काशिका (पदमञ्जरीव्याख्यासहिता)/चतुर्थोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ चतुर्थाध्ये तृतीयः पादः ---4
पदमञ्जरी
युष्मदस्मदोरन्यतरस्यां खञ्च ।। 4.3.1 ।।
षष्ठीनिर्देश उत्तरार्थः । एते त्रयः प्रत्यया भवन्तीति । ननु चान्यतरस्यांग्रहणेन खञ्छयोः पक्षेऽनुत्पत्तिः प्रतिपाद्यते, तदनुत्पत्तावपवादाभावात्स्वशास्त्रेण `प्राग्दीव्यतः' इत्यनेनैवाण् भवति, तत्कुतोऽनेन प्रत्ययत्रयस्य विधानम्, छोऽपि तर्हि नैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव---यद्यन्योऽपि कश्चित्प्राप्नोति सोऽपि भवतीति, ततश्छोऽपि स्वशास्त्रेण `वृद्धाच्छः' इत्यनेनैव भवति, एक एव त्वपूर्वः खञ् विधीयते । अथ यस्य प्रवृत्तावस्य तात्पर्यं स सर्वोऽनेन विधीयत इति छस्यानेन विधानम् । यद्येवम्, अणोऽप्यनेनैव विधानम्, न खञ्छयोरनुत्पत्तिमात्रेऽन्यतरस्यांग्रहणस्य तात्पर्यम्, तस्य महाविभाषयैव सिद्धत्वात्, किं तर्हि ? अणः प्रवृत्तावपि । तस्मात्तात्पर्यतस्त्रय एते प्रत्यया भवन्तीत्युक्तम्, प्रत्येकं प्रत्ययत्रयं विधीयत इति च । तत्र खञ्प्रत्ययो भवतीत्यनेन खञ एवापूर्वस्य विधानमिति दर्शितम् । अन्यतरस्यांग्रहणाद्यथाप्राप्तं चेत्यनेनाणोऽभ्यनुज्ञानम् । त्यदादित्वाद्युष्मदस्मदोश्छे प्राप्त इत्यनेनापि छंस्याभ्यनुज्ञानम् । भाष्ये तु योगविभागेन यथासंख्याभावः प्रतिपादितः---`युष्मदस्मदोः' इत्येको योगः, अत्र `गर्तोत्तरपदाच्छः' इत्यतश्छोऽनुवर्तते; ततः `खञ्च' इति द्वितीयो योगः ।।
तस्मिन्नणि च युष्माकास्माकौ ।। 4.3.2 ।।
साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम्---यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र `गर्तोत्तरपदाच्छः' इति यावदन्वेषणे छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण छस्यानुकर्षणमिति न तस्य परामर्शशङ्का ।
निमित्तयोरित्यादि । द्वे हि निमित्ते---खञणौ, निमित्तिनावपि द्वावेव---आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति । `खञणोर्युष्माकास्माकौ' इति वक्तव्ये `तस्मिन्नणि च' इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमित्ताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ।।
तवकममकावेकवचने ।। 4.3.3 ।।
`कृत्रिमाकृत्रिमयोः कृत्रिमस्यैकवचनस्य ग्रहणम्', तस्य च कृताकृतप्रसङ्गित्वेन `सुपो धातुप्रातिपदिकयोः' इति लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलक्षणेन समर्थयितव्या । तदपि प्रत्ययलक्षणं विघटयन्नाह---ननु चेति । वचनादिति । यदि पुनरेकवचनपरत्वेनाणाखञौ विशेष्येयाताम्, को दोषः ? इह च स्याताम्---युष्माकं छात्त्रो यौष्माकीणः, आस्माकीन इतिः, इह च न स्याताम्---तव छात्त्रास्तावकीनाः, मामकीना इति । तस्मात्पूर्वसूत्रे खञण्परतया विशेष्येते---युष्मदस्मदी, एकवचनपरतथापि ते एवात्र विशेष्येते, ततश्च वचनाद् आस्माकीनः---प्रत्ययलक्षणं भवतीत्येषैव गतिः ।
अन्वर्थग्रहणमिति । एकोऽर्थ उच्यते येन तदेकवचनम् । अत्र च पक्षे `एकवचने' इति प्रथमाद्विवचनान्तम्, न सप्तम्यन्तम् ।
अर्द्धाद्यत् ।। 4.3.4 ।।
बल्यर्थं वस्तु बालेयम्, तस्यार्धम्=एकदेशः, तत्र भवं बालेयार्द्धिकम् ।।
परावराधमोत्तमपूर्वाच्च ।। 4.3.5 ।।
`सपूर्वपदाट्ठञ् वक्तव्यः' इत्यौपसङ्ख्यानिके ठञि प्राप्ते वचनम् ।
अर्द्धादिति वर्तते इति । ततश्च परावराधमोत्तमेभ्यः परो योऽर्द्धशब्द इत्येवं विशेषणसामर्थ्यादेवार्द्धशब्दस्य परावरादिपूर्वता विज्ञास्यते, तत्किं पूर्वग्रहणेनेति ? एवमनन्तरोक्तस्य चोद्यस्यैवैतत्समर्थनं परिहति---परावरशब्दाविति । अस्मात्तु पूर्वग्रहणाद्यत्प्रत्यय एव भवतीति । पूर्वविप्रतिषेधसूचनद्वारेणेति भावः ।
द्विक्पूर्वपदाट्ठञ्च ।। 4.3.6 ।।
अणोऽपवाद इति । सौत्रीं प्राप्तिमभिप्रेत्यैतदुक्तम्, `सपूर्वपदाट्ठञ् वक्तव्यः' इत्युक्तत्वात् ।
पदग्रहणमित्यादि । `दिक्पूर्वात्' इत्युच्यमाने स्वरूपविधिः स्यात्, ततश्च दिगर्धे जात इत्यत्रेव स्यात् । पदग्रहणे तु सति---पद्यतेऽनेनेति पदम्, दिशः पदं पूर्वमस्मादिति निपातनात्समासः ।।
ग्रामजनपदैकदेशादञ्ठञौ ।। 4.3.7 ।।
पौर्वार्द्धा इति । ग्रामस्य पूर्वस्मिन्नर्द्धे भव इति तद्धितार्थे समासः, ततः प्रत्ययः । यद्यप्यर्द्धशब्दो ग्राममपेक्षते, तथाप्यस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च वृत्तिद्वयमप्यविरुद्धम्---समासवृत्तिः, तद्धितवृत्तिश्च । ठञ्ग्रहणं किमर्थम्, नाञ्चेत्येवोच्येत ? न चैवमुच्यमाने यतोऽपि समुच्चय प्रसङ्गः; पूर्वसूत्रे चानुकृष्टत्वात् । तस्माद्विस्पष्टार्थं ठञ्ग्रहणम् ।।
अ साम्प्रतिके ।। 4.3.9 ।।
साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्रआर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि---`अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इति', न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ्यते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ।।
द्वीपादनुसमुद्रं यञ् ।। 4.3.10 ।।
अनुसमुद्रमिति । `अनुर्यत्समया' इत्यव्ययीभावः । सप्तम्यन्तं चैतद्, तद् द्वीपस्य विशेषणम्, तदाह---समुद्रसमीपे यो द्वीप इति ।।
कालट्ठञ् ।। 4.3.11 ।।
कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः ।
इह `गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति न्यायान्मुख्यया वृत्त्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्त्या कालवृत्तेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह---यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति---गुणवृत्त्यापीति । परत्र परशब्दप्रवृत्तेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च `लुबविशेषे' इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्त्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ।।
श्राद्धे शरदः ।। 4.3.12 ।।
श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति `प्रज्ञाश्रद्धार्चा' इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ्यर्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह---अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं तत्तत्र भवमिति भवे प्रत्यययः ।।
श्वसस्तुट् च ।। 4.3.15 ।।
तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृत्तायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, `इसुसुक्तान्तात्कः' इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्छणआदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति---अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वं स्यात् । ट्युट्युलावपि भवति इति । `सायंचिरम्' इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ।।
सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् ।। 4.3.16 ।।
अण्ग्रहणं वृद्धाच्चस्य बाधनार्थमिति । असत्यण्ग्रहणे सन्धिवेलादिभ्यो यथाविहितमित्युच्यमाने यद्यप्यारम्भसामर्थ्यात्कालाट्ठञ् न भवति; तथापि सन्धिवेलादिषु पठितात्पौर्णमासीशब्दात्स्वात्यादेश्च वृद्धाच्छः स्याद्, वचनं तु कालाट्ठञो बाधनार्थं स्यात् । तस्मादण्ग्रहणं कर्तव्यं वृद्धाच्छस्य बाधनार्थम् । सौवातमिति । `अत सातत्यगमने' सुपूर्वात् `अज्यतिभ्यां च' इतीण् प्रत्ययः, स्वात्या युक्तः काल इत्यण्, तस्य `लुबविशेषे' इति लुप्, ततो भवादावर्थेऽनेनाण्, `न य्वाभ्याम्' इति वृद्धिप्रतिषेधः, ऐजागमश्च । जातार्थे तु `श्रीविष्टाफल्गुनी, इति लुकि स्वातिरिति भवति । तैषमिति । अत्रापि जातार्थे पूर्ववल्लुका भवतव्यमिति भवादौ प्रत्ययः, `तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः । संवत्सरात्फलपर्वणोरिति । सांवत्सरं फलं पर्व वा, सांवत्सरिकमन्यत् ।।
प्रावृष एण्यः ।। 4.3.17 ।।
प्रवर्पतीति प्रावृट्, क्विपि `नहिवृति' इत्यादिना दीर्घः । प्रावृषेण्य इति । भवार्थे प्रत्ययः, जाते तु प्रावृषष्ठपं वक्ष्यति । `रषाभ्याम्' इत्येव सिद्धे प्रत्यये णकारोच्चारणम्---प्रावृषेण्यमाचष्टे प्रावृषेण्ययतेः क्विप्, णिलोपः, `लोपो व्योर्वलि' इति यलोपः, प्रावृषेणित्यत्र णत्वार्थम् ; अन्यथा `पदान्तस्य' इति प्रतिषेधः स्यात् ।।
वर्षाभ्यष्ठक् ।। 4.3.18 ।।
वार्षिकं वास इति । `कालात्साधुपुष्प्यत्पच्यमानेषु' इति साध्वर्थे ठक् ।।
छन्दसि ठञ् ।। 4.3.19 ।।
नभश्च नभस्यश्च वार्षिकावृत् इति । `तस्येदम्' इत्यत्रार्थे प्रत्ययः, ऋतुशब्दश्च ऋत्ववयवयोर्मासयोर्वर्तते, वर्षर्तोरेतौ मासाववयवावित्यर्थः ।।
सर्वत्राण् च तलोपश्च ।। 4.3.22 ।।
हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा `अन्' इति प्रकृतिभावात् `नस्तद्धिते' इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य `असिद्धवदत्राभात्' इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः ।
