप्येकस्मिन्‌ श्राभावो दृश्यते, तदर्थं तर्हि यत्नान्तरमास्थेयम्‌। न हि श्राता इत्यनेनैतदपि सिद्धयति; सूत्रे बहुवचननिर्देशात्‌। अत आह--`तस्य' इत्यादि।।

37. न सम्प्रसारहणे सम्प्रसारणम्‌। (6.1.37)
येषां सम्प्रसारमुक्तं तेषां यावन्तो यणः सम्भवन्ति तेषां सर्वेषां सम्प्रसारणं प्राप्तमिति प्रतिषेधोऽयमारभ्यते। ननु चालोऽन्त्यपरिभाषया (1.1.52) अन्त्यस्यैव भविष्यति, नानन्त्यस्य? नैतदस्ति; न ह्यनया परिभाषया शक्यमिहोपस्थातुम्‌। विचस्वपियजादीनामन्त्यस्य यणोऽसम्भवात्‌। एवं तर्हि `अनन्त्यविकारेऽन्त्यसदेशस्य'
 (व्या.प.63) इत्यन्त्यसदेशस्य कार्यं भविष्यति--अन्त्यसदेशो यो यण्‌ तस्यैव कार्यं भविष्यति, नैतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्‌। यदाह--तस्याः परिभाषाया सन्ति प्रयोजनातीति। तस्मात्‌ कर्त्तव्यमेतत्‌ सूत्रम्‌।
ननु च पूर्वपरयोरेकयोगलक्षणं सम्प्रसारहणम्‌, ततो यदि तत्‌ परस्याभिनिर्वृत्तं तदा पूर्वस्याप्यभिनिर्वृत्तमेव, न चाभिनिर्वृत्तस्य निवृत्तिः शक्यते कर्त्तुम्‌, नाप्यनभिनिर्वृत्तस्य निमित्तत्वेनाश्रयणं युज्यते, ततोऽस्मादेव प्रतिषेधवचनात्‌ तत्‌ परस्य तावत्‌ क्रियते; तत्र कृते तु पूर्वस्यापि प्राप्तं प्रतिषिध्यते। अथ सम्प्रसारणमित्यनुवर्त्तमाने पुनः सम्प्रसारणं किमर्थम्‌? इत्याह--`सम्प्रसारणम्‌' इत्यादि। असति पुनः सम्प्रसारणग्रहणे `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या. प.19) इति प्रकृतस्यैव सम्प्रसारणस्य प्रतिषेधः स्यात्‌, न विदेशस्थस्य। तस्माद्विदेशस्थस्यापि भिन्नप्रकारणविहितस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः सम्प्रसारणग्रहणम्‌। `यूनो यूना' इति। सम्प्रसारणे कृते परपूर्वत्वे कृते च `अकः सवर्णे दीर्घः' (6.1.101)। ननु च क्रियमाणेऽपि पुनः सम्प्रसारणग्रहणे तत्र प्रतिषेधो न स्यात्‌, सवर्णदीर्घत्वस्य पूर्वविधौ स्थानिवद्भावे सत्युकारव्यवहितत्वात्‌? अत आह--`सम्प्रसारणग्रहणसामर्थ्यदेव' इत्यादि। यदि स्थानिवद्भावः स्यात्‌, अनर्थकं पुनः सम्प्रसारणग्रहणं स्यादित्यभिप्रायः। अभ्युपेत्य पुनः परिहारान्तरमाह--`सति वा' इत्यादि। सम्प्रसारणग्रहणसामर्थ्यादेवात्राश्रूयमाणोऽपिशास्तरान्तरेण स्थानिवद्भावमापन्नो योऽज्‌ व्यवधानं करोति, तन्मात्रेण व्यवधानं नाश्रयिष्यते--मा भूत्‌ सम्प्रसारणग्रहणमनर्थकमिति। ननु च `यूनश्च कुत्सायाम्‌ (4.1.167), `वृद्धो यूना' (1.2.65) इति निपातनादेव यूनः, यूनेत्यत्र सम्प्रसारणं न भविष्यति, तत्‌ किमेतन्निवृत्त्यर्थेन पुनः सम्प्रसारणग्रहणेन? नैतदस्ति; अबाधकन्यपि निपातनानि भवन्तीत्युक्तम्‌। अपि चैतद्विषयमेव निपातनं विज्ञायते, तथा च--यूनः, यूना यूनीत्यत्र सम्प्रसारणं स्यादेवेति। `आरेवान्‌' इति। रयिरस्यास्तीति मतुप्‌। सम्प्रसारणे कृते `आद्गुणः'; (6.1.87), `छन्दसीरः' (8.2.15) इति वत्वम्‌।।

38. लिटि वयो यः। (6.1.38)
वयेर्द्वौ यणौ, तत्र पूर्वण वकारस्य सम्प्रसारणप्रतिषेधे प्राप्ते यकारस्यानेन सम्प्रसारणं लिटि प्रतिषिद्ध्यते। तत्र प्रतिषिद्धे यकारः सम्प्रसारणभाग्न भवतीति वकारस्य सम्प्रसारणं भवति धातोरभ्यासस्य च; तत्र धातोर्ग्रह्यादिसूत्रेण (6.1.16) अभ्यासस्य `लिट्यब्यासस्योभयेषाम्‌' (6.1.17) इत्यनेन। अथ किमर्थं लिह्ग्रहणम्‌, यावता वयेरादेशस्य लिटोऽन्यत्र सम्भवो नास्ति, तद्विधौ `लिट्यन्यतरस्याम्‌' (2.4.40) इत्यतो लिङ्ग्रहणानुवृत्तेः, तत्सामर्थ्यादेव लिटि भविष्यति? इत्यत आह--`लिङ्ग्रहणमुत्तरार्थम्‌' इति। `वेञः' (6.1.40) इति प्रतिषेधो लिटि यथा स्यादित्येवमर्थं लिङ्ग्रहणम्‌।।

39. वश्चास्यान्यतरस्यां किति। (6.1.39)

40. वेञः। (6.1.40)

41. ल्यपि च। (6.1.41)

42. ज्यश्च। (6.1.42)

43.व्यश्च। (6.1.43)
`योगविभाग उत्तरार्थः' इति। उत्तरत्र व्येञ एव विभाषा सम्प्रसारणं यथा स्यात्‌, `ज्या' इत्यस्य मा भूदित्येवमर्थो योगविभागः।।

44. विभाषा परेः। (6.1.44)

45. आदेच उपदेशेऽशिति। (6.1.45)
`धातोरिति वर्त्तते' इति। `लिटि धातोरनभ्यासस्य' (6.1.8) इत्यत; तस्य च धातोरेवैच इति विशेषणम्‌, विशेषमेन च तदन्तविधिर्भवतीत्याह--`एजन्तो यो धातुः' इति। `उपदेशे' इति। आद्युच्चारणे गणपाठ इत्यार्थः। `चेता, स्तोता' इति। ननु च लक्षणप्रतिपदोक्तपरिभाषयैवात्र (व्या.प.3) न भविष्यति, तत्‌ किमुपदेशग्रहणेन? एवं तर्हि उपदेशग्रहणमतेतज्ज्ञापयति--अनित्यैषा परिभाषेति। एतेन `अर्त्तिह्री' (7.3.36) इत्यादिसूत्रे लाक्षणिकस्याप्याकारस्य ग्रहणे सति क्रापयतीत्यादावपि पुक्‌ सिद्धो भवति। `श इद्‌ यस्य सोऽयं शित्‌' इति। यश्च `लिटस्तझयोरेशिरेच्‌' (3.4.81) इत्येशादेशः स शिद्भवति, ततश्च शिति प्रतिषेधे क्रियमाण एश्यप्यात्त्वं न प्राप्नोति। अत्रायादेशे कृते स्थानिवद्भावेन `ग्लै' इत्यस्य द्विर्वचने `जग्लाय' इत्यनिष्टं रूपं स्यात्‌--इति मन्यमान आह--`कथम्‌' इत्यादि। `ग्लै इत्यादौ `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। `नैवम्‌' इत्यादिना परिहारः। श एव इत्‌ शिदिति विज्ञायमाने सत्यल्ग्रहणमेव भवति। तत्र `यस्मिन्‌ विधिस्तदादावल्ग्रहणे' (व्या.प.127) परिभाषया शिदादौ प्रत्यये प्रतिषेधेन भवितव्यम्‌, न चैश्‌ शिदादिः; किं तर्हि? शिदन्तः शिदन्तस्यैवोच्चारणात्‌। तस्मादत्रैशि प्रतिषेधो न भवति। अशितीति पर्युदासो वा? प्रसज्यप्रतिषेधो वा? तत्र यदि पर्युदासः, तदा शितोऽन्यदात्त्वनिमित्तमाश्रितं स्यात्‌। एवञ्च यावदात्त्वस्य निमित्तं न भवति तावदात्त्‌वेन भवितव्यमिति; अनाकारान्तत्वात्‌। `सुगलः' इत्यादावाकारान्तलक्षणः कप्रत्ययो न स्यादित्येच्चेतसिकृत्वाऽऽह--`अशति' इत्यादि। तेन किं सिद्धं भवति? इत्याह--`तेन' इत्यादि। प्रसज्यप्रतिषेधे ह्यात्त्वस्य शिति प्रतिषेधः क्रियते, न तु किञ्चिन्निमित्त्माश्रीयत इति तदनैमित्तिकं भवति। अतः प्रागेव प्रत्ययोत्पत्तेरात्त्वं भवतीत्याकारान्तलक्षण) प्रत्ययः सिद्ध्यति, तेन `सुग्लः' इत्यादि। सिद्धं भवति। आदिशब्देन सुग्लः, सुग्ला--इत्यादेर्ग्रहणम्‌। तत्र हि स्त्रियाम्‌ `आतश्चोपसर्गे (3.3.106) इत्यङ्।।

46. न व्यो लिटि। (6.1.46)
`व्येञ् संवरणे' (धा.पा.1007)। अथालिटीति कस्मान्न ज्ञायते, तुल्या हि संहिता? नैतदस्ति; यदि ह्येवं स्यात्‌, `लिटि व्यः' इति नियम एव कृतः स्यात्‌--लिट्येवात्त्वम्‌, नान्यत्रेति। लक्ष्यस्थित्या च विपरीतनियमो भविष्यति। द्विवचनबहुवचनयोः सम्प्रसारणे पूर्वरूपत्व आत्त्‌वे च सत्यसति वा नास्ति विशेष इत्येकवचनान्तमुदाहृतम्‌। `संविव्ययिर्थः' इति। थलि वलादिलक्षणस्येटः `एकाचः' (7.2.10) इत्यादिना प्रतिषेधः। पुनरपि क्रादिनियमार्थः प्राप्तः, सोऽपि `अचस्तास्वत्‌ (7.2.61) इत्यादिना प्रतिषिद्धः, पुनः `ऋतो भारद्वाजस्य' (7.2.63) इति नियमाद्विकल्पे प्राप्ते `इडर्त्तिव्ययतीनाम्‌' (7.2.66) इति नित्यं क्रियते।।

47. स्फुरतिस्फुलत्योर्घञि। (6.1.47)
`विस्फारः, विस्फालः' इति। भावे घञ्‌, `हलश्च' (3.3.121) इति करणाधिकरणयोर्वा।।

48. क्रीङ्जीनां णौ। (6.1.48)
`डुक्रीञ्‌ द्रव्यविनिमये' (धा.पा.1473) `इङ् अध्ययने' (धा.पा.1046) `जि जये' (धा.पा.561)। अनुपदेशार्थ आरम्भः। क्रापयतीत्यादावात्वे कृते `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्‌। किमर्थमिदमुच्यते, न `क्रप कुत्सायां गतौ' (धा.पा.771), `जप जल्प व्यक्तायां वाचि' (धा.पा.397,398), `आप्लु व्याप्तौ (धा.पा.1260) इत्यस्य चाधिपूर्वस्य णिचि कृते क्रापयतीत्यादिकं रूपं सिद्धम्‌, अनेकार्थत्वाद्‌धातुनां क्रोणात्याद्यर्थे क्रपादयो वर्त्तिष्यन्ते? उच्यते; क्रीणात्यादीनां णिचि प्रयोगान्तरनिवृत्त्यर्थम्‌। अथ करोतेः` ईङ्‌ गतौ' (धा.पा.1143) इत्यस्य ग्रहणं कस्मान्न विज्ञायते? उच्यते; करोतेस्तावन्न सम्भवति, एच इत्यधिकारात्‌। अत एव वृत्तिकृता `एचः' इत्यनुवर्त्तितम्‌। वचनसामर्थ्याद्वा तस्य हि वृद्ध्यैवात्त्वं सिद्धम्‌? नैतदस्ति; नियमार्थहि स्यात्‌--आत्त्वमेव, न पुना रपरत्वामिति? नैतदस्ति; `विधिनियमसम्भवे विधिरेव ज्यायान्‌' (व्या.प.130) इति क्रीणातेरेव ग्रहणम्‌। न करोतेः, तस्य नियमार्थत्वात्‌। क्रीणातेस्तु विध्यर्थत्वात्‌। `ईङ् गतौ' (धा.पा.1143) इत्यस्यापि ग्रहणं न सम्भवति; जयतिना हरस्वान्तेन साहचर्य्यात्‌। इङ्‌ ह्रस्वान्तो ग्रहीष्यते, न दीर्घान्तः; शब्दपरविप्रतिषेधात्‌। जयतिना साहचर्य्यम्‌, न क्रीणातिना। व्याख्यानतो वा विशेषोऽवसेयः..

49. सिध्यतेरपारलौकिके। (6.1.49)
`अन्नं साध्यति' इति। अन्नं निष्पादयतीत्यर्थः। अत्र हि सिधिः पारलौकिके़र्थे ज्ञानविशेषे वर्त्तत इति। अस्यार्थं--`तापसः सिध्यति' इत्यादिना स्पष्टीकरोति। `उपसंहारन्‌' इति। निष्पादयन्नित्यर्थः।
`इह कस्मान्न भवति' इत्यादि। एवं मन्यन्ते--ब्राह्मणेभ्यो दास्यामीत्यनेनाभिप्रायेण योऽन्नं साधयति स जमान्तरे भवन्‌ फलमभ्युदयलक्षणं प्राप्नोति, तस्मात्‌ पारलौकिकेऽर्थे सिधिरत्र वर्त्तत इति पर्युदासेन भवितव्यमिति। सिध्यतेरत्रार्थो निष्पत्तिरित्यादिनेहलोकार्थतां त्वस्य दर्शयति। `तस्याः प्रयोजनमन्नम्‌' इति। अन्नमुद्दिश्य प्रवृत्तत्वात्‌। `तस्य' इति। अन्नस्य। `न पुनः सिद्धिरेवेति' इति। अर्ताल्लिङ्गविपरिणामं कृत्वा न पुनः सिद्धिरेव पारलौकिकीति सम्बन्धनीयम्‌। सिद्धिर्निष्पत्तिरित्यर्थः। इतिकरणो हेतौ। यस्मात्‌ सिद्धो धातुर्वर्त्तते। अत्र सिद्धिः पारलौकिकी न भवति, तस्मान्नात्रात्वं पर्युदस्यते। स्यादेतत्‌ यद्यपि साक्षाद्‌धातुः परलोकार्थो न भवति, पारम्पर्येण तु भवत्येव, तस्माद्भवितव्यमेव प्रतिषेधेन इत्याह--`साक्षात्‌' इत्यादि। यदि साक्षादव्यवधानेन परलोकार्थो यः सिद्ध्यतेरर्थः, तत्रापि पारलौकिक इतीदं वचनं न कृतार्थं स्यात्‌, तदा पारम्पर्येणापि यः परलोकार्थस्तत्र व्याप्रियेत--मा भूद्वचनवैयर्थ्यमिति। इदं तु ज्ञानविशेषे साक्षात्‌ परलोकार्थे सिध्यत्यर्थे चरितार्थम्‌, ततो नोत्सहत एवंविधविषयमवगाहितुम्‌। न शक्नोत्येवम्प्रकारे विषये नि,ेधः प्रवर्त्तितुमित्यर्थः।
अथ सिद्ध्यतेः श्यना निर्देशः किमर्थः, न सिधेरित्येवोच्येत, एवं हि लघु सूत्रं भवति? इत्याह--`सिद्ध्यतेः' इत्यादि।।

50. मीनातिमिनोतिदीङां ल्यपि च। (6.1.50)
`उपदेश' (6.1.45) इत्यनुवृत्तेः प्रागेव प्रत्ययोत्पत्तेरात्त्वेन भवितव्यमिति, अत आत्वविधानकाले ल्यपः परत्वं न सम्भवतीति तस्माल्ल्यपीति विषयसप्तमीयं विज्ञायत इत्याह--`ल्यपि विषये' इति। एच इति यद्यपि प्रकृतविशेषणं प्रागासीत्‌, तथापीहोपदेशाधिकारान्मीनातिप्रभृतीनां चोपदेशावस्थायामेचोऽसम्भवात्‌ सामर्थ्याद्विषयविशेषणं विज्ञायत इत्याह--`एचश्च विषये' इति। `उपदेशे' इत्यस्य प्रागित्यादिनार्थमाचष्टे। `प्रमाय' इति। `समासेऽनञ्‌' (7.1.37) इति ल्यप्‌।
कः पुनरुपदेशावस्थायामेवात्त्वविधानेऽर्थः सम्पद्यते, यदर्थमुपदेशावस्थायामात्त्वं क्रियते? इत्याह--`उपदेश एव' इत्यादि। इवर्णान्तलक्षणः `एरच्‌' (3.3.56) इत्यच, आकारान्तलक्षणः `आतो युच्‌' (3.3.128) `उपदायः' इति। उपदेश एवात्त्वे कृते सत्यचो निमित्तं विहितमित्युसर्ग एव `भावे' (3.3.18) इति घञ्‌ सिद्धो भवति। `आतो युक्‌ चिष्कृतोः' (7.3.33) इति युक्‌। `ईषदुपदानम्‌' इति। उपदेशावस्थायामात्त्वे खलपवादो युच्‌ सिद्धो भवति।।

51. विभाषा लीयतेः। (6.1.51)
`तयोरुभयोरपि यका निर्देशः स्मर्यते' इति। आचार्यैः। अथ दैवादिकस्यायं श्यना निर्देशः कस्मान्न विज्ञायते? अत एव निर्देशात्‌। यदि दैवादिक एवात्र निर्देष्टुमभीष्टः स्यात्‌, अनुबन्धेन लीङ इति निर्देशं कुर्यात्‌। तस्मात्‌ साधारणेनागन्तुकेन यकायमुभयोर्निर्देशः। `ईषत्प्रमयः' इति। `ईषद्‌दुःसुषु' (3.3.126) इत्यादिना खल्‌। `निमयो वर्त्तते' इति। `एरच्‌' (3.3.56) इत्यच्‌।
`अत्र तु लियो व्यवस्थितविभाषया विज्ञानात्‌ सिद्धम्‌' इति। `लियः' इत्युपलक्षणमात्रम्‌, इतरयोरपि सिद्ध एव; विभाषाग्रहणस्य पूर्वेणापि सूत्रेण सम्बन्धात्‌। व्यवस्थितविभाषाविज्ञानात्‌ प्रलम्भनशालीनीकरणयोश्च णौ नित्यमात्त्वं भवति। व्यवस्थितविभाषाविज्ञानादेव। `उल्लापयते, अपलापयते' इति। `लियः सम्माननशालीनीकरणयोः' (1.3.70) इत्यात्मनेपदम्‌।।

52. खिदेश्छन्दसि। (6.1.52)
`चिखाद' इति। `पुगन्तलघूपधस्य' (7.3.86) इति गुणे कृत आकारः। यदि खादिरपि खिदेरर्थे वर्त्तते, ततोऽयं योगः शक्योऽकर्त्तुम्‌; खादेस्तु--चखादेति भविष्यति, खिदेस्तु--चिखेदेति।।

53. अपगुरो णमुलि। (6.1.53)
`अपगारमपगारम्‌' इति। `आभीक्ष्ण्ये द्वे भवतः' (वा.887) इति द्वित्वम्‌।।

54. चिस्फुरोर्णौ। (6.1.54)
`क्रीङ्जीनां णौ' (6.1.47) इत्यत्र प्रदेश इदं नोक्तम्‌; नित्यं मा भूदित्येवमर्थम्‌।।

55. प्रजने वीयतेः। (6.1.55)
यदि `वा गतिगन्धनयोः (धा.पा.1050) इत्ययं धातुः प्रजने वर्त्तते, ततः शक्यतेऽपि योगोऽवक्तुम्‌; वातेर्हि--वापयतीति भविष्यति, वीयतेस्तु--वाययतीति।।

56. बिभेतेर्हेतुभये। (6.1.56)
`हतुभये' इति। `पञ्चमी भयेन' (2.1.37) इति पञ्चमीसमासोऽयमित्याह--`ततो यद्भयम्‌' इति। किं पुनस्ततो भयम्‌? इत्याह--`स यस्य भयस्य' इत्यादि। अथात्त्वपक्षे षुगागमः कस्मान्न भवति? अस्ति ह्यत्रापि प्राप्तिः--`एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इत्यत आह--`स च' इत्यादि। `भियो हेतुभये षुक्‌' (7.3.40) इत्यत्र हि भी+ई इ त ईकारेण प्रश्लिष्टस्य निर्देशः कृतः--ईकारान्तस्यैव षुग्‌ यथा स्यात्‌, आकारान्तस्य मा भूदीति। तथा लियो ग्रहणम्‌, तस्याप्यात्त्वपक्षे `लीलोर्नुक्लुकावन्यतरस्यां स्नेहविपातने' (7.3.39) इति नुग्न भवति। ईकारप्रश्लेषनिर्देशादेवेति प्रसङ्गेन व्युत्पादितम्‌।।

57. नित्यं स्मयतेः। (6.1.57)
`भयशब्देन धात्वर्थसाम्यात्‌' इत्यादि। यश्च बिभेतरर्थो यश्च स्मयतेः, तौ द्वापि सदृशौ; चित्तविकार स्वभावतया। द्वावपि तौ चित्तसंक्षोभलक्षणौ, अतो द्वयोरपि यत्‌ सामान्यं तत्‌ सादृश्यम्‌। तस्माद्भयशब्देनात्र स्मयतेरर्थोऽभिधीयते। दृश्यते हि सादृश्यादर्थान्तरेऽपि शब्दानां वृत्तिः, यथा--सिंहो माणवक इति। किं पुनः कारणमेवं व्याख्यायते? इत्याह--`न हि' इत्यादि। `हेतुभये' (6.1.56) इत्यनुवर्त्तते। उच्यते चेदं विशेषणम्‌। न च मुख्ये भये स्मयतेर्वृत्तिस्ति। तत्र सामर्थ्यात्‌ केनचित्‌ सादृश्येन स्मयत्यर्थ एव भयशब्देनात्राभिधीयत इति विज्ञायते।।

58. सृजिदृशोर्झल्यमकिति। (6.1.58)
`स्रष्टा, द्रष्टा' इति। उमागमे कृते यणादेशः, व्रश्चादि (8.2.36) सूत्रेण षत्वम्‌। `लघूपधगुणापवादौऽयम्‌' इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्‌; सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा--ब्राह्यणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। `अस्राक्षीत्‌, अद्राक्षीत्‌' इति। `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्‌, `अस्ति सिचोऽपृक्ते' (7.3.96) इतीट्‌, `वदव्रजहलन्तस्याचः' (7.2.3) इति वृद्धिः, `षढोः कः सि' (8.2.41) इति कत्वम्‌। `वृद्धिरमिकृते भवति' इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह--`पूर्वन्तु बाध्यते' इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्‌ पुनःप्रसह्गविज्ञानात्‌ सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्‌। न ह्यमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते।
अथेह कस्मान्न भवति--रज्जुसृङ्भ्याम्‌, देवदृग्भ्यामिति; सत्यपि धात्वधिकारे `क्विबन्ता धातुत्वं न जहति (व्या.प.132) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह--`धातोः' इत्यादि।।

59. अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्‌। (6.1.59)
`उपदेश इति वर्तते' इति। अनुदात्तस्य विशेषणार्थम्‌। तेन त्रप्तेत्यत्र यद्यपि तृनि विहिते नित्स्वरेण धातोरुदात्तत्वम्‌, तथाप्युपदेशावस्थायामनुदात्त इत्यमागमः सिद्धो भवति; इह च वर्ढेति यद्यपि तृचि कृते धातुरनुदात्तो भवति, तथाप्युपदेशावस्थायान्नायमनुदात्त इत्यमागमो न प्रवर्तते; किमर्थं पुनरनुदात्तस्येत्युच्यते, अनिट इत्येव नोच्येत, एवं हि लघु सूत्रं भवति? इत्याह--`तृप प्रीणने' इत्यादि। तृप्यतिदृप्यत्योः `रधाधिभ्यश्च' (7.2.45) इतीट्‌ विकल्प्यते, ततो यद्यनिट एवोच्येत, तदा पाक्षिकेणेटा नैतावनिटाविति तयोरमागमो न स्यत्‌। अथ पाक्षिकेणेङ्भावेन तयोर्निट्त्वादमागमो भवति, तथा च सति `वृहू उद्यमने (धा.पा.1347) इत्यस्यापि स्यात्‌, अयमप्यूदित्त्वात्‌, पाक्षिकेङ्भावादनिङ्भवति। तस्मान्न शक्यतेऽनिट इति वक्तुमित्यभिप्रायः। यदि तर्ह्यनयोरिङ्विकल्प्यते, तदानुदात्तोपदेशः किमर्थः? स ह्येवमर्थः क्रियते--`अनुदात्तात्त्‌' (7.2.10) इतीट्प्रतिषेधो यथा स्यात्‌। यदि तर्ह्यनयोरिङ्विकल्प्यते, किं तेन? इत्यत आह--`अनुदात्तोपदेशः पुनरमर्थ एव' इति। `वर्ढा' इति। `होः ढः' (8.2.31), `ष्टुना ष्टुः', (8.4.41) `ढो ढे लोपः' (8.3.13)। यदाप्युदात्तोपदेशस्तदेडत्र प्राप्नोति? इत्याह--`उदित्त्वात्‌' इत्यादि। `स्वरतिसूति' (7.2.44) इत्यादिनास्योदित्त्वादिङ्विकल्प्यते, ततस्तेन सत्युदात्तत्वे पक्ष इडभावो न भवति। चकारोऽपमनुकर्षणार्थः। तेनोत्तरत्र तस्यानुवृत्तिर्न भवति।।

60. शीर्षंश्छन्दसि। (6.1.60)
किं पुनः कारणमादेशो नेष्यते? इत्याह--`सोऽपि हि' इत्यादि। यतः शिरःशब्दोऽपि च्छन्दति प्रयुच्यते, ततो नायमादेशः प्रयुज्यते। आदेशे हि सति शिरःशब्दस्य च्छन्दसि विषये प्रयोगो न स्यात्‌, निवृत्तिधर्मत्वात्‌ स्थानिनः। यद्यन्यतरस्यांग्रहणमिहानुवर्त्तते तदादेशेऽप्यदोषः। `शीर्षा' इति। `नोपधायाः' (6.4.7) इति दीर्धः। क्वचित्‌ शीर्ष्णेति पठ्यते, तत्‌ तृतीयान्तं द्रष्टव्यम्‌। `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः। `शीर्ष्णः' इति। षष्ठ्येकवचनान्तमेतत्‌।।

61. ये च तद्धिते। (6.1.61)
यदि यकारादावपि तद्धिते प्रकृत्यन्तरं विज्ञायते ततो यदि शिरःशब्दाद्यकारादिस्तद्धित उत्पद्यते, तदा तस्य श्रवणमापद्येत, न चेष्यते इत्यत आह--`आदेशोऽयमिष्यते' इति। स्वानिनोऽनुपादानादिहाप्यादेशी न युज्यत इत्यभिप्रायेणाह--`स कथम्‌' इति। `तद्धित इति हि' इत्यादि। यस्मादिह यकारादिस्तद्धितः परनिमित्तमुपा दीयते, न चानुपादाय प्रकृतिं तद्धित उत्पद्यते, न च शीर्पञ्शब्द एव प्रकृतिर्युक्ता; तस्य भाषायामसम्भवात्‌। स हि च्छन्दसि निपातितः, भाषायाञ्चेदम्‌। तस्मात्‌ प्रकृत्यन्तरादुत्पन्ने यकारादौ तद्धिते विधीयमाने या तेन प्रकृतिराक्षिप्ता तस्या आदेशोऽयं विज्ञायते। आदेशोऽपि हि विज्ञायमानो न यस्य कस्यचिद्विज्ञायते, अपि तु शिरःशब्दस्यैव। यतः स तद्धितस्तदनुरूपां तस्यादेशस्य शब्दतश्चार्थतश्चान्तरतमां प्रकृति शिरःशब्दमेवाक्षिपति। `शीर्षण्यः' इति। अट्कुप्वादिना (8.4.2) णत्वम्‌।
`शिरस्यति' इति। `सुप आत्मनः क्यच्‌' (3.1.8)।
`वा केशेषु' इति। केशेष्वभिधेयेषु शिरशब्दस्य शीर्षन्नित्यादेशी वा वक्व्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्‌--अन्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन शिरसः केशेषु वा शीर्षन्नादोशो भविष्यतीति।।

62. अचि शीर्‌षः। (6.1.62)
`स्थौलशीर्षम्‌' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। किमर्थं पुनरादेशान्तरं विधीयते, न प्रकृत एव शीर्षन्नादेशो विधीयताम्‌? तत्रापि `नस्तद्धिते' (6.4.144) इति टिलोपे कृते सिध्यत्येवेष्टमित्याह--`शीर्षम्भावे' इत्यादि।
`ष्यङादेशे' कृते' इत्यादि। `अणिञोरनार्षयोः' (4.1.78) इत्यादिना, तस्य शीर्षस्य शिरःशब्दग्रहणेन ग्रहणादिति स्थानिवद्भावेन शीर्षन्नादेशः प्राप्नोतीति। `ये च तद्धिते' (6.1.61) इत्यनेनैव। `तत्र' इत्यादि। प्रकृतिभावप्राप्तिस्तु `ये चाभावकर्मणोः' (6.4.168) इत्यनेन। `हास्तिशीर्षण्या, हास्तिशीर्ष्या' इति। `यङश्चाप्‌' (4.1.74) इति चाप्‌। तत्‌ कथमिति हास्तिशीर्ष्येति। कथमिष्टं सिध्यतीत्यर्थः। `कर्त्तव्योऽत्र यत्नः' इति। स पुनर्यत्नः--शिरस्याः केशा इत्यसय सिद्धये य एव प्रकृतः स ेव वेदितव्यः। व्यवस्थितविभाषयैव हि शीर्षशब्दस्य शिरःशब्देन ग्रहणाच्‌शीर्षन्नादेशो न भविष्यतीति; तेन हास्तिशीर्ष्येत्येवं भवति, न हास्तिशीर्षण्येति। `अणिञन्ताद्वा' इत्यादि। `अणिञोरनार्षयोः' (4.1.78) इत्यत्र सूत्रे द्वौ पक्षौ--अणिञोः स्थान आदेश ष्यङ् विधीयत इत्येकः पक्षः, अणिञन्तात्‌ परः ष्यङ्प्रत्ययो भवतीति द्वितीयः तत्रादेशपक्षेऽयं दोषः आपततीत्यणिञन्तात्‌ परः ष्यङाश्रयितव्य इति प्रत्ययपक्ष आश्रायितव्य इत्यर्थः। आदेशपक्षे `येत्नो वा कर्त्तव्यः' इति। विकल्पार्थो वा वाशब्दः। अथ तत्रापि प्रत्यपक्ष आश्रीयमाणे शीर्षस्य शीर्षन्नादेशः कस्मान्न भवति? इत्याह--`तत्र' इत्यादि। यदा प्रत्ययः ष्यङ् तदा तस्मिन्‌ परतो योऽसाविञः `यस्येत च' (6.4.148) इति लोपस्तस्य पूर्वविधौ कर्त्तव्ये स्थानिवद्भावाद्‌व्यवधानम्‌। अतो यकारादेः शीर्षन्नादेशनिमित्तस्य तद्धितस्य व्यवधानादादेशो न प्राप्नोतीति भावः।।

63. पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु। (6.1.63)
इहापि शस्प्रभृतयो निमित्तत्वेनोपादीयन्ते, ते च प्रकृत्या विना नोपपद्यन्त इति भावः। तेषु प्रकृत्यन्तराद्विहितेषु विधीयमानाः पदादय आदेशा विज्ञायन्ते। न च स्थानिनोऽनुपादानादियमेनादेशप्रसङ्गः, यतस्तेष्वादिश्यमानेषु शस्प्रभृतयोऽनुरूपमेव पादादिकां स्वार्थिकीं प्रकृतिमाक्षिपन्तीत्याह--`पाददन्तनासिका' इत्यादि। पदित्याद्युदाहरणेषु पदो दत इति शसन्ते। `यूष्णः, दोष्णः, यक्नः, शक्नः' ति षष्ठ्येकवचनान्तानि। `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः। `मासि, निशि, आसनि' इति सप्तम्येकवचनान्तानि। आसनीत्यत्र `विभाषाङिश्योः' (6.4.136) इति पक्षेऽकारलोपो न भवति। शेषाणि तृतीयैकवचनान्तानि। `पादौ, नासिके' इति प्रथमाद्विवचनान्ते।
कस्मात्‌ पुनरन्यतरस्यामित्येतदनुवर्त्तयन्ति? इत्याह--`तेन पादादयोऽपि' इत्यादि। यस्मात्‌ पादादयोऽपि प्रयुज्यन्ते तस्मादन्यतरस्यामित्यनुवर्त्तयन्ति।
व्यवस्थावाचिनि प्रभृतिशब्द आश्रोयमाणे शस्प्रभृतिभ्योऽन्यत्रादेशो न सिध्यतीत्यभिप्रायेणाह--`प्रकारार्थे प्रभृतिशब्दः' इति। `दोषणी' इति। केचिदाहुः--प्रथमाद्विवचने दोषन्नादेशः, औङः शीभावः। अन्ये त्वाहुः--दोषणीति ङीबन्तमेतत्‌, ङीपि विषयभूते दोषन्नादेशः, ततः `ऋन्नेभ्यो ङीप्‌' (4.1.5)।
`नस्यम्‌' इति। हितार्थे `शरीरावयवाद्यत्‌' (5.1.6)। `नस्तः' इति। `अपादाने चाहीयरुहोः' (5.4.45) तसिः। `नःक्षुद्रः' इति। नासिका क्षुद्रा यस्येति बहुव्रीहिः।
`नासिक्यो वर्णः' इति। भवार्थे `शरीरावयवात्‌' (5.1.6) इति यत्‌। नासिक्यं नगरमिति अत्र हितार्थे यत्‌।।

64. धात्वादेः पः सः। (6.1.64)
`सिञ्चिति' इति। `शे मुचादीनाम्‌' (7.1.59) इति नुम्‌।
`षोडश' इति। षट्‌ वा दश वास्येति `संख्यायाव्यय' (2.2.25) इत्यादिना बहुव्रीहिः, `संख्येये ङच्‌' (5.4.73) इत्यादिना समासान्तो ङच्‌। `षोडन्‌' इति। षट्‌ दन्ता अस्येति बहव्रीहिः, `वयसि दन्तस्य दतृ' (5.4.141) इति दन्तशब्दस्य दत्रादेशः। `षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (वा.765) इति षष उत्वम्‌, उत्तरपदादेश्च ष्टुत्वम्‌--डकारः। `षण्डः' इति। प्रातिपदिकान्तमेतदव्युत्पन्नम्‌। `षडिकः इति। अनुकम्पितः षडङ्गुलिदत्त इति `बह्वचो मनुष्यनाम्नष्ठच्‌' (5.3.78) इति ठच्‌ ठाजादावूर्ध्वं द्वितीयादचः' (5.3.83) इत्यङ्गुलिदत्तशब्दस्य लोपः। ननु च `लिटि धातोः' (6.1.8) इत्यतोऽत्र धातुग्रहणमनुवर्त्तिष्यते, तदिह किं पुनर्धातुग्रहणेन? एवं तरह्हि एतज्ज्ञापयति--तन्निवृत्तमिति। तस्य ह्यनुवृत्तौ `लोपो व्योर्वलि (6.1.66) इत्ययमपि लोपो धात्ववयवस्यैव विज्ञायते। क्नूयी (धा.पा485), क्तः--क्नूतः क्ष्मयी (धा.पा.486), क्तः--क्ष्मात इत्यत्रैव स्यात्‌; गौधरः, पचेरन्नित्यत्र न स्यात्‌। नन्वेवमपि धातुग्रहणमनर्थकमेव, यस्मादुपदेश इति वर्त्तत एव, न च प्रातिपदिकानामुपदेशः, केषां तर्हि उपदेशः? धातूनाम्‌? नैतदस्ति; उपदेशाधिकारोऽयुपदेशग्रहणेन षकारो विशिष्यते, षषश्च षकार उपदेशो भवति। `षष उत्त्वं दतृदशधासूत्तरपदादेः (वा.765) इति सूत्रे पाठात्‌। तस्मात्‌ धातुग्रहणं कर्त्तव्यम्‌। `कषति' इति। भ्वादौ कषसिधेत्यादिहिसार्थो धातुवर्गे पठ्यते। `लषति' इति। `लष कान्तो'(धा.पा.888) अनयोरादिगारहणस्य भवति। ननु चोपदेशसामर्थ्यादेवात्र न भविष्यतीति, अन्यथा ह्युपदेशस्य वैयर्थ्य स्यात्‌? नैतस्ति; अस्ति ह्यन्यतूपदेशस्य प्रयोजनम्‌। किं तत्‌?--`शेषे विभाषाऽकखादाववान्त उपेदेशे' (8.4.17) इत्यत्र केषेर्ग्रहणं मा भूत; लेषतुः, लेषुरिति षत्वं यथा स्यात्‌।
किमर्थं पुनः षादयो उपद्ष्टाः, न सादयो ह्युपदिश्येरन्‌, एवं ह्येतत्‌ सूत्रं न कर्त्तवयं भवति? इत्यत आह--`आदेशप्रत्ययोः' इत्यादि। षत्वव्यवस्थां=षत्वनियमः। `आदेशप्रत्यययोः' (8.3.59) इत्यनेन सहादीनामेव षत्वव्यवस्था यथा स्थादित्येवमर्थम्‌। षादपः केचिदुपदिष्टाः अन्यथा सहादीनां षत्वार्थ यत्नान्तरं कर्त्तव्यं स्यात्‌। तच्च गुरु भवतीत्यभिप्रायः। यद्यपि षकारादिषु सन्देहो न भवति, सकारादिषु च भवत्येव। अत्र हि न ज्ञायते--किं षोपदेशा एव सन्तः `धात्वादेः षः सः' (6.1.64) इत्यनेन कृतसत्वा उच्चारिताः? उत सकारादय एव? इति सन्दिह्य पृच्छति--`के पुनस्ते' इति। `ये यथा पठ्यन्ते' इति। षादयो ये यथा पठ्यन्ते सन्निधानात्‌ त एव षोपदेशा अवगन्तव्याः। `अज्दन्त्यपराः' इत्यादि। अज्दन्त्यौ परौ येषामिति तेऽब्दन्त्यपराः। परशब्दोऽत्रावयवे वर्त्तते। तच्चाच्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्‌ सकारापेक्षं विज्ञायते। `स्मिस्विदिस्वञ्जिस्वपयश्च' इति। `ष्मिङ्ईषद्धमने' (धा.पा.948), `ञिष्विदा गात्रप्रक्षरणे' (धा.पा.1188), `ष्वन्ज परिष्वङ्गे' (धा.पा.976) `ञिष्वप्‌ शये' (धा.पा.1068) एते स्वरूपेणाख्यायन्ते; मकारवकारयोरज्दन्त्यत्वाभावात्‌। केचित् स्मिस्वदिस्वदिस्वञ्जिस्वपयश्चेति स्विदिस्थाने स्वदिं पठन्ति, तेषां `तेषां स्वद [`ष्वद'--धातुपाठः ] स्वर्द आस्वादने' (धा.पा.18,19) इति स्वदिरपि षोपदेश एव। `सृपिसृजिस्तृस्त्यासेकृसृवर्जम्‌' इति। `गम्लु सुप्लृ गतौ (धा.पा.982,983), `सृज विसर्गे (धा.पा.1178), `स्तृञ्‌ आच्छादने' (धा.पा.1252), `ष्ट्य स्त्यै शब्दसङ्घातयोः', (धा.पा.911,910) `सेक [सेकृ, स्रेक--धा.पा.] सेकृ श्रकि श्लकि गत्यर्थाः' (धा.पा.81,82,84,85), `सृ गतौ' (धा.पा.935) एतान्‌ वर्जयित्वा येऽन्येऽज्दन्तत्यपरास्ते षोपदेशाः।
`सुब्धातु' इत्यादि। सुब्धातुः क्यजाद्यन्तः। `ष्ठिच्‌ निरसने' (धा.पा.560), `ष्वक्क [अत्रत्याःधातवः केचन धातुपाठे न सन्ति] वुक्क मक्कतिक्क टिक्क टीक्क वगि लगि गत्यर्थाः--एषां प्रतिषेधो वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्‌--सुब्धातौतावत्‌ षोडीयतीत्यादौ नैव धात्वादिः षकारः, तथा ह्यादिरवयवः। आरम्भकश्चावयवो भवति, सुब्दातुः सबन्तेन क्यचा चारभ्यते। न च षकारेणापि वर्णान्तरेणेति कुतस्तस्य षकारादित्वम्‌? सहादयस्तु षकारादिभिरेव वर्णेरारभ्यन्त इति युक्तं तेषां षकारादित्वम्‌। ष्ठिवेरपि निपातनान्न भवति, किं तन्निपातनम्‌? `ष्टिवुक्लमुचमां शिति' (7.3.75) इति। यस्य हि सत्वं भवति तमयं प्रदेशेषु कृतसत्बमेवोच्चारयति यथा प्रदेशे--`स्थाध्वोरिच्च' (1.2.17) इति। ष्वक्केरप्यज्दन्त्यपरा इत्यनेन निवर्त्तितत्वान्न भवति। वकारस्य दन्त्यौष्ठ्यत्वादज्दन्त्यग्रहणेन न गृह्यते। अथ वा यादित्यात्‌ ष्ठिवुष्वक्कोर्न भविष्यति, यकारस्तु लुप्तनिर्दिष्टत्वान्न श्रूयते। अथ वा--अन्यतरस्यांग्रहणमत्रानुवर्त्तते सा च व्यवस्थितविभाषा विज्ञायते, तेन सुब्धात्वादीनां न भवतीति। `षष्ठीवति' इति। `ष्ठिवुक्लमुचमां शिति' (7.3.75) इति दीर्घः। `ष्वक्कते' इति। अनुदात्तेत्त्वादात्मनेपदम्‌। अथ ष्ठिवो द्वितीयवर्णः किं ठकार इष्यते? उत थकारः? यदि ठकारस्तदा सिद्धम्‌--टेष्ठीष्यत इति, न सिध्यति--तेष्ठीव्यत इति, `अभ्यासे चर्च्च' (8.4.54) इति टकार एवान्तरतमष्ठकारस्य स्थाने प्राप्नोतीति कृत्वा; अथ थकारस्तदा सिद्धम्‌--तेष्ठीव्यत इति, एतन्न सिध्यति--टेष्ठीव्यत इति, आन्तरतम्याद्विधीयमानस्थकारस्य स्थाने तकार एव प्राप्नोतीत्यत आह--`ष्ठिवु इत्येतस्य' इत्यादि। ब्यासस्य द्वैरूप्यं यथा स्यादिति। केचिदाचार्येम शिष्या `ठकारोऽयम्‌' इत्युपदिष्टाः। अपरे पुनः `थकारोऽयं ष्टुत्वेन ठकारः श्रूयते' इतीममर्थं ग्राहिताः। उभयं चैतत्‌ प्रयोजनम्‌। अन्ये पुनरहुः--ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्रैकस्य द्वितोयस्थाकारः, अपरस्य तु ठकार इति। तेष्ठीव्यत इति `शर्पूर्वाः खयः' (7.4.61) शेषः।।

