काशिका (पदमञ्जरीव्याख्यासहिता)/द्वितीयोऽध्यायः/द्वितीयः पादः

← प्रथमः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

काशिकावृत्तिः
द्वितीयाध्याये द्वितीयः पादः पदमञ्जरी

अथ द्वितीयाध्याये द्वितायः पादः
1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।। 2.2.1 ।।
एकदेशोऽस्यास्तीत्येकदेशीति। एकगोपूर्वादिति ठञ् प्राप्नोति, अत एव निर्देशादिनिर्द्रष्टव्यः। एकदण्डीत्ययं त्वपशब्दः एको दण्डो यस्येति बहुव्रीहिणैव गतत्वान्मत्वर्थ एव दुर्लभः, किं पुनरिनिष्ठञा बाधितः? एकदेशब्दस्तु कर्मधारय एवावयववचन इति न तत्र बहुव्रीहिणा गतत्वम्, यथा - कृष्णसर्पवानिति। सामर्थ्यादेकदेशवचना इति। एकदेशमपेक्ष्यैकदेशी भवति, नान्यथेत्येतत्सामर्थ्यम्। एकाधिकरणग्रहणमेकदेशिनो विशेषणमिति। सत्सप्तम्यन्तवैयधिकरण्येनेति भावः, तदाह - एक चेदिति। एकत्वसंख्याविशिष्टमित्यर्थः। समानाभिधेयवचन एकाधिकरणशब्दो न भवति, अवयवावयविशब्दयोः सामानाधिकरण्यानुपपत्तेः, समानाधिकरण्येनेति प्रकृतत्वाच्च। स्यादेतत् - `समुदायेषु हि दृष्टाः शब्दाः अवयवेष्वपि वर्त्तन्ते' इति न्यायेन समानाधिकरण्ये सति पूर्वश्चासौ कायश्चेति विशेषणमित्येव सिध्दः समासो नार्थ एतेन, एवं च कृत्वा परवल्लिङ्गमित्यत्र तत्पुरुषग्रहणं न कर्तव्यं भवति, कथम्? उत्तरपदार्थप्रधानत्वादेव सिध्दमिति, तत्रह - षष्ठीसमासापवादोऽयं योग इति। सिध्दं तु कथञ्चित्पूर्वकाय इति, कायपूर्व इत्यस्य निवृत्त्यर्थमेव तु सूत्रं कर्तव्यमित्यर्थः। पूर्वे कायस्येति। यद्यपि दिशि दृष्टः शब्दो दिक्शब्द इत्याश्रयणात्सम्प्रत्यदिग्वृत्तिनीपि योगे पञ्चमी भवति, `तस्य परमाम्रेडितम्' इति लिङ्गादवयववृत्तिभिर्योगे षष्ठी भवति। पूर्वे नाभेः कायस्येति। नाभेरिति दिग्योगलक्षणा पञ्चमी, मायसम्बन्धी नाभ्यपेक्षया पूर्वो भाग इत्यर्थः। तत्र नाभिरेकदेशी न भवतीति न तेन समासो भवति। यस्त्वेकदेशी कायस्तेन समासो भवत्येव - पूर्वकायो नाभेरिति, पूर्वशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिति केचिदाहुः। अन्ये तु - यत्रार्थप्रकरणादिनावधिर्गम्यते तत्रैव समासः, न शब्दोपादाने इत्याहुः। पूर्वे छात्राणामिति। नेयं निर्ध्दारणे षष्ठी, किं तर्हि? समुदायः छात्राणामित्यनेनोच्यत इति बहुवचनम्, यथा-छात्राणां पञ्चम इति, ततश्च छात्राणामेकदेशित्वमस्त्येव, किं तु बहुत्वसंख्याविशिष्टानामिति समासाभावः। संख्याविसायपूर्वस्येत्यादि। न ह्यन्यथा सायपूर्वत्वमह्वस्योपपद्यते इति भावः। केचित्तु - सर्वेणैकदेशवाचिना कालवाचिनः समासो भवति, न त्वमहन्शब्दस्यैवेति ज्ञापकशरीरं वर्णयन्ति, तेन मध्यरात्र इत्यपि सिध्दं भवति।।

2 अर्ध्दं नपुंसकम् ।। 2.2.2 ।।
आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति। `तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधाति' इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचित्तु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासु' इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा `स्वमज्ञातिधनाख्यायाम्' `बन्धुनि बहुव्रीहौ' इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य `एकविभक्ति च' इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ्यन्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददत्तशब्देन समासो न भवतीति। देवदत्तोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देवतदत्तस्येति, देवदत्तस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् -- म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते `स्वरार्ध्दं चार्यार्ध्दम्' इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः।।

3 द्वितायतृतीयाचतुर्थतुर्याण्यन्यतरस्याम् ।। 2.2.3 ।।
अन्यतरस्यांग्रहणात्सोऽपि भवतीति। ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि `पूरणाद्भागे तीयादन्' इति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि `पूरणगुमसुहितार्थ' इत्यर्थशब्दस्य प्रत्येकनभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययगहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह - पूरणगुमेत्यादि। वाक्यस्य महाविभाषयैव सिध्दत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासपवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा - सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविणिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिध्दम्, मुख्यार्थवृत्तौ षष्ठीसमासे तु भिक्षाद्वीतीयमित्यादि भविष्यतीति। नातत्सुष्ठूच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्येगेऽसति भविष्यति।।

4 प्राप्तापन्ने च द्वितीयया ।। 2.2.4 ।।
प्राप्तजीविक इति। `एकविभक्ति' इत्युपसर्जनत्वाद् ह्रस्वत्म्। प्राप्ता जीविका येनेति कर्मणि क्तान्तेन बहुव्रीहावप्येतत्सिध्दम्, समासान्तोदात्तत्वार्थं तु वचनम्। इह प्राप्तसुखः, प्राप्तदुःख इत्यादिषु `जातिकालसुखादिभ्यः' इति प्राप्तापन्नयोः परनिपातप्रसङ्गश्च। इह लिङ्गविशिष्टपरिभाषया प्राप्ताशब्दस्याप्ययं समासो भवति--प्राप्ता जीविकां प्राप्तजीविका इति पुंवद्भावो वक्तव्यः। भाष्ये त्वाकरः पूर्वस्य विधीयत इत्युक्तम्। चकारेण समुच्चयार्थेनाकारप्रश्लेषोऽनुमीयते, सौत्रत्वाच्च निर्देशस्य प्रकृतिभावाभावः, प्राप्तापन्ने द्वितीयान्तेन सह समस्येते, अ च अत्वं च भवति प्राप्तापन्नयोरित्यर्थः।।

5 कालाः परिमाणिना ।। 2.2.5 ।।
सामर्थ्यात्परिमाणवचना इति। परिमाणमपेक्ष्य परिमाणे भवति, नान्यथेत्येतत्मामर्थ्यम्। तत्र च यद्यपि कालः प्रस्थादिवत्सर्वतो मानं न भवति, तथापि परिच्छेदहेतुत्वात्पिरिमाणमित्युच्यते। मासो जातस्येति। कस्य पुनरयं मासः परिच्छेदकः, न तावज्जातस्य, तस्य हि दिष्ट्यादि परिमाणं न तु मासः; नापि जननक्रिया, तस्या एकक्षणभावित्वान्मासेन सम्बन्धाभावात्? उच्यते-जननक्रियावधिर्मासे न परिच्छद्यते। मासो जातस्येति, कोऽर्थः। जननक्रियया ऊर्ध्वमस्य मासो जातः, अतीते मासेऽस्य जननमिति यावत्। अनेन प्कारेण मासो जातस्य परणामम्, यथा-मासे देयमृणमिति ऋणदानस्यावधिर्मासेन परिच्छिद्यते। मासजात इति। यथा गावोऽस्य सन्तीति गोमानिति वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो वृत्तौ प्राधान्यम्, तत्कस्य हेतोः? अभिहितः षष्ठ्यर्थौऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, यथा - चित्रा गावोऽस्य चित्रगुः परुष इति बहुव्रीहाविति, तद्वदत्रापि वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो जातस्य वृत्तौ प्राधान्यं द्रष्टव्यम्। तथा च मासजातो दृश्यतामिति क्रियायोगो जातस्यैव भवति, न पुनरर्ध्दपिप्पल्यादिवत्पूर्वपदार्थस्य। द्व्यहजात इति। द्वयोरह्नोः समाहारः `राजाहः सखिभ्यष्टच्' `न संख्यादेः समाहारे' इत्यह्नादेशस्य प्रतिषधः। कथं तर्हि द्व्यहजात इति, द्वे अहनी अस्य जातस्येति त्रयाणां पदानां युगपदनेन समासे कृते जातशब्द उत्तरपदे परतः पूर्वयोर्द्विगुर्भविष्यति? ननु च `सुप्सुपा' इत्येकत्वसंख्याया विवक्षितत्वाद् द्वयोर्द्वयोः समासः, न बहूनां यगपत्? उच्यते - वक्तव्यमेवैतद् उत्तरपदेन परिमाणिना द्वयोः समासवचनमिति; परिमाणिवचनेनोत्तरपदेन द्विगोः सिध्दये समासो वक्तव्यः। अथ द्वयोर्युगपदिति गम्यते, तस्माद्वचनाद्वहूनामप्ययं समासो भवति। एवं द्वौ मासौ जातस्य द्विमासजातः, त्रिपदे तत्पुरुषे जातशब्द उत्तरपदे परतः पूर्वयोस्तत्पुरुषे सति कालान्ते द्विगावपि पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम् पात्रादि, द्विमासं जातस्येति विगृह्य समासे क्रियमाणे सति शिष्टत्वात्समासान्तोदात्तत्वं समासो भवति। वृत्तौ विभक्तौ निवृत्तायां द्वित्वबहुत्वावगतौ प्रमाणाभावाद् अभेदैकत्वसंख्याप्यत्रन भवति, शुध्दमेव त्वेकत्वं गम्यते। यत्र द्वयोर्बहुषु वानुस्यूत एकः शब्दार्थत्सत्रैवाभेदैकत्वसंख्या, मासशब्दस्त्वक्तपरिमाणमर्थमाचष्ट इत द्वित्वबहुत्वावगतौ विभक्तिमपेक्षते, स्वतस्त्वेकत्वस्यैवासाधारणः।।

6 नञ् ।। 2.2.6 ।।
विभक्तिञकारयोर्विशेषाभावाद् ञकारेच्चारणम्। सुपानशब्दस्य विशेषणात्पामादिलक्षणस्य नस्यासुवन्तत्वादेवाग्रहणं सिध्दम्। इहाब्राह्मणादिशब्दैः क्षत्रियाद्यभिधानमिष्यते, तत्र जातिमात्रपरे ब्राह्मणशब्दे न विद्यते ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिरित्यन्यपदार्थप्रधानः समासो भवति। तत्र नाप्राप्ते बहुव्रीहावारम्भादेन तस्य बाधनादब्राह्मणको देश इत्यापि न सिध्द्यति; न हि प्रवृत्तिनिमित्तमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वयं समासः, न तद्वन्निष्ठेष्वति नियामकमस्ति। इह चावर्षा हेमन्त इति हेमन्तस्य यद्वचने तत्समासस्य प्राप्नोति, लिङ्गे तु परवल्लिङ्गमिति वचनाद्दोषभावः। इह च असोऽसर्वस्मै इत्युत्तरपदार्थस्योपसर्जनत्वात्त्यदादिकार्यं सर्वादिकार्यं च न स्यात्। यदा त्वसत्सामानायवर्तमानो नञ् ब्राह्मणादिभिर्विशेष्यते, ब्राह्मणत्वेनासत्क्रियान्तरेण तु सन् क्षत्रियादिकोऽब्राह्मण इति, तदा पूर्वपदार्थप्रधानम्; तत्र ऩञर्थस्य प्राधान्यात्संख्यायोगः समासस्य न स्यात्, वाचनिकी तु परवल्लिङ्गता भवतु। स्यादेतत् - शब्दक्तिस्वाभाव्यादसत्त्वरूपमर्थं वाक्ये न नञाचष्टे, समासे तु सत्त्वरूपम्, तेन सिध्दः संख्यायोगः? एवमप्यपवादेनानेनाव्ययीभावस्य बाधादमक्षिकमिति