काशिका (पदमञ्जरीव्याख्यासहिता)/द्वितीयोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
काशिकावृत्तौ
अथ द्वितीयाध्याये तृतीयः पादः
अनभिहिते।। 2.3.1 ।।
अनभिहिते।। अनभिहितशब्दोऽयमनेकार्थः, तथा हि---अभिपूर्वस्य दधातेर्हिनोतेश्चैतद्रूपं सम्भवति; अभिपूर्वश्च दधातिर्बन्धनेऽपि द्दष्टः----अश्वाभिधानीमादत्त इति, उच्चारणेऽपि---अभिहितः श्लोक इति, प्रतिपादनेऽपि----अभिहितोऽर्थ इति; हिनोतिरपि गतौ वृद्धौ च वर्तते, इह तु वक्ष्यमाणानां कर्मादीनां बन्धनाद्यर्थचतुष्टयासम्भवात्प्रतिपादनवचनोऽभिहितशब्द इत्याह---अनभिहिते अनिर्दिष्टे अनुक्त इति। वचिरत्र प्रतिपादनवचनः। उक्तार्थानामप्रयोग इति यथा सामान्येन `अभिहिते' इत्येतावत्युच्यमाने कटं करोति भीष्णमुदारं दर्शनीयमित्यत्र कटशब्दाद्विशेष्यवाचिन उत्पद्यमानया द्वितीययाऽनवयवेन कटगतस्य कर्मत्वस्याभिहितत्वाद्भीष्मादिभ्यो द्वितीया न स्यादिति मन्यमानः पृच्छति---केनानभिहित इति। इतरोऽपि विदिताभिप्राय आह---तिङ्कृत्तद्धितसमासैरिति। बहुषु प्रयुक्तेषु केषाञ्चिद्वर्जनेन केषाञ्चित्कार्यान्वप्रतिपादनम्===परिसंख्यानम्, प्रत्युदाहरणेषु सर्वत्र द्वितीया न भवति।
कटं करोति भीष्ममित्यादि। कटः कृतो भीष्म उदारो दर्शनीय इति करोतेरुत्पद्यमानः क्तप्रत्ययोऽनवयवेन सर्वकर्माभिधत्ते तद्वद् द्वितीयापीति यो मन्दधीर्मन्यते तं प्रतीदं परिगणनभ्, सूक्ष्मद्दशस्तु प्रति न वक्तव्यमेव। तथा हि प्रातिपदिकादुत्पद्यमाना द्वितीया यदाकारविशिष्टोऽर्थः प्रातिपदिकेनाभिधीयते तदाकारविशिष्टस्यैव कर्मभावमाचष्टे। कठशब्देन कटत्वजातिविशिष्टोऽर्थोऽभिधीयते,न भीष्माद्याकारविशिष्ट इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा तदाकारविशिष्टस्य कर्मत्वाभिधानाय द्वितीया भविष्यति। क्तप्रत्ययस्तु प्रकृत्यर्थस्य न कर्मतामाचष्टे, किन्तु प्रकृत्यर्थं प्रति यस्य कर्मभावः तमिति युक्तं यदनवयवेन सर्वकर्माभिधत्ते। ननु च कर्मादयो विभक्त्यर्थास्तेषां च तिङादिभिरभिरितवचनमनर्थकम्, अन्यत्रापि विहितस्याभावादभिहिते, यत्राप्यनभिहिताधिकारो न क्रियते तत्रापि शब्दान्तरप्रतिपादितेऽर्थे नैव विहितं भवति, तद् यथा---बहुपटुरिति बहुचोक्तत्वादीषदसमाप्तेः सत्यपि सम्भवे कल्पबादयो न भवन्ति, द्विर्दश द्विदशाः---समासेनोक्तत्वात्सुजर्थस्य सुज्न भवति, पटुगुप्तौ---द्वन्द्वेनोक्तत्वाच्चार्थस्य च--शब्दो न प्रयुज्यते; तद्वदत्रापि तिङादिभिरभिहितत्वादेव द्वितीयादयो न भविष्यन्ति।
नन्वभिहितार्थस्यापि प्रयोगो द्दष्टः----अपूपौ द्वाविति, सत्यम्; अयं तु न्यायः यदुताभिहिते विहितं न स्यात्, न हि व्यसनितया शब्दः प्रयुज्यते, अपि त्वर्थाभिधानाय, स चेदर्थः शब्दान्तरेणाभिहितः किमिति शब्दान्तरं प्रयुज्यते, अक्षिनिकोचादिभिरप्यवगतेऽर्थे शब्दो नैव प्रयुज्यते, किं पुनः शब्देनैवाभिहिते। अपूपौ द्वावित्यादौ तु द्वावानय कौ द्वौ ताविति सामान्योपक्रमे वाक्यमिति यथाकथञ्चिदुपपादनीयम्, तस्मान्नार्थ एतेनेत्याशङ्क्य संख्यापि विभक्त्यर्थ इति दर्शयन्नाह---बहुषु बहुवचनमित्येवमादिनेति।
अयमर्थः----`त्रिकः प्रातिपदिकार्थः' इत्यस्मिन्दर्शने कर्मादिवदेकत्वादिसंख्याविभक्त्यर्थः, तत्र कर्मादीनां युगपद्विभक्तिभिरभिधीयमानानां परस्परं विशेषणविशेष्यभावमनापन्नानां केवलप्रातिपदिकार्थगतानामभिधानं वृक्ष एको वृक्षः कर्म पशुरेकः पशुः करणमिति वाभिधानम्, पश्चाच्चैकक्रियान्वयबलेन परस्परसम्बन्ध इति प्राभाकरा मन्यन्ते।
भाट्टास्तु परम्परासम्बद्धस्य स्वतन्त्रस्यानेकार्थस्याक्षाः, पादाः, माषा इत्यादावभिधानदर्शनेऽप्येकशेषमन्तरेणादर्शनात् यजेतेत्यादौ च कृतिकार्ययोर्युगपल्लिङाभिधीयमानयोरपि विशेषणविशेष्यभावस्य प्राभाकरैरप्यभ्युपगमात्तद्वदेव विशिष्टाभिधानं मन्यन्ते।
अस्माकमप्ययमेव पक्षः। तत्र कर्मादयो विशेषणम्, एकत्वादयो विशेष्याः, कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति। विपर्ययो वा---एकत्वादिविशिष्टं यत्कर्म तत्र द्वितीयेति। तत्र यद्यपि कर्मादिप्राधान्यपक्षे तिङादिभिः प्रधानभूतानां कर्मादिनामभिहितत्वादप्रसङ्गः, द्वितीयादीनां संख्याप्राधान्यपक्षे कर्मादिष्वभिहितेष्वपि प्रधानभूतसंख्याभिधानाय द्वितीयादयः स्युरेव। प्राभाकरे तु पक्षे कर्माद्यंशाभिधानेऽपि संख्यांशस्यानभिहितस्याभिधानाय द्वितीयादयः स्युरिति। अनभिहितकर्माश्रयेष्विति। अनभिहितानि कर्मादीन्याश्रयो येषां तेष्वित्यर्थः। एतेन कर्मणीत्यादिसप्तमीनिर्द्देश एकत्वादीनामाधारतया, न पुनरभिधेयतयेति दर्शितम्। अनभिहित इति। यदि प्रसज्यप्रतिषेधः स्यात्ततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहितेऽपि विभक्त्यभावप्रसङ्गः, प्रासाद आस्ते इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकररगं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाभिहितम्---प्रसीदन्त्यस्मिन्प्रासाद इति, तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न स्यात्। पर्युदासे त्वासिप्रत्ययेन यदनभिधानं तदाश्रया सप्तमी सिद्व्यति। ननु च प्रासादाख्यस्य द्रव्यस्य कारकत्वादभिहितत्व दन्यत्वं नास्ति? नैष दोषः; शक्तिः कारकम्, तत्र सदिक्रियाशक्त्यभिधानेऽप्यासिक्रियाशक्तेरनभिधानम्। नन्वेवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिः, या त्वनभिहिता तत्र भविष्यति? उच्यते---अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्द्देशः संख्या च द्रव्यधर्मः, अतोऽनभिहिते कर्मणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते----अनभिहिता या कर्मादिशक्तिस्तदाधारभूतं यद् द्रव्यं तस्यैकत्वादिषु विभक्तय इति। एवं च यदि प्रसज्यप्रतिषेधः स्यात्ततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात्; पर्युदासे तु अनभिहितशक्तिद्वारे विधिरिति स्पष्ट एव फलभेदः। यत्र तर्हि शक्तिभेदो नास्ति तत्र कथम्---आसने आस्ते, शयने शेत इति? अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भुतशक्तिकमभिहितमिति तस्य शक्त्युद्भवप्रतिपादनाय विभक्तिर्भविष्यति।
यदि तर्हि पर्युदासोऽयमिति निर्मीयते, इह पक्त्वा भुज्यत ओदना इति भुजिप्रत्ययेनाप्यभिहित ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति, भावे हि क्त्वाप्रत्ययः; प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रतिषेधः सिद्ध्यति? उच्यते; नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः, किं तर्हि? भुजिनैव, सन्निधानात्तु पचिनान्वयः। केवलशब्दव्यापारनिरूपणे तु किमिष्टकाः पक्त्वौदनो भुज्यते, उतौदनमेवेति न ज्ञायते, अतः शब्दव्यापारापेक्षयाभिधानमेवेति द्वितीया न भविष्यति। अनभिहितवचनमनर्थकम्; प्रथमाविधानस्यानवकाशत्वात्। कृतः कट इत्यादिषु द्वितीयादयो मा भूविन्निति सूत्रारम्भः। यदि चात्रापि स्युः, क्वेदानीं प्रथमा स्यात्। नन्वनवकाशत्वात्प्रथमा भवन्ती कृतः कट इत्यादावेव भवतीति न पुनः कटं करोतीत्यादावपीति कुतोऽयं नियमः? उच्यते---कृतः कट इत्यादौ यद्यपि कृतशब्दसन्निधाने कटस्य कर्मता प्रतीयते, तथापि तत्र वाक्यार्थत्वादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रथमा भविष्यति, यथा---विरः पुरुष इति। कटं करोतीत्यत्र तु कटशब्देनैव कर्मशक्तिमानर्थोऽभिधीयत इति व्यतिरिक्तत्वात्प्रातिपदिकार्थस्य प्रथमा न भविष्यति। नन्वकारकेषु सावकाशा प्रथमा,यथा---वृक्ष इति? अत्राप्यस्तीति प्रतीतेः कर्तृ त्वात्तृतीयाप्रसङ्गः। यत्र ह्यन्यत्क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तीति गम्यते, लब्धसत्ताकस्य हि विशेषणान्तरयोगो भविष्यति। अथापि यत्र विशेषणान्तरनिवृत्तौ तात्पर्यम्, न क्रियासम्बन्धे, यथा---नीलमुत्पलं न रक्तम्, राज्ञोऽयं पुरुषो न देवदत्तस्येति, न ह्यत्र नीलमुत्पलमुत्पलमस्ति, राज्ञः पुरुषोऽस्तीति प्रतीतिः, अतोस्त्येवाकारकमवकाश इत्युच्येत? एवमपि विप्रतिषेधात्प्रथमा भविष्यति। द्वितीयादीनामवकाशो यत्र प्रातिपदिकार्थस्य व्यतिरेकः----कटं करोतीति; प्रथमायास्त्वकारकमवकाशः----नीलमुत्पलमिति; कृतः कट इत्यत्रोभयप्रसंगे परत्वात्प्रथमैव भविष्यति। ननु तामपि बाधित्वा परत्वात्, षष्ठी प्राप्नोति, शेषलक्षणा षष्ठी प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगादशेषत्वान्न भविष्यति। इह तर्हि कर्त्तव्यः कट इति कृत्प्रयोगे प्रथमां बाधित्वा `कर्तृ कर्मणोः कृति' इति षष्ठि स्यात्, तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। तदेवं संख्याविभक्त्यर्थ इत्यस्मिन्पक्षे कर्तव्यं सूत्रमिति स्थितम्।।
कर्मणि द्वितीया।। 2.3.2 ।।
कर्मणि द्वितीया।। द्वितीयादयः शब्दा इति। स्वनिकायप्रसिद्धिरेषेत्यर्थः।
उभसर्वतसोरिति। उभयसर्वशब्दयोस्तसिलन्तयोः प्रयोग इत्यर्थः। उभयशब्दैकदेश उभशब्दोऽनुकृतः; उभशब्दस्य तसिलन्तस्याभावात्, तस्य द्विवचनटाब्विषयत्वात्। धिगित्यविभक्तिको निर्द्देशः। आम्रोङितान्तेष्विति। कृतिद्वर्वचनेष्वित्यर्थः। उभयतः सर्वत इति। पञ्चम्यास्तसिल्। धिगिति। निन्दार्थोऽयम्। उपर्युपरीति। `उपर्यध्यधसस्सामीप्ये' इति द्विर्वचनम्। ततोऽन्यत्रापीत्युक्तम्, तानेवान्यान्परिगणयति---अभित इत्यादि। अभितो ग्राममिति। उभयत इत्यर्थः। परित इति। सर्वत इत्यर्थः। `पर्यभिभ्यां च' इति तसिल्। आभिमुख्यवृत्तिरपि विभक्तिप्रतिरूपको निपातोऽभितः शब्दोऽस्ति, सोऽपि गृह्यते। समयानिकषाशब्दौ समीपवचनौ गृह्येते। हाशब्दः शोकादिवृत्तिः हा कन्ये इत्यादौ कारकविभक्तित्वादन्तरङ्गत्वात्सम्बोधनविभक्तिर्मवति। बुभुक्षितं न प्रतिभातीति। प्रतिरत्र क्रियाविशेषकत्वा दुपसर्गो न कर्मप्रवचनीय इति पठ्यते।
तृतीया च होश्छन्दसि।। 2.3.3. ।।
तृतीया च होश्छन्दसि।। यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्त्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देवतोद्देशेन प्रक्षिपतीत्यर्थः।
अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्त्तते---अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः।
मीमांसकास्त्वाहुः----अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च---स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्युर्हूयते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्त्तते।।
अन्तरान्तरेण युक्ते।। 2.3.4 ।।
अन्तरान्तरेण युक्ते।। अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा--गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठ्ेयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्त्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति. तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगत्ततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्त्ता, स च तिङाभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत् `सहयुक्तेऽप्रधाने' इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम्---अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण।।
कालाध्वनोरत्यन्तसंयोगे।। 2.3.5 ।।