65. णो नः। (6.1.65)
`सुब्धातोरयमपि नेष्यते' इति। पूर्वस्मदेव हेतोः। `उपसर्गादसमासेऽपि' इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। `नृतीनन्दि' इत्यादि। `नृती गात्रविक्षेेपे' (धा.पा.1116), `टुनदि समृद्धौ' (धा.पा.67), `नर्द गर्द्द शब्दे' (धा.पा.56,57), `नक्क वक्क [`धक्क'--घातुपाठः] नाशने' (धा.पा.1593,1594), `नट अवस्यन्दने' [अवस्पन्दने--घातुपाठः] (धाचपा.1545) चुरादिणिजन्तः, `नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु' (धा.पा.6.7), `नृ नये' (धा.पा.809,1495)।।

66. लोपो व्योर्वलि। (6.1.66)
`लिटि धातोः' (6.1.8) इत्यस्य धातुग्रहणस्य दृष्टानुवृत्तिसामर्थ्यादिहाप्यनुवृत्तिरिति मन्यमानस्य धातोरेवायं वलि व्यलोपो विधीयत इति कस्याचिद्भ्रान्तिः स्यात्, अतस्तं निरकर्त्तुमाह--`धातोरिति यत्‌ प्रकृतम्‌' इत्यादि। `दिदिवान्‌' इति। दिवेः क्वसौ रूपम्‌। `ऊयी' इति। `ऊयी तन्तुसन्ताने (धा.पा.483) `क्नूयो' इति। `क्नूयी शब्दे' (धा.पा.485) `गौदेरः' इति। `गोधाया ढ्रक्‌' (4.1.129) ढस्यैयादेशः, यकारलोपः। `पचेरन्‌' इति। सीयुड्यकारस्य लोपः। `जीवेः' इति। `जीव प्राणधारणे' (धा.पा.562) इत्यस्य। `स्रिवेः' इति। `स्रिवु गतिशोषणयोः' (धा.पा.1109) इत्येतस्य। `आस्रेमाणम्‌' इति। औणादिकोऽयं मनिन्‌। कथं पुनरेतदिहोदाहरणम्‌, यावता परत्वात्‌ `वार्णादाङ्गं बलीयो भवति' (व्या.प.39) इति बलीयस्त्वात्‌ `च्छवोः शूडनुनासिके च' (6.4.19) इत्यादिनोठादेशेनात्र भवितव्यम्‌? इत्यत आह--`उणादयो बहुलम्‌' इत्यादि। बहुलग्रहणस्य सर्वविधिव्यभिचारार्थत्वान्न भवत्येष दोषप्रसङ्ग इति।
पश्चाल्लोपग्रहणे क्रियमाणे पकारात्‌ परेणाध्यर्धमात्रोच्चारयितव्या भवति, अकगारो हि मात्रा, विसजं नीयस्त्वर्धमात्रः। पूर्वं तु लोपग्रहणे क्रियमाणे मात्राद्वयमुच्चारयितव्यं जायते; ओकारस्य द्विमात्रिकत्वात्‌। तत्र लाघवार्थं पश्चादेव लोपग्रहणं कर्त्तु युक्तम्‌, तत्‌ किं पूर्वं क्रियते? इत्यत आह--`पूर्वम्‌' इत्यादि। अन्यस्तु पूर्व कार्यिनिर्देशो युक्तः, पश्चात्‌ कर्यनिर्देश इति पूर्व व्योर्ग्रहणे कर्त्तव्ये किमर्थ लोपग्रहणं क्रियत इति पूर्वपक्षं वर्णयति, स चायुक्तः `लुगणिञोः' (2.4.58) इत्यत्र कार्यस्यापि पूर्व निदशात्‌। `वेरपृक्तलोपात्‌' इत्यादि। कण्डूयतेर्लोलूयतेश्च क्विपि कृते वलि लोपात्‌ परत्वात्‌ कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वं वेरपृक्तलोप एव स्यात्‌। अस्मिंश्च सति निमित्ताभावात्‌ वर्णाश्रये प्रत्ययलक्षणाभाद्ववलि लोपो न स्यात्‌ तस्मात्‌ पूर्वं लोपग्रहणं क्रियते--वलि लोप एव पूर्वं यथा स्यात्‌। पूर्वं लोपग्रहणे ह्ययमर्थः सूच्यते--वेरृक्तलोपत्‌ पूर्व वलि लोप एव कर्त्तव्यमिति। `कण्डूः' इति। `अतो लोपः' (6.4.48) इत्यकारलोपः। क्विलुगुपधात्वचङ्गपरनिह्रसिकुत्वेषु न स्थानिवत्‌' (1.1.58 वा.2) इत्यकारस्य स्थानिवद्भावो न भवति वलि लोपः। अथ व्रश्चकः, व्रश्चन इत्यत्र रेफे वलि परतो वकगारलोपः कस्मान्न भवति? इत्याह--`व्रश्चादीनाम्‌' इत्यादि। यद्येषामपि लोपः स्यात्‌, वकारोच्चारणमनर्थकं स्यात्‌। अतश्चोच्चारणसामर्थ्याद्व्रश्चादीनां वलि लोपो न भवति। स्यादेतत्‌--वृश्चति, वव्रश्चेत्यत्र सम्प्रसारणे हलादिशेषे च वकारस्य श्रवणं यथा स्यात्‌, तत्‌ कुत उपदेशस्य वैयर्थ्यम्‌? अत आह--`वृश्चति' इत्यादि। यथा व्रश्चक इत्यादौ लोपस्य प्राप्तिः, एवं वृश्चतीत्यादावपि सम्प्रसारणादौ कार्ये कृतेऽपि; तस्य बहिरङ्गत्वेनासिद्धत्वात्‌। तत्र सम्प्रसारणं ङित्प्रत्ययापेक्षत्वात्‌ बहिरङ्गम्‌। हलादिशेषेऽभ्यासापेक्षत्वाद्बहिरङ्गः, वलि यलोपस्तु वर्णमात्राश्रयत्वादन्तरङ्गः। तस्मात्‌ सर्वत्रैव व्रश्‌चेर्वकारलोपः प्राप्नोति। क्रियते चास्यो पदेशः, अत उपदेशसामर्थ्यान्न भविष्यतीति तदेवावस्थितम्‌।।

67. वेरपृक्तस्य। (6.1.67)
`वेः' इत्यादि। क्विबादेरन्यस्य वेरपृक्तसंज्ञकसयाभावात्‌ क्विबादय एव गृह्यन्ते, कथं पुनर्वेरित्युच्यमाने क्विबादीनां सामान्येन ग्रहणमुपपद्यते, यावता प्रकारादयस्येषां विशेषा अनुबन्धाः सन्ति? इति चोद्यनिरासाये दमुक्तम्‌--`विशेषाननुबन्धानुत्सृज्य' इति। `ब्रह्यहा, भ्रूणहा' इति। `सौ च' (6.4.13) इति दीर्घः `घृतस्पृक्‌' इति। `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्‌। `अर्धभाक्‌'
 इति। `चोः कुः' (8.2.30) इति कुत्वम्‌।
दर्विरित्यादौ `उणादयो बहुलम्‌' (3.3.1) इति बहुलग्रहणादेव लोपो न भवतीति शक्यते वक्तुम्‌, अतः प्रपञ्चार्थम्‌। वैचित्र्यार्थं वाऽपृक्तग्रहणम्‌।।

68. हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्त हल्‌। (6.1.68)
यदि लोप इति इहानुवर्त्तमानं शास्त्रीयेणार्थेनैवार्थवत्‌ स्यात् तदा तेन हलित्यस्य प्रथमान्तस्य सामानाधिकरण्येन सम्बन्धो नोपपद्यते। शास्त्रीयस्य हि लोपशब्दस्यार्थः---दर्शनाभावः=आदर्शनम्‌, न च हलदर्शनं भवति। न च `हल्ङ्याब्भ्यः' इति पञ्चमी हलिति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति। सामर्थ्याद्वा हलित्यस्य षष्ठ्यन्ततया विपरिणामो भविष्यति, अतः षष्ठ्यन्तस्य लोपशब्देन सम्बन्धो भवष्यतीति शक्यं प्रकल्पयितुम्‌; अकृतार्थत्वात्‌ प्रथमायाः षष्ठीभावस्यानुपपत्तेरित्येतदालोच्याह--`तदिह' इत्यादि। `लुप्यत इति लोपः'। कर्मणि घञ्‌। एतेन लौकिकार्थेनार्थवत्त्वं लोपशब्दस्य दर्शयति। लुप्यत इति निरुध्यत इत्यर्थः। लौकिकेनार्थेनार्थवता कर्मसाधनेन लोपशब्देन हलित्येतस्य विशेषणविशेष्यबाव उपपद्यते। लोपशब्देन हि लुप्यमानं वर्णमात्रमुच्यते। ` सुतिस्यपृक्तं हल्‌' इति। अनेन च तदेव विशिष्यते। `दीर्घात्‌' इति। एतच्च ङ्यापोरेव विशेषणम्‌; सम्भवाव्यभिचारात्‌, न तु हलन्तस्य; असम्भवात्‌। `उखास्रत्‌; पर्णध्वत्‌ इति। `स्रन्सु ध्वन्सु अधःपतने;, (धा.पा.754,755) उखायां स्रंसते पर्णानि ध्वंसत इति क्विप्‌ `अनिदिताम्‌' (8.4.56) चर्त्वम्‌--तकारः। `कुमारी' ति। `वयसि प्रथमे' (4.1.20) इति ङीष्‌। `गौरी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्‌। `शार्ङ्गरवी' इति। `शार्ङ्गरवाद्यञो ङीन्‌' (4.1.13) इति डाप्‌। `कारीषगन्ध्या इति। `यङ्श्चाप्‌' (4.1.74)।
`हलन्तादेव तिलोपः सिलोपश्च' इति। ननु ङ्याबन्तादित्येकारेण दर्शयति, न हि ङ्याबन्तात्‌ परौ तिसी सम्भवतः, धातोरेव परस्य लकारस्य तयोर्विधानात्‌। `अबिभर्भवान्‌' इति। गुणे रपरत्वे च कृते तिलोपः। `अजागर्भवान्‌' इति। `जाग्रोऽविचिण्णल्ङित्सु' (7.3.85) इति गुणः। भवानित्यनुप्रयोगस्तिशब्दाभिव्यक्तये। `अभिनः' इति। भिदेर्लङ् `दश्च' (8.2.75) इति रुत्वम्‌, `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्त्वम्‌, इनमोऽकारेण सह `आद्‌ गुणः, (6.1.87) `एङः पदान्तादति' (6.1.109) इति पूर्वरूपत्वम्‌। `ग्रामणीः' इति। ग्रामं नयतीति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्‌। `निष्कौशाम्बिः' इति निर्गतः कौशाम्ब्या इति प्रादिसमासः, `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वत्वम्‌। `अतिखटवः' इति। खट्वामतिक्रान्त इति पूर्ववत्‌ समासे कृते ह्रस्वः। `अभैत्सीत्‌' इति। `वदव्रज' (7.2.3) इति वृद्धिः, अपृक्त इट्‌। ननु सीति सामान्येन निदशात्‌ सिचोऽपि गरहणम्‌, अतो न युक्तमिदं प्रत्युदाहरणम्‌? अत आह--`तिसहचरितस्य' इत्यादि। तिङ्‌तिशब्देन साहचर्यात्‌ तिङ् एव सेर्ग्रहणम्‌, न सिच इति किमत्रायुक्तम्‌। `बिभेद' इति। णलोऽकारोऽत्र भवत्यपृकतः, न तु हल्‌ इति नासौ लुप्यते।
`संयोगान्तलोपेनैव सिद्धम्‌' इति। राजेत्यादिकमुदाहरणमिति शेषः। कथं पुनर्न सिध्यति? इत्यत आह--`राजा, तक्षा' इत्यादि। यथा पचन्नित्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति; तथा राजा, तक्षेत्यादावपि न स्यात्‌। संयोगान्तलोपासिद्धत्वं चात्र पारम्पर्येण हेतुः। तस्मिन्‌ सति हि सौ परतः पूर्वस्य पदसंज्ञा न भवति; `असर्वनामस्थाने' (1.4.17) इति प्रतिषेधात्‌। तस्यां चासत्यां पदस्येत्युच्यमानो नलोपो न स्यात्‌, नलोपे चासति राजेत्यादिकं रूपं न सिध्येत्‌। `दत्वम्‌' इति। न स्यादिति प्रकृतेन सम्बन्धनीयम्‌। दत्वमपि हि संयोगान्तलोपस्यासिद्धत्वादसत्यां पदसंज्ञायां न स्यात्‌। अथ वा--संयोगान्तलोपोऽत्र न प्रवर्त्तत एव, तस्य `स्कोःसंयोगाद्योरन्ते च' (8.2.29) इति संयोगादिलोपोऽपवादभूत इति स एव स्यात्‌, यथा--काष्ठं तक्ष्णोतीति काष्ठतङित्यत्र। तस्मिंश्च सति विभक्तिसकारस्य रुत्वविसर्गौ स्यातामिति कुतो दत्त्वम्‌! `उत्त्वम्‌' इति। न स्यादित्यपेक्षते, एतदपि संयोगान्तलोपस्यासिद्धत्वात्‌। अलब्धपदव्यपदेशस्य न स्यात्‌। `रात्सस्य' (8.2.24) इति `नियमात्‌' इति। `संयोगान्तस्य लोपः' (8.2.23) इत्यनेनैव सिद्धेः। `रात्सस्य' (8.2.24) इति `नियमात्‌' इति। `संयोगान्तस्य लोपः' (8.2.23) इत्यनेनैव सिद्धेः। `रात्सस्य' (8.2.24) इति नियमार्थमिदम्‌--रात्सस्यैव लोपो यथा स्यात्‌, नान्यस्येति। ततश्चाबिभर्भवानित्यत्र तकारस्य लोप एव न स्यात्‌। तस्मात्‌ संयोगान्तलोपेन न सिध्यतीति हलन्ताल्लोप उच्यते।
अस्यैवार्थस्य सुखोपग्रहणार्थं `संयोगान्तस्यलोपे हि' इत्यादि। सङ्ग्रहश्लोकस्योपन्यासः। हिशब्दो हेतौ। यस्मात्‌ संयोगान्तलोप आश्रीयमाणे नलोपादिकं कार्यं न सिध्यतीति। किञ्च--ते=तव, भवतः संयोगान्तलोपवादिनः रात्तु रेफात्तु परस्य तकारस्याबिभर्भवानजगर्भवानित्यत्र नैव लोपः स्यात्‌। तस्माद्वलन्तात्‌ सुतिसीनां लोपो विधीयते।।

69. एङ्हस्वात्सम्बुद्धेः। (6.1.69)
`हलिति च' इति। वर्त्तत इत्यपेक्षते। यदि हलिति नानुवर्त्तेत, तदा हे कुण्ड+सु इति स्थिते लोपात्‌ परत्वादम्भावे कृते `आदेः परस्य' (1.1.54) इत्यकारलोपे `सुपि च' (7.3.102) इति दीर्घत्वे च हे कुण्डमित्यनिष्टं रूपं स्यादित्यभिप्रायः। `अपृक्तमिति नाधिक्रियते' इति। यदि ह्यपृक्तमिहानुवर्तेत, तर्हि हे कुण्डेत्यत्र लोपो न स्यात्‌; अपृक्तसंज्ञाया अभावादिति भावः। कथं पुनर्ज्ञायते--अपुक्त इह नानुवर्त्तते? इत्याह--`तथा च' इत्यादि। तथा चेति हितौ। यस्मात् पूर्वसूत्रेऽपृक्तग्रहणं कृतमतोऽवसीयते--नात्र प्रकरणेऽपृक्तग्रहणस्यानुवृत्तिरस्तौति; अन्यथा हि `वेरपृक्तस्य' (6.1.67) इत्यत एवापृक्तग्रहणमनुवर्त्तिष्यत इति पुनरपृक्तग्रहणं पूर्वसूत्रे न क्रियेतेति। `स चेत्‌ सम्बुद्धेर्भवति' इति। यदि सम्बुद्धेः सम्बद्धो भवतीत्यर्थः। एतेन सम्बुद्धेरित्यस्यावयवषष्ठ्यन्ततां दर्शयति। `हे अग्ने, हे वायो' इति। `ह्रस्वस्य गुणः' (7.3.108)। `हे नदि, हे वधु' इति। `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वत्वम्‌। `हल्मात्रस्य मकारस्य लोपः' इति। हलित्यनुवृत्तेः।
हे कतरदित्यत्रैकादेशे कृते ह्रस्वात्‌ सम्बुद्धेर्हल्‌ भवतीति तस्य लोपः कस्मान्न भवति? इत्याह--`हे कतरत्‌' इत्यादि। `अद्ड्डतरादिभ्यः' (7.1.25) इत्यत्र द्विडकारनिर्देशात्‌ डिच्छब्द आदेशो भवतीति डित्वाट्‌ टिलोपे ह्रसवो नास्तीति न भवति लोपः।
अथैङ्ग्रहणं किमर्थम्‌, यावता हे अग्ने इत्यादावपि प्रागेव सम्बुद्‌धिगुणाद्‌ ह्रस्वादित्येवं लोपे न भवितव्यम्‌? इत्यत आह--`एङ्ग्रहणम्‌' इत्यादि। नित्यत्वात्‌ परत्वाच्च सम्बुद्धिगुमो बलीयानिति तनैव तावत्‌ भवितव्यम्‌, तत्र कृते ह्रस्वात्‌ परः सम्बुद्धेर्हल्‌ न सम्भवतीति लोपो न प्राप्नोति, अत एङ्ग्रहणं क्रियते। ननु च विहितविशेषणं विज्ञास्यते--ह्रस्वाद्विहितायाः सम्बुद्धेरिति? नैतदस्ति; एका हीयं पञ्चमी, तत्र यदि ह्रस्वाद्विहिति विशेषणं विज्ञायते तदैङन्तादपि विज्ञायेत। तथा च --हे गौरित्यत्रापि स्यात्‌। तस्मादेङ्ग्रहणं कर्त्तव्यम्‌।।

70. शेश्छन्दसि बहुलम्‌। (6.1.70)
`जस्‌शसोः शिः' (7.1.20) इति यः शिरादेशस्तस्यायं लोपो विधीयते। `या क्षेत्रा, या वना' इति। शेर्लोपे कृते प्रत्यलक्षणेन `नपुंसकस्य झलचः' (7.1.72) इति नुम्‌, `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः।
वेति कर्त्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्‌। `तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते' (पु.प.वृ.56), इत्युपपन्नं भवति।।

71. ह्रस्वस्य पिति कृति तुक्‌। (6.1.71)
कृतात्र प्रत्ययेन धातुरुपस्थाप्यते, ह्रस्वेन च स एव विशेष्यते, च तदन्तविधिर्भवतीत्यतो ह्रस्वान्तो धातुरागमी विज्ञायत इत्याह--`ह्रस्वान्तस्य धातोः' इत्यादि। `अग्निचित्‌' इति। `अग्नौ चेः' (3.2.91) इति क्विप्‌। `सोमसुत्‌' इति। `सोमे सुञः' (3.2.90) इत्युभयत्रोपपदसमासः। `प्रकृत्य'इत्यादौ प्रादिसमासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्‌' (7.1.37) इति ल्यप्‌।
अथ ग्रामं नयतीति--ग्रामणि ब्राहमणकुलमित्यत्र नपुंसकह्रस्वत्वे कृते ह्रस्वाश्रयस्तुक्‌ कस्मान्न भवति? इत्याह--`ग्रामणि ब्राह्मणकुलम्‌' इत्यादि। ह्रस्वत्वं हि नपुंसकार्थवृत्तिप्रातिपदिकमपेक्षत इति बहिरङ्गम्‌, अन्तरङ्गस्तु तुक्‌; वर्णमात्रापेक्षताव्त्‌। `आसिद्धं बहिरङ्गमन्तरङ्गे (व्या.प.42) इति तुग्नात्र भवति।।

72. संहितायाम्‌। (6.1.72)
`संहितायाम्‌' इति विषयसप्तमीयम्‌। तेन यदि कार्यिनिमित्तयोः संहिता विषयभूता भवति, तर्ह्येवं वक्ष्यमाणं कार्यं भवति; नान्यर्थेति वेदितव्यम्‌।

73. छे च। (6.1.73)
`छे' इति यद्यप्यकारवतश्छकारादेषा सप्तमी तथापि च्छकार एव केवलस्तुको निमित्तम्‌, अकारस्तूच्चारणार्थः। एतच्च `इजादेश्च गुरुमतोऽनृच्छः' (3.1.36) इत्याम्प्रतिषेधादवसीयते। यदि ह्यकारसहितश्छकारस्तुको निमित्तं स्यात्‌, तदा ऋच्छेस्तुगभावादसति गुरुमत्वं आमः प्रसङ्गो नास्तीति प्रतिषेधं न कुर्यात्‌। `इच्छति' इति। `इषुगमियमां छः' (7.3.77) तुक्‌ चुत्वम्‌।
पूर्वस्मिंस्तुग्विधौ ह्रस्वान्त आगमी, अतः स एवात्रागमीति कस्य चिद्‌ भ्रान्तिः स्यात्‌, अतस्तां निराकर्त्तुमाह--`ह्रस्व एव' इत्यादि। एवं मन्यते--ह्रस्वानुकर्षणार्थश्चकारोऽत्र क्रियते--ह्रसव एवागमी यथा स्यात्‌, तदन्तो मा भूदित्येवमर्थम्‌'; अन्यथा स्वरितत्वादनन्तरत्त्वाच्च पूर्वसूत्रे य आगमी, स एवेहापि विज्ञास्यत इत्यनर्थकश्चकारः स्यात्‌, ह्रस्व एवागमिनि सति किमिष्टं सिध्यति, यतस्तदर्तोऽयं यत्नः क्रियते? इत्याह--`तेन' इत्यादि। यदि ह्रस्वान्तस्य तुक्‌ स्यात्‌ तदा चिच्छिदतुरित्यादौ तस्याभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्‌। ह्रस्वे त्वागमिनि नायमभ्यासस्य हलिति न भवत्येव दोषः।
कथं पुनर्ह्रस्व आगमिनि तुगब्यासग्रहणेन गृह्यते? इत्याह--`नावयवावयवः' इत्यादि। इतिकरणो हेतौ। यस्मादवयवस्य योऽवयवः स समुदायस्यावयवो न भवति। तस्मात्‌ ह्रस्व एवागमिनि तुकोऽभ्यासग्रहणेन न ग्रहणं भवति। नावयवावयवः समुदायस्यावयवो भवतीत्यत्र चैतत्‌ सूत्रविहितस्तुगित्याभिप्रायो वेदितव्यः। यदि ह्यविशेषेणावयवावयवः समुदायावयवो न स्यात्‌, एवं सति `शेरते' इत्यत्र रुङागमः सावैधातुकस्याव्यवस्य झादेशस्यातोऽवय इति सोऽपि समुदायस्य सार्वधातुकस्यावयवो न स्यात्‌। ततः `शीङः सार्वधातुके गुणः' (7.4.21) इति गुणो न स्यात्‌; रुटा सार्वधातुकस्य व्यवहितत्वात्‌ स ह्यवयव उक्तस्तमेव व्यवदध्यात्‌, स समुदायं तु न व्यवदधात्येव। तस्मात्‌ पूर्वोक्त एवाभिप्रायो वृत्तिकारस्य वेदितव्यः।
कस्मात्‌ पुनरेतत्‌ सत्रविहितोऽवयवावयवः समुदायस्यावयवो न भवति? ह्रस्वानुकर्षणार्थचकारकरण सामर्थ्यात्‌। स हि चकारो ह्रस्वानुकर्षणार्थ एवमर्थः क्रियते--ह्रस्वमात्र आगमिनि तुकोऽभ्यासग्रहणेनाग्रहणाद्धलादिशेषेण निवृत्तिर्मा भूदिति। यदि चैतत्सूत्रविहितोऽप्यवयवायवः समुदायावयवः स्यात्‌, तदा ह्रस्वेऽप्यागमिनि तुकस्तु तदवयवयस्याप्यभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्त्या भवितव्यमिति चकारो ह्रस्वानुकर्षणार्थो निष्फलः स्यात्‌। तस्मादयमेव तुगवयवावयवः समुदायावयवो न भवति, अन्यस्तु भवत्येव। युक्तं चैतत्‌। तथा हि बाहोर्योऽवयवो हस्तः स देवदत्तस्याप्यवयवो भवत्येव, अन्यथा हस्तावन्‌ देवदत्त इति प्रयोगो न स्यात्‌।

74. आङ्माङोश्च। (6.1.74)
अत्राकारो ङिदुपात्तः स चेषदादावर्ते वर्त्तत इत्याह--`आङ्‌' [`अङः' काशिका, पदमञ्जरी च़] इत्यादि। माशब्दोऽपि ङिदुपात्तः, सोऽपि निषेधे वर्तत इत्याह--`माङश्च प्रतिषेधवचनस्य' इति। `आच्छादयति' इत्यादि। `छद अपवारणे' (धा.प.1935)
चौरादिकः। अत्र `छादनक्रियाङा विशिष्यत इति स क्रियायोगे वर्त्तते। `आच्छायायाः' इति। मर्यादायामङ्‌। छायाम्‌=मर्यादां परिवृत्त्येत्यर्थः. `आङ् मर्यादावचने (1.4.89) इत्याङश्च कर्मप्रवचनीयसंज्ञकस्य योगे `पञ्चम्यपाङ्परिभिः' (2.3.10) इति पञ्चमी। `आच्छायम्‌' इति। छायामभिव्याप्येत्यर्थः। `आङ्मर्यादाभिविव्योः' (2.1.13) इति पञ्चम्यन्तेनाव्ययीभावः, `नाव्ययीभावादतोऽम्त्वपञ्चम्याः' (2.4.83) इति विभक्तेर्लुगम्भावश्च। `मा च्छिदत्‌ इति। इरित्त्वाच्चलेरङ्‌।
`आछाया, आच्छाया' इति। अत्राकारः स्मरणए वर्त्तते, तत्र चास्य ङित्त्वं नास्ति; `वाक्यस्मरणयोरङित्‌' इति वचनात्‌। तेनात्र `पदान्ताद्वा' (6.1.76) इति विकल्पो भवति।
`प्रमाछन्दः' इति। `माङ्‌ माने' (धा.पा.1142) प्रपूर्वः `आतश्चोपसर्गे' (3.3.106) इत्यङ्‌, स्त्रियाम्‌ `अजाद्यतष्टाप्‌' (4.1.4)। ननु च लाक्षणिकत्वादेवात्र न भविष्यति? नैतदस्ति; `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति वचनात्‌।।

75. दीर्घात्‌। (6.1.75)
`उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्‌' (शाकटायन.प.97) दीर्घादिति पञ्चम्याश्छे इत्यस्याः सप्तम्याः षष्ठ्यां प्रकल्पितायाम्‌ `तस्मादित्युत्तरस्य' (1.1.67) इति च्छकारस्यैव तुक्‌ प्राप्नोतीति कस्याचिद्भ्रान्तिः स्यत्त्, अतस्तां निराकर्त्तुमाह--`दीर्गात्‌ परो यश्छकारः तस्मिन्‌ परतः पूर्वस्य' इत्यादि। एवं मन्यते--`तस्मादित्यत्तरस्य' (1.1.67) इत्यत्र तस्मादिति योगविभागः कर्त्तव्यः, `पूर्वस्य' इति पूर्वसूत्रादनुवर्त्तते, तेन दीर्घादित्यादौ सत्यपि पञ्चमीनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य। न चातिप्रसङ्गः योगविभागादिष्टसिद्धेरिति। `ह्रीच्छति' इति। `ह्रीच्छ लज्जायाम्‌' (धा.पा.210)। `म्लेच्छति' इति। `म्लेच्छ अव्यक्तायां वाचि' (धा.पा.1662)। `अपचाच्छायते' इति। `छो छेदने' (धा.पा.1146), `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्वम्‌, यङ्‌ `दीर्घोऽकितः' (7.4.83) इत्याभ्यासस्य दीर्घः।।

76. पदान्ताद्वा। (6.1.76)
`कुटीछाया' इति। षष्ठीसमासः, असमासो वा।
`दिश्वजनादीनाम्‌' इत्यादि। `विश्वजन' इत्येवमादीनां छन्दसि विषये विकल्पेन तुग्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्‌--`सर्वे विधयश्चन्दसि विकल्प्यन्ते' (पु.प.वृ.56) इति प्राक्‌ प्रतिपादितमेतत्‌। तेन विश्वजनादीनां छन्दसि वा तुग्भवतीति।।

77. इको यणचि। (6.1.77)
`इको यणादेशो भवति' इति। इकां यणां च साम्यात्‌ यथासंख्यं भवतीति वेदितव्यम्‌। यश्च सवर्णोऽच्‌ तत्र दीर्घविधानसामर्थ्यात्‌ असवर्णेऽचि यणादेशो विज्ञायत इति। इक इति किम्‌? वागत्रेत्यत्र कुत्वादेव सिद्धत्वाद्यणादेशो मा भूदिति। अचीति किम्‌? दधि करोति।
`प्लुतपूर्वस्य' इति। प्लुतः पूर्वो यस्मात्‌ स प्लुतपूर्वः। वक्तव्यः=व्याख्येयः। तत्रेदं व्याख्यानम्‌--`इको यणचि' इत्यत्र तन्त्रेण द्वौ योगावृच्चारितौ; तत्रैको यणादेशार्थः, अपरस्त्विकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थो भविष्यतीति। भो यिदम्‌--भो+इ+इदमिति स्थिते `गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्‌' (8.2.86) इत्यनेन दूराद्धूतेऽर्थे भोशब्दस्य प्लुतः कृतः, ततः सवर्णदीर्घत्वे प्राप्ते यणादेशः।।

78. एचोऽयवायावः। (6.1.78)
`कयेते, ययेते' इति। के+एते, ये+एत इति स्थितेऽयादेशः. `वायाववरुणद्धि' इति। वायौ+अवरुणद्धीति स्थित आवादेशः।।

79. वान्तो यि प्रत्यये। (6.1.79)
यीति दर्णग्रहणम्‌, तेन `यस्मिन्‌ विधिस्तदादावल्ग्रहणे' (व्या.प.127) इति यकारादौ प्रत्यये कार्यं विज्ञायत इत्यत आह--`यकारादौ प्रत्यये' इति। यद्यपीह स्थानी न निर्दिष्टः, तथाप्यावादेश ओकारस्य स्थाने, आवादेशोऽयौकारस्थ स्थाने भवतीति वेदितव्यम्‌। कथम्‌? पूर्वयोगे हि यद्धर्मा वान्त आदेशो दृष्टः, इहापि तदद्धर्मेवानुवर्त्तते। कश्च पूर्वयोगे तद्धर्मा दृष्टः? अवादेशस्यौकारस्य स्थानित्वम्‌। आवादेशस्याप्यौकारस्य स्थानित्वम्‌, अत इहापि स्वधर्ममजहतोऽनुवृत्तस्य वान्तादेशस्य पूर्वक एव स्थानि विज्ञायते। `बाभ्रव्यः' इति। बभ्रूशपब्दादपत्येऽर्थे `मधूबभ्व्रोर्ब्राह्मणकौशिकयोः (4.1.106) इति यञ्‌ `ओर्गुण-' (6.4.140) इति गुणः। `माण्डव्यः' इति। `गर्गादिभ्यो यञ्‌' (4.1.105) इति यञ्‌। `शङ्कव्यम्‌' इति। शङ्कुशब्दात्‌ `तस्मै गुणः। `माण्डव्यः' इति। `गर्गादिभ्यो यञ्‌' (4.1.105) इति यञ्‌। `शङ्कव्यम्‌' इति। शङ्कुशब्दात्‌ `तस्मै हितम्‌' (5.1.5) इति `उगवादिभ्यो यत्‌' (5.1.2) इति यत्‌। `नाव्यः' इति। नावा तर्यत इति `नौवयोधर्मविष' (4.4.91) इत्यादिना यत्‌।
`रैयति' इति। `सुप आत्मनः क्यच्‌' (3.1.8) इति क्यच्‌। `गोयानम्‌' इति। षष्ठीसमासः।
`गोर्यूतो छन्दसि' इत्यादि। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थो वेदितव्यः। तत्रेदं व्याख्यानम्‌--`वान्तो यि' इति योगविभागोऽत्रि क्रियते तेन गोशब्दस्य यूतौ परतश्चन्दसि विषयेऽवादेशो भवति।
`अध्वपरिमाणे च' इति। `गौर्यूतौ' इति वर्तते। तत्रापि वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि तदेव। इदं च सामान्येन वचनम्‌, तेन भाषायामध्वपरिमाणे भवति।।

80. धातोस्तन्निमित्तस्यैव। (6.1.80)
पूर्वेणैव सिद्धे नियमार्थं वचनम्‌। `तन्निमित्तस्य' इति। तच्छब्देन यकारादिप्रत्ययः प्रत्यवमृश्यते, स निमित्तं यस्य स तथोक्तः। `लव्यम्‌' इति। `अचो यत्‌' (3.1.97) इति यत्‌ तमेव वकारमाश्रित्य `सार्वधातुकार्थधातकयोः' (7.3.84) इत्योकारो विधीयमानस्तन्निमित्तो भवति। `अवश्यलाव्यम्‌' इति। `ओरावश्यके' (3.1.125) इति ण्यत्‌, `मयूरव्यंसकादयश्च' (2.1.72) इति समासः, `लुम्पेदवश्यमः कृत्ये' (काशिका.6.1.144) इति मकारलोपः। अत्रापि ण्यतमाश्रित्य `अचो ञ्णिति' (7.2.115) इति विधीयमान औकारस्तन्निमित्तो भवतति।
`प्रातिपदिकसय नियमो मा भूत्‌' इति। असति हि धातुग्रहणे प्रातिपदिकस्यापि नियमः स्यात्‌। ननु च प्रातिपदिकस्यापि नियम एतन्निमित्त्स्यैव भवति, नातनिमित्तस्येत्यर्थः स्यात, तथा च--पूर्वसूत्रस्यारम्भोऽनर्थकः स्यात्‌, निर्विषयत्वात्‌? नैष दोषः; यो हि धातोरिति किमिति पृच्छति स पूर्वयोगस्यारम्भं पृथङ्‌ नेच्छत्येव। स ह्येवं मन्यते--`वान्तो यि प्रत्यये' (6.1.79) तन्निमित्तस्यैवेत्येको योगः कर्त्तव्य इति। तत्र को दोष इति प्रातिपदिकनियमे सति यदि कश्चिद्दोष आपद्येत ततस्तन्निवृत्तये क्रियमाणं धातुग्रहणं शोभत इत्यभिप्रायः। `बाभ्रव्य इत्यत्रैव स्यात्‌' इति। एतस्तन्निमित्तत्वात्‌। `इह तु न स्यात्‌--गव्यम्‌, नाव्यम्‌' इति। अतन्निमित्तत्वादेचः।
`उपोयते' इति। वेञ एच आत्वे कृत उपपूर्वाल्लट्‌, `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्‌, `सार्वधातुके यक्‌' (3.1.67) इति यक्‌, यजादित्वात्‌ सस्प्रसारणम्‌, `अकृत्सार्वधातुकयोर्दीर्घः' (7.4.25) इति दीर्घः, उपाकारेण सह `आद्गुणः' (6.1.87) `औयत' इति। तस्यैव धातोर्लङ्‌, पूर्ववदात्मनेपदादि, आडजादीनाम्‌' (6.4.72) इत्यट्‌, `आटश्च' (6.1.90) इति वृद्धिः। अयमौकारः पूर्वक ओकारश्च एतदुभयमप्यतन्निमित्तम्‌, एतस्य मा भूदित्येवमर्थं तन्निमित्तगर्हणम्‌। ननु चान्तरङ्गो यणादेशो वर्णमात्राश्रयत्वात्‌, बहिरङ्गस्त्वेकादेश उभयपदाश्रयत्वात्‌, ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यसिद्धत्वादेवात्र न भविष्यति? एवं तर्ह्योतज्ज्ञापयति--नेयमिह परिभाषोपतिष्ठत इति। तेनाक्षद्यूरित्यत्र बहिङ्गोऽप्यूडादेशोऽन्तरङ्गे यणादेशे कर्त्तव्ये नासिद्धो भवति। अन्यथा यद्ययमर्थो न ज्ञाप्येत तदाक्षैर्दीव्यतति क्विपि कृते `च्छ्वोः शुड--नुनासिके च' (6.4.19) इत्यूडादेशे कृते तस्यासिद्धत्वात्‌ यणादेशो न स्यात्‌। `लौयमानिः' इति। लूयमानस्यायत्यमित्यर्थे `अत इञ्‌' (4.1.95) इतीञ्‌ `तद्धितेष्वचामादेः' (7.2.117) इति वृद्धिः, सा च तद्धितनिमित्ता, न तु यकारादिप्रत्ययनिमित्ता।
सिद्धे हि विधिरारभ्यमाणः विनाप्येवकारकारणं नियमार्थो भविष्यतीत्यभिप्रायेणाह--`एवकारः किम्‌' इति। इष्टतोऽवधारणार्थमेवकारकारणं क्रियत इति दर्शयन्नाह--`धात्ववधारणम्‌' इत्यादि। एवकारे तन्निमित्तशब्दानन्तरमुच्चार्यमाणे यत एवकारकारणं ततोऽन्यत्रावधारणार्थमिति धात्वधारणं भवति। असति ह्येवकारकारणे धातेरेव तन्निमित्तस्येति तन्निमित्तावधारणमप्यनिष्टं विज्ञायेत। तस्माद्धात्ववधारणं यथा स्यात्‌, तन्निमित्तावधारणं मा भूदित्येवमर्थमेवकारकारणम्‌। किं पुनर्धात्ववधारणे सतीष्टं रूपं सिध्यति यतस्तदिष्यते? इत्यत आह--`तन्निमित्त्स्य हि' इत्यादि। धात्ववधारणे हि सति तन्निमित्त्स्यानियतत्वादधातोश्च भवति बाभ्रव्य इति धातोश्च भवति--लव्यम्‌, अवश्यलाव्यमिति। यदि तन्निमित्तावधारणं कृतं स्यात्‌ तदा धातोरेव तन्निमित्तस्येति। ततो बाभ्रव्य इत्यत्र न स्यात्‌, न हि बभ्रूशब्दो धातुः। तस्माद्वात्ववधारणमितीष्यते।।

81. क्षय्यजय्यौ शक्यार्थे। (6.1.81)
``क्षि' `जि' इत्येतयोर्धात्वोः' इति। क्षिग्रहणेन `क्षि क्षये' (धा.पा.236) `क्षि वासगत्योः' (धा.पा.1407) क्षिष्‌ [`क्षीष हिंसायाम्‌'--धातुपाठः। `क्षि हिंसायाम्‌' (1276)--धातुपाठः] हिंसायाम्‌ (धा.पा.1506) इत्येषां ग्रहणम्‌, जिग्रणे तु `जि जये (धा.पा.561) इत्येतस्य। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इत्यनया परिभाषया `क्षिष्‌ हिंसायाम्‌' इत्यस्य ग्रहणं न प्राप्नोति? नैष दोषः निपातनात्‌ भविष्यति। किं हि निपातनान्न लभ्यते? यथैव हि ततोऽन्यदलाक्षिकं कार्यं किञ्चिद्भविष्यति, तथेदमपि स्यात्‌। अर्थग्रहणं कर्मण्यपबि यता स्यात्‌; अन्यथा शकेरकर्मकत्वात्‌ भाव एव निपातनं विज्ञायते--क्षय्यं देवदत्तेनेति। कर्मणि तु न स्यात्‌--क्षय्यो व्यधिरिति, न ह्यकर्मकेभ्यः कर्मणि कृत्यप्रत्यय उपपद्यते। अर्थग्रहणेन तु कृत्यार्थ उपलक्ष्यते। कृत्याश्च कर्मण्यपि विहिताः, तेन तत्रापि निपातनाद्विज्ञायते।।