न सिध्द्यति, तस्य तु निर्मक्षिकमित्यादिरवनकाशः, असोऽसर्वस्मै इति च पूर्ववत्स्मायाद्यसिध्दिः। अस्तु तर्ह्यत्रोत्तरपदार्थप्रधानः? यद्येवम्, ब्राह्मणमात्रस्यानयनं प्राप्नोति? यद्युत्तरपदार्थप्रधानता तत्र हेतुः, इहापि तर्हि राजपुरुषमानयेत्युक्ते पुरषमात्रस्यानयनं प्राप्नोति? अस्त्यत्र विशेषः, राजा विशेषकः प्रयुज्यते। इहापि तर्हि नञ् विशेषकः प्रयुज्यते? कथं नञ् नाम स्यात्, अनियतगुणस्य गुणविशेषप्रतिपादनाय हि विशेषणं प्रवर्त्तते, न तदुपघाताय। नञा च ब्राह्मणार्थः सर्वात्मना प्रतिषिध्यमानः प्रतिषिध्यत इति कथमसतः प्राधान्यं स्यात्! तस्मादुत्तरपदार्थप्राधान्यमिच्छताऽस्मिन्विषये नञनर्थकः, अन्वाख्यनसामर्थ्यात्तु साधुत्वमेवंभूतस्यार्थवदनर्थकावयवस्य समासस्येति वाच्यम्, ततश्च ब्रह्मणमात्रस्यानयनं प्राप्नोति? नैष देषः; निवृत्तपदार्थकोऽत्र ब्राह्मणशब्दः प्रयुज्यमानः प्रसिध्दिवशान्मुख्यमेव ब्राह्मणमाचष्टे; नञ्‌प्रयोगेण तु क्षत्रियादौ सादृश्यादिना निमित्तेनाध्यारोपितं ब्राह्मण्यं न तात्त्विकमिति द्येत्यते। तदेवं मुख्यो ब्राह्मणशब्दस्यार्थो निवृत्तः जातश्चामुख्यः क्षत्रियादिरिति न ब्राह्मणमात्रानयनम्, नापि न कस्यचिदानयनमिति सिध्दम्। उक्तं च -
`प्राक् समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा।
स्वाभावतो निवृत्तानां रूपभेदालक्षिता' ।। इति ।
स्यादेतत् - अर्थप्रत्यायनाय शब्दः प्रयुद्यते ब्राह्मणार्थश्चेन्निवृत्तः, किं मुधा ब्राह्मणपदं प्रयुज्यते? तन्न; असति ब्राह्मणपदे नेत्येतावत्युच्यमाने कस्यार्थोऽत्र निवर्त्तयितुमिष्ट इति न ज्ञायते। ब्राह्मणपदे तु सति दतर्थस्य क्षत्रियादौ मुख्यः सत्ताविरहः प्रतियते। अन्यद्दर्शनम् - सर्व एते शब्दा गुणसमुदाये वर्त्तन्ते, स्मर्यन्ते च -
`तपः श्रुतं च योनिश्चेत्येतद्रब्राह्मण्यकारणम्।
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः' ।। इति ।
तथा च श्रुतिः -
`षड् व्याधयो यं पुरुषं तपन्ति दैह्वो हार्द औदरो रैतसश्च।
तप्तश्च धर्मः शिशिरश्च शीतः ब्राह्मणस्तं स्मरार्थं गरुत्मन्।। इति।
गौरः शुच्याचारः पिङ्गलकेश इत्यादयश्च धर्माः, तदेषां समुदाये ब्राह्मणशब्दः, एवं क्षत्रियादिशब्देष्वपि द्रष्टव्यम्। एवं स्थिते समुदायेषु वृत्ताः शब्दाः अवयवेष्वपि वर्त्तन्त इति न्यायाज्जातिभिन्ने गुणभिन्ने वा यदा ब्राह्मणशब्दो वर्त्तते तदा स्वाभाविकी जातिगणनिवृत्तिर्नञा द्योत्यते, अविष्टांशसद्भावप्रतिपादनाय ब्राह्मणशब्दप्रयोगः। यद्येवम्, द्वयोरपि भिन्नविषयत्वप्रसङ्गः, कथम्? यस्यांशस्य सद्भावं ब्राह्मणशब्द आह, न तस्याभावं नञाह; यस्याभावं नञाह, न तस्य सद्भावं ब्राह्मणशब्द आह? नैष दोषः; द्वावप्येतौ समुदायावलम्बिनौ कृतवत्, तद्यथैकदेशकरणाकरणाभ्यामेकमेव वस्तु कृतं चाकृतं च भवति, तथेहाप्येकदेशविभागात् समुदाय एव निवृत्त उच्यते, एकदेशसद्भावाच्च स एव सन्नभिधायत इति सर्वमनवद्यम्। इहानेको जन आगत इत द्व्यादिष्वेकत्वमारोपितं प्रतीयते, मुख्यं ति प्रतिषिध्यते, क्षत्रियादाविव ब्राह्मण्यमित्येकवचनमेव भवति द्व्यादिसंख्या