कालाध्वनोरत्यन्तसंयोगे।। मासमधीत इति। ननु कर्मत्वादेवात्र द्वितीया सिद्धा, कथम्? `कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्'। अवश्यं कर्मसंज्ञैवाश्रयणीया---आस्यते मासः, आसितव्यः आसित इति कर्मणि लकृत्यक्तखलर्था यथा स्युरिति, सत्यम्; इदमप्यवश्यं वक्तव्यम्---द्रव्यगुणाभ्यामत्यन्तसंयोगे द्वितीयायथा स्यादिति। तत्र क्रियात्यन्तसंयोगेऽपि परत्वादनेनैव युक्ता द्वितीया। मासस्येति`कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति षष्ठी।।
अपवर्गे तृतीया।। 2.3.6 ।।
अपवर्गे तृतीया।। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृत्ताविति। अशक्त्यादिना कर्त्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्त्यपायः, न त्वपवृक्तेति।।
सप्तमीपञ्चम्यौ कारकमध्ये।। 2.3.7 ।।
सप्तमीपञ्चम्यौ कारकमध्ये।। कारकमध्य इति। मध्यस्यावधिद्वयापेक्षत्वाद् द्विवचनान्तेन समासः, कालाध्वनोश्चैतद्विशेषणमित्याह---कारकयोर्मध्ये यौ कालाध्वानाविति। अद्य भुक्त्वेत्यादि। ननुं चात्र देवदत्त एकः कर्त्ताः तत्कथं कारकयोर्मध्ये काल इत्याह---कर्तृशकत्योरिति। स्यादेवं यदि द्रव्यं कारकं स्यात्, शक्तिस्तु कारकम्, सेह भिद्यते--एका अद्य भुजेः साधनम्, अपरा द्व्यहभुजेः, तेनानयोर्मध्ये काल इत्यर्थः। कर्तृकर्मणोरिति। इषूनस्यतीष्वासः पुरुषः स कर्त्ता, इष्वसने व्यधने स्थाने वा कर्म लक्ष्यम्। अर्मापादानयोरिति। कर्म तदेव सामर्थ्याद् गम्यमानं धनुरपादानं यतः शरा अपयन्ति। कर्माधिकरणयोर्वेति। कर्म तदेवाधिकरणमिहेति निर्द्दिष्टः प्रदेशः। इह कालाध्वानौ द्वौ, सप्तमीपञ्चम्यावपि द्वे, ततश्च संख्यातानुदेशः प्राप्नोति---कालात्सप्तमी, अध्वनः प्रञ्चमीति, अत आह---संख्यातानुदेश इत्यादि। अस्वरितत्वादिति। स्वरितेन लिङ्केन यथासंख्यमित्येतत् तत्रैव प्रतिपादितम्।।
कर्मप्रवचनीययुक्ते द्वितीया।। 2.3.8 ।।
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी।। 2.3.9 ।।
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।। यस्मादधिकं तदस्मिन्नधिकमिति च निर्देशादधिकशब्दयोगे पर्यायेण सप्तमीपञ्चम्यौ भवतः। उपखार्थो द्रोण इति। `उपोऽधिके च' इति कर्मप्रवचनीयसंज्ञा। यस्य चेश्वरवचनमित्यादि। द्वयमनेनोच्यते, द्वयोरपि भवति, तत्रापि पर्यायेणेति तत्र द्वयोरपि तावद्भवति, कथम्? ईश्वर उच्यते येन तदोश्वरवचनमैश्वर्यम्, अथ वा ईश्वरशब्दो भावप्रधानः ईश्वरः तस्योक्तिरीश्वरचनम्, यस्य स्वामिन ईश्वरत्वमुच्यते ततः सप्तमीत्यर्थः। अथ वा---यस्येति स्वं निर्दिश्यते, यस्य स्वस्येश्वर उच्यते ततः स्वात्सप्तमीत्यर्थः। पर्यायेण वा भवति; शेषविषये कर्मप्रवचनीयविभक्त्यारम्भादेकत उत्पन्नया विभक्त्या द्विष्ठस्यापि संबन्धस्याभिधानात्। अधि ब्रह्मदत्त इति। `सप्तमी शौण्डैः' इति समासपक्षे ब्रह्मदत्ताधीना इति भवति विभक्त्यर्थवृत्तित्वे।़धिब्रह्मदत्तमित्यव्ययीभावः। अयं योगः शक्योऽवक्तुम्, स्वामिन्याधारे पञ्चालाः स्थिता स्वेष्वाधारेषु ब्रह्मदत्तः स्थितः, तत्र यदा यदधिकरणं तत्र सप्तमी भविष्यति, एवं च कृत्वा `अधिरीश्वरे' इति कर्मप्रवचनीयसंज्ञा न वक्तव्या, ऐस्वर्यवषयश्चाधिः क्रियया नैव युज्यते। अतो गत्युपसर्गत्वबाधार्थापि न युज्यते।।
पञ्चम्यपाङ्परिभिः।। 2.3.10 ।।
प्रतिनिधिप्रतिदाने च यस्मात्।। 2.3.11 ।।
प्रतिनिधिप्रतिदाने च यस्मात्।। यस्मादित्यनेनैव सूत्रैण पञ्चमी। मुख्यसद्दशः प्रतिनिधिरिति। मुख्यः क्व चित्कार्ये रूढः, यश्च तदभावे तत्कार्ये प्रतिनिधीयते स तत्प्रतिनिधिः। कर्मणि `उपसर्गे घोः किः'। एवं प्रतिदानमित्यपि, कर्मण्येवल्युट्। दत्तस्येति। अथात्रानेनैव सूत्रेण पञ्चमी प्राप्नोति, यथा----यस्मादिति, एवं तर्हि कर्मणि षष्ठी। ननु न दत्तमेव प्रत्यर्प्यते, किं तर्हि? द्रव्यान्तरम्, सत्यम्; तुल्यमूल्यत्वात्तदेव प्रत्यपितमिति प्रतिपत्तिः, प्रतिनिर्यातनम्=प्रत्यपंणम्, अत्र भावे ल्युट। यस्मात्प्रतिनिधिरिति। सूत्रवदेव पञ्चमी। एवं यतश्चेत्यत्रापि। उर्जुनतः। प्रतीति। प्रतियोगे पञ्चम्यास्तसिः। अर्जुनो युद्धादौ प्रसिद्धस्तत्सद्दशोऽभिमन्युरित्यर्थः। माषानित्यादि। ये पूर्व गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम्। संबन्धिसंभबन्धादिति। प्रतिनिधिर्मुख्यमपेक्ष्य भवति, प्रतिदानमपि पूर्वदत्तम्, ततश्च यस्य कर्मप्रवचनीयस्य प्रतिनिधिप्रतिदानाभ्यां योगस्तस्य ताभ्यामपि मुख्यपूर्वदत्ताभ्यां तद्द्वारको योगोऽस्तीत्यर्थः।।
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि।। 2.3.12 ।।
गत्यर्थकर्मणि द्वितीयाचतुथ्यौं चेष्टायामनध्वनि।। चेष्टाक्रियाणामिति। वस्तु व्याख्यानमेतत्, सूत्रे तु सप्तमी चेष्टायामिति। परिस्पन्दनक्रियाणामिति। परिस्पन्दन एव चेष्टाशब्दः प्रसिद्ध इति भावः। `स्वं रूपम्' इति वचनात्स्वरूपग्रहणाशङ्कायामाह---अध्वन्यर्थग्रहणमिति। सप्तमीनिर्देशादिति भावः। सप्तमीनिर्देशे ह्यनध्वनिकर्मणीत्यन्वयः। नानध्वनः प्रकृतेरिति अर्थ एव कर्म नाध्वशब्दः, तेनाध्वपर्यायेभ्योऽपरि चतुर्थी न भवति। द्वितीया तु `कर्मणि द्वितीया' इति भवति।
आस्थितः संप्राप्त इति गन्त्राधिष्ठित इत्यर्थः। यत्र त्विति। यदोत्पथेन पन्था एवाक्रमितुमिष्यते तदा भवत्येव चतुर्थीत्यर्थः। इह कस्मान्न भवति---अजां नयति ग्रममिति? अगत्यर्थत्वात्। प्रतीता ह्यत्र गतिर्न त्वसौ नयतेरर्थः; प्रापणवाचित्वात्। इह तर्हि स्त्रियं गच्छतीति चतुर्थी प्राप्नोति? सिद्धं त्वसंप्राप्तवचनात्, असंप्राप्तं यद्वस्तु गमनेन संप्रेप्स्यते तस्मिन्कर्मणीति वक्तव्यम्, स्त्री तु संप्राप्तैवेति चतुर्थ्यभावः। अध्वनश्चानपवादः। संप्राप्तो ह्यध्वा, यदा त्वसंप्राप्तः संप्रेप्स्यते तदा भवितव्यमेव चतुर्थ्येत्युक्तं पुरस्तात्।
न चतुर्थ्येवेति। नञः काक्वा प्रयोगाद्विकल्पेतेत्यनेनान्वयः। कर्मणि चतुर्थ्यां विकल्पितायाम् ` तथायुक्ते कर्मणि द्वितीया' इत्येव द्वितीया भविष्यतीति भावः। ग्रामाय गन्तेति। द्वितीया तावत्कृद्योगे षष्ठीं बाधते, तया च तुल्यकक्षा चतुर्थी द्वन्द्वेन प्रतिपाद्यत इति चतुर्थ्यपि कृह्योगे भवतीति भावः।
अयं योगः शक्योऽवक्तुम्, कथम्? संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियापि कृत्रिमं कर्म। तत्र यदा गमनस्य संदर्शनादीनां च स्वरुपभेदो विवक्ष्यते तदा संदर्शनादिकर्मणा गमनेनाभिप्रेयमाणस्य ग्रामस्य संप्रदानत्वाच्चतुर्थी। अभेदविवक्षायां तु गमनस्य कर्मत्वाभावाद् ग्रामः कर्मैव भवतीति द्वितीया सिद्धा नार्थ एतेनेति भा,्यकारस्य पक्षः। तत्र कृत्प्रयोगे षष्ठ्येव भवति।
चतुर्थी संप्रदाने।। 2.3.13 ।।
चतुर्थी संप्रदाने।। तादर्थ्य इति। तच्छब्देन कार्थं प्रति निर्दिश्यते, तस्मै इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते। तदर्थस्य भावस्तादर्थ्यमिति ष्यञा कार्यकारणसम्बन्धोऽभिधीयते; समासकृत्तद्धितेषु सम्बन्धाभिधानां भावप्रत्ययेनेति वचनात्। तत्र द्विष्ठत्वेऽपि सम्बन्धस्य षष्ठीवद्विशेषणादेव चतुर्थी भवती---यूपाय दार्विति। हेतुतृतीयापि विशेष्यान्न भवति। हेतुहेतुमद्भावस्यापि चतुर्थ्यैव प्रत्यायितत्वात्, षष्ठीविषये च हेतुतृतीया। इह तु प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमैव भवति। यदि तर्हि तादर्थ्य उपसंख्यानं क्रियते, नार्थः संप्रदाने चतुर्थ्या, योऽपि ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। अवश्यं संप्रदानग्रहणं कर्तव्यम् `रुच्यर्थानां प्रीयमाणः' इत्याद्यर्थम्।
वलृपि संपद्यमान इति। संपत्तिरभूतप्रादुर्भावरूपोत्पत्तिरिह गृह्यते, तत्र यद्रूपमुपजायते ततो विकाराच्चतुर्थी। मूत्राय कल्पते यवागूरिति । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायां तु मूत्रं संपद्यते यवागूरिति प्रथमैव भवतीति केचिदाहुः। अन्ये त्वभेदविवक्षायामेव चतुर्थीमिच्छन्ति। यदा तु `जनिकर्त्तुः प्रकृतिः' इत्यपादानत्वं विवक्ष्यते, तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः---मूत्रं संपद्यते यवाग्वा इति। अन्ये तत्रापि चतुर्थीमिच्छन्ति---मूत्राय संपद्यते यवाग्वा इति।
उत्पातेनेति। प्राणिनां शुभाशुभयो सूचको भूतविकार उत्पातः। अरोचकिन इति। अरुचिः=अरोचकम्, `रोगाख्यायाम्' इति ण्वुल्, बहुलवचनादस्त्रीलिङ्गता।।
क्रियार्थोपपदस्य च कर्मणि स्थानिनः।। 2.3.14 ।।
क्रियार्थोपपदास्य च कर्मणि स्थानिनः।। क्रिया क्रियार्थोपपदं यस्येति। ननु नास्मिन्नर्थेऽक्षराणि सन्ति तत्राह---तुमुन्ण्वुलावित्यादि। परिभाषितमुपपदं क्रियार्थमन्यत्र सम्भवतीत्ययमेव विषयो गृह्यते। अत्र च विषये क्रियैव क्रियार्थोपपदं तेनायमर्थो लभ्यते इति भावः। `यत्र गम्यते चार्थो न च प्रयुज्यते शब्दः स स्थानी' इति स्वनिकायप्रसिद्धिमाश्रित्याह---स्थानिनोऽप्रयुज्यमानस्येति। एधेभ्यो व्रजतीति। ननु चात्र `तादर्थ्ये' इत्येव चतुर्थी सिद्धा, इहापि तर्हि प्राप्नोति--एधानाहर्त्तु व्रजतीति? हरणार्था व्रजिक्रिया, न पुनरेधार्था चेदुदाहरणेऽपि तर्ह्येवमेव। एतावांस्तु विशेषः---प्रत्युदाहरणे शब्दः प्रयुज्यते, उदाहरणे तु नेति प्रतीयमाना च क्रिया कारकव्यपदेशस्य निमित्तम्। तत्र यथा प्रत्युदाहरणे आहरणापेक्षया द्वितीया सम्भवत्येवमुदाहरणेऽपि प्रतीयमानहरणापेक्षा द्वितीयैव स्यादित्ययमारम्भः। भक्षिरत्र स्थानीति। प्रविश गृहं पिण्डीं भक्षयेति गम्यमानत्वात्। न तु क्रियार्थोपपद इति। यद्यपि पिण्डीभक्षणार्थ गृहप्रवेशनं तथापि पारिभाषिकमुपपदं न भवतीति भावः। शकटेनेति। ननु `मध्येऽपवादाः' इति द्वितीयामेव चतुर्ती बाधिष्यते, न करणतृतीयाम्, एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता। इदं त्वत्र प्रत्युदाहरणं द्रष्ट्व्यम्---ब्राह्मणस्यैधेभ्यो व्रजतीति। असति कर्मग्रहणे इतरोपपदविभक्तिवदियमपि शेषविषयैव स्यात्।।
तुमर्थाच्च भाववचनात्।। 2.3.15 ।।
तुमर्थाच्च भाववचनात्।। तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य तत्तथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्त्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्योतल्लक्षणनेत्रो ज्ञातुमर्हति---धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति।
तुमर्थग्रहणं शक्यमकर्त्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्त्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते--क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति।।
नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च।। 2.3.16 ।।
नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च।। अलमिति पर्याप्त्यर्थग्रहणमिति। अलमित्यर्थग्रहणं तत्रापि पर्याप्तिग्रहणमित्यर्थः। तत्र तावदर्थग्रहणं तस्मै प्रभवतीति निर्देशात्, इह चालं कुरुते कन्यामिति `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति द्वितीया भविष्यति। एवमलमोदनेनेत्यत्रापि करणे तृतीया, ओदनेन न किञ्चित्साध्यमित्यर्थावगमात्, तेन भूषणप्रतिषेधयोरग्रहणात्पर्याप्तेरेवग्रहणम्। चकारः पुनरित्यादि। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः---स्वस्ति जाल्माय, जाल्मत्वादाशीरभावाद् भूतकथनमेतत्; कुशलार्थैराशिषि चतुर्थी चेत्यस्यावकाशः---अन्ये कुशलार्थाः, कुशलं देवदत्तस्य कुशलं देवदत्ताय; स्वस्ति गोभ्यो भूयात्, उभयप्रसङ्गे परत्वात्पक्षे षष्ठी स्यात्।।
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु।। 2.3.17 ।।
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु।। मन्यतेः कर्म मन्यकर्मेति। `मन ज्ञाने'इत्यस्य दैवादिकस्य धातोः श्यना उपलक्षणम्, न तु प्रयोगस्थस्य श्यनन्तस्यानुकरणमित्यर्थः। तेन श्यनोऽभावेऽपि भवति---`तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्' इति। श्याना तु तानादिकस्य ` मनु अवबोधने' इत्यस्यैव निरासः। अनादरस्तिरस्कार इति। न त्वादराभावमात्रम्, कथम्? अनृतादिवन्नञः प्रतिपक्षवाचित्वादिति भावः। मन्यकर्मणि प्रकृष्टकुत्सितग्रहणमिति वार्त्तिकम्, यद्वाचिनश्चतुर्थी विधीयते ततः प्रकर्षेण यदि कुत्सा प्रतिपादयितुमिष्यते तदा चतुर्थी भवति, न तु सामान्यविवक्षायाम्। तेन प्रतिषेधयुक्तायां कुत्सायां चतुर्थीविधानं संपद्यत इति मत्वाह---न त्वा तृणायेति। `मन्यकर्मण्यनादर उपमाने विभाषा प्राणिषु' इति आपिशलिरधीते स्म, न तत्र प्रतिषेधापेक्षा, तथा च भट्टिप्रयोगो निदर्शनीयः।
अश्मानं द्दषदमित्यादि। तत्त्वाख्यानमेतत्। यस्य माता न पश्यतीति। दर्शनयोग्यम्। व्यवस्थितविभाषा चेति। ननु येषु प्राणिषु नेष्यते, ते नावादयो भविष्यन्तीति किं व्यवस्थितविभाषया? वृत्तिकार एवात्र साक्षात्प्रयोजनं वक्ष्यति।
नत्वा नावमिति। नावा तार्यमुदकं नाव्यं तद्यदैव तीर्णं तदैव नावमपि सन्तीं त्वां नाहं नावं मन्ये, प्रयोजनस्य निष्पन्नत्वादिति भावः। एवं यावन्नभुक्तं श्राद्धिमित्यत्रापि द्रष्टव्यम्। प्राणिषु तूभयमिति। विषयविभागेन। एतदपीति। एतदेव साक्षात्प्रयोजनमन्यत्र नावादित्वादेव सिद्धेरित्यवोचाम।।
कर्तृकरणयोस्तृतीया।। 2.3.18 ।।
कर्तृकरणयोस्तृतीया।। प्रकृत्याभिरूप इति। क्रियाया अश्रवणात्कर्तृकरणयोरभावात्षष्ठी प्राप्नोति।
प्रायेण याज्ञिक इति। प्रायशब्दो बह्वर्थः, बहवो याज्ञिका इत्यर्थः। गार्ग्योऽस्मीति। प्रथमा षष्ठी वा प्राप्नोति। समेनेति। अत्र द्वितोया प्राप्नोति। द्विद्रोणेनेति। द्वयोर्द्रोणयोः समाहारो द्विद्रोणं पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापि द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापी द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च परिमाणमस्य पञ्चकः सङ्घः, तत्र संघसंघिनोरभेदविवक्षायां पशूनित्यनेनैतत्समानाधिकरणमित्यत्रापि द्वितीयैव प्राप्नोति। साहस्रेणेति। सहस्रपरिमाणः संघः साहस्रः। सर्वमन्यत्पूर्ववत्। इत्युपसंख्यानमारभमाणस्याभिप्रायः।
प्रत्याख्यानं तु---इह तावत्प्रकृत्याभिरूप इति गम्यमानापि क्रिया करणादिव्यपदेशस्य निमित्तम्। इह च करोतिक्रिया गम्यते, करणान्तरव्युदासाय च प्रकृतेः करणत्वं विवक्षितं स्वभावेनायमभिरूपः कृतः, न वस्त्रालङ्कारादिनेत्यर्थः। प्रायेणेत्ययमर्थः---अस्मिन् ग्रामे ये विप्राः सन्ति ते बाहुल्येन यज्ञमवीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इत्यर्थः। इह तर्हि कथं विशिष्टवेषं कंचित् द्दष्ट्वाध्यवस्यति---प्रायेणायं याज्ञिक इति? अत्राप्ययमर्थः----अस्मिस्तावद्याज्ञिकानामाचारादिबाहुल्यमुपलभ्यते, अतोऽनेनाचारादिबाहुल्येन याज्ञिकोऽयं जनैर्ज्ञायत इति। तत्र प्रतीयमानज्ञानं प्रति करणत्वम्। केचित्---प्रायेणशब्दो विबक्तिप्रतिरूपको निपातो ज्ञातमित्यस्यार्थे वर्त्तते इत्याहुः। द्दश्यते च प्रायेण सामग्र्यविधौ गुणानामिति, प्रायेण निष्क्रामति चक्रपाणाविति च। गात्रेणेति। अनेनाहं ज्ञाये इति ज्ञानक्रियायामस्मीति भवनक्रियायां वा गोत्रस्य करणत्वम्। समेनेति। पथो गमने करणत्वं समेन पथेत्यर्थः। द्विद्रोणेनेति। द्विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दस्तस्य च क्रयं प्रति कारणत्वम्, द्विद्रोणादीनां च मूल्यम्, तेन द्विद्रोणाद्येव क्रीयते इत्यर्थभेदोऽपि नास्ति।।
सहयुक्तेऽप्रधाने।। 2.3.19 ।।
सहयुक्तेऽप्रधाने।। क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति, अतः `पुत्रेण सहगतः पिताः' इत्यादीनि क्रियादिसम्बन्धे यथाक्रममुदाहणान्युपन्यस्तानि। नन्वत्र सर्वतः सहार्थस्वभावादेव पितुः पुत्रस्य वा गमनादिना सम्बन्धः प्रतीयते, तत्कुतः पितुः प्राधान्यम्? केचिदाहुः----यस्य क्रियादिसम्बन्धो विशिष्टकालः प्रज्ञातः स यदान्यस्याप्रज्ञातविशिष्टकालक्रियासम्बन्धस्य तत्प्रतिपादनार्थमुपादीयते, यथा---`अयं पुरुषः कदागतः' इत्यपेक्षायाम् `राज्ञा सहागतः' इति पुरुषागमनं विषिष्टकालमुपपादयितुं वाक्यं प्रवर्त्तत इति पुरुषस्य प्राधान्यम्, राज्ञस्तूपलक्षणत्वेनोपात्तत्वादप्राधान्यमिति। एवं तु `भृत्यैः सह राजागतः' इत्यत्र न स्याद्, न हि भृत्यागमनं प्रसिद्वकालं येन तत्कालत्वं राजागमनस्य प्रतिपाद्येत। यत्र चोभयोरप्यज्ञातक्रियादिसम्बन्धस्तत्रापि न स्यात्---पुत्रेण सहागतः पितेति। तस्माद्वक्तव्यमप्राधान्यमत आह----पितुरत्रेत्यादि। पूर्वं प्रज्ञातोऽप्रज्ञातो वा यस्य क्रियादिसम्बन्धः शब्देनोच्यते तस्य प्राधान्यम्। यस्य तु सहार्थान्यथानुपपत्त्या प्रतीयते तस्याप्रधान्यम्।
कस्य तुनः शब्देनोच्यते? कस्य वा प्रतोयते? यस्य विवक्ष्यते। एतदुक्तं भवति---द्वयोस्तावत्क्रियासम्बन्धे सति सहशब्दस्य प्रयोगः, तत्र यदा द्वयोरपि क्रियादिसम्बन्धः शब्देनोच्यते--सहागतौ पितापुत्राविति, तदा द्वयोरपि प्राधान्यान्न भवति; यदा त्वेकस्य क्रियादिसम्बन्धं शब्देन प्रतिपिपादयिषत्यपरस्य सहार्थान्यथानुपपत्त्या तदा तस्याप्राधान्यात्तद्वाचिनस्तृतीयेति। एवं च कृत्वा सह शाखया प्रस्तरं प्रहरतीति यद्यपि प्रस्तरस्य प्रहरणसम्बन्धः प्रज्ञातः, सूक्तवाकेन प्रस्तरं प्रहरतीति, शाखायास्त्वज्ञातः; तथाप्युक्तेन न्यायेन शाखाशब्दात्तृतीया सिद्ध्यतीति विभक्तिव्यत्यासो न वाच्यः। ननु पुत्रेण सहागत इत्यादौ पितुरेव कर्त्तुः क्तादिभिरभिधानम्, न त्वप्रधानस्य पुत्रादेस्तस्यापि तु सहार्थसामर्थ्यात्कर्तृत्वं प्रतीयत--इत्यनभिहिते कर्तृकरणयोरिति तृतीया सिद्धा। इह तर्हि पुत्रेण सहागमनं पितुरिति `कर्तृ कर्मणोः कृति' इति षष्ठी प्राप्नोति, इह च तिलैः सह माषान्वपति तिलान्माषान्वपतीत्यर्थप्रतीतेर्द्धितीया प्राप्नोति, इह च पुत्रेण सह स्थूलः, पुत्रेण सह गोमानिति द्रव्यगुणसम्बन्धप्रतिपादन एव तात्पर्थमिति क्रियागन्धस्यैवाभावात्कर्तृगन्धोऽपि नास्तीत्यारभ्यमेवावश्यं सूत्रम्। सहार्थेन योगे विधानादिति। युक्तग्रहणादर्थग्रहणं लभ्यते, अन्यथा `सहे प्रधाने' इत्येव वाच्यं स्यात्। विनापि सहशब्देन वृद्धो यूनोति निपातनादिति क्वचित्पठ्यते।
इहाप्रधानवचनं प्रधाननिवृत्त्यर्थ क्रियते, पितुस्तृतीया मा भूदिति; तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वात्प्रथमा भविष्यति, नार्थोऽप्रधानवचनेनेति मन्यमानः पृच्छति---ऊ प्रधान इति किमिति। शिष्येण सहोपाध्यायस्य गौरिति। यथात्राप्रधाने षष्ठीविषये तृतीया, एवं प्रधानेऽपि स्यादिति मन्यते। अत्राहुः----यथा ग्रामं न गच्छतीत्यादौ ग्रामगमनयोः पूर्वमभिसम्बन्धः प्रश्चान्नञा प्रति षिध्यते, एवमुपाध्यायस्य पूर्वं गवा सम्बन्धः पश्चात्तत्सम्बन्धविषिष्टस्य गोः सहार्थेन योगः; अन्यथा कस्य सहत्वं प्रतिपाद्येत, अतो गवा सम्बन्धस्यान्तरङ्गत्वा दुपाध्यायात् षष्ठी भविष्यतीति नार्थ एतेन।।
येनाङ्गविकारः।। 2.3.20 ।।
येनाङ्गविकारः।। अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद्---येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे--अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात्त इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह---अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत्त इत्युक्ते नैव संदेहो भवति---किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः----किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते---अक्ष्याद्युपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृत्तये काणशब्दप्रयोगः, यथा---द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचित्तु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्।।
इत्थम्भूतलक्षणे।। 2.3.21 ।।
इत्थम्भूतलक्षणे।। इदंशब्दात्सन्निहितवाचिनः प्रकारवचने थाल्, `इदमस्थमुः' इति थमुप्रत्यये कृते इत्थमिति भवति। न चात्र किञ्चित्सन्निहतमस्तीतीत्थंशब्दः सन्निहितपरित्यागेन प्रकारविशेषमाचष्टे, `भू प्राप्तावात्मनेपदी च',`आ धृषाद्वा' इति णिजभावपक्षे गत्यर्थत्वात्कर्त्तरि क्तप्रत्ययस्तदाह--कञ्चिदिति। तस्येति कर्मणि षष्ठी। लक्ष्यते येनेति लज्ञणम्। येन श्वेतच्छत्त्रादिना राजत्वादिप्रकारविशेषापन्नतयान्यो लक्ष्यते तदित्थम्भूतलक्षणम्। तत्रेति। वर्त्तमानादित्यर्थः। कमण्डलुना छात्त्रोपाध्याययोर्गच्छतोश्छात्त्रस्य हस्ते कमण्डलुर्भवति, कमण्डलुना छात्त्रोऽयमिति ज्ञातवानित्यर्थः। यद्येवम्, ईद्दशे ज्ञाने कमण्डलोः करणत्वादेव तृतीया सिद्ध्यति? एवं तर्हि प्रमाता प्रमिति दशायामेवात्मनः प्रमितिविशेषं प्रतिपादयितुं वाक्यं प्रयुङ्क्ते--कमण्डलुनायं छात्त्र इति, तदा ज्ञानक्रियाया अप्रतिभासादप्रतिपाद्यत्वाच्च करणत्वासम्भवः। उदाहरणं त्वेवं व्याख्येयम्---कमण्डलुना छात्त्र इत्येवं रूपं ज्ञानमभूदिति। कोऽर्थः? अद्राक्षीदिति निदिष्टस्य द्रष्टुर्ज्ञानविशेपोऽत्र कथ्यते, न प्रयोक्तुरित्यर्थः।
इह कमण्डलुपाणिश्छात्र इति बहुव्रीहौ कृते कमण्डलुशब्दात्तृतीया प्राप्नोति; न च प्रत्यलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधः, `न ङिसंबुद्ध्योः' इति लिङ्गत्; न च `सुपो धातुप्रातिपदिकयोः' इति संप्रत्युत्पन्नायास्तृतचीयाया लुग्लभ्यते, तस्याः समास्प्रातिपदिकं प्रत्यनव्यवत्वादित्यत आह---इह न भवतीति। समासेऽन्तभूतत्वादिति। समासार्थं प्रति गुणभूतत्वादित्यर्थः। इत्थम्भूतस्य लक्षणं यत्प्रधानं तत्र तृतीया। बहुव्रीहौ तु वर्त्तिपदानां स्वार्थोपसर्जनान्यपदार्थाभिधायित्वान्नास्ति प्राधान्यम्।।
संज्ञोऽन्यतरस्यां कर्मणि।। 2.3.22 ।।
संज्ञोऽन्यतरस्यां कर्मणि।। संजानीत इति। `संप्रतिभ्यामनाध्याने' इत्यात्मनेपदम्, `ज्ञाजनोर्जा' इति जादेशः। आध्याने तु `अधीगर्थदयेशाम्' इति षष्ठी भवति---मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्`कर्तृ कर्मणोः कृति' इति षष्ठी भवति---मातुः संज्ञातेति।।
हेतौ।। 2.3.23 ।।
हेतौ।। `तत्प्रयोजको हेतुश्च' शास्त्रीयस्य हेतोश्चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वाल्लौकिकौ हेतुर्गृह्यत इत्याह---फलसाधनयोग्य इत्यादि। लोके ह्यङ्कुरादिकार्योत्पादने योग्यतामात्रप्रयुक्तोऽनाश्रितव्यापारो द्रव्यगुणक्रियाविषयो बीजादिर्हेतुः। उक्तं च----
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति।
अनाश्रिते तु व्यापारे निमित्तं हेतुरुच्यते।। इति च।
उदाहरणेषु क्रियाया अभावात्करणत्वमनाशङ्कनीयम्। यूपाय दार्वित्यत्र तादर्थ्य विवक्षितम्, न तु सदपि हेतुत्वमिति दारुशब्दात् प्रथमैव भवति।।
अकर्तर्यृणे पञ्चमी।। 2.3.24 ।।
अकर्तर्यृणे पञ्चमी।। बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्' शतमृणं च भवतीति। उत्तमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। `तत्प्रयोजको हेतुश्च' इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम्---कर्त्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्।।