82. क्रययस्तद्र्थे। (6.1.82)
`क्रय्यः' इति। अत्र प्रत्ययार्थश्च कर्म विदयते; कर्मणि कृत्यविधानात्‌। प्रकृत्यर्थश्च विनिमयः, क्रीणातेर्विनिमयार्थत्वात्‌। तत्र प्रतययार्थः प्रधानम्‌, `प्रकृतिप्रत्यौ प्रत्ययार्थं सह ब्रूतः' इति कृत्वा। प्रकृत्यर्थस्तूपसर्जनम्‌, प्रतत्ययार्थविशेषणमिति कृत्वा। तत्र यदि प्रधानत्वात्‌ तदित्यनेन प्रत्यार्थो निर्दिश्येत तदायमर्थः स्यात्‌--स क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः, तस्मिन्नभिधेये ऋय्य इत्येष शब्दो निपात्यत इति? अयुक्तश्चायम्‌; न ह्यत्र क्रय्यशब्दस्य क्रय्यार्थः कश्चिच्छब्दोऽभिधेयोऽस्ति, ततस्तस्याप्रतीतेः। अथैवं विज्ञायेत--स एवार्थस्तदर्थ इति? एवमपि तदर्थग्रहणमनर्थकम्‌। अवश्यमेव हि क्रय्यशब्दो यत्प्रतययान्तस्तस्मिन्‌ यत्प्रत्ययार्थे वर्त्तते। तस्मात्‌ तच्छब्देन प्रधाननिर्देशे सति तदर्थग्रहणस्यानर्थक्यम्‌। अतो गुणभूतोऽपि प्रकृत्यर्थो निर्दिश्यत इति मत्वाऽऽह--`तदर्थे क्रयार्थं यत्‌ तस्मिन्नभिधेये' इति। तस्मै इदं तदर्थम्‌। क्रयार्थमित्यनेन क्रीणात्यर्थस्तच्छब्देन निर्दिश्यत इति दर्शयति। क्रयणं क्रयः, विनियम इत्यर्थः। क्रयार्थमित्यत्रापि चतुर्थीसमास एव--क्रयाय इदं क्रयार्थम्‌। `क्रायार्थ यः प्रसारितः' इति। विनिमयार्थं य उपन्यस्त इत्यर्थः।
`क्रेयं नो धान्यम्‌' इति। क्रेतव्यम्‌=ग्रहीतव्यम्‌, स्वीकर्त्तव्यमितद्यर्थः। `न चास्ति क्रव्यम्‌' इति। न चात्र क्रयार्थमुपन्यस्तं धान्यमस्तीत्यर्थः।

83. भय्यप्रवय्ये च च्छन्दसि। (6.1.83)
`वी इत्येतस्य' इति। गतिप्रजनादिषु यो वी पठ्यते तस्य, `अजेर्व्यघञपोः' (2.4.56) इत्यजेर्यो वी आदेशस्तस्य वा।
`ह्रदय्या आप उपसंख्यानम्‌' इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। ह्रदय्या हत्यस्य प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्‌--चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन ह्रदय्या इत्यपि भविष्यतीति।।

84. एकः पूर्वपरयोः। (6.1.84)
अथ पूर्वपरग्रहणं किमर्थम्‌, यावता `आद्गुणः' (6.1.87) इत्यादादादित्येषा पञ्चमी अचीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मादित्युत्तरस्य' (1.1.67) इति वचनात्‌। तथाचीत्येषा सप्तम्यादित्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति वचनात्‌। तत्रान्तरेणापि पूर्वपरग्रहणं पूर्वपरयोर्द्वयोरपि भविष्यति? इत्याह--`पूर्वपरग्रहणम्‌' इत्यादि। किं पुनः कारणमसति पूर्वपरग्रहणे द्वयोरपि युगपदादेशो न सिध्यति? इत्यत आह--`एकस्यैव हि' इत्यादि। एवं मन्यते--अचत्येषा सप्तमी यणादेशादिविधौ चरितार्था; आदित्येषां तु पञ्चमी न क्वचिच्चरितार्था, अतः सा सप्तम्याः षष्ठीत्वं प्रकल्पयेत्‌। तत्रासति पूर्वपरग्रहणेऽच एव स्थाने गुणः स्यत्‌। `बृद्धिरेचि' (6.1.88) इत्यत्र च गणविधावादिति पञ्चमी कृतार्थे ति तस्या एचीति सप्तम्यकृतार्था षष्ठीत्वं प्रकल्पयेत्‌। एवं च वृद्धिरवर्णस्यैव प्रसज्येत। `उपसर्गादृति धातौ' (6.1.91) इत्यतर द्वयोरपि पञ्चमीसप्तम्योरकृतार्थत्वात्‌ पर्यायेण परस्परं षष्ठीपरकल्पनेति पर्यायेणैव वृद्धिः स्यात्‌। यत्‌ पुनः परस्याभिमतं पञ्चमी सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति, सप्तम्यपि पञ्चम्याः, ततोऽन्तरेणापि पर्वपरग्रहणं द्व्योरप्यादेशो भविष्यतीति? तन्निरासायाह--`नोभे' इत्यादि। निवृत्तिधर्मा हि स्थानी भवति, श्रूयमाणस्य च षष्ठीप्रकल्पनं प्रति निमित्तभावः। कथं पूर्वपरौ निवर्त्तेयाताम्‌? षष्ठीप्रकल्पनं च प्रति निमित्तभावमुपगच्छेतातम्? अत एवानिवृत्तेर्निमित्तभावस्य चासम्भवान्नोभे सप्तमीपञ्चम्यौ युगयत्प्रकल्पिके भवतः। तस्मादेकस्यैव स्यात्‌, नोभयोः।
अथैकग्रहणं किमर्थम्‌, यावता `भ्रस्जो रोपधयो रमन्यतरस्याम्‌' (6.4.47) इत्यत्र विनाप्येकग्रहणमेक एव सम्भवति, तथाप्यत्रैकग्रहणेन विनाप्येक एव भवष्यतीत्याह--`एकम्‌' इत्यादि। रमागमेन हि मित्वात्‌ `मिदचोन्त्यात्परः' (1.1.47) इत्यचोऽन्त्यात्‌ परेण भवितव्यम्‌। न च द्वयो रमोर्भृज्जातवचोऽन्त्यात्‌ परेण सम्भवोऽस्ति। ततो युक्तं तद्विनाप्येकग्रहणम्‌। एक एव रम्‌ भवतीति गुणादिस्त्वादेशः। सम्भवति च स्थानिभेदे सत्येकैकस्य स्थानिनो गुणादिः पृथगादेशः तत्रासत्येकग्रहणे पृथगादेशः स्यात्‌। तस्मात्‌ पूर्वपरयोर्द्वयोः स्थानिनोः पृथगदेशो मा भूदित्येवमर्थमेकग्रहणम्‌। असति पुनरेकग्रहम आदेशश्च द्वयं प्राप्नोतीत्यमुमर्थं सोपपत्तिकं प्रतिपादयितुमाह--`स्थानिभेदाद्धि' इत्यादि। यता `रदाभ्यां निष्ठातो नः पूर्वस्य च दः' (8.2.42) इति स्थानिभेदाद्धेतोर्भिन्नं छिन्नमित्येवमादिषु द्वावेवादेशौ भवतः, तथा खट्वेन्द्र इत्येवमादिष्वपि द्वावादेशौ स्याताम्‌।।

85. अन्तादिवच्च। (6.1.85)
अन्तादिवदित्युक्ते न ज्ञायते--कोऽस्यातिदेशस्यार्थ इत्यतस्तत्परिज्ञानायाह--`यथा' इत्यादि। `इत्येषोऽतिदेशस्यार्थः' इति। इतिशब्द्वोऽतिक्रान्तप्रत्यवमर्शी-अतिदिश्येऽनेनेत्यतिदेशः, स पुनः `अन्तदिवच्च' इत्येष एव योग इत्येषोऽनन्तरोक्तोऽस्यातिदेशस्यार्थ इत्यर्थः।
`वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते' इति। कथमेतज्ज्ञायते? इत्याह--`तथाहि' इत्यादि। `ओभिस ऐस्‌ (7.1.9) इत्यकारवर्णाश्रयो विधिः; तत्र कर्त्तव्ये खट्वाभिरित्यत्र सवर्णदीर्घत्वं पूर्वस्यानतवन्न भवति। `आत औ णलः' (7.1.34) इत्याकारवर्णाश्रयोऽयं विधिः। तत्र कर्त्तव्ये वर्णाश्रये जुहावेत्यत्र `अभ्यस्तस्य च' (6.1.33) इति ह्वयतेः सम्प्रसारणे कृते यत्‌ पूर्वरूपत्वमाकारस्य तन्नादिवद्भवकति। एङः पदान्तादति' (6.1.109) इत्येष विधिरेङ्वर्णाश्रयः। तत्र कर्त्तव्ये--अस्यै अश्व इत्यत्र `आटश्च' (6.1.90) इति वृद्धिः परस्यादिवन्न भवति, तदभावादायादेशः, `लोपः शाकल्यस्य' (8.3.19) इति यकारलोपः, तत्‌ किमेतद्वक्तव्यम्‌--वर्णाश्रये नान्तादिवदिति? न वक्तवयम्‌। कथम्‌? अताद्रूप्यातिदेशात्‌। नेह ताद्रूप्यमतिदिश्यते, रूपाश्रयाश्चैते विषयः, तेनाताद्रूप्यान्न भविष्यन्ति।
किमर्थं पुनरयमन्तादिवद्भावो विधीयते, यावता पूर्वपरावुक्तावेकादेशस्य स्थानिनौ, अत्र स्थानिवद्भावादेव तदाश्रयं कार्यं भविष्यति? इत्यत आह--`पूर्वपरसमुदाय एकादेशस्य स्थानी' इति। कथं ज्ञायते? इत्याह--`स हि' इत्यादि। येन हि यो निवर्त्त्यत आदेशेन स तस्य स्थानीति, तद्यथा--`अस्तेर्भूः' (2.4.52) इति। अत्र भूवोऽस्तिः, समुदायश्चेहैकादेशेन निर्वर्त्त्यत इति स एव तस्य स्थानी, न पूर्वपरौ समुदायिनौ। स्यादेतत्‌--अवयवस्य समुदायाभ्यान्तरत्वात्‌ समुदाय आदेशेन निवर्त्त्यमानेऽवयवावपि निवर्त्त्येते, तस्मात्‌ तयोरपि स्थानित्वम्‌? इत्यत आह--`तत्र' इत्यादि। इतिकरणौ द्वावपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्‌ स्थानित्वं तदानुमानिकम्‌, समुदाय एकादेशस्य आदेशेन निवर्त्त्यमाने तयोरपि निवर्त्तनं नान्तरीयकमिति कृत्वा। न हि विनावयवनिवर्त्तनेन समुदायः शक्यते निवर्तयितुम्‌, तस्य तदात्मकत्वात्‌। समुदायस्य तु प्रत्यक्षंस्थानित्वम्‌। `पूर्वपरयोः' इति स्थानषष्ठ्यन्तस्य साक्षाच्‌ श्रवणात्‌ `श्रुतानुमितयोः श्रौतः सम्बन्धो गरीयान्‌' (चां.प.पा.49) इति `स्थानिवदादेशोऽनल्विधौ' (1.1.56) इत्यनेन यस्य प्रत्यक्षं साक्षात्‌ श्रुतम्‌, स्थानित्वं तदाश्रयमेव कार्यमादेशे विधीयते। अवयवयोश्चानुमानिकं स्थानित्वं न प्रत्यक्षम्‌, अतस्तदाश्रयं कार्यं नातिदिश्यते। तेन तदाश्रयं कार्यं स्थानिवद्भावादेशे न प्राप्नोति, इष्यते च। तदर्थमयमन्ताविवद्बावो विधीयते।।

86. षत्वतुकोरसिद्धः। (6.1.86)
इहासिद्धवचनेनकादेशस्याभावो वा क्रियते? तत्कार्यसामर्थ्य वा प्रतिपाद्यते? सिद्धमपि हि वस्तु सिद्धकार्यं कर्तुमसामर्थ्यादसिद्धमित्युच्यते, यथा--पुत्रकार्यकरणेऽसामर्थ्यात्‌ पुत्रोऽप्यपुत्र इति। तत्र यद्यनेनैकादेशस्याभावः क्रियते तदाधीत्येत्यत्र तुग्न स्यात्‌, न हीह ह्रस्वोऽस्ति; एकादेशेन निवर्त्तितत्त्वात्‌। न चासिद्धवचनेनैकादेशे निवर्त्तिते ह्रस्वस्य प्रादुर्बावो भवति, न हि देवदत्तस्य हन्तरि हते पुनर्देवदत्तस्य प्रादुर्भावो भवतीतिममाद्ये पक्षे दोषं दृष्ट्वा कार्यसामर्थ्यमेकादेशस्यासिद्धत्वश्रुत्या प्रत्याय्यत इति दर्शयन्नाह--`सिद्धकार्यं न करोतीत्यर्थः' इति। सिद्धस्य निष्पन्नस्य यत्‌ कार्यं तदेकादेशः सिद्धो निष्पन्नोऽपि न करोतीत्ययमस्य वचनस्यार्थः। `असिद्धवचनम्‌' इत्यादिना सूत्रस्य प्रयोजनमाचष्टे। आदेशे च कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्‌, आदेशो लक्षणं निमित्तमस्येति कृत्वा। तस्य प्रतिषेधो यथा स्यादित्येवमर्थमसिद्धवचनम्‌। उतसृज्यते निवर्त्त्यत इत्युत्सर्गः, स्थान्यभिधीयते। उत्सर्गो लक्षणं यस्य तदुत्सर्गलक्षणम्‌, तद्भावो यथा स्यादित्येवमर्थञ्चासिद्धवचनम्‌। `कोऽसिचत्‌' इति। सिचेर्लुहि च्लिः, `लिपिसिचिह्वश्च' (3.1.53) इति च्लेरङ्, किंशब्दात्‌ परस्य सकारस्य रुत्वम्‌ `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्त्वम्‌, `आद्गुणः' (6.1.87) इति गुणः, `एङः पदान्तादति'(6.1.109) इति परपूर्वत्वम्‌, `परं प्रत्यादिवद्भावात्‌' इत्यादि। असिचदित्यत्र योऽकारस्तं प्रत्येकादेशस्य `अन्तादिवच्च' (6.1.85) इत्यनेनादिवद्भावः। अयञ्चापदादित्वे हेतुः। `असिद्धत्त्वान्न भवति' इति। असिद्धत्त्वे हि सति सकारोऽत्रादिरेव पदस्य भवति, तेन `सात्पदद्योः' (8.3.109) इति षत्वप्रतिषेधो भवति। `कोऽस्य' इति। इदमः षष्ठ्येकवचनम्‌, `त्यदादीनामः'(7.2.102) इत्यत्वम्‌, `टाङसिङ्सामिनात्स्याः' (7.1.12) इति स्यभावः `हलि लोपः' (7.2.113) इतीद्रूपस्य लोपः। शेषं पूर्ववत्‌। एतदादेशलक्षणप्रतिषेधस्योदाहरणम्‌। उत्सर्गलक्षणभावस्य तु `अधीत्य, प्रेत्य' इति। ननु च बहिरङ्ग एकादेशो द्विपदाश्रयत्वात्‌; अन्तरङ्गादेव षत्वतुकौ, एकपदाश्रयत्वात्‌, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यनया परिभाषयैवात्रासिद्धत्वं भविष्यतीति निरर्थकमिदं वचनम्‌? एवं तर्हि सैव परिभाषाऽत्र प्रकरणे षत्वतुकोनियम्यते। तेनाक्षद्यूरित्यत्र बहिरङ्गलक्षणोऽप्यूडादेशोऽन्तरङ्गयणादेशे कर्त्तव्ये नासिद्धो भवति।
`सम्प्रसारण' इत्यादि। सम्प्रसारणे ङौ इटि च य एकादेशस्तस्यासिद्धत्वपरतिषेदो वक्तव्यः। `ब्रह्महूषु' इति। ब्रह्माणं ह्वयतीति क्विप्‌, यजादित्वात्‌ सम्प्रसारणम्‌, `सम्प्रसारणाच्च' (6.1.198) ति परपूर्वत्वम्‌, `हलः' (6.4.2) इति दीर्घः। सप्तमीबहुवचनम्‌। `परिवीषु' इति वेञः परिपूर्वसय पूर्ववत्‌ क्विदादिषु कृतेषु रूपम्। `अपचेच्छत्रम्‌' इति। पचेर्लङ्युत्तमपुरुषैकवचनमिट्‌, `कर्त्तरि शप्‌' (3.1.68) इति शप; `आदगुणः' (6.1.87) इति गुणः।। ?

87. आद्रगुणः। (6.1.87)
`तवल्कारः; खट्वल्कारः' इति। कथं पुनरत्र लपरत्वम्‌? इत्याह--`लृकारस्य स्थाने' इत्यादि। एतच्च `लृकारऋकारयोः सवर्णसज्ञा वक्तव्या' (वा.3) इत्युपसंख्यानात्‌ `उरण्‌ रपरः' (1.1.51) इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्यक्षरसमम्नाये--`हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते' इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति लृकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्‌ विधीयमानो लपरः सम्पद्यते।।

88. वृद्धिरेचि। (6.1.88)

89. एत्येधत्यूदसु। (6.1.89)
सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तौ च सम्भवव्यभिचारावेतादेव धातौ स्तः, नेतरत्रेत्याह--`तदेतदेज्ग्रहणम्‌' इत्यादि। `प्रष्ठौहः' इति। प्रष्ठं बहतीति `छन्दसि सहः' (3.2.63) इति `वहश्च' (3.2.64) इति ण्विप्रत्ययः `वाह ऊठ्‌' (6.4.132) इत्यूठ्‌ सम्प्रसारणसंज्ञकः, `सम्प्रसारणाच्च' (6.1.108) इति परपूर्वत्वम्‌, ततो वृद्धिः। `एत्येधत्योरेङि पररूपापवादः' इति वृद्धिर्विधीयत इति प्रकृतेन सम्बन्धः।
अथ `ओमाङोश्च' (6.1.95) इत्यस्याप्याङि पररूपापवादो वृद्धिः कस्मान्न भवति, नाप्राप्ते हि पररूप इयं वृद्धिरारभ्यत इति मा यथैङि पररूपं बाधते तथाङि पररूपमपि बाधेत, ततश्चेहापि स्यात्‌--आ+इतः=एतः, उप+एतः=उपेतः? इत्यत आह--`ओमाङोश्चेत्येतत्‌' इत्यादि। अत्रैव कारणमाह--`येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति' (इति)। नाप्रप्त एङि पररूपे इयं वृद्धिरारभ्यत इति युक्तं यत्‌ तस्य बाधिका भवति। आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे उप+एति=उपैतीति--अत्र त्वप्राप्ते। तस्मादेषा वृद्धिराङि पररूपत्वं न बाधते। `पुरस्तादपवादाः' इत्यादिना परीहारान्तरमाह--`पुरस्तादपवादा अनन्तरान्‌ विधीन्‌ बाधन्ते नोत्तरान्‌' (व्या.प.9) इति, इयं च वृद्धिः पुरस्तादपवादः, अस्याश्‌चैहि पररूपमेवानन्तरम्‌, अतस्तदेव तया बाध्यते, नाङि पररूपम्‌, तस्यान्तरत्वात्‌।
`अक्षात्‌' इत्यादि। `वक्तव्या' इति। व्याख्येयेत्यर्थः। तत्रेदं व्याख्यानम्‌--उत्तरसूत्रे चकारोऽधिकविधानार्थः। तेनाक्षशब्दादूहिनीशब्दे परतो वृद्धिर्भविष्यतीति। एवमुत्तरत्रापि वक्तव्यशब्दस्यार्थः, व्याख्यानमप्येवमेव वेदितव्यम्‌। अक्षाणामूहः, सोऽस्यास्तीति मत्वर्थीयः इनिः। `ऋन्नेब्यो ङीप्‌' (4.1.5) इति ङीप्‌--`अक्षौहिणो'।
`स्वैरम्‌' इति। `ईर गतौ' (धा.पा.1018) ईरणमीरः, भावे घञ्‌ स्वस्य ईरः स्वैरः। क्रियविशेषणत्वात्‌ स्वैरमिति वृत्तौ नपुंसकलिङ्गेन निर्देशः। क्रिया तु काचिदत्राध्याहर्त्तव्या। अथ वा स्व ईरो यस्य कुलस्य तत्‌ स्वैरं कुलम्‌। नपुंसकस्य कुलादेरन्यपदार्थत्वान्नपुंसकलिङ्गत्वम्‌। `स्वैरी' [स्वैरिणी--काशिका] इति। स्वमीरितुं शीलमस्येति `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः।
ऊढ, ऊढिरिति शब्दौ निष्ठाक्तिन्नन्तौ। `प्रैषः' इति। `इष गतिरहिसादानेषु' (धा.पा.1127) `इषु इच्छायाम्‌' (धा.पा.1351) इति वा, अभ्यां प्रपूर्वाभ्यां यदा घञ्‌ तदा प्रैषः, यदा तु ण्यत्‌ तदा प्रैष्य इति।
`सुखार्त्तः' इति। `कर्त्तृकरणे कृता बहुलम्‌' (2.1.32) इति समासः।।

90. आटश्च। (6.1.90)
`एक्षत' इति। `ईक्ष दर्शने' (धा.पा.610) इति लङ्‌। `ऐक्षिष्ट' इति। लुङ्‌। `ऐक्षिष्यत' इति। लृङ्‌। `औम्भीत्‌' इति। `उभ उम्भ पूरणे' (धा.पा.1319,1320) इति लुङ्‌, इट्‌, अस्तिसिचोऽयुक्ते' (7.3.96) इतीट्‌। `ईटि' (8.2.28) इति सिचो लोपः। `औब्जीत्‌' इति। `उब्ज आर्जवे' (धा.पा.1303)। `आर्ध्नोत्‌' इति। `ऋषु वृद्धौ' (धा.पा.1271) इति लङ्, `स्वादिभ्यः श्नुः' (3.1.73) इति श्नुः।
`चकारोऽधिकविधानार्थः' इति। न तु वृद्धेरनुकर्षणार्थः; तदनुवृत्तेः स्वरितत्वादेव सिद्धत्वादित्यभिप्रायः। अधिकविधानार्थ इत्यस्यार्थं वाक्यान्तरेण त्रिस्पष्टीकर्त्तुमाह--`उस्योमाङोश्चेति पररूपबाधनार्थः' इति। उसिओमि आङि च यत्‌ पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः। चकारेम हि द्विर्वृद्धिविधानं विज्ञापयति। तत्र यद्द्वितीयं विधानं तद्‌ बाधकबाधनार्थं भवति। तेन `उस्यपदान्तात्‌' (6.1.96) इति यत्पररूपं प्राप्नोति, यच्च `ओमाङोश्च' (6.1.95) इति तदपि बाधित्वा वृद्धिरेव भवति। `औस्रीयत्‌' `औङ्कारीयत्‌' इति। उस्रशब्दादोङ्कारशब्दाच्च `सुप आत्मनः क्यच्‌' (3.1.8), `क्यचि च' (7.4.33) इतीत्त्वम्‌, क्यजन्ताल्लुङ्, आट्‌ `उस्यपदान्तात्‌' (6.1.96) इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति। `औढीयत्‌' इति। ओढाशब्दात्‌ क्यजन्तल्लुङ्, आडागमे कृते `ओमाङोश्च' (6.1.95) इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्‌वृद्धिरेव भवति।।

91. उपसर्गादृति धातों। (6.1.91)
`उपार्च्छति' इति। `ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु' (धा.प.1296) `प्रगता ऋच्छका अस्माद्देशात्‌ प्रच्छको देशः' इति। अत्र `यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति' इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्‌।
`वा सुप्यापिशलेरिति विकल्पः स्यत्' इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्‌, यावत सम्बन्धिशब्दा हि नियतं प्रतयोगिनमुपस्थापयन्ति, तद्यथा--पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्‌ सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह--`उपसर्गग्रहणादेव' इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा परार्च्छतीत्यत्र `ऋत्यकः' (6.1.128) इति परत्वात्‌ शाकल्यस्य मतेन परकृतवद्भावः ल्यात्‌। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्‌। सति हि धातुग्रहणे योगविभागः क्रियते--उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वर्त्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ `उपसर्गाच्छन्दसि धात्वर्थे' (5.1.118) इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्‌। `उपसर्गाच्छन्दसि धात्वर्थे' इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्‌। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्‌।।

92. वा सप्यापशलेः। (6.1.92)
धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समर्थ्याद्धात्वेकदेशे वर्त्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह--`सुबन्तावयवे धातौ' इत्यादि। `उपाल्कारीयति' इति। कथं पुनर्ऋतीतयुच्यमाने लुकारे वृद्धिः प्रवर्त्तते? इत्याह--`ऋकारलृकारयोः' इत्यादि। ऋकारलृकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्यमाण लृकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति।
`आपिशलिग्रहणं पूजार्थम्‌' इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह---`वेत्युच्यत एव' इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः।।

93. औतोऽम्शसोः। (6.1.93)
`गाम्पश्य' इति। कथं पुनरेतदुदहृतम्‌, यावता `गोतो णित्‌' (7.1.90) इति णित्त्वे सति परत्वात्‌ वृद्ध्यात्र भवितव्यम्‌? इत्यत आह--`द्योशब्दोऽप्योकारान्तः' इत्यादि। तपरकरणं हि वर्णनिर्देशेषु प्रसिद्धमिति `गोतः' इति तपरनिर्देश ओकारान्तोपलक्षमार्थो विज्ञायते, ततश्च द्योशब्दादपि परं सर्वनामस्थानं णिद्वद्भवति। यद्येवम्‌, तत्‌ किमिति वृद्धर्नात्र भवति? इत्याह--`तेन' इत्यादि। यदि द्योशब्दात्‌ परस्य सर्वनामस्थानस्य णित्त्वं न स्यात्, ततो द्यां पश्येत्यत्र सावकाशमात्वं गां पश्येत्यत्र परत्वाद्वृद्ध्या बाध्येत। यदि तु द्योशब्दादपि परं सर्वनामस्थानं णिद्भवतीति, तदा द्यां पश्येत्यत्र वृद्धिः प्राप्नोत्येव। ततो नाप्राप्तायां वृद्धाविदमात्वं विधीयमानमनवकाशत्वाद्‌वृद्धिं बाधते। ततश्च युकतमेव गां पश्येत्येतदुदाहरणम्‌।
अथेहाप्यचिनवम्‌, असुनवमित्यत्र चिनोतेः सुनोतेश्च लङि मिपि विकरणस्य गुणे कृते मिपः `तस्थस्थमिपाम्‌' (3.4.101) इत्यादिनाम्भावे चौकारस्यात्वं कस्मान्न भवति? इत्याह--`अमि' इत्यादि। शसा साहचर्यात्‌ सुबधिकाराद्वा सुप एवाम इदं ग्रहणम्‌। अतो नात्रात्वस्य प्रसङ्गः। चित्रगुं पश्येत्यत्र तु ह्रस्वत्वे कृत ओकाराभावात्‌ `अनल्विधौ' (1.1.56) इति स्थानिवद्भावप्रतिषेधादात्वं न भवति।।

94. एङि पररूपम्‌। (6.1.94)
`उपेलयति' इति। `इल प्रेरणे' (धा.पा.1660) चुरादिणिच्‌। `प्रोखति इति। `उख नख' (धा. पा. 128,134) इत्युखिर्गत्यर्थो भ्यादौ पठ्यते। यदि `वा सुपि' (6.1.92) इत्यनुवर्त्तयन्ति, एवं सति तेन सहास्यैकवाक्यतायां सुबधातोरेवानेन विकल्पेन पररूपं क्रियते, असुपि तु पररूपं न स्यादेवेत्याह--`तच्च' इत्यादि। एकवाक्यत्वे हि सत्येष दोषः स्यात्‌। न चात्रैकवाक्यता, किं तर्हि? वाक्यभेदः। तेन तदिहानुवर्त्तमानं सुब्धातावेव विकल्पं करोति, इतरतर तु नित्यमेव पररूपं प्रवर्त्तते। तत्रावर्णान्तादुपसर्गादसुबन्तावयवे धातावेङादौ पूर्वपरयोः पररूपमेकादेशो भवतीत्येकं वाक्यम्‌, अवर्णान्तादुपसर्गात्‌ सुबन्तावयवे धातावेङादौ पूर्वपरमोर्वा पररूपमेकादेशो भवतीति द्वितीयम्‌। तत्र पूर्वेण वाक्येनासुबन्तावयवे धातावुपेलयतत्यादौ नित्यं पररूपं दिधीयते। द्वितीयेन तु सुबन्तावयवे धातावुपेङकीयतीत्येवमादौ विकल्पेन पररूपं विधीयते। वाक्यभेदस्तु `एङि पररूपम्‌' इति तन्त्रेण सूत्रद्वयोच्चारणाल्लभ्यते। सूत्रद्वये तूच्चार्यमाणे सत्येक एव `वा सुप्यापिशलेः' (6.1.92) इत्येदनुवर्तमानमपि लभ्यानुरोधान्नाभिसम्बध्यते, द्वितीये तु सम्बध्यत एव। तेन वाक्यद्वयं पूर्वोक्तं सम्पद्यते।
`वक्तव्यम्‌' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानाम्‌--उत्तरसूत्रे चकारोऽधिकविधानार्थः, तेन शकन्ध्वादिषु पररूपं भविष्यतीति। उत्तरत्राप वक्तव्यशब्दस्यायमर्थो व्याख्यानं चैतददेव वेदितव्यम्‌।
`एवे चानियोगे' इति। नियोगः=नियोजनम्‌, व्यापारणमित्यर्थः। न नियोगोऽनियोगः=अनवक्लृप्तिः। तत्रैवशब्दे पररूपं वेदितव्यम्‌। एवशब्दोऽनियमे वर्तते। यदा तमेव केवलं नियमं व्यापारेणाविशिष्टं ब्रूते तदा पररूपं भवति। यदा तु व्यापारेम विशिष्टं तदा वृद्धिरेव।
`बिम्बोष्ठी' इति। `नासिकोदरौष्ठ' (4.1.55) इति ङीष्‌। `तिष्ठ देवदत्तौष्ठं पश्य' इति वाक्यमेतत्‌ न तु समासः। देवदत्तशब्दात्‌ `एङ् ह्रस्वात्‌ सम्बुद्धेः' (6.1.69) इति सोर्लोपः।।

95. ओमाङोश्च। (6.1.95)
`अद्योढा' इति। अद्य+ओढा। ननु च `आदगुणः' (6.1.87) इत्यनेनाङो निवर्त्तितत्वादिदमाङ उदाहरणं युज्यते? आङ्माङोरेकादेशस्त्वाङ्ग्रहणेन गुह्यत इत्यदोषः। पूर्वमेव हीदमुक्तम्‌--`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशम्‌' इति। किमर्थं पुनराङो ग्रहणम्‌, यावता प्रागेवाङः पूर्वेम सह `अकः सवर्णे दीर्घः' (6.1.101) इति दीर्घत्वे कृते ततः परेण सह `आद्गुणः' (6.1.87) इति गुणे चाद्योढेत्यादि सिद्धमेव? न सिध्यति, यतः `धातूपसर्गयोः कार्यमन्तरङ्गम्‌' (व्या.वृ.37) इति पूर्वमाद्गुणेन भवितव्यम्‌, तथा च सति वृद्धिः स्यात्‌। अत आङोऽपि ग्रहणं कर्त्तव्यम्‌।
`इह त्वकः सवर्णे दीर्घत्वं बाध्यते' इति। अस्य विधेरविशेषविहितत्वात्‌, अकः सवरणे दीर्घस्य च सामान्यविहितत्वात्‌। विशेषविहितोऽपि सामान्यविहितस्य बाधको भवतीति प्रतिपादितमेतत्‌।।

96. उस्यपदान्तात्‌। (6.1.96)
`भिन्द्युः' इति। भिदेर्लिङ्‌, झि, यासुट्‌ `झेर्जुस्‌' (3.4.108) इति जुस्‌, श्नम्‌, `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः, `लिङः सलोपोऽनन्तयस्य' (7.2.79) इति सकारलोपः, भिन्द्या+उसिति स्थितेऽनेन पररूपत्वम्‌। `अदुः' इति। ददातेर्लुङ्‌, झि, `आतः' (3.4.110) इति झेर्जस्‌, `गातिस्थाट (2.4.77) इति सिचो लुक्, अदा+उसिति स्थितेऽनेन पररूपत्वम्‌।
`कोस्रा, कोषिता' इति। ननु चात्रैकस्मिन्‌ प्रत्युदाहरणे `अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इत्यनया परिभाषयैव न भविष्यति, उस्राशब्दो हि समुदायोऽर्थवान्‌, न तूसित्येष तदवयवः। द्वितीये तु `लक्षणप्रतपदोक्तयोः प्रतपदोकतस्यैव ग्रहणं न तु लाक्षणिकस्य' (व्या.प.3) इत्यनया परिभाषयाऽपि न भविष्यति, लाक्षणिको हि तत्रोस्‌ तथा हि वसेर्निष्ठायां `वसतिक्षुधोरिट्‌' (7.2.52) यजादित्वात्‌ सम्प्रसारणे कृते--उषितेति, तत्र पररूपं न सम्पद्यते, तत्‌ किमपदान्तादित्यनेन? एवं तर्ह्येतदतिरिच्यमानमपदान्तग्रहममर्थवदनर्थवत्त्वादिकं विशेषमनपेक्ष्योस्मात्रे पररूपं भवतीत्यमुमर्थं द्योतयति। तेन नानर्थके `उस्यपदान्तात्‌' इत्येतद्भवति। भिन्द्युरित्यत्र हि यासुडादिः समुदायोऽर्थवान्‌, न तु तदवयव उस्‌। लाक्षणिकेऽपि भवतीति--बभुषः पश्येति। `भा दीप्तौ', (धा.पा.1051) लिटः क्वसुः; शस्‌, `वसोः सम्प्रसारणम्‌' (6.4.131) इति सम्प्रसारणम्‌; `सम्प्रसारणाच्च' (6.1.108) इति पूर्वरूपम्, बभा उस अस्‌ इति स्थितेऽनेन पररूपत्वम्‌। एतत्‌ सार्वधातुकपक्ष उदाहरणं वेदितव्यम्‌। अर्धधातुकपक्षे ह्यकारलोपेनैव सिद्धम्‌। सानुबन्धकेऽपि भवति--अधुरिति। क्व तर्हि स्यात्‌? बभूरिति। ननु चानर्थक्ये सत्यपदान्तग्रहणस्यायमर्थः परिकल्प्येत, अस्ति चास्योक्तसूत्रे प्रयोजनम्‌, किं तत्? अपदान्ताद्यथा स्यादिह मा भूदिति--दण्डाग्रमिति? नैतदस्ति; यद्येतदेव प्रयोजनमभिमतं स्यात्‌, तदोत्तरसूत्र एवेदं कुर्यात्‌। इह करणात्तु यथोक्तार्थप्रतिपादनपरतैव तस्यावगम्यते। अधिकाराच्चोत्तरार्थतापि भवत्येव। कोषितेत्यत्र `वसतिक्षूधोः' (7.2.52) इतीट्‌, `शासवसिघसीनां च' (8.3.60) इति षत्वम्‌, तस्य चासिद्धत्वात्‌ पररूपत्वप्राप्तिर्वेदितव्या।
`चऋः' इति। कृत्रो लिट्युसि रूपम्‌। `अबिभयुः' इति। `ञिभी भये' (धा.प.1084) लङ्, शप्‌, `जुहोत्यादिभ्यः श्लुः' (2.4.75) इति श्लुः, द्विर्वचनम्‌, `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्‌ `जुसि च' (7.3.83) इति गुणः।।

97. अतो गुणे। (6.1.97)
`पचे, यजे'- इत्यत्र `वृद्धिरेचि' (6.1.88) इति वृद्धिः प्राप्नोति, तेन तस्या एव पररूपत्वमपबाद इत्यभिप्रायः।
`आद्गुमः' (6.1.87) इत्यत आदित्यनुवर्त्तत एवेति मन्यमान आह--`अत इति किम्‌' इति। दीर्घनिवृत्यर्थ इह तपरस्याकारस्य निर्देशः क्रियत इति दर्शयितुमाह--`यान्ति, वान्ति' इति।
`अपचे' इति। लङ्यात्मनेपदोत्तमपुरुषैकवचन इट्‌, अतर `आद्गुणः' (6.1.87)। पररूपे तु सति स गुणो न लभ्यते।।

98. अव्यक्तानुकरणस्यात इतौ। (6.1.98)
`अव्यक्तमपरिस्फुटवर्णम्‌' इति। अपरिस्फुटा=अव्यक्ता, अनभिव्यक्ता अकारदयो वर्णा यत्र तत् तथोक्तम्। यद्येवम्‌, तदनुकरणेनापि तथाविधन भवितव्यम्, सदृशं ह्यनुकरणं भवति न त्वसदृशम्‌, ततश्चानुकार्य इवानुकरणेऽपि नैवाच्छब्दोऽवधार्यते, अनवधारितस्य च कथं शक्यते पररूपतवं विधातुम्‌? इत्यत आह--`तदनुकरणम्‌' इत्यादि। यदि तर्हि तदनुकरणं परिस्फुटवर्णम्‌, एवं सति तत्‌ तस्यानुकरणमेव न स्यात्‌, न हि विसदृशमनुकरणं भवति, तेनानुकर्त्तुमशक्यत्वात्‌, अतिप्रसङ्गो वेत्यत आह--`केनचित्‌' इत्यादि। तत् पुनः सादृश्यं ध्वनेसतुल्यता, उभयोरपि तयोः समानो ध्वनिः। तेन यद्यप्यनुकरणे वर्मविशेषा अवधार्यन्ते, तथापि ध्वनेः समानतया तदवयक्तमप्यनुकार्यमनुकरोति। `पटिति' इति। ननु च `अलोऽन्त्यस्य' (1.1.52) इत्यनया परिभाषयान्त्यस्य भवितव्यम्‌, तत्कथं सर्वस्यैवाच्छब्दस्य भवति? नैष दोषः; `नानर्थकेऽलोन्त्यविधिः' (व्या.प.62) इति। अथ वा--यदयम्‌ `नाम्रेडितस्यान्त्यस्य तु व' (6.1.99) इत्यत्रान्त्यगरहणं करोति, ततोऽवसीयते--नात्रालोऽन्त्यस्येत्येषा परिभाषा प्रवर्त्तत इति। कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादनं भवति, कुतश्च न भविष्यति? न्यूनत्वात्‌? नैष दोषः; यथैव हि व्यकतवर्ममपि तस्य केनचित्साधर्म्येण प्रतिपादकं भवति तथा न्यूनमपि भविष्यतीति।
`अनेकाच इति वक्तव्यम्‌' इति। अनेकाचोऽव्यक्तानुकरणस्य पररूपं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--उत्तरसूत्रे वाग्रहममुभयोरपि योगयोः शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेनानेकाच एव भविष्यति, न त्वेकाच इति। `कथम्‌' इति। तकरान्तमेतदव्यकतमनुकरणमिति मन्यमानस्य प्रश्नः।।

99. नाम्रेडितस्यान्त्यस्य तु वा। (6.1.99)
`यदा तु' इत्यादि। पटत्पटदित्येष शब्दः समुदाय एवानुकरणम्‌, तदा तस्याद्विरुक्तत्वातपरस्यावयवस्य पटच्छब्दस्याम्रेडितसंज्ञा नास्तीति पूर्वेम पररूपं भवत्येव।।

100. नित्यमाम्रेडिते डाचि। (6.1.100)
`डाचपरम्‌' इति। डाच् परो यस्मात्‌ तत् तथोक्तम्‌।
`डाचि विहिते' इत्यादि। विहित इति `हि गतौ (धा.पा.1257) इत्यस्य विपूर्वस्य रपमिदम्‌। असय च `सर्वे गत्यर्था ज्ञानारथाः' इति विहिते=विज्ञाते बुद्धिस्थ एवेत्येषोऽर्थो वेदितव्यः। तेनायमर्थो भवति--डाचि विहिते बुद्धिस्थविषयभूत एवानुत्पन्ने `डाचि बहुलं द्वे' (वा.888) इति द्विर्वचनमिति। अवश्यञ्चैतदेवं विज्ञेयम्‌; अन्यथा हि यदि डाचि विहिते कृत इत्येषोऽर्थः स्यात, तदा डाच परभूते `डाचि बहुलं द्वे' (वा.888) इत्यनेन द्विर्वचनं विधीयते। तथा च यद्वक्ष्यति--`डाचीति विषयसप्तमीयम्‌' इति तद्विरुध्यते। किं पुनः कारणम्‌--डाचि विहिते बुद्धिविषयीभूत एवानुत्पन्ने द्विर्वचनं विधीयते? इत्याह--`तच्च' इत्यादि। चशब्दो हेतौ। यस्माद्‌द्विरवचनं टिलोपात्‌ पूरवमिष्यते तस्माड्डाचि विहिते बुद्धिस्थे विषयभूते एवानुतपन्ने द्विर्वचनं विधीयते न परभूते। एवं तट्टिलोपात्‌ पूर्वं सिध्यति; नान्यथा। यदि हे डाचि परभूते द्विर्वचनं न क्रियते, तदान्तरङ्गत्वाट्टिलोपे कृते पश्चाट्टकारान्तस्य द्विर्वचनमापद्येत, तथा च पटपटेति न सिध्येत्‌। न च शक्यते वक्तुम्‌--`नित्यमाम्रेडितं डाचि' इत्येतद्वचनं ज्ञापकं पूर्वं द्विर्वचनं भवति ततष्टिलोपः' इति; यस्मात्‌ पटदित्यादिकं टिलोपे कृते द्विरुच्यमानं यच्छब्दान्तं भवति तदर्थमेवेदं स्यात्‌--पटपटाकरोतीति।
अथ वा--डाचीति डाचि विहिते सति परसप्तम्यामदोष इति मन्यमानेन `डाचि विहिते' इत्युक्तम्‌। डाचि विहिते सति `डाचि बहुलं द्वे' (वा.888) इत्यनेनोपसंख्यानेन दविर्वचनम्‌। ननु चैवं सति `सर्वविधिभ्यो लोपविधिरबलीयान्‌' (व्या.प.70) इति द्विर्वचनात्‌ प्राक्‌ टिलोपः स्यात्‌, तथा चानिष्टं रूपं प्रसज्येत? इत्यत आह--`तच्च' इत्यादि। कथं पुनष्टिलोपात्‌ पूर्वमिष्यमाणमेतल्लभ्यते? बहुलग्रहणात्‌। अस्मिस्तु व्याख्याने विहित इति दधातेरेव तद्‌रूपं तद्रूपं वेदितव्यम्‌।।