प्रतीयते। तदेवमुत्तरपदार्थप्रधान इति स्थितम्। अत्र च लिङ्गम् - `एतत्तदोः सुलोपोऽकोरनञ्' इत्यत्रानञ्समासग्रहणम्' अन्यथैतत्तदोरर्थद्वारेण सम्बन्धिनः सोर्लोपो विधीयमानो नैषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात्। इह न ब्राह्मणस्य भाव इति भावेन नञा च युगपत्सम्बन्धे विवक्षिते त्वतलौ च प्राप्नुतः, समासश्च; तत्र यदि परत्वात्त्वतलौ कृत्वा पश्चात्पुनः प्रसङ्गविज्ञानान्नञ्समासः क्रियते, ततः `तत्पुरुषे तुल्यार्थ' इति पूर्वपदप्रकृतिस्वर्णआद्युदात्तं पदं स्यात्, प्रत्ययस्वरो नञ्स्वरश्चेष्यत इति समासे कृते त्वतलौ कार्यौ। आह च - त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिध्दं त्वतलो स्वरसिध्द्यर्थमिति। तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यान्न भवति, नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवति।।

7 ईषदकृता ।। 2.2.7 ।।
ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनाय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नत इत्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चिति? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षीदियोगः - गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा - गोतरः, गोकल्पः, गोपाश इति।।

8 षष्ठी ।। 2.2.8 ।।
कृद्योगा चेत्यादि। `कर्तृकर्मणोः कृति' इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। `ओव्रश्चू च्छेदने', करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्ते = येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिध्दिं मन्वानस्य प्रश्नः। प्रतिपदविधानाचेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां ततैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः।।

9 यादकादिभिश्च ।। 2.2.9 ।।
प्रतिप्रसवार्थमिति। अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानम् = प्रतिप्रसवः। तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यमिति क्वचिद्वृत्तौ पठ्यते, तस्मार्थः - तच्छब्दैन सन्निधानाद् गुणा एव परामृश्यन्ते, तस्मिस्त्वात्मनि ये गुणाः स्थितास्तैः षष्ठी समस्यते। न च स्वात्मन्यवस्थानं कस्यचित्सम्भवति, भेदनिबन्धनो ह्याधाराधेयभावः; विशेषतो गुणानां द्रव्याश्रितत्वात्। तस्मादभिधानव्यापारापेक्षया तत्स्थत्वमुच्यते। गन्धादयो हि गुणाः स्वशब्दैर्द्रव्यात्पृथक्कृता एव च प्रत्याय्यन्ते - चन्दनस्य गन्ध इति, न तु कदाचिद् द्रव्येणैकत्वमापन्नाः, न हि भवति चन्दनं गन्ध इति। शुक्लादयस्तु कदाचिद् द्रव्यात्पृथग्भूताः प्रत्याय्यन्ते - पटस्य शुक्ल इति, कदाचिद् द्रव्यस्योपरञ्जकास्तेनैकत्वमापन्नाः शक्लः पट इति। तत्र ये गुणा द्रव्यात्पृथग्भूता एव स्वाशद्वेन प्रत्याय्यन्ते तत्परिग्रहाय `तत्स्थैः' इत्युक्तम्। बलाकायाः शौकल्यमित्यत्र तु यद्यपि शौक्ल्यशब्देन द्रव्यात्पृथग्भूतस्यैवाभिधानम्, तथापि तदेव शौक्ल्यं पट इत्यत्र द्रव्येमैकतामापन्नं प्रत्याय्यते। अर्थस्य तत्स्थत्वमाश्रीयते, इति शब्दभेदेऽप्यर्थः स एतेति नास्ति