विभाषा गुणेऽस्त्रियाम्।। 2.3.25 ।।
विभाषा गुणेऽस्त्रियाम्।। `सत्त्वे निविशतेऽपैति' इति लक्षितस्य गुणस्य ग्रहणम्; तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोरिति केचित्। अन्ये तु `पर्वतो वह्निमान् धूमवत्त्वात्' इत्यादावनेनैव पञ्चमीमिच्छन्तः परतन्त्रमात्रस्य ग्रहणं वर्णयन्ति, यथा---यस्य हि गुणस्य भावादिति। `विभाषा गुणे' इति योगविभागात् `नास्तीह पटोऽनुपलब्धेः' इति स्त्रियामपि क्वचिद्भवति। केचित्त्वपादानपञ्चमीमेतामिच्छन्ति, तथा च `नास्तीह घटोऽनुपलब्धितः' इति `अपादाने चाहीयरुहोः' इति तसिलपि भवति, योगविभागवादिनां त्वाद्यादित्वात्तसिः।।
षष्ठी हेतुप्रयोगे।। 2.3.26 ।।
षष्ठी हेतुप्रयोगे।। हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्त्यते; यर्यायप्रयोगेऽपि `निमित्तकारणहेतुषु' इति वक्ष्यमाणेन षष्ठ्या इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ `हेतौ' इति ततीयापवादो योगः।।
सर्वनाम्नस्तृतीया च।। 2.3.27 ।।
सर्वनाम्नस्तृतीया च।। `सर्वनाम्नः' इति प्रयोगापेक्षा षष्ठी। सर्वनाम्नी हेतुशब्दस्य च प्रयोग इति। पञ्चम्यां तु हेतुशब्दादयं विधिर्न स्यात्। कथं तर्हि सर्वनाम्नस्तृतीया भवतीति? अत्रापि सर्वनाम्नः प्रयोग इत्यर्थो द्रष्ट्व्यः।
निमित्तकारणहेतुष्विति। यद्यप्यस्मिन् सूत्र इदं वृत्तिकारेण पठितम्, भाष्यकारेण तु `हेतौ' इत्यत्र पठितत्वादसर्वनाम्नोऽप्येतद्विभक्तिविधानं गम्यते, तत्र च प्रायग्रहणादेवासर्वनाम्नः प्रथमाद्वितीये न भवतः, अन्यास्तु यथादर्शनं भवन्ति---अन्नेन कारणेन वसति, अन्नाय कारणाय वसति, अन्नात्कारणाद्, अन्नस्य कारणस्य, अन्ने कारणे इति।
पर्यायोपादानं त्विति। ननु विपरीतमिदं स्वरूपविधौ पर्यायोपादानं कर्त्तव्यम्, अर्थग्रहणे तु न कर्त्तव्यमिति; किं चार्थग्रहणे सत्येकशेषप्रसङ्गः, विरूपाणामपि समानार्थानामेकशेषवचनात्? एवं मन्यते---यथा आकृतिगमेषु केचिदुपलक्षणार्थं पठ्यन्ते, एवमिहापि स्वरूपपरा एव निमित्तादिशब्दा उपलक्षणार्थाः----एवमर्थानां शब्दानामिति।।
अपादाने प़ञ्चमी।। 2.3.28 ।।
अपादाने पञ्चमी।। प्रासादादिति। अत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यत इति द्वितीया प्राप्नोति।
आसनादिति। सप्तम्यत्र प्राप्नोति। प्रत्याख्यानं तु---प्रेक्षणम्=चक्षुषा पदार्थानां ज्ञानम्, तैजसं चक्षुर्बहिर्निः सृत्य विषयान् गृह्णाति, निःसरणाङ्गके च प्रेक्षणे धातुर्वर्तते, तत्राङ्गभूतनिः सरणं प्रति प्रासाद उपात्तविषयमपादानं भवति---प्रासादात्प्रेक्षत इति, कोर्थः? प्रासादप्रदेशाच्चाक्षुषं तेजो निः सार्य पदार्थान् गृह्णातीति।
प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्येते यत्र लोके पञ्चमी प्रयुज्यते। इह न भवति--कस्यायमर्थो राज्ञोऽर्थ इति। कुतो भवानिति। क्रियाया अभावादनपादानत्वात् फलवद्वचनप्रत्यक्षादिप्रमाणसिद्धामागमनादिक्रियामपेक्ष्येदं प्रयुज्यते, तत्र प्रयोक्तुराख्यातुश्च मनसि विपरिवर्तमानमागमनं प्रत्यपेक्षितक्रियमपादानम्---पाटलिपुत्रादिति।
यतश्चेति। यदवधित्वेनाश्रित्याध्वकालयोः परिच्छेदस्तत इत्यर्थः। गवीधुमन्नाम नगरम्, सांकाश्यं तपोवनम्।
कृत्तिकायुक्ता पौर्णमासी कार्त्तिकी, पौर्णमास्याम् `लुबविशेषे' इति लुब्न भवति `सास्मिन्पौर्णमासी' इत्यधिकारे `विभाषा फल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः' इति निर्देशात्। अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्, `आग्रहायण्यश्वत्थात्' इति निपातनाण्णत्वम्। तद्यु क्तादिति। तेन पञ्चम्यन्तार्थेनार्थद्वारेण युक्तात्काले वर्त्तमानान्मासादिशब्दादित्यर्थः। यद्वा---तया पञ्चम्या युक्तो योऽर्थः कार्त्तिक्यादिस्ततः परो यः कालो मासादिस्तत्र वर्त्तमानादित्यर्थः। अर्थतश्च परत्वं न शब्दत इति व्यवहितेऽपि भवति, कार्त्तिक्याग्रहायण्योर्मध्यवर्त्ती मासः कार्त्तिक्याः परो भवति।
अध्वन इति। तद्युक्तादित्यपेक्ष्यते। प्रत्याख्यानं तु-वाक्यैकदेशस्यात्र प्रयोगः। तदयमर्थः----गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि बवन्ति ततः सांकाश्यम्, चतुर्षु योजनेषु गतेषु सत्सु सांकाश्यमितिष गतानिति क कर्मणि निष्ठा, यदा जनैर्योजनानि गतानि भवन्ति ततस्तैः सांकाश्यं प्राप्यत इत्यर्थः। यद्वा----अध्ववर्त्तिनां निः सरणं गमनं वाध्वन्यारोप्य निःसृत्य गतानिति ल्यपः कर्त्तरि क्तस्य च प्रयोगः तस्य प्रतीयमाननिः सरणक्रियापेक्षपापादानत्वम्, गतानीति च प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमा गतेषु सत्स्विति `यस्य च भावेन भावलक्षणम्' इति सप्तमी, आग्रहायणी माम इति कार्त्तिक्याः परत्र मासे गते सति आग्रहायणी भवतीत्यर्थः। तत्र दिग्योगलक्षणा पञ्चमी, सप्तमी पूर्ववत्।।
अन्यारादितरर्त्तेदिक्शब्दाञ्चृत्तरपदाजाहियुक्ते।। 2.3.29 ।।
अन्यारादितरर्त्तेदिक्शब्दाञ्चृत्तरपदाजाहियुक्ते।। अन्य इत्यथेग्रहणमिति। व्याख्यानात्। निर्द्दिश्यमानप्रतियोगीति। यथा देवदत्तयज्ञदत्तयोः प्रकृतयोराह---देवदत्तः शूरः, इतरः कातर इति; तस्यान्यार्थान्तर्भावोऽस्तीति चिन्त्यम्। ऋते यज्ञदत्तादिति। कथं यत्किञ्चिद्राजसूयमृते सोममिति? छान्दसत्वात्, कथं `न मामृते राम बाली'इति? क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते' इति च? निरंकुशाः कवयः।
शब्दग्रहणमिति। सति हि तस्मिन् दिशि द्दष्टः शब्दो दिक्शब्द इत्युत्तरपदलोपी समासो लभ्यते, तेन यदा कदाचिद्दिशि द्दष्टेन संप्रति देशकालवर्त्तिनापि योगे भवति---ग्रामात्पूर्वो देशश्चैत्रात्पूर्वः फाल्गुन इति। अवयववाचिभिस्तु योगे न भवति---पूर्व कायस्येति, `तस्य परमाम्रेडितम्' इति निर्देशात्।
ननु चायमपीति। सध्य्रङ् देवदत्तेनेत्यादावदिक्शब्दार्थमञ्चूत्तरपदग्रहणं न भवति, दिक्शब्दैः साहचर्यादस्यापि दिक्शब्दस्यैव ग्रहणादिति भावः। दक्षिणेति। `दक्षिणादाच्' ; आहि च दूरे' उत्तराच्च' इत्याजाही प्रत्ययौ।।
षष्ठ्यतसर्थप्रत्ययेन।। 2.3.30 ।।
षष्ठ्यतसर्थप्रत्ययेन।। अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति। `पूर्वाधरावराणामसिपुरधवश्चैषाम्' `अस्ताति च' इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः, `ततः पश्चाद्धस्ती' इति भाष्यकारप्रयोगात्पञ्चमी।।
एनपा द्वितीया।। 2.3.31 ।।
एनपा द्वितीया।। `तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्'---स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्।।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम्।। 2.3.32 ।।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम्।। अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह---पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम् `पञ्चमीग्रहणमिहानुवर्त्तते' इत्युच्यते। योगविभागः कर्त्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्।।
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य।। 2.3.33 ।।
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य।। यदा धर्ममात्रमिति। यद्योगाद् द्रव्यं स्तोकादिव्यपदेशमासादयति ते गुणा धर्माः, उभयवचना ह्येते द्रव्यमाहुर्गुणं च शुक्लादिवत्। यदा गुणवचनास्तदाऽसत्त्ववचनतेत्यर्थः। क्रियाविशेषणे कर्मणीति। आख्यातेन हि क्रिया साध्यमानावस्थोच्यते---चलति, चलनं करोतीति। अतस्तद्विशेषणं स्तोकादि कर्म भवति---स्तोकं चलनं ,करोतीति। एवं तु विशेष्यवचनस्स्तोकशब्दो द्रव्यवचन इति नात्र प्रसङ्गः। यत्र च फलान्तरं साव्यं प्रति धात्वर्थः करणतया विवक्ष्यते तत्र विशेषणत्वं न स्यात्--शोभनं ज्योतिष्टोमेन स्वर्गकामो यजेतेति। अत्र हि यथा फलभावनायां करणभूतस्य यागस्याभिधायकाद् ज्योतिष्टोमशब्दात् तृतीया भवति, तथा तद्विशेषणाच्छोभनशब्दादपि स्यात्। अन्यस्त्वाह---संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियायाः कर्मत्वात् तद्विशेषणस्य कर्मत्वं स्यादिति तस्यापि संदर्शनादीनां क्रियायाश्चाभेदविवक्षायां कर्मत्वं न स्याद्, न हि तत्र क्रियायाः कर्मत्वमस्ति।।
दूरान्तिकार्थैः षष्ठ्यन्तरस्याम्।। 2.3.34।।
दूरान्तिकार्थैः षष्ठ्यन्तरस्याम्।। पक्षे पञ्चम्यर्थे वचनम्, षष्ठी तु शेषत्वादेव सिद्धा। यद्योवम्, अन्यतरस्यांग्रहणमनर्थकं षष्ठीमात्रवचने वैय्यर्थ्यादेव प्रकृता पञ्चमी विधायिष्यते, तत्राह---अन्यतरस्यांग्रहणमिति। वचनसामर्थ्याद्धि प्रकृतविधाने विज्ञायमाने तृतीयाया अपि विधिः स्यात्। ननु कृतमप्यन्यतरस्यां ग्रहणं विकल्पार्थम्, समुच्चयार्थ वा; विकल्पार्थे तावत् षष्ठ्या मुक्ते स्वादिसूत्रेणा प्राप्ताः सर्वा एव विभक्तयः स्युः, समुच्चयार्थेऽपि प्रकृता तृतीया कस्मान्न समुच्चीयते? उच्यते---`पृथग्विनानानभिः' इत्यत्र तावद् `अन्यतरस्यांग्रहणेन पञ्चमी समुच्चीयते' इत्युक्तम्, अत इहाप्येकप्रघट्टकत्वात्सैव समुच्चीयते। अत एतदपि न चोदनीयम्---`अन्यतरस्यांग्रहणे प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थम्' इति; तत्रापि हि पक्षे तृतीया स्यात्।।
दूरान्तिकार्थेभ्यो द्वितीया च।। 2.3.35 ।।
दूरान्तिकार्थेभ्यो द्वितीया च।। प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यृक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उत्तरत्राप्येतदनुवर्त्तते, तेनोत्तरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति----आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येतत्तदाहृतविषयं द्रष्टव्यम्। तथा च---`सत्त्ववचनेभ्यो यथायथं विभक्तयो भवन्ति' इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्।।
सप्तम्यधिकरणे च।। 2.3.36 ।।
सप्तम्यधिकरणे च।। क्तस्येन्विषयस्येति। इन्नन्तः शब्दो विषयो वृत्तिभूमिर्यस्यक्तान्तस्य तस्येत्यर्थः। अधीती व्याकरण इति। अधीतमनेनेति विगृह्य श्राद्धमनेनभुक्तमित्यतोऽनेनेति वर्त्तमाने `इष्टादिभ्यश्च' इतीनिप्रत्यये कृते तद्धितार्थेन कर्त्रा सहैकीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् क्तप्रत्ययेनानभिहिते व्याकरणादौ गुणभूतयापि प्रकृतिवाच्ययाऽध्ययनक्रिययाऽधीतवान् व्याकरणमितिवत् कर्मतया सम्बन्धमाने कृतपूर्वी कटमितिवद् द्वितीयायां प्राप्तायां सप्तमी विधीयते। इह मासमधीती व्याकरण इति कालकर्मणोर्बहिरङ्गत्वात्सप्तम्यभावः।
साधुर्देवदत्तो भातरीति। अत्र साधुत्वासाधुत्वयोर्मातापितृविषयत्वेऽपि क्रियाया अभावादधिकरणत्वाभावाद्वचनम्। `साधुनिपुणाभ्याम्' इत्येव सिद्धेऽनर्चार्थमत्र साधुग्रहणम्, तेन तत्त्वकथनेऽपि भवति। अर्चाग्रहणं तत्र निपुणार्थम्। कथं तर्हि तत्र प्रत्युदाहरिष्यते--अर्चायामिति किं साधुर्भृत्यो राज्ञ इति? उच्यते,राज्ञौ भृत्येन सह शाब्दोऽन्वयः, न साधुना---राज्ञो भृत्यः स साधुरिति। तत्र राजनि वान्यत्र वेति नैतच्छब्देन स्पृश्यते, प्रत्यासत्त्या तु राजविषयमेव साधुत्वं गम्यत इत्येतावता तं प्रत्युदाहरणं द्रष्टव्यम्।
कारकार्हाणामिति। कारकशब्दो भावसाधनः, कारकत्वार्हाणामित्यर्थः। ऋद्धेष्विति। ऋद्धा भोजनक्रियामर्हन्तीति कारकर्हाः, लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनम्। दरिद्रेष्वासीनेष्विति दरिद्रा भोक्तुं नार्हन्तीत्यकारकार्हाः।
तद्विपर्यासे चेति। कारकार्हाणामकारकत्वेऽकारकार्हाणां च कारकत्व इत्यर्थः।
निमित्तात्कर्मयोग इति। यत् क्रियाप्रयोजनं यदर्थः क्रियारम्भस्तत्फलमिह निमित्तम्, तद्वाचिनः सप्तमी भवति। यदि तस्य निमित्तस्य कर्मणा कर्त्तुरीप्सिततमेन सह समवायादिलक्षणः सम्बन्धो भवतीत्यर्थः, तत्र हेतुतृतीयायां प्राप्तायां वचनम्, तत्र हन्तिकर्मणा द्वीप्यादिना चर्मादेर्निमित्तस्य समवायः सम्बन्धः। चमरीमिति। चमरशब्दाज्जातिलक्षणो ङोष्। पुष्कलकः=शंकुः, स सीम्नि सीमाज्ञानार्थ हतो निखात इत्यर्थः, तेन च निहन्यमानेन शङ्कुना सीम्नः संयोगः सम्बन्धः। कर्मसम्बन्ध इति किम्? वेतनेन धान्यं लुनाति।।
यस्य च भावेन भावलक्षणम्।। 2.3.37 ।।
यस्य च भावेन भावलक्षणम्।। इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा---अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न तत्तस्य लक्षणमितीह न स्यादित्याशङ्क्याह---प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति---निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपात्ता भवत्येव लक्षणमिति।।
षष्ठी चानादरे।। 2.3.38 ।।
षष्ठी चानादरे।। `अनादरे' इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह---अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः।।
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च।। 2.3.39 ।।
स्वामीश्वराधिपरिदायादसाक्षिप्रतिभूप्रसूतैश्च।। गवां दायाद इति। दीयत इति दायः= अंशः, दायमादत्त इति सोपसर्गादपि दायाद इति निपातनात्कः। गवामित्येतत्समुदायस्य विशेषणमवयवमपि दायांशं स्पृशतीति गवात्मकस्य दायस्यादातेत्ययमर्थो भवति। गवां प्रसूत इति। गा एवानुभवितुं जात इत्यर्थः।।
आयुक्तकुशलाभ्यां चासेवायाम्।। 2.3.40 ।।
आयुक्तकुशलाभ्यां चासेवायाम्।। आयुक्तो गौः शकट इति। आङीषदर्थे ईषद्युक्त इत्यर्थः।।
यतश्च निर्धारणम्।। 2.3.41 ।।
यतश्च निर्धारणम्।। जातिगुणक्रियाभिरिति। प्रदर्शनमेतत्। अमीषां छात्त्राणां देवदत्तः पटुरिति संज्ञयापि निर्धारणदर्शनात्।।
पञ्चमी विभक्ते।। 2.3.42 ।।
पञ्चमी विभक्ते।। विभक्तमस्यास्तीति। निर्द्धार्यमाणात्। एतदुक्तं भवति---निर्द्धार्यमाणस्य निर्द्धारणाश्रयस्य च विभागे सति निर्द्धारणं भवति, ततश्च सर्वत्रैव निर्द्धारणाश्रये विभक्तमस्तीति सामर्थ्यादवधारणमाश्रीयते---यस्मिन्निर्धारणाश्रये विभाग एव, न केनचिदात्मभाव इति। तेन गवां कृष्णेत्यादौ यद्यपि गोमण्डलात्कृष्णा गौः पृथक् क्रियते, तथापि गवात्मनान्तर्भावोऽस्तीति न भवति। उदाहरणे चु माथुपाटलिपुत्रेषु प्राणित्वेनान्तर्भावेऽपि शब्दोपात्ताकारापेक्षयानन्तर्भावाद्विभाग एव भवति। प्रत्याख्यातं चैतत्सूत्रमपादानप्रकरणे---
बुद्ध्या समीहितैकत्वात्पञ्चालान् कुरुभिः पृथग्।
यदाः विभजते वक्ता तदाऽपायः प्रतीयते।। इति।।
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः।। 2.3.43 ।।
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः।। साधुशब्दः `कृवापाजिमि' इत्युणन्तः, `पुण कर्मणि शुभे' इत्यस्मान्निपूर्वात् `इगुपपध' इति के, निपुण इति भवति। `अर्च भाव्यम्' इत्यस्माद्भौवादिकात्`गुरोश्च हलः' इत्यकारः, चौरादिकात्तु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह---न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा5 इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्।।
प्रसिदोत्सुकाभ्यां तृतीया च।। 2.3.44 ।।
प्रसिदोत्सुकाभ्यां तृतीया च।। `षिञ् बन्धने' प्रकर्षेण बद्धः===प्रसितः, तदाह---यस्तत्रनित्यमवबद्ध इति नित्यमित्यनेन प्रशब्दस्यार्थमाचष्टे। अवबद्ध इवावबद्धः, यो हि यत्र प्रसक्तः स तत्रावबद्ध इव भवतीति भावः। तेन प्रकषण मितः शुक्लतर इत्यस्य ग्रहणं न भवतीति प्रदर्शितं भवति। केशेषु प्रसित इति। तत्पर इत्यर्थः।
नक्षत्रे च लुपि।। 2.3.45 ।।
नक्षत्रे च लुपि।। नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्त्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते---नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोत्तराभ्यां फल्गुनीभ्यां नोत्तरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्त्यैतदुक्तम्---लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्।
अधिकरण इति वर्त्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति।।
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा।। 2.3.46 ।।
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा।। प्रातिपदिकाथः सत्तेति। अत्र जिघृक्षितस्येदं लक्षणम्, न प्रातिपदिकार्थमात्रस्य; गौः, शुक्लः, पाचकः, डित्थ इत्यादावसम्भवात्। योऽर्थः सन्नेव केवलं न जात्यादिरूपो न लिङ्गसंख्याकारकशक्तियोगी, स इह प्रातिपदिकार्थत्वेन विवक्षितः, यथा---अव्ययार्थ इत्यर्थः। अव्ययार्थो हि केवलमस्तीति शक्यते वक्तुम्, न पुनरीद्दशस्ताद्दश इति। गौः शुक्ल इत्यादौ तु सत्त्वरूपेऽर्थे लिङ्गग्रहणादेव सिद्ध्यतीति भावः।
अन्ये त्वाहुः----अन्वयव्यतिरेकाभ्यां यस्य योऽर्थः प्रतीतो यमर्थं प्रातिपदिकं न व्यभिचरति येन विना प्रातिपदिकस्याप्रयोगः, स सर्वः प्रातिपदिकार्थः। सत्ताग्रहणं तूपलक्षणम्, तेन सत्ता गोत्वं शोक्ल्यं शुक्लो गुणः पाचको डित्थो गौः शुक्ल इत्यादिकमप्युदाहरणमिति। नन्वत्र सर्वत्र लिङ्गग्रहणादेव सिद्धम्, न; मात्रग्रहणं क्रियते, तच्चावधारणार्थम्, पयोमात्रं व्रतयतीतिवत्। ततश्च स्त्री पुमान्नपुंसकमित्यादावेव तु स्याद्---यत्र लिङ्गमेवार्थः, सत्तेत्यादौ तु जात्याद्यविकार्थसद्भावान्न स्यात्। अथ कन्यामात्रं वरयतीतिवन्मात्रशब्दस्य व्याप्तिवचनत्वाल्लिङ्गमात्रे प्रथमा लिङ्गमस्तीत्येव प्रथमा भवतीति व्याख्यानादधिकार्थसद्भावेऽपि प्रथमा भवतीति? उच्यते---हन्तैवं वृक्षं पश्येत्यादौ कर्मादिसद्भावेऽपि चलिङ्गमस्तीत्येव प्रथमा स्यात्; कर्मण्येव द्वितीयेत्यस्मिन्प्रत्ययनियमपक्षे कर्मादीनां द्वितीयादिष्वनियतत्वात्! वचनमेकत्वादीति। पूर्वाचार्यप्रसिद्धेरिति भावः।
उच्चैरिति। अत्र प्रथमायां सत्यां ग्राम उच्चैस्तव स्वमित्यादौ `सपूर्वायाः प्रथमाया विभाषा' इति तेमयादिविकल्पो भवति, पदत्वं तु षठ्यापि सिद्धम्, यस्मिन् ह्यर्थे द्वितीयादयो न विहिताः स शेषः। नन्वसङ्ख्यत्वादव्ययार्थस्य कथं षष्ठी स्यात्? एकत्वाद्यर्थनियमे षठ्याः सङ्ख्यायामनियतत्वात्, प्रत्ययनियमेऽपि तुल्यजातीयापेक्षत्वान्नियमस्यैकत्वादिभिः परस्परमेव व्यावर्त्तनात्। विधिवाक्यपक्षे तु स्वादिसूत्रेण भिन्नवाक्यस्य `बहुषु बहुवचनम्' इत्यादेः सङ्ख्यासम्भवे विध्यर्थत्वात्।
ननु ङ्याप्प्रातिपदिकात्स्वादयो विधास्यन्ते, तत्रार्थे प्रथमेत्युक्ते कस्यार्थ इत्यपेक्षायां यस्मात्स्वादिविधिस्तदर्थ इति विज्ञास्यते, नार्थः प्रातिपदिकग्रहणेन,तत्रायमप्यर्थः---लिङ्गग्रहणं न कर्त्तव्यं भवति कुमारी सीमेत्यादावप्यत एव सिद्धम्, प्रातिपदिकग्रहणे तु क्रियमाणे सीमादिशब्दानां स्त्रीयुक्तार्थाव्यभिचारेऽपि प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्तदर्थे प्रथमासिद्ध्यर्थं लिङ्गग्रहणं कर्त्तव्यं स्यात्? उच्यतेप्रातिपदिकग्रहणं तावदर्थपदेनासम्बद्धमित्यत्रैव वक्ष्यते, लिङ्गहणमनेकलिङ्गार्थम्--तटः, तटम्, तटी; कुमारः, कुण्डम्, कुण्डः, कुण्डिका; अन्यथा येनार्थेन विना प्रकृतेरप्रयोगस्तदर्थमात्रे विधीयमाना प्रथमा नानालिङ्गेभ्यस्तत्तद्विशेषमन्तरेण प्रयुज्यमानेभ्यो न स्यात्। अथ मात्रग्रहणमकृत्वा व्याप्तिवचनं वाङ्गीकृत्याधिकार्थसद्भावेऽपि प्रकृत्यर्थस्यान्वय इति स्यात्? यद्येवम्, वृक्षं पश्येत्यादौ कर्माद्याधिक्येऽपि स्यात्प्रत्ययनियमपक्षे, तदिह वृत्तौ कुमारी, कुण्डमित्युदाहरणम्, वृक्षशब्दस्त्वर्थादुदाहृतः। ननु मा भून्मात्रग्रहणम्, मा च भूल्लिङ्गग्रहणम्, मा च कारि `संबोधने च' इति सूत्रम्, सर्वत्रार्थ इत्येव प्रथमा भविष्यति; न चैवं कर्मादिष्वपि प्रसङ्गः, कर्मणि द्वितीयेवेत्येवमर्थनियमस्याश्रयणात्? एवमपि `राज्ञः पुरुषः' इति षष्ठ्यर्थेऽपि स्यात्, शेषलक्षणा हि षष्ठी, उपयुक्तादन्यश्च शेषः, तत्र यदि प्रकृत्यर्थस्याधिक्येऽपि प्रथमा स्यात्। ततस्तस्यापि प्रथमाविधावुपयुक्तत्वात्षष्ठी न स्यात्। अथ वचनसामर्थ्यात्स्वस्वामिभावादौ षष्ठी भवन्ती लिङ्गाधिकोऽपि स्याद्। अतो मात्रग्रहणं तावत्कर्त्तव्यम्, तस्मिंश्च क्रियमाणे लिङ्गग्रहणम्, `संबोधने च' इति सूत्रं च कर्त्तव्यम्; तदाधिक्येऽपि यथा स्यादिति।
परिमाणग्रहणं किमिति। अर्थ इति वा लिङ्ग इति वा सिद्धिं मन्यते। द्रोणः, खारीति। अयं भावः----येनार्थेन विना प्रकृतेरप्रयोगस्तस्मिन्नर्थे प्रथमा। द्रोणादयश्च लौहं दारुमयं परिमाणमेवार्थ न व्यभिचरन्ति। यदा तु द्रोणादिपरिमिते व्रीह्यादौ वर्त्तन्ते तदा तस्य व्यभिचारित्वान्न स्यात्। न च लिङ्गग्रहणादपि सिद्धिः----तदाधिक्यमात्रे हि तेन स्यादिति, परिमाणग्रहणं चोन्मानादीनामुपलक्षणम्, तेन घृतं पलमित्यादावपि भवति। अथ लवणेन संसृष्टः, लवणः सूपः, लवणं शाकमित्यत्र कथं प्रथमा, लवणशब्दो हि लवणजातीयमेव द्रव्यं न व्यभिचरति, व्यभिचरति तु संसृष्टम्? उच्यते---साधारणशब्दोऽयम्, लवणजातीयस्य संसृष्टस्य चाक्षादिशब्दवत्। एवं च `लवणाल्लुक्' इति वचनाद्विज्ञायते। तत्र यथा दधिदादिकशब्दयोः प्रथमा भवत्येवमत्रापि भविष्यति। इह तर्हि कथं शुक्लः पट इति, शुक्लशब्दो गुणमेव न व्यभिचरति, व्यभिचरति तु तद्वन्तम्, पटस्य शुक्ल इति दर्शनात्? अत्रापि `गुणवचनेभ्यो मतुपो लुग् वाच्यः' इति वचनात्साधारणशब्दतैव। इह तर्हि कथं गौर्वाहीक इति, गोशब्दो हि सास्नादिमन्तमेव न व्यभिचरति, व्यभिचरति तु वाहीकम्? अत्रापि वाहीके सास्नादिमद्रूपारोपाद्रोशब्दः प्रयुज्यते, तत्र यथा सास्नादिमद्वृत्तेर्भवत्येवं वाहीकवृत्तेरपि भविष्यति। यद्येवम्, द्रोणः खारीत्यादावप्येवमेव भविष्यति, लवणादिशब्दवत्साधारणशब्दाः स्युः गौर्वाहीक इत्यादिवद्रौणा वा, गङ्गायां घोष इतिवल्लाक्षणिका वा; नान्या गतिरस्ति, सर्वथा सिद्धा प्रथमा। किं च परिमेयवृत्तिभ्यो द्वितीयादयो यथा भवन्ति तथा प्रथमापि भवति। अथ प्रस्थेन परिमिता व्रीहय इत्येवं प्रातिपदिकार्थव्यतिरेकेऽपि यथा स्यादिति परिमाणग्रहणम्। यद्येवम्, प्रस्थेनेति तृतीया न स्यात्, शेषविवक्षायां च षष्ठी न स्यात्, प्रास्तिक इति तद्धितश्च न स्यात् तदेतत्परिमाणग्रहणं चिन्त्यप्रयोजनम्।
उक्तेष्वपीति। अन्यथानभिहिताधिकारात् `बहुषु बहुवचनम्' इत्यादिनास्यैकवाक्यत्वात्तिङ्कृत्तद्धितसमासैरिति परिगणनस्य प्रत्याख्यातत्वादेकादिशब्दैरेकत्वादीनामभिहितत्वादुक्तार्थत्वाद् वा न स्यादिति भावः। एकः द्वो बहव इति। अथ कथमेकं कृतमित्यादौ द्वितीयादयो भवन्ति, न हि तत्र कश्चिद्यत्नोऽस्ति? उच्यते, तत्रार्थद्वयमस्ति---कर्मादयः, एकत्वादयश्च। तत्रैकत्वादीनामभिधानेऽपि कर्मादिप्रतिपादनाय द्वितीयादयो भविष्यन्ति; इह त्वनभिहितार्थान्तराभावान्न स्यात्। नन्वत्राप्येकादिभिः शब्दैरेकत्वादिविशिष्टं द्रव्यमभिधीयते तत्रैकत्वादिगुणस्य निष्कृष्याभिधानाय प्रथमा भविष्यति, यथा गुणोपसर्जनद्रव्यवचनाच्छुक्लादिशब्दात्प्रवृत्तिनिमित्तभूतस्य गुणस्य निष्कृष्याभिधाने भावप्रत्ययः---पटस्य शौक्लमिति। तदेवं वचनग्रहणमपि शक्यमकर्तुम्।