101. अकः सवर्णे दीर्घः। (6.1.11)
`अग्नये' इति। परत्वात्‌ `घेङिति' (7.3.111) इति गुणे कृतेऽगभावादत्र न भवति।
`दध्यत्र' इति। ननु च यणादेशोऽत्र बाधको भविष्यति, तत्‌ किमेतन्निवृत्यर्थेन सवर्णग्रहणेन? इहापि तर्हि बाधकः स्यात्‌--दधीन्द्रः, मधूष्णमिति। तस्माद्विषयविभागार्थ सवरणग्रहणं कर्त्तव्यम्‌।
`कुमारी शेते' इति। अत्र `इचुयशास्तालव्याः' इति, `विवृत्तं करणमूष्मणां स्वराणां च' इतीकारस्य सवर्णः शकारो यद्यपि भवति, तथाप्यज्ग्रहणानुवृत्तेर्न भवति। न च सावर्ण्यमप्यत्र नास्ति। `नाज्झलौ' इत्यत्र `अणुदित्‌ सवर्णस्य चाप्रत्ययः' (1.1.69) इत्येतत्‌ ग्रहणकशास्त्रमभिनिर्वृत्तं स्यात्‌, एवमिकारो गुह्यमाण ईकारस्यापि ग्राहको भवति, ततश्च हि शास्त्रस्य सवर्णसंज्ञाङ्गं निमित्तम्‌, ततो यावत्‌ सा न प्रवर्त्तते तावदङ्गवैकल्याद्ग्रहमकशास्त्रमनभिनिर्वृत्तम्‌, एवं सवर्णसंज्ञापि यावदपवादो नाभिनिर्वृत्तो भवति, तावत् क्व मया प्रवर्त्तितव्यमिति स्वविषयमजानाना न प्रवर्तते, ततो `नाज्झलौ' इत्यस्यापवादस्यानाभिनिर्वृत्तत्वात्‌ सवर्णसंज्ञा न प्रवर्तते। तेनाङ्गवैकल्याद्ग्रहणकशास्त्रमपरिनिष्पन्नम्‌, अतोऽकः सवर्णा गृह्यन्ते, तेनागृहीतसवर्णानामेव प्रत्यहारसन्निविष्टानामयं प्रतिषेधः। न चायमीकरोऽक्षु सन्निविष्ट िति नासौ `नाज्झलौ' इत्याजिति प्रत्याहारग्रहणेन गृह्यते। तेन सवर्णत्वमीकारशकारयोरप्रतिषिद्धम्‌।
`होल्ल्लृकारः, होतॄकारः' इति। कथं पुनरत्र दीर्घत्वम्‌, यावता ऋकारलृकारयोर्भिन्नस्थानत्वात्‌ सवर्णसंज्ञा नास्ति? इत्यत आह--`ऋकारलृकारयोः सवर्मसंज्ञाविधिरुक्तः' इति। ननु च ऋकारलृकारसमुदायोऽत्र स्थानीति तस्यैव योऽन्तरतमसतेनैव युकतमादेशेन भवितुम्‌, न च ऋकारसतस्यान्तरतमस्तत्‌ कथं स भवति? इत्यत आह--`दीर्घपक्षे तु' इत्यादि। समुदायान्तरतमस्याभावादिति। ऋकारलृकारसमुदायोऽत्रि स्थानी, तस्य चान्तरतमो दीर्घो न सम्भवतीत्यवयवस्य योऽन्तरतस्तेनैव युक्तमादेशेन भत्रितुम्‌। तत्रापि लृकारस्य दीर्घो न सम्भवतीति ऋकारस्य योऽन्तरतमो दीर्घः स एव ऋकारो भवति।।

102. प्रथमयोः पूर्वसवर्णः। (6.1.102)
प्रथमशब्दोऽयं सन्निवेशविशेषापेक्षेऽभिधेये वर्त्तते। परेष्वभिसमीक्षितेषु यस्मात्पूर्वो नास्ति स प्रथमशब्दाभिधेयः। इह च `प्रथमयोः' इति सामान्येन निर्देशान्न ज्ञायते--कयोः प्रथमयोरिवं ग्रहणमित्यतस्तत्परिज्ञानायाह--`प्रथमाशब्दः' इत्यादि। प्रथमशब्दोऽयमिह शास्त्रे विभक्तिविशेष रूढः, सुपां यदाद्यं त्रिकं तत्र प्रसिद्धः। तथा हि--`सपूर्वयोः प्रथमयोर्विभाषा' (8.1.26), `सप्तमीपञ्चमीप्रथमाभ्यः' (5.3.27) इत्येवमादिषु निर्देशेषु प्रथमाशब्देन स एव विभक्तिविशेषो निर्दिष्टः। तस्माद्रूढिशब्दत्वादिह प्रथमाशब्दो विभक्तिविशेषे वर्त्तत इति विज्ञायते।
ननु च स्त्रीलिङ्गो यः प्रथमाशब्दः स इह शास्त्रे विभक्तिविशेषे रूढः, अस्य च स्त्रीलिङ्गतैव सन्दिग्धा? नैतदस्ति; प्रथमशब्दोपादानादेव स्त्रीलिङ्गोऽयमुपात्त इत्यवसीयते। यदि हि पुंल्लिङ्गस्येदमुपादानं स्यादेयं सति प्रत्ययग्रहणेव स्यात्‌। यदि च प्रत्ययग्रहणमभीष्टं स्यात्‌ तदौजसोरित्येवं ब्रूयात्‌। न चैवमुच्यमाने द्वितीयासम्बन्धिनोऽप्यौकारस्य ग्रहणप्रसङ्गः; इह जसा साहचर्यात्‌ प्रथमासम्बन्धिन एवौकारस्य ग्रहणं विज्ञास्यते। तस्मात्‌ स्त्रीलिङ्गस्येदं ग्रहममित्यसन्दिग्धमेतत्‌। ननु च यदि प्रथमाशब्दोऽयमिह शास्त्रे विभक्तिविशेषे रूढः, एवं सति विभक्तिविशेष एक इत्येकवचनेनैव भवितव्यम्‌, तत्‌ कथं प्रथमयोरिति द्विवचनम्‌? इत्यत आह--`तत्साहचर्यात्‌' इत्यादि। तेन प्रथमाख्येन विभक्तिविशेषेण साहचर्याद्‌द्वितीयापि विभक्तिः प्रथमेत्युक्ता, ततश्च द्वित्वाद्‌द्विवचनमेव न्याय्यम्‌। तदेतेन प्रथमयोरिति विभक्त्योरिदं गरहणं न प्रतद्यययोरिति दर्शयति। `वृक्षाः `लक्षाः' इति। कथमिदमुदाहृतम्‌? यावता `अतो गुणे' (6.1.97) इत्यनेन पररूपेणात्र भवितव्यम्‌ तद्धि नाप्रापते वभक्त्यन्तर आरभ्यमाणं यथाऽकः सवर्णे दीर्घत्वं बाधते, तथा `प्रथमयोः पूर्वसवर्णः' इति दीर्घत्वमपि बाधेत? इत्यत आह--`अतो गुणे' इत्यादि। अत्रैवोपपत्तिमाह--`पुरस्तात्‌' इत्यादि। इतिकरणो हेतौ। यस्मात्‌ `पुरस्तादपवादा अनन्तरान्‌ विधीन्‌ बाधन्ते नोत्तरान्‌' (व्या.प.9) इति तस्मात्‌ `अतो गुणे' (6.1.97) पररूपम्‌ `अकः सवर्णे दीरघः' (6.1.101) दीर्घत्वं बाधते; तस्यैव तदनन्तरत्वात्‌। `प्रथमयोः पूर्वसवर्मः' इति दीर्घत्वं तु न बाध्यते; विपर्ययात्‌। `अग्नी इत्यत्र' इत्यादि। असति पूर्वगरहणे अग्नी इतयत्र पर्वपरसमुदयः स्थानी, तस्य चान्तरतमो दीर्घ आदेशो नास्तीत्यवयवान्तरतमो यस्तेन भवितव्यम्‌। अवयवौ चात्र द्वौ--पूर्वः, परश्चेति; तत्र च पूर्वस्यैव भवितव्यमिति नियमो न लभ्यते, नियमकरणाभावादिति तयोः पर्यायेण भवन्नादेशः पक्षे परसवर्णो वा स्यात्‌। अतस्तन्निवृत्यर्थं पूर्वग्रहणम्‌।
सवर्णग्रहणं तु विप्रतिषेधनिरासार्थम्‌। असति हि तस्मिन्‌ दीर्घ इत्यनुवर्त्तमानेऽग्नी इत्यत्र विप्रतिषिद्धित्वमापद्येत यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि च पूर्वशब्देन पूर्वाकृतिरुच्येत्‌, दीर्घादनुवृत्तेः पूर्वस्येति षष्ठी वा क्रियेत। तथा च सवर्णग्रहणं शक्यमकर्त्तम्‌। क्रियमाणं वा तत्‌ सुखप्रतिपत्यर्थ वेदितव्यम्‌।
`दीर्घग्रहणं त्रिमात्रे स्थानिनि' इत्यादि। अग्नि औ+इति स्थिते, असति दीर्घग्रहण एकादेशः क्रियमाणः स्थानिन आन्तरतम्यात्‌ त्रिमात्रः प्राप्नोति; स्थानिनस्त्रिमात्रकत्वात्‌। तथा हि--अग्निशब्दस्येकार एकमात्रः औकारो द्विमात्र इत्येतत्समुदायात्मकश्चात्र स्थानी। तस्मात्‌ त्रिमात्रे स्थानिन्यन्तरतमस्त्रिमात्र आदेशो मा भूदित्येवमर्थं दीर्घग्रहणम्‌। दीर्घग्रहणे हि सति तेनादेशे विशिष्यमाणे त्रिमात्रस्यादेशप्रसङ्गो न भवति; द्विमात्रस्यैव दीर्घसंज्ञाविधानात्‌।।

103. तस्माच्छसो नः पुंसि। (6.1.103)
`तस्मात्‌ पूर्वसवर्णदीर्घात्‌' इति। एतेन तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्दिष्ट इति दर्शयति। `शसोऽवयवस्य सकारस्य' इति। अनेन शस इति सकारावयवापेक्षयावयवषष्ठीति पुंसीति प्रत्ययार्थस्येदं वा विशेषणम्‌--`पुंसां [पुंसि--मु. पाठः] चेद्बहुत्वे शसुत्पन्न इति। प्रकृतिविशेषणं वा--पुंशब्दाच्चेत्‌ परः शसिति। तत्र यदा प्रत्ययार्थस्य विशेषमं तवा `सर्व एते' इत्यादेरयं पूर्वपक्षः--वृक्षान्‌, अग्नीनित्यादिकं युक्तमुदाहरणम्‌; पुसां बहुत्वेऽत्र शस उत्पन्नत्वात्‌। षण्डकान्‌ पण्डकानिति--एतदुदाहरणद्वयमयुक्तम्‌, न ह्यतर पुंसां बहत्वे शस्‌ उत्पन्नः, किं तर्हि? नपुंसकानामित्यत आह--`सर्व एते' इत्यादि। सर्वग्रहणेन न केवलं वृक्षादयः शब्दा पुंल्लिङ्गेन सामान्यविशेषेण विशिष्टं स्वार्थं प्रतिपादयन्ति, अपि तु षण्डकपण्डकशब्दावपीति दर्शयति। स्वार्थः पनरेषा पुंस्त्वेन सामान्यविशेषेणावच्छिन्नं वृक्षादिकं द्रव्यम्‌। तदेवं यतः सर्व एते पुंल्लिङ्गविशिष्टार्थाभिधायिनः, तेनैतेभ्य उत्पद्यमानः शस्‌ पुंसामेव बहुत्वे उत्पद्यत इति पूर्वपक्षो निराकृतो भवति। यदा तु प्रकृतिविशेषणं तदायं पूर्वपक्षः--वृक्षानित्यादिकमित्युदाहरणमुपपद्यते, तत्र हि पुंशब्दात्‌ परः शस्‌ भवति; स्थूरान्‌, अररकानिति इदमुदाहरणद्वयं नोपपद्यते; तथा हि स्थूराया अपत्यानि अररकाया अपत्यानीति `गर्गादिभ्यो यञ्‌' (4.1.105) इति यञ्‌, `यञञोश्च' (2.4.64) इति लुकि कृते स्त्रीप्रत्ययस्यापि `लुक्‌ तद्धितलकि' (1.2.49) इति लुक्‌--स्थूर, अररक, इत्येताभ्यां स्त्रीशब्दाभ्यामुत्पन्नोऽत्रि शस्‌ स्त्रीशब्दाभ्यां परो भवति, न नपुंसकशब्दाभ्याम्‌? इत्यत आह--`सर्व एते' इत्यादि। प्रकृतिरेव ह्यत्र तद्धितलुगन्ता प्रत्ययार्थे वर्त्तते, स च प्रत्ययार्थः, पुंल्लिङ्गेन विशिष्टः। तस्मान्न केवलं वृक्षादयः शब्दाः पुंल्लिङ्गेन विशिष्टं वृक्षादिकं स्वार्थं प्रतिपादयन्ति, अपि तु स्थूराररकशब्दावपीति पूर्वपक्षः प्रतिक्षिप्तो भवति।
अयं तर्हि प्रत्ययार्थविशेषणपक्षे दोषः--चञ्चेव चञ्चा पुमांस इति। `इवे प्रतिकृतौ' (5.3.96) कन्‌ `लुम्मनुष्ये' (5.3.98) इति लुप्‌; यदा लुबन्ताच्चञ्चाशब्दात्‌ पुसां बहुत्वे शस्‌ उत्पद्यते तदा चञ्चाः पश्येत्यत्र नत्वं प्राप्नोति? इत्यत आह--`इह तु' इत्यादि। नैव ह्यत्र पुंबहुत्वे शस्‌ उत्पन्नः, किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्ततद्भावेन स्त्रीत्वातिदेशात्‌। ततोऽत्र नत्वं न भवति।
दीर्घग्रहणं प्रकृतम्‌, तस्य चेहार्थवशेन पञ्चम्यन्तस्योपस्थाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह--`इह तु' इत्यादि। नैव ह्यत्र पुंबहुत्वे शस्‌ उत्पन्नः, किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्तवद्भावेन स्त्रीत्वातिदेशात्‌। ततोऽत्र नत्वं न भवति।
दीर्घग्रहणं प्रकृतम्‌, तस्य चेहार्थवशेन पञ्चम्यन्तस्योपसथाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह--`तस्मादिति किम्‌' इति। `एतान्‌ गाश्चरतः पश्च' इति। `औतोऽम्शसोः' (6.1.93) इत्यात्वम्‌। यद्यनन्तरदीर्घप्रत्यवमर्शी तच्छब्देनोपादीयेत, तदाऽविशेषेण दीर्घमात्रान्नत्वं विधीयमानम्‌--एतान्‌ गाश्चरतः पश्येत्यत्रापि स्यात्‌, भवति ह्ययमाकारो दीर्घः। तस्मात्‌ तच्छब्दे तु न दोषः; न ह्ययमननतरसूत्रविहित आकारः।।

104. नादिचि। (6.1.104)
`खट्वे' इति। `औङ आपः' (7.1.18) इति शीभावः। `कुण्डे' इति। अत्रापि `नपुंसकाच्च' (7.1.19) इति, तत्र कृते `आद्गुणः' (6.1.87) इति गुणः।।

105. दीर्घाज्जसि च। (6.1.105)
`आत्‌' इति नानुवर्त्तते, तेनाऽयं दीर्घामात्रात्‌ पूर्वसवर्णस्य प्रतिषेधः। अथ खट्वा इत्यत्र कथं `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घत्वम्‌? दीर्घादिति वचनं स्पष्टार्थम्‌। ननु चासति तस्मिन्‌ वृक्षा इत्यत्रापि स्यात्‌? नैतदस्ति; यदि ह्यत्रापि स्यात्‌, तदा पूर्वसत्रे `इचि' इत्येतदपार्थकं स्यात्‌। इह तर्हि स्यात्--अग्नये इति? इष्टत्वाददोषः। अत्र हि परत्वात्‌ `जसि च' (7.3.109) इति गुण एव भवति। उत्तरार्थ तर्हि स्यात्‌--`वा छन्दसि' (6.1.106) इति दीर्घाद्यथा स्यात्‌? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषाविज्ञानात्‌--दीर्घादेव भविष्यति न ह्रस्वात्‌। `जसि च' (7.3.109) इत्येतदपि स्पष्टार्थमेव। ननु चासति `जसि च' इत्येतस्मिन्‌ युवतीः पश्य, पद्धतीः पश्येत्यादौ शस्यपि प्रतिषेधः स्यात्‌? ज्ञापकान्न भविष्यति, यदयं `तस्माच्छसो नः पुंसि' (6.1.103) इति पुंग्रहणं करोति, तज्ज्ञापयति--शसि प्रतिषेधो न भवतीति। तद्धि नपुंसके पूर्वसवर्णदीर्घत्वासम्भवात्‌ स्त्रीनिवृत्त्यर्थमेव क्रियते। यदि च स्तिरियामप्ययं युवतीः पश्येत्यादौ प्रतिषेधः स्यात्‌, तदा पूर्वसवर्णदीर्घत्वाभावान्नत्वस्य प्रतिप्तिरेव नास्तीति किं पुंग्रहणेन? उत्तरार्थं तर्हि जस्ग्रहणम्‌? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषात्वविज्ञानादेव जसोऽन्यत्र न भविष्यति।।

106. वा छन्दसि। (6.1.106)
`मारुतीः' इति। मरुद्‌देवता आसामिति `सास्य देवता' (4.2.24) इत्यण्‌ `टिड्ढाणञ्‌' (4.1.15) इति ङीप्‌; सवर्णदीर्घत्वम्‌। `वाराहीः' [वाराही--काशिका पदमंजरी च] इति। वराहस्य विकार ति `अवयवे च प्राण्योषधिवृक्षेभ्यः' (4.3.135) इत्यण्‌, पूर्ववन्ङीप्‌। `उपानही' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्‌।।

107. अमि पूर्वः। (6.1.107)
पूर्वसवर्णदीर्घत्वे प्राप्ते वचनमिदम्‌। दीर्घ इति चेहानुवर्त्तते, अन्यथा हीदं वचनमनर्थकं स्यात्‌।
अथ पूर्वग्रहणं किमर्थम्‌, यावता प्रकृतं यत्‌ पूर्वंग्रहणं तदेवेहानुवर्त्तिष्यत इति? अत आह--`पूर्वग्रहणम्‌' इत्यादि। यथाजातीयकः पूर्वस्तथाजातीयक एव यथा स्यादित्येवमर्थं पूर्वग्रहणम्‌। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`पूर्वसवर्णान्तरतमो मा भूत्‌' इति। पूर्वसवर्णश्चासावन्तरतमश्चेति कर्मधारयः। असति हि पूर्वग्रहणे यत्‌ पूर्वकं पूर्वग्रहणं तेनैवानुवर्त्तितव्यम्‌, तस्मिश्चानुवर्तमाने ततसम्बद्धं सव्रणग्रहणपि अनुवर्त्तेत, तथा च `स्थानेऽन्तरतमः' (1.1.50) इत्यनया परिभाषया पूर्वस्य यः सवर्णः स एव परसज्येत। किं पुनरेवं सत्यनिष्टं स्यात्‌, वृक्षमित्यादौ द्विमात्रस्य स्थानिनो द्विमात्र एव स्यादिति चेत्‌? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्‌, `प्रथमयोः पूर्वसवर्णः' (6.1.102) इत्यनेन सिद्धत्वादित्यत आह--`कुमारिमित्यत्र हि' इत्यादि। कुमारीशब्दस्येकारो द्विमात्रः, अमोऽकारो मात्रिकः; तत्समुदायात्मकश्चात्र स्थानी, तत्र पूर्वसवर्णो विधीयमानस्त्रिमात्रलस्य स्थानिनोऽन्तरतमस्त्रिमात्र एव स्यात्, पूर्वग्रहणे तु सति यथाजातीयक एव पूर्वः, तथाजातीयक एव द्विमात्रो भवति।
`वा छन्दसीत्येव' इत्यादि। यदि तरहि `वा छन्दसि' (6.1.106) इत्यनुवर्त्तते, तेन सहास्यैकवाक्यतायां भाषायां परपूर्वत्वं न सिध्यति? नैतदस्ति; यस्मात्‌ तदिहानुवर्तमानं पूर्ववद्वाक्यभेदेन च्छन्दस्येव विकल्पं करोति, न भाषायाम्‌।।

108. सम्प्रसारणाच्च। (6.1.108)
सम्प्रसारणस्य यणादेशो मा भूदित्येवमर्थमिदं परपूर्वत्वं विधीयते। यदि चात्र यणादेशः स्यात्‌, तदा संप्रसारणविधानामनर्थकं स्यात्‌ तस्मात््। सम्प्रसारणविधानसामर्थ्यादेव यणादेशो न भविष्यति, तत्‌ किमर्थमिदं विधीयते? इत्याह--`सभ्प्रसारणविधानसामर्थ्यात्‌' इत्यादि। सम्प्रसारणविधानसामर्थ्याद्यणादेशो न भवतीति विगृहीतस्याकृतसंहिताकार्यस्य श्रवणं प्राप्नोति, तस्मान्मा भूदेष दोष इति परपूर्वत्वं विधीयते।
`वा च्छन्दसीत्येव' इत्यादि। अत्रापि पूर्ववद्वाक्यभेदो द्रष्टव्यः; अन्यथा भाषायां न स्यात्‌। `यज्यमानः' [यज्यमानौ--काशिका] इति। परपूर्वत्वाभावपक्षे यणादेशः। कथं पुनरत्र यणादेशः, यावता विगृहीतस्यैव ग्रहणेन भवितव्यम्‌, इदानीमेव ह्युक्तम्‌--सम्प्रसारणविधानसामर्थ्याद्विगृहीतस्यैव श्रवणे प्राप्ते परपूर्वत्वं विधीयते? इत्यत आह--परपूर्वत्वविधाने' इत्यादि। अनारब्धे हि परपूर्वत्वे विगृहीतस्यैव श्रवणं प्राप्नोति, मा भूत्‌ सम्प्रसारणस्य वैय्यर्थ्यमिति कृत्वा। सति तु परपूर्वत्वे यत्र परपूर्वत्वम्‌--इष्टमित्यादौ, तत्रार्थवत्‌ सम्प्रसारणम्‌। अतः परपूर्वत्वाभावपक्षे यणादेशो भवत्येव। अथेह कस्मान्न भवति--शकह्वौ शकह्वर्थमिति; अत्र हि शकं ह्वयतीति क्विप्‌, यजादित्वात्‌ सम्प्रसारणम्‌, परपूर्वत्वम्‌, तस्य `अग्तादिवच्च' (6.1.85) इति सम्प्रसारणग्रहणेन ग्रहणात्‌ सम्प्रसारणासम्प्रसारणयोरेकादेशस्य सम्प्रसारणस्य व्यपदेशभावत्वात्‌, औकारेऽर्थशब्दे च परतो व्यवस्थिते `सम्प्रसारणाच्च' (6.1.108) इति परपूर्वत्वं प्राप्नोति? इत्यत आह--`अन्तरङ्गे चाचि' इत्यादि। योऽयं ह्वयतेरेचः स्थाने विहित आकारः स सम्प्रसारणस्यान्तरङ्गः प्रत्यासन्नः; उभयोरप्येकधात्वन्तर्गतत्वात्‌। औकारोऽर्थशब्दाकारश्च विप्रकृष्टः। विप्रकृष्टस्तु देशतः कालतश्च, यदाह--`ब्राह्ये' इति। यस्य धातोः सम्प्रसारणमवयवः, तत्रानन्तर्भावाद्बाह्यः। कालतश्च, यदाह--`पश्चात्‌ सन्निपतिते' इति। पूर्वरूपविधानकालादुतरकालं सन्निहित इत्यर्थः। तत्र सन्निकृष्टविप्रकृष्टयोरचोः प्रत्यासत्तेरन्तरङ्गो योऽच्‌ तत्रेदं वचनं प्रवर्त्तते, ततर चरितार्थमिति विप्रकृष्ट औकारादौ पश्चात्‌ सन्निहते न भवति।।

109. एङः पदान्तादति। (6.1.109)
`अग्नेऽत्र' इति। `सम्बुद्धौ च' (7.3.106) इति गुणः।।

110. ङसिङसोश्च। (6.1.110)
`एङ उत्तरयोः' इत्यादि। एङ उत्तरौ यौ ङसिङसौ तयोः सम्बन्ध्यवयवो योऽत्‌ तस्मिन्‌ परत इत्यर्थः। `अग्नेरागच्छति' इति। `घेङिति' (7.3.111) इति गुणः। अथ कस्मादत्र यथासंख्यं न भवति, एङावपि हि द्वौ, ङसिङ्सावपि द्वावेवेति प्राप्नोति? नैष दोषः, न ह्यत्र ङसिङसोः परतः कार्यं विधीयते, किं तर्हि? तत्सम्बन्धिन इति, स चैक एव। अथापि सम्बन्धिभेदेन भेदः स्यात्‌? एवमप्यदोषः, चकारोऽत्र समुच्चायर्थः क्रियते। एवं च समुच्चयो भवति यद्यकैकस्यैङो ङसिङसोः प्रत्येकमपि परतः परपूर्वत्वं भवति; नान्यथा। `ईदग्नेः सोमरुणयोः' (6.3.27), `ओरावश्यके' (3.1.125) इति च निर्देशस्तदभावं ज्ञापयति। लक्षणव्यभिचारचिह्नेन वा। अल्पाच्तरस्य ङसः परनिपातेन यथासंख्याभावोऽवसीयते।।

111. ऋत उत्‌। (6.1.111)
`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने' इत्यादि। किं पुनर्होतुरित्यादावनिष्टं स्याद्यदि रपरत्वं न क्रियेत? न किञ्चित्‌; न्यायतस्तु प्राप्नोति रपरत्वमपि, तदवश्यं कर्त्तव्यम्‌। तमेव न्यायं न्यां दर्शयितुम्‌--`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने' इत्युक्तम्‌। ऋत इति तपकरणं दिर्घनिवृत्त्यर्थम्‌। तेन `उन्योर्ग्रः' (3.3.29) `प्रे स्त्रोऽयज्ञे' (3.3.32) इत्यादौ न भवति। उदित्येतदपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तरतम्याद्‌द्विमात्रस्य स्थाने द्विमात्र एव प्राप्नोति। ननु च `भाव्यमनोऽण्‌ सवर्णान्‌ न गृह्णाति'(व्या.प.35) इति सवर्णानां ग्रहणं न भविष्यतीति तत्‌ किमेतन्निवृत्यर्थेन तपरकरणेन? एवं तर्ह्येतज्ज्ञापयति--भवत्यत्र ह्युकरेम भाव्यमानेन सवर्णस्य ग्रहणमिति। तेनामू, अमूभ्यामित्यत्र `अदसोऽसेर्दादु दो मः' (8.2.80) इति दीर्घस्य स्थाने दीर्घ ऊकारो भवति।।

112. ख्यत्यात्परस्य। (6.1.112)
`ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्‌' इति। यमादेशे कृते तुल्यं रूपमिति विशेषाभावात्‌। अथ कस्मादत्राकारान्तयोरेव ख्यशब्दत्यशब्दयोरिदं ग्रहणं न भवति? केवलस्य ख्यशब्दस्य त्यशब्दस्यासम्भवादिति चेत्‌? न; यदि केवलौ न स्तः, तदन्तानां तर्हि मुख्यगोसंख्यादीनामपत्य गार्हपत्यादीनाञ्च ग्रहणमस्तु? नैतदस्ति; एवं हि--`सख्युरसम्बुद्धौ' (7.1.92), `पत्युर्नो यज्ञसंयोगे' (4.1.33) इति निर्देशौ नोपपद्येयाताम्‌।
`सह खेन वर्त्तत इति सखः' इति। `तेन सहेति तुल्ययोगे' (2.2.28) इति बहुव्रीहिः, `वोपसर्जनस्य' (6.3.82) इति सहस्य सभावः। `सखीयति' इति। `क्यचि च' (7.4.33) इतीत्त्वम्‌। `सखीः' इति। क्विप्‌ `अतो लोपः' (6.4.48) इत्यकारलोपः `लोपो व्योरवलि' (6.1.66) इति यकारस्य च। `लुनम्' इति। `ल्वादिभ्य' (8.2.44) इति निष्ठानत्वम्‌। ननु च नायं तीशब्दः, तत्कथं तस्योदमुदाहरणमित्यत आह--`निष्ठानत्वम्‌' इत्यादि।
अथेह कस्मान्न भवति--अतसखेरागच्छति, सेनापतेरागच्छतीति, असति ह्यत्रापि खिशब्दः तिशब्दश्च? इत्यत आह--`विकृतनिर्देशात्‌' इत्यादि। योऽयं ख्यत्यादित्यागन्तुकेनाकारेम यणादेशं कृत्वा विकृतनिर्देशः कृतस्तस्यैतदेव प्रयोजनम्‌--यत्र यणादेशः, तत्रैव यथा स्यात्‌। न चात्र यणादेशोऽस्ति, अतो न भवति, अन्यथा हि विकृतनिर्देशोऽनर्थकः स्यात्‌। ननु च लध्वर्थः स्यात्‌, अन्यथा हि `खितिखीतीभ्यः' इत्युच्यमाने गौरवं स्यात्‌? एवं मन्यते--यदि यतर यण्‌ न भवति, तत्रापि भवितव्यम्‌, तदा खीतीभ्यामित्येवं ब्रूयात्‌। न चैवमुच्यमाने ह्रस्वन्ताभ्यान्न प्राप्नोति; खिशब्दात्‌ `सख्युर्यः', (5.1.126) तिशब्दात्‌ `पत्युर्नो यज्ञसंयोगे' (4.1.33) इति निर्देशाभ्यामेव सिद्धेः अत्र हि सखिपतिशब्दयोर्ग्रहणम्‌, न सखीपतीशब्दयोः। न हीह पतीशब्दस्य यज्ञेन संयोगोऽस्ति, नापि `सह खेन वर्त्तते' इत्यादिना प्रकारेम व्युत्पादितो यः सखीशब्दस्तत उत्पन्नो यः प्रत्ययः स प्रकृत्यर्थाभिधाने समर्थो भवति; यतोऽभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। तस्माद्विकृतनिर्देशस्य पूर्वोक्तमेव प्रयोजनमिति।
अथ स यणादेशोऽतर कस्मान्न भवति यस्मिन्‌ सत्युत्त्वेन भवितव्यम्‌? `घेङिति' (7.3.111) इति गुणेन बाधितत्वादिति चेत्‌? न; `शेषो ध्यसखिः (1.4.7) इति धिसंज्ञाप्रतिषेधादिति चेत्यत आह--`सखीशब्दस्य' इत्यादि। अत्र च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' (व्या.प.89) इति प्रतिषेधो हेतुः।
परस्येति किमर्थम्‌? पूर्वपरयोर्मा भूत्‌। इतश्चारभ्य पूर्वपरयोरित्येतन्नानुवर्त्तते।।

113. अतो रोरप्लुतादपलुते। (6.1.113)
`उकारानुबन्धकस्य' इति। यदि रुशब्दः समुदायः स्थानो स्यात्‌, तदा महातरुवनमित्यत्रापि `हशि च' (6.1.114) इत्युत्वं प्रसज्येत। किञ्च `ससजुषो रुः' (8.2.66) इत्युकारानुबन्धकरणमनर्थकं स्यात्‌। तत्र ह्यु कारोऽस्य सूत्रसय विशेषणार्थः क्रियते, स इह समुदाये स्थानिन्यनर्थको जायते। तस्मादुकारानुबन्धवत इदं ग्रहणम्‌। ननु चोत्त्वे कर्त्तव्ये `पूर्वत्रासिद्धम्‌' (8.2.1) इति रुत्त्वमसिद्धम्‌, तदसतो रोः कथमुत्त्वं शक्यते विधातुम्‌? इत्यत आह--`रुत्वमप्याश्रयात्‌ सिद्धम्‌' इति। यदि रुत्वमसिद्धं स्यात्‌, तदा स्थानित्वेन रोराश्रयणमनर्थकं स्यात्‌; कस्यचिदुकारानुबन्धविशिष्टस्य रोरसम्भवात्‌। तस्मादाश्रयादेव रोरसिद्धत्वं नास्तीति।
`तस्यापि' इति। यत्रापि परतो रोरुत्त्वमुच्यते तस्य `सुस्रोता 3 अत्र' इति `दूराद्धूते च' (8.2.84) इति प्लुतः। `देवदत्ता 3 अत्र' इति। अत्रापि `गुरोऽनृतोऽनन्तस्याप्येकैकसय प्राचाम्‌' (8.2.86) इत्यनेन।
अथ किमर्थं `अप्लुतादप्लुते' इत्युच्यते? न ह्यतोऽतीति च तपरकरणस्य वर्णस्य निर्देशे क्रियमाणे प्लुतात्परस्य प्लुते वा परतः प्राप्नोति? इत्यत आह--`प्लुतस्य' इत्यादि। ननु च सिद्धः प्लुतः स्वरसन्धिषु, यदयम्‌ `प्लुतप्रगृह्या आचि' (6.1.125) इति प्रकृतिभावं शास्ति? एवं मन्यते--प्रकृतिभाव एवैतज्ज्ञापकं स्यात्‌। अथापि कथञ्चित्‌ स्वरसन्धिविषयं ज्ञापकं स्यात्‌, तथा रोदत्त्वं स्वरसन्धिर्न भवति। अथापि संहिता कार्य्यविषयं ज्ञापकं स्यात्‌, तथापि रोरुत्त्वं मंहिताकार्य्यं न भवति। येन हि वर्णाः सन्धीयन्ते तत्‌ संहिताकार्यम्‌, न चोत्त्वेन वर्णाः संहिता भवन्ति; पुनरप्याद्गुणाद्यपेक्षणादिति।।

114. हशि च। (6.1.114)
पूर्वत्रातीत्यनुवृत्तेर्हश्युत्त्वमप्राप्तमेवानेन विधीयते। चकारः `अप्लुतात्‌ (6.1.113) इत्यस्यानुकर्षणार्थः। तेनेह न भवति--सुस्रोता 3 वेहीति।।

115. प्रकृत्याऽन्तःपादमव्यपरे। (6.1.115)
`प्रकृत्या' इति। करणे तृतीया। `अन्तःपादम्‌' इति। सप्तम्यन्तमेतत्‌। विभक्त्यर्थेऽव्ययीभावं विधाय ततः सप्तमी, तस्याः `तृतीयासप्तम्योर्बहुलम्‌' (2.4.84) इत्यम्भावः कृतः। `एङः' इत्यादि। पञ्चम्यन्तस्यैङः प्रकृत्या भवतीत्यनेन सम्बन्धो नोपपद्यते। तस्मादिहार्थादेङ्ग्रहणं प्रथमान्तमुपजायते। `प्रकृतिः' इत्यादिना प्रकृतिशब्दस्यामाचष्टे। प्रकृतिशब्दो हि लोके स्वभावे प्रयुज्यते, यता--दुस्त्यजा प्रकृतिरिति, कारणेऽपि यथा--दध्नः क्षीरं प्रकृति रति, तदिहापि स एवार्थस्तस्य विज्ञायते। अन्तरित्यव्ययमधिकरणभूतमिति। अत एवान्तः-पादमित्यव्ययीभावो भवति। `पादशब्देन' इत्यादि। कथं पुनर्ऋक्पादस्यैव ग्रहणं लभ्यते, यावता पादशब्दः सामान्यवाची? एवं मन्यते---`वा छन्दास' (6.1.106) इत्यतः छन्दोग्रहणमिह मण्डूकप्लुतिन्यायेनानुवर्त्तते, तेन ऋक्पादस्यैव ग्रहणं विज्ञायते। अथ `सर्वत्र विभाषा गोः' (6.1.122) इत्यतः सूत्रात्‌ प्राक्छन्दस्येव कार्यं विज्ञायते। एवं हि तत्र सर्वत्रगरहणमर्थवद्भवति यदि च्छन्दसि पूर्वं विधानं भवति। एवमवयवानापर्थमाख्याय `अवकारयकार' इत्यादिना समुदायस्यार्थमाचष्टे। अविद्यमानौ वकारयकारौ यस्य स तथोक्तः। `स्वभावेन' इत्यादि। यदा प्रकृतिशब्दः स्वबावे वर्त्तमानो गृह्यते, तदायमर्थः--एङ्‌ स्वभावेन भवति। स्वभावपरत्यागेन संहिताकार्यं नोपपद्यत इति। यदा तु कारणे वर्त्तमानस्य प्रकृतिशब्दस्य परिग्रहस्तदायमर्थः--एङ्‌ कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ, तस्य य आत्मा स्वरूपं तेनैवात्मनैङ्‌ भवतीत्येतदुक्तं भवति--प्राक्‌ संहिताकार्याद्यदेङो रूपं तेनैव तदवतिष्ठत इति। अनन्तरोक्तमेवार्थद्वयं स्पष्टीकर्त्तुमाह--न `विकारमापद्यते' इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्दथालक्षणा विकारावस्था नोत्पद्येत। तदैवं कारणात्मनापि भवति, यदि विकारभावं नोत्पद्यते। यदि कार्यात्मना न विपरिणमतीत्यर्थः। `नो चेन्निमित्तकायणौ' इति। निमित्तं परत्वविशिष्टोऽकारः। तत्र हि परतः प्रकृतिभावो विधीयते। कार्यी त्वेङ्‌, तस्य हि कार्यं प्रकृतिभावोऽस्ति। `ते अग्रे अश्चमायुञ्जन्‌' इति। अस्य ऋक्पादस्य मध्ये य एङ् एकारस्तेशब्देऽग्रेशब्दे च तसय तदनन्तरे प्रकृतिभावत्‌ `एङः पदान्तादाति' (6.1.109) इति पूर्वरूपं न भवति, अयादेशश्च। `उपप्रयन्तो अध्वरम्‌' इति। अत्रापि प्रयन्त इति शब्दौकारस्यैङोऽध्वरशब्दस्यानन्तरे प्रकृतभावात्‌ पूर्वरूपं न भवति, अवादेशश्च। एवं `सुजाते अश्व' इत्यादावपि प्रकृतिभावात्‌ पूर्वरूपा दकार्यस्याभावो वेदितव्यः।
`एतेऽर्चयन्ति' इति। अत्रेते शब्दे य एङ् एकारः स पदान्ते वर्त्तते। तदनन्तरस्त्वकारः पादादौ, न पादमध्ये। `तेऽवदन्‌' इति। अत्र तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति; तदनन्तरस्यातो वकारपरत्वात्‌। `अवदन्‌' इति। वदतेर्लङि प्रथमपुरुषबहुवचनान्तम्‌। `तेऽयजान्‌' इति। अत्रापि तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति। तदनन्तरस्यातो यकारपरत्वात्‌। `अन्वग्नि' इत्यादि। सर्वमत्रास्ति, न त्वनुशब्द उकार एङ् भवति, नास्य प्रकृतिभावः।
`केचित्‌' इत्यादि। यदि तर्हि `नान्तःपादमव्यपरे' इति सूत्रं पठन्ति, एवं सति परपूर्वस्यैव प्रतिषेधः कृतः स्यात्‌, नायवोः; तथा हि--परपूर्वत्वमेङोऽनन्तरविहितम्‌? इत्यत्‌ आह--`ते संहितायाम्‌' इत्यादि। यदि परपूर्वत्वं संहिताकार्यं विशेषणमपेक्ष्यायं प्रतिषेधः क्रियते, तदायं दोषः स्यात्‌। यदा तु संहिताधिकारविहितं कार्यंमात्रमपेक्ष्य प्रतिषेधो विधीयते, तदा सर्वस्यैव संहिताधिकारविहितस्य कार्यस्य प्रतिषेधो युक्त इति तेषां भावः।।

116. अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च। (6.1.116)
`नो अव्यात्‌' इति। अस्मादो द्वितीयबहुवचनान्तस्य `बहुवचनस्य वस्नसो' (8.2.21) इति नसि रुत्वे `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्त्वे `आद्‌ गुणः' (6.1.87) इति गुणे कृते `नो' इति भवति। `अव रक्षणे' (धा.प.600) इत्यस्मादाशिषि लिङि यासुटि तिपि `इतश्च' (3.4.97) इतीकारलोपे `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सकरलोपे च कृते `अव्यात्‌' इति भवति। `अवद्यात' इति। अवद्यशब्दोऽयं पञ्चम्येकवचनान्तः। `अवक्रमुः' इति। अवपूर्वात्‌ क्रमेर्लिट्युसि रूपमेतत्‌। अन्ये तु लुङि वर्णयन्ति--`बहुलं छन्दसि' (2.4.76) इति च्लेः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्‌, जुस्भावश्छान्दसः। `अवन्तु' इति। अवतेर्लोट्‌, झेरन्तादेशः, `एरुः' (3.4.76) इत्युत्त्वम्‌। `अवस्यवः' इति। अवतेः `सर्वधातभ्योऽसुन्‌' (द.उ.9.49) इति असुन्‌--अवस्‌ इति, ततः `सुप आत्मनः क्यच्‌' (3.1.8) इति क्यच्‌, तदन्तात्‌ `क्याच्छन्दसि' (3.2.170) इत्युप्रत्ययः, ततो जस्‌, `जसि च' (7.3.109) इति गुणः--ओकारः, `एचोऽयवायावः' (6.1.78) इत्यवादेशः।।