ननु च छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह--प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि---सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति---`हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवति' इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोर्ऋत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य `हेमन्ताच्च' इति ठञि हैमन्तिकम्, `सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ।।
सायम्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।। 4.3.23 ।।
इह `युवोरनाकौ' इत्यङ्गाधिकारे विहितत्वादनादेशो बहिरङ्गः, तुडागमस्तु प्रत्ययसन्नियोगेन विधानादन्तरङ्ग इति तेनैव तावद्भवितव्यम्, तत्र कृतेऽनादेशो न प्राप्नोति, किं कारणम् ? अङ्गस्य निमित्तं यो युस्तस्यानादेशः, तुटि त्वत्र सति त्युशब्दोऽङ्गस्य निमित्तं न युशब्दमात्रम्, ततश्च यथा मृत्युरित्यत्रानादेशो न भवति, तथात्रापि न स्यात् । यदि पुनरयं तुक् पूर्वान्तः क्रियते ? नैवं शक्यम् ; प्रातस्तनमित्यत्र ह्रि विसर्जनीयो न स्यात्, अपदान्तत्वात् । तस्मात्परादिरेवायं कर्तव्यः, तत्र चानादेशो न प्राप्नोति ? तत्राह---तयोश्चादिष्टयोस्तुडागमो भवतीति । आदिष्टयोरिति कृतादेशयोरित्यर्थः । एष चार्थ आदिष्टशब्दस्य अशेआद्यच्प्रत्ययान्तत्वेन लभ्यते, आदिश्यत इत्यादिष्टः, स ययोरस्ति तावादिष्टौ, तयोरादिष्टयोरिति । एतच्च `घकालतनेषु' इति निर्देशाल्लभ्यते, न ह्यनादिष्टयोस्तुड्विधाने नतशब्द उपपद्यते । प्रातस्तनमित्यत्र वृद्धाच्छं परत्वाद्वाधत इति नोक्तम् ; छस्य बाधकमपि ठञं बाधमानयोष्ट्युट्युलोरुत्कृष्टबलयोर्दुर्बलेन छेन सह सम्प्रधारणाभावात् । मकारान्तं पदमव्ययमिति । स्वरादिषु पठितम् । अन्तकर्मण इति । अन्तक्रियस्य, `षोऽन्तकर्मणि' इत्यस्येत्यर्थः । यद्यप्यसाववसानमात्रवनाची, घञन्तस्तु सायशब्दो दिवसान्तवचन इति न कालाधिकारस्य बाधशङ्का । प्रत्ययसन्नियोगेनेति । अन्यत्र त्वकारान्त एव, यथा---सायाह्नः, सायतर इति । आह च---संख्याविसायपूर्वस्याह्नस्येति । एकारान्तत्वमिति । निपात्यत इत्यनुषङ्गः । यत्र सप्तम्यर्थो नास्ति---प्राह्णः सोढोऽस्येत्यादौ, तदर्थं निपातनम् । जातादिके त्वर्थे `घकालतनेषु' इत्यलुका सिद्धम् ।
चिरपरुत्परारिभ्य इति । चिरशब्दस्य सूत्र उपादानात् ट्युट्युलावाप भवतः, न तु `कियत्तद्वहुषु कृञोऽज्विधानात्' इतिवत्सूत्रस्य बाधः । परुत् = पूर्वस्मिन् संवत्सरे, परारि = पूर्वतरे । प्रत्नशब्दः पुराणवचनः ।
अग्रपश्चाड्डिमजिति । केचिदत्रादिशब्दमपि पठन्ति---अग्रादिपश्चादिति, ते `मध्यान्मः' इत्यत्रादेश्चेति वक्तव्यमिति न पठन्ति । डित्करणं पश्चादित्यत्र टिलोपार्थम् । `अव्ययानां भमात्रे टिलोपः' इत्यस्यैवायं प्रपञ्चार्थः ।।
विभाषा पूर्वाह्णापराह्णाभ्याम् ।। 4.3.24 ।।
सप्तम्या अलुगिति `ङ्याप्प्रातिपदिकात्' इत्यत्र निरणायि---सुबन्तात्तद्धितोत्पत्तिरिति, तत्तत्रैव द्रष्टव्यम् । यदि सुबन्तात्तद्धित उत्पद्यते, कथं पूर्वाह्णतन इत्यत्र भवति ? तत्राह---यदा त्विति ।।
तत्र जातः ।। 4.3.25 ।।
तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्त इति । तदिदमुभयमनिर्देश्यम्, कथम् ? `शेष इति लक्षणं चाधिकारश्च' इत्युक्तम्, तत्र लक्षणतया चाक्षुषं रूपमित्यादाविव जातादिष्वप्यर्थेष्वणादयः सिद्धाः, अधिकारतया च घादय इत्यर्थास्तावन्न निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देशोऽपि न कर्तव्य एव । नियमार्थमिति चेन्न; अनिष्टत्वात् । तत्रैतत्स्यात्---जातादिष्वेव तद्धिता यथा स्युः, तत्रास्ते तत्र शेत इत्यादौ मा भूवन्निति जातादयोऽर्था अनुक्रम्यन्त इति ? तच्च नैवम्; अनिष्टत्वात् । अन्यत्रापि हि तद्धिता इष्यन्ते---चाक्षुषं रूपम्, श्रावणः शब्दः, चातुर्दशं रक्षः, दार्षदाः सक्तव इति । यत्र तु नेष्यन्ते, तत्रास्त इत्यादौ---तत्रानभिधानान्न भविष्यन्ति, यथा---अङ्गुल्या खनतीत्यादौ । तस्मान्नार्थो जाताद्यनुक्रमणेन ।
अपवादविधानार्थं तु, प्रावृषष्ठबादीनपवादाँस्तत्र तत्रासङ्करेण वक्ष्यामीति अवश्यानुक्रमितव्या अर्थाः, तेऽन्यार्थाः सन्तो योगविभागेनाणादीनामप्यर्था निर्दिश्यन्ते ।
विश्पष्टार्थम्, यानि पुनरनपवादान्यर्थादर्शनानि, यथा---`कृतलभ्धक्रीतकुशलाः' इति, तानि शक्यान्यवक्तुम् ।।
संज्ञायां शरदो वुञ् ।। 4.3.27 ।।
समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ।।
अमावास्याया वा ।। 4.3.30 ।।
एकदेशविकृतस्यानन्यत्वादिति । `अमावस्यदन्यतरस्याम्' इत्यत्र `अमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यते' इत्युक्तम् । ण्यति च `अत उपधायाः' इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ।।
अ च ।। 4.3.31 ।।
किमर्थो योगविभागः, न च`अमावास्याया वा' इत्युच्येत, चकाराद्वुञ्, वावचनादुभयोरभावेऽणपि भविष्यति ? सयत्म् ; उत्तरत्र तु विकल्पानुवृत्तिः शङ्क्येत । योगविभागे तु सन्धिवेलाद्यणोऽभ्यनुज्ञानाय पूर्वसूत्रे वाग्रहणसामर्थ्यादस्यापि विकल्पसिद्धेरिह वाग्रहणँ नानुवर्त्त्यमिति व्यवधानादुत्तरत्र विकल्पस्य निवृत्तिः सिद्धा भवति ।।
अणञौ च ।। 4.3.33 ।।
योगविभागो यथासंख्यार्थः ।।
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ।। 4.3.34 ।।
कृत्तिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमित्तस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति । `लुक्तद्धितलुकि' इति लुकि कृते पुनष्टाप् ।
गौरादिपाठान् ङीषिति । `रेवती नक्षत्रे, रोहिणी नक्षत्रे' इति तत्र पठ्यते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद् `गौरादिषु पिप्पल्यादयश्च' इति पाठात्तेषां चावृत्कृतत्वादत्र ङीषित्यर्थः ।
टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति ।
छणपि वक्तव्य इति । अत्र च `स्त्रियाम्' इति नापेक्ष्यते ।।
स्थानान्तगोशालखरशालाच्च ।। 4.3.35 ।।
गोशालेति । `विभाषा सेना' इति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात्खरशालस्यापि नपुंसकस्य ग्रहणम्, न तु द्वन्द्वैकवद्भावेन ह्रस्वत्वम् । एकादेशस्य पूर्वं प्रत्यन्तवद्भावाल्लिङ्गविशिष्टयपरिभाषया स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव । यद्यपि टाबन्तयोरपि पाठे एकदेशविकृतस्यानन्यत्वान्नपुंसकाभ्यामपि लुक् सिद्ध्यति, लाघवार्थं तु ह्रस्वस्य पाठः ।।
वत्सशालाभिजिदश्वयुवछतभिषजो वा ।। 4.3.36 ।।
वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्च इति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति---`अभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामिति', मुहूर्तमप्यस्ति ।।
नक्षत्रेभ्यो बहुलम् ।। 4.3.37 ।।
वाग्रहणानुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्च लुग्व्यवस्थायां सिद्धायाम्, बहुलवचनं क्वचिदन्यदेवेत्येतदर्थम्, तेन टानौ वक्तव्यावित्यादि सिद्धं भवति । रोहिण इति । `चित्रारेवतीरोहिणीयः स्त्रियामुपसङ्ख्यानम्' इत्येतत्तु स्त्रियां नियमेन लुगर्थे, न तु स्त्रियामेव लुगर्थम् ।
कृतलब्धक्रीतकुशलाः ।। 4.3.38 ।।
यद्यत्र कृतं जातमपि तत्तत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा--व्योमेति भावः । यच्च क्रीत लब्धमपि तत्तत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा---विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति---वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति---क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति---शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा---क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोत्तरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ।।
प्रायभवः ।। 4.3.39 ।।
प्रायेण भवः, `कर्तृकरणे कृता बहुलम्' इति समासः ।
तत्र भवेन कृतत्वादिति । यत्प्रायभव इत्यस्य साध्यम्, तस्य `तत्र भवः' इत्यनेनैव साधितत्वादित्यर्थः । यो हि राष्ट्रे प्रायेण भवति तत्रैवासो भवतीति `तत्र भवः' इत्येव सिद्धम् । शङ्कते---अनित्यभवः प्रायभव इति चेदिति । यस्तत्र कदाचिद्भवति कदाचिन्न स प्रायभवः, यस्य तु नियत आधाराधेयभावः स `तत्र भवः' इति पृथगुपादानसामर्थ्याद्भेद आश्रीयत इति यद्युच्येतेत्यर्थः । निराकरोति---मुक्तसंशयेन तुल्यमिति । यं भवान्मुक्तसंशयं न्याय्यं तत्रभव उदाहरणं मन्यते---स्रौघ्नो देवदत्त इति, तेनैव तुल्यम्, सोऽपि हि कदाचित्तस्मादुदक्देशादभिनिष्क्रामति । तत्र चेद्युक्ता तत्र भवता, इहापि युक्ता दृश्यताम् । अथैतदपि प्रायभवस्योदाहरणम्---स्रौघ्नो देवदत्त इति । तत्रभवनस्य किमुदाहरणम् ? तत्र नित्यभवः स्रौघ्नः प्राकार इति । यद्येवम्, `तत्र भवः' इति प्रकृत्य जिह्वामूलाङ्गुलेश्छो विधीयते स तस्मिन्दृष्टापचारे न स्यात्, दृश्यते च--
