काशिका (पदमञ्जरीव्याख्यासहिता)/चतुर्थोऽध्यायः/चतुर्थः पादः
← तृतीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) चतुर्थः पादः [[लेखकः :|]] |
अथ चतुर्थाध्याये चतुर्थः पादः---4
पदमञ्जरी
प्राग्वहतेष्ठक् ।। 4.4.1 ।।
तदाहेति । `वाक्यादेतत्प्रत्ययविधानम्' इति वक्ष्यति, न च वाक्याद् द्वितीया सम्भवति; अप्रातिपदिकत्वात् । तेन तदिति कर्ममात्रं निदिश्यते, न तु द्वितीयासमर्थविभक्तिः ।
माशब्द इत्याहेति । शब्दो माकारीत्याहेत्यर्थः । संसर्गरूपस्य वाक्यार्थस्येतिकरणेन प्रत्यवमर्शे सति वचनक्रियां प्रति कर्मत्वं सम्भवति, नान्यथेति मत्वैष विग्रहः । वाक्यादेतत्प्रत्ययविधानमिति । एतच्चाहौ प्रभूतादिभ्यः पुनर्वचनाल्लभ्यते, अन्यथा प्रभूतादयो माशब्दादय एव भवन्तु, किं पृथग्वचनेन !
आहाविति । आहेति पदे प्रकृतिभागस्यागन्तुकेनेकारेणेदमोऽनुकरणम् । तत्र शब्दे कार्यस्यासम्भवादर्थप्रत्ययविधिः क्रियाविशेषणादिति । तदन्ताभिधायिन इत्यर्थः ।
पृच्छताविति । तिङन्तानुकरणमेतत् । एवं गच्छताविति । तिङन्तार्थे तु प्रत्ययः । सुस्नातं पृच्छतीति । सुस्नातं भवता, सुस्नातो भवानित्येवं वा पृच्छतीत्यर्थः । सौखरात्रिक इति । सुखरात्रिं पृच्छति । एवं यः पृच्छति, सा एवमुच्यते । एतेन सौखशायनिको व्याख्यातः । अनुशतिकादित्वादुभयपदवृद्धिः । गौरुतल्पिक इति । तल्पशब्देन भार्या लक्ष्यते ।।
तेन दीव्यति खनति जयति जितम् ।। 4.4.2 ।।
सर्वत्र करणे तृतीयेति । दीव्यत्यादावभिहितत्वात्कर्तरि तृतीया नोपपद्यत इति तत्साहचर्याज्जितमित्यनेनापि योगे करण एव तृतीयेति सर्वशब्दार्थः । तेन देवदत्तेन न जितमित्यत्र न भवति । हेतुतृतीया तु नाशङ्किता; अनभिधानात् । न हि हेतुतृतीयान्तावुत्पद्यमानेन ठका विग्रहवाक्यार्थस्याभिधानमस्ति ।
प्रत्ययार्थ इति । निर्द्धारण एषा सप्तमी, सामान्यापेक्षमेकवचनम् । इह दीव्यतीत्यादौ तिपो बहवोऽर्थाः---एकत्वसङ्ख्या, वर्त्तमानकाले, युष्मदस्मद्व्यतिरेक इति, तेषु मध्य इत्यर्थः । तदेव दर्शितम् । सङ्ख्याकालयोरविवक्षेति । नान्तरीयकत्वात् । अवश्यं हि यया कयाचित्सङ्ख्य्या येन केनचित्कालेन निर्देश इति तयोरुपादानम्, न तु तयोर्विवक्षा । तत आक्षिकौ आक्षिका इति द्विबह्वोरपि भवति, अक्षैरदीव्यदित्यादौ कालान्तरे चाक्षिक इति भवति, न्यायस्य तुल्यत्वात् पुरुषस्याप्यविवक्षा, तेनाक्षिकस्त्वम्, आक्षइकोऽहमित्यत्रापि भवति । यथैव तर्हि सङ्ख्याकालपुरुषाणामविवक्षा तथा कर्तुरपि प्राप्नोति, एकप्रत्ययवाच्यत्वात् ? नैष दोषः; कर्तुरविवक्षायामाख्यातोपादानमकिञ्चित्करं स्यात् । विपर्ययस्तु न भवति---कर्तुरविवक्षा कालादीनां विवक्षेति; कर्तुः प्रधानत्वात् । सङ्ख्यादिविशिष्टो हि कर्त्ताऽऽख्यातानां प्रधानभूतोऽर्थः, तेन स तावद्विवक्ष्यते, इतरेषां नान्तरीयकत्वादविवक्षा । किञ्च, साधनस्याप्यविवक्षायां जितमित्यस्योपादानमनर्थं स्यात् ।
इहाख्यातेषु क्रिया प्रधानभूता, गुणभूतः कर्त्ता, अत एव किं करोति देवदत्त इति क्रियाप्रश्ने पचतीत्याख्यातेनोत्तरं दीयते, न तु कृदन्तेन पाचक इतिः तस्य सत्त्वप्रधानत्वात् । किञ्च, यदि कृदन्तेष्विवाख्यातेष्वपि कर्ता प्रधानभूतः स्याद्, यथा पाचकस्यापत्यमित्यपत्यादिभिर्योगो भवति, तथाऽऽख्यातवाच्यस्यापि स्यात् पचत्ययमिति, क्रियावेशः स्याद्, यथा---पाचकस्तिष्ठतीति । तस्मात्क्रियाप्रधानमाख्यातम् । ततश्च तद्रथे विधीयमानः प्रत्ययोऽपि क्रियाप्रधानः स्यादिति तदन्तस्यापत्यादिभिर्योगः क्रियावेशश्च न स्यात्---आक्षिकस्यापत्यमाक्षिकं पश्येति । तत्राह---क्रियाप्रधानत्वेऽपि चाख्यातस्येति । आख्यायतेऽनेन क्रिया प्रधानभूतेत्याख्यातस्तिङन्तः, `कृत्यल्युटो बहुलम्' इति करणे क्तः, स्वनिकायप्रसिद्धिरेषा । स्वभावादिति । यथा `तेनैकदिक्', `तसिश्च' इत्येतस्मिन्नर्थे विधीयमानयोरण्तयोस्सत्त्वभूतार्थाभिधायित्वम्, विपर्ययश्च---सौदामनी विद्युत्सुदामतो विद्युदिति, तथात्रापि । न हि स्वभावः पर्यनुयोगमर्हति ।।
संस्कृतम् ।। 4.4.3 ।।
योगविभाग उत्तरार्थ इति । उत्तरोऽपवादः संस्कृत एव यथा स्यात् ।।
कुलत्थकोपधादण् ।। 4.4.4 ।।
कुले तिष्ठति कुलत्थः, अस्मादेव निपातनात्सकारस्य तकारः । केचित्पुनः सकारमेवाधीयते ।।
नौद्व्यचष्ठन् ।। 4.4.7 ।।
इह ठगधिकारे सूत्रे क्वचित्प्रत्ययस्यानुबन्धो ङीषर्थः । सहि कि सांहितिकः, किं वानुबन्धः ? इति तत्र सन्देहे विपयपरिगणनं करिष्यन्श्लोकवार्त्तिककारः सर्वानेव षितः परिगणयति---आकर्षादिति---यदि तु यत्र सन्देहस्तानेवोपादायैतावन्तष्ठगधिकारे षित इत्युच्येत, तदा आकर्षादिषु प्रत्ययस्याषित्त्वमनार्षमाशङ्क्येत । कुसीदसूत्रादिति । कुसीदादिकं सूत्रं यस्य तत्कुसीदसूत्रं कुसीदशब्दश्च, दशैकादशशब्दश्च ।
ननु सप्तैते भवन्ति, कुसीदादिसूत्रेण द्वयोः षितोर्विधानात् ? इत्यत आह---विधिवाक्यापेक्षं च षट्त्वमिति । सप्तानां प्रत्ययानां विधिवाक्यापेक्षमौपचारिकं पट्त्वमाश्रित्य `षितः षडेते' इत्युक्तम् ।।
आकर्षात् ष्ठल् ।। 4.4.9 ।।
आकर्षेति । `पुंसि संज्ञायां घः प्रायेण' इति अधिकरणे घः ।।
पर्पादिभ्यः ष्ठन् ।। 4.4.10 ।।
पर्पादिषु `पादः पत्' इति पठ्यते, पादाभ्यां चरति पदिकः, `पद्यत्यतदर्थे' इत्यत्र वक्ष्यति--`पद्भाव इके चरतावुपसङ्ख्यानम्' इति, सोऽस्यैव प्रपञ्चार्थः ।।
श्वगणाट्ठञ् च ।। 4.4.11 ।।
श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ्यते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह---श्वादेरिञीत्यत्रेति ।।
वेतनादिभ्यो जीवति ।। 4.4.12 ।।
धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् ।।
वस्नक्रयविक्रयाट्ठन् ।। 4.4.13 ।।
वसेर्वस्नम्=मूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ।।
आयुधाच्छ च ।। 4.4.14 ।।
आयुध्यतेऽनेनेति आयुधम्, `घञर्थे कविधानम्' इति कप्रत्ययः ।।
हरत्युत्सङ्गादिभ्यः ।। 4.4.15 ।।
हरति = नयति, उपादत्ते वा ।।
भस्त्रादिभ्यः ष्ठन् ।। 4.4.16 ।।
भस्त्रम् = चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते, `हूयामाश्रुभसिभ्यस्त्रन्' इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ्यते, निपातनाच्छीर्षभावः सप्तमीसमासश्च, `तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् ।।