117. यजुष्युरः। (6.1.117)
`उरो अन्तरिक्षम्‌' इति। उरःशब्दस्योत्त्वम्, `आद्‌ गुणः' इति गुणः। `ओकारान्तमुरोशब्दं [`उकारान्तमुरुशब्द'--काशिका] सम्बुद्ध्यन्तमधीयते' इति। उरुशब्दस्य `सम्बुद्धौ च' (7.3.106) इति गुणे कृते `उरो' इति भवति।।

118. आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे। (6.1.118)
आपो--इत्येवमादीनि सर्वाण्येतान्यनुकरणान्यविभक्तिकानि; `सुपां सुलुक्‌' (7.1.39) इत्यादिना तेभ्य उत्पन्नाया विभक्तेर्लुप्तत्वात्‌। अत्रापो इति प्रथमाबहुवचनान्तस्यानुकारणम्‌। `जुषाणो' इति। प्रथमैक वचनान्तस्य। `वृष्णो' इति। षष्ठ्येकवचनान्तस्य। `वषिष्ठे' इति। सप्तम्येकवचनान्तस्य। `अम्ब, अम्बाले' इत्येतयोर्विशेषणम्‌। अम्बिकेशब्दात्‌ पूर्वे अम्बिकेपूर्वे, अस्मादेव निपातनात् समासः। ननु च `अम्बे' इति सम्बुद्ध्यन्तस्यानुकरणम्‌? ततश्च `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वेनैत्त्वापवादेन भवितव्यम्‌, तत्‌ कथमम्बे इत्यत्रैत्त्वम्‌? इत्यत आह--`अस्मादेव' इत्यादि। अम्बाले अम्बिके--इत्येतयोस्तु युक्तमेवैत्त्वम्‌। वक्ष्यति हि ह्रस्वविधाने--`अम्बार्थं द्व्यक्षरं यदि' (वा.7.3.107) इति।।

119. अङ्ग इत्यादौ च। (6.1.119)
`अङ्ग इत्यादौ च' इति। इतिकरणेनान्तरोक्तोऽङ्गशब्दः प्रत्यवमुश्यते। `तदादौ चाकारे' इति। समानाधिकरणे सप्तम्यौ। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिकरणस्यार्थमाचष्टे--तदादाविति। अङ्गशब्दादावित्यर्थः। `यः पूर्वः' इति। `एङ्' इति सम्बध्यते। चकारोऽङ्गशब्दस्यादौ योऽकारसतत्राप परतः पूर्वस्यैङः प्रकृतिभावो यथा स्यादिति समुच्चयार्थः क्रियते। तत्र ह्यसत्यङ्गशब्दाकारे परतोऽङ्गशब्दस्य य एङ् तस्यैव प्रकृतिभावः स्यात्‌। यस्त्वङ्गशब्दे परतोऽनङ्गशब्दस्यैङ् तत्र न स्यात्‌। `प्राणो अङ्गे' इत्यादि। अत्र प्राणो-शब्दे य एङ् अङ्गशब्दादावकारे प्रकृत्या भवति। `अङ्ग अङ्गे अदीध्यत्‌' इति। अत्राङ्गशब्दे य एङ् तस्याङ्गशब्दादावकारेऽदीध्यच्छब्दादौ प्रकृतिभावो भवति।।

120. अनुदात्ते च कुधपरे। (6.1.120)
`कुधपरे' इति। अकारविशेषममेतत्‌। कुधौ परौ यस्मात्‌ स तथोक्तः। धकारेऽकार उच्चारणार्थः। `अयं सो अग्निः' इति। अग्निशब्दः `अङ्गेर्निर्नलोपश्च' [अङ्गेर्नलोपश्च--द.उ.] (द.उ.1.20) इति निप्रत्ययान्तो व्युत्पादित इति प्रत्ययस्वरेणान्तोदात्तः, शषोऽनुदात्त इत्यकारस्यानुदात्तत्वम्‌। `अयं सो अध्वरः' इति। अध्वरशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, तदादिरप्यकारोऽनुदात्त एव। `आद्युदात्तो निपात्यते' इति। ऋडज्त्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुकरशुक्लगौरवनरेरामलाः (द.उ.8.46) इत्यनेन। `सोऽयम्‌' इति। अयंशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, तस्यादिरनुदात्तः।।

121. अवपथासि च। (6.1.121)
`यद्रुद्रेभ्योऽवपथाः' इति। अटः स्वरेणाद्युवात्तोऽयमवपथाःशब्दः।।

122. सर्वत्र विभाषा गोः। (6.1.122)

123. अवङ् स्फोटायनस्य। (6.1.123)
`अतीति निवृत्तम्‌' इति। यद्यपीत्यनुवर्त्तेत तदा गवौदनादौ न स्यात्‌, तस्मादतीत्येतदस्वरितत्वा न्निवृतम्‌। हल्यपि तर्हि प्राप्नोति? इत्यत आह--`अचीत्येतत्पुनरनुवर्त्तते' इति। `इको यणचि' (6.1.77) इत्यतः; सा पुनस्तस्यानुवृत्तिर्मण्डूकपलुतिन्यायेन वेदितव्या। न हि `सम्प्रसारणाच्च' (6.1.108) इत्यतः परेण ये योगा अस्माद्योगात्‌ पूर्वं तेषु `अति' इत्यस्यानुवृत्तिरस्ति। तथा च पूर्वमुक्तम्‌--`अचीति चायमधिकारः `सम्प्रसारणाच्च' (6.1.108) इति यावत' इति। `गवाग्रहम्‌, गवाजिनम्‌' इति। बहुव्रीहिः, तत्पुरुषो वा। `गवोष्ट्रम्‌' इति द्वन्द्वः। `आद्युदात्तश्चायम्‌' इत्यादि। इह गावोऽग्रमस्येति बहुव्रीहौ कृते पूर्वपदप्रकृतिस्वरत्वं च च प्राप्नोति, अवङादेशश्च, तत्रान्तरङ्गत्वादवङ्भवति, स च भवन्‌ प्रातिपदेकस्वरेणान्तोदात्तस्य गोशब्दस्य स्थान आन्तरयतोऽन्तोदात्त एव स्यात्‌। तस्मिन्‌ सति पश्चात्‌ प्रकृतिस्वरे कृतेऽन्तोदात्तत्वं पूर्वपदस्यापद्येत, आद्युदात्तश्चेष्यते, तस्मादाद्युदात्तोऽयमादेशो निपात्यते। यद्येवम्‌, तत्पुरुषादावपि स एव निपातनस्वरः प्राप्नोति? इत्यत आह--`अन्यत्र तु' इत्यादि। अन्यत्रेति--तत्पुरुषे, द्वन्द्वे च। गोशब्दस्यायमादेश इति तत्सम्बन्ध्येव शब्दान्तरं निपातनस्वरेण बाध्यते, न समासस्वरः। तस्माद्वहुव्रीहेरन्यत्र तत्पुरषादौ समासान्तोदात्तत्वेन निपातनस्वरो बाध्यते, `स्फोटायनग्रहणं पूजार्थम्‌' इति। किं पुनः कारणं विकल्पार्थं न भवति? इत्याह--विभाषेत्येव हि वर्त्तते' इति। किमर्थं पुनरवङ् विधीयते? अगेव न विधीयेत, तत्रापि ह्यवादेशेन सिध्यत्येव? सिध्यति; `एङः पदान्तादति' (6.1.109) इति पूर्वरूपत्वं प्राप्नोति। ननु चाकि विहिते सति तदन्तो न भवति? आगमस्य तद्ग्रहणेन ग्रहणात्‌।न ह्योकारस्य प्राक्‌ प्रवृत्ता पदान्तता नास्तीति शक्यं वक्तुम्‌।।

124. इन्द्रे च नित्यम्‌। (6.1.124)
`इन्द्रशब्दस्थे' इति। य इन्द्रशब्दे तिष्ठति स इन्दरशब्दस्यः, स पुनर्य इन्द्रशब्दस्थावयवः स वेदितव्यः। पूर्वेण विकल्पः सिद्ध एव, तत्रारम्भसामर्व्यादेव नित्ये विधावस्मिंल्लब्धे नित्यग्रहणमुत्तरार्थम्‌।।

125. प्लुतपृगृह्या अचि। (6.1.125)
`देवदत्ता 3 अत्र त्वसि' इति। `दूराद्धूते च' (8.2.84) इति प्लुतः। ननु च `पूर्वत्रासिद्धम्‌' (8.2.1) इत्यसिद्धः प्लुतः, तदसतसतसय कथं शक्यते परकृतिभावो विधातुम्‌? इत्यत आह--`आश्रयात्‌' इत्यादि। आश्रयणमाश्रयः। तदेतत्‌ प्रकृतिभावकार्यं विधातुं प्लुतस्य कार्यिण आश्रयणम्‌। अस्मादेवात्र प्रकृतिभावे कर्त्तव्ये सिद्धः प्लुतः, अन्यथा तस्य कार्यित्वेनाश्रयणमनर्थकं स्यात्। `अग्नी' इत्यादि। `ईदूदेद्‌द्विवचनम्‌' (1.1.11) इत्यादिना अत्र प्रगृह्यसंज्ञा। अथाचीति किमर्थम्‌, यावताऽचीत्यनुवर्त्तत एव? इत्यत आह--`अचीत्यनुवर्त्तमाने' इत्यादि। आदेशस्य निमित्तं योऽच्‌ तस्य परकृतिभावनिमित्तत्वेन परिग्रहो यथा स्यादित्येवमर्थं पुनरज्ग्रहणम्‌। आदेशस्त्वत्र यत्राचि प्रकृतिभावः--जानु+उ अस्य रुजति जानू अत्य रुजतीति। न हि ज नुशब्दे य उकारो यश्च तदनन्तरः प्रगृह्यसंज्ञकस्तयोः सवर्णदीर्घत्वं प्रति प्रगृह्यसंज्ञकादुकारात परस्याकारस्य निमित्तभावः। इह च न भवति--जान्वस्य रुजतीति। तेन पूर्वपरयोरुकारयोर्य एकादेशः, स यद्यपि `अन्तादिवच्च' (6.1.85) इत्यादिवद्भावात्‌ प्रगृह्यसंज्ञकोकारग्रहणेन गृह्यते, तथापि यणादेशोऽकारे परतो भवत्येव। न ह्यत्राप्यकार एकादेशनिमित्तम्‌। यदि तु विशिष्टाच्परिग्रहार्थं पुनरज्ग्रहणं न क्रियते, तदाऽञ्मात्रे प्रकृतिभावो विधीयमान इहापि स्यादेव। प्रगृह्यसंज्ञा पुनरकारपूरवस्योकारस्य `निपात एकाजनाङ्' (1.1.14) इत्यनेन।
`नित्यगरहणम्‌' इत्यादि। यदि नित्यग्रहणमिहानुवर्त्तते, तदाग्नी+इतीत्यादौ अस्य विधेः कृतार्थत्वात्त वायू+अत्रेत्यादौ परत्वाच्छाकलौ विधिः प्रसज्येत। तस्मात्‌ प्रकृतिभाव एव यथा स्यात्‌--इत्येवमर्थं नित्यग्रहणमिहानुवर्त्तते।।

126. आङोऽनुनासिकश्छन्दसि। (6.1.126)
`आङः' इति। ङिद्विशिष्टस्याकरस्योपादानम्‌। ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः'--तस्यैव ग्रहणं यथा स्यात्‌, वाक्यस्मरणयोर्यः तस्य मा भूदित्येवमर्थम्‌। असति प्रकृतिभावे विहितेऽप्याङोऽनुनासिकत्वे स्यादेव स्वरसग्धिः। अनुनासिकविधानं त्वादेशस्य सानुनासिकत्वार्थं स्यादित्येतन्मनसि कृत्वाऽऽह--`न च प्रकृत्या भवति' इति। `आतरत्‌' इति। तरतेराङपूर्वाल्लङ्, अडागमः, अटा सह सवर्णदीर्घत्वम्‌।।

127. इकोऽसवर्णे शाकलयस्य ह्वस्वश्च। (6.1.127)
`ह्रस्वश्च तस्येकः स्थाने भवति' इति। यद्येवम्‌, `प्रकृत्या' (6.1.115) इत्यस्यानुकर्षणार्थश्चकारो न कर्त्तव्यः, ह्रस्वविधानसामर्थ्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्‌ स्यात्‌--दीर्घाणामेव ह्रस्वविधानसामर्थ्यात्‌ स्वरसन्धिर्न स्यात्‌। ह्रस्वानां तु स्यादेव, न हि तेषां ह्रस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्रस्वानामपि हि स्वरसन्धिबाधनार्थं ह्रस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्‌, पर्जन्यवत्‌; नाकृतकारि दहनवत्‌। एवं तर्हि चकारेणैतदाख्यायते--क्वचिद्‌ ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्रस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति।
यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह--`आरम्भसामर्थ्यादेव हि' इत्यादि। यणादेशस्य ह्यसवर्ण एवाज्विषयः; सवर्णे तु `अकः सवर्णे दीर्घः' (6.1.101) इति दीर्घविधानात्‌। अयमपि च शाकलो ह्रस्वो विधीयते। अत एवास्मिन्‌ विषय आरम्भसामर्थ्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्‌।
`सिन्नित्यसमासयोः' इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्‌। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः--स इद्यस्य स सित्‌। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः--`कण्वादिभ्यो गोत्रे' (4.2.111) इत्यण्‌ `यस्येति च' (6.4.148) इत्यकारलोपः, `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। `वक्तव्य' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्‌, `सर्वत्र विभाषा गोः' (6.1.122) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। `ऋत्वियः' इति। ऋतुः प्राप्तोऽस्येति `ऋतोरण्‌' (5.1.105) `छन्दसि घस्‌' (5.1.106) इति घस्‌। `व्याकरणम्‌' इति। `कुगतिप्रादयः' (2.2.18) इति समासः। अत्र हि `नित्यं क्रीडाजीविकयोः' (2.2.17) इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्‌। `कुमार्यर्थम' इति। कुमार्या इदं कुमार्यर्थमिति। `अर्थशब्देन सह' समासवचनं सर्वलिङ्गता च' (वा.78) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव।।

128. ऋत्यकः। (6.1.128)
`सवर्णार्थमनिगर्थञ्च वचनम्‌' इति। अन्यत्र पूर्वेणैव सिद्धत्वात्‌। यदि सवर्णार्थं वचनम्‌, कथं तर्हि खट्वर्श्य इत्युदाहरणम्‌, न ह्यत्र सवर्णोऽच्परः नैतदस्ति; `अनिगर्थञ्च' इति यदुक्तं तस्योदाहरणम्‌। अत एवाक इत्युपात्तं सूत्रे; अन्यथेक इत्यनुवर्त्तनीयं स्यात्‌। सत्यस्मिन्‌ योगे सवर्णार्थेऽप्यकोऽनेनैव युक्तो ह्रस्वप्रकृतिभावो परत्वादत्यस्योदाहरणस्योपन्यासः।।

129. अप्लुतवदुपस्थिते। (6.1.129)
ऋषौ=वेदे भव आर्षः, तस्मादन्यो लौकिकोऽनार्षः। `समुदायात्‌' इति। वाक्यादित्यर्थः। कुत एतत? पदरहितस्य वक्यस्याप्रयोगात्‌। वाक्यस्य च समुदयात्मकत्वात्‌। `अवच्छिद्य' इति। पृथक्‌ कृत्वेत्यर्थः। `स्वरूपे व्यवस्थाप्यते' [स्वरूपेऽवस्थाप्यते--काशिका] इति। शब्दपदात्मकतायां व्यवस्थाप्यत इत्यर्थः। `अप्लुतवत्‌' इति। अप्लुतेन तुल्यं वर्त्तत इत्यप्लुतवत्‌। येन साधर्म्येणाप्लुतवद्भवति तद्दर्शयितुमाह--`प्लुतकार्यम्‌' इत्यादि। तदनेन प्लुतकार्यस्यार्थं प्रतिषेधः, न तु प्लुतस्येति दर्शितं भवति। `सुश्लोका 3' इति। `दूराद्धूते च' (8.2.84) इति प्लुतः। `सुश्लोका' इति। प्लुतकार्यस्याकरणादेकादेशो भवत्येव। ननु चैकादेशेनापि न भवितव्यम्‌, तस्यापि प्लुतकार्यत्वात्‌? नैतदस्ति; एवं हि वचनस्य वैयर्थ्यं स्यात्‌। तस्मात्‌ प्लुतसंशब्दनेनैव प्लुतस्य यत्कार्यं विहितं तस्यैव प्रतिषेधः, न सर्वस्य प्लृतकार्यस्य। न चैकादेश एवं विहितः।
`वत्करणं किम्‌' इति। कार्यमात्रस्य प्रतिषेधे सति प्लुतस्य धवणं यथा स्यादित्येवमर्थं वत्करणं स्यात्‌। सत्यपि च कार्यमात्रस्य प्रकृतिभावस्य प्रतिषेधेनैव प्लुतश्रुत्या भवितव्यम्‌; एकदेशेन निवर्त्तितत्वात्‌। तत्‌ कस्मात्‌ प्लुतस्यैव प्रतिषेधो न क्रियत इत्यभिप्रायः। प्लुतप्रतिषेधे वक्ष्यमाणं दोषं चेतसि कृत्वाऽऽह--`प्लुत इत्युच्यमाने' इत्यादि। `तत्र को दोषः' इति। यो वत्करणे सति न भवतीति भावः। `प्रगृह्याश्रये' इत्यादि। प्रगृह्य आश्रयो यस्य तस्मिन्‌ प्रतिभावे सति प्रगृह्यसंज्ञको यः प्लुतस्तस्य श्रवणं न स्यात्‌, यदि प्लुत एव प्रतिषिध्येत। वत्करणे तु सति प्लुतकार्यस्यायं प्रतिषेधो भवति न प्लुतस्यैव। तत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धेऽपि प्रगृह्याश्रयस्याप्रतिषिद्धत्वादसत्येकादेश एव दोषो न भवति। `अग्नी इति'। `इदूदेद्‌द्विवचनम्‌' (1.1.11) इत्यादिना प्रगृहयसंज्ञा, `गुरोरनृत' (8.2.86) इत्यादिना प्लुतः।।

130. ई 3 चाक्रवर्मणस्य। (6.1.130)
`अचि परतः' इति। एतेन `उपस्थिते' इत्येतन्निवृत्तम्‌; अस्वरितत्वादिति सूचयति। `अस्तु ही 3' इति। `असु क्षेपणे', (धा.पा.1209) लोट्‌, सिप्‌। `सेर्ह्यपिच्च' (3.4.87) इति सेहिः, व्यत्यनेन श्लुः। `क्षियाशीः-प्रैषेषु तिङाकाङ्क्षम्‌' (8.2.104) इति प्लुतः।
`तदुपस्थिते निवृत्त्यर्थम्‌' इति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यं प्रापतत्वात्‌। `अनुयस्थिते प्राप्त्यर्थम्‌' इति। तत्र केनचिदप्राप्तत्वात्‌।
`ईकारात्‌' इत्यादि। कथं पुनरिकारादन्यत्रापीष्यमाणोऽप्येषोऽप्लुतवदभावो लभ्यते? `इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च' (6.1.127) इत्यतोऽनुवृत्तस्य चकारस्यानुक्तसमुच्चयार्थत्वात्‌।।

131. दिव उत्‌। (6.1.131)
`सानुबन्धकत्वात्‌' इति। कस्य धातोरनन्तरम्‌? प्रकृतत्वात्‌ तस्यैव। दीव्यतिर्घातुः सानुबन्धः, प्रतिपदिकं तु दिवित्येतन्निरनुबन्धकम्‌, निरनुबन्धकस्य च सूत्र उपादानम्‌; तस्मात्‌ `निरनुबन्धकस्य ग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति प्रातिपदिकस्येदं ग्रहणम्‌, न धातोरिति। `द्युकामः' इति। दिविकामोऽस्येति बहुव्रीहिः, दिवं कामयत इति वा। `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः' (वा.229) इति णप्रत्ययः। `द्युमान' इति। द्यौरस्यास्तीति `तदस्यास्त्यस्मिन्निति मतुप्‌' (5.2.94)। `विमलद्यु दिनम्‌' इति। विमला द्यौरस्मिन्निति बहुव्रीहिः। `अक्षद्यूभ्याम्‌, अक्षद्यूभिः' इति। अक्षशब्द उपपदे दीव्यतेर्धातोः क्विप्‌, `च्छ्षोः शूडनुनासिके च' (6.4.19) इत्यूठ्‌।
अथ तपकरणं किमर्थम्‌, यावता यद्यपि `ऋत उत्‌' (6.1.111) इत्यत्र तपकरणेन `भाव्यमानोऽप्युकारः सवर्णान्‌ गृह्लाति' (चां.प.पा.44) इति ज्ञापितम्‌, तथाप्यत्रान्तर्यतोऽर्द्धमात्राकालस्य व्यजञ्जनस्य मात्रिक एव भविष्यति; न दीर्घः? इत्यत आह--`तपकरणम्‌' इत्यादि। यद्यप्यनेन दीर्गो न प्राप्नोति, लक्षणान्तरेण तु द्युभ्यां द्युभिः--इत्यत्रोठ्‌ प्राप्नोति, अतः स मा भूदित्येवमर्थं तपरकरणम्‌। स्यादेतत्‌। ननु चोठ्प्राप्तिरेव नास्ति, किं तन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--`द्युभ्याम्‌, द्युभिः' इति। `अत्र हि' इत्यादि। उत्त्वस्यावकाशो यत्र झलादिः क्विप्परो न विद्यते--विमलद्यु दिनमिति, ऊठोऽवकाशः--अक्षद्यूभ्यामिति; द्युभ्यामित्यादावुभयप्रसङ्गे परत्वादूठ् प्राप्नोति, तपरकरणादुत्त्वमेव भवति। यदि तर्हि प्राप्तस्योठो निवृत्त्ये तपरकरणं क्रियते, एवं सति `चछ्वोः शूडनुनासिके च' (6.4.19) इत्यतर कथं `द्युभ्याम्‌ द्युभिः' इति परेण चोदिते यद्वक्ष्यति--"ऊठि कृते `दिव उत्‌' इति परत्वान्मात्राकालो भविष्यति" इति, तद्विरुध्यते; तस्योठि कृतेऽभिनिवृत्ते तस्य स्थाने मात्राकाल उकारो भविष्यतीत्ययमर्थः? नास्ति विरोधः; `ऊठि कृते' इत्यस्य हि ग्रन्थस्य पूर्वेण चोद्यग्रन्थेन सह सम्बन्धः, नेतरेण परिहारग्रन्थेन। तत्र `केचिदत्र क्ङितीति नानुवर्त्तयन्ति' इत्यस्मिन्‌ दर्शनान्तरे उपन्यस्ते `कथं द्युभ्यां द्युभिरित्यूठि कृते' इति देश्यम्‌। तत्रायं चोदयितुरभिप्रायः--यदि क्ङितीति नानुवर्त्तेत, तदा द्युभ्यां द्युभिरितयतराप्यूडेव कर्त्तवयः, ततश्चोठि कृते कथं द्युभ्यां द्युभिरिति सिध्यति, यावता द्यूभ्यां द्यूभिरिति भवितव्यमित्यस्य देश्यस्य `दिव उत्‌' इति तपरत्वान्मात्राकालो भविष्यतीत्येष परिहारः। अत्राप्ययं परिहर्त्तरभिप्रायः--तपरकरणस्यैतदेव प्रयोजनम्‌--ऊठ्‌ मा भूदति; अन्यथा तदनर्थकं स्यात्‌, तस्मादुत्त्वमेव कर्त्तव्यम्‌ न तूड्भाव इति। ये तु `क्ङिति' इत्यनुवर्त्तयन्ति, तेषां तपरकरणं विस्पष्टार्थम्‌।।

132. एतत्तदोः सुलोपोऽकोऽनञ्समासे हलि। (6.1.132)
`नञ्समासे न वर्त्तेते' इति। अनेन क्रियासम्बन्धं दर्शयन्‌ `अनञ्समासे इति प्रसज्यप्रतिषेधोऽयमिति दर्शयति। पर्युदासे हि सति नञिवयुक्तन्यायेन (व्या.प.65) नञ्समासादन्यस्मिन्‌ समासे वर्तमानयोः स्यात्‌--परमैष ददाति, परमस ददातीति; एष ददाति, स ददातीत्यत्र न स्यात्‌। अथ `स सम्प्रदानम्‌' (1.4.32) इत्यादिको निर्देशो ज्ञापयति--असमासेऽपि भवतीति? उच्यते; एवमप्येतच्छब्दस्य न स्यात्‌, योगापेक्षे तु ज्ञापक आश्रीयमाणे प्रतिपत्तिगौरवं स्यादित्यभिप्रायः। `तयोर्यः सुशब्दः' इति। एतेन `एतत्तदोः' इति सुशब्दापेक्षया सम्बन्धलक्षणेयं षष्ठीत्याचष्टे। यद्यवम्‌, सुशब्दस्य सापेक्षत्वादसामर्थ्ये सति लोपशब्देन सह समासो नोपपद्यते। गमकत्वत्‌ सापेक्षस्यापि समासो भविष्यतीत्यदोषः। अथ वा--असमाननिर्देश सति लोपशब्देन सह समासो नोपपद्यते। गमकत्वाकत्‌ सापेक्षस्यापि समासो भविष्यतीत्यदोषः। अथ वा--असमाननिर्देश एवायम्‌, षष्ठी तु `सुपां सुलुक्‌' (7.1.39) इत्यनेनैव लुप्तत्वान्न श्रूयते। `कश्च तयोः सुशब्दः' इति। एवं मन्यते--आनन्तर्यलक्षणेन वा सम्बन्देनैतत्तदोः सुशब्दः सम्बन्धी स्यात्‌, अर्थद्वारेण वा; तत्र हि पूर्वस्मिन्‌ पक्षे सप्तमीबहुवचनस्यापि ग्रहणं स्यात्‌। भवति हि तदेतदोरानन्तर्यलक्षमेन सम्बन्धेन सम्बन्धी। इतरस्मिन्‌ `अनञ्समासे' इति प्रतिषेधस्यैव वैयर्थ्य स्यात्‌--अनेषो ददाति, असो ददातीति। अत्र हि समासद्वारेण सुशब्दः समासत्यैव सम्बन्धी, न त्वेतत्तदोरिति। ननु च सानुबन्धकत्वात्‌ सप्तमीबहुवचनं नाशङ्कनीयमेव? नैतदस्ति; प्रथमैकवचनमपि हि तद्गणसंविज्ञाने बहुव्रीहौ सानुबन्धकमेव। तद्गुणसंविज्ञान इति `एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य' (व्या.प.52) इत्यतर यदस्त्येकानुबन्धग्रहणं तदपेक्ष्य बोध्यम्‌। तत्रातद्गुणसंविज्ञानेऽङ्गीकृत एतद्वचनं न घटते; अनुबन्धं त्यक्त्वा सुशब्दो नास्ति, किं तर्हि? सशब्दः। इयाँस्तु विशेषः--एकसय पकारोऽनुबन्धः, अपरस्य तूकार इति। तस्माद्‌द्वयोरपि सानुबन्धकत्वात्‌ सपतमीबहुवचनमपि युक्तमाशङ्कितुम्‌। द्वितीये तु पक्षे यो दोषः, तमुत्तरत्र परिहरियिष्यामीति चेतसि कृत्वाऽऽह--`यस्तदर्थेन सम्बन्धः' इति। एवं ब्रुवता प्रथमैकवचनं तयोः सम्बन्धीत्युक्तं भवति। कथं कृत्वा? एतत्तच्छब्दौ हि प्रातिपदिके। `त्रिकश्च प्रातिपदिकार्थः' इतीदमत्र दर्शनमाश्रितम्‌। तथा हि `बहुषु बहुवचनम्‌' (1.4.21) इत्यत्र बहुषु बहवचनं भवति। बहुत्वमससय वाच्यं भवतीत्यर्थः। `कर्मादयोऽप्यपरे विभक्तीनां वाच्यास्तदीये' (1.4.21) इत्यत्र ब्रुवाणेन संख्यायाः कर्मादीनां च विभक्ति वाच्यत्वमिति दर्शितम्‌, अर्थाच्च त्रिकत्वम्‌, `स्वार्थद्रव्यलिङ्गात्मकं प्रातिपदिकार्थः' इति तस्य प्रातिपदिकार्थस्य यदेकत्वं तत्र प्रथमैकवचनमेव भवति, न सप्तमीबहुवचनम्‌। तद्‌व्यधिकरणस्यैव बहुत्वे भवति। तस्मादेतत्तदोरर्थद्वारकेण प्रथमैकवचनमेव सम्बद्धम्‌, न सप्तमीबहुवचनम्‌।
`एष ददाति' इति। `तदो सः सावनन्त्ययोः' (7.2.106) इति सत्वम्‌, त्यदाद्यत्वम्‌, `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्‌।
`एषकः' इति। `अव्ययसरवनाम्नामकच्‌ प्राक्‌ टेः' (5.3.71) इत्यकच्‌। ननु साकच्कावेतौ भिन्नरूपत्वादेतत्तदौ न भवतः, तत्‌ किम्‌ `अकोः' इति प्रतिषेधेन? इत्यत आह--`तन्मध्ययतितः' इत्यादि। तस्माश्च परिभाषाया (व्या.प.21) अस्तित्व एष एव `अकोः' इति प्रतिषेधो ज्ञापकः, `नेदमदसोरकोः' (7.1.11) इति च।
ननु च नञ्समासे कृते शब्दान्तरस्य सम्बन्धी सुर्भवति, नैतत्तदौः, ततश्च प्रसङ्गो नास्तीति किम्‌ `अनञ्समासे इति परतिषेधेन? इत्यत आह--`उत्तरपदार्थप्रधानत्वात्‌' इत्यादि। यद्यपि शब्दान्तरं नञ्समासः, तथापि तस्योत्तरपदार्थप्रधानत्वादेतत्तदोश्चोत्तरपदत्वात्‌ तत्सम्बन्धिन्यामेव संख्यायां सुशब्द उत्पन्न इति तयोरेव सुर्भवति। तस्मादस्ति प्राप्तिरिति प्रतिषेधः। क्रियते। समास इति किम्‌? वाक्ये प्रतिषेधो मा भूत्‌--नैष ददाति, न स पश्यतीति।।

133. स्यश्छन्दसि बहुलम्‌। (6.1.133)
`स्यः' इति त्यदः प्रथमैकवचनम्‌, तस्यानुकरणम्‌। तस्माच्च या षष्ठ्युत्पन्ना तस्याः `सुपां सुलुक्‌' (7.1.39) इत्यादिना लुक्‌। अनुत्पत्तिरेव तस्याः, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्‌, यथा--गवित्ययमाहेति। उदाहरणे तु पूर्ववत्‌ सत्वादि कार्यम्‌।।

134. सोऽचि लोपे चेत्पादपूरणम्‌। (6.1.134)
सोऽचीति पूर्ववत्‌ तस्य प्रथमैकवचनान्तस्यानुकरणम्‌। पादपूरणम्‌=पादनिष्पत्तिः।
ननु चारम्भसामर्थ्यादेवाचि विज्ञायते, हलि हि पूर्वोणैव सिद्धत्वात्‌, तत्‌ किमर्थमचीति क्रियते? इत्याह-`अचीति विस्पष्टार्थम्‌' इति।
`केचिदिच्छन्ति' इति। ते च्छन्दोग्रहणं नानुवर्त्तयन्तीति।।

135. सुट्‌ कात्पूर्वः। (6.1.135)
`संस्कार्त्ता' इति। `सम्पुंकानां सत्वम्‌' (वा.936) इति वचनात्‌ `समः सुटि' (8.3.5) इति निर्देशाद्वा समो मकारस्य सकारः, `अत्रानुनासिकः पूर्वस्य तु वा' (8.3.2) इति पूर्वाकारस्यानुनासिकः।
अथ कात्पूर्वग्रहणं किमर्थम्‌, यावता सुडयमादिलिङ्गः, करोतिश्च ककारादिः, तत्रान्तरेणापि कात्पूर्वग्रहणं `आद्यन्तौ टकितौ' (1.1.46) इति कात्पूर्वं एव सुङ्भविष्यति? इत्यत आह--`कात्पूर्वग्रहणम्‌' इत्यादि। किं पुनरभक्तत्वे सतीष्टं सिध्यतीति, अतस्तज्ज्ञापकं प्रति यत्नः क्रियते? इत्याह--`तथा हि' इत्यादि। `किं पुनरभक्तत्वे सतीष्टं सिध्यतीति, अतस्तज्ज्ञापकं प्रति यत्नः क्रियते? इत्याह--`तथा हि' इत्यादि। `संस्कृषीष्ट' इति। आशिषि लिङ्‌ सीयुट्‌ आमनेपदम्‌, `उश्च' (1.2.12) इति कित्त्वाद्गुणाभावः, `सुट्‌तियोः' (3.4.107) इति तकारसय सुडागमः, कात्पूर्वः सुट्, स यदि करोतेर्भक्तः स्यात्‌ ततस्तस्य करोतिग्रहणेन ग्रहमात्‌ कृञः संयोगादित्वं जातमिति `ऋतश्च संयोगादेः' (7.2.43) इतीट्‌ प्रसज्येत। `संस्क्रियते' इति। लट्‌ कर्मण्यात्मनेपदम्‌, यक्‌, `रिङ्‌ शयग्लिङ्क्षु' (7.4.28) इति रिङादेशः। तत्र यदि करोतिभक्तत्वं सुटः स्यात्‌, ततश्च संयोगादित्वं करोतेर्जातमिति `गुणोऽर्त्तिसंयोगाद्योः' (7.4.29) इति गुणः स्यात्‌। अभक्तत्वे तु सुटः संयोगादित्वादिङ्गुणौ न भवतः। `तिङ्ङतिङः' इत्यादि। यद्यभक्तः सुट्‌, तदा संस्क्रियत इत्यत्र समः पदस्य सुटा व्यवहितत्वात्‌ `तिङ्ङतिङः' (8.1.28) इति निघातो न सिध्यति। न च सुट एव पदस्य तिङो लभ्यते; `पदात्‌' (8.1.17) इत्यधिकारात्‌ सुटश्चापदत्वात्‌। `स्वरविधौ' इत्यादि परिहारः।
`ऋतश्च संयोगादेः' (7.2.43) इत्यनेन ऋकारान्तस्याङ्गसय संयोगादेर्लिटि गुणो विधीयते, स चाभक्ते सुटि करोतेरसंयोगादित्वान्नोपपद्यत इति मन्यमान आह--`सञ्चस्करतुः' इत्यादि। गुणः कथम्‌? न कथञ्चिदित्यर्थः। `तन्मध्य' इत्यादि। द्विर्वचने कृते द्वौ करोती भवतः तन्मध्ये चायं वर्तते सुट्‌, अतः `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते'(व्या.प.29) इति करोतिग्रहणेनैव गृह्यते, ततो नास्त्यसंयोगादित्वं कृञ इति भावः।
ननु च `द्विष्प्रयोगो द्विर्वचनम्‌' इत्यस्मिन्‌ पक्ष उच्चारणमात्रं भिद्यते, धातुस्त्वेक एव, तत्कर्थं करोतेर्द्वित्वम्‌? नैष दोषः, यद्यपि धातुरभिन्नः तथाप्युच्चारणभेदाद्‌भेदस्तस्याश्रित इति; `अङभ्यासव्यवायेऽपि' (6.1.136) इति वचनात्‌। अभेदे हि व्यवाय एव नास्तीत्यभ्यासग्रहणमनर्थकं स्यात्‌। अथापि कथञ्चित्‌ स तद्ग्रहणेन गृहयते, एवमपि गुणो भवत्येवेति दर्शयन्नाह--`संयोग' इत्यादि। संयोगोपधग्रहणे हि सति संयोग उपधा यस्येति संयोगोपधत्वेन--ऋकारं विशेष्य पश्चात्‌ तेनाङ्गं विशिष्येत--तदन्तस्याङ्गस्येति। तत्र यद्यपि करोतेरङ्गं संयोगोपधं न भवति, ऋकारस्तु भवतीति गुणो भवत्येव। तर्ह्यभक्तः सुट्‌।
टित्करणं किमर्थम्‌? तद्धि तदादित्वात्‌ तद्भक्तता यथा स्यादित्येवमर्थं क्रियते। अभक्तश्चेत्‌ सुट्‌ तदा टित्करणस्य वैयर्थ्यमेवापन्नमित्यत आह--`टित्करणम्‌' इत्यादि। `सुट्स्तुसवञ्जाम्‌' इत्युच्यमाने सुरेत्यादौ यः सुशब्दो यश्चोपसर्यस्तस्यापि ग्रहणं स्यात्‌। ततश्चातिसुस्थिरः, अतिसुस्थित इत्यादावपि षत्वं प्रसज्येत। तस्माद्विशेषणार्थं टित्करणम्‌।।

136. अडभ्यासव्यवायेऽपि। (6.1.136)
`अङ्व्यवायेऽभ्यासव्यवायेऽपि' इति। व्यवायः=व्यवधानम्‌। अपिशब्दादव्यवायेऽपि। असत्यपिशब्दे व्यवाय एव स्यात्‌। `समस्करोत्‌' इति। लङ्। `समस्कार्षीत्‌' इति। लुङ्‌, च्लिः, तस्य सिच्‌, `सिचि वृद्धिः' (7.2.1) इत्यादिना वृद्धिः, `इतश्च' (3.4.100) इतीकारलोपः, `अस्तिसिचोऽपुक्ते' (7.3.96) इतीट्‌। `सञ्चस्करतुः' इति। लिट्‌।
यदि पूर्वं धातुः साधनेन युज्यते, तदा साधनाभिधायिनि प्राग्लकारे कृते तन्निमित्ताभ्यामडभ्यासाभ्यां भवितव्यम्, ततश्च तद्व्यवधाने सति सुङ्न प्राप्नोतीति तदर्थं युज्यतेऽस्यारम्भः। न च पूर्वं धातुः साधनेन युज्यते, किं तर्हि? उपसर्गेण। यदि हि पूर्वं धातुः साधनेन युज्येत पश्चादुपसर्गेण, ततोऽनुभूयते कम्बलो देवदत्तेनेत्यत्र कर्मणि लकारो न स्यात्‌; भवतेरकर्मकत्वात्‌। उपसर्गेण पूर्वं धातौ सम्बन्ध्यमाने न भवत्येव दोषः; अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति। तस्मात्‌ पूर्व धातुरुपसर्गेण युज्यते, ततश्च धातूपसर्गयोः कार्यमन्तरङ्गम्‌; तन्निमितयोर्धातूपसर्गयोरडभ्यासनिमित्तात्‌ प्रत्यविशेषात्‌ प्रागेव संविधानात्‌। अडभ्यासौ तु बहिरङ्गौ; उत्तरकालभाविप्रत्ययविशेषापेक्षत्वात्‌। धातूपसर्गकार्यञ्च सुट्‌, तन्निमितत्वात्‌। अतस्तेनान्तरङ्गत्वाद्‌धातूपसर्गयोरुपादनमनन्तरमेव भवितव्यम्‌। न ह्यसावुपजातनिमित्तो लकारस्य तावदुत्पत्तिं प्रयोक्षते। कुतः पुनरडभ्यासौ? इत्यभिप्रायेणाह--`किमर्थं पुनरिदमुच्यते' इत्यादि। इतरस्तु नैवेदमप्राप्तस्य सुटः प्रापणार्थमारभ्यते। किं तर्हि? कृतयोरडभ्यासयोस्तद्व्यवाये कत्पूर्वः सुङ्यथा स्यात्‌, अकृतयोर्मा भूदित्येवमर्थमिति दर्शयितुमाह--`पूर्वम्‌' इत्यादि। इतिकरणो हेत्वर्थः। तत्र धातोः पूर्वमुपसर्गेण योगः सुटोऽन्तरह्गतायां हेतुः पूर्वं सुट्करणस्य, तदपि `पश्चादडभ्यासौ' इति। कर्त्तव्याविति शेषः। यतो धातुः पूर्वमुपसर्गेण युज्यते, तेन धातूपसर्गयोः कार्यं नैव किञ्चिद निष्टमापद्यते? इत्याह--`उभक्तश्च सुडित्युक्तम्‌, इत्यादि। पूर्वमेव ह्यभक्तत्वं सुटः प्रतिपादितम्‌, अतस्तस्य करोतिग्रहणेनाग्रहणे सति पश्चाद्भवन्तौ सकारात्‌ परावडभ्यासावनिष्टे देशे स्यातान्‌, ततश्चेष्टरूपं न सिध्यतीत्यभिप्रायः। अथ सत्यप्यस्मिन्‌ कथमयं दोषो न भवतीत्याह--`एतस्मिंस्तु सत्यत एव' इत्यादि। अत्र तु सुत्रे सत्यत एव यावदडभ्यासव्यवायो न भवति तावत्‌ सुटा भवितव्यमेव। तस्मात्‌ पूर्वमडभ्यासौ कर्त्तव्यौ, ततस्तद्‌व्यवाये सति कात्‌ पूर्वं सुडिति सर्वमिष्टं सिध्यति।।
137. सम्पर्युपेभ्यः करोतौ भूषणे। (6.1.137)
`सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते' इति। कथं पुनरिष्यमाणो लभ्यते? `संस्कृतं भक्षाः' (4.2.16) इत्याचार्यप्रवृत्तेलिङ्गात्‌।।

138. समवाये च। (6.1.138)
`समवायः समुदायः' इति। समवपूर्वादिमो भावे `एरच्‌' (3.3.56) इत्यच्‌। समवाय इति सङ्घात्‌ इत्यर्थः। `समुदित इत्यर्थः' इति। भावे निष्ठा।।

139. उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु। (6.1.139)
`सतः' इत्यादि। लब्धसत्ताकस्यार्थस्य पुर्वोत्पन्नोभ्यो गुणेभ्यो योऽन्यो गुणस्तद्गुणान्तरम्‌, तदाधीयत उत्पाद्यते येन तद्गुणान्तराधानम्‌। तत्पुनः किमर्थम्‌? इत्याह--`आधिक्याय' इत्यादि। किं तत्‌? इत्याह--`समीहा' इति। तदेवं विद्यमानस्य वस्तन आधिक्याय वृद्धये वृद्धस्य चैव तादवस्थ्याय तस्या वृद्धावस्थाया अपरिहाणाय गुणान्तराधानं ययाधीयते समीहयां चेष्टया स प्रतियत्न इत्युच्यते। `विकृतम्' इति। जातविक्रियमित्यर्थः। `गम्यमानार्थस्य वाक्यस्य स्वरपेण' इति। `समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते' (व्या प.सू.85) इति प्रतीयमानोऽर्थः प्रकरणादिवाक्यस्यैकदेशो वाक्यशब्देनोक्तः। गम्यमानार्थस्यापि सुखप्रतिपत्तये स्वरूपेणोपादानं वाक्याध्याहारः।।

140. किरतौ लवने। (6.1.140)
`लवनविषये' इत्यादि। अनेन लवनं किरतेर्नाभिधेयतया विशेषणम्‌, अपि तु तदर्थस्य विषयभावनेति दर्शयति। केन पुनरत्र णमुल्‌, यावता `आभीक्ष्ण्ये णमुल्‌ च' (3.4.22) इत्यादिना शास्त्रेण स आभीक्ष्ण्यादावप्यर्थे विधीयते। न चात्र सोऽर्तो विवक्षितः, नापि प्रतीयत इत्याह--`णमुलत्र' इत्यादि। `वक्तव्य:' इति। व्याख्येय इत्यर्थः। तत्रेव व्याख्यानम्‌--`कृत्यल्युटो बहुलम्‌ (3.3.113) इत्यतो बहुलवचनात्‌ भविष्यति।।
141. हिंसायां प्रतेश्च। (6.1.141)
`हिंसायां विषये' इति। एतेन किरतेर्नाभिधेयत्वेन हिंसा विशेषणम्‌। अपि तु तदर्थस्य विषयभावेनेति दर्शयति। `प्रतिस्कीर्णम्‌' इति। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्‌, रपरत्वञ्च, `रदाभ्याम्‌' (8.2.42) इत्यादिना निष्ठानत्वम्‌, `हलि च' (8.2.77) इती दीर्घत्वम्‌। `तथा' इत्यादिना किरतेरर्थस्य हिंसाविषयतां दर्शयति। `अनुबध्नाति' इति। अनुगच्छतीत्यर्थः।।

142. अपाच्चतुष्पाच्छकनिष्वालेखने। (6.1.142)
`तस्मिन्‌ विषये' इत्यादि। अनेनाप्यालेखनं किरतेर्नाभिधेयतया विशेषणम्‌, अपि तु तदर्थस्य विषयभावेनेति दर्शयति। `अपस्किरते' इति। `तुदादिभ्यः शः' (3.1.77) इति शः, पूर्ववदित्वं रपत्वम्‌। `आलिख्य' इत्यादिना लेखनस्य किरत्यर्थस्य विषयतामुद्भावयति। आलिख्येति आकृष्येत्यर्थः।
चतुष्पाच्छकुनिसाधनस्य लेखनस्य सामान्येनोपादानादिहापि प्राप्नोति--अपकिरति श्वौदनपिण्डमाशित इति, अत इदमालेखनविशेषणमाह--`हर्षजीविका' इत्यादि। हर्षः=प्रमोदः। जीविका=प्राणधारणोपायः। कुलायः=आश्रमः।
किं पुनः कारणं हर्षादष्वात्मनेपदं भवति, न त्विह प्रत्युदाहरणे? इत्याह--`हर्षजीविकाकुलायकरणेष्वेव' इत्यादि।

143. कुस्तुस्बुरूणि जातिः। (6.1.143)
ननु च सूत्रे नपुंसकलिङ्गेन निर्देशान्नपुंसकलिङ्गतायां फलजातावेव भवितव्यम्‌, नान्यलिङ्गतायाम्‌, औषधजातौ बहुवचन एव भवितव्यम्‌, नान्यत्र, बहुवचनेन निर्देशात्‌; तत्‌ कथं कुस्तुम्बुवरित्यत्र पुल्लिङ्गतयामेकवचने च भवति? इत्यत आह--`सूत्रनिर्देशे' इत्यादि। नपुंसकग्रहणमुपलक्षणमात्रम्‌। बहुवचनमपि ह्यतन्त्रमेव सूत्रे। तथा चोक्तम्‌--`सूत्रे [सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम्‌--काशिका. पदमंजरी च] लिङ्गवचनमतन्त्रम्‌ `तस्याविवक्षितत्वात्‌' [नास्ति--काशिका] इति।।

144. अपरसपराः क्रियासातत्ये। (6.1.144)
`अपरस्पराः' इति। अपरे च परे चेति द्वन्द्वः। सन्ततशब्दाद्भावप्रत्यय उत्पन्ने सान्तत्यमिति भवितव्यमित्यभिप्रायेणाय--`किमिदम्‌' इत्यादि। सततशब्दादेवायं भावप्रत्य उत्पन्न इति दर्शयन्नाह--`सततस्य भावः' इत्यादि। `कथं सततम्‌' इति। एवं मन्यते--समो मकारलोपस्य लक्षणं तावदिह शास्त्रे नास्ति। अथ सातत्य इत्येतदेव निपातनम्‌, ततशब्दे परतः समो मकारस्य लोपो भविष्यतीत्यस्यार्थस्य ज्ञापनं कल्प्येत, एवं सति सन्ततमिति न सिध्यति? इत्यत आह--`समस्तते विकल्पेन' इत्यादि। अयमभिप्रायः--सातत्यशब्दं पूर्वाचार्यलक्षणप्रसिद्धमुच्चारयता पूर्वाचार्यलक्षणमप्याश्रितम्‌। अतस्तेन समो मकारस्यात्र लोपो विधीयते। एतञ्च कृत्वाऽवश्यम्प्रभृतीनामपि कृत्यादिषु लोपः सिद्धो भवति। अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति--`लुम्पेत्‌' इत्यादि। अन्त्यमिति शेषः। अवश्यंशब्दस्य कृत्यप्रत्ययान्ते परतो लुम्पेत्‌ अन्त्यलोपमस्य कुर्यादित्यर्थः। अवश्यकर्त्तव्यम्‌। तुमुन्‌प्रत्ययान्तस्याप्यान्त्यं लुम्पेत्‌, काममनसोश्च शब्दयोः परतः--कर्त्तुं कामोऽस्येति कर्त्तुकामः, हर्त्तु मनोऽस्येति हर्त्तुमनाः।
सम्शब्दस्य चान्त्यं लुम्पेद्विकल्पेन हिततयोः शब्दयोः परतः--सहितम्‌, सततम्‌, सन्ततम्‌। `कुगतिप्रादयः' (2.2.18) इति समासः।
मांसशब्दस्यान्त्यं लुम्पेत्‌, क्व? पचि। `डुपचष्‌ पाके' (धा.पा.996) इत्येतस्मिन्‌ धातौ। किं विशिष्टे? `युङ्घञोः' इति। ल्युटि घञि च प्रत्यये परतो यः पचिस्तस्मिन्नित्यर्थः। अत्रापि वाग्रहणं सम्बध्यते। मांस्पचनम्‌, मांसपचनम्‌। मांस्पाकः, मांसपाकः। `कृद्योगा च षष्ठी समस्यते' (वा.86) इति समासः। समासेऽयं लोपः पूर्वाचार्याणामभिप्रायः, संहितायां च। तेन वाक्ये विच्छिद्यपाठे न भवति।।

145. गोष्पदं सेवितासेवितप्रमाणेषु। (6.1.145)
`तस्य च षत्वम्‌' इति। अनादेशप्रत्ययसकारत्वात्‌ सुटः षत्वं न प्राप्नोतीत्यतस्तदपि निपात्यते। `गावः पद्यन्ते' इत्यादिना देशस्य सेवितत्वं दर्शयति। `असेविते' इत्यादि। ननु च गोष्पदशब्दः सूत्र उपात्तः, तत्‌ कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्रियते? इत्याह--`असेविते' इत्यादि। ननु च गोष्पदशब्दः सूत्र उपातः, तत्‌ कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्रियते? इत्याह--`असेविते' इत्यादि। क्रियते चेदमसेवितग्रहणम्‌, न च तत्र गोष्पदशब्दः सम्भवति; तस्मादसेवितेऽगोष्पदार्थं निपातनं विज्ञायते। `यद्येवम्‌' इति। यद्यसेवितेऽगोष्पदार्थं निपातनमित्यर्थः। `नार्थ एतेन' इति। असेवितग्रहणेन। कथं तेन विना सिध्यति? इत्याह--`गोष्पदप्रतिषेधात्‌'त्यादि। `सत्यमेवैतत्‌' इति। गोष्पदपरतिषेधादित्यादि यदुक्तं तस्य सत्यतामाह, न तु `नार्थं एतेन' इत्यस्यार्थः। यदि तर्हि सत्यमेवैतत्‌' तत्‌ किमर्थं सेवितग्रहणमिह क्रियते? इत्याह--`यत्र तु' इत्यादि। नञ्समासेऽगोष्पद इत्येष तत्पुरुषः स्वभावादुत्तरपदर्थसदृशमर्थमाचष्टे' अब्राह्मणवत्‌। ततश्च न गोष्पदमगोष्पदमिति तत्पुरुषे कृते यत्र सेवितसय सेवनस्य प्रसङ्गोऽस्ति तत्रैवागोष्पदमित्येतत्‌ तथापि भवति' इति। अपिशब्दो न केवलं यत्र सेवतप्रसङ्गोऽस्ति तत्रैवागोष्पदमित्यमुमर्थं द्योतयति। कस्मात्‌? पुनरत्रासेवितग्रहणात्‌। तत्राऽपि भवतीत्यत आह--`यानि हि' इति। `एवम्‌' इति। असेवितग्रहणार्थकः प्रकारः प्रत्यवमृश्यते। असेवितग्रहणे हि सति मा भूत्‌ तस्य वैयर्थ्यमित बहुव्रीहिरयं भावसाधनेनासेवितशब्देन विज्ञास्यते। अविद्यमानं सेवितमस्मिन्निति बहुव्रीहिश्चात्यन्ताभावेऽपि भवतीति येषु गवामत्यन्तासम्भवस्तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति।
`गोष्पदपूरम्‌' इति। `वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्‌' (3.4.32) इति णमुल्‌। ननु च गोष्पदमिति षष्ठीसमासोऽयम्‌, तस्य च गोसम्बन्धि पदमर्थः, न तु प्रमाणम्‌, तत्‌ कथं गोष्पदमात्रं क्षेत्रमित्यादि उदाहरणं प्रमाणे युज्यतदे? इत्यत आह--`नात्र' इत्यादि। न ह्यत्र स्वार्थप्रतिपादनार्थमेव गोष्पदमित्युपादीयते। किं तर्हि? क्षेत्रादेरियत्तां परिच्छेत्तुम्‌। तस्मात्‌ क्षेत्रादेरियत्ता तेन परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्‌। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्‌। कुत एतत्‌? निपातनसामर्थ्यात्‌। निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते।।

146. आस्पदं प्रतिष्टायाम्‌। (6.1.146)
`आत्मयापनाय' इति। आत्मयापनम्‌=प्राणधारणम्‌। तदर्थं यत्‌ स्थापनं तत्‌ प्रतिष्ठेत्युच्यते। `आसपदम्‌' इति। आङः परस्य पदस्य सुट्‌ निपात्यते। `आपदम्‌' इति। `आङ्‌ मर्यादावचने' (1.4.89) इत्याङः कर्मप्रवचनीयत्वम्‌, तद्योगे `पञ्चम्यपाङ्‌ परिभिः' (2.3.10) इति पञ्चमी, तदन्तेन `आङ् मर्यादाभि विध्योः' (2.1.13) इत्यव्ययीभावसमासः।।

147. आर्श्चयमनित्ये। (6.1.147)
यद्यनित्येऽशाश्वतिक आश्चर्यमिति निपात्यते, ततो, घटादिष्वपि स्यादित्येतं दोषं परिजिहीर्षुराह--`अनित्यतया' इत्यादि। अद्भुतम्‌=चित्रमित्युच्यते। यल्लोकेऽद्भुतं तच्चित्रम्‌, तस्य भावोऽद्भुतत्वम्‌। तस्य चान्यत्राभावादनित्यता विषयभूता, न हि तत्र ततोऽन्यत्र सम्भवति। तस्मात्‌ तया विषयभूतयाऽद्भुतत्वमुपलक्ष्यते। `आशस्चर्यं यदि स भुञ्जीत' इति। `अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि' (3.3.145) इत्यनवक्लृप्तावसम्भावनायां लिङ्। भोजनं कस्यचिद्विशिष्टकालादावदृष्टपूर्वम्‌। अतस्तत्र भवत्‌ तदद्भुतं भवति।।

148. वर्चस्केऽवस्करः। (6.2.148)
`कुत्सितं वर्चः वर्चस्कम्‌' इति। `कुत्सिते' इति कना निर्देशो दीप्तौ मा भूदित्येवमर्थः। दीप्तादपि हि वर्चःशब्दो वर्त्तत इति तत्रापि स्यात्‌। यदि वर्चस्केऽवस्करशब्दो निपात्यते तदा तत्सम्बन्धिदेशे न प्राप्नोति। तत्रापि च लोकेऽवस्करशब्दः प्रयुज्यत इत्यत आह--`तत्सम्बन्धात्‌' इत्यादि। यथा यष्टीः प्रवेशयेति यष्टिसम्बन्धात्‌ पुरुषा अपि यष्टिशब्देनोच्यन्ते, तथा अवस्करसम्बन्धादवस्करशब्देन देशः।।

149. अपस्करो रथाङ्गम्‌। (6.1.149)
`रथावयवः' इति। अनेनादिशब्दस्थावयववचनमाचष्टे।।

150. विष्किरः शकुनिर्विकिरो वा। (6.1.150)
ननु च `विष्किरः शकुनौ वा' इत्येतावतैव सुङ्‌विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्‌? इत्यत आह--`शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम्‌' (इति)।।

151. हवस्वाच्चन्द्रोत्तरपदे मन्त्रे। (6.1.151)
पूर्वं कात्पूर्वग्रहणादभक्तः सुडित्युक्तम्‌। इह कात्‌ पूर्वत्वं न सम्भवति, आगमलिङ्गं चास्य टित्त्वमस्ति, तत आगम एव सुङ्‌ विज्ञायत इत्याह--`सुडागमो भवति' इति। स च भवन्‌ `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्‌' (शाक.प.प.97) इति ह्रस्वादिति पञ्चम्याः, चन्द्रोततरपद इति च सप्तम्याः षष्ठ्यां प्रकल्पितायां चन्द्रशबदस्यैव भवति। `सुश्चन्द्रः' इति। प्रादिसमासः। `सूर्याचन्द्रमसौ' इति। द्वन्द्वः `देवताद्वन्द्वे च' (6.3.26) इत्यानङ्। अथेह कस्मान्न भवति--शुक्लमसि, चन्द्रमसीति, अत्रापि ह्रस्वात्‌ परश्चन्द्रशब्द उत्तरपदमस्ति? इत्यत आह--`उत्तरपदम्‌' इत्यादि। शुक्लमसि, चन्द्रमसति वाक्ये। तस्मादिह चन्द्रशब्द उत्तरपदग्रहणेन न गृह्यत एव। यस्मादुत्तरपदं समास एव प्रसिद्धम्‌।।

152. प्रतिष्कशश्च कशेः। (6.1.152)
`प्रतिगतः कशां प्रतिकशोऽश्वः' इति। प्रादिसमासः। ननु च कशाशब्दोऽपि कशेरेव धातोः पचाद्यचमुत्पाद्य साध्यते, तदिहापि सुटा भवितव्यम्‌? इत्यत आह--`यद्यपि' इत्यादि। कशेरेव धातोर्यदुपादानं तत्‌ तस्यैव कशेर्यं उपसर्गः परतिशब्दस्तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थम्‌। न च कशेः प्रतिरुपसर्गः, किं तर्हि? गमेः।

153. प्रस्कण्वहरिश्चन्द्रावृषी। (6.1.153)
`प्रस्कण्वहरिश्चन्द्रौ' इति। प्रकृष्टः कण्वोऽस्येति प्रसकण्वः। हरिश्चन्द्रोऽस्येति हरिश्चन्द्रः। व्युत्पत्तिमातरमेतत्‌ कृतम्‌, न त्वत्रावयवार्थोऽस्ति। रूढिशब्दौ ह्येतौ प्रत्यस्तमितावयवार्थौ क्वचिदेव ऋषिविशेषे वर्तेते। ननु च हरिश्चन्द्रे `ह्रस्वाच्चन्द्रोत्तरपदे' (6.1.151) इत्यनेनैव सुट्‌ सिद्धः, तत्किमर्थं हरिश्चन्द्रग्रहणम्‌? इत्यत आह--`हरिश्चन्द्रग्रहणम्‌' इत्यादि।
`प्रकण्वः' इति। प्रगतः कण्वोऽस्मादिति प्रकण्वः। हरिरिव चन्द्रोऽस्येति हरिचन्द्रः।।

154. मस्करमस्करिणौ वेणुपरिव्राजकयोः। (6.1.154)
`परिव्राजके तविनिरपि' इति। निपात्यत इत्यपेक्षते। किं पुनः कारणम्‌? न प्राप्नोतीति, मात्वार्थामावात्‌। अविद्यमानमस्करोऽपि परिव्राजको मस्करीतयुचयते; मस्करिशब्दस्य तत्रैव रूढत्वात्‌। `अच्प्रत्ययमपि निपातयन्ति' इति कर्त्तर्युच्यमानः करणे न प्राप्नोतीत्यच्प्रत्ययमपि निपातयन्ति। यदि चेह वेणौ मस्करशब्दो निपत्यते तदा दण्डे न प्राप्नोति, तत्रापि चासौ लोके प्रयुज्यते? इत्याह--`वेणुग्रहणम्‌' इत्यादि। येन निवार्यते तदपलक्षणार्थं वेणुग्रहणम्‌। दण्डेनापि निवार्यत इत्यत्रापि भवत्येव। `कमपिवादित्वात्‌' इति। सांसारिकं फलं कर्मं। तदपददितुं प्रतिषेद्धं शीलं यस्य स कर्मापवादी, तस्य भवाः कर्मापवादित्वम्‌। `स हि' इत्यादिना तदेव कर्मापवादित्वं दर्शयति।।

155. कास्तीराजस्तुन्दे नगरे। (6.1.155)

156. कारस्करो वृक्षः। (6.1.156)
`केचित्‌' इति। यदि तर्हि सूत्रमेतत्‌ केचिन्नाधीयते तत्‌ कथं तेषां कारस्कशब्दो वृक्षे सिध्यति? इत्याह--`पारस्करप्रभृतिष्वेव' इत्यादि।।

157. पारस्करप्रभृतीनि च संज्ञायाम्‌। (6.1.157)
पारस्करप्रभृतयो रूढिशब्दा यथाकथञ्चिद्वयुत्पाद्याः। नात्रावयवार्थं प्रत्यभिनिवेष्टव्यम्‌। पारं करोतीति परस्करः `कृञो हेतुताच्छील्यानुलोम्येषु' (3.2.20) इति टः। रयं पातीति `रथस्पा'। `आतोनुपसर्गे कः' (3.2.3)। कार्य करोतीति करोतेःर्डुः, कार्यस्य च किरादेशः--`किष्कुः'। किमप्यन्तर्दघातीति दधातेः पूर्ववत्‌ कः, किमो र्द्विर्वचनम्‌, पूर्वस्य च मकारस्य लोपः--`किष्किन्धा'।
`तद्बृहतोः' इत्यादि। तत्‌, बृहत्‌--इत्येतयोर्यथाक्रमं करपतिशब्दयोः परतश्चोरे देवतायाञ्चाभिधेयायां सुङ्‌ भवति, अन्त्यस्य च तकारस्य लोपः। तत्‌ करोतीति `किं यत्तद्बहुषु' (वा.242) इत्यज्विधानम्‌, तसकरश्चौरः, तत्करोऽन्यः। बृहतां पतिर्बृहस्पतिर्देवता, बृहत्पतिरन्यः। अथ किमर्थं चौरदेवतयोरित्युपाधिरुपादीयते, यावता संज्ञाग्रहणादेव तत्परिग्रहः सिद्धः, न ह्यन्यस्य तस्करबृहसपतिशब्दौ संज्ञा? इत्यत आह--`संज्ञाग्रहणम्‌' इत्यादि।
`प्रात्तुम्पतौ' इत्यादि। `तुप तुम्प तृप्तौ' (धा.पा.1309,1360?) इति परतः प्रशब्दात्‌ परस्य सुङ्भवति गवि कर्त्तरि। `प्रस्तुम्पति गौः'। प्रतुम्पत्येवान्यः `यदुक्तम्‌' इति भाष्ये। यदि तर्हि पारस्करपरभृतिराकृतिगणः, `प्रतिष्कशश्च कशेः' (6.1.152) इत्यारभ्य पूर्वं सूत्रं न पठितव्यम्‌, तस्याप्यनेनैव सङ्ग्रहात्‌? सत्यमेतत्‌; प्रपञ्चार्थं तु पठितव्यम्‌।।

158. अनुदात्तं पदमेकवर्जम्‌। (6.1.158)
`एकवर्जम्‌' इति। एकं वर्जयित्वेत्यर्थः। `द्वितीयायाञ्च' (3.4.53) इति णमुल्प्रत्ययः। यद्ययमधिकारार्थः स्यात्‌, तत्‌ षाष्ठिक एव स्वरः सङ्गृहीतः स्यात्‌। ये त्वन्ये स्वराः `समानोदरे शयित ओ चोदात्तः' (4.4.108), `अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः' (7.1.75) इत्येवमादयः सप्ताध्याय्याम्‌, ते न संगृहीता स्युः। परिभाषायां त्वस्यां तेऽपि संगृहीता भवन्ति। सा ह्येकदेशे स्थितापि सकलं शास्त्रमभिज्वलयति, यथा वेश्म प्रदीप इवेत्यालोच्याह--`परिभाषेयम्‌' इति। विध्यङ्गशेषभूता चेयम्‌। परिभाषा हि कार्यवाक्यानां शेषभावगता। यस्य पदादयवस्य स्वरित उदात्तो वा विधीयते तत्र शेषमनुदात्तं भवति। `स्वरविधिविषया' इति। स्वरविधिर्विषयोऽस्या इति विग्रहः। `यत्रान्यः' इति। अनुदात्तापेक्षमन्यत्वम्‌। `तत्रानुदात्तं पदम्‌' इति। ननु च `नीचैरनुदात्तः' (1.2.30) इत्यनुदात्तशब्दो विशिष्टगुणेऽवसङ्गीतः, तत्राज्झललक्षणञ्च पदम्‌, पदशब्दस्यार्थस्तत्‌ कथमत्र सामानाधिकरण्यम्‌? नैष दोषः; अनुदात्ताच्कमनुदात्तं पदमिहाभिमतम्‌, तेन पद एवानुदात्तशब्दो वर्त्तते। कथम्‌? मत्वर्थीयाकारान्तत्वात्‌। अनुदात्ता अस्य सन्तीत्यनुदात्तम्‌। अर्श आदेराकृतिगणत्वादत्राच्‌। एकवर्जमित्युक्तम्‌, स त्वेको न ज्ञायते यो वर्जनीयः, तस्याभिव्यक्तये पृच्छति--`कः पुनः' इत्यादि। यस्य चोदात्तः स्वरतो वा विधीयते स एवाको वर्ज्यते। यदि ह्यसावपि न वर्ज्यते तस्य तत्‌ स्वरविधानमन्रथकं स्यात्‌। `गोपायति, धूपायति' इति। `गुपू रक्षणे' (धा.पा.395) `धीप सन्तापे' (धा.पा.396) `गुपूधूप' (3.1.28) इत्यादिनाऽऽयपरत्ययान्तस्य `सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञा, `धातोः' (6.1.162) इति धातोश्चान्तोदात्तत्वम्‌, आयप्रत्ययान्तस्यान्त्ययकाराकारस्य धातुस्वरत्वम्‌। `धातुस्वरं श्नास्वरो बाधते' इति। सतिशिष्टस्वरत्वात्‌, सतिशिष्टसय वलीयस्त्वात्‌। तथा ह्यु कतम्‌--`सतिशिष्टस्वरो बलीयानिति वक्तव्यम्‌'। (वा.6.1.168) इति। `लुनाति, पुनाति' इति। `प्वादीनां ह्रस्वः' (7.3.80) इति ह्रस्वः। श्नाप्रत्ययसय च प्रत्ययस्वरेणाद्युदात्तत्वम्‌। `श्नास्वरम्‌' इति। बाधत इति सम्बध्यते। ननु परत्वात्‌ तिबादिषु कृतेषु विकरणैर्भवितव्यम्‌, अतः सति सार्वधातुकस्वरे श्नास्वरस्य शिष्यमाणत्वात्‌ तस्य सतिशिष्टत्वम्‌; एवञ्च श्नास्वरेणैव बाधा युक्ता ततस्वरस्य? एवं मन्यते यत्‌ `तास्यनुदात्तेन्ङिदुपदेश' (6.1.186) इत्यादिना तासेः परस्य लसार्वधातुकत्वं शास्ति तज्ज्ञापयति--शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरेण बाध्यत इति। `लुनीतः, पुनीतः' इति। `ई हल्यधोः (6.4.113) इतीत्वम्‌। `तस्स्वरमाम्स्वरः' इति। बाधत इति सम्बन्धः. बाधकत्वे तस्य हेतुः सतिशिष्टत्वमेव। `लुनीतस्तराम्‌' इति। `तिङ्श्च' (5.3.56) इति तसन्तात्तरप्‌, तदन्तात्‌ `किमेतिङ्व्यय' (5.4.11) इत्यादिनाऽऽमुप्रत्ययः।
किमर्थं पुनरयमेकवर्जपदस्वरो विधीयते? इत्याह--`आगमस्य' इत्यादि। आगमादीनां पृथक्‌ स्वरो मा मुदित्येवमर्थमेकं वर्जयित्वा पदानुदात्त्वं विधीयते। `आगमस्वरः प्रकृतिस्वरं वाधते' इति। सत्यस्मिन्नेकवर्जं पदं स्वरे। असति तवस्मिन्‌ परकृतेरागमस्य च पृथगेव स्वरः स्यात्‌। `चत्वारः' इति। प्रकृतिस्वरः पुनराद्युदात्तत्वम्‌। तथा हि `चतेरुरन' (द.उ.8.78) इत्युरन्प्रत्ययान्तश्चतुःशब्दो व्युत्पाद्यत इति स नित्स्वरेणाद्युदात्तो भवति। `अनङ्वाहः' इति। अनुडुहोऽप्येवं व्युत्पत्तिः क्रियते। `अन प्राणने' (धा.पा.1070) अस्मात्‌ `सर्वधातुभ्योऽसुन्‌' (द.उ.9.49) इत्यसुन्प्रत्ययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्‌ `उश्चानसः' (द.उ.9.49) इत्यसुन्परतययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्‌ `उश्चानसः' (द.उ.9.107) इत्यनस्युपपदे वहेर्धातोः क्विप्‌, अनश्चोकारादेशः। वहेर्यजादित्वात्‌ सम्प्रसारणम्‌, उपपदसमासः, `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्‌। तस्मादनुडुहोऽप्येवं व्युत्पादितस्य स्यादाद्युदात्तत्वम्‌। विकारः=आदेशः। `अनङ्स्वरः प्रकृते' इति। दध्यसथिशब्दावाद्युदात्तौ। तथा हि `असु क्षेपणे' (धा.पा.1209) `असिसञ्जिभ्यां क्थिन्‌' (द.उ.1.10) इति क्थिन्प्रत्ययान्तत्वान्नित्स्वरेणास्थिशब्द आद्युदात्तः। दधिशब्दोऽपि किन्प्रत्ययान्तत्वादाद्युदात्त एव। धाधातोः `आदृगमहनजनः किकिनौ लिट्‌ च' (3.2.171) इति किन्प्रत्ययः, तत्र द्विर्वचने कृत आकारलोपे च दधीति भवति। `अस्थिदधि' (7.1.75) इत्यादिनाऽनङि कृते तस्य यः स्वरः स च कर्त्तवयः, तस्याप्यसत्यस्मिन्नस्थिदधिशब्दयोरनङश्च प्रथगेवोदात्तत्वं तु स्यात्‌। अस्मिंस्तु सत्यनङ एव भवति। `प्रकृते:' इत्यादि। `गोपायति, धूपायति' इति। अत्र प्रकृतेर्गुपेर्धूपेश्च `धातोः' (6.1.162) इत्यन्तोदात्त्त्वे आयप्रत्ययादेरप्याकारस्य प्रत्ययाद्युदात्तत्वम्‌। गोपायधूपायशब्दयोरपि `सनाद्यन्ता धातवः' (3.1.32) इति धातुसंज्ञायां कृतायाम्‌ `धातोः' (6.1.162) इत्यन्तोदात्तमेव प्राप्नोति। एवं पृथक्‌ स्वरप्रसंगे यकाराकारस्यैव धातुस्वरो भवति, न गुपिधूप्योः, नापि प्रत्ययाकारस्य। `कर्त्तव्यम्‌' इति। धातोरन्तोदात्तत्वे प्रत्ययस्याद्युदात्तत्वे च प्राप्ते प्रत्ययाद्युदात्तत्वमेव भवति, न तु धातुस्वरः। अथानियमेनैकस्वरस्य वर्जयमानता कस्मान्न भवति, न ह्यत्र सूत्रे कश्चिद्‌व्यवस्थाहेतुरुपात्तः, न च विना व्यवस्थाहेतुना सा लभ्यते? इत्याह--`परनित्यान्तरङ्ग' इत्यादि। यत्र परादिस्वराः प्राप्नुवन्ति, तद्विपक्षाश्च, तत्र परादीनां बलीयस्त्वात्‌ तत एव वर्जयं न, इतरे तु निवर्त्त्यन्ते। यत्र तु परनित्यान्तरङ्गापवादेऽपि क्वचिदिष्टं न सिध्यति, तत्र सतिशिष्टेन व्यवस्था भवति, तस्य हि वलीयसत्वमुक्तम्‌। अतः सतिशिष्टेतरस्वरप्राप्तौ सतिशिष्ट एव वर्ज्यते, मेतरः। कथं पुनः सतिशिष्टे न व्यवस्था? इत्यत आह--`यो हि' इत्यादि। कथमेतज्ज्ञायते? इत्याह--`तथा हि' इत्यादि। `गोपायति' इति। अत्रायप्रत्ययस्य प्रत्ययस्वरेणाद्युदात्तत्वम्‌। स च स्वरो धातुस्वरस्यापवादोऽपि सन्नायप्रत्ययान्तस्य धातुसंज्ञायां कृतायां पुनस्तेन धातुस्वरेण सतिशिष्टेन बाध्यते।
`कार्ष्णोत्तरासङ्गपुत्रः' इति। बहुव्रीहिं कृत्वा तत्पुरुषः कर्त्तव्यः। `बहुव्रीहिस्वरः' इति। `बहुव्रीहौ प्रकृत्या' (6.2.1) इत्यादिनोक्तः।
पूर्वकं ज्ञापकं चेतस कृत्वाऽऽह--`विकरणस्वरस्तु' इत्यादि।
`विभक्तिस्वरात्‌' इत्यादि। `निपाता आद्युदात्ताः' (फि.सू.4.80) इति नञुदात्तः। तत्र तत्पुरुष समासे कृते `तत्पुरेषे तुल्यार्थं' (6.2.2) इत्यदिवा प्रकृतस्वरादुदात्तत्वमेव भवति। यदा तु नञ्स्वराद्विभक्तिसवरः प्राप्नोति नञ्स्वरश्चेष्यते, तस्माद्विभक्तिस्वरो `बलीयानिति वक्तव्यम्‌। बलीयस्त्वे सति किं भवति? इत्याह--`अतिस्तर इत्यत्र' इत्यादि। `तिसृब्यो जसः' (6.1.166) इत्यनेन विभक्तेरुदात्तत्वं विधीयते। तद्बलीयस्त्वात्‌ सतिशिष्टमपि नञ्सवरेण बाध्यते। विभक्तस्वरस्य तु--तिस्रः, त्रिसृष्वित्येषोऽवकाशः।
`विभक्तिनिमित्तस्वराच्च' इत्यादि। विभक्तिर्निमित्तं यस्य स स्वरो विभक्तिनिमित्तस्वरः। `यस्य विभक्तिर्निमित्तमामः' इति। आमो विभक्तिनिमित्तत्वं, `पथमथोः सर्वनामस्थाने' (6.1.199) इत्यतः सर्वनामस्थानग्रहणानुवृत्तेः। तस्य `यदुदात्तत्वम्‌' इत्यादिना बलीयस्त्वस्य फलं दर्शयति। विभक्तिनिमित्तस्वरस्य--चत्वारः, अनङ्वाह इतत्येषोऽवकाशः।
`वाक्ये हि' इत्यादि। देवदत्तशब्द आमन्त्रितस्वरेणाद्युदात्तत्वम्‌, गोशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः, तस्य `औतोऽम्शसोः' (6.1.93) इत्याकारोऽपि स्थानिवद्भावेनोदात्त एव। तथा विभक्त्या सहैकादेशेऽपि `एकादेश उदात्तेनोदात्तः' (8.2.5) इति वचनात्‌। अभिशब्दोऽन्तोदात्तः, तस्य `निपाता आद्युदात्ताः' (फि.सू.4.80), `उपसर्गाश्चाभिवर्जम्‌' (फि.सू.4.81) इत्याद्युदात्तविधाने वर्जितत्वात्‌ प्रातिपदिकस्वर एव भवति। आङुपसर्गस्वरेणाद्युदात्तः। अजित्येष तु लोडन्तः `तिङ्ङतिङ' (8.1.28) इति निधातेनानुदात्तः। शुक्लशब्दो हि प्रातिपदिकस्वरेणान्तोदात्त इति तस्य `एकादेश उदात्तेनोदात्तः' (8.2.5) इति टापा सहैकादेशे कृतेऽन्तोदात्त एव भवति। एवममिपूरवत्वे कृते वेदितव्यम्‌।
तदेवं पदग्रहणाद्वाक्य एकैकस्मिन्‌ पदे पृथगेव स्वरो भवति। यद्यनुदात्तं पदमेकवर्जं भवति, एवं सति यावत्‌ पदसंज्ञा न भवति तावदेकं वर्जयित्वा परिशिष्टस्यानुदात्तत्वेन भवितव्यम्‌, ततश्च कुवल्या विकारः, कौवलमित्यत्र `अनुदात्तादेश्च' (4.2.140) इत्येनेनाञ्‌प्रत्ययो न स्यात्‌। यत कुवलशब्दोयं `ग्रामदीनाञ्च' (फि.सू.2.38) इत्याद्युदात्तः, गौरादित्वान्ङीषि विहतेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजतीत्याह--`परिमाणार्थं चेदम्‌' इत्यादि। पदमत्र गौणमभिप्रेतम्‌ न मुख्यम्‌; अन्यथा पदाधिकारे सति पुनः पदग्रहणमनर्थकं स्यात्‌। तस्मादुत्तरकालं यस्य पदसंज्ञा भविष्यति, तदिह पदमभिप्रेतमिति वेदितव्यम्‌। असति पदग्रहणे न ज्ञायते--कियतामचामनुदात्तत्वं भवतीति। पदग्रहणे तु सत्येकस्मिन्‌ पदे यावन्तोऽचस्तावतामनुदात्तत्वं भवतीत्येषोऽर्थो ज्ञायते, तस्मात्‌ परमाणार्थमिति। नतु सुबन्तस्य तिङ्न्तस्य वा प्रतिपादनार्थम्‌। तेन प्रागेव पदव्यदैशादनुदात्तत्वेन भवितव्यमिति न भवति पूर्वोक्तदोषप्रसङ्गः। स्यादेतत्‌--यद्यपि पदमित्यनेन मुख्यं पदं न प्रत्याय्यते, तथापि पदाधिकारेण तदिह सन्निधाप्यत इति तदवस्थ एव स दोषः? इत्यत आह--`पदाधिकारस्य निवृत्तिं करोति' इति। एतत्‌ पदग्रहणं गौणमर्थं प्रतिपादयन्‌ मुख्यपदधिकारं निवर्त्तयति। तेन किमिष्टं भवति? इत्याह--`तेन' इत्यादि। `तथा च' इति। एवं च सतीत्यर्थः प्रागेव पदवयपदेशात् स्वरविधानतुल्यकालमेव परिशिष्टतस्यानुदात्तत्वं भवतीति। अमुमेवार्थं द्रढयितमाह--`गर्भिणी' इत्यादि। गर्भोऽस्या अस्तीतीनिः, `ऋन्नेभ्यो ङीप्' (4.1.5) इति ङीप्‌। गर्भशब्दोऽयं कुवलशब्दवदाद्युदात्तः। तत्र यदीनिप्रत्ययस्योदात्तत्वसमकालमेवानुदात्तत्वं भवति ततो गर्भिणीशब्दस्यानुदाततादित्वात्‌ `अनुदाततादेरञ्‌ (4.2.44) इत्यञ्‌ प्राप्नोतीति तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। तस्य तूत्तरकालं पदसंज्ञायामुपजातायामवशिष्टस्यानुदात्तत्वं स्यात्‌। एवं सति गर्भिणी शब्द आद्युदात्तः स्यात्‌। ततश्चाणो बाधनार्त भिक्षादिषु न पठ्येत, पठ्यते च। तस्मात्‌ ततो विज्ञायते--प्रागेव पदव्यपदेशात्‌ स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यभिप्रायः।
किं पुनः कारणं लब्धायां पदसंज्ञायामवशिष्टस्यानुदात्त्त्वे विधीयमाने कुवलशब्दावञ्‌ न सिध्यति, कथञ्च गर्भिणीशब्दस्यानुदात्तादिलक्षमस्याञो बाधनार्थो भिक्षादिषु पाठः प्रागेव पदवयपदेशात्‌ स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यस्यार्थस्य ज्ञापकः? इत्याह--`कुवलगर्भशब्दौ' इत्यादि। आद्युदात्त्त्वे ह्यनयोर्यदि पदसंज्ञायां सत्यामवशिष्टस्यानुदात्तत्वं स्यात्‌, कुवलीशब्दस्य च स्यात्‌ ततश्च कुवलीशब्दाद्विकारेऽर्थेऽञ्‌ न स्यात्‌।
गर्भिणीशब्दस्याद्युदात्तत्वादञ्‌ प्राप्नोति, ततस्तद्बाधनर्थं भिक्षादिषु न पठ्येत, पठ्यते च, तस्मादवसीयते--प्रागेव पदव्यपदेशादवशिष्टस्यानुदात्तत्वं भवति।।

159. कर्षात्वतो धञोऽन्त उदात्तः। (6.1.59)
`कर्षात्वतः' इति। कर्षश्चात्वांश्चेति कर्षात्वत्‌--समाहारद्वन्द्वः। आकारोऽस्यास्तीत्यात्वान्‌। `कर्षतेर्धातोः' इति। `कृष विलेखने' (धा.पा.1286) इत्यस्याकारवतश्चेति सम्बध्यते। कर्षतिना दातुना साहचर्यदात्वोऽपि धातोरेव ग्रहणम्‌। `धञः' इति प्रत्ययग्रहणम्‌, अतः प्रत्ययग्रहणपरिभाषया तदन्तस्य कार्यं ज्ञायत इत्याह--`घञन्तस्य' इति। एतच्च कर्षतेरात्वतश्च समानाधिकरणं विशेषणम्‌। `पाकः' इत्यादि। `अत उपधायाः' (7.2.116) इति वृद्धौ कृतायां धातोराकारवत्त्वम्‌। `दायः धायः' इति। `आतो यक्‌ चिण्‌कृतोः' (7.3.33) इति युक्‌।
किमर्थं पनः प्रकृते विकृतसय ग्रहणं क्रियते न `कृषातः इत्येवोच्यते? इत्यत आह--`कर्ष इति विकृतिनिर्देशः' इत्यादि। कृषिर्विलेखनार्थो भ्वादौ तुदादौ च पठ्यते, तत्र यस्य विकरणे परतो गुणात्मको विकारो भवति तस्यैव भौवादिकस्य ग्रहणमिष्यते, नेतरस्य। एतच्च विकृतनिर्देशे सति लभ्यते। तस्मात्‌ कृषतेस्तौदादिकस्य निवृत्तिर्यथा स्यदित्येवमर्थो विकृतिर्देशः। कस्मात्‌ पुनस्तौदादिकसय निवृत्तिरिष्यते? इत्यत आह--`तौदीदिकस्य' इत्यादि।
अथ किमर्थं मतुपा निर्देशः क्रियते, न कर्षात इत्योवोच्येत? नैवं शक्यम्‌, विहितविशेषणस्याकारस्य ग्रहणं विज्ञायते--आकारान्ताद्यो विहित इति। तथा च दाय इत्यादादेव स्यात्‌, पाक इत्यादौ न स्यात्‌। मतुब्‌ग्रहणे तु सति न दोषः।
अन्तग्रहणमुत्तरार्थम्‌, इह हि `अलोऽन्त्यस्य' (1.1.52) इति भविष्यति।।