वानरोऽहं महाभागे दूतो रामस्य धर्मतः ।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। इति ।
तस्मात्तत्रभवे सामान्ये प्रायभवस्य विशेषस्यान्तर्भावादनर्थकं प्रायग्रहणम् ? इदं तर्हि प्रयोजनम्---`उपजानूपकर्णोपनीवेष्ठक्' प्रायभवे यथा स्यान्नित्यभवे मा भूत्---उपजानु भवं गड्विति । अथेदानीं जानुसमीपस्थशरीरावययववाचिन उपजानुशब्दात्तत्र भव इति प्रकृत्य `शरीरावयवाद्यत्' इति यत्कस्मान्न भवति ? अनभिधानात् । ठगपि तर्ह्यनबिधानादेव न भविष्यति ? तदेवं स्थितम्---एतत्प्रायग्रहणमनर्थकम्, तत्र भवेन कृतत्वादिति ।।
उपाजानूपकर्णोपनीवेष्ठक् ।। 4.3.40 ।।
उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ।।
सम्भूते ।। 4.3.41 ।।
अवक्लृप्तिः प्रमाणनतिरेकश्चेति । सकृत्प्रयुक्तस्याप्यनेकार्थत्वमविरुद्धम्, तन्त्राद्याश्रयणआदिति भावः । तत्रावक्लृप्तिः = सम्भावना, इदमेवं भवेदिति बुद्धिः; प्रमाणानतिरेकः = आधारपरिमाणादाधेयपरिमाणास्यानतिरेकता, यस्यां सत्यां सर्वमाधेयमाधारेऽनुप्रविशति । स्रौघ्न इति । देवदत्त इदानीं स्रुघ्ने सम्भाव्यत इत्यर्थः, स्रुघ्नप्रमाणाद्वाऽनतिरिच्यते सेनादिकोऽर्थ इत्यर्थः ।।
कोशाड् ढञ् ।। 4.3.42 ।।
कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृत्तत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपत्तिरिति वार्त्तिकमेव शरणम् । `तस्य विकारः' इत्यत्र प्रकरणे `एण्या ढञ्' इत्यस्यानन्तरम् `कोशाच्चेति वक्तव्यम्' इत्यर्थः । अर्थानुपपत्तिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपत्तिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह---रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्त्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ।।
कालात्साधुपुष्यत्पच्यमानेषु ।। 4.3.43 ।।
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उत्तरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ।।
उप्ते च ।। 4.3.44 ।।
सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उत्तरार्थ इति । उत्तरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ।।
आश्वयुज्या वुञ् ।। 4.3.45 ।।
वुञो ञकारः स्वरार्थः, उत्तरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात् `नमोऽश्विभ्यामश्वयुग्भ्याम्' इति दर्शनात् । अश्विनीपर्याय इति पाठः । `तारा अश्वयुगश्विनी' इत्यमरसिहः । अश्वनीपर्यायइति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ।।
कलाप्यश्वत्थव्यवबुसाद् वुन् ।। 4.3.48 ।।
मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम् `कालविशेषविचिभ्यः' इत्युक्तम् ? अत आह---कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति `फले लुक्' इति लुगन्तोऽश्वत्थशब्द इत्याह---यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ।।
ग्रीष्मावरसमाद्वुञ् ।। 4.3.49 ।।
अवरसममिति विशेषणसमासः । न चावरशब्दो दिग्वाची, येन `दिक्सङ्ख्ये संज्ञायाम्' इति नियमात्समासो न स्यात् । आवरसमकमिति । आगामिनां संवत्सराणामाद्यवत्सरे देयमित्यर्थः । अपर आह---अतीते वत्सरे देयं यदद्यापि न दत्तं तदावरसमकमिति ।।
संवत्सराग्रहायणीभ्यां ठञ्च ।। 4.3.50 ।।
वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु `संवत्सरात्फलपर्वणोः' इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणात्तु ठञेव भवति ।।
व्याहरति मृगः ।। 4.3.51 ।।
व्याहरति = शब्दायते ।।
तदस्य सोढम् ।। 4.3.52 ।।
अस्येति । नेयं सोढापेक्षया कर्त्रि षष्ठी, `न लोकाव्यय' इति प्रतिषेधात्, किं तर्हि ? कर्तुरेव सम्बन्धित्वमात्रविवक्षया शेषलक्षणा षष्ठी । निशासहचरितमध्ययनमिति । कालस्य स्वरूपेणासोढत्वात्तत्सहचरितवृत्तेरत्र सूत्रे ग्रहणमिति दर्शयति ।।
तत्र भवः ।। 4.3.53 ।।
कालादिति निवृत्तमिति । `तत्र जातः' इति प्रकृतं तत्रग्रहणं कालाधिकारेण सम्बद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह तत्रग्रहणं कृतम् `सप्तम्यर्थमात्रं यथा गृह्येत कालसम्बन्धविशिष्टः सप्तम्यर्थो मा ग्राहि' इत्यवमर्थमिति भावः । ननु च प्रकृतं तत्रग्रहणं पूर्वसूत्रे तदिति प्रथमया समर्थविभक्त्या व्यवहितम् ? नेत्याह, शक्यं हि तदन्यत्रापि पठितुम् ।।
दिगादिभ्यो यत् ।। 4.3.54 ।।
सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ।।
शरीरावयवाच्च ।। 4.3.55 ।।
शरीरं प्राणिकाय इति । `व्याकरणस्य शरीरम्' इत्यादिकस्तु प्रयोगो गौणः । अणोऽपवाद इति । वृद्धात्तु छं परत्वाद्वाधते, पादे भवं पद्यम्, `पद्यत्यतदर्थे' इति पद्भावः । नासिकायां भवं नस्यम्, `नस नासिकाया यत्तस्क्षुद्रेषु' इति नस्भावः । कथम् `वेगो जङ्घोरस्यः' इति ? कथं च न स्यात्, न शरीरावयवसमुदायः शरीरावयवग्रहणेन गृह्यते । न च तदन्तविधिरस्ति ? निरङ्कशाः कवयः ।।
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ।। 4.3.56 ।।
दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि ।
अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङन्तेन समानार्थम्---अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ।।
ग्रीवाभ्योऽण्च ।। 4.3.57 ।।
धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्त्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्त्तते तदैकवचनान्तः प्रयोगः ।।
गम्भीराञ्ञ्यः ।। 4.3.58 ।।
बदिर्देवपञ्चजनेभ्यश्चेति वक्तव्यमिति । `प्राग्दीव्यतः' इत्यत्रोक्तम्---`देवस्य यञञौ, बहिषष्टिलोपश्च' इति । तच्चावश्यं वक्तव्यम्---अर्थान्तरेष्वपि यथा स्यादिति । तस्यैव प्रपञ्चार्थम्, इह तु बहिर्देवयोर्ग्रहणम् ।।
अव्ययीभावाच्च ।। 4.3.59 ।।
किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह---परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ्यते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह---तेषामेवेति । `परिमुखादेः' इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवति । उत्तरार्थं चावश्यमव्ययीभावग्रहणं कर्त्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः `अपपरिबहिरञ्चवः । पञ्चम्या' इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु `अनुर्यत्समया' `यस्य चायामः' `पश्चादर्थे यदव्ययम्' इति च यथाभिधानं समासः ।।
अन्तः पूर्वदाट्ठञ् ।। 4.3.60 ।।
आध्यात्मिकमिति । `अनश्च' इति टच् समासान्तः । आधिविदैकम्, आधिभौतिकमिति । अनुशतिकादित्वादुभयपदवृद्धिः । अध्यात्मादिराकृतिगण इति । एवं च समानशब्दादित्यादिरस्यैव प्रपञ्चः ।
ऊर्ध्वशब्देन समानार्थ ऊर्ध्वंशब्द इति । स चैतद्वृत्तिविषय एव । अपर आह---`ठञ्सन्नियोगेन दम शब्द उत्तरे ऊर्ध्वशब्दस्यैव मान्तत्वं निपात्यते' इति ।
ऊर्ध्वदेहाच्चेति । नात्र मान्तत्वम् ।
ऐहलौकिकमिति । पूर्ववदुभयपदवृद्धिः ।
मुखतीयम्, पार्श्वतीयमिति । मुख-पार्श्व-शब्दाभ्यां सप्तम्यान्ताभ्यामाद्यादित्वात्तसिः, तत ईयः, अव्ययत्वाट्टिलोपः । अयं गहादिपाठस्यैव प्रपञ्चः । एतेन परं व्याख्यातम् ।
मण्मीयाविति । गहादिषु `मध्यमध्यमं चाण् चरणे' इति यत्पठितं तत्र `पृथिवीमध्यवाची मध्यशब्दो गृह्यते' इत्युक्तम्, भवार्थे तु ततोऽन्यत्रापि मध्यमीयमिति यता स्यादिति मीयप्रत्ययवचनम् । जातादिषु पृथिवीमध्यवाचिन एव मध्यमीय इति भवति, न मध्यान्तरवाचिनः । तथा गहादिपाठेन पृथिवीमध्यं निवासा एषामित्यस्मिन्नेवार्थे माध्यमा इति सिध्यति, मध्यान्तरवाचिनो भवार्थेऽपि यथा स्यादिति मण् प्रत्यय उक्तः ।
मध्यो मध्यंदिनण् चास्मादिति । मध्यशब्दो मध्यभावमापद्यते दिनण्चास्मात् प्रत्ययो भवतीत्यर्थः ।
स्थाम्न इति । स्थामन्शब्दान्तादित्यर्थः । अश्वत्थामेति । अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरादित्वात्सकारस्य तकारः, ततो भवार्थे `स्थाम्नोऽकारः' इत्यकारः तस्मानेन लुक् ।
वृकाजिन इति । अणो लुक् ।
समानस्य तदादेश्चेति । आनन्तर्यत्वलक्षणा षष्ठी । अध्यात्मादिष्विति । विषयसप्तमी उर्ध्वन्दामाच्च देहाच्चेति । ऊर्ध्वंशब्दाद्दमशब्दान्ताच्चेत्यर्थः । ऊर्ध्वपूर्वादेव च देहान्तादिष्यते । उक्तं हि प्राक् `उर्ध्वदेहाच्च, और्ध्वदेहिकम्' इति । स्थाम्नो लुगजिनात्तथेति । पाठे उभयत्रापि तदन्तविधिः ।।
अशब्दे यत्खावन्यतरस्याम् ।। 4.3.64 ।।
वासुदेववर्गीय इति । `वृद्धाच्छः' इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन छ एषितव्यः ।।
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।। 4.3.66 ।।