विभाषा विवधवीवधात् ।। 4.4.17 ।।
पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः = उभयतो बद्धशिक्योंऽसवाह्यः काष्ठविशेष उच्यते ।
वीवधशब्दो वार्त्तिके दर्शनात्सूत्रे प्रक्षिप्तः ।।
अण्कुटिलिकायाः ।। 4.4.18 ।।
कुटिलव्याधानामुपरमणम् = कुटिलिका, संज्ञायां कन् ।।
त्रेर्मम्नित्यम् ।। 4.4.20 ।।
ड्वितः क्त्रिरित्ययं त्रिशब्दो गृह्यत इति । सङ्ख्यावचनस्त्वनभिधानान्न गृह्यते । उप्त्रिममिति । वच्यादिसूत्रेण संप्रसारणम् ।
नित्यगंरहणं स्वातन्त्र्यनिवृत्त्यर्थमिति । प्रत्ययरहितस्य त्र्यन्तस्य प्रयोगः स्वातन्त्र्यम्, स्वातन्त्र्यनिवृत्तौ सत्यां यो गुणस्तं दर्शयति---त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवतीति । एवकारव्यवच्छेद्यं दर्शयति---विषयान्तरे न प्रयोक्तव्यमिति । ननु विभाषया वाक्ये प्रसक्ते नित्यग्रहणं क्रियमाणं निर्वृत्ताधइकारे तद्विषयमेव वाक्यं निवर्तयितुमर्हति---पक्त्रिणा निर्वृत्तमिति, यथा---`अन उपधालोपिनोन्यतरस्याम्' `नित्यं संज्ञाच्छन्दसोः' इति, ततश्च विषयान्तरगतत्र्यन्तस्य स्वातन्त्र्यं स्यादेव कृत्रिमर्हत्सुविहितमिति ? एवं मन्यते---योगविभागोऽत्र कर्तव्यः, `त्रेर्मब्भवति निर्वृत्ते' इत्येको योगः, ततः `नित्यम्' । अत्र त्रेर्मबित्येवापेक्ष्यते न निर्वृत्त इति; योगविभागसामर्थ्यात् । तेन सर्वविषयस्वातन्त्र्यस्य नित्यग्रहणेन निवृत्तिः क्रियत इति । नन्वेवमपि `नित्यम्' इत्यत्र निर्वृत्तमित्यस्यानपेक्षणात्स्वातन्त्र्यान्तरे । नित्यमुपाधिः प्राप्नोति ? सत्यम् ; अनभिधानात्तु तथानाश्रीयते ।
भावप्रत्ययान्तादिमब् वक्तव्य इति । `तेन निर्वृत्तम्' इत्येतस्मिन्नर्थे । पाकेन निर्वृत्तं पाकिममिति । एवं च त्र्यन्तादपि भावाभिधायिन इमपि कृते यस्येति लोपे च कृत्रिममित्यादि सिद्धं भवति, स्वरेऽपि नास्ति विशेषः, उदात्तनिवृत्तिस्वरेणैवोदात्तत्वम् । सूत्रारम्भस्तु नित्यग्रहणेन स्वातन्त्र्यं निवर्तयिष्यामीत्येवमर्थे वेदितव्यः ।।
अपमित्ययाचिताभ्यां कक्कनौ ।। 4.4.21 ।।
अपमित्येति । `उदीचां माङो व्यतिहारे' इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्, `मयतेरिदन्यतरस्याम्' इतीत्वम्, `क्त्वातोसुन्कसुनः' इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ।।
संसृष्टे ।। 4.4.22 ।।
ननु यद्येन संसृष्टं तत्तेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानम् = संस्कारः, एकीभावस्तु = संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात्---विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्त्तिधर्मत्वात् । किञ्च `कुलत्थकोपधादण्' संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ।।
चूर्णादिनिः ।। 4.4.23 ।।
चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ।।
लवणाल्लुक् ।। 4.4.24 ।।
लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः--षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते---प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ।।
व्यञ्जनैरुपसिक्ते ।। 4.4.26 ।।
ओदनादिषु रसो येन व्यज्यते तद्व्यञ्जनम् । बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । उपसिक्तः = सेचनेन मृदूकृतः । इह यद्येनोपसिक्तं तत्तेन संसृष्टं भवति, तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम्---व्यञ्जनेभ्य उपसिक्त एव संसृष्टे यथा स्यात्संसृष्टमात्रे मा भूत्, दध्ना संसृष्टा स्थालीति ।।
तत्प्रत्यनुपूर्वमीपलोमकूलम् ।। 4.4.28 ।।
क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे---वर्तते = वर्तनं करोति, सुप्यते = स्वापः क्रियते, शोभनमोदनं पच्यते = ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति ।
प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, `ऋक्पूरब्धूः' इत्यिकारः समासान्तः, `द्व्यन्तरुपसर्गेभ्योऽप ईत्' इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । `ऊदनोर्देशे' इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, `अच् प्रत्यन्ववपूर्वात्' इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ।।
परिमुखं च ।। 4.4.29 ।।
पारिमुखिक इति । परिरिह वर्तते, तस्य च `अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञा, `पञ्चम्यपाङ्परिभिः' इति पञ्चमी, `अपपरिबहिरञ्चवः' इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ।।
प्रयच्छति गर्ह्यम् ।। 4.4.30 ।।
द्विगुणार्थं द्विगुणमिति । द्वैगुणिक उत्तमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्ह्येकगुणं दत्त्वा द्विगुणं गृह्णाति, अत एव तद्गर्ह्यं भवतीति । तस्माद् द्विगुणार्थे द्विगुणशब्दो वर्तयितव्यः ।
वार्धुषिक इति । वृद्ध्यर्थे धने वृद्धिशब्दः । प्रकृत्यन्तरमेवेति । एतच्च वार्धुषिक इत्येतद्वृत्तिविषयमेव । नियतविषया अपि हि शब्दा भवन्ति, वृद्धिशब्दादनभिधानान्नैव भविष्यति, तेन वार्धिक इत्यनिष्टप्रसङ्गो नोद्भावनीयः । अत कथम् `वार्धुदासमकम्पत ववान्यस्य च वार्द्धुषेः' इति ? स्वच्छन्दवाच ऋषयः ।।
कुसीददशैकादशात् ष्ठन्ष्ठचौ ।। 4.4.31 ।।
तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युत्तमर्णस्याभिधानमिष्यते, न चोत्तमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मात्तादर्थ्यात्ताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृत्तेः सामानाधिकरण्ये सति विशेषणसमासः, `संख्याया अल्पीयस्याः' इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति---दशैकादशान्प्रयच्छतीति ।।
रक्षति ।। 4.4.33 ।।
सामाजिक इति । समाजः = समूहः, समजत्यस्मिन्निति कृत्वा, एवं सन्निवेशः ।।
शब्ददर्दुरं करोति ।। 4.4.34 ।।
शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति---शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ।।
पक्षिमत्स्यमृगान्हन्ति ।। 4.4.35 ।।