160. उञ्छादीनां च। (6.1.160)
`उञ्छः, म्लेच्छः, जञ्जः, जल्पः' इति। `उछि उञ्छे (धा.पा.295) `म्लेच्छ अव्यक्तायां वाचि' (धा.पा.1662), `जज जजि युद्धे' (धा.पा.242,243), `जप जल्प व्यक्तायां वाचि' (धा.पा.397,398)। जञ्जेः कुत्वाभावो निपातनात्‌। `जपो व्यध इत्यवन्तौ' इति। तत्र `व्यघजपोरनुपसर्गे' (3.3.61) इत्यबन्तत्वम्‌। बधशब्दो हि `हनश्च वधः' (3.3.76) इति। `तयोर्धातुसवरः प्राप्तः' इति। `धातोः' (6.1.162) इत्युदात्तत्वम्‌। `व्यधः' इति। `व्यध ताडने' (धा.पा.1181)। अत्रापि व्यधजपोरित्यबन्तत्वम्‌, पूर्ववद्धातुस्वरः प्राप्तः। `कालविशेषे' इति। कृतद्वापरादौ। `रथाद्युपकरणे च' इति। आदिशब्देन हलादेर्ग्रहणम्‌। `गरः' इति। `गृ निगरणे' (धा.पा.1410)। `ऋदोरप्‌' (3.3.57) इत्यबन्तः। `विषम्‌' इत्यनेन दूष्यशब्दस्य विशेषे वृत्तिं दर्शयति। `अन्यत्राद्युदात्त एव' इति। धातुस्वरेण। `वेदवेगवेष्टबन्धाः' इति। `विद ज्ञाने (धा.पा.1064) `विचिर्‌ पृथगभावे' (धा.पा.1442) `वेष्ट वेष्टने' (धायपा.255) `बन्ध बन्धने' (धा.पा.1508)। एभ्यो यथायोगं पर्याद्युपसर्गपूर्वेभ्यः क्विप्‌, प्रादसमासः। `अन्यत्र मध्योदात्तः' इति।
वर्त्तनिशब्दो हि `अर्त्तिसॄघॄ' (द.उ.1.2) इत्यतोऽनिप्रत्ययेऽनुवर्त्तमाने `वृतेश्च' (द.3.1.6) इत्यनेन `वृतु वर्त्तने (धा.पा.758) इत्येतस्मादनिप्रत्ययमुत्पाद्य व्युत्पाद्यते। तस्मात्‌ प्रत्ययस्वरेण मध्योदात्तो भवति। `दरः' इति। `दृ विदारणे' (धा.पा.1493) ऋकारान्तत्वादबन्तः।
`साम्बतापौ भावग्रर्हायाम्‌' इति। सहाम्बया वर्तत इति साम्बः, `बहुव्रीहौ प्रकृत्या पूर्वपदम्‌' (6.2.1) इति प्रकृतिस्वरेण सहशब्दस्य `निपाता आद्युदात्ताः' (फि.सू.4.80) इत्युदात्तत्वे प्राप्ते भावगर्हायामन्तोदात्तत्वं विधीयते। साम्बो भिक्षते। भिक्षणमत्र भावग्रर्हा। तपनं तापः `तप सन्तापे' (धा.पा.985) इत्यस्माद्घञ्‌। आद्युदात्तत्वे प्राप्ते वचनम्‌। तापो दस्यूनां धार्मिकेषु भावगर्हायामिति किम्‌? साम्बस्तिष्टति, तापो महान्‌ ग्रीष्मस्य। अनयोराद्युदात्तत्वमेव।
`उत्तमशश्वत्तमौ' इति। एतौ तमप्प्रत्ययान्तो। पित्त्वात्‌ प्रत्ययस्यानुदात्तत्वे उच्छब्दस्य `निपाता आद्युदात्ताः' (फि.सू.4.80) इत्युदात्तत्वमित्यत आद्युदात्तत्वे प्राप्तेऽन्तोदात्तार्थमुत्तमशब्दः पठ्यते। शश्वच्छब्दोऽपि प्रतिपदिकस्वरेणान्तोदात्तः, ततो मध्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थमेव पठ्यते। `सर्वत्र' इति। भावगर्हायाम्‌, अन्यत्र च।
`भक्ष--मन्थ' इत्यादि। `भक्ष भक्षणे' (धा.पा.1557), [भक्ष अदने--धा.पा.] `मन्थ विलोडने' (धा.पा.42) `भुजकौटिल्ये' (धा.पा.1417), [भुजो--धा.पा.] `दिह उपचये' (धा.पा.1015)। ननु भक्षिश्चुरादित्वाण्ण्यन्त इति तत्‌ `एरच्‌' (3.3.56) इत्यचा भवितव्यम्‌, तत्‌ कथमसौ घञन्तः? इत्याह--`भक्षिर्ण्यन्तोऽपि' इत्यादि। अत्रैव कारणमाह--`एरजण्यन्तानाम्‌' इति।।

161. अनुदात्तस्य च यत्रोदात्तलोपः। (6.1.161)
`कुमारौ' इति। `वयसि प्रथमे' (4.1.20) इति ङीप्‌, `यस्येति च' (6.4.148) इत्यकारलोपः। `कुमारशब्दोऽन्तोदात्तः' इति। प्रातपदिकस्वरेण। एवमुत्तरत्राप्यन्तोदाततता वेदितव्या। `ङीप्‌' इति। `अनुदात्तः' इति। पित्त्वात्‌।
`प्रासङ्ग्यः' इति। `तद्वहति' (4.4.76) इत्यादिना प्राग्घितीयो यत्‌। `प्रसङ्गशब्दः' इत्यादि। `षन्ज सङ्गे' (धा.पा.987) इत्यस्माद्घञमुत्पाद्य प्रासङ्गशब्दो व्युत्पाद्यते, तस्य `गतिकारकोपपदात्‌' (6.2.139) इति `तत्पुरुषे' (6.2.123) इति वरत्तमाने `थाथघञ्क्ताजबित्रकाणाम्‌' (6.2.144) इत्यन्तोदात्तत्वं विहितम्‌, अतो।सावन्तोदात्तः। `नैतदस्ति' इति। `उदात्तो लुप्तते' इति यदुक्तं तस्य प्रतिषेधः। कस्मान्नैतदस्तीत्याह--`स्वरिते हि' इत्यादि। स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्त्वं भवतीति प्रातिपदिकमेतत्‌। तस्मात्‌ स्वरिते विधीयमाने परिशिष्टस्यानुदात्तत्वेन भवितव्यम्‌। तत्‌ कुत उदात्तलोपः? न कुतश्चिदित्यर्थः। `तदेतत्‌' इत्यादि। यस्मादेवमनुदात्तग्रहणस्य प्रत्युदाहरणं न सम्भवति, तस्मादनुदात्तग्रहणमेतदादेरनुदात्तस्योदात्तत्वं यथा स्यादित्येवमर्थम्‌; अन्यथा ह्यस्यानर्थक्यमेव स्यात्‌।
किं पुनः कारणमादेरनुदात्तस्योदात्तो न सिध्यति, यतस्तदर्थमनुदात्तग्रहणं क्रियते? इत्यत आह--`अन्त इति हि' इत्यादि। अवधारणमात्रं द्रष्टष्यम्‌। अन्तस्यैव स्यात्, नादेरित्यर्थः। क्व पुनरादेरुदात्तार्थमनुदात्तग्रहणं क्रियते? इत्याह--`मा हि धुक्षाताम्‌' इत्यादि। दुहेर्लुङ्‌, आत्मनेपदमातामाथाम्‌, ततश्च `शल इगुपधादनिटः क्सः' (3.1.45) इति च्लेः क्सादेशः, `तास्यानुदात्त' (6.1.186) इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्‌, `क्सस्याचि' (7.3.72) इत्यकारलोपः, क्सस्याकारः प्रत्ययस्वरेणोदात्तः, `दादेर्धातोर्घः' (8.2.32) `खरि च' (8.4.55) इति चर्त्वम्‌, घकारस्य ककारः, षत्वम्‌। अत्रासत्यनुदात्तग्रहण आतामाथामाकारस्यादिभूतस्यानुदात्तत्वं न स्यात्‌, सति त्वस्मिन्नाकारस्यादिभूतस्योदात्तत्वं स्यात्‌। हिशब्दस्य प्रयोगे `हि च' (8.1.34) इति निघातप्रतिषेधो न स्यात्‌। निघाते हि तिङ्न्तस्यासत्युदात्तलोपो न स्यात्‌। माङ्प्रयोगोऽप्यटः `न माङ्योगे' (6.4.74) इति प्रतिषेधो यथा स्यात्‌। अटि हि तस्योदात्तत्वाच्छेषस्यानुदात्तत्वं स्यात्‌, तथा च सत्यनुदात्तस्थाकारलोपः स्यात्‌, नोदात्तस्य।
`भृगवः' इति। भृगोरपत्यानि `ऋष्यन्धकवृष्णि' (4.1.114) इत्यादिना ऋष्यण, तस्य `अत्रिभृगुकुत्स' (2.4.65) इत्यादिना बहुषु लुक्‌। ननु चात्रापि विभक्तावुत्पन्नायामुदात्तस्य लोपः, तस्मादिहापि भवितव्यमेव? इत्यत आह--`प्राक्‌ सुबुत्पत्तेः' इत्यादि। न हि गोत्रप्रत्ययसय लुग्विधौ विभक्तिर्निमित्तत्वेनाश्रीयते। तस्मात्‌ प्रागेव गोत्रप्रत्ययस्य लुक्‌, ततो नात्रानुवात्तत्वम्‌। `बैदी, और्वी' इति। विदस्यापत्यम्‌, उर्वस्यापत्यमिति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्‌' (4.1.104) इत्यञ्‌, ञित्स्वरेणाद्युदात्तः `टिढ्ढाणञ्‌' (4.1.15) इति ङीप्‌।।

162. धातोः। (6.1.162)
`ऊर्णोति' इति। अदादित्वाच्छपो लुक्‌।।

163. चितः। (6.1.163)
`भङगुरम्‌' इत्यादौ प्रत्ययस्वरस्यापवादोऽन्तोदात्तत्वं विधीयते। `कुण्डिनाः' इति। अत्र तु स्थानिवद्भावः स्वरस्य। कुण्डिनोशब्दस्यायमादेशः, स च प्रतययस्वरेण मध्योदात्त इति तदादेशोऽपि मध्योदात्त एव सात्‌। कुण्डमस्यास्तीतीनिः, तदन्तात्‌ स्त्रियां `ऋन्नेभ्यो ङीप्‌' (4.1.5) इती ङीप्‌। कुण्डिन्या अपत्यानि बहुनीति गर्गादित्वात्‌ यञ्‌ (4.1.105), तस्य बहुषु लुक्‌। परिशिष्टस्य कुण्डिनजादेशः।
`चिति प्रतयये' इत्यादि। कथं पुनः प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं लभ्यते? यथा लभ्यते तथाख्यायते--इह चित इति समुदायसम्बन्धेऽवयवादेषा षष्ठी। चितोऽवयवस्य सम्बन्धी यः समुदायः तस्यान्तोदात्तत्वं भवतीत्यर्थः। अथ वा चित इति मत्वर्थीयाच्प्रत्ययान्तमेतत्--चिदस्यास्तीति चितः, तस्यान्तोदात्तत्वं भवतीत्यर्थः। तेन प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं सिध्यति। यदि तर्हि चित इति मत्वर्थीयाकारप्रत्ययान्तमेतत्‌, तर्हि सुब्व्यत्ययेन षष्ठ्याः प्रसङ्गे प्रथमा भविष्यति। `बहुपटवः' इति। ईषदसमाप्ताः पटव इति `विभावा सुपो बहुच्‌ पुरस्तात्तु' (5.3.68) इति बहुच्‌। `उच्चकैः' इति। `अव्ययसर्वनाम्नामकच्‌ प्राक्टेः (5.3.72) इत्यकच्‌।।

164. तद्धितस्य। (6.1.164)
`कौञ्जायनाः' इति। `कुञ्जादिभ्यश्च्फञ्‌' (4.1.98) इति च्फञन्तात्‌ `व्रातच्फञोरस्त्रियाम्‌' (5.3.113) इत्यागतस्य अप्रत्ययस्य `तद्राजस्य बहुषु' (2.4.62) इत्यादिना लुक्‌।
`किमर्थम्‌' इति। पुर्वेणैव सिद्धमिति मन्यमानस्य प्रश्नः। `परमपि' इत्यादि। च्फञो हि चकारः `व्रातच्फञोरस्त्रियाम्‌' (5.3.113) इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्धौ। यद्येवं नोच्येत तदा परत्वान्‌ञित्स्वरः स्यात्‌। तस्मात्तमपि बाधित्वान्तोदात्तत्वमेव यथा स्यादित्येवमर्थं क्रियते।।

165. कितः। (6.1.165)
प्रत्ययस्वरस्यापवादोऽयम्‌। `आक्षिकः, शालाकिकः' इति। `तेन दीव्यति' (4.4.2) इत्यर्थे ठक्‌।।

166. तिसृभ्यो जसः। (6.1.166)
`तिस्रस्तष्ठन्ति' इति। `त्रिचतुरोः स्त्रियां तिसृचतसृ' (7.2.99) इति तिस्रादेशः, `अचि र ऋतः' (7.2.100) इति ऋकारस्य रादेशः। `उदात्तस्वरितयोः' इत्यादि। त्रिशब्दः प्रातपदिकस्वरेणान्तोदात्त इति तदादेशोऽपि तिसृशब्दोऽन्तोदात्त एव। तत्र ऋकारस्यान्तोदात्तस्य स्थाने विहितो रफ उदात्तयण्‌ न भवति। ततः परस्य जसः `उदात्तस्वरितयोः' (8.2.4) इत्यादिना स्वरितः प्राप्नोति, अतोऽस्यायमपवादः।
अथ जस्ग्रहमं किमर्थम्‌, तिसृकेऽप्यत्र मा भूदिति चेत्‌? स्यादेतत्‌--त्रिशब्दात्‌ संज्ञायां कनि कृते तत्र च `तिसृभावे कन्युपसंख्यानम्‌' (वा.837) इति तिस्रादेशे तिसृकेत्यत्रापि स्यात्‌ असति जस्‌ग्रहण इति नैतदस्ति; नित्स्वरोऽत्र बाधको भविष्यति। नाप्रापते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव `अनुदात्तौ सुप्तितौ' (3.1.4) इत्येतत्स्वरं बाधते तथा नित्स्वरमिति चेत्‌? नैतदस्ति; यस्माद्येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते `अनुदात्तौ सुप्तितौ' (3.1.4) इत्येतस्मिन्‌ तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च। अथ वा मध्येऽपवादाः पूर्वान्‌ विधीन्‌ बाधन्ते' (व्या.प.10) इत्येव तिसृस्वरे `अनुदात्तौ सुप्तितौ' (3.1.4) एत्येतं बाधिष्यते, न नित्स्वरम्‌। शसादिनिवृत्त्यर्थं तर्हि जस्ग्रहणमिति चेत्‌? एतदपि नास्ति; शसि तावद्भवितव्यमेवान्तोदात्तेन--`उदात्तयणो हल्पूर्वात्‌ (6.1.174) इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र `षट्त्रिचतुर्भ्यो हलादिः' (6.1.174) इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र `षट्त्रिचतुर्भ्यो हलादिः' (6.1.179) इति `झल्युपोत्तमम्‌' (6.1.80) इत्युदात्तत्वेन भवितव्यम्‌। बहुवचनविषयत्वाच्च तिसृशब्दसय द्विवचनैकवचने न स्तः। तत्रान्तरेण जस्ग्रहणं जस एव भविष्यतीत्यत आह--`जस्ग्रहणम्‌' इत्यादि। एके भाष्यकारादयः। असति जस्ग्रहणे तिसृ अतिक्रान्ताविति प्रादिसमासे कृते अतितिस्रावित्यत्रापि स्यात्‌, तन्मा भूदित्येष दोष इत्युपसमस्तार्थं जस्ग्रहणमिच्छन्ति।।

167. चतुरः शसि। (6.1.167)
`चतेरुरन्‌' (द.उ.8.78) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः, तस्य हि शसि परतोऽनेनान्तो दात्तत्वं विधीयते।
अथेह कस्मान्न भवति--चतस्रः पश्येति, चतस्रादेशेऽपि चतुरः कृते स्थानिवद्भावेन न प्राप्नोति? इत्यत आह--`चतस्रादेश' इत्यादि। चतस्रादेश कृत आद्युदाततनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधक इत्याद्युदात्तत्वनिपातनाच्यतन्नः पश्येत्यत्रायं स्वरो न भवति। अथ वा पुरावात्‌ `अचि र ऋतः' (7.2.100) इति रादेशे कृत ऋकारसय तावन्न भवितव्यम्‌। अकारस्यापि "अचः परस्मिन्‌ पूर्वविधौ" (1.1.57) इति यणादेशस्य स्थानिवद्भावदृकारेम व्यवधाने सति न भवितव्यमेव। ननु च `न पदान्तद्विर्वचन' (1.1.58) इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः? नैतदस्ति; उक्तं हि तत्र `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्‌' (का.वृ.1.1.58) इति, न चायं लोपाजादेशः।।

168. सावेकाचस्तृतीयादिर्विभक्तिः। (6.1.168)
साविति प्रथमैकवचनस्येदं ग्रहणं स्यात्‌? सप्तमीबहुवचनस्य वा? उभयोर्वा? तत्र यदि प्रथमैकवचनस्य ग्रहणं स्यात्‌, त्वाया त्वयि इत्यत्रापि स्यात्‌। भवति हि युष्मच्छब्दसय `त्वाहौ सौ' (7.2.94) इति त्वादेशे कृते प्रथमैकवचने परत एकाच्त्वम्‌। सामान्येनोभयग्रहणेऽप्येष दोषः। सप्तमीबहुवचनस्य ग्रहणे नायं दोषः प्रसज्येत्‌, युष्मास्वित्यत्र युष्मच्छब्दस्यानेकाच्त्वमित्येतत्‌ सर्वं हृदि कृत्वाऽऽह--`साविति सप्तमीबहुवचनस्य ग्रहणम्‌' इति। `याद्भ्याम्‌' इति। याच्छब्दाच्छत्रन्तात्‌ तृतीया। `राज्ञे' इति। भवति राजञ्शब्दो भसंज्ञके परतो लोपे कृत एकाच्‌, न तुल सौ राजस्विति; तत्रानेकाच्त्वात्‌ `वाक्तरा, वाक्तमा' इति। तरप्तमबिति भवति वा तृतीयादिः, न तु विभक्तिः।
अथ कस्मात्‌ सप्तमीबहुवचनग्रहणम्‌? इत्याह--`सप्तमीबहुवचनस्य' इत्यादि। `त्वया त्वयि' इति। युष्मदस्मदोः `मपर्यन्तस्य' (7.2.91) `त्वमावेकवचने' (7.2.97) इति त्वादेशः। परिशिष्टस्य `योऽचि' (7.2.89) इति यकारः।।

169. अन्तोदात्तादुततरपदादन्यतरस्यामनित्यसमासे। (6.1.169)
यदि विग्रहाभावेन यो नित्यसमासः स इह नित्यसमासग्रहणेन गृह्येत्‌ ततोऽवाचा, सुवचा ब्राह्मणेनेत्यत्रापि विकल्पेन स्यादित्येतच्चेतसि कृत्वाऽऽह--`नित्यशब्दः स्वर्यते' इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तेन किं भवति? इत्याह--`तेन' इत्यादि। स्वरितत्वेन ह्यधिकारगतिर्भवति। तेन नित्याधिकारो यो विहितः समासः। स च नित्याधिकारविहितसमासो न भवतीत्यनित्यसमासः। `सुवाचा' इति। `कुगति' (2.2.18) इत्यादिना समासः। `अव्ययपूर्वपदप्रकृतिस्वरः' [`तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय' इति पूर्वपदप्रकृतिस्वरः--काशिका] इति। स पुनरुदात्तः; `निपाताश्चाद्युदात्ताः', `उपसर्गाश्चाभिवर्जम्‌' (फि.सू.4.80,81) इति वचनात्‌। यथात्रोत्तरपदस्यान्तोदात्तत्वं नास्ति, एवमनित्यसमासत्वमपि; `कुगति' (2.2.18) इत्यादावपि नित्यग्रहणानुवृत्तेः। एवं सति `मयूरव्यंसकादयश्च' (2.1.72) इत्यनेनात्र समासो द्रष्टव्यः; मरव्यूयंसकादेराकृतिगणत्वात्‌।
`अन्यथा हि' इति। यद्युत्तरपदग्रहणं न क्रियेत, तदैकाज्ग्रहणं समासविशेषणं स्यात्‌। तत्र को दोषः स्यात्‌? इत्याह--`तत्र' इत्यादि। ऊर्क्‌शब्दः सम्पदादित्त्वात्‌ क्विबन्तः।
`अग्निचिता, सोमसुता' इति। `अग्नौ चेः' (3.2.91) `सोमे सुञः' (3.2.90) इति क्विप्‌। `अयं नित्याधिकारे समासो विधीयते' इति। तत्र `नित्यं क्रीडाजीविकयोः' (2.2.18) इत्यतो नित्यग्रहणानुवृत्तेः। `तत्र' इत्याद्। `गतिकारकोपपदात्‌' कृत्‌ (6.2.139) इत्यनेनोत्तरपदस्य प्रकृतिस्वरो विधीयते। उत्तरपदं च धातुस्वरेणान्तोदात्तम्‌, तेन चिच्छब्द उदात्तो भवति। एवं सोमसुच्छब्दोऽपि।
`यस्तु' इत्यादि। `नित्यशब्दः स्वर्य्यते' (का.6.1.169) इति यदुक्तम्‌, तस्यानेन प्रयोजनं दर्शयति। `अवाचा, सुवाचा' इति। अत्राकारेण पूर्वपदेन सुशब्देन च विग्रहो नोपपद्यते, तयोरिह प्रयोगाभावान्नत्यसमासावेतौ, न तु नित्याधिकारविधानात्‌।।

170. अञ्चेश्छन्दस्यसर्वनामस्थानम्‌। (6.1.170)
`इन्द्रो दधीचः' इति। दध्यञ्चतीति `ऋत्विक्‌' (3.2.59) इत्यादिना क्विन्‌ अनुनासिकलोपः, षष्ठ्येकवचनम्‌, `अचः' (6.4.138) इत्यकारलोपः, `चौ' (6.3.138) इति दीर्घः।
`तृतीयादिः' इत्यादि। यदि सर्वनामस्थानग्रहणं क्रियते तदा शसो न स्यात्‌; तस्यातृतीयादित्वात्‌। अथापि तृतीयादिग्रहणं निवर्त्त्यत, एवमपि सर्वनामस्थानेऽपि स्यात्‌। `प्रतीचः' इति। पूर्वेण तुल्यम्‌।।

171. ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः। (6.1.171)
`प्रष्ठौहः' इति। `वहश्च' (3.2.64) इति ण्विः, `वाह ऊठ्‌' (6.4.132) इत्यूठ्‌, `एत्येधत्यूठ्‌सु' (6.1.89) इति वृद्धिः।
`ऊठ्युपधाग्रहणम्‌' इति। उपदाभूत ऊड्‌ गृह्यते येन तदुपधाग्रहणम्‌' इति व्याख्यानं कर्त्तव्यमित्यर्थः। किमर्थम्‌? इत्यत आह--`इह मा भूत्‌' इति। तत्रैदं व्याख्यानम्‌--`अन्तोदात्तात्‌' (6.1.169) इत्यादिसुत्रादिहान्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते, तेनोपधाभूतादेव भवितव्यमिति तस्यैव ग्रहणं युक्तमिति। `अक्षद्युवा' इति। अक्षैर्दीष्यतीति क्विप्‌ `च्छ्ञोः शूडनुनासिके च' (6.4.19) इति वकारस्योठ्‌, यणादेशः।
`आभ्याम्‌' इति। इदमस्त्यदाद्यत्वम््, `हलि लोपः' (7.2.113) इतीद्रूपस्य लोपः। `अथो आभ्याम्‌' इति। `इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ' (2.4.32) इत्यशादेशः।
`निश्पर्यन्ता इह गृह्यन्ते' इति। एतदपि पूर्ववद्व्यवस्थितविभाषया लभ्यते, तस्यां हि सत्यां निश्पर्यन्तेभ्य एव भवितव्यम्‌। तेषामेव ग्रहणं युक्तमिति त एव गृह्यन्ते। `निपदः' इति। शसि परतः पादस्य पदादेशः। `दतः' इति। अत्रापि दन्तशब्दस्य ददादेशः। `आसन्‌' इति। अत्रासन्‌शब्दस्य सप्तम्येकवचनेऽसन्नित्ययमादेशः। `उदन्‌' इति। अत्रापयुदकशब्दस्योदन्नादेश-। `अद्भिः' इति। पकारस्य तकारः, तस्य जश्त्वम्‌--दकारः। `राभ्याम्‌' इति। `रायो हलि' (7.2.85) इत्यात्त्वम्‌।।

172. अष्टनो दीर्घात्‌। (6.1.172)
`अष्टाभिः' इत्यादि। `अष्टन आ विभक्तौ' (7.2.84) इत्यात्त्वम्‌।
`अष्टसु' इति। ननु चात्रापि भवितव्यमेवात्वेन, न हि तद्विधौ विकल्पप्रतिपादकं वचनमस्ति, नापि प्रकृतम्‌? इत्यत आह--`इदमेव' इत्यादि। यदि हि नित्यमात्वं स्यादिह दीर्घग्रहणमनर्थकं स्यात्‌, व्यावर्त्त्याभावात्‌, कृतात्वस्य च षट्संज्ञामिति? इदमेव हि दीर्घग्रहणमष्टनो ज्ञापयतीति सम्बन्धनीयम्‌। कथं पुनर्ज्ञापयति? इत्याह--`अन्यथा हि' इत्यादि। दीर्घग्रहणं ह्येवमर्थं क्रियते--यत्रात्वं नास्ति तत्रायं स्वरो मा भूदिति। यदि कृत्वपात्वसयाष्टनः षट्संज्ञा न स्यात्‌, तदात्वपक्षे षट्संज्ञायामसत्यां सावकाशोऽष्टनः स्वरः, तत्रापि षट्‌स्वरः प्राप्नोतीति कृत्वा। ततश्च यदि दीर्घग्रहणं न क्रियेत, तदानवकाशत्वाद्यदात्वपक्षेऽष्टनः स्वरो न भवति, तदेतरस्मिन्नपि पक्षे स्यात्‌। अतस्तन्निवृत्त्ये दीर्घग्रहणं क्रियमाणमर्थवद्भवति। कृतात्वस्याष्टनः षट्संज्ञायाम्‌--अष्टानामित्यत्र `षट्चतुर्भ्यश्च' (7.1.55) इति नुट्‌ सिद्धो भवति।।

173. शतुरनुमो नद्यजादी। (6.1.173)
`तुदति, नुदति' इति। तुदादित्वाच्छः। `लुनती, पुनती' इति। `श्नाभ्यसतयोरातः' (6.4.112) इत्याकारलोपः। प्रतययस्वरेण शत्रन्तमिहान्तोदात्तं वेदितव्यम्‌। `तस्य' इत्यादि। कथं पुनरिष्यमाणमपि न भवति? `न मु ने' (8.2.3) इत्यत्र नेति योगविभागात्‌।
`बृहन्महतोः' इत्यादि। उपसंख्यानशब्दस्य प्रतिपदनमर्थः। तत्रेदं प्रतिपादनम्‌--`ड्याश्छन्दसि' (6.1.178) इत्यतः सिंहावलोकितन्यायेन बहुलग्रहणमुपतिष्ठते, तेन बृहन्महद्भ्यामपि भवतीति।।

174. उदात्तयणो हल्पूर्वात्‌। (6.1.174)
`उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (8.2.4) इति प्राप्ते वचनम्‌। `तृन्नन्तोऽयमाद्युदातः' इति। नित्स्वरेण। `बहुतितवा' इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितउशब्दोऽयं `बहोर्न ञ्चदुत्तरपदभूम्नि' (6.2.175) इत्यन्तोदात्तः।
`नकारग्रहणं कर्त्तव्यम्‌' इति। नकारो गृह्यते येन तन्नकारग्रहणं व्याख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्‌--इहापि पूर्ववद्बहुलग्रहणमनुवर्त्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति। अथ वा--नकारस्यात्र प्रश्लेषः--हल्पूर्वात्‌ `नोङ्धात्वोः' (6.1.75) इति, तथा चायमर्थो भवति--उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। `वाक्पत्नी' इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र `विभाषा सपूर्वस्य' (4.1.34) इति नकारान्तादेशः, `ऋन्नेभ्यो ङीप्‌' (4.1.5) इति ङीप्‌।।

175. नोङ्दात्वोः। (6.1.175)
`ब्रह्मबन्ध्वा' इति। ब्रह्मा बन्धुरस्या इति विगृह्य बहुव्रीहिः। तस्मात्‌ `ऊङुतः' (4.1.66) इत्यूङ्‌। `तेन सह य एकादेशः सोऽप्युदात्तः' इति। `एकादेश उदात्तेनोदात्तः' (8.2.5) इति वचनात्‌। `स्वर्यते' इति। स्वरितः क्रियत इत्यर्थः। `कुदुत्तरपद' इत्यादि। ऊकारोऽत्र दातुस्वरेणान्तोदात्तः। सः `गतिकारकोपपादात्‌' (6.2.139) इत्युदाततस्तिष्ठति प्रकृतिस्वरेण।।

176.ह्रस्वनुङ्भ्यां मतुप्‌। (6.1.176)
पित्वान्मतुपोऽनुदात्तत्वे प्राप्तेऽयं विधिरारभ्यते। `अक्षण्वता' इति। अक्षमस्यास्तीति मतुप्‌, `छन्दस्यपि दृश्यते' (7.1.76) इत्यनङ्, `अनो नुट्‌' (8.2.13) इति नुडागमः, पूर्वसय नकारस्य `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति लोपः। `शीर्षण्वता' इति। शीर्षन्निति `शीर्षञ्शब्दः' शीर्षश्चन्दसि' (6.1.60) इति निपातितः।
`वसुशब्द आद्युदात्तः' इति। स हि `भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' (द.उ.1.92) इति वर्तमाने `धान्ये नित्‌' (द.उ.1.94) इत्यतो निद्ग्रहणे `शॄस्वॄस्विहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' (द.उ.1.95) इति व्युत्पाद्यते। तेन नित्स्वरेणाद्युदात्तो भवति।
अथेह कस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति, मरुच्छब्दोऽपि `मृग्रेरुतिः (द.उ.6.1) इत्युतिप्रत्ययान्तत्वात्‌ प्रत्ययस्वरेणान्तोदात्त इत्यस्त्यत्र प्राप्तिः, अतो नकारेम व्यवधानान्न भवतीति चेत्‌? न; तस्य लुप्तत्वात्‌। अथापि स्वरसिद्धौ नलोपस्यासिद्धत्वम्‌? एवमपि `स्वरविधौ व्यञ्जनमविद्यमानवत्‌' (व्या.पा.37) इति नास्ति व्यवधानम्‌? इत्यत आह--`स्वरिविधौ' इत्यादि। कथं पुनर्ज्ञायते--नाश्रीयत इति? नुङ्ग्रहणात्‌। नुडागमो ह्ययं मतुप एव भक्त इति तद्ग्रहणेनैव गृह्यते। यद्येषा परिभाषाऽऽश्रीयेत, तदा नकारस्य व्यञ्जनस्याविद्यमानत्वाद्‌ ह्रस्वादित्येव सिध्यति नुङ्ग्रहणं न कुर्यात्‌, कृतं च। ततो ज्ञायते--नेयमिह परिभाषाश्रीयत इति।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। उत्तरत्रापि वक्तव्यशब्दस्यायमेवार्थः। व्याख्यानं तु पूर्ववद्बहुलग्रहणानुवृत्तिमाश्रित्य कर्त्तव्यम्‌।।

177. नामन्यतरस्याम्‌। (6.1.177)
`नाम्‌' इति। सनुट्कस्य षष्ठीबहुवचनस्य ग्रहणम्‌।
किं पुनः कारणं मतुपा ह्रस्वो विशेष्यते? इत्याह--`अन्यथा हि' इत्यादि। सम्प्रति भवः साम्प्रतिकः, अध्यात्मादित्वट्ठञ्‌। `तिसृणाम्‌' इति। अत्र `न तिसृचतसृ' (6.4.4) इति दीर्घत्वप्रतिषेधात्‌ साम्प्रतिकः, अध्यात्मादित्वट्ठञ्‌। `तिसृणाम्‌' इति। अत्र `न तिसृचतसृ' (6.4.4) इति दीर्घत्वप्रतिषेधात्‌ साम्प्रतिक एव ह्रस्वो विद्यते। न तु साम्प्रतिके सति भूतपूर्वगतिर्युक्ता। अत्र यदि मतुपा ह्रस्वो न विशेष्येत? इह नैव स्यात्‌--अग्नीनामिति। `नामि' (6.4.3) इति दीर्घत्वे कृते न स्यात्‌; ह्रस्वाभावात्‌। तस्माद्भूतपूर्वेऽपि ह्रस्वो यथा स्यादित्येवमर्थं मतुपा ह्रस्वो विशेष्यते। `धेन्वाम्‌, शकट्‌याम्‌' इति। यदि सनुट्कस्य ग्रहणं न क्रियेत तदानीं सप्तम्यादेशस्याप्यामो ग्रहणं स्यात्‌, ततश्च धेन्वामित्यादावपि स्यात्‌। सनुट्कस्य ग्रहणे तुन भवति, तस्मिन्नसति धेनुशकटिशब्दयोः प्रातिपदिकस्वरेणान्तोदात्तयोरन्त्यस्य यणादेशे कृते `उदात्तयणः' (6.1.174) इत्यादनान्तोदात्तो नित्यो भवति।
`त्रपूणाम्‌' इति। त्रपुशब्दो वसुशब्दवदाद्युदात्तः।।

178. ङ्याश्छन्दसि बहुलम्‌। (6.1.178)

179. षटूत्रिचतुर्भ्यो हलादिः। (6.1.179)
`अन्तोदात्तादित्येतन्निवृत्तम्‌' इति। यद्येतदनुवर्त्तेत, पञ्चानाम्‌, सप्तानाम्‌, चतुर्णामित्यत्र न स्यात्‌। पञ्चादीनां शब्दादीनां `न्रः संख्यायाः (फि.सू.2.28) इत्युदात्तत्वात्‌ `न्रः' इति रेफनकारान्तयोः संख्याशब्दयोर्ग्रहणम्‌।।

180. झल्युपोत्तमम्‌। (6.1.180)
`त्रिप्रभृतीनामन्त्यमुत्तमम्‌' इति। उत्तमशब्दस्याव्युत्पन्नस्येह ग्रहणम्‌। स च स्वभावात्‌ त्रिप्रभृतीनामन्त्यमाहेति कृत्वा। `तत्समीपे यत्‌ तदुपोत्तमम्‌' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिनाऽव्ययीभावः।।

181. विभाषा भाषायाम्‌। (6.1.181)
पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्‌।।

182. न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः। (6.1.182)
`सौ' इति। प्रथमैकवचनस्य सुशब्दस्य ग्रहणं वा स्यात्‌? सप्तमी बहुवचनस्य वा? तत्र यदि सप्तमीबहुवचनस्य ग्रहणं स्यात्‌, केभ्यः, तेभ्य इत्यत्र न स्यात्‌, किंतच्छब्दयोः सप्तमीबहुवचने परतो नावर्णान्तत्वमुपपद्यते; कृतेऽपि त्यादाद्यत्वे `बहुवचने झल्येत्‌ (7.3.103) इत्येत्त्वविधानात्‌। प्रथमैकवचनस्य तु ग्रहणे सत्यत्रापि भवति। तस्मादसप्तम्यां एव ग्रहणं युक्तमिति मत्वाऽऽह--`प्रथमैकवचने यदवर्णान्तम्‌' इति। अनन्तरमिह प्रतिषेध्यं न भवतीति सर्वस्य षाष्ठिकस्वरस्य प्रतिषेधोऽयं विज्ञायत इतत्याह--`इत्येतेभ्यो यदुक्तं तन्न भवति' इति। शोभना गावोऽस्येति सुगुः, `गोस्त्रियोः' (1.2.48) इत्यादिना ह्रस्वः, `नञ्सुभ्याम्‌' (6.2.172) इत्युत्तरपदस्यान्तोदात्तत्वम्‌।
`शुना' इति `श्वयुवमघोनामतद्धिते' (6.4.133) इति सम्प्रसारणम्‌। `पूर्ववत्‌ प्राप्तिः' इति। शुना, श्वभ्यामित्यत्र `सावेकाचः' (6.1.168) इत्यादिना प्राप्तिः। `परमशुना' इति। अत्राति `अन्तोदात्तादुत्तरपदात्‌' (6.1.169) इत्यन्तोदात्तत्वं तु समासस्वरेण।
`राजा, परमराजः' इति। अत्रापि पूर्ववत्प्राप्तिः।
`अञ्चतिः क्विन्नन्तः' इति। यद्येवम्‌, तर्हि तत्र नकारलोपेन न भवितव्यं तस्यैव सनकारस्य ग्रहणं कर्त्तव्यम्‌। किमर्थं सनकारस्य ग्रहणम्‌? इत्याह--`तस्य' इत्यादि। एतदपि किमर्थम्‌? इत्याह--`यत्रास्य' इत्यादि। ननु च सर्वत्रैव लोपेन भवितव्यम्‌, तत्‌ कथं नलोपस्याभावः इत्याह--`नाञ्चेः' इत्यादि। `प्राञ्चा' इति। पूर्ववत्‌ प्रापतिः। प्राञ्चतीति क्विन्‌। `प्राचा' इति। पूर्ववल्लोपदीर्घत्वे।
`क्रुञ्चा' इति। `क्रुच क्रुञ्च कौटिल्याल्पीभावयोः' [ कुत्व क्रुच्च कौटिल्याल्पीभावयोः--धा.पा.] (धा.पा.185,186), क्विन्‌ क्रुञ्चेति निपातनान्नलोपाभावः। `परमक्रुञ्चा' इति। समासस्वरेणान्तोदात्तत्वम्‌। `परमकृता' इति। अत्रापि। `कृतिर्वा' इति। `कृती छेदने' (धा.पा.1435) इत्येषः।।

183. दिवो झल्‌। (6.1.183)

184. नृ चान्यतरस्याम्‌। (6.1.184)
नृशब्दात्‌ `सावेकाचः' (6.1.168) इति, `न गोश्वन्सावर्ण'(6.1.182) इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते।।

185. तित्स्वरितम्‌। (6.1.185)
`चिकीर्ष्यम्‌, जिहीर्ष्यम्‌' इति, `न गोश्वन्सावर्ण' (6.1.182) इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते।।