तस्येति षष्ठीसमर्थादिति । ननु चाधिकारार्थोऽयमिति वक्ष्यति, भव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति, तत्किमित्यत्र यथाविहितविधानार्थत्वं व्याख्यायते ? उच्यते---तात्पर्यतोऽपवादविधानायाधिकारस्यानुषङ्गिकेऽणादिविधानार्थत्वे को दोष इति मन्यते, अगतिकगतिर्हि विशेषविवक्षायां सामान्याश्रयः प्रत्ययः । अत एव `कृतलब्धक्रीतकुशलाः' इत्यादीन्यनपवादान्यर्थादेशनानि भवन्ति । तत्र भवेचेति । अयमनुवादः; एतस्मिन्नेव विशेषे `तत्र भवः' इति विहितत्वात् । ननु च व्याख्यानस्य प्रत्ययार्थस्य समीपे श्रूयमाणश्चशब्दस्तत्समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति, न समर्थविभक्तेः; यथा `केदाराद्यञ्च' इति प्रत्ययसमीपवर्त्तिना प्रत्यय एव समुच्चीयते, न प्रकृतिः; `ठञ्कवचिनश्च' इति प्रकृतेरेव न प्रत्ययः; ततश्चेह तस्येत्युपादानाद्भवार्थेऽपि षष्ठीसमर्थादेव प्रत्ययो युक्तः, तत्राह---वाक्यार्थसमीपे इति । इहेतिकरणः क्रियते---प्रकृतं वाक्यार्थं प्रत्यवमर्शामीति । प्रत्यवमर्शस्य च प्रयोजनम्---नत्तुल्यजातीयस्यैव समुच्चयो यथा स्यादित्येतदेवेति भावः । एतमेव च न्यायं निरूपयितुं पूर्वम् `तत्र भवे च' इत्यनुवादः कृतः ।
व्याख्यातव्यनाग्न इति किमिति । व्याक्यानशब्दस्य सम्बन्धिशब्दत्वाद्यप्रतिव्याख्यानं तदेव तस्येत्यनेन निर्दिष्टमिति गम्यत इति मत्वा प्रश्नः । पाटलिपुत्रं सुकोशलया व्याख्यायत इति नेयं कर्तरि तृतीया, किं तर्हि ? करणे सुकोशलया करणभूतया पुरुषैर्व्याख्यायत इत्यर्थः । कथमित्याह---एवंसन्निवेशमिति । तादृशो हि पाटलिपुत्रे प्राकारादिसन्निवेशो यादृशः सुकोशलायाम्, तेन तया तद्व्याख्यायते । यद्येवम्, तस्य व्याख्यातव्यस्य पाटलिपुत्रशब्दो नामापि भवति, तत्कथं प्रत्युदाहरणम् ? अत आह---न त्विति । यदिह व्याख्यातव्यमभिप्रेतम्, न तस्य नाम भवतीत्यर्थः । किं पुनरिहाभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धं ग्रन्थात्मकम्, एतदर्थमेव हि व्याख्यातव्यनामग्रहणं कृतम्, व्याख्यातव्यमात्रस्य व्याख्यानशब्दस्य सम्बन्धिशब्दत्वेनैवाक्षेपसिद्धेः । ननु च भवार्थमेतत्स्यात्, न हि तत्राक्षेपतो व्याख्यातव्यस्य लाभः ? एवं तर्हि नामग्रहणं प्रसिद्ध्युपसंग्रहार्थं भविष्यति ।
भवव्याख्यानयोरिति । नात्रायमर्थः---योऽयं भवव्याख्यानयोर्युगपदधिकारः सोऽपवादविधानार्थ इति; पूर्वमधिकारत्वस्याव्याख्यातत्वात् । तस्माद्भवव्याख्यानयोर्युगपदधिकारोऽयं न त्वणादीनामर्थनिर्देश इत्यर्थः । किमर्थोऽधिकारस्तत्राह---अपवादविधानार्थ इति । अणादीनां चायमर्थनिर्देशः कस्मान्न भवति ? तत्राह---कृतनिर्देशौ हि ताविति । एकः `तत्र भवः' इति, अपरः `तस्येदम्'---इत्येवं कृतनिर्देशौ हि तावर्थौ । तस्मात्तदर्थमेतन्न भवति । पूर्वं त्वधिकारार्थतयावश्यकर्त्तव्यस्यानुषङ्गिकमर्थनिर्देशार्थमिदमिति व्याख्यातम् ।।
बह्वचोऽन्तोदात्ताट्ठञ् ।। 4.3.67 ।।
अमोऽपवाद इति । वृद्धाच्छं तु परत्वाद्वाधते । सामस्तं नाम शास्त्रं तस्य व्याख्यानं सामस्तिकम् । षत्वादिविधायकं शास्त्रं षत्वादिशब्देनोच्यते । नतः = अनुदात्तः, अनतः = उदात्तः । अन्तोदात्ताः प्रकृतय इति । उदाहृतयोर्द्वित्वेऽप्येवञ्जातीयापरप्रकृत्यपेक्षं बहुवचनम्, ताश्च कुत्वरुत्वादयः ।
गतिस्वरेणेति । `गतिरनन्तरः' इत्यनेन । उदात्त इति वर्णग्रहणम्, तेन सिद्धस्तदन्तविधिः, यथा `वर्आदनुदत्ताद्' इत्यत्र । तस्मादन्तग्रहणं विस्पष्टार्थम् ।।
क्रतुयज्ञेभ्यश्च ।। 4.3.68 ।।
अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्त्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदात्तार्थ आरम्भ इति । तत्र राजसूय---वाजपेयशब्दौ कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः `कृत्यल्युटो बहुलम्' इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिः=स्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः, `परादिश्च परान्तश्च' इत्यन्तोदात्तः । नवैर्व्रीहिभिर्यजनं नवयज्ञः= आग्रयणम्, `कर्तृकरणे कृता बहुलम्' इति समासः, `कृदुत्तरपदप्रकृतिभावेन नङ एव स्वरोऽवतिष्ठते' इत्यन्तोदात्तः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदात्तः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदात्तानामुपन्यासः ।
क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणात्तु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ।।
अध्यायेष्वेवर्षेः ।। 4.3.69 ।।
अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः = भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः ।
वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ।।
पौरोडाशपुरोडाशात्ष्ठन् ।। 4.3.70 ।।
पुरोडाशाः पिष्टपिण्डा इति । `दाश्रृ दाने' कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह---आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित्त इति । तेषां संस्कारको मन्त्र इति । `मखस्य शिरोऽसि' इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ।।
छन्दसो यदणौ ।। 4.3.71 ।।
अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति; `तस्य व्याख्याने' इति यदणौ भवतः, `तत्र भवः' इति चेत्येवं समुच्चयात् । द्व्यच इति ठकि प्राप्त इति । उत्तरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ।।
द्व्यजदब्राह्मणर्कप्रथमाध्वरपुरश्चरणनामाख्याताट् ठक् ।। 4.3.72 ।।
अणादेरपवाद इति । आदिशब्देन ठञः । तत्र ऋक्छब्धे द्व्यक्षु चाणोऽपवादः, पुरश्चरणशब्दोऽपि ल्युडन्तः कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तः । असिप्रत्ययो हि सप्तम्यन्तादुत्पद्यत इति पुरः शब्दः कारकम्, `पुरोऽव्ययम्' इति वा गतिः । तेन तस्मादप्यण एवापवादः । ब्राह्मणादिष्वन्तोदात्तेषु ठञोऽपवादः, ऋकारान्तेष्वप्यणोऽपवादः । ये तु तत्र बह्वचोऽन्तोदात्तास्तेषु परत्वादयं ठञं बाधते । नामाख्यातग्रहणं सङ्घातविगृहीतार्थमिति । आख्यातार्थं विगृहीतग्रहणम्, नामशब्दात्तु द्व्यच्त्वादेव सिद्धम् ।।
अणृगयनादिभ्यः ।। 4.3.73 ।।
ठञादेरिति । आदिशब्देन ठकः छस्य च ग्रहणम् । तत्र विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षणस्य ठकोऽपवादः, व्याकरणशब्दाद् वृद्धाच्छस्य, शेषा बह्वचोऽन्तोदात्ताः, तेष्वञः । अथाण्ग्रहणं किमर्थम्, न ऋगयनादिभ्यो यथाविहितमेवोच्येत, वचनप्रामाण्याद्यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह--अण्ग्रहणमिति । असत्यण्ग्रहणे यद् वृद्धमन्तोदात्तं बह्वच, यथा---बास्तुविद्येति, तस्माद् वृद्धाच्छे ठञा बाधिते पुनर्वचनाच्छ एव स्याद्, अण्ग्रहणात्त्वणेव भवति ।
ऋगयनमिति । `पूर्वपदात्संज्ञायामगः' इति णत्वं न भवति, `अगः' इति प्रतिषेधात् । अयनशब्दश्च भावसाधनोऽभेदोपचाराद् ग्रन्थे वर्तते, `अनो भाव कर्मवचने' इत्यन्तोदात्तः । पदव्याख्यानशब्दः `मन्क्तिन्व्याख्यान' इत्यन्तोदात्तः । छन्दोमानशब्द ऋगयनशब्देन व्याख्यातः । छन्दो भावेति कृत्स्वरेणान्तोदातः । छन्दोविचितिशब्दो मन्क्तिन्नित्यन्तोदात्तः । पुनरुक्तशब्दस्थाथादिस्वरेण । निरुक्तशब्दः `संज्ञायामनाचितादीनाम्' इति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितोऽन्तोदात्तः । वास्तुविद्या, क्षत्त्रविद्या, अङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरन्, वसेः सम्पूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदात्तः । मुहूर्त्तनिमित्तशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः क्विप्, उपनिषच्छब्दः कृत्स्वरेणान्तोदात्तः ।।
तत आगतः ।। 4.3.74 ।।
तत इति मुख्यं यदपादानं विवक्षितं तदिह गृह्यत इति । मुख्यत्वादेव । अपादानसंज्ञा तु नान्तरीयकस्यापि भवति, कारकप्रकरणे हि गौणमुख्यविबागो नाश्रीयते ।।
ठगायस्थानेभ्यः ।। 4.3.75 ।।
आय इति स्वामिग्राह्यो भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ।।
शुण्डिकादिभ्योऽण् ।। 4.3.76 ।।
आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात् `कृकणपर्णाद्भारद्वाजे' इति छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः ।
अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह---अण्ग्रहणमिति । उदपानशब्द इह पठ्यते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा `उत्सादिभ्योऽञ्' इत्यञेव स्यात् । अण्ग्रहणात्त्वेणेव भवति ।।
विद्यायोनिसम्बन्धेभ्यो वुञ् ।। 4.3.77 ।।
विद्यायोनिकृत इति । बहुव्रीहौ गतार्थत्वात्कृतशब्दस्याप्रयोगः ।।
ऋतष्ठञ् ।। 4.3.78 ।।
एषूदाहरणेषु `इसुसुक्तान्तात्कः' । एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव ।।
पितुर्यच्च ।। 4.3.79 ।।
पित्र्यमिति । `रीङृतः', `यस्येति च' ।
गोत्रादङ्कवत् ।। 4.3.80 ।।
ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह---अङ्के यद् दृष्टं तदतिदिश्यते, न त्वङ्क आहत्य विहितम् । `गोत्रचरणाद् वुञ्' इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु---वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः, `कालेभ्यो भववत्', `चरणेभ्यो धर्मवत्' इति यथा ।।
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।। 4.3.81 ।।
समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र `हेतौ' इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति---भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र `विभाषा गुणे' इति पञ्चमी, तदर्थमेतत्स्यात्---जाड्यादागत इति ? तस्मात् `विभाषा गुणे' इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ।।
मयट् च ।। 4.3.82 ।।
योगविभागो यथासंख्यनिरासार्थ इति । विकल्पार्थेनान्यतरस्यां ग्रहणेन रूप्यमयटोः पक्षेऽभावः प्रतिपाद्यते, तदभावे स्वशास्त्रेणैव प्राप्तः प्रत्ययो भवति । तेन रूप्यमयटोरेवानेन विधानादसति योगविभागे स्यादेव यथासङ्ख्यमिति भावः ।।
प्रभवति ।। 4.3.83 ।।
प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते; `तत्र जातः' इत्यनेन गतत्वात्।।
विदूराञ्ञ्यः ।। 4.3.84 ।।
अयुक्तोऽयं निर्देश इत्याह---ननु चेति ।
वालवायो विदूरं चेति । वालवायशब्दः प्रत्ययमुत्पादयति, विदूरं चादेशमापाद्यते, सूत्रे त्वादेश एव निर्दिष्टः, तेनानुरूपः स्थानी वालवायशब्द आक्षिप्यते, यथा---शिवादिषु विश्रवणरवणेत्यादेशाभ्यां पठिताभ्यां विश्रवः शब्दः । प्रकृत्यन्तरमेव वेति । विदूरशब्दो नगरस्येव पर्वतस्यापि वाचकः, स एवात्र प्रकृतिरित्यर्थः । न वै तत्रेति चेदिति । चेच्छब्दोऽक्षमायाम्, पर्वतवाची विदूरशब्दो न प्रसिद्ध इति चेद् ब्रूयात्स जित्वरीवदुपचारेत् = व्यवहरेत्, यथा---वणिज एव मङ्गलार्थ वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एव वालवायं विदूरमुपचरन्ति । नियतपुरुषापेभापि प्रसिद्धिर्भवतीत्यर्थः ।
तद्गच्छति पथिदूतयोः ।। 4.3.85 ।।
प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्त्ति गमनं पथ्युपचर्यत इत्याह---तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ।।
अभिनिष्क्रामति द्वारम् ।। 4.3.86 ।।
द्वारमभिनिष्कमणक्रियायामिति । अनेनैतदाह---तत्स्थेष्वभिनिष्क्रामत्सु करणभूते द्वारे तदारोपाद् द्वारमेवाभिनिष्क्रामतीत्युच्यत इति । अभिनिष्क्रमणं द्वारमिति नोक्तम् ; तदिति द्वितीयाधिकारात्, तदा हि कृद्योगलक्षणा षष्ठी प्राप्नोति ।।
अधिकृत्य कृते ग्रन्थे ।। 4.3.87 ।।
आख्यायिकाभ्य इति । तादर्थ्ये चतुर्थी, आख्यायिका=गद्यग्रन्थप्रभेदः, तदभिधानाय यः प्रत्यय उत्पन्नस्तस्य बरुलं लुब् भवतीत्यर्थः । न चेदं वक्तव्यम्, अभेदोपचारेण ताच्छब्द्यलाभाद् अभिधानलक्षणत्वाच्च क्वचित्तद्धित्त उत्पद्यते, क्वचिन्न ।।
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ।। 4.3.88 ।।
इन्द्रजननादिराकृतिगण इति । तेन `विरुद्धभोजनीयमध्यायं व्याख्यास्यामः' इति सिद्धं भवति ।।
सोऽस्य निवासः ।। 4.3.89 ।।
इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः `तत्र भवः' इत्येव सिद्धम्, शब्दार्थभेदात्तु पृथगुपादानम् ।।
अभिजनश्च ।। 4.3.90 ।।
अभिजनाः पूर्वबान्धवा इति । अभिजायते तेभ्य इति कृत्वा, पूर्वबान्धवाः=पित्रादयः । बन्धुशब्दः प्रज्ञादिः । तत्सन्बन्धादेशोऽपीति । यथा यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्तते, तथाभिजनशब्दो देशे । कः पुनरसौ देशः ? इत्याह यस्मिन्निति । तदिहेत्यादि । तदिति वाक्योपन्यासे । कथं पुनर्मुख्येऽभिजने सम्भवति गौणात्प्रत्ययो भवति ? इत्याह---निवासप्रत्यासत्तेरिति । प्रत्यासन्नेनानन्तरसन्निहितेन निवासशब्देनाभिजनस्य विशेषणादित्यर्थः । इह हि निवासे योऽभिजन इति विशेषिते, तस्माद् देशवाचिन एव प्रत्ययः ।
निवासाभिजनयोः को विशेष इति । अभिजनस्यापि निवासभूतस्य ग्रहणान्नास्त्येव विशेष इत्यर्थः । तत्रेति । यत्र स्वयं निवसति स तस्य निवासः । यत्र तु पूर्वैः पित्रादिभिरुषितं सोऽभिजन इत्यर्थः ।
आयुधजीविभ्यश्छ पर्वते ।। 4.3.91 ।।
आयुधजीविभ्य इति तादर्थ्ये चतुर्थीत्यादि । यदि तु `आयुधजीविभ्यः' इति पञ्चमीस्यात्, पर्वतादिति ल्यब्लोपे पञ्चमी व्याख्येया स्यात्, ततश्चायमर्थः स्यात् आयुधजीविभ्यः पर्वतमुद्दिश्य पर्वतेऽभिधेये छो भवतीति, तत्र सोऽभिजन इत्यधिकारो बाध्यते ।।
शण्डिकादिभ्यो ञ्यः ।। 4.3.92 ।।
अणआदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण छः प्राप्तः; अथ जनपदशब्दाः, ततो `अवृद्धादपि बहुवचनविषयात्' इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ।।
सिन्धुतक्षशिलादिभ्योऽणञौ ।। 4.3.93 ।।
सिन्धुवर्णुप्रभृतय इति । प्रभृतिशब्देन मधुमत, कम्बोज, साल्व, कश्मीर, गन्धार---इत्येते गृह्यन्ते । किष्किन्धादिभ्यश्चतुर्भ्यः `अवृद्धादपि' इति वुञि प्राप्ते वचनम् । तक्षशिलादिष्वपि वृद्धेभ्यश्छः प्राप्तः, शेषेभ्यः `प्राग्दीव्यतोऽण्' ।।
अचित्ताददेशकालाट्ठक् ।। 4.3.96 ।।
अचित्तवाचिन इति । स्वरूपग्रहणं तु न भवति, देशकालप्रतिषेधात् । तत्साहचर्यादेशकालयोरपि स्वरूपग्रहणं न भवति ।।
वासुदेवार्जुनाभ्यां वुन् ।। 4.3.98 ।।
छाणोरपवाद इति । `वासुदेवशब्दः संज्ञा' इति वक्ष्यति, तेन तत्रोत्तरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्त्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः ।
ननु चेत्यादि । वसुदेवस्यापत्यम्, `ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि `वृद्धिनिमित्तस्य' इति पुंबद्भावप्रतिषेधः, सोऽस्यापि `न कोपधायाः' इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्त्या परमात्मन एषा संज्ञा । न क्षत्त्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् ।
प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति---अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि `श्वयुवमघोनामतद्धिते' इति निर्देशात्क्वचिदन्यथापि भवति ।।
गोत्रक्षत्त्रियाख्येभ्यो बहुलं वुञ् ।। 4.3.99 ।।
गोत्रक्षत्रियाख्येभ्य इति । आङ्पूर्वात्ख्यातेर्मूलविभुजादित्वात्कः । आख्याग्रहणमिति । आङ्पूर्वस्य ख्यातेग्रहणमित्यर्थः । यथाकथञ्चिदिति । क्षत्त्रियशब्दसामानाधिकरण्याद्येषां क्षत्त्रिये वृत्तिः, यथा---शूरः क्षत्त्रिय इति, तेभ्यो मू भूदित्यर्थः ।।
जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ।। 4.3.100 ।।
जनपदिनाम् जनपदिवाचिनां शब्दानाम् जनपदवत् जनपदवाचिनां शब्दानामिव, जनपदेन जनपदवाचिना शब्देन, समानशब्दानाम् समनश्रुतीनाम्, बहुवचने बह्वर्थाभिधाने । वृत्तेरप्येष एवार्थः । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । जनपदिनो जनपदस्वामिन इति । स्वस्वामिभावसम्बन्धे मत्वर्थीयं दर्शयति । अङ्गा जनपदा इत्यादिना दृष्टान्ते प्रवृत्तिप्रकारमाह । तद्वदित्यादिना तूदाहरणम् । सर्वत्र बहुष्वर्थेषु `द्व्यञ्मगध' इत्यादिना विहितस्याणः `तद्राजस्य बहुषु' इति लुकि कृते समानशब्दादवृद्धादपि बहुवचनेति वुञि विवक्षिते `गोत्रेऽलुगचि' इति वचनादाङ्गशब्दाद् वुञ् ।
पञ्चाला ब्राह्मणा इति । अभेदोपवाराद् ब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः, तत्रातिधेशाभावादणेव भवति ।
सर्वग्रहणमित्यादि । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात्, न प्रकृतेः । वतिनिर्देशस्तु यैर्जनपदैर्ये जनपदिनस्तेषां तज्जनपदप्रत्यय एव यथा स्यात्, जनपदान्तरप्रत्ययो मा भूदित्येवमर्थं स्यात् । न त्वेनन प्रकृत्यतिदेशो लभ्यते, तस्मात्तदर्थं सर्वग्रहणं क्रियते । स च द्व्येकयोः प्रयोजयतीति पाठः । स च प्रकृत्यतिदेशः सर्वग्रहणं द्व्येकयोः प्रयोजयति, न बहुषु; तत्र रूपस्या भिन्नत्वात् । यदाह---`बहुवचने समानशब्दानाम्' इति । द्व्येकयोस्तु जनपदवाचिनो रूपं वृद्धम्, जनपदवाचिनस्त्ववृद्धमिति तत्रैव सर्वग्रहणस्य प्रयोजनमित्यर्थः । अतिदेशः प्रयोजयति, अतिदेशं प्रयोजयतीति वा पाठे न समीचीनमर्थं पश्यामः । वृद्धिनिमित्तेष्वित्यादि । तत्र ह्यतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्ध्या भाव्यमिति नास्ति वेशेषः ।
मद्रवृज्योः कति विशेष इति । तत्र वृद्ध्यसम्भवात् । प्रकृतिनिर्ह्रासे कृत इति । निर्ह्रासः=अपचयः, अल्पत्वमित्यर्थः । मद्रकः, वृजिक इति । असति तु प्रकृत्यतिदेशे माद्रकको वार्ज्यक इति स्यात् ।
बहुवचनग्रहणमित्यादि । समानशब्दताया यो विषयस्तस्य लक्षणं प्रदर्शनं तदर्थम् । अन्यथा हीति । यदि बहुवचनग्रहणं न क्रियते । यत्रैवेति । बहुवचने, तत्रैव हि तद्राजस्य लुकि कृते समानशब्दता भवति । एकवचनद्विवचनयोर्न स्यादिति । लुगभावेन समानशब्दताया अभावात् । ननु सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयतीत्युक्तम्, तत्कथं द्व्येकयोर्न स्यात् ? तस्मात् सर्वग्रहणाध्यत्र क्वचित्समानशब्दानां सर्वत्रातिदेशः सिद्धः । अस्यैवार्थस्य विश्पष्टप्रतिपत्त्यर्थम् `बहुवचने' इत्युपलक्षणमुपात्तम् ।।
तेन प्रोक्तम् ।। 4.3.101 ।।
प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदत्तादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते `कलापिनोऽण्' इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ।।
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।। 4.3.102 ।।
छन्दसि चायमिष्यत इति । छन्दस्यभिधेय इत्यर्थः । तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवतीति । न केवलं छणेव, अपि त्वणपि न भवत्यनभिधानादित्याहुः । कथं पुनरिष्यमाणोऽपि छन्दसि लभ्यः ? इत्याह---शौनकादिभ्य इति ।
कास्यपकौशिकाभ्यामृषिभ्यां णिनिः ।। 4.3.103 ।।
णकार उत्तरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि `वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृत्तेः । वृत्तावपि `जातेश्च' इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह---शौनकादिभ्य इति । ननु च तत्रानुवृत्तौ सत्यामप्यस्य योगस्य न कल्पः छन्दो भवति, नापि ब्राह्मणम् ? अत आह---छन्दोऽधिकारविहितानां चेति । `छन्दोब्राह्मणानि' इत्यत्र छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यत्तु `छन्दोब्राह्मणानि' इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ।।
कलापिवैशम्पायनान्तेवासिभ्यश्च ।। 4.3.104 ।।
कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणआदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति---तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्येरन्, कलापिग्रहणमनर्थकम्, `वैशम्पायनान्तेवासिभ्यः' इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य `प्रोक्ताल्लुक्' इति लुक् ।
उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्, `गोत्रचरणाद् वुञ्' । तत्र `धर्माम्नाययोः' इति पठ्यते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति । `कठचरकाल्लुक्' इति कठाल्लुगुक्तः । कलापिशब्दादपि `कलापिनोऽण्' त्यणुक्तः ।।
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।। 4.3.105 ।।
भाल्लविन इत्यादि । भल्लु, शाट्यायन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः ।
यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि `आपत्यस्य' इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट्यायनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह---याज्ञवल्क्यादयो हीति । आख्यानानि=भारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः, `छन्दोब्राह्मणानि च' इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; छन्दस्त्वादेव सिद्धेः ।
कल्पेषु तर्हि कस्मान्न भवति यथा---काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह---न वायमिति । युक्तं तत्र छन्दोऽधिकारे तस्य योगस्यानुवृत्तेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति । `सिद्धशुष्कपक्वबन्धैश्च' इति निपातनादेव सिद्धे, `शुषः कः' `पचो वः' इति लिङ्गम्---`बाधकान्यपि निपातनानि भवन्ति' इति । यथा तु सर्वादिसूत्रे `भाष्यम्, तथा `अन्यपराण्यपि निपातनानि बाधकान्येव' इति स्थितम् ।।
कलापिनोऽण् ।। 4.3.108 ।।
यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य---इत्येतेभ्यः `पुराणप्रोक्तेषु' इति णिनेरपवादोऽण्भवति ।।
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।। 4.3.110 ।।
तदर्थं छन्दोग्रहणमनुवर्त्त्यमिति । ननु तदनुवृत्तावपि कथं भिक्षुनटसूत्रयोश्छन्दस्त्वम् ? तत्राह---गुणकल्पनय चेति । उपचारस्य निमित्तभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमित्ता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, `अलं भूपणपर्याप्तिवारणेषु' इत्येतस्मात् `सुप्यजातो' इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः ।
पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि `नान्तस्य टिलोपे सब्रह्मचारि' इत्यादिना टिलोपः ।।
तेनैकदिक् ।। 4.3.112 ।।
सौदामनीति । `अन्' इति प्रकृतिभावः । सुदामादयः=पर्वतविशेषाः ।।
तसिश्च ।। 4.3.113 ।।
स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधईयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ।।
उपज्ञाते ।। 4.3.115 ।।
विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते । `दूषू' इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये `वृत्' इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ।।
कृते ग्रन्थे ।। 4.3.116 ।।
`तित्तिरिवरतन्तु' इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तित्तिर्यादयो हि छन्दसां प्रवक्तारो न कर्त्तारः; नित्यानि हि छन्दांसि न केनचित्क्रियन्ते ।।
संज्ञायाम् ।। 4.3.117 ।।
अग्रन्थार्थमिदम् ।।
क्षुद्राभ्रमरवटरपादपादञ् ।। 4.3.119 ।।
अणोऽपवाद इति । बाहुल्यादेवमुक्तम्, पादपशब्दाद्धि छः प्राप्नोति । अन्ये तु पादपशब्दस्य स्थाने पदपशब्दं पठन्ति ।।
तस्येदम् ।। 4.3.120 ।।
`तस्या पत्यम्' इत्यत्रोक्तमेवार्थं स्मारयति---प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ्यर्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति---यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम् `तस्यापत्यम्' इत्यत्रैवोक्तम् ।
वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमित्ताभावात्तेषामभावः ।
अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् `ऋत्विग्विशेषः । `त्वमग्निदृतीयते' इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणम्=गृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यात्तु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम्---`प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणः' इति । छप्रत्ययं च ततः शरणे कुर्वन्ति, `आग्नीध्रीयसकाशमुत्तरेणाग्नीध्रीयं धिष्ण्यं परीत्य' इति शरणवचनाच्छः ।
समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्, `हलस्तद्धितस्य' इति यलोपः ।।
रथाद्यत् ।। 4.3.121 ।।
रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः `तद्वहति रथयुगप्रासङ्गम्' इति द्रष्टव्यः । स्यादेतत्---अयमेव तद्वोढर्यपीष्यताम्, `तद्वहति' इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति `द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यत्तु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ।।
पत्त्रपूर्वादञ् ।। 4.3.122 ।।
पतन्त्यनेनेति पत्त्रमिति । `दाम्नीशस' इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्युक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ।।
पत्त्राध्वर्युपरिषदश्च ।। 4.3.123 ।।
पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ।।
द्वन्द्वाद् वुन् वैरमैथुनिकयोः ।। 4.3.125 ।।
वैरम् = विरोधः, वीराणामिदमिति कृत्वा, मिथुनकर्म मैथुनिका, मनोज्ञादित्वाद् वुञ् । मिथुनम् = दम्पती, कर्म = क्रियानिष्पादनम् । बाभ्रवशालङ्कायनिकेति । वुञन्तं स्वभावतः स्त्रियां वर्त्तते ।।
गोत्रचरणाद् वुञ् ।। 4.3.126 ।।
वुनि प्रकृते वुञो विधानमवृद्धेषु वृद्ध्यर्थम् । वृद्धेषु वुनि वुञि च विशेषो नास्ति---तदेव रूपं स एव स्वरः, पुंवद्भावप्रतिषेधोऽपि `न कोपधायाः' इत्यभयोरस्ति ।।
सङ्घाङ्कलक्षणेष्वञ्यञिञामण् ।। 4.3.127 ।।
पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृत्तेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः ।
घोषग्रहणमत्र कर्तव्यमिति । घोषः = आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह---तेन वैषम्यादिति ।
अथाङ्कलक्षणयोः को विशेष इति ।। निघण्टुषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह---लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ।।
शाकलाद्वा ।। 4.3.128 ।।
वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति---शाकलेन प्रोक्तमिति ।।
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ।। 4.3.129 ।।
वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ।।
न दण्डमाणवान्तेवासिषु ।। 4.3.130 ।।
दण्डप्राधाना माणवा इति । अर्थकथनमेतत् समासस्तु कर्मधारयः । सदा दण्डधारणाद्दण्डशब्दो माणवेषु वर्तते ।।
रैवतिकादिभ्यश्छः ।। 4.3.131 ।।
पूर्वेणेति । `गोत्रचरणाद् वुञ्' इत्यनेन रैवतिकीय इति । रेवत्या अपत्यम् `रेवत्यादिभ्यष्ठक्' रैवतिकः, ततश्छः । अन्ये इञन्ताः, तत्रानन्तरसूत्रात्प्रतिषेधोऽनुवर्त्तिष्यते, रैवतिकादिभ्यो वुञः प्रतिषेधे विज्ञायमाने यत्रापवादो नास्ति---रैवतीकीय इति, तत्र `वृद्धाच्छः' इत्येव सिद्धः; क्षेमवृद्धिशब्ददपि गहादित्वाच्छः; अन्येषु `इञश्च' इत्यण् स्यात्, तस्माच्छग्रहणम् ।।
कौपिञ्जलहास्तिपदादण् ।। 4.3.132 ।।
गोत्रवुञोऽपवाद इति । कुत इत्याह---गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; `अहस्त्यादिभ्य' इति वचनात् । हस्तिपादस्यापत्यम् `तस्यापत्यम्' इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्छः प्राप्नोति । सिद्धोऽत्र छः `वृद्धाच्छः' इति ? न सिद्ध्यति; `गोत्रचरणाद् वुञ्' इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छो न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यात्तस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च---कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ।।