प्रातिपदिकग्रहणं किमिति। उक्तोऽत्र प्रष्टुरभिप्रायः। निपातस्यानर्थकस्येति। अन्यथार्थाभावान्न स्यादिति भावः। प्रलम्बत इति। किं पुनरत्र प्रथमया प्रार्थ्यते? पदत्वम्; षष्ठ्यामप्येतत्सिद्धम्, तथा हि--कर्मादिषु द्वितीयादयो विहिताः प्रक-त्यर्थमात्रे प्रथमा, तत्र प्रकृत्यर्थाभावे स्वस्वामिभाबादिर्सबन्धसद्भावे चापयुक्तादन्यत्वात्सिद्धा षष्ठी। न च तस्या एकत्वादिषु नियमः; उक्तोत्तरत्वात्। तदेवमर्थलिङ्गमात्रे प्रथमेत्येतावदेवावश्यं कर्त्तव्यम्, मात्रग्रहणमपि न कर्त्तव्यम्। कर्माद्याधिक्ये कस्मान्न भवति? ज्ञापकात्, यदयम् `संबोधने च' इत्याह। यदि ह्याधिक्येऽपि स्यात्तदनर्थर्क स्यात्। उत्तरार्थे हि `संबोधने सामन्त्रितम्' इत्येव वक्तव्यं किं योगविभागेन! इहावधारणार्थान्मात्रग्रहणात् `संबोधने च' इति ज्ञापकाद्वाऽऽधिक्ये प्रथमया न भवितव्यम्, ततश्च `वीरः पुरुषः' इत्यादौ पदसामानाधिकरण्ये विशेषणविशेष्यभावस्याधिकार्थस्य प्रतीतेः प्रथमा न प्राप्नोति, न; वाक्यार्थत्वात्। यदत्राधिक्यं स वाक्यार्थः, पूर्व स्वार्थमात्रनिष्ठाभ्यामुभाभ्यां प्रथमा विधीयते, पश्चात्त्वाकांक्षावशेनान्योन्यान्वये विशेषावगतिरुपजायमाना बहिरङ्गत्वात्प्रथमप्रवृत्तं संस्कारं न बाधत इत्यर्थः।
अपर आह---अभिहिते प्रथमेति लक्षणं कर्त्तव्यम्, तिङादिभिरभिहिते कर्त्रादौ वृक्षस्तिष्ठति, कृतः कटः, शत्यः, प्राप्तोदको ग्राम इत्यादौ प्रथमा भवतीत्यर्थः, तत्र वीरः पुरुषः इत्यादावाधिक्येऽप्यभिहितत्वात्सिद्धा प्रथमेति। अत्र को दोषः? यत्र क्रिया नास्ति तत्र न स्यात्---वृक्षः, प्लक्षः। तत्रापि क्रियाऽस्ति, कथम्? वृक्षः प्लक्षः, अस्तीति गम्यते। इह तर्हि प्रासाद आस्त इति सदिक्रयायाः, आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यम्, तच्च सदिप्रत्ययेन घञाभिहितं प्रसीदत्यस्मिन्प्रासाद इति आसिप्रत्ययेन तिङानभिहितम्, तत्र सदिप्रत्ययेन यदभिधार्न तदाश्रया प्रथमा प्राप्नोति। यत्र च विशेषणसंबन्धे तात्पर्यम्---नीलमुत्पलं न रक्तमिति, तत्रापि न स्यात्; क्रियाया अभावात्।
अन्यस्त्वाह---तिङ्समानाधिकरणे प्रथमेति लक्षणं तिङन्तेन यत्समानाभिधेयं देवदत्तः पचतीति, तत्र प्रथमा; प्रासाद आस्त इत्यत्र तु वैयधिकरण्यात्तदभावः, वीरः पुरुष इत्यादौ चाधिक्येऽपि तिङ्सामानाधिकरण्यं प्रति योग्यत्वाद्भवतीति। अत्र को दोषः? देवदत्तः पचतीति देवदत्तः पच् लट् इति स्थिते यावत्तिङामुत्पत्तिर्नास्ति तावत्तिङ्सामानाधिकरण्याभावात्प्रथमैवेति नियमस्याप्रवृत्तौ देवदत्तशब्दादविशेषेण विहिताः स्वादयः स्थिता इति शतृशानचोर्निमित्तस्याप्रथमासामानाधिकरण्यस्य विद्यमानत्वात्तावेव स्याताम्, तिङां त्वाभावः स्यात्। न च तिङ्विधेरानर्थक्यम्; तिडादिषु सावकाशत्वात्। प्रथमैवेति। नियमस्यापि स एव विषयः स्यादिति दोष। पक्षे चायं दोषः, कतरस्मिन् पक्षे? `लटः शतृशानचौ' इत्यत्र द्वौ पक्षौ--अप्रथमेति पर्युदासः, प्रसज्यप्रतिषेधो वेति। तथा `कर्मणि द्वितीया' इत्यादावपि प्रकरणे द्वैतं भवति--विभक्ति नियमः स्यात्, अर्थनियमो वेति; तद्यदार्थनियमः पर्युदासश्चाश्रीयते तदाऽयं दोषः। कथम्? अर्मणि द्वितीयेवेत्यस्मिन् नियमे द्वितीयादीनामनियतत्वात् प्रातिपदिकार्थमात्रेऽपि भावात्तदाश्रयौ शतृशानचौ प्राप्नुतः, प्रसज्यप्रतिषेधे तु प्रथमाया अपि तत्र भावात्तदाश्रयः प्रतिषेधः प्रतिषेधः प्रवर्त्तत इति न दोषः; शतृशानचोरभावात्तिङ्क्षु सत्सु तत्सामानाधिकरण्यात्प्रथमैवेति नियमेन द्वितीयादीनां व्यावर्त्तितत्वात्। यदा तु द्वितीयादीनां कर्मादिषु नियमः---कर्मण्येव द्वितीयेति, तदा तदभावे तासामभावादनियतायाश्च प्रथमायाः सन्निधानात्पर्युदासे प्रसज्यप्रतिषेधे च नास्ति शतृशानचोः प्रसङ्गः; तदभावे च तिड्भु सत्सु तत्सामानाधिकरण्यात्तत्रैव प्रथमा भवतीति नियमेन कर्मादिषु प्रथमाव्यावृत्तिरिति न दोषः।
ननु च विभक्तिनियमे कर्माद्यभावेन यद्यपि द्वितीयादीनां तत्राभावस्तथापि शेषषष्ठी प्राप्नोति, तथा हि---यदि तिङ्सामानाधिकरण्य एव प्रथमेत्यस्मान्नियमात्प्रागेव द्वितीयादिवत् षष्ठ्यपि नियता स्यात्? स्यात्तत्राप्रसङ्गस्तस्याः। सा तु शेषलक्षणा। यत्र च विभक्त्यन्तरस्य नियमो न कृतः स शेषः, ततश्च तिङ्सामानाधिकरण्यात्प्राक् शेषत्वात् षष्ठी प्राप्नोतीति तत्समानाधिकरण्याच्छतृशानचावेव स्याताम्। पर्युदासे प्रसज्यप्रतिषेधे तु न दोषः, प्रथमाया अपि भावात्? सत्यम्; द्वयोरपि पक्षयोः पर्युदासे भवत्येव दोषः। भाष्ये तु विभक्तिनियमे पर्युदासेऽपि न दोष इत्यनास्थावादः पाक्षिक एष दोष इत्यत्रैव तात्पर्यम्। क्षन्तव्यं च किञ्चिदुद्ग्रन्थाभिधानमित्युपरम्यते।।
सम्बोधने च।। 2.3.47 ।।
सम्बोधने च।। आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदत्तेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ्यां प्राप्तायामिदं वचनं तदाह---तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति---राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा---अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उत्तरार्थः।।
साऽऽमन्त्रितम्।। 2.3.48 ।।
सामन्त्रितम्।। तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--आमन्त्रणमामन्त्रितमिति। अभेदोपचारात्तत्साधने शब्दे वर्त्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु `आमन्त्रितस्य च' इत्याद्युदात्तत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात्---हे पचन्! हे पचमान!;असति तु तस्मिन् `अनन्तरस्य विधिर्वा प्रतिषेधो वा' इत्यनन्तरसूत्रविहिताया एव स्यात्।।
एकवचनं संबुद्धिः।। 2.3.49 ।।
एकवचनं संबुद्धिः।। हे पटो इति। संबुद्धौ च `ह्रस्वस्य गुणः' इति गुणः, `सुः संबुद्धिः' इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्।।
षष्ठी शेषे।। 2.3.50 ।।
षष्ठी शेषे।। उपयुक्तादन्यः शेषः, कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्ता इत्याह---कर्मादिभ्योऽन्य इति। ननु न कर्मादिभ्योऽन्यः प्रातिपदिकार्थस्य व्यतिरकः संभवति, कथम्? क्रियामन्तरेण संबन्धानुपपत्तेः, सर्वत्र स्यास्तन्निमित्तानां कर्मादीनां चावश्यम्भावात्। तथा हि---राज्ञः पुरुष इति राजा कर्त्ता; राजा द्रव्यं पुरुषाय ददातीत्यर्थसंप्रत्ययात्। वृक्षस्य शाखेति। लोकप्रसिद्ध्या वृक्षोऽधिकरणम्, तार्किकप्रक्रियया तु शाखा। देवदत्तस्य गौरित्यादौ तु प्रतिग्रहणादौ कर्तृत्वं प्रतीयते---देवदत्तः प्रतिग्रहीता क्रेता विनिमाताऽपहर्त्ता वेति; उच्यते, नटस्य शृणोतीत्यत्र तावत्क्रियाकारकसंबन्धरूप एव शेषः, कथम्? `आख्यातोपयोगे' इत्युपयोगग्रहणान्नटस्यापादनसंज्ञा नास्ति, दुह्यादिपरिगणनाच्चाकथितत्वेऽपि कर्मसंज्ञा नास्ति, तदयं नटः कारकमेव शेषः। यच्चोक्तम्---क्रियायास्तन्निमित्तानां च सर्वत्र भावान्नान्यः प्रातिपदिकार्थस्य व्यतिरेक इति, तन्न;प्रतिग्रहक्रयादिजन्यस्य सर्वलोकप्रसिद्धस्य स्वस्वाभिभावादिसंबन्धस्यापि दुरपलापत्वात्। यदि च परस्परमुपकार्योपकारकभावे संबन्धानुपपत्तेः क्रियाकारकसंबन्धोऽपि सर्वत्र वस्तुस्थित्याऽस्तीत्युच्येत्, अस्तु तथा, न कश्चिद्दोषः; न हि यद्यद्वस्तुस्थित्यास्ति तत्तदभिधातव्यम्, यदेव तु विवक्षितं तदेव स्वनिमित्तां विभक्तिं प्रसूते। तत्र स्वस्वामिभावादिसंबन्धविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यत इति द्वितीयाद्यभावे षष्ठी भविष्यति। एवं च मातुः स्मरति, न माषाणामश्नीयात्, अनुकरोति भगवतो नारायणस्येत्यादौ श्रूयमाणेऽपि क्रियाशब्दे मातृसंबद्धं स्मरणमिति संबन्धमात्रं विवक्षितम्, कर्मत्वं तु सदप्यविवक्षितमिति षष्ठी भवति। उक्तं च---
संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः।
श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते।। इति।।
`षष्ठी शेषे' इति चेद्विशेष्यस्य प्रतिषेधः स्वस्वामिभावादिसंबन्धः षष्ठ्यर्थः, स च द्विष्ठः। तत्र यद्यप्येकस्मादप्युत्पन्नयापि षष्ठ्या द्विष्ठस्यापि संबन्धस्यावगमादुभाभ्यां षष्ठी न भवति, तथापि कदाचिद्विशेष्यादपि प्राप्नोति, प्रथमा च न प्राप्नोति; संबन्धस्याधिकस्य भावात्, न वा वाक्यार्थत्वात्। यदत्र पुरुषस्याधिक्यं स वाक्यार्थः, राज्ञ इत्येतत्पदसन्निधानात्पुरुषस्य संबन्धः प्रतीयते, पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्त्तत इति तत्र प्रथमा च भविष्यति, षष्ठी च न भविष्यतीति। एतदुक्तं भवति---राज्ञ इति केवलपद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगिकमवगम्यते, पुरुषपदसन्निधौ तु सविशेषस्य प्रतीतिरित्येतावत्, ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी भवति। ननु च षष्ठ्युच्चारणानुच्चारणकृतो यो विशेषोऽङ्ग भवान् पुरुषपदादपि षष्ठीमुच्चारयतु, गंस्यते स विशेषः? नैतत्सुष्ठूच्यते, न हि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते, किं तर्हि? विद्यमान एवार्थः प्रतिपिपादयिषितश्च वाचकपदप्रयोगे हेतुर्भवति। तत्र गुणस्य परोपकाकत्वेन विवक्षितत्वात्तदन्ते षष्ठी भवति, पुरुषस्य तूपकार्यत्वात्वात्स्वनिष्ठत्वेन विवक्षितत्वात्प्रथमा भवति। तत्र च संबन्धो गुणे पदं निधाय प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृत्तोऽन्यथानुपपत्ते रूपान्तरमाश्रयति। प्रधानं तु स्वनिष्ठत्वेन न रूपान्तरं भजते, उक्तं च----
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते।
तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते।। इति।
यदा तु पुरुषस्याप्रधान्यं राज्ञश्च प्राधान्यं विवक्ष्यते, तदा पुरुषस्य राजेत्यपि भवत्येव; यदा च राज्ञः पुरुषस्य गृहमिति तत्पुरुषस्य गृहादिसंबन्धो विवक्ष्यते तदैकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुद्ध्यत इति द्वाभ्यामपि षष्ठी भवति। राज्ञ इति हि षष्ठ्या राजपुरुषयोरेव संबन्धोऽभिहितः, न पुरुषस्य गृहस्य च। इह पञ्चके प्रातिपदिकार्थे `कर्मणि द्वितीया' इत्यादौ चार्थनियमपक्षे शेषग्रहणं शक्यमकर्तुम्, कथम्? कर्मादयो नियताः, शेषोऽनियतः, ततश्च स्वादिसूत्रेण द्वितीयादिषु षष्ठ्यां च शेषे प्राप्तेषु षष्ठीत्येतावदप्युच्यमानं नियमार्थं सम्पद्यते---षष्ठ्येव भवतीति। यत्र च षष्ठी च प्रत्ययान्तरं च प्राप्नोति तत्रैवंविदधो नियम इत्यर्थाच्छेष एव भविष्यतीति उत्तरार्थमेव तदवश्यं शेषग्रहणं कर्त्तव्यम्। त्रिकपक्षे तु स्वार्थे षष्ठी मा भूदिति द्वितीयादीनामिव कर्मादिः शेषो वाच्यत्वेन विधातव्यः। तथा प्रत्ययनियमपक्षे कर्मादीनामनियतत्वात्तेष्वपि षष्ठ्यां प्राप्तायां शेष एव षष्ठी न कर्मादिष्विति षष्ठीनियमार्थं शेषग्रहणं कर्त्तव्यम्।।
ज्ञोऽविदर्थस्य करणे।। 2.3.51 ।।
ज्ञोऽविदर्थस्य करणे।। असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह---अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। `अपह्नवे ज्ञः' `अकर्मकाच्च' इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृत्तौ वर्त्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद्---अहो उत्तमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः----सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह--मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् `अकर्मकाच्च' इत्यात्मनेपदानुपत्तेः परस्मैपदमुदाहार्यं मन्यते।।