186. तास्यनुदात्तेन्ङिददुपदेशाल्लसर्वधातुकमनुदात्तमहन्विङोः। (6.1.186)
तासिप्रभृतीनां समाहारद्वन्द्वेन निर्देशः। `अद्रुपदेशात्‌' इति। उपदिश्यत इत्युपदेशः, शास्त्रवाक्येषु खिलपाठे च यः प्रथममुच्चार्यते स इत्यर्थः। अच्चासावुपदेशश्चेत्यदुपदेशः। कर्मसाधनस्योपदेशशब्दस्याश्रयणम्‌, भावसाधनस्य वा, नानेन सामानाधिकरण्यानुपपत्तेः। `लसार्वधातुकम्‌' इति। षष्ठीसमासः। `अदुपदेशात्‌' इति। पूर्ववत्‌ कर्मसाधनेनोपदेशशब्देन कर्मधारयः। वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतित्यकारन्तोपदेशादित्यर्थः। `कर्त्ता' इति। करोतेर्लुट्‌, आत्मनेपदपरथमपुरुषः, तस्य डारौरसः। एकवचने टेर्लोपः। द्विवचनबहुवचनयोः `रि च' (7.4.51) इति सकारस्य।
`आस्ते' इत्येवमादिषु `शेते' इत्येवंपर्यन्तेष्वदादित्वाच्छपो लुक्‌। `वस्ते' इति। `वस आच्छादने' (धा.पा.1023)।
`सूते' इति। `षूङ्‌ प्राणिगर्भविमोचने' (धा.पा.1031)। `शेते' इति। शीङः सार्वधातुके गुणः' (7.4.21) इति गुणः।
`तुदतः नुदतः' इति। तसन्ते एते। एवं `पचतः, पठतः' इत्येते अपि। ननु च व्यञ्जनान्तोऽयमुपदेशे शप्‌, नकारान्तः, तत्‌ कथमिहानुदात्तत्वं भवति? इत्याह--`अनुबन्धस्य' इत्यादि। एकान्तः=एकदेशः; नैकान्तोऽनेकान्तः, तद्ग्रहणेन गृह्यत इति यावत्‌, अनेकान्तस्य भावोऽनेकान्तत्वम्‌। ततो हेतोरकारान्तोपदेश एव शप्‌, न व्यञ्जनान्तः। तेन पचते--इत्यादावनुदात्तत्वं भवतीति भावः। अकारान्तत्वं तु शबकारस्य व्यपदेशिवद्भावात्‌। `पचमानः, यजमानः' इति। शानच्‌। कथं पुनरिहानुदात्तत्वम्‌, यावता मुकाऽत्र व्यवधानम्‌? इत्याह--`यद्यत्र' इत्यादि। मुगागमोऽयमकारमात्रस्य वा स्यात्‌? अकारान्ताङ्गस्य वा? तत्र यद्यकारमात्रस्य तदाऽदुपदेशग्रहणेनैव तस्य ग्रहणमिति लसर्वधातुकमदुपदेशादनन्तरमेव भवति, व्यवधानाभावात्‌, न हि स्वावयवो व्यवधायको भवति। तेनान्तरङ्गत्वात्‌ सिद्धो निघातः। `अथ' इत्यादिना द्वितीये पक्षे निधातस्यासिद्धत्वात्‌ प्रतिपादयति--`तथापि' इति। एवमपीत्यर्थः। लसर्वधातुकस्येत्यस्य सिद्धो निघात इति वक्ष्यमाणेन सम्बन्धः। `असिद्धः' इत्यस्यापि मुगित्यनेन प्रकृतेन। इतिकरणो हेतौ। तदयमर्थः--यस्माल्लसार्वधातुकानुदात्ते बहिरङ्गत्वान्मुगसिद्धः, तस्मादेवमपि सार्वधातुकस्यानुदात्तत्वम्‌। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्‌। स ह्यकारान्तविशिष्टमङ्गमाश्रयति, आनञ्च प्रत्ययविशेषम्‌। अङ्गावयवमदुपदेशं लसार्वधातुकामात्रं निधातः। तस्मादसावन्तरङ्गः। स्वरविधित्वाच्च, उकग्तं हि स्वरविधेर्भाव्येऽन्तरह्गत्त्वम्‌। ननु चाद्ये पक्षे मुकि कृते निघातो न सिध्यति, अदुपदेशादिति तपरकरणात्‌, मुकि च कृते कालस्यातिरिच्यमानत्वात्‌? नैष दोषः; यद्यवमपि कृतेऽर्धमात्राधिका भवति, तथाप्युपदेशग्रहणात्‌ सिध्यत्येव, उपदेशे मात्रिकस्यैवोच्चारणात्‌। `चित्स्वरोऽप्यनेन' इत्यादि। चित्स्वरस्यावकाशः--`चलनशब्दार्थादकर्मकाद्युच्‌' (3.2.148) चलनम्‌, चोपनमिति, तास्यादिभ्योऽनुदात्तस्यावकाशः--आस्ते, शेत इति; इहोभयं प्राप्नोति--पचमानो यजमान इति परत्वाल्लसार्वधातुकानुदात्तत्वमेव चित्स्वरं बाघित्वा प्रवर्त्तते।
`चिनुतः, चिन्वन्ति' इति। नु `सार्वधातुकमपित्‌' (1.2.4) इति श्नुरपि ङिदेव, तत्कथमिदं प्रत्युदाहरणमुपपद्यते? इत्याह--`ङिदयम्‌' इत्यादि। `सार्वधातुकमपित्‌' (1.2.4) इत्यनेन पूर्वस्य कार्यमतिदिश्यते, न परस्य। तथा चोक्तम्‌--सिद्धं तु पूर्वस्य कार्यातिदेशादिति। तस्मात्‌ पूर्वस्य कार्यं प्रति ङित्वं भवति, न तु परस्येत किमत्र नोपपद्यते। `इह च' इत्यादि। पचावः पचामः इत्यत्र हि `अतो दीर्घो यञि' (7.3.101) इति दीर्घत्वे कृते न स्यात्‌ असत्युपदेशग्रहणे। तस्मिंस्तु सति शबकारोऽपि मात्रिक एवोपदिष्ट इति यद्यप्युत्तरकाल दीर्घत्वं भवति तथापि निघातो न भवतीति। `इह च मा भूदिति--हतः; हथ' इति। अत्र `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपे सत्युपदेशात्परं लसार्वधातुकं भवति, तत्रासत्युपदेशग्रहण इहापि स्यात्‌। अस्मिस्तु सति न भवति, न हि हन्तिरवर्णान्त उपदिश्यते। किं तर्हि? व्यञ्जनान्तः। `पचमानाः' इति। `ताच्छील्यवयोवचनशक्तिषु चानश्‌' (3.2.129) न च स लादेशः, अपि तु प्रत्ययः। लसर्वधातुकत्वं त्वस्य न विद्यते। `शिश्ये' इति। शीङो ह्यात्मनेपदे रूपम्‌, `एरनेकाचः' (6.4.82) इत्यादिना यणादेशः। `लिट्‌ च' (3.4.115) इत्यार्धधातुकमेतत्‌। `शिश्याते' इति। लिट्यातामि रूपम्‌। नानुदात्तत्वम्‌, असार्वधातुकसंज्ञाविधानात्‌। `ह्रु ते, यदधीते' इति। `ह्रु ङ्‌ अपनयने' (धा.पा.1082) `इङ्‌ अध्ययने' (धा.पा.1046) यच्छब्दस्य प्रयोगः `निपातैयैद्यदि' (8.1.30) इति निघातप्रतिषेधो यथा स्यात्‌।।

187. आदिः सिचोऽन्यतरस्याम्‌। (6.1.187)
`मा हि कार्ष्टाम्‌' इति। हेः, माङश्च प्रयोगो प्रयोजनं पूर्वमेवोक्तम्‌। `अपरोऽन्तोदात्तः' इति। प्रत्ययस्वरेण। `अपरो मध्योदात्तः' इति। प्रत्ययस्वरेणैव। ननु च वलादिरिह प्रत्ययः, इट्‌ चागमः, आगमानां चानुदात्तत्वं भवति, तस्मादिहाप्यन्तोदात्तेनैव भवितव्यम्‌, तत्‌ कथं मध्योदात्तत्वम्‌? इत्याह--`सिचश्चित्कारणात्‌' इत्यादि। सिचश्चित्करणेनानुदात्तत्वे बाधिते चित्स्वर एव भवतीति युक्तं मध्योदात्तत्वम्‌। `सिच आद्युदात्त' इत्यादि। सिच आद्युदात्तत्वे कर्त्तव्येऽनिटो विद्यमानो सिचः परो यश्चित्प्रत्ययस्तस्योदात्तत्वं वक्तव्यम्‌। `मा हि कार्षम्‌' इति। पक्षे सर्वानुदात्तं पदं मा भूदित्येवमर्थमिदम्‌। पक्षे तूदात्तत्वेन मुक्ते सर्वानुदात्तमेव पदं भवति।।

188. स्वपादिहिंसामच्यनिटि। (6.1.188)
`सार्वधातुकग्रहणम्‌' इत्यादि। `अचि' इत्येतत्‌ सप्तम्यन्तं लसार्वधातुकस्य समानाधिकरणं विशषणम्‌, न च प्रथमान्तस्य सप्तम्यन्तेन सामानाधिकरण्यमुपपद्यते। तस्मात्‌ `अचि' इत्यनेन सम्बन्धाद्विविशेषणविशेष्यलक्षणाल्लसार्वधातुकग्रहणादित्याह--`सप्तम्यन्तमुपजायते। `स्वपादिरा वृत्करणात्‌' इति। यद्यप्येतदेवम्‌, तथापि `ञिष्वप्‌ शये' (धा.पा.1068) `श्वस प्राणने' (धा.पा.1069), `अन च' (धा.पा.1070) इत्येत एव ये, ते इह स्वपादिग्रहणेन गृह्यन्ते। परेऽपि ये जक्षित्यादयोऽभ्यस्तसंज्ञाः, तेषु परत्वात्‌ `अभ्यस्तानामादिः' (6.1.189) इत्यनेन नित्यमाद्युदात्तत्वं भवति। `हिंसन्ति' इति। `तृह हिसि हिंसायाम्‌' (धा.पा.1455,1456), रुधादित्वाच्‌ श्नम्‌, `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः `श्नान्नलोपः' (6.4.23) इति परस्य नकारस्य। `स्वप्यात्‌' इति। लिङ्‌ अदादित्वाच्छपो लुक्‌। `स्वपितः' इति। `रुदादिभ्यः सार्वधातुके' (7.2.76) इतीट्‌।।

189. अभ्यस्तानामादिः। (6.1.189)
प्रत्ययस्वरेण प्राप्ते तदपवादोऽभ्यस्तानां धातूनामादेर्विधीयते। दधतीत्यादौ "श्नाभ्यस्तयोरातः" (6.4.112) इत्याकारलोपः, `उभे अभ्यस्तम्‌' (6.1.5) इत्यभ्यस्तसंज्ञा। `जक्षति, जाग्रति' इति। अत्रापि `जक्षित्यादयः षट्‌' (6.1.6) इति सर्वत्र `अदभ्यस्तात्‌' (7.1.4) इति झेरदादेशः। `जक्षितः' इति। पूर्ववदिट्‌। अथादिग्रहणं किमर्थम्‌, यावता `आदिः सिचोन्यतरस्याम्‌' (6.1.187) इत्यत आदिरित्यनुवर्त्तते? इत्यत आह--`आदिरिति वर्त्तमाने इत्यादि। पूर्वकं ह्यादिग्रहणमन्यतरस्यांग्रहणेन सम्बद्धम्‌, अतस्तनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्‌। तस्मान्नित्यर्थं पुनरादिग्रहणं क्रियते।।

190. अनुदात्ते च। (6.1.190)
अनजाद्यर्थमिदम्‌। अजादौ त्वनुदात्ते पूर्वणैव सिद्धम्‌। `जिहीते, मिमीते' इति। अत्र `तास्यनुदात्तेत्‌' (6.1.186) इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्‌। `भृञामित्‌' (7.4.76) इत्यभ्यासस्येत्त्वम्‌।
`अनुदात्ते' इति शास्त्रीयस्यानुदात्तस्यायं निर्देश इति कस्यचिद्भ्रान्तिः स्यात्‌ अतस्तन्निरासार्थमाह--`अनुदात्त ति बहुव्रीहिनिर्देशः' इति अविद्यमानमुदात्तमस्मिन्नित्यनुदात्तम्‌। किमर्थं पुनर्बहुव्रीहिनिर्देशः? इत्याह--`लोपपणादेशार्थः' इति। लोपयणादेशयोः कृतयोरप्याद्युदात्तत्वं यथा स्यात्‌। `मा हि स्म दधात्‌। दधात्यत्र' इति। स्मशब्दस्य प्रयोगः स्मोत्तरे लङ्‌ यथा स्यात्‌। अत्र यदि शास्त्रीयस्यायं निर्देशः स्यात्‌, `इतश्च' (3.4.100) इतीकारलापे कृते यणादेशे चोदात्तं न स्यात्‌, शास्त्रीयस्यानुदात्तस्याभावात्‌। बहुव्रीहिनिर्देशे चात्रापि भवति; उदात्तस्येहाविद्यमानत्वात्‌।।

191. सर्वस्य सुपि। (6.1.191)
`इष्शीभ्यां वन्‌ (द.उ.8.126) इति प्रकृत्य `सर्वनीधृधरिष्वलष्वशिवपट्‌वप्रेष्वा अस्वतन्त्रे' [`सर्वनिधृष्वरिष्वलिष्पशिपह्रस्वपद्वप्रहेष्वा अतन्त्रे'--द.उ.] (द.उ.8.127) इति सर्वशब्दोऽन्तोदात्तो निपातितः। तेन तस्य सुप्याद्युदात्तत्वं विधीयते। अन्तोदात्तत्वनिपातनं तु सर्वस्य विकारः सार्वं इत्यत्र `अनुदात्तादेरञ्‌' (4.2.44) यथा स्यात्‌।
`प्रत्ययलक्षणेनापि' इत्यादि। कथं पुनरिष्यमाणोऽपि लभ्यते, यावता सर्वस्तोम इत्यत्र `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति लुमता लुप्तम्‌, ततश्च `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षलस्य प्रतिषेधेन भवितव्यम्‌? नैष दोषः; पूर्वसूत्राच्चकारोऽनुवर्त्तते, स च समुच्चयार्थः। तेन प्रतिषेधविषयेऽप्येष स्वरो भविष्यति। `सर्वस्वरोऽनकच्कस्य' इत्यादि। योऽयं सर्वशब्दस्य स्वरो विधीयते स तस्याविद्यमानाकच्कस्य भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--`आदिः सिचोऽन्यतरस्याम्‌' (6.1.187) इत्यतोऽन्य तरस्यांग्रहणमिह मण्डूकप्लुतिन्यायेनानुर्त्तते, सा च व्यवस्थितविभाषा, तेनानकच्कस्य भवति।।

192. भीह्वीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूंर्व पिति। (6.1.192)
`अनुदात्ते च' (6.1.190) इत्याद्युदात्ते प्राप्ते प्रत्ययात्‌ पूर्वस्य भीह्रप्रभृतीनामुदात्तो विधीयते।

193. लिति। (6.1.193)
`लकारेत्संज्ञके' इति। लकार इत्संज्ञको यस्य स तथोक्तः। `चिकीर्षकः' इति। सन्नन्ताण्ण्वुल्‌। तत्र `अतो लोपः' (6.4.48) इत्कारलोपे कृते ण्वुलः पूर्वस्येकारस्योदात्तत्वम्‌। `भौरिकविधम्‌' इति `भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ' (4.2.54) इति विधल्प्रत्ययः। भौरिकिर्विषयो देश इति `ऐषुकारिभक्तम्‌' ऐषुकारिर्विषयो देश इति। पूर्वसूत्रेणैव भक्तल्प्रत्ययः।।

194. आदिर्णमुल्यन्यतरस्याम्‌। (6.1.194)
लित्स्वरे प्राप्ते णमुलि परत आद्युदात्तत्वं विकल्पेन विधीयते। तेन मुक्ते पक्षे लित्स्वरोऽपि भवत्येव। अनेकाचश्च धातवो विकल्पं प्रयोजयन्तीति। ये त्वेकाचस्तेषां लित्स्वरेणानेन वा विशेषो नास्ति। `लोलुयं लोलूयम्‌, `पोपूयम्पोपूयम्‌' इति। यदन्ताण्णमुल्‌, तस्य `आभीक्ष्णे द्वे भवतः' (वा.887) इति द्विर्दचनम्‌। `अनुदात्तं च (8.1.3) इत्याम्रेडितस्यानुदात्तत्वम्‌।।

195. अचः कर्तृयकि। (6.1.195)
`कर्तृयकि' इति। सार्वधातुकं कर्तृशब्देनोक्तम्‌। अभिधानेऽभिधेयोपचारात्‌। तत्र यः कर्त्तरि यक्‌ स कर्तृयक्‌, `सप्तमी' (2.1.40) इति योगविभागात्‌ समासः। `लूयते केदारः स्वयमेव' इति। लुनाति केदारं देवदत्तः, केदारो लवनक्रियया व्याप्तुमिष्टतमत्वात्‌ कर्म। यदा तु सौकार्यात्‌ तस्यैव कर्त्तृत्वं विवक्ष्यते तदाऽसौ कर्त्ता भवति; `कर्मवत्‌ कर्मणा तुल्यक्रियः' (3.1.87) इत्यतिदेशात्‌ यगात्मनेपदञ्च। `स्तीर्यते' इति। `स्तृ आच्छादने' (धा.पा.1252) [स्तृञ्‌ आचछादने--धा.पा.] `ॠत इद्धातोः' (7.1.100), `हलि च' (8.2.77) इती दीर्घः। `लसार्वधातुकनिघाते कृते' इति। `अदुपदेशभक्तयक एव स्वरो भवति' इति। प्रत्ययलक्षणः।
अथेह कथं भवति--जायते स्वयमेव, सायते स्वयमेव, खायते स्वयमेवेति, यावता `ये विभाषा' (6.4.43) इत्यात्वे कृते सत्युत्तरकालं जनादयोऽजन्ता भवन्ति, न तूपदेश? इत्याह--`जनादनाम्‌' इत्यादि। जनादीनां ह्यात्वविधावनुदात्तोपदेशग्रहणमनुवर्त्तते। तेन तेषामुपदेश एवात्त्वं द्रष्टव्यम्‌। `जायते स्वयमेव' इति। कथं पुनरकर्मकर्त्ता, यावता जनिरकर्मकः? अन्तर्भावितण्यर्थं सकर्मको भवतीत्यदोषः।
`लूयते केदारो देवदत्तेन' इति। अत्र शुद्धकर्मण्यात्मनेपदविधानात्‌ कर्तृयग्न भवति।।

196. थलि च सेटीडन्तो वा। (6.1.196)
`अन्यतरस्याम्‌' (6.1.194) इत्यनुवर्त्तमाने वाग्रहणं कार्यिणो विकल्पार्थम्‌। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते वाग्रहणेन तु कार्यिणः। तेनेडादयः पर्यायेण कार्य प्रतिपद्यन्ते। `लुलविथ' इति। क्रादिनियमादिट्‌। `ययाथ' इति। `अचस्तास्वत्थल्यनिटो नित्यम्‌' (7.2.61) इतीटो वा प्रतिषेधः।।

197. ञ्नित्यादिर्नित्यम्‌। (6.1.197)
`वासुदेवकः' इति। वासुदेवे भक्तिरस्येत्यर्थे वुन्‌।
अथेह गर्गा, विदा इति `यञञोश्च' (2.4.64) इति बहुषु लुकि कृते, चञ्चेव चञ्चेत्यत्र च `इवे प्रतिकृतौ' (5.3.96) इत्युत्पन्नस्य कनः `लुम्‌ मनुष्ये' (5.2.98) इति लुपि कृते कस्मान्न भवति, लुप्तेऽपि प्रत्यये `प्रत्ययलोपे प्रत्ययलक्षणम्‌ (1.1.62) इत्यस्ति प्राप्ति? इत्यत आह--`प्रत्ययलक्षणमत्र नेष्यते' इति। तत्‌ कथं पुनरिष्यमाणो न भवति? `संज्ञायामुपमानम्‌' (6.1.204) इत्यत्र वक्ष्यमाणाज्ज्ञापकात्‌। अथ वा `न लुमताङ्गस्य' (1.1.63) इत्यनेन यन्नाम किञ्चिदङ्गस्य कार्यमङ्गाधिकारे विहितमेव, तेन प्रतिषेधादिह प्रत्ययलक्षणं स्वीकार्यं न भविष्यति। एवमुत्तरात्रापि प्रत्ययलक्षणाभावो वेदितव्यः। `यञि कनि च लुप्ते' इति। चकाराद्‌विदाधञि च।।

198. आमन्त्रितस्य च। (6.1.198)
`देवदत्त्' इति। ददातेः `क्तिच्क्तौ च संज्ञायाम्‌' (3.3.174) इत्याशिवि क्तः, `वो वद्‌ घोः' (7.4.46) इति धातोर्ददादेशः। दत्तशब्दस्य देवशब्देन `कर्त्तृकरणे कृता बहुलम्‌' (2.1.32) इति समासः। `सपिरागच्छ' इति। `स्वमोर्नपुंसकात्‌' (7.1.23) इति विभक्तेर्लुक्‌। `सप्तागच्छत' इति। अत्रापि `षङ्भ्यो लुक्‌' (7.1.22) इति च।।

199. पथिमथोः सर्वनामस्थाने। (6.1.199)
`पथिमथिशब्दो' इत्यादि। `गमेरिनिः' (द.उ.6.57) इत्यत इनिप्रत्यये वर्त्तमाने `मन्थः' (द.उ.6.62) इतीनिप्रत्ययः, अतो मथिञ्शब्दो व्युत्पाद्यते, `परमे कित्‌' (द.उ.6.61) इत्यतः किद्ग्रहणानुवृत्तेर्मनथेरनुनासिकलोपः। `पतस्थ च' (द.उ.6.63) इति पथिञ्शब्दोऽपीनित्प्रत्ययान्त इति तेनेतौ प्रत्ययस्वरेणान्तोदात्तौ। `पन्थाः' इति। `पथिमथ्यृभुक्षामात्‌' (7.1.87) इत्यकरान्तादेशः। `इतोऽत्‌ सर्वनामस्थाने' (7.1.86) इतीकारस्यात्त्वम्‌, `थो न्थः' (7.1.87) इति थस्य न्थादेशः।
`पथः पश्य' इति। `भस्य टेर्लोपः' (7.1.88) इति टिलोपः। तत्र कृते `अनुदात्तस्य च यत्रोदात्त लोपः' (6.1.161) इत्यन्तोदात्तत्वम्‌। `पथिप्रियः' इति। पन्थाः प्रियो यस्येति बहुव्रीहिः। `वा प्रियस्य' (वा.114) इति प्रियशब्दस्य पक्षे परनिपातः।।

200. अन्तश्चे तवै युगपत्‌। (6.1.200)
`कर्त्तवा' [`कर्त्तवै' इति काशिका, पदमञ्जरी च] इति। `कृत्यार्थे तवैकेन्केन्यतावनः' (3.4.14) इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृत्तये यत्नः क्रियते? इत्याह--`एकवर्जम्‌' इत्यादि।।

201. क्षयो निवासे। (6.1.201)
`क्षयः' इति। `क्षि निवासगत्योः' (धा.पा.1407) इत्यस्येदं रूपमिति।।

202. जयः करणम्‌। (6.1.202)
`जयः' इति। `जि ज्रि अभिभवे' (धा.पा.946,947) इत्यस्य जयते रूपमेतत्‌। `जयो ब्राह्मणानाम्‌' इति। भावे `एरच्‌' (3.3.56)।।

203. वृषादीनां च। (6.1.203)
`वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः' इति। `वृषु मृषु सेचने' (धा.पा.706,707) `जनी प्रादुर्भावे' (धा.पा.1149) `ज्वर रोगे' (धा.पा.776) `ग्रह उपादाने' (धा.पा.1533) `हि गतौ' (धा.पा.1257) `कै गै' शब्दे' (धा.पा.916,917) `सर्वं एतेऽच्प्रतययान्ताः' इति। पचादित्वात्‌। एतेन चित्स्वरे प्राप्ते पाठ एषामिति दर्शयति।
`नयः, तयः, अयः, अंशः, वेदः, सूदः, अशः' इति। `णीञ्‌ प्रापणे' (धा.पा.901) `तायृ सन्तानपालनयोः' (धा.पा.489) क्वचित्‌ `तयः' इत्यस्य स्थाने `चयः' इति पठ्यते, स चिनोतेर्द्रष्टव्यः। `इण्‌ गतौ' (धा.पा.1045)। अथ वा अय वय मय चय (धा.पा.474)-478) इत्यादेः। `अंश समाधाने' (धा.पा.1918), `विद ज्ञाने' `(धा.पा.1064) `षूद रक्षणे' (धा.पा.1717) `अश भोजने' (धा.पा.1523)। `सूदः--इगुपधेति कप्रत्ययान्तः' इति। `एतेऽपि' इति यदुक्तम्‌, तस्यायमपवादः। `गुह' इति। `गुहू संवरणे' (धा.पा.896)।
`शमरणौ संज्ञायाम्‌' इति। `शम्‌ उपशमे' (धा.पा.1201) `अण रण' (धा.पा.444,445) इति शब्दार्थः। संज्ञाया अन्यत्रान्तोदात्तादेव भवतः। `सम्मतौ भावकर्मणोः' इति। शमरणादिति वर्त्तते। सम्मतावर्थे विवक्षिते शमरणौ भावकर्मणोर्यथाक्रममाद्युदात्तौ भवतः। `मन्त्रः' इति। `मत्रि गुप्तभाषणे' (धा.पा.1679) केचित्तु--`सम्मतौ भावकर्मणोर्मणोर्मन्त्रः' इति पठन्ति। तस्य मन्त्रे विषयीभूत इत्येषोऽर्थो वेदितव्यः। `शान्तिः' इति। `शमु उपशमे' (धा.पा.1201) `क्तिच्क्तौ च संज्ञायाम्‌' (3.3.174) इति क्तिच्‌। `कामः, यामः' इति। `कमु कार्तौ' (धा.पा.443) `यम उपरमे' (धा.पा984)। `घञन्तौ' इति। `कर्षात्वतो धञोऽन्त उदात्तः' (6.1.159) इत्येतस्मिन्‌ प्राप्तेऽस्य पाठः।
`कल्पः' इति। `कृपू सामर्थ्ये' (धा.पा.762)। `पादः' इति। `पद गतौ' (धा.पा.1169)। `वृषादिराकृतिगणः' इति। तदेव चाकृतिगणत्वं ज्ञापयितुं चकारः कृतः।।

204. संज्ञायामुपमानम्‌। (6.1.204)
`यद्येवम्‌' इति। यदि कनो लुबित्यर्थः, कनोऽपु लुपि सत्यपि प्रत्ययलक्षणेनैव सिद्धमेषां हि नित्स्वरेणाद्युदात्तत्वम्‌, तदपार्थकमित्यभिप्रायः। `एतदेव' इत्यादि। यदि हि क्वचित्‌ स्वरविधौ प्रत्ययलक्षणं स्यात्‌, कर्त्तव्यमेवेदं वचनं स्यात्‌। प्रत्ययलक्षणेन सिद्धत्वात्‌, कृतञ्च। तस्मादेतज्ज्ञापयति--प्रत्ययलक्षणं स्यात्‌, कर्त्तव्यमेवेदं वचनं स्यात्‌। प्रत्ययलक्षणेन सिद्धत्वात्‌, कृतञ्च। तस्मादेतज्ज्ञापयति--प्रत्ययलक्षणमिह स्वरविधौ न भवतीति। क्वचिद्ग्रहणं क्वचित्तु भवतीति प्रदर्शनार्थम्‌, तथा हि `सर्वस्य सुपि' (6.1.191) इत्यत्रोक्तम्‌--प्रत्ययलक्षणेनाप्ययं स्वर इष्यत इति। `तथा च' इत्यादिना ज्ञापनस्य प्रयोजनमाह।
`अग्निर्माणवकः' इति। भवत्यग्निशब्द उपमानम्‌। तथा ह्यग्निरेवेति गम्यते, नासौ माणवकस्य संज्ञा।।

205. निष्ठा च द्व्यजनात्‌। (6.1.205)
`गुप्तः' इति `गुपू रक्षणे' (धा.पा.395)। `बुद्धः' इति। `बुध अवगमने' (धा.पा.858)। `देवः' इति। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। भीमशब्दोऽपि मगन्तत्वात्‌ प्रत्यस्वरेण। `इषियुधि' (द.उ.7.31) इत्याद्यधिकृत्य `भियः षुग्वा' (द.उ.7.35) इति मक्प्रत्ययान्तो व्युत्पाद्यते। `चिन्तितः' इति। `चिति स्मृत्याम्‌' (धा.पा.1535), चौरादिकः, `निष्ठायां सेटि' (6.4.52) इति णिलोपः। `रक्षितः' इति। `रक्ष पालने' (धा.पा.658)। `त्रातः, आप्तः' इति। `त्रैङ पालने' (धा.पा.965), `आप्लृ व्यातौ' (धा.पा.1260)।।

206. शुष्कधृष्टौ। (6.1.206)
`शुष्कः' इति। `शुष शोषणे' (धा.पा.1183) `शुषः कः' (8.2.51) इति क्तस्य कादेशः। `धृष्टः' इति। ञिधृषा प्रागल्भ्ये' (धा.पा.1269) ष्टुत्वम्‌। कत्वष्टुत्वयोरसिद्धत्वादिह निष्ठान्तत्वं वेदितव्यम्‌।
`असंज्ञार्थं आरम्भः' इति। संज्ञायां पूर्वेणैव सिद्धत्वात्‌।।

207. आशितः कर्त्ता। (6.1.207)
`अशेः' इति। `अश भोजने' (धा.पा.1523) इत्यस्मात् कर्त्तरि क्तो निपात्यते। `गत्यर्थाकर्मक' (3.4.72) इत्यादिना। `पूर्ववत्‌ कर्मणि क्तः' [`पूर्वत्र'--काशिका] इति। `तयोरेव' (3.4.70) इत्यादिना। `उत्तरत्र भावे' इति। `नपुंसके' `भावे क्तः' (3.3.114) इति।।

208. रिक्ते विभाषा। (6.1.208)
`रिक्तः' इति। `रिचिर्‌ विरेचने' (धा.पा.1441)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। `संज्ञायाम्‌' इत्यादि। `निष्ठा च द्व्यजनात्‌' (6.1.205) इत्यस्यावकाशः--दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम्‌--रिक्तो घट इति; यदा तु रिक्तशब्दः कस्यचित्‌ संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन `निष्ठा च द्व्यजनात्‌' (6.1.205) इति नित्यमाद्युदात्तो भवति। न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्‌।।

209. जुष्टार्पिते च च्छन्दसि। (6.1.209)
`जुष्टः' इति। `जुषी प्रीतिसेवनयोः' (धा.पा.1288)। `अर्पितः' इति। अर्त्तेर्णिच, `अर्त्तिह्रो' (7.3.36) इत्यादिना पुक्‌।।

210. नित्यं मन्त्रे। (6.1.210)
`केचिदत्र' इत्यादि। किं पुनः कारणं जुष्टशब्द एवावनुवर्त्तयन्ति? इत्याह--`अर्पितशब्दस्य' इत्यादि। अत्रापि किं कारणम्‌? इत्याह--`अन्तोदात्तोऽपि' इत्यादि। तमेवान्तोदात्तस्य पाठमन्त्रं दर्शयितुमाह--`तस्मिन्‌ साकं त्रिशता' इत्यादि। आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं विस्पष्टार्थम्‌, उत्तरार्थं च।।

211. युष्मदस्मदोर्ङसि। (6.1.211)
`युष्मदस्मदी मदिक्प्रत्ययान्ते' इति। `युष्यसिभ्यां मदिक्‌' (द.उ.6.50) मदिक्प्रत्ययमुत्पाद्य तयोर्ष्युत्पादनात्‌। एतेन युष्मदस्मदोः प्रत्ययस्वरेणआन्तोदात्तत्वं दर्शयति। `तव ममौ ङसि' (7.2.96) इति युष्मदस्मदोर्मपर्यन्तस्य तवममौ, शेषे लोपे (7.2.90) कृते `अतो गृणे' (6.1.97) पररूपत्वम्‌। युष्मदस्मदोरादेशस्य स्थानिवद्भावादन्तोदात्तत्वम्। एवं च यो ह्यशादेशेन सहैकादेशः, सोऽपि `एकादेश उदात्तेनोदात्तः' (8.2.5) इत्युदात्त एवेत्यनेन क्रमेण विभक्तिस्वरे प्राप्त इदमुच्यते।।

212. ङयि च। (6.1.212)
`तुभ्यम्‌, मह्यम्‌' इति। `ङे प्रथमयोरम्‌' (7.1.28) इत्यम्भावः, `तुम्यमह्यौ ङयि' (7.2.95) इति युष्मदस्मदोस्तुभ्यमह्यावादेशौ।
किमर्थं पृथगयं योगः क्रियते? इत्यत आह--`पृथग्योगकरणम्‌' इत्यादि। एकयोगे हि कार्यिणोः, निमित्तयोश्च समानत्वाद्यथासंख्यमत्र भवितव्यमिति कस्यचिदाशङ्का स्यात्‌। अतः पृथग्योगकरणं यथासंख्यनिरासार्थमिति प्रदर्शनार्थम्‌। ततश्चास्वरितत्वादेव यतासंख्यं न भविष्यति। आशङ्कातः कस्यचिन्मन्दबुद्धेः स्यादिति तन्निरासार्थं पृथग्योगकरणम्‌। अयमपि पूर्ववदेव विभक्तिस्वरापवादः।।

213. यतोऽनावः। (6.1.213)
`कण्ठ्यम्‌, ओष्ठ्यम्‌' इति। भावार्थे तद्धितः। `नाव्यम्‌' इति। नावा तार्यमित्यस्मिन्नर्थे `नौवयोधर्म' (4.4.91) इत्यादिना यत्‌। अत्र `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशे कृते व्यञ्जनस्य स्वरविधावविद्यमानत्वात्‌ ततः पूर्वस्य स्यादिति नावः प्रतिषेधः क्रियते। `ललाट्यम्‌' इति। `शरीरावयवाद्यत्‌' (5.1.6) इति यत्‌।।
214. ईडवन्दवृशंसदुहां ण्यतः। (6.1.214)
`ईड स्तुतौ' (धा.पा.1667) `वदि अभिवादनस्तुत्योः' (धा.पा.11) `वृङ्‌ सम्भक्तौ' (धा.पा.1509) `शंस स्तुतौ' (धा.पा.728) [शंसु--धा.पा.] `दुह प्रपूरणे' (धा.पा.1014)--एतेभ्यो धातुभ्यः `ऋहलोर्ण्यत्‌' (3.1.124) इति ण्यत्‌ प्रत्ययः। कस्मिन्‌ पुनः प्राप्त इदमारभ्यते? इत्याह--`द्व्यनुबन्धकत्वात्‌' इत्यादि। अथ कथं पुनर्वार्यमित्यत्र ण्यत्प्रत्ययः, यावता `एतिस्तुशासु' (3.1.109) इत्यादिना विशेषविहितेन क्यपा भवितव्यम्‌? इत्याह--`वार्यम्‌' इत्यादि। ननु च वृङोऽपि क्यपैव भवितव्यम्‌। `वृ' इति सामान्यनिर्देशात्‌? इत्याह--`क्यब्विधौ हि' इत्यादि।।

215. विभाषा वेण्विन्धानयोः। (6.1.215)
`णुप्रत्ययान्त' इति। तद्विधौ `स्थो णुः' (द.उ.1.147) इत्यतो णुग्रहणानुवृत्ते। `यदि चानशन्तः' [`यदा--काशिका] इति। `ताच्छील्यवयोवचनशक्तिषु चानश्‌ (3.2.129) इत्यनेन। `अथ शानजन्तः' इति। `लट) शतृशानचो' (3.2.124) इत्यादिना। `लसार्वधातुकनिघाते कृते' इति। `तास्यनुदात्तेत्‌' (6.1.186) इत्यादिना। इन्धाने' इति। अस्यानुदात्तत्वात्‌। `उदात्तनिवृत्तिस्वरेण' इति। `अनुदात्तस्य च यत्रोदात्तलोपः'(6.1.161) इत्यनेन।
`वेणुः' इत्यादि। `संज्ञायामुपमानम्‌' (6.1.204) इत्यस्यावकाशः--चञ्चा, वर्घ्रिकेति, अस्या विभाषाया अवकाशः--अनुपमानो वेणुशब्दः शुष्को वने वेणुरिति वेति, यदा वेणुरिवेत्युपमानवेणुशब्दः कस्यचित्‌ संज्ञा भवति तदा `संज्ञायामुपमानम्‌' (6.1.204) इति तस्याद्युदात्तत्वमिष्यते, तच्च पूर्वविप्रतिषेधाल्लभ्यते।।

216. त्यागरागहासकुहश्वठक्रथानाम्‌। (6.1.216)
`कुह विस्मापने', (धा.पा.1901) `शठ श्वठ सम्यगवभाषणे' (धा.पा.1854,1855)--एतौ चौरादिकौ। `श्रथ श्लथ क्रथ वलथ हिंसार्थाः' (धा.पा799,801,802)।।

217. उपोत्तमं रिति। (6.1.217)

218. चङ्यन्यतरस्याम्‌। (6.1.218)
`मा हि चीकरताम्‌' इति। `सन्वल्लघुनि चङ्परेऽनग्लोपे' (7.4.93) इत्यभ्यासस्येत्त्वम्‌। `अटि प्रतिषिद्धे' इति। यद्यटः प्रतिषेधो यस्य तस्यैव स्वरः स्याद्धात्वकारस्य। `हि च' इति `निघातः' इति। प्रतिषिद्ध इत्यपेक्षते। यदि निघातो न प्रतिषिध्येत, तदा चङन्तस्योदात्तस्याभाव एव स्यात्‌।
`मा हि दधत्‌' इति। `विभाषा धेट्श्व्योः' (3.1.49) इति च्लेश्चङ्‌।।

219. मतोः पूर्वमात्संज्ञायां स्त्रियाम्‌। (6.1.219)
`उदुम्बरावती' इति। उदुम्बरा अस्यां सन्तीति चातुरर्थिको मतुप्‌, `मतौ बह्वचोऽनजिरादीनाम्‌' (6.3.119) इति दीर्घत्वम्‌। `शरावती' इति। अत्र `शरादीनाञ्च' (6.3.120) इति। `मतोरिति किम्‌ गवादिनी' इति। `मतोः' इत्यस्मिन्ननुच्यमाने तत्सम्बद्धं पूर्वग्रहणमपि नोच्येत, संज्ञाशब्दस्याकारमात्र स्योदात्तत्वं प्रसज्येत। पूर्वग्रहणं मतोरनन्तरस्यास्य यथा स्यात्‌। इह मा भूत्‌--सानुमतीति। लक्षणप्रतिपदोक्त परिभाषया (व्या.प.3) चेहैव स्यात्‌--श्यमावती, उदुम्बरावतीत्यादि न स्यात्‌। पूर्वग्रहणात्‌ पूर्वमात्रस्य भवति।।

220. अन्तोऽवत्याः। (6.1.220)
`अजिरवती' इत्यादि। पूर्ववन्मतुप्‌। `पित्त्वादनुदात्तत्वं प्राप्तम्‌' इति। अतसतस्यायमपवाद इति शेषः। अथावत्या इत्युच्यमाने राजवतीत्येतस्मान्न भवति, अस्ति ह्येतदपि नलोपे कृतेऽवतीशब्दान्तम्‌? इत्याह--`स्वरविधौ' इत्यादि। कथमुदाहरणम्‌, यावत मतोर्वत्वस्यासिद्धत्वादत्रादतीशब्दान्तत्वं नास्ति? इत्याह--`वत्वं पुनः'--इत्यादि। पुनःशब्देन नलोपाद्विशेषं दर्शयति। लोपो ह्यसिद्धः, वत्वं पुनः सिद्धम्‌। कुतः? आश्रयात्‌। आश्रयः स्वरविधौ निमित्तत्वेनोपादानमित्यर्थः। अवतीशब्दस्यान्तोदात्तत्वं ब्रुवता वत्वमाश्रितम्‌, तस्मादाश्रयात्तस्य सिद्धत्वम्‌, अन्यथैव वचनमनर्थकं स्यात्। न हि वत्वस्य सिद्धत्वमन्तरेणावतीशब्दान्तं किञ्चिदस्ति।।

221. ईवत्याः। (6.1.221)
अयमपि पित्त्वानुदात्तस्यैवापवादः `अहीवती' इत्यादि। `शरादीनाञ्च' (6.3.120) इति दीर्घः, `संज्ञायाम्‌' (8.2.11) इति च वत्वम्‌।।

222. चौ। (6.1.222)
`उदात्तनिवृत्तिस्वरापवादोऽयम्‌' इति। `दधीचः' इति। दध्यञ्चतीति क्विन्‌, `गतिकारकोपपदात्‌' (6.2.139) इत्युत्तरपदप्रकृतिस्वरेणाञ्चेरकार उदात्तः। विभक्तावजादावसर्वनामस्थाने `अचः' (6.4.138) इत्यकारलोपे कृते `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इत्युदात्तनिवृत्तिस्वरः प्राप्नोति, अतस्यस्याय मपवादः।
`चावतद्धिते' इत्यादि। यदिदमञ्चेः पूर्वस्यान्तोदात्तत्वं विधीयते, तदा तद्धितं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानञ्चेदम्‌--अन्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा, तेन तद्धिते न भविष्यतीति।।

223. समासस्य। (6.1.223)
`राजपुरुषः' इत्यादिषूदहरणेषु समासपदानां तस्मिंस्तस्मिन्‌ स्वरे प्राप्ते सतीदमारभ्यते, स आख्यायते। राजशब्दे तावत्‌ `कनिन्‌ युवृषितक्षिराजि' (द.उ.6.51) इति कनिन्प्रत्ययान्तत्वात्‌ नित्स्वरेणाद्युदात्तत्वम्‌। एवं पुरुषेऽपि, स हि `पुरः कुषन्‌' (द.उ.6.51) इति कुषन्प्रत्ययान्तो व्युत्पाद्यते। ब्रह्मण इदमिति `तस्येदम्‌' (4.3.120) इति ब्राह्मणशब्दोऽणन्तः प्रत्ययस्वरेणान्तोदात्तः। `कलस्तृपश्च' (दा.उ.8.107) इति `बृषादिभ्यश्चित्‌' (द.उ.8.109) बहुलवचनात्‌ `कमेर्बुक्‌' (द.उ.8.114?) इति कम्बलशब्दो व्युत्पाद्यते, तेनायं चित्स्वरेणान्तोदात्तः। कन्यशब्दोऽन्तस्वरित; `अध्न्यादयश्च' (द.उ.8.14) इति निपात्यते। अथ वा--`कनी [`कन'--धा.पा.] दीप्तिकान्तिगतिषु' (धा.पा.460) इत्यस्मात्‌ `ऋहलोर्ण्यत्‌' (3.1.124) इति ण्यत्‌, `कन्यायाः कनीन च' (4.1.116) इति निपातनात्‌ वृद्ध्यभावः। तित्स्वरेणायमन्तस्वरितः सम्पद्यते। स्वनशब्दः `स्वनहसोर्वा' (3.3.62) इत्यबन्तत्वात्‌ धातुस्वरेणाद्युदात्तः। पटत्‌ पटद्‌ ष्यन्यत इति पटहशब्दः पृषोदरादित्वादन्तोदात्तः। शब्दशब्दः `शाशपिभ्यां ददनौ' (द.उ6.48) इति दन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः। पचादिषु `नदट्‌' इति पठ्यते, तेन `टिड्ढाणञ्‌' (4.1.15) इति ङीपि कृते तत्र च `यस्येति च' (6.4.148) इत्यकारलोपे कृत उदात्तनिवृत्तिस्वरेणान्तोदात्तो नदीशब्दो भवति। घोशब्दो घञन्तत्वान्‌ ञित्स्वरेणाद्युदात्तः। पृषत्समिच्छब्दौ प्रातिपदिकस्दरेणान्तोदात्तौ।
अथ राजपृषत्‌, ब्राह्मणसमिदित्यत्र कथमन्तो भवति, यावता योऽत्र समासस्यान्तो नासौ स्वरभाक्‌ यस्तु तस्मात्‌ पूर्वः स तकारेण व्यवहितः? इत्याह--`स्वरविधौ' इतद्यादि। `हलन्तेऽपि' इति। समासस्येदं विशेषणम्‌। `अन्तोदात्तत्वम्‌' इति। समासे येऽचः पूर्वे तदपेक्षया परस्याचोऽन्तत्वं वेदित्वयम्। तेन `नानपदस्वरस्यापवादः' इति। समासे हि पदानां पृथक्‌ स्वरो भवति। यदिवं नोच्येत ततो नानापृथक्पदानां स्वरः प्राप्नोति। अतस्तदपवादोऽयमुच्यते।।

इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां

काशिकाविवरणपञ्चिकायां षष्ठाध्यायस्य

प्रथमः पादः।।
- - -