शौक्ल्यस्य तत्स्थत्वमिति समासाभावः। पूपवान्पट इत्यत्र भेदाश्रयेणैव मत्वर्थीयेनाभेदोऽध्यवसीयते इति तत्स्थमेव रूपमिति पटरूपमिति भवत्येव समासः। अयमपि `गणन न' इति प्रतिषेधस्य परस्तादपकर्षः। चन्दगन्ध इति। `गन्धं विक्रीणीते' इति चन्दनगन्धादौ गन्धशब्दो जातिनिम्त्तकः, न गुणशब्दः; मालतीकुसुमादिष्वदर्शनादिति तत्स्थ एव गन्धः। भाष्ये तु `न तु तद्विशेषणैः' इति पठितम्, तेषां गुणानां यानि विशेषणानि तैः सह समासो न भवति घृतस्य तीव्रो गन्धः, चन्दनस्य मृदुः स्पर्श इति तीव्रमृदुशब्दाभ्यां समासो न भवति। तदिदमन्यथासिध्दमिति वृत्तिकार्ण उपेक्षितम्, कथम्? घृतस्य गन्धेन सम्बन्धः, न तद्विशेषणेन तीव्रेण। यदापि प्रकरणादिवशात्तीव्रशब्दः एव विशेषे गन्धे वर्तते, तदुपजनित एव व्यतिरेके घृ-तस्येति षष्ठी; तथापि तीव्र घृतमिति दर्शनात्तत्स्थत्वाभावादेव समासाप्रसङ्गः।।

10 न निर्घारणे।। 2.2.10 ।।
न निर्द्धारणे।। जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देवदत्त इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः----गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता `स्वामीश्वर' इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठीं मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव `न निर्द्धारणे' इति सूत्रारम्भः। `यतश्च निर्द्धारणम्' इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं `न निर्द्धारणे' इत्यनेन। सर्पिषो ज्ञानमिति। `ज्ञोऽविदर्थस्य करणे' इति षष्ठी। अत्राहुः---`ज्ञोऽविदर्थस्य करणे' इति षष्ठीप्रकरणे `शेषे' इति वर्त्तते, तत्र न माषाणामश्नीयादितिवत् `षष्ठी शेषे' इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे `सुपो धातुप्रातिपदिकयोः' इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा `कृद्योगा च' इत्यपि न वक्तव्यम्, `कर्तृकर्मणोः कृति' इत्यत्र हि `शेषे' इति निवृत्तमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति।।
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन।। 2.2.11 ।।
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन।। प्रत्येकमिति। पूरणादिभिरित्यर्थः। स्वरूपविधिरिति। पूरणादीनामर्थपर्यन्तानां चतुर्णामित्यर्थः। अत एव गुणशब्देन नादेङां ग्रहणम्, किं तर्हि ? `सत्त्वे निविशतेऽपैति' इत्यादिलक्षणलक्षितस्य गुणस्य ग्रहणम्; नापि नञो गुणप्रतिषेधे यस्य गुणस्य हि भावादिवत्प्रवृत्तिनिमित्तमात्रस्य ग्रहणम्, सामान्यादेरपि प्रसङ्गात्; नापि लोकप्रसिद्धस्य शुक्लादेरेव ग्रहणम्, कण्टकस्य तैक्ष्ण्यमित्यादेरपीष्टत्वात्; गुणशब्देन च केवलगुणवाचिनो गुणोपसर्जनद्रव्यवाचिनश्च व्याप्तिन्यायाश्रयेण गृह्यन्ते। तत्र गुणस्य गुण्यपेक्षत्वात्केवलगुणवचनैर्गुणेन समासनिषेधः----कण्टकस्य तैक्ष्ण्यमिति। गुणवचनैस्तु तत्सम्बन्धिनो निषेधः----ब्राह्मणस्य शुक्ला दन्ता इति, न चात्र दन्तापेक्षया ब्राह्मणस्येति षष्ठी, ततश्च शुक्लेनासम्बन्धादप्रसङ्ग एव समासस्य। यदा तर्ह्यर्थात्प्रकरणाद्वा दन्ता द्यर्थं एव शुक्लादिशब्दस्य वृत्तिर्विज्ञाता भवति, तदा तत्सम्बन्ध एव षष्ठीत्यस्ति समासप्रसङ्गः, `शतसहस्रान्ताच्च निष्कात्', `क्रोशशतयोजनशतयोरुपसंख्यानम्' `खारीशतमपि न ददाति' इत्यादि मुनित्रयप्रयोगाद् गोविंशतिरित्यादौ संख्यया समासो न निषिध्यते। संज्ञाप्रमाणत्वादुत्तरपदार्थप्राधान्यमित्यादिप्रयोगदर्शनादनित्यो गुणेन निषेध इति करणपाटवं बुद्धिमान्द्यं यत्नगौरवमित्यादिसिद्धिः।