अधीगर्थदयेशां कर्मणि।। 2.3.52 ।।
अधीगर्थदयेशां कर्मणि।। `इक् स्मरणे' ककारोऽत्रैव विशेषणार्थः, अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्। शेषत्वेन विवक्षित इति। ननु शेषत्वेन विवक्षिते पूर्वेणैव सिद्धा षष्ठी, यथा---न माषाणामश्नीयाद्, अनुकरोति भगवतो नारायणस्येति? सत्यम्, प्रकरणं तु नियमार्थम्----अस्मिन्विषये षष्ठी भवत्येव श्रूयत एव न लुप्यत इति। किं कृतं भवति? समासो निवर्त्तितो भवति---मातुः स्मरणमिति। एवं पूर्वसूत्रे परत्र च प्रकरणे सर्वत्र द्रष्टव्यम्। समासे सति `सुपो धातुप्रातिपदिकयोः' इति षष्ठी लुप्येत, तेन प्रतिपदविधानषष्ठी न समस्यत इति सिद्धं भवति। कथं तर्हि विशेषस्मृतेः संशय इति समासः? उच्यते; शेषष्ठ्या एव समासनिषेधः इह तु `कर्तृकर्मणोः कृति' इति कर्मरूपविवक्षायामेव षष्ठी समासो भविष्यति। कः पुनरत्र विशेषः---शेषषष्ठ्याः समासः स्यात्, कारकषष्ठ्या वा? अयमस्ति विशेषः---कारकषष्ठ्याः समासे कृत्स्वरो भवति, शेषषष्ठ्याः समासे तु समासान्तोदात्तत्वं स्यात्, अन्तोदात्तसमासनिवृत्तये प्करणम्। यत्र च कारकषष्ठी प्रतिषिध्यते, यथा---मातुः स्मृतमिति, तत्र समासोऽपि मा भूत्। एवं चात्र प्रकरणे येऽनुपात्ताः, यानि चात्र प्रत्युदाहरणानि, तेषूभयेष्वपि निष्ठायोगे शेषषष्ठ्याः समासः, अन्यत्र कारकषष्ठ्या अपीति वेदितव्यम्। गुणैरिति। गुणेषु शेषत्वेन विवक्षितेषु अस्य नियमस्याभावात्समासो भवत्येवेत्यर्थः। इयमेवास्मिन्प्रकरणे प्रत्युदाहरणगतिरिति।।
कृञः प्रतियत्ने।। 2.3.53 ।।
कृञः प्रतियत्ने।। एधोदकस्येति। `जातिरप्राणिनाम्' इत्येकवद्भावः। उपस्कुरुत इति। गन्धनादिसूत्रेणात्मनेपदम्। `उपात्प्रतियत्न'इत्यादिना सुट्।।
रुजार्थानां भाववचनानामज्वरे।। 2.3.54 ।।
रुजार्थानां भाववचनानामज्वरे।। `रुजो भङ्गे'भिदादिपाठादस्मादेव निपातनाद्वाऽङ्। भाववचनानामिति। नायमर्थो भाववाचिनामिति, धातूनां भाववाचित्वाव्यभिचारात्। किं तर्हि? भावशब्देन घञादिवाच्यः सिद्धरूपो भाव उच्यते। वचन इति कर्त्तरि ल्युट्। तत्र प्रकृत्यर्थो न विवक्ष्यते, न हि रुजार्थानां भावो वक्ता प्रतिपादयितोच्चारयिता वोपपद्दाते। तस्मात्प्रत्ययार्थ एव कर्ता विवक्षितः--भावो वचनः कर्त्ता येषामित्यर्थः, तदाह--भावकर्तृकाणामिति। चौरस्यामयतीति। `अम रोगे' चुरादिः,`नान्ये मितोऽहेतौ' इति चुरादौ वचनात् `जनीजृष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वं न भवति। `ज्ञप मिच्च' इत्यारभ्य `नान्ये मितोऽहेतौ' इतः प्राग्ये पठितास्त एव चुरादिषु मितो भवन्ति, नान्य इत्यर्थः। आमय इति आङ्पूर्वस्य मीनातेरेच्, `मीनातिमिनोति' इत्यात्वस्य `निमिमीलीयां खलचोः' इति प्रतिषेधः। नदीकूलं रुजतीति। अत्र नदी कर्त्री, न भावः। ननु रुजाशब्दो व्याधौ रूढ इति नात्र प्रसङ्गः? एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---श्लेष्मा पुरुषं रुजतीति, व्याधिना कासादिना ग्राहयतीत्यर्थः। ज्वरयतीति। `ज्वर रोगे' घटादिः। सन्तापयतीति। `हेतुमति च' इति णिच्, सन्तापोऽत्र भावः, कर्त्ता च।।
आशिषि नाथः।। 2.3.55 ।।
आशिषि नाथः।। नाथत इति। `आशिषि नाथः' इत्युपसंख्यानादात्मनेपदम्, तच्चानुदात्तेत्त्वादेव सिद्धे नियमार्थम्---आशिष्येव नाथ इति, तेन प्रत्युदाहरणे परस्मैपदम्।।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्।। 2.3.56 ।।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्।। न दैवादिकस्येति। `जासि' इति निर्देशाद् `हिसायाम्' इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः, `हन्तेरत्पूर्वस्य' इति णत्वम्। प्रणिहन्तीति। `नेर्गद' इत्यादिना णत्वम्। `नट अवस्यन्दने' चुरादिः, `नट नृत्तौ' इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु `घटादयः षितः' इत्यातिदेशिकोऽङ्यथा स्यात्, `चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' इति दीर्घश्च यथा स्यादित्येवमर्थः।।
व्यवहृपणोः समर्थयोः।। 2.3.57 ।।
व्यवहृपणोः समर्थयोः।। समर्थयोरिति। संशब्दो वृत्तौ समानार्थः, समशब्दस्य वा निपातनात्पररुपमिति भावः। संबद्धार्थयोरिति तु न विज्ञायते, व्याख्यानात्। संभवति हि व्यवहृपणोर्हेतुहेतुमद्भावः संबन्धः। शतस्य व्यवहरतीति। शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः। शलाकां व्यवहरतिगणयतीत्यर्थः।।
दिवस्तदर्थस्य।। 2.3.58 ।।
दिवस्तदर्थस्य।। अत्र `शेष' इति नानुवर्त्तते, उत्तरसूत्रद्वयारम्भसामथ्यति्। अथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह---योगविभाग इति।।
विभाषोपसर्गे।। 2.3.59 ।।
विभाषोपसर्गे।। शलाकां प्रतिदीव्यतीति। अत्र विजिगीषादौ दिविर्वर्त्तते, न व्यवहारे।।
द्वितीया ब्राह्मणे।। 2.3.60 ।।
द्वितीया ब्राह्मणे।। मन्त्रव्यतिरिको वेदभागः===ब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्, `स्वमोर्नपुंसकात्' इति लुक्, `अहन्' इति रुत्वम्।
अनुपसर्गस्य नित्यं षष्ठ्यां प्राप्तायामिति। `दिवस्तदर्थस्य' इत्यनेन' अथ सोपसर्गस्यापि पूर्वेण षष्ठ्यामपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह--सोपसर्गस्येत्यादि।।
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने।। 2.3.61 ।।
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने।। इष्यतेर्दैवादिकस्येति। `इषु गतौ' इत्यस्य श्यना निर्देश इच्छतीष्णात्योरिच्छाभीक्ष्ण्यार्थयोर्निवृत्त्यर्थः। तद्विषय एवेति। लोण्मध्यमैकवचनान्तः। देवतासंप्रदान इति। देवता संप्रदानं यस्यार्थस्य तत्र वर्तमानयोः कर्मणि कारक इत्यन्वयः। हविषः हविर्विशेषवाचिन इत्यर्थः। प्रे3ष्येति। `ब्रूहिप्रेष्य' इत्यादिना प्लुतः। अग्यये गोमयानि प्रेष्येति। गोमयं हविष्ट्वेन क्वापि न चोदितम्। हविषः प्रस्थितस्येति। प्रस्थितशब्देन यद्विशेष्यते तस्येत्यर्थः। इदं च भाषायामपि भवति; उत्तरत्र छन्दोग्रहणात्।।
चतुर्थ्यर्थे बहुलं छन्दसि।। 2.3.62 ।।
चतुर्थ्यर्थे बहुलं छन्दसि।। या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। तत्तर्हि वक्तव्यम्---षष्ठ्यर्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्त्तते---अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते।।
यजेश्च करणे।। 2.3.63 ।।
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे।। 2.3.64 ।।
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे।। कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति। `संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' द्विरिति। `द्वित्रिचतुर्भ्यः सुच्' अर्थग्रहणमेतदर्थम्।।
कर्तृकर्मणोः कृति।। 2.3.65 ।।
कर्तृकर्मणोः कृति। इह क्रियायाः साधनं भवतीति। कर्तृकर्मभ्यां क्रिया सन्निधाप्यते, धातुरेव क्रियावाची, धातोश्च द्वये प्रत्ययाः---कृतस्तिङश्च। तत्र तिङ्प्रयोगे `न लोकाव्यय' इति लप्रतिषेधेन भाव्यम्। स चावश्यं लप्रतिषेधः कर्त्तव्यः, ये कृतो लादेशास्तदर्थम्---ओदनं पचन्, ओदनं पचमानः पपिः सोमम्,ददिर्गा इति, इह तु नार्थः कृद्ग्रहणेनेति मत्वा पृच्छति---कृतीति किमिति। कृतपूर्वी कटमिति। ननु कृतः कटः पूर्वमनेनेत्यस्मिन्विग्रहे क्तस्य कर्मणि विधानात्तेनैव कर्मणोऽभिहितत्वान्नैव द्वितीया भाव्यम्, एवं च तदपवादः षष्ठ्यपि न प्राप्नोति; इहाप्यनभिहिताधिकारात्, कृतशब्दस्य च कटापेक्षस्य समासो दुर्लभः, एतेन तद्धितो व्याख्यातः, तस्मादयमसाधुरेव प्योगः? सत्यम्, विशेषविवक्षायां नैव समासतद्धितौ भवतः, यदा तु कृतं पूर्वमनेनेति कर्मसामान्ये भावे वा क्त उत्पद्यते तदा सापेक्षत्वाभावात्समासः, केन? `सुप्सुपा' इति, ततः `पुर्वादिनिः',`सपूर्वाच्च'इतीनिः प्रत्ययः। न च कटस्य क्तेनाभिधानं करोतेरुत्पद्यमानः क्तप्रत्ययः कर्मसामान्यमेवाह, विशेषकर्मसंबन्धात्तु तस्याभिधानम्, न चात्र तद्धितेनैकार्थीभूतस्य निष्कृष्य कटेन संबन्धः सम्भवति, क्रियया तु गुणभूतया कारकाणां सम्बन्धो भवति, यथा---कटं कृतवानिति। कृतपूर्वीशब्दश्चायं पूर्व कृतमनेत्यस्मिन्नर्थे व्युत्पादितः पूर्वं कृतवानित्यनेन समानार्थः संपद्यते, तत्र करोतिक्रियापेक्षमस्ति कटस्य कर्मत्वम्, अनभिहितं च तदिति कृद्ग्रहणे षष्ठी स्याद्। यत्र च निष्ठान्तेन शब्देन कर्तृकर्मणोः संबन्धस्तत्रैव निष्ठाश्रयः प्रतिषेधः, यथा----कटं कृतवान्, कृतः कटो देवदत्तेनेति, इह तु कृतस्य कटेन संबन्धो न भवतीत्युक्तमेव। अथ तु वस्तुतो निष्ठान्ते पदे धातुवाच्यक्रियापेक्षे ये कर्तृकर्मणी तयोः प्रतिषेधः, तथा सति नेदं कृद्ग्रहणस्य प्रयोजनम्, तेनैतदपि निरस्तम्।
असति कृद्ग्रहणे, कटं कारयति पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति णिच्प्रकृतेः पचेरर्थ प्रति कर्तृकर्मणोः षष्ठीप्रसङ्गः। सति तु कृद्ग्रहणे, णिचोऽकृत्त्वान्न भवतीति कथमिव निरस्तम् `न लोक' इत्यत्र नैवं ज्ञायते---लप्रकृतिभूतस्य धातोर्ये कर्तृकर्मणी इति, किं तर्हि? लान्ते पदे या क्रियोच्यते प्राधान्येन गुणभावेन वा, तत्र ये कर्तृकर्मणी तयोः षष्ठी न भवतीति तेनेदमप्यप्रयोजनम्।
अथ स्याद्--`नलोकाव्यय' इत्यत्राव्ययविशेषणार्थं कृद्ग्रहणम्, तेनोच्चैः कटानां स्प्रष्टेत्यत्राकृतोऽप्यव्ययस्य प्रयोगे निषेधाभाव इति, तदपि न; अव्ययेन कर्तृकर्मणी विशेषयिष्यामः----अव्ययस्य ये कर्तृकर्मणी तयोः षष्ठी नेति, न चाकृत उच्चैसः कर्तृकर्मणी सम्भवतः। इह तर्हि करोतीति कृदिति कृच्छब्देन कर्त्तोच्यते, तत्र कर्तृकर्मणोरित्येव षष्ठ्यामपि सिद्धायां पुनर्विधानं गुणभूतेऽति कर्त्तरि यथा स्यात्----भेदिकादेवदत्तस्य यज्ञदत्तस्य काष्ठानामिति, भिदेर्ण्यन्तात्पर्यायादिनाण्वुच्, अत्र ण्यर्थस्य प्राधान्यात्प्रयोजककर्त्ता प्रधानम्, प्रयोज्यकर्त्ता तु प्रकृत्यर्थस्य गुणभावाद्गुणभूत इति प्रधानेतरसन्निधौ प्रधानादेव स्यात्, कृद्ग्रहणादप्रधानादपि भवति, एतदपि नास्ति प्रयोजनम्; तृतीयावत् सिद्धम्, तद्यथा---पाचित ओदनो देवदत्तेन यज्ञदत्तेनेत्यादौ प्रधानाप्रधानयोर्द्वयोरपि कर्त्रोस्तृतीया भवति, तत्कस्य हेतोः? एकशब्दवाच्यत्वाभावेन विरोधाभावात् तथा षष्ठ्यपि भविष्यति।
इह तर्हि प्रयोजनम्, `उभयप्राप्तौ कर्मणि' इति बहुव्रीहिर्यथा स्याद्, अन्यथान्यपदार्थस्यानुपात्तत्वात्तत्पुरुषः स्यात्तत्र चानिष्टं वक्ष्यते। यद्येवम्, उत्तरत्रैव कृद्ग्रहणम् कर्त्तव्यम्, अथ वा---अनुपात्तेऽप्यन्यपदार्थे व्याख्यानाद् बहुव्रीहिर्भविष्यति, यथा---`एकाचो द्वे प्रथमस्य' इति, तदेतत्कृद्ग्रहणं चिन्त्यप्रयोजनम्।
केचिदाहुः---इहैव तद्धितनिवृत्त्यर्थं कृद्ग्रहणमिति प्रजानातिति प्रज्ञः प्रज्ञ एव प्राज्ञः `प्रज्ञादिभ्यश्च'इति स्वार्थिकेऽणि कृते व्याकरणं प्राज्ञ इत्यत्र षष्ठी न भवति। ननु क्रियमाणेऽपि कृद्ग्रहणे कस्मादेवात्र न भवति, यावता भवत्येव कृतोऽत्र प्रयोगः,न ह्यत्रैतच्छक्यं वक्तुम्---प्रत्ययार्थेनैकार्थीभूतस्य कृदन्तस्य निष्कृष्य व्याकरणेन संबन्धो न सम्भवतीति प्रत्ययस्य स्वार्थिकत्वेनार्थान्तराभावात्? नैष दोष;कृद्ग्रहणसामर्थ्यात्कृदन्तेनैव योगे षष्ठी विज्ञास्यते, इह तु कृता तद्धितेन चैकरूपः संबन्ध इति न भविष्यतीत्यलमतिक्षोदेन!
शेष इति निवृत्तमिति। तेनाप्राप्ता षष्ठी विधीयत इत्यस्याः समासो भवतीति कृद्योगा च षष्ठी समस्यत इति न वक्तव्यं भवति।।
उभयप्राप्तौ कर्मणि।। 2.3.66 ।।
उभयप्राप्तौ कर्मणि।। उभयशब्देन प्रकृतत्वात्कर्तृ कर्मणी संबध्येते। उभयप्राप्ताविति बहुव्रीहिरिति। न तत्पुरुषः। उभयोः कर्तृकर्मणोः षष्ठीप्राप्तौ सत्यामिति। अत्र प्रयोजनं वक्ष्यति---कर्मण्येवेति। विपरीतस्तु नियमो न भवति---उभयप्राप्तावेव कर्मणीति। एवं हि पूर्वसूत्रे कर्मग्रहणमनर्थकं स्याद्, अनेनैव विशिष्टविधानमाश्रयणीयं भावः। आश्चर्य इति। सकर्मकेभ्यो भावे कृति विहिते कर्मणि कर्त्तरि च षष्ठी प्राप्ता नियमेन कर्त्तुरपनीयते। प्राप्तिग्रहणाच्च प्राप्तिमात्रे नियम इति कर्तृकर्मणोः प्रयोगेऽपि कर्त्तरि तृतीया भवति, `अन्तर्धौ येनादर्शनमिच्छति' इति अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। अत्र च `अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति कर्तृकर्मणोरिति प्राप्तिर्नियम्यते, शेषषष्ठी तु कर्मर्यति भवत्येव। नियमस्य प्रयोजनं पक्षे तृतीयाश्रवणम्। कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव। तस्याश्च `कर्मणि च' इति निषेधाभावात्समासेऽपि भवति। निषेधस्य तु प्रयोजनं कृत्स्वरो मा भूदिति। एतदपि सूचितम्---पूर्वेण षष्ठी प्राप्तौ नियम्यत इति। आश्चर्यमिदमित्येतावदेकं वाक्यम्, किं तदित्याह---ओदनरयेति। अत्र पाके ओदनस्य कर्मत्वम्, प्रादुर्भावे च ब्राह्मणानां कर्तृत्वमित्यनेकत्वात्कृदुभयप्राप्तिर्भवति भेदिकेति। पर्यायादिषु ण्वुच्। चिकीर्षेति। `अ प्रत्ययात्'। अत्रोभयत्रापि कर्त्तरि तृतीया न भवति। षष्ठी तु शेषविवक्षयापि सिद्ध्यति। समासोऽप्यत्र भवति---धर्मजिज्ञासा देवदत्तस्य, शिष्यस्याचार्यशुश्रूषेति `शेषे विभाषा' इति। तत्र यदा नियमेन कर्त्तरि तृतीया तदा `कर्मणि च' इति निषेधात्पाणिनिना सूत्रकृतिः, आचार्येण शब्दानुशासनमित्यसाधुः समासः; पाणिनेः सूत्रकृतिः, आचार्यस्य शब्दानुशासनमिति तु साधुः।।
क्तस्य च वर्तमाने।। 2.3.67 ।।
क्तस्य च वर्तमाने।। राज्ञां मत इति। `मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः। शेषविज्ञानादिति। उपसंख्यानं प्रत्याचष्टे, सदप्यत्र छात्त्रस्य कर्तृत्वमविवक्षायां तिरोधीयते, संबन्धित्वमात्रमेव तु विवक्षिष्यते, ततश्च न माषाणामश्नीयदितिवत्सिद्धा षष्ठीत्यर्थः। तथा चेति। उपसंख्याने त्वेतन्न सिद्ध्यतीति भावः।।
अधिकरणवाचिनश्च।। 2.3.68 ।।
अधिकरणवाचिनश्च।। तस्य च प्रयोगे षष्ठी विभक्तिर्भवतीति। यथासम्भवं यत्र कर्तैव सम्भवति तत्र कर्तरि--इदमेषामासितमिति, सकर्मकेभ्यस्त्वधिकरणे क्ते विहिते द्वयोरपि कर्तृकर्मणोरनभिहितन्वाद् द्वयोरपि षष्ठी भवति---इदमेषां भुक्तमोदनस्येति। उभयप्राप्तौ कर्मणीत्ययं तु नियमः `कर्तृकर्मणोः कृति' इत्यस्या एव प्राप्तेः। वाचिग्रहणं किम्? अधिकरण' इत्युच्यमाने क्तोपलक्षणं विज्ञायेत, ततश्चार्थान्तरवृत्तेरपि ध्रौव्यादेरुत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्; वाचिग्रहणे तु सति यदाधिकरणं कर्ति तदैव षष्ठी भवति, पदार्थान्तरे तदा कर्तरि तृतीया कर्मणि द्वितीया भवति---इहैभिरासितं ग्रामे गत इति; इह गत्यर्थे चातुश्शब्द्यं भवति--इदमेषां गतमित्यधिकरणे, इदमेते गता इति कर्तरि, इहैभिर्गतमिति नपुंसके भावे, कर्तृविवक्षायां इदमेषाङ्गतमिति तत्रैव शेषविवक्षायाम्।।
न लोकाव्ययनिष्ठाखलर्थतृनाम्।। 2.3.69 ।।
न लोकाव्ययनिष्ठाखलर्थतृनाम्।। जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वाभावः। उ उकेति। अनेनोकारप्रश्लषं दर्शयति। तत्र लश्चेति पूर्वद्वन्द्वे उकारस्य पूर्वनिपातः स्यात्, परनिपातेऽपि लवुकेति स्यात्; तस्मात्परयोर्द्वन्द्वं कृत्वा पश्चाल्लशब्दस्य द्वन्दः कार्यः, उकारेण च कृतो विशेषणात्तदन्तविधिः, व्यपदेशिवद्भावात्केवलस्यापि ग्रहणम्। शतृशानचाविति। तेन शानजर्थं तृन्निति प्रत्याहारो नाश्रयणीय इति भावः। किकिनौ चेति। ननु लग्रहणेन लकारास्तदादेशाश्च ग्रहीतुं युक्ताः---कटं कारयाञ्चकार, ओदनं पाचयति; किकिनोस्त्वयुक्तं ग्रहणम्, अलत्वादलादेशत्वाच्च, नैष दोषः; `किकिनौ लिट् च' इत्यनेन लिट्त्वातिदेशः क्रियते, न लिट्संज्ञा। तत्र `कारयाम्' `पचानः' इत्यादौ लिटि तदादेशे च द्दष्टः प्रतिषेध किकिनोरपि भविष्यति। उदाहरणेषु सर्वत्र कारकषष्ठ्याः प्रतिषेधः। शेषषष्ठी तु भवत्येव---ब्राह्मणस्य कुर्वन्, ओदनस्य पचन्, अपां पेरुरसि, नरकस्य जिष्णवो गुणैः, तानि द्विषद्वीर्यनिराकरिष्णुरिति। आगामुकमिति। `लषपतपद' इतायदिनोकञ्, रक्षांसि वाराणसीं प्रत्यागमनशीलानि भवन्ति, शापादिमोक्षार्थमित्यर्थः। दास्याः कामुक इति। द्वितीया निवृत्त्यर्थ वचनम्, षष्ठी तु शेषविज्ञानादेव सिद्धा। पुरा सूर्यस्येति। `भावलक्षणे' इत्यादिना तोसुन्। विसृप इति। `सृपितृदोः कसुन्' `पूङ्यजोः शानन्' `ताच्छील्यवयोवचनशक्तिषु चानश्' `इङ्धार्योः शत्रकृच्छ्रिणि' इत्येतेषु `ल' इति नानुवर्त्तत इति स्थापयिष्यते, तेन लग्रहणादसिद्धिरिति मत्वाऽऽह----तृन्निति प्रत्याहारग्रहणमिति।
द्विषः शतुर्वा वचनमिति। `द्विषोऽमित्रे' इति योऽयं शतृप्रत्ययः, तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः। प्रत्याख्यानं तु शेषविवक्षायां षष्ठ्यन्यत्र द्वितीयेति, सता च समासप्रतिषेधात्समासे कृत्स्वरार्थ कारकषष्ठी विधेयेत्यपि नास्ति।।
अकेनोर्भविष्यदाधमर्ण्ययोः।। 2.3.70 ।।
अकेनोर्भविष्यदाधमर्ण्ययोः।। अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति। `भविष्यति गम्यादयः' ननुच नात्र षष्ठ्याः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम्---`द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषयेऽपि यथा स्याद्ग्रामस्य गन्ता' इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते।।
कृत्यानां कर्तरि वा।। 2.3.71 ।।
कृत्यानां कर्तरि वा।। कर्त्तरोति किमिति। `तयोरेव कृत्यक्तखलर्थाः' इति वचनादकर्मकेभ्यो भावे सकर्मकेभ्यश्च कर्मणि कृत्यानां विधानात्कर्त्तुरेव तैरनभिधानं सम्भवतीति कर्तृकर्मणोर्द्वयोरधिकारेऽपि कर्तयेव षष्ठी भविष्यतीति प्रश्नः। गेय इति। `भव्यगेय' इत्यादिना कर्त्तरि यत्प्रत्ययः। साम्नामिति। कर्मणि नित्यमेव षष्ठी भवति।
उभयप्राप्तौ कृत्य इति। उभयो कर्तृकर्मणोः प्राप्तिर्यस्मिन् कृत्ये तत्र द्वयोरपि कर्तृकर्मणोः षष्ठी न भवतीत्यर्थः। क्रष्टव्येति। कृषेद्विकर्मकत्वात्प्रधाने कर्मणि कृत्यप्रत्ययः, न त्वप्रधान इति तस्मिन् कर्मणि कर्तरि च प्राप्ता षष्ठी न भवति। एतच्चयोगविभागाल्लभ्यते, कथम्? कृत्यानामित्येको योगः, अत्रोभयप्राप्तौ नेति च वर्तते, युगपदुभयप्राप्तीनां कृत्यानां प्रयोगे षष्ठी न भवतीत्यर्थः; ततः कर्तरि वा, अत्र षष्ठीत्येवानुवर्तते, अन्यत्सर्वं निवृत्तम्।।
तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्।। 2.3.72 ।।
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्।। शेषविषये विधानादिति। शेषइत्यधिक्रियत इति भावः। बहुवचननिर्देशादेव स्वरूपग्रहणाभावे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षा ये तुल्यानाहुस्तत्परिग्रहार्थम्। तेन द्योतका इवादयो निवर्त्तिता भवन्ति---गौरिव गवयः, यथा गौस्तथा गवय इति। तुला देवदत्तस्येति। तुलोपमाशब्दौ कर्मसाधनौ तुल्यार्थौ तत्र प्रतिषेध्या तृतीया, षष्ठी तु भवत्येव। इह `स्फुटोपमं भूतिसितेन शम्भुना' इति श्म्भुना स्फुटोपमा यस्येत्युपमाशब्देनापि योगे करणे तृतीया भवति, भावसाधनत्वात्तस्य, यथा---उपमीयतेऽनेनेत्यादौ; इतरथा हि तृतीयानुकृष्येतेति तस्यानन्तरसूत्रे श्रुतत्वाद् अन्यतरस्यांग्रहणे तु सति तस्य प्रयोजनान्तराभावात्तदेव चकारेणानुकृष्यते।।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः।। 2.3.73 ।।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः।। आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमित्तम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृत्तावपि क्वचिदर्थशब्दोऽप्युदाह्रियते।
हितं देवदत्तस्येति। `हितयोगे चतुर्थी वक्तव्या' इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्या
द्वितीयाध्यायस्य तृतीयः पादः।।
-------------