आथर्वणिकस्येकलोपश्च ।। 4.3.133 ।।
चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठ्ठक्,---आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा---अथर्वणा प्रोक्तो वेदः `तेन प्रोक्तम्' इत्यण् ततः `छन्दोब्राह्मणानि' इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात् `प्रोक्ताल्लुक्' इति लुग्न भवति---आथर्वणिकः ।
पुर्वसूत्रमिदञ्च वार्त्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ।।
तस्य विकारः ।। 4.3.134 ।।
प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्युदात्तमिति । अनुदात्तादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयटं वक्ष्यति । यस्य च नान्यदिति । यथा `गोपयसोर्यत्' इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ । `मृदस्तिकन्', मृत्तिका ।
तस्य प्रकरणे इति । `तस्येदम्' इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्त्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृत्तौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्त्तकं घादीनपि निवर्त्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्त्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्त्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणआदयस्तु ननिवर्तन्ते, `प्राग्दीव्यतः' `प्राग्भवानात्' इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तात्तु प्राग्वहतेः `प्राग्घितात्' इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत्--मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ; `तस्येदम्' इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न; `तस्येदम्' इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते---तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थमिति, यावता सूत्रप्रकृत्तिरेव शैषिकनिवृत्त्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः `नव्विषयस्यानिसन्तस्य' इत्याद्युदात्तः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति ।
इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि `तस्य विकारः' `बिल्वादिभ्योऽण्' इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र `तस्येदम्' इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा `हलसीराट्ठक्' इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदात्तत्वविधानात्पक्षे आद्युदात्तत्वादण् । यदि त्वत्र `तस्येदम्' इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्युदात्तः, अत्र प्रथमः `प्राग्दीव्यतोऽण्' प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोत्तरपदलक्षणश्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति---अत्र `प्राग्दीव्यतोण्' प्रथमः, तदपवादयोः `अवृद्धादपि' इति `ओर्देशेठञ्' इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः, `कोपधादण्' इति वा कच्छादिपाठाद्वाऽण्तृतीयः, `मनुष्यतत्स्थयोर्वुञ्' चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः `कोपधाच्च' इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति, `तस्येदम्' इत्यत्रार्थे `रोपधेतोः प्राचाम्' इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ।।
अवयवे च प्राण्योषधिवृक्षेभ्यः ।। 4.3.135 ।।
मौर्वमिति । मूर्वाशब्दः `तृणधान्यानां च द्व्यषाम्' इत्याद्युदात्तः . खदिरमिति । खादेः खदिरशब्दः किरच्प्रत्ययान्तो निपातितः, तेनानुदात्तादिलक्षणो वुञ् प्राप्नोति । यदि त्वणिष्यते, बिल्वादिषु पठितव्यः ।
कृतनिर्देशौ हि ताविति । `तस्येदम्' इत्यनेन । यद्यपि शैषिकनिवृत्त्यर्थत्वं पूर्वयोगस्य प्रयोजनमुक्तम्, तथापि तदनपेक्ष्य भास्मनम्, मार्तिकमित्यादौ तावदणादयः सिद्धा इत्यभिसन्धायेदमुक्तम् ।।
बिल्वादिभ्योऽण् ।। 4.3.136 ।।
अञ्मयटोरपवाद इति । तत्र काण्ड-पाटलीशब्दाभ्यां वृद्धलक्षणस्य मयटोऽपवादः, शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, बिल्वशब्दस्य `विल्वतिष्योर्वान्तः स्वरितः' इत्यन्तः स्वरितः, उदात्तो वा । व्रीहिमुद्गशब्दौ घृतादित्वादन्तोदात्तौ । मसूर-गोधूम-गवीधुकशब्दाः `लघावन्ते द्वयाश्च' इति मध्योदात्ताः । इषेः क्सः, इक्षुः, प्रत्ययस्वरेणान्तोदात्तः । वेणुशब्दः `विभाषा वेण्विन्धानयोः' इति पक्षेऽन्तोदात्तः । कर्पासीशब्दो जातिलक्षणङीषन्तः । कर्कन्धूशब्दः `अलाबूकर्क्कन्धूदिधिषूः ' इति निपातनान्मध्योदात्तः, `कुटीशमीशुण्डाभ्यो रः' इति कुटीरशब्दः प्रत्ययस्वरेणान्तोदात्तः । मयड्बाधनार्थमिति । `मयड्वैतयोः' इत्यादिना प्राप्तस्य मयटो बाधनार्थम्, शेषेभ्यस्त्ववृद्धेभ्यः शब्देभ्यः पक्षे मयड् भवत्येव । अण्ग्रहणं बाधकबाधनार्थण् । बिल्वादिभ्यो यथाविहितमित्युच्यमानेऽपि हि पाटलीशब्दान्ङीषन्तादनुदात्तादिलक्षणस्याञो मयटा बाधे प्राप्ते पुनर्वचनादञेव स्यात् ; अण्ग्रहणात्त्वणेव भवति ।
कोपधाच्च ।। 4.3.137 ।।
अञोऽपवाद इति । `ओरञ्' `अनुदात्तादेश्च' इति प्राप्तस्य, तित्तिडीकादयः `लघावन्ते' इत्यादिना मध्योदात्ताः ।।
त्रपुजतुनोः षुक् ।। 4.3.138 ।।
अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ।।
ओरञ ।। 4.3.139 ।।
देवदारु-भद्रदारुशब्दौ `पीतद्रवर्थानाम्' इत्यादिनाद्युदात्तौ । पीतद्रुः = सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदात्तो भवतीत्यर्थः ।।
अनुदात्तादेश्च ।। 4.3.140 ।।
दाधित्थं कापित्थमिति । दधनि तिष्ठतीति `सुपि स्थः', उपपदसमासः, पृषोदरादित्वात्सकारस्य तकारः, कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् ।
पलाशादिभ्यो वा ।। 4.3.141 ।।
उभयत्रविभाषेयमिति । कथमित्याह---पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः `अजिरशिशर' इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो `द्वितीयं प्रागीषात्' इति वर्तमाने `पान्तादीनां गुर्वादीनाम्' इति मध्योदात्तः । `स्पदि किञ्चिच्चलने', `अनुदात्तेतश्च हलादेः' इति युच्, किरतेरीरन्, करीरम्, `कृहृभ्यामीषन्', शॄपॄभ्यां किच्च', शिरीषम्, शेषे नित्स्वरेणाद्युदात्तावेतौ । विकङ्कतमूलासयवासशब्दाः `ग्रामादीनां च' इत्याद्युदात्ताः ।।
शम्याष्ट्लञ् ।। 4.3.142 ।।
अञोऽपवाद इति । शमीशब्दो गौरादिङीषन्तः । शामीली स्रुगिति । चातुर्मास्ये वरुणप्रघासेषु शमीमय्यः स्रुचो भवन्तीति श्रुतम् ।।
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।। 4.3.143 ।।
मौद्गः सूपः, कार्पासमाच्छादनमिति । उभयत्र बिल्वाद्यण्, विकारावयवयोरभक्ष्याच्छादनयोश्च यथासंख्यं न भवति; विकारावयवयोरसमासनिर्देशेन प्रत्येकमभिसम्बन्धात् ।
तद्विषयेऽपि यथा स्यादिति । यद्येतयोरिति नोच्येत, उत्तरैर्विशेषप्रत्ययैरञादिभिः सम्प्रधारणायां परत्वात्त एव स्युः, पूर्वेषां विशेषप्रत्ययानां मयडभावपक्षे सावकाशत्वान्मयट्पक्षे परत्वान्मयडेव लभ्यत इति प्राणिरजतादिभ्योऽञादय एत्युक्तम् । `एतयोः' इति वचनं पुनर्विधानार्थं सम्पद्यत इति परेषामपि विषये मयड् भवति ।।
नित्यं वृद्धशरादिभ्यः ।। 4.3.144 ।।
नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः `अमितम्योर्दीर्घश्च' इति रन्प्रत्ययान्तः ।
तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ।।
गोश्च पुरीषे ।। 4.3.145 ।।
गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह---पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव `तस्येदम्' इत्यधइकारे `गोर्मयट्' इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ।।
पिष्टाच्च ।। 4.3.146 ।।
पिष्टमंय भस्मेति ।। पैष्टी सुरेति तु सामान्यविवक्षायाम् `तस्येदम्' इत्यण्, `प्रदीयतां दाशरथाय मैथिली' इतिवत् ।।
असंज्ञायां तिलयवाभ्याम् ।। 4.3.149 ।।
यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद् `यावादिभ्यः' इति स्वार्थे कन् ।।
नोत्वद्वर्धबिल्वात् ।। 4.3.151 ।।
मौञ्जमिति । मुञ्जशब्दात् `तृणधान्यानां च द्व्यषाम्' इत्याद्युदात्तत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः `मृग्रेरुतिः', `ग्रोर्मुट् च' इत्युतिप्रत्ययान्तत्वादन्तोदात्त इति `अनुदात्तादेश्च' इत्यञ् । कथं तर्हि `तस्मा एतं गार्मुतं चरुं निर्वपेत्' इत्यन्तोदात्तत्वम् ? सर्वविधीनां छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः `लघावन्ते' इत्याद्युदात्तः, तमादण्, `टिड्ढाणञ्' इति ङीप् ।
मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ।।
तालादिभ्योऽण् ।। 4.3.152 ।।
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु तयोरेव प्रकृतिभेदेन बहुत्वात् । तत्र तालश्यामाकाभ्यां वृद्धत्वान्मयट् प्राप्तः बर्हिणस्य विकारो बार्हिणम्---`प्राणिरजतादिभ्योऽञ्', तस्माद् `ञितश्च तत्प्रत्ययात्' इत्यञ् प्राप्तः, शेषेभ्योऽनुदात्तादिलक्षणस्य । लिशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः, `अन्येषामपि दृश्यते' इति दीर्घत्वम् । `चप् सान्त्वने', पचाद्यच् । पीयूक्षाशब्दः `लघावन्ते' इति मध्योदात्तः, तत्र हि `फिष' इत्यधइकारात्प्रागेव टापः स्वरप्रवृत्तिः, इन्द्रायुधशब्द समासस्वरेणान्तोदात्तः ।
तालाद्धनुषीति । अन्यत्र तालमयमित्येव भवति । अण्ग्रहणं बाधकबाधनार्थम्, अन्यथा यथाविहितमित्युच्यमाने बार्हणशब्दाद्वृद्धलक्षणो मयट् स्यात्, वचनं तु `ञितश्च तत्प्रत्ययात्' इत्यञो बाधनार्थं स्यात् ।।
जातरूपेभ्यः परिमाणे ।। 4.3.153 ।।
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदात्तादिभ्योऽञः ।।
प्राणिरजतादिभ्योऽञ् ।। 4.3.154 ।।
अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्युदात्तेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्युदात्तं तस्मादणोऽपवादः अनुदात्तादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तित्तिरिशब्दस्तरतेः ` सन्वच्चाभ्यासस्य' इति किप्रत्ययान्तोऽन्तोदात्तः, शेषौ `लघावन्ते' इति मध्योदात्तौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ `प्राणिनां कुपूर्वाणाम्' इत्याद्युदात्तौ । गृध्रशब्दो रन्प्रत्ययान्त आद्युदात्तः । कथं तर्हि कापोतमित्याद्युदाहृतम्, सत्युदात्तार्थे प्राणिग्रहणेऽनुदात्तादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च `अनुदात्तादेरञः प्राण्यञ्विप्रतिषेधेन' इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्, `नहिवृति' इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वादनुदात्तादिः । तत्रानुदात्तलक्षणस्याञो बाधकं मयटं परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ।।
ञितश्च तत्प्रत्ययात् ।। 4.3.155 ।।
तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः---शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृत्तेर्देवदार्वादिशब्दात्तद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह---मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति---दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यात्तेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्, `तस्य विकारः', `उष्ट्राद् वुञ्', औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति, `टिड्ढाणञ्' इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति---`वुञश्चाञ ईतः प्रसङ्गः' इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानात्तु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति । `ञितो यत्नेन मयटं सूत्रकारो निवर्त्तयन् अन्यतो वष्टि मयटम्' इति वृत्तिकृतो मतम् । भाष्यवात्तिककारौ पुनराहतुः---`तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतोऽपि मयटः प्रसङ्गः---बैल्वस्य विकारः' इति ।।
क्रीतवत्परिमाणात् ।। 4.3.156 ।।
`चरणेभ्यो धर्मवत्' इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह---न रूढिपरिमाणमेवेति । नैष्किक इति । `असमासे निष्कादिभ्यः' इति ठक् । शत्यः, शतिक इति । `शताच्च ठन्यतावशते' । साहस्रमिति । `शतमानविशतिकसहस्रवसनादण्' ।
वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह---अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुक' इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति---याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्, `सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युत्तरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः `द्वित्रिपूर्वान्निष्कात्' इति पक्ष लुक्, `परिमाणान्तस्य' इत्युत्तरपदवृद्धिः ।।
उमोर्णयोर्वा ।। 4.3.158 ।।
उमाशब्दस्तृणधान्यानां वेत्याद्युदात्तः, ऊर्णाशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, ताभ्यां वुञभावे यथाक्रममणञौ ।।
एण्या ढञ् ।। 4.3.159 ।।
स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह--पुंसस्त्वञव भवतीति ।।
गोपयसोर्यत् ।। 4.3.160 ।।
मयड्विषये त्विति । `मयड्वैतयोः' इति विहितस्य मयटो विषये ।।
द्रोश्च ।। 4.3.161 ।।
अञोऽपवाद इति । `ओरञ्' इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ।।
माने वयः ।। 4.3.162 ।।
मीयते येन तन्मानं प्रस्थादि ।।
फले लुक् ।। 4.3.163 ।।
तद्विशेष इति ।। विकारावयवविशेषे । उदाहरणेषु आमलकीशब्दाद् वृद्धान्मयटो लुक्, इतरयोर्गौरादित्वान्ङीष्, ताभ्यामनुदात्तादिलक्षणस्याञः, सर्वत्र `लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । ननु च न फलं वृक्षस्य विकारः, स हि द्विविधो भवति---यो वा प्रकृतिमुपमृद्नाति खादिरं भस्मेति, यो वा प्रकृतेर्व्यपदेशान्तरं करोति खादिरः स्रुव इति; फलं तु नैवंविधमिति वृक्षे स्थितमपि काकादिवन्न तस्य विकारः, नाप्यवयवः, अनारम्भकत्वात् ; उत्पन्ने हि वृक्षे पश्चात्फलमुपजायते तत्कथं विकारावयवयोरुत्पन्नस्य प्रत्ययस्य लुग्विधीयते ? इत्याह---फलितस्येति । फलशब्दस्तारकादिः, `प्रकृतेरवस्थान्तरं विकारः' इत्युक्तम्, अफलितावस्थायाश्च फलिताऽवस्थान्तरं भवत्येव । तत्र वृक्षत्वं तूभयत्रानुवर्तते, सर्वत्र चोत्तरावस्था विकारः, सर्वश्चावयवः स्वोत्पत्तेः प्राग्नोपस्थितो नास्यारम्भकः, यथा श्रृङ्गदन्तादिरथ च गवादेरवयवो भवति, तदेतत्फलेऽपि समानम् । पल्लवशब्दोऽर्द्धर्चादिः । फले लुग्विधानमनर्थकम्; प्रकृत्यन्तरत्वात् । आमलकादिशब्दः फले वर्तते, न यौगिकः---आमलक्याः फलमिति, यथा नामलकयोगाद्वृक्षे आमलकशब्दः, आमलकफलस्येयमामलकीति, यथाङ्गादिशब्दः क्षत्त्रिये जनपदे च । प्रत्ययनिवृत्त्यर्थं तु यथैतद्वाक्यं भवति---आमलक्या विकारः कुवल्या विकार इति, तथा प्रत्ययोऽपि स्यात् ।।
प्लक्षादिभ्योऽण् ।। 4.3.164 ।।
अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदात्तल7णस्य । तत्र प्लक्षशब्दः `फिषः' इत्यन्तोदात्तः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः `लघावन्ते' इति मध्योदात्तः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च `केवलस्य' इत्यैजागमः ।।
जम्ब्वा वा ।। 4.3.165 ।।
अञस्तु भवत्येव । न ह्यञो विधानसामर्थ्यम् ; फलादन्यत्र श्रवणात् । जम्बूनीति । फलस्याभिधेयत्वान्नपुंसकह्रस्वे `जश्शसोः शिः', नुम्, `सर्वनामस्थाने च' इति दीर्घः ।।
लुप्च ।। 4.3.166 ।।
युक्तवद्भावे विशेष इति । लुपि हि सति `लुपि युक्तवद्व्यक्तिवचने' इति प्रकृत्यर्थगते लिङ्गवचने भवतः, लुकि त्वभिधेयवल्लिङ्गवचने स्याताम् ।
फलापाकशुषामिति । फलपाकेन शुष्यन्तीटि फलपाकशुषः । व्रीहयो मुद्गा इति । बिल्वाद्यणो लुक्, यवमाषतिलशब्दाः `तृणधान्यानां च द्व्यषाम्' इत्याद्युदात्ताः, तेभ्य औत्सर्गिकस्याणो लुक् । मल्लिकाशब्दो मादीनामिति मध्योदात्तः । अस्यार्थः---अत्र `द्वितीयः प्रागीषात्' इति त्र्यषामिति वर्तते, मकारादीनां त्र्यषां द्वितीयमक्षरमुदात्तं भवति । नवमालिकाशब्दः `लघावन्ते' इति मध्योदात्तो जातिशब्दः । विदारीबृहतीशब्दौ गौरादिङीषन्तौ । अंशुशब्दः प्रातिपदिकरवरेणान्तोदात्तः, ततो मतुप् `ह्रस्वनुड्भ्यां मतुप्' इति मतुबाद्युदात्तः, ङीबनुदात्तः । तदेवमंशुमतीशब्दे मतुबकार उदात्तः । पाटलानीति । बिल्वादित्वादण्, साल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । क्वचिदन्यदपि भवतीति । लुपोऽन्यदपि कचित्कार्यं भवति, तत्पुनर्लुग्लुपोरभावश्च । कदम्बमित्यादावनुदात्तादिलक्षणस्याञो लुक् । कदम्बादयः शब्दाः `लगावन्ते' इति मध्योदात्ताः । बैल्वानीति । अत्रोभयाभावः, बिल्वाद्यण् ।।
हरीतक्यादिभ्यश्च ।। 4.3.167 ।।
हरीतक्यादिषु द्राक्षाप्रभृतिभ्यो मयटो लुप्, उदात्तादिभ्योऽणः, अनुदात्तादिभ्योऽञः ।।
कंसीयपरशव्ययोर्यञञौ लुक् च ।। 4.3.168 ।।
प्राक् क्रीताच्छेन कंसीय इति । `प्राक् क्रीताच्छः' इत्यधिकारे `तस्मै हितम्' इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानात्तदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः ।
अथ `वृतृहनिकषिकमिभ्यः सः' इति सः, कंसशब्दे सप्रत्ययः । यश्च पराश्रृणोतीति परशुः, `आङ्परयोः खनिश्रृभ्यांणिच्च' इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह---प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह---`ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्' इति, ननु च `अतः कृकमि' इत्यत्र कंसग्रहणं लिङ्गम्---नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च `ङ्याप्प्रातिपदिकात्' इत्यत्र नेदं वृत्तिकृता दर्शितम् ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य तृतीयश्चरणः
********************----------------------