फलानां सुहित इति। करणस्यैव शेषत्वविवक्षया षष्ठी, शेषत्वविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुः, कृद्योगलक्षणाया एव षष्ठ्या निष्ठायोगे निषेधः। ब्राह्मणस्य कुर्वन्निति। नेयं घटाद्यपेक्षया षष्ठी---ब्राह्मणस्य घटं कुर्वन्निति, एवं ह्यसामर्थ्यादेव समासस्याप्रसङ्गः; किं तर्हि? कुर्वन्निति किङ्कर उच्यते, स हि कुर्वन् भवति, ततो यथा ब्राह्मणस्य पाचक इति साक्षादेव पाचकेन सम्बन्धो न पुनरोदनद्वारेण, तद्वदिहापतीति द्रष्टव्यम्। चोरस्य द्विषन्निति च सत उदाहरणम्, अत्र `द्विषः शतुर्वा वचनम्' इति पक्षे षष्ठी भवति। ब्राह्मणस्य कृत्वेति। ब्राह्मणार्थं कृत्वेत्यर्थः, सम्बन्धसामान्यरूपेण विवक्षितत्वात् षष्ठी। पुरा सूर्यस्योदेतोरिति चोदाहरणम्, अत्र ह्यव्ययप्रपिषेधे `तोसुनोरप्रतिषेधः' इति कर्त्तर्येव षष्ठ्यस्ति। एवं वृक्षस्योपरीत्यादिकमप्युदाहरणम्। तव्यता सानुबन्धकेनेति। `निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्' इति भावः। ब्राह्मणकर्त्तव्यमिति। कर्त्तरि षष्ठ्याः समासः कृदुत्तरपदप्रकृतिस्वरेणान्तस्वरितमेतत्, निरनुबन्धकेन तु समासे उत्तरपदं मध्योदात्तं स्यात्, सोऽयं स्वरार्थस्तव्येननिषेधः। शुकस्य माराविकस्येति। मा रावीत्याहेति माराविकः, `तदाहेति मा शब्दादिभ्य उपसंख्यानम्' इति ठक्, शब्देन क्रियायाः प्रतिषेधको माराविकः, संज्ञैषा शुकविशेषस्य, क्वचित्तु माराविदस्येति पाठः, तत्र माराविशब्दं ददातीति माराविदः, स एवार्थः। किं च स्यादिति। भवितव्यमेवात्र विशेषणसमासेन, तत् षष्ठीसमास एवास्तु, को दोष इति प्रश्नः। पूर्वनिपातानियमः स्यादिति। द्वयोरपि प्रथमानिर्दिष्टत्वेनोपसर्जनत्वादिति भावः। ननु विशेषणसमासेऽपि द्वयोरपि यत्र विशेषणविशेष्यभावस्तत्रेष्युक्तम्, अतस्तेनापि समासे विशेषणमिति प्रथमानिर्देशो द्वयोरपि तुल्यः। अथ तत्राप्रधानमुपसर्जनमार्थं चाप्राधान्यमिति द्रव्यगुणादिषु तेन प्रकारेण व्यवस्था, षष्ठीसमासेऽपि तथैव व्यवस्था भविष्यति। तस्माद्यत्तत्र प्रत्युदाहरणम्---तक्षकः सर्प इति, तयोः षष्ठ्यन्तयोः समासप्रसङ्ग एव दोषः, तन्निवृत्तये च प्रतिषेध इति वाच्यम्। तदिह `किं च स्यात्' इत्यादिकमेवानुपपन्नम्, उदाहरणं तूपपन्नम् यदि माराविकशब्दः संज्ञा। अथ सोऽपि योगवृत्तिः तर्हि तदप्यनुपपन्नम्। एवं पाटलिपुत्रकेऽपि द्रष्टव्यम्।।
क्तेन च पूजायाम्।। 2.2.12 ।।