स्वरूपस्य तद्विशेषणां पर्यायाणां च ग्रहणमिष्यत इति । अत्र हेतुः `स्वं रूपम्' इत्यत्रैवोक्तः । मात्स्यिक इति । `सूर्यतिष्य' इति लोपो न भवति; मत्स्यस्य ङ्यामिति परिगणनात् । हारिणिकः, सौकरिक इति । अत्र मृगपर्यायस्योदाहरणं किमित न प्रदर्शितम्, यथा पूर्वयोः द्वावपि ह्येतस्माद्विशेषौ, आरण्याश्चतुष्पादो मृगाः उच्यन्ते, हरिणपर्यायोऽपि मृगशब्दोऽस्ति, तदपेक्षया हारिणिक इति पर्यायोदाहरणम् ।।
परिपन्थं च तिष्ठति ।। 4.4.36 ।।
तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति `कालभावाध्वगन्तव्याः' इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते ।
लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह---परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह---स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ।।
माथोत्तरपदपदव्यनुपदं धावति ।। 4.4.37 ।।
माथशब्दः पथिपर्याय इति । मथ्यते प्रशाद्यते गन्तृभिरिति कृत्वा । दण्डाकारो मथो दण्डमाथः ।।
आक्रन्दाट्ठञ्च ।। 4.4.38 ।।
आक्रन्दो देश इति । दुः खितानां रोदनस्यायनमार्त्तायनमुच्यते, आर्त्तैरीयते प्राप्यत इति कृत्वा । आर्त्तायनमार्त्तानां त्राता आक्रन्द इत्युच्यते, आक्रन्द्यते आर्त्तैराहूयत इति कृत्वा ।।
पदोत्तरपदं गृह्णाति ।। 4.4.39 ।।
पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङन्तमुत्तरपदस्य पदत्वाव्यभिचाराद्, अत एवाह---पदशब्द उत्तरपदं यस्येति ।।
प्रतिकण्ठार्थललामं च ।। 4.4.40 ।।
कण्ठं कण्ठं प्रति प्रतिकण्ठम्, `यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः । आभिमुख्ये वा, `लक्षणेनाभिप्रती आभिमुख्ये' इति । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवति' अनभिधानात् ।।
धर्म चरति ।। 4.4.41 ।।
अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ।।
प्रतिपथमेति ठँश्च ।। 4.4.42 ।।
प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, `ऋक्पूरब्धूः' इत्यकारः समासान्तः ।।
समवायान् समवैति ।। 4.4.43 ।।
समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते---द्रव्ये गुणाः समवयन्तीति ।।
परिषदो ण्यः ।। 4.4.44 ।।
परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्, `सदिरप्रतेः' इति षत्वम् ।।
संज्ञायां ललाटकुक्कुट्यौ पश्यति ।। 4.4.46 ।।
संज्ञानं संज्ञा = प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ्यर्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्त्तते, यावद्योगे च वर्त्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते ।
यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति---सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः ।
कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह---देशस्याल्पतयेति । एतदेव स्पष्टयति---यो हि भिक्षुरिति । भिक्षुः = संन्यासी ।।
तस्य धर्म्यम् ।। 4.4.47 ।।
धर्मः = अनुवृत्त आचारः, ततोऽनपेतं धर्म्यम्, `धर्मपथ्यर्थन्यायादनपेते' इति वचनात्। दौवारिकमिति । `द्वारादीनां च' इति वृद्धिप्रतिषेधः, ऐजागमश्च ।।
ऋतोऽञ् ।। 4.4.49 ।।
होतुर्धर्म्यं हौत्रमिति । होतृशब्दस्य महिष्यादिषु पाठादपपाठोऽयम्, पोतुर्धम्यमिति तु पाठः । अपर आह---यजमानसाहचर्यादृत्विग्वचनस्य होतृशब्दस्य महिष्यादिषु पाठः, अयं तु क्रियाशब्द उदाहृत इति ।
नराच्चेति वक्तव्यमिति । नृशब्दात्सूत्रेणैवाञि नारमिति सिद्धे नरशब्दाट्ठको निवृत्त्यर्थं वचनम्, अनभिधानं तु दुर्ज्ञानम् ।।
अवक्रयः ।। 4.4.50 ।।
अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम = स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः ।
नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृत्तत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ।।
तदस्य पण्यम् ।। 4.4.51 ।।
पण्यमिति विशेषणामत्यादि । इह यो विशेषणमुपाधिर्वोपादीयते द्येत्ये तस्मिस्तेन भवितव्यम्, तद्यथा---`सास्य देवता', इन्द्रो देवता अस्य ऐन्द्रः स्थालीपाक इति देवतात्वं वृत्तावन्तर्भवति, तद्वदत्रापि पण्यत्वमन्तर्भवतीति नात्रापूर्वं किञ्चित् ।।
किशरादिभ्यष्ठन् ।। 4.4.53 ।।
किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ।।
शलालुनोऽन्यतरस्याम् ।। 4.4.54 ।।
शलालुक इति । `इसुसुक्तान्तात्कः' ।।
शिल्पम् ।। 4.4.55 ।।
कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति ।
ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह---मृदङ्गेत्यादि । मृदङ्गवादनशब्दात्तु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृत्तेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ।।
मड्डकझर्झरादणन्यतरस्याम् ।। 4.4.56 ।।
अयमेव निर्देशो ज्ञापयति---`तद्वादनवृत्तिभ्यो मृदङ्गादिभ्यः प्रत्ययः' इति । न हि मुख्यमड्डुकझर्झरयोः शिल्पेन समानाधिकरण्यमुपपद्यते ।।
प्रहरणम् ।। 4.4.57 ।।
प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, `इणः षः' इति विसर्जनीयस्य षत्वम् ।।
परश्वधाट्ठञ्च ।। 4.4.58 ।।
परश्वधः = परशु ।।
शक्तियष्ट्योरीकक् ।। 4.4.59 ।।
शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ? `केऽणः' इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृत्तेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्त्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट्योरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्त्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानात्तुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमित्तमेव ।।
अस्तिनास्तिदिष्टं मतिः ।। 4.4.60 ।।
यद्यस्ति मतिर्यस्य स आस्तिकः, चोरेऽपि प्राप्नोति, तस्यापि मतिसद्भावात् ? तत्राह---न चेति । तद्विपरीत इति । परलोको नास्तीति मतिर्यस्य तन्नास्तिकः= लौकायतिकः, न त्वचेतनः पदार्थः, मत्यभावमात्रे प्रत्ययस्यानिष्टत्वात् । दिष्टम् = दैवम्, तद्विषया मतिर्यस्य स दैष्टिकः, वृत्तावपि प्रमाणानुपातिनी मतिर्यस्येति दैववित्, प्रमीयते तेभ्यो दैवमिति । प्रमाणशब्देनेतिहासपुराणादिविवक्षितम् ।
अस्तिनास्तिशब्दौ निपाताविति । तेन प्रातिपदिकाधिकारो न बाध्यते इति भावः । वचनसामर्थ्याच्चेत्यभ्युपगम्यवादः ।।
शीलम् ।। 4.4.61 ।।
शीलं स्वभाव इति । शील्यते पुनः पुनः क्रियतेऽनेनेति कृत्वा । अपूपभ7णं शीलमस्येति । शीलविषये शीलत्वमारेप्य सामानाधिकरण्येन व्यपदेशः । भक्षणक्रियेत्यादि । शीलं तावदुपात्तत्वादन्तर्भवति, क्रियाविषयत्वाच्च शीलस्य क्रियाद्यन्तर्भवति, स्वभावाच्च भक्षणक्रिया, न निष्पादिका ।।
छत्त्रादिभ्यो णः ।। 4.4.62 ।।
छत्त्रशीलता शिष्यस्य दर्शयितुमाह---छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि `हस्मन्त्रन्क्विषु च' इति ह्रस्वः । छत्त्रशील इति । छत्त्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् छत्त्रावरणं शीलमस्य छात्त्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यात्तु तथा नाश्रीयते ।
उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य `आतश्चोपसर्गे' इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ्यते, तत्र चोरयतेः `ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ।।
कर्माध्ययने वृत्तम् ।। 4.4.63 ।।
कर्म = क्रिया, तच्च स्खलितमपचाररूपं विवक्षितम्, न तच्छीलं कर्म, तेनेह न भवति---अध्ययने जपो वृत्तोऽस्येति । एतच्चभिधानस्वाभाव्याल्लभ्यते । तदेतद्वक्ष्यति---यस्याध्ययने नियुक्तस्येत्यादि । एकमन्यदिति । सम्यक्पाठापेक्षया ।।
बह्वच्पूर्वपदाट्ठच् ।। 4.4.64 ।।
स्वरभेदेऽप्यन्यत्वं भवति, न वर्णभेद एवेत्याह---उदात्ते कर्त्तव्ये इति । उदात्तग्रहणं सम्यक्स्वरस्योपलक्षणम् । अनुदात्तग्रहणं चासम्यक्स्वरस्य ।।
हितं भक्षाः ।। 4.4.65 ।।
हितम्, भक्षाः---इति पदयोः पर्यवसानेन सम्बन्धः । अत्र `हितम्' इति सामान्योपक्रमत्वादेकवचनं नपुंसकत्वं च । `भक्षाः' इत्यपूपादिविशेषेषूपसंग्रहात्पुंल्लिङ्गं बहुवचनं च । अत एवाह---यत्तत्प्रथमासमर्थं हितं चेत्तद्भवति तच्च भक्षा इति ।
एवं तर्हीति । एवं च चतुर्थ्यर्थे प्रत्ययो न षष्ठ्यर्थे । कथं तर्हि पूर्वमुक्तमस्येति षष्ठ्यर्थ इति ? एवं तर्ह्यधिकारमात्रापेक्षया तदुक्तम् । अपर आह---`हितं भक्षास्तदस्मै' इति सूत्रच्छेदः, ततः `दीयते नियुक्तम्' इति तस्या एवेति ।
हितार्थः क्रिया चेति । हितार्थस्तावदु पात्तत्वादन्तर्भवति । भक्षणक्रियाप्यपूपादिशब्दानां लक्षणया तत्र वृत्तेरन्तर्भवति ।।
तदस्मै दीयते नियुक्तम् ।। 4.4.66 ।।
अव्यभिचारोनियोग इति । अस्मिन्पक्षे नियुक्तमिति क्रियाविशेषणत्वात्कर्मणि द्वितीया । अग्रभोजनमस्मै नियुक्तं दीयत इति । यद्यग्रभोजनं दीयते तदास्मै एवेत्येष नियोगार्थः । तेन कदाचिल्लोपेऽपि न नियुक्तताया हानिः ।
केचित्त्विति । अत्र पक्षे नियुक्तमित्यन्तसंयोगे द्वितीया ।।
श्राणामांसौदनाट्टिठन् ।। 4.4.67 ।।
`श्रा पाके' क्तः, क्षीरहविषोरेव निपातनाच्छभावाभावे `संयोगादेरातो धातोः' इति निष्टातकारस्य नकारः । श्राणा = यवागूः । मांसमिश्र ओदनो मांसौदनः ।
ठञेव कस्मान्नोक्त इति । लाघावात्स एव युक्तो वक्तुमिति भावः । न ह्यत्रेति । द्वे अप्येते प्रकृती पूर्वमेव वृद्धे, योऽपि `वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधः, स टिठन्यपि `न कोपधायाः' इति भवति । मासौदनग्रहणमित्यादि । ठञ्येव वक्तव्ये टिठनो वचनमेवात्र प्रमाणमिति तेषां भावः ।।
भक्तादणन्यतरस्याम् ।। 4.4.68 ।।
भजेर्भक्तम् = अन्नम् ।।
तत्र नियुक्तः ।। 4.4.69 ।।
नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति--नियुक्तोऽधिकृत इत्यादि । किञ्च--प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ।।
अध्यायिन्यदेशकालात् ।। 4.4.71 ।।
अधीते इत्यध्यायी, आवश्यके णिनिः, ग्रह्यादिलक्षणो वा । अध्यनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते इति । अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात्पर्युदासवृत्त्या, अभक्ष्यास्पर्शनीयवत् । तद्यथा---शूद्रादिप्राणिभिर्भक्ष्यमाणमपि लशुनमभक्ष्यमित्युच्यते, स्पृश्योऽपि चण्डालोऽस्पृश्य इत्युच्यते, अप्रतिषिद्धाभ्यां भक्ष्यस्पृश्याभ्यामन्यत्वात्; तद्वदिहापि श्मशानचतुर्दश्यौ स्वरूपेण देशकालावेव सन्तावप्रतिषिद्धाभ्यां देशकालाभ्यामन्यत्वाददेशकालशब्देनोच्येते । `अध्यनस्य' इत्येतदध्यायिना प्रत्ययार्थेन सन्निधापितत्वाल्लभ्यते ।।
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।। 4.4.72 ।।
व्यवहरति सम्भवति पणिना समानार्थः, आह हि---`व्यवहृपणोः समर्थयोः' इति; अस्ति विवादे---व्यवहारे पराजित इति, अस्ति विक्षेपे---शलाकां व्यहरतीति, अस्ति क्रियातत्त्वे; तदिह चरमस्य ग्रहणं तद्धितस्वभावादित्याह---व्यवहारः क्रियातत्त्वमिति । यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथानुष्ठानमित्यर्थः । वंशाः=वेणवः कठिना यस्मिन्वंशकठिनो देशः । वर्ध्री = चर्मविकारः कठिना अस्मिन्वर्ध्रकठिनः, आहिताग्न्यादित्वाद्विशेषणस्य परनिपातः । चक्रयुक्तेन शकटेन चरतीति चक्रचरः, स देशाननुक्रमेण चरन् तत्रानुष्ठेयाविपरीतं चरन्नेवमुच्यते । संस्थानप्रस्तारौ सन्निवेशौ ।।
निकटे वसति । 4.4.73 ।।
अरण्यं निवासे यस्य स आरण्यकः, `अरण्यान्मनुष्ये' इति वुञ् । भिक्षुः - संन्यासी । ग्रामात्क्रोशे इति । `यतश्च निर्द्धारणम्' इति पञ्चमी । अयं च विविषोऽभिधानस्वभावाल्लभ्यते ।।
आवसथात् ष्ठल् ।। 4.4.74 ।।
आवसत्येतमिति आवसथः, `उपसर्गे वसेः' इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ।।
तद्वहति रथयुगप्रासङ्गम् ।। 4.4.76 ।।
ननु य एवार्थो रथं वहतीति स एव रथस्य वोढेति, तत्र तस्येदं रथाद्यदित्येव सिद्धं नार्थो रथग्रहणेन ? ननु तत्रोक्तं रथाङ्गएवेष्यत इति, वोढर्यपि प्रयोगदर्शनादिष्यताम् ? इदं तर्हि प्रयोजनम्---द्वौ रतौ वहति द्विरथ्यः, `द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुग्मा भूत्, `रथसीताहलेभ्यो यद्विधौ' इति तदन्तविधिः । `युग्यं च पत्त्रे' इत्येव सिद्धम् । इह युगग्रहणमयुग्यमित्यत्र `ययतोश्चतदर्थे' इति स्वरार्थम्, निपातनस्य तु क्यबन्तत्त्रादेष स्वरो न स्यात् । रथाङ्गवचनोऽयं युगशब्दः, इह न भवति---युगं वहति राजा कलिं द्वापरं वेति । प्रासङ्गशब्दो वत्सानां दमनकाले स्कन्घे यत्काष्ठमासज्यते तद्वाची गृह्यते, प्रसज्यते इति प्रासङ्गः, इह न भवति---प्रसङ्गादागतः प्रासङ्गस्तं वहतीति । एतच्चाभिधानस्वभावाल्लभ्यते ।।
धुरो यड्ढकौ ।। 4.4.77 ।।
धूर्धूर्वतेः, `भ्राजभास' इति क्विप्, `राल्लोपः' । धुरं वहतीति धुर्य इति । `न भकुर्छुराम्' इति प्रतिषेधात् `हलि च' इति इति दीर्घाभावः । ढञत्र विधीयते, न तु ढकञ् । धौरेयो भविता पितुरिति च दृश्यते, धौरेयक इति स्वार्थिके कनि भवति ।
इह `धुरो ढक् च' इति वक्तव्यम्, चकारात्प्राग्घतीयो यद्भविष्यति ।।
खः सर्वघुरात् ।। 4.4.78 ।।
स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति `पूर्वकाल' इत्यादिना समासः, ऋक्पूरब्धूः' इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात् `परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा---`बन्धुनि बहुव्रीहौ' इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उत्तरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ।।
एकधुराल्लुक् च ।। 4.4.79 ।।
एकधुरादिति निर्देशः सर्वधुरादित्यनेन व्याख्यातः । चकारेण खोऽनुकृष्यते, तेन स तावद्विधेयः, प्रत्ययादर्शनस्य च लुक् संज्ञा । न चान्योऽत्र प्रत्ययः, तेन खस्यैव लुग्विज्ञायते, तस्य यदि लुक् स्याच्चकारेणानुकृष्य विधानमनर्थकं स्यात् । एकधुराल्लुगिति वक्तव्यम्, लुक् स्वभावादनन्तरस्व खस्य प्राकरणिकस्य यतो वा विधिरनुमास्यते, तदाह---तस्य च तुग्भवतीति एकधुरीण इति । एकां धुरं वहतीति तद्धितार्थे समासः, तत्रोक्तोऽकारः समासान्तः, ततः खः ।।
शकटादण् ।। 4.4.80 ।।
शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ? `तस्येदम्' इत्यण् भविष्यति, यो हि शकटं वहति शकटस्यासौ वोढा भवति ? तत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ।।
हलसीराट्ठक् ।। 4.4.81 ।।
इह यो हलं वहति सरीं च तस्यासौ वोढा भवति, तत्र तस्येदं हलसीराट्ठगित्येव हालिकः सौरिक इति सिद्धम्, नार्थोऽनेन ? अत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुङ् न भवतीति ।।
संज्ञायां जन्याः ।। 4.4.82 ।।
जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा । `जनिवध्योश्च' इति वृद्धिप्रतिषेधे `कृदिकारादक्तिनः' इति ङीष् ।।
विध्यत्यधनुषा ।। 4.4.83 ।।
पादौ विध्यन्ति पद्या इति । तदन्तीत्यर्थः । `पद्यत्यतदर्थे इति पद्भावः । ऊरव्या इति । `ओर्गुणः', `वान्तो यि प्रत्यये' ।
नन्वसमर्थत्वादिति । सापक्षमसमर्थं भवतीत्यसामर्थ्यम्, प्रत्ययार्थो ह्यत्र बाह्यम्, करणं धनुरपेक्षते । ननु व्यधनमत्र सापेक्षम्, करणक्रिययोः सम्बन्धात्, व्यधनं च प्रधानम्, क्रियाप्रधानत्वादाख्यातस्य, भवति च प्रधानस्यं सापेक्षस्यापि वृत्तिः, यथा---राजपुरुषः शोभन इति ? भवतु क्रियाप्रधानमाख्यातम्, तद्धितस्तु स्वभावात्साधनप्रधानः । क्रिया तु गुणभूतेत्युक्तम् सा च धनुरपेक्षत इत्यसामर्थ्यम् । अनभिधानच्चेति । अत्रैकोपपत्यन्तरमनभिधानमेव दर्शयति । न हीति । `धनुषा पद्यः' इत्युक्ते इत्थम्भूतलक्षणा सहयोगलक्षणा वा तृतीया गम्यते, न तु पादौ धनुषा विध्यतीत्ययं विवक्षितोऽर्थः । अवश्यं चैतदेवं विज्ञेयम्---असमर्थत्वादनभिधआनाच्चात्र प्रत्ययो न भवतीति । यो हि मन्यते---`अधनुषेति प्रतिषेधात्प्रत्ययो न भवति' इति, तस्य शर्कराभिः पादौ विद्ध्यति कण्टकैरूरू विद्ध्यतीत्यत्र प्रत्ययः स्यादेव ? एवं तर्हि विशेषोपलक्षणपरोऽत्र धनुषेति निर्देशः, न तु धनुषः करणत्वप्रतिषेधपर इत्यर्थः । धनुष्प्रतिषेधेनेति । `नित्यं समासेऽनुत्तरपदस्थस्य' इति षत्वमुपलक्षणत्वमेव प्रतिपादयति । यस्यामिति । तेनेह न भवति---चौरं विद्ध्यतीति । सम्भाव्यते हि प्रच्यवच्छेदनादिकायां चोरस्य व्यधनक्रियायां धनुषः करणत्वम् ।।
धनगणं लब्धा ।। 4.4.84 ।।
लब्धेति तृनन्तमेतत्, तृजन्ते तु `कर्तृकर्मणोः कृति' इति षष्ठ्या भवितव्यम् । तृनन्ते तु `न लोकाव्ययनिष्ठा' इति प्रतिषेधाद् द्वितीयैव भवति ।।
वशङ्गंतः ।। 4.4.86 ।।
`वश कान्तौ', वशनं वशः, `वशिरण्योरुपसङ्ख्यानम्' इत्यच् । कामः=इच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ।।
पदमस्मिन् दृश्यम् ।। 4.4.87 ।।
निर्देशादेव प्रथमा समर्थविभक्तिरिति । द्वितीया तु न भवति; दृश्यमिति क्यपा कर्मणोऽभिहितत्वात् । शक्यार्थे कृत्यप्रत्यय इति । तेन योग्यत्वे सति पदस्पर्शनाभावेऽपि पद्यः कर्दम इति प्रयोग उपपद्यत इति भावः । मुद्रा= सन्निवेशः, प्रतिरूपा मुद्रा प्रतिमुद्रा । नातिद्रवो नातिशुष्क इति । पांसवोऽति नात्यल्पा नातिबहुलाः पद्याः ।।
मूलमस्यावर्हि ।। 4.4.88 ।।
प्रथमासमर्थादिति । द्वितीयाया निमित्ताभावान्निर्देशादेव प्रथमैव भवतीति भावः । `वृहू उद्यमने', वादिरयं न बादिः । दृश्यते हि `उद्वृह रक्षः सहमूलमिन्द्र ह्यस्मुष्मिक् प्रवृहाण', `तद्ववर्हात्मनोदेवा' इति च आवर्हणमावर्हः=उत्पाटनम्, आवर्होऽस्यास्तीत्यावर्हि, सुष्ठु पक्वा न शक्यन्ते संग्रहीतुम् । मध्यतो लूयमाने कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ता इत्यर्थः ।।
संज्ञायां धेनुष्या ।। 4.4.89 ।।
यश्च प्रत्ययो निपात्यत इति । कुत्र ? अनिर्दिष्टार्थत्वात्स्वार्थे, तदाह---या धेनुरुत्तमर्णायेति । कथं पुनर्यति प्रकृते यप्रत्ययो निपात्यते ? तत्राहअन्तोदात्तोऽपि ह्ययमिष्यत इति । यति हि `तित्स्वरितम्' इति स्वरितः स्याद्, अन्तोदात्तश्चेष्यते, न केवलं संज्ञायाम्, अपि त्वन्तोदात्तोऽपीत्यपिशब्दस्यार्थः ।।
गृहपतिना संयुक्ते ञ्यः ।। 4.4.90 ।।
अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह---तत्रेति । अपर आह---गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ।।
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ।। 4.4.91 ।।
तत्र नावादीनां प्रथममूलान्तानां पञ्चानां द्वितीयमूलादीनां च त्रयाणां पूर्वं पृथक्पृथक् द्वन्द्वं कृत्वा ततो द्वयोरपरो द्वन्द्वः कृतः, न त्वष्टानां युगपत्सहविवक्षा; कि सिद्धं भवति ? न मूलयोः सारूप्यादेकशेषो भवति । का पुनरत्र समर्थविभक्तिः ? इत्यत आह---प्रत्ययार्थद्वारेणेति । द्वारम् = मुखम्, उपायः । इह तार्यादयः प्रत्ययार्थाः, तत्सम्बन्धे करणे कर्तरि हेतौ तुल्यार्थयोगे च यथासम्भवं तृतीयैव भवति । नाव्यमिति । अत्र तावत्तरणक्रियायां करणत्वम् ।
वयसा तुल्य इति । तत्र हेतुमाह---यो येन वयस्तुल्यः स तं प्रति वयस्यः । शत्रौ न भवतीति । किं तु मित्त्र एव भवति ।
ननु चेति । धर्मेण प्राप्यं सुखादि, फलमपि धर्मादनपेतमेव; कार्यस्य कारणाविनाभावादिति प्रश्नः । धर्मं यदनुवर्तत इति । अनादिः शिष्टसमाचारस्तज्जन्यो वाऽऽत्मगुणो धर्मः, यदनुष्ठानमनुवर्तते तद्धर्मादनपेदतम्, फलं तु धर्मादपैत्येवेति कुतः ? इत्याह---कार्यविरोधित्वादिति । धर्मस्य कार्यं सुखानुभवः, कार्यं विरोधि नाशकं यस्य स कार्यविरोधी, तस्य भावः कार्यविरोधित्वं तस्मादित्यर्थः । उत्पन्ने हि फले धर्मो नश्यति, अन्यथा सकृद्धर्मे कृत स्वर्गमनुभवतः प्रभवो न स्यात् ।
वधमर्हतीत्यर्थ इति । वध्यशब्दस्य `दण्डादिभ्यो यः' इत्यत्रार्थे व्युत्पादितत्वात्।
अनाम्यमभिभवनीयमिति । अनेकार्थत्वाद्धातूनामापूर्वो नमिरभिभवे वर्तते ।
पटादीनामुत्पत्तिकारणमिति । पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं यद्वस्तु तन्मूलशब्दवाच्यमित्यर्थः । तेनेति । मूलेन । तदिति । मूल्यम् । शेषीक्रियत इति । शेषीकरणमेवात्राभिभव इत्यर्थः । गुणभावमापद्यते कथमित्याह---मूलं हि सगुणं मूल्यं करोतीति । मूल्यमिह कर्तृ, मूलं कर्म, पटादिषु विक्रीयमाणेषु यन्मूलातिरिक्तं वस्तु लाभो नाम तन्मूल्यम्, गुणो भागः, स पुनरिह मूल्यमेव, तेन सह वर्तते सगुणः, हिशब्दो हेतौ । एतदुक्तं भवति---यस्मान्मूल्यमात्मनैव भागभूतेन सभागं मूलं करोति तस्मान्मूले मूल्यभिभूयते शेषीक्रियते, मूल्ये सति तेन गुणेन सगुणं मूलं भवतिः इयमेव चावनतिः, अयमेवाभिभवः, इदमेव शेषीकरणम् । लोके तु यावता द्रव्येण पटादिको विक्रीयते तत्र समुदाये मूल्यशब्दः प्रसिद्धः, नं मूलतिरिक्ते भागे, स च मूल्यसम्भवादौतत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगः सिद्धो भवति ।
सीता = हलाग्रम्, सम्पूर्वादिणः क्तः, समितम् = सङ्गतम्, निम्नोन्नतादिरहितं कृतमित्यर्थः, समीकृतमिति यावत् । द्विसीत्यमिति । द्वाभ्यां सीताभ्यां समीकृतमिति तद्धितार्थे समासः, ततः प्रत्ययः ।
तुलया सम्मितं तुल्यमिति । अत्र तुल्यार्थयोगे तृतीया । यद्यपि तद्योगे षष्ठ्यति भवति, तथापि नावादिभिस्साहचर्यात्तुलाशब्दादपि तृतीयासमर्थादेव प्रत्ययः । अत एव पूर्वमुक्तम्---`तृतीयासमर्थविभक्तिर्लभ्यते' इति । षष्ठ्यन्तादपि न कश्चिद्दोषः, न्यायस्तु कथितः । कथं पुनस्तुल्यस्य तुलया सदृशत्वमत आह---यथेति । एवं तदपीति । तदपि तुल्यं प्रतियोगिनं सादृश्येन परिच्छिनत्ति, एतद् व्युत्पाद्यत्वेन प्रदर्शितम् । सदृशपर्यायस्तुल्यशब्दः, नावयवार्थः कश्चित्, अत एव `तुल्यास्यप्रयत्नं सवर्णम्' इत्यत्रोक्तम्---`तुल्यशब्दः सदृशपर्यायः' इति ।।
धर्मपथ्यर्थन्यायादनपेते ।। 4.4.92 ।।
निर्देशादेवेति । सत्यर्थसम्भवेऽर्थान्तरस्य वा सम्भवे सति निर्देशादिति द्रष्टव्यम्, `धुरो यड्ढको' इत्यत्रातिप्रसङ्गो नोद्भावनीयः । संज्ञाधिकारादभिधेयस्य नियत इति । शास्त्रीयात् पथो यदनपेतं तत् पथ्यम्, न तु तस्मादनपेतश्चोरः ।।
छन्दसो निर्मिते ।। 4.4.93 ।।
प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः, `छन्दानुवृत्तिदुत्साध्या' इत्यादावकरान्तश्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ।।
उरसोऽण् च ।। 4.4.94 ।।
औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ।।
हृदयस्य प्रियः ।। 4.4.95 ।।
हृदयम् = अन्तः करणम्, प्रियम् = प्रीतिकरम् । हृद्यमिति । `हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशः ।।
बन्धने चर्षौ ।। 4.4.96 ।।
षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति । `तदुक्तमृषिणा' इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ।।
मतजनहलात्कर्णजल्पकर्षेषु ।। 4.4.97 ।।
प्रत्ययार्थसामर्थ्यलब्धेति । करणादयः प्रत्ययार्थाः, तद्वचनाः करणादयः शब्दाः कृदन्ताः, तद्योगे यथायथम् `कर्तृकर्मणोः कृति' इति षष्ठी भवति । संज्ञाधिकाराद्धलसम्बन्धाच्च कर्पशब्दोऽपि क्रियावचनो गृह्यते, न परिमाणशब्दः । मतस्य करणमिति कर्मणि षष्ठी । जनस्य जल्प इति कर्त्तरि । जल्पशब्दो भावसाधनः, अत एवात्र भावः साधनं वेति नोक्तम् । हलस्य कर्षं इति कर्मणि षष्ठी, करणस्य वा कर्तृत्वविवक्षायां कर्तरि । द्विहल्य इति । `रथसीताहलेभ्यो यद्विधौ' इति तदन्तविधिः ।।
तत्र साधुः ।। 4.4.98 ।।
सामन्य इति । `ये चाभावकर्मणोः' इति प्रकृतिभावः । प्रवीणः = निपुणः, योग्यः = समर्थः । तत्र हि परत्वादिति । `तस्मै हितम्' इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थात्तेन नात्र `विप्रतिषेधे परम्' इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात् `तस्मै हितम्' इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ।।
प्रतिजनादिभ्यः खञ् ।। 4.4.99 ।।
जनं जनं प्रति प्रतिजनमिति `यथार्थे--यदव्ययम्' इति वीप्सायामव्ययीभावः । प्रतिजने साधुरिति । `तृतीयासमप्तम्योर्वहुलम्' । परस्यकुलम्, अमुष्यकुलमिति । षष्ठीसमासेऽस्मादेव निपातनात षष्ठ्या अलुक् । पूर्वसूत्र उक्तम्---`साधुः प्रवीणो योग्यो वा गृह्यते, नोपकारकः', तत्र प्राक्क्रीतीयानामेवेष्टत्वादिति, इह तु न तथेत्याह---यत्रेति । प्राक्क्रीतीया बाध्यन्ते इति । अप्राप्तिरत्र बाधः; न हि चतुर्थ्यन्ताद्विधीयमानानां सप्तम्यन्तेभ्यः प्राप्तिरस्ति । तत्र प्राक्क्रीतीया न भवन्तीति वक्तव्ये बाध्यत इत्युक्तम्---`चतुर्थ्यन्तेभ्योऽप्यनभिधानात्प्राक्क्रीतीया न भवन्ति' इति दर्शयितुम् ।।
भक्ताण्णः ।। 4.4.100 ।।
भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ।।
परिषदो ण्यः ।। 4.4.101 ।।
णप्रत्ययोऽप्यत्रेष्यते इति । `पारिषदा कृतिरेषा तत्रभवताम्', `सर्ववेदपारिषदं हीदं शास्त्रम्' इति च भाष्यकारप्रयोगात् ।।
पथ्यतिथिवसतिस्वपतेर्ढञ् ।। 4.4.104 ।।
पतन्त्यनेनेति पन्थाः, `गमेरिनिः' `पतेस्थ च'; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः, `वसेश्च' इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ।।
समानतीर्थे वासी ।। 4.4.107 ।।
वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृत्तमिति । तेन किं सिद्धं भवति ? इत्याह---वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृत्तौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ।।
समानोदरे शयित ओ चोदात्तः ।। 4.4.108 ।।
ओकारश्चोदात्त इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृत्तेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्, `पूर्वापरप्रथम्' इत्यादिना समासःष ततः प्रत्ययः ।।
सोदराद्यत् ।। 4.4.109 ।।
यकारादौ प्रत्यये विवक्षित इति । `विभाषोदरे' इत्यत्र `तीर्थे यः' इत्यतो य इत्यनुवर्तते, तत्र य इत्येषा विषयसप्तमीति दर्शयति । ओ चोदात्त इति तु नानुवर्तत इति । यविधानसामर्थ्यात् ।।
भवेच्छन्दसि ।। 4.4.110 ।।
अणादीनां घादीनां चापवाद इति । `तत्र भवः' इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा---मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र `यतोऽनावः' इत्याद्युदात्तत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ।।
पाथोनदीभ्यां ड्यण् ।। 4.4.111 ।।
पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि `पातेर्बलेर्जुट्', `उदके थुट्', `अन्न चे' इति अन्नोदकयोः पाथः--शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ।।
वेशन्तहिमवद्भ्यामण् ।। 4.4.112 ।।
वेशन्तः = पल्वलम्, `विशेर्झ च', तत्र भव आपः वैशान्त्यः ।।
स्रोतसो विभाषा ड्यड्ड्यौ ।। 4.4.113 ।।
`स्रुहीभ्यां तुट् च' इत्यसुन् । स्रेतः=नदीप्रवाहः ।।
सगर्भसयूथसनुताद्यन् ।। 4.4.114 ।।
`अर्त्तिगृभ्यां भन्', गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्यूथम्, `तिथपृष्ठगूथयूथप्रोथाः' इति क्थन्प्रत्ययान्तो निपातितः । नुतिर्नुतम्, `नपुंसके भावे क्तः'। सगर्भादयस्त्रयोऽपि कर्मधारयाः ।।
तुग्राद् घन् ।। 4.4.115 ।।
`तुरुस्तुशम्यमः सार्वधातुके' इत्यत औणादिको रन् गुडागमः ।।
अग्राद्यत् ।। 4.4.116 ।।
`ऋज्रेन्द्राग्र' इत्यग्रशब्दो निपातितः । सामान्येनेति । `भवे छन्दसि' इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा `अग्राद् घच्छौ च' इति चकाराद्भविष्यति, `अग्रपश्चाडिडमच्' इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम् `ताश्च एव चाध्यजननः', `एतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्' इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ।।
घच्छौ च ।। 4.4.117 ।।
चकारस्तुग्राद्धनित्यस्यानुकर्षणार्थ इति । पूर्वमेव विहितस्य यतोऽनुकर्षणे प्रयोजनाभावात् ।।
समुद्राभ्राद घः ।। 4.4.118 ।।
समुनत्तीति समुद्रः, उन्देः `स्फायितञ्चि' इति रक्प्रत्ययः । अपो बिभर्त्तीत्यभ्रम्, मूलविभुजादित्वात्कः । तस्य लक्षणस्येति । तस्य पूर्वनिपातस्य यल्लक्षणं तस्येत्यर्थः । व्यभिचारित्वादिति । व्यभिचारस्य चायमेव निर्देशो लिङ्गम् ।।
बर्हिषि दत्तम् ।। 4.4.119 ।।
`बृहेर्नलोपश्च' इतीसिप्रत्ययः, बर्हिः ।।
दूतस्य भागकर्मणी ।। 4.4.120 ।।
दूताद्भागे `तस्येदम्' इत्यणि प्राप्ते वचनम्, कर्मणि तु दूतवणिग्भ्यां चेत्यौपसंख्यानिके ये ।।
रक्षोयातूनां हननी ।। 4.4.121 ।।
रक्षेरसुनि रक्षः `कमिमनिजनि' इत्यादिना । यातेस्तौ यातुः । यातुशब्दो रक्षः पर्यायः । `विरूपाणामपि समानार्थानाम्' इत्येकशेषस्तु न भवति; बह्वर्थाभिधायिस्वरूपपरत्वेन सूत्रे भिन्नार्थयोर्निर्देशात् । निर्देशादेव समर्थविभक्तिरिति । सा पुनः `कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । वहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थमिति । तद्धि बहुवचनात्प्रत्ययविध्यर्थम्, अन्यथा द्वित्वाद् द्विवचनमेव न्याय्यं स्यात् । कथं पुनर्बहुवचनेन स्तुतिवैशिष्ट्यं ज्ञाप्यते ? तत्राह---बहूनामिति । बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे । तथा च स्तुतिविशिष्टा सम्पूर्णा भवति । योगश्चायं शैषिकयोरण्छयोरपवादः ।।
रेवतीजगतीहविष्याभ्यः प्रशस्ये ।। 4.4.122 ।।
रयिरस्यास्तीति रेवती, `रयेर्मतौ बहुलम्' इति बहुलवचनात्सम्प्रसारणमम् । उगित्त्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति । `शंसु स्तुतौ' इत्यस्मात् `कृत्यल्युटो बहुलम्' इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, `उगवादिभ्यो यत्' ।।
असुरस्य स्वम् ।। 4.4.123 ।।
न सुरोऽसुरः = सुरप्रतिपक्षः । अथ वा `असेरुरन्', अस्यत्यस्यते वेत्यसुरः ।।
मायायामण् ।। 4.4.124 ।।
मीयतेऽनयेति माया = असदर्थप्रकाशनशक्तिः । माङ औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ।।
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ।। 4.4.125 ।।
मतुनिर्ह्रासः = मतोरपचयः । तद्वानित्यवयवेन समुदायो निदिश्यत इति । स विवक्षितो वर्च शब्दादिरवयवोऽस्मिन्मन्त्रलक्षणे समुदायेऽस्तीत्येवमेकदेशार्थाभिधायिनः सर्वनाम्नः समुदाये मतुबयं विहित इत्यर्थः । वर्चः शब्दो यस्मिन्मन्त्रेऽस्तीति । स पुनः कुम्भेष्टकोपधानमन्त्रः---`भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवः' इत्यादिकः । वर्चस्या उपदधातीति । यथा वर्चस्या भवन्ति तथोपधातीत्यर्थः । तेजस्वान्मन्त्रः---`वसु च स्थ वाम च स्थ देवस्य वः सवितुः' इत्यादिकः । वयस्वन्तो मन्त्राः---`त्र्यविर्वयस्त्रष्टुब्' इत्यादिकाः, ऋतुमन्तो मन्त्राः---`मधुश्च माधवश्च' इत्यादिकाः । मन्त्रसमुदायादेव मा भूदिति । ननु तद्वानित्यस्मिन्नसति `समर्थानां प्रथमाद्वा' इति वचनादासामिति प्रथमं निर्दिष्टत्वात् षष्ठ्यन्तादिष्टकावाचिन उपधाने मन्त्रे प्रत्ययविधिः प्रसञ्जनीयः ? सत्यम् ; आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्च तद्वानित्यस्याभावे `त्र्यविर्वयस्त्रिष्टुप्लन्दः' इत्यमुपधानमन्त्र आसामिष्टकानामिति वाक्यं स्यात्, ततश्चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोति । वर्चस्वानुपस्यानमन्त्र इत्यादि । उपस्थानं मन्त्रेणाभिमन्त्रणं विवक्षितम्, `शिवेन मा चक्षुषा' इत्यादिकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । अङ्गुलिमानित्यादि । यद्यपि सर्वासामिष्टकानामङ्गुलिमान्हस्त उपधानः, तथापि यास्तूष्णीमुपधेया इष्टकास्तासु मन्त्रव्यावृत्त्यर्थतया विशेषणमर्थवत्---एषां कपालानामित्यत्र मा भूदिति । स्त्रीलिङ्गनिर्देशादत्राप्रसङ्ग इति चेति ? एवमपि शर्करासु प्रसङ्गः ।
अनेकपदसम्भवेऽपीति । असति त्वितिकरणे मन्त्रे बहूनां सम्भवाद्येन केनचेत्पदेन तद्वान्मन्त्रो गृह्यं त तथा पदैकदेशेन वर्णसमुदायेन, इतिकरणात्त्वय मतिप्रसङ्गो न भवति ।
मतुब्ग्रहणमुत्तरार्थम् अश्विमानित्यत्र मतुप एव लुग्यथा स्यात्, हनेमाभूदिति । इह तु मत्त्वन्तात्प्रत्ययविधानात्तस्यैव तुग्भविष्यति । वर्चः शब्दादावसुप्रभृतेरप्रसङ्गः, उणादीनामत्र्युत्पन्नत्वात् इह `प्राणभृत उपदधाति' इत्यादावभेदोपचारात्प्रत्ययाभावः ।।
अश्विमानण् ।। 4.4.126 ।।
सोऽश्विमानिति । यद्यपि बहवोऽश्विमन्तो मन्त्राः `ध्रुवक्षितिः' इत्यादिकाः, तथापि सामान्यापेक्षमेकवचनम् ।।
वयस्यासु मूर्ध्नो मतुप् ।। 4.4.127 ।।
वयस्यास्विति । छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः, `विष्टम्भोवयः' इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद् `विष्टम्भो वयः' इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा---छत्त्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु `अनो नुट्' इति छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम्---`वयसस्यासु' इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति छन्दसीत्यर्थः । `वयस्याश्च ताः मूर्धन्वत्याश्च' इति `उभयथापि छन्दस्यभिधीयते' इत्युक्तं भवति ।
यत्र मूर्द्धन्शब्द एव केवल इति । यथा---`अग्ने यशस्विन्यशसे समर्पय' इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति । `तद्वान्' इति च' लुक् च मतोः' इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति, `तेजो वै गायत्री तेज एव मुखतो धत्ते मूर्द्धन्वती भवति' इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु `अग्निर्मूर्धा भुवः' इत्यादिषु वयः शब्दस्याभावात् ।।
मत्वर्थे मासतन्वोः ।। 4.4.128 ।।
मत्वर्थग्रहणाल्लब्धर्मर्थं दर्शयति---प्रथमासमर्थादित्यादि । मासतन्वोरिति `कृषिचमितनिधनिसज्जिखर्ज्जिभ्य ऊः' इत्यूकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः, न तु `भृमृशीङ् तॄचरित्सरितनिमिमस्जिभ्य उः' इत्युका रान्तः; `द्वन्द्वे घि' इति पूर्वनिपातप्रसङ्गात् । अनन्तरार्थे चेति । न केवलं मत्वर्थमात्र इति चशब्दस्यार्थः ।
लुगकारेकाररेफाश्चेत्यादि ।` रादिफः' इत्यत्र वर्णादिति न सम्बध्यते, तेन समुदायनिर्देशेऽपि इफः कृतः । अन्ये तु रशब्दा इति पठन्ति, प्रत्यय इत्यधिकारोऽकारादिभिः सम्बध्यते, न तु लुका । तपनं तपः, सहनं सहः, भावोऽसुन्, `तदस्मिन्नस्ति' इति सूत्रेण विहितस्य यतो लुक् । कथं पुनरत्र नपुंसकत्वम्, यावता तद्धितलुकि सत्यभिधेयवल्लिङ्गेन भवितव्यम् ? अत आह---नपुंसकलिङ्गं छान्दसत्वादिति । इट् = अन्नम्, इष्यमाणत्वात् । ऊर्क् = बलम्, `ऊर्ज बलप्राणनयोः', ताभ्यामकारः प्रत्ययः---इषः, ऊर्जः । शोचनं शुक्, पूर्ववत्क्विप्, आतपातिरेकेण शरीरादेः शोषः, तद्वान्मासः शुचिः । एवं शुक्रः ।
अत्र छान्दसत्वादेवायस्मयादित्वद्भत्वाज्जश्त्वाभावः, तदेव छन्दोऽधिकारे लुगादीनां विधानाद्भाषायां शुचिशुकादीनामन्याय्यः प्रयोगः स्यात्, व्युत्पत्यन्तरेण वा, अव्युत्पन्ना वा नभस्यादयः शब्दा मासेषु वर्तन्ते । इषोर्जशब्दावर्शआद्यच्प्रत्ययान्तौ, मत्वर्थीये रप्रत्यये पृषोदरादित्वाज्जश्त्वाभावे शुक्र इति भवति, शोचतेरन्तर्भावितण्यर्थादौणादिके किप्रत्ययये कृते शुचिरिति भवति, शोचयति संतापयति प्राणिन इति कृत्वा । अभेदोपचारान्नभः प्रभृतीनां मासेषु वृत्तिः, नभस्यप्रभृतयस्तु `तत्र साधुः' इति यदन्ताः, `मतौ छः सूक्तसाम्नोः' इत्यत्र यथान्तरेणाप्यर्थग्रहणं मत्वर्थे प्रत्ययो लभ्यते, तथेहापि लप्स्यते; नार्थोऽर्थग्रहणेन ।।
मधोर्ञ च ।। 4.4.129 ।।
अत्रापि भाषायां मधुयोगान्मासो मधुः, तस्य प्रज्ञादिषु पाठादाद्युदात्तत्वम् ।।
ओजसोऽहनि यत्खौ ।। 4.4.130 ।।
यद्ग्रहणमनर्थकम्, `खश्च' इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्; `खश्च' इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ।।
ख च ।। 4.4.132 ।।
योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च---`यथासंख्यामनुदेशः समानाम्' प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पत्तौ यथासंख्यमिष्यत इति । उत्तरार्थश्चेति । उत्तरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ।।
पूर्वैः कृतमिनियौ च ।। 4.4.133 ।।
बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पत्तौ यथा प्रशंसा गम्यते---पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ।।
सहस्रेण संमितौ घः ।। 4.4.135 ।।
निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह---तत्रेति । छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ।।
सोममर्हति यः ।। 4.4.137 ।।
`छन्दसि' इत्यधिकाराद्भाषायां सोम्यशब्दस्य साधुत्वं चिन्त्यम्---`आयुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादने' इति । केचित्सौम्येति वृद्धिं पठन्ति । सौम्यशब्दो दर्शनीयवचनः सुखादिवत् ।।
मये च ।। 4.4.138 ।।
मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ।।
वसोः समूहे च ।। 4.4.140 ।।
ओश्रावयेत्यादिकस्याक्षराणि गण्यन्ते, सप्तदशात्मकश्छन्दस्योऽक्षरसमूहः । प्रजापतिः प्रजापतिना दृष्टः । हस्तौ पृणस्वेति पृणातिः पूरणकर्मा ।।
नक्षत्राद् घः ।। 4.4.141 ।।
समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ।।
शिवशमरिष्टस्य करे ।। 4.4.143 ।।
करोतीति कर इति । पचाद्यच् । सामर्थ्यलभ्या षष्ठी समर्थविभक्तिरिति । सा पुनः कृद्योगलक्षणो कर्मणि । भाषायां शिवतातिप्रभृतीनां साधुत्वं चिन्त्यम् ।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य चतुर्थः पादः
- समाप्तोऽयं चतुर्थोऽध्यायः *
*******************-------------------