क्तेन च पूजायाम्।। तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह----पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्त्तमानादिति शेषः। राज्ञामिति। `क्तस्य च वर्तमाने' इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः----`कानहं स राममहितः कृतवान्' इति, `मह पूजायाम्' रामस्य महित इत्यर्थः? कश्चिदाह----"यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा----`पूजितो यः सुरैरपि' इति, तस्याः `कर्तृ करणे कृता बहुलम्' इति समासः" इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः `भतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च व़डवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च `पूजितो यः सुरैरपि' इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्।
अपर आह---`क्तेन च पूजायाम्' इत्यादिषु कारकषष्ठ्या एव निषेधः। तदेव तु कर्त्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठ्याः समासे कृत्स्वरो भवति, शेषषष्ठ्याः समासे समासान्तोदात्तत्वमिति। एवं तु यत् `जनिकर्तुः प्रकृतिः', `तत्प्रयोजको हेतुश्च' इत्यादावुच्यते---`निपातनात्समासः' इति, तदनुपपन्नम्; शेषषष्ठ्या एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते।।
`क्तेन' इति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। `उभयप्राप्तौ कर्मणि' इति षष्ठ्या इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना।।
अधिकरणवाचिना च।। 2.2.13 ।।
अधिकरणवाचिना च।। `अधिकरण' इत्येव सिद्धे वाचिग्रहणं चिन्त्यप्रयोजनम्, कथम्? `कवृत्ते लिप्सायाम्',`यद्‌वृत्तान्नित्यम्' इति, नायमधिकरणे क्तः, क तर्हि? भावे। किमो वृतं यस्मिन् यदो वृतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः।।
कर्मणि च।। 2.2.14 ।।
कर्मणि च ।। उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्येत `कर्तरि च' इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम।।
तृजकाभ्यां कर्तरि।। 2.2.15 ।।
तृजकाभ्यां कर्तरि।। कर्तृ ग्रहणं षष्ठीविशेषणमिति। अथ कस्माद्विपर्यययो नाश्रीयते---इह तृजकविशेषणं कर्तृ ग्रहणमुत्तरत्र षष्ठीविशेषणमिति, एवं तृज्ग्रहणमुत्तरार्थमिति न वक्तव्यं भवति? उच्यते; `नित्यं क्रीडाजीविकयोः' इत्यत्र तृज्ग्रहणस्याननुवृत्तिः शङ्क्येत `कर्त्तरि च' इत्यत्र सम्बन्धासम्भवात्, न हि तृज्प्रयोगे कर्तरि षष्ठी सम्भवतीति। ननु च `तृज्क्रीडाजीविकयोर्नास्तीत्यकएवोदाह्रियते' इति वक्ष्यति, एवं तर्हि तथानाश्रितमित्येव। भवतः शायिकेति। `पर्यायार्हणोत्पत्तिषु ण्वुच्'। तृच्प्रयोगे कर्त्तरि षष्ठी नास्तीति। तेनैव कर्तुरभिहितत्वात्।
इक्षुभक्षिकामिति। कर्मणि षष्ठ्या समासः। म इति। `धारेरुत्तमर्ण' इति संप्रदाने चतुर्थी।।
कर्त्तरि।। 2.2.16 ।।
कर्त्तरि।। सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह---होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते।।
नित्यं क्रीडाजीविकयोः।। 2.2.17 ।।
नित्यं क्रीडाजीविकयोः।। नेति निवृत्तमिति। नित्यग्रहणाद्, महाविभाषाधिकाराद्विलक्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वान्नित्यः प्रतिषेधो भविष्यति, किं नित्यग्रहणेन ! तृच् क्रीडाजीविकयोर्नास्तीति। वामनस्तु `अके जीविकार्थ' इत्यत्र `अक इति किं रमणीयकर्ता' इति जीविकायां तृचं प्रत्युदाहरिष्यति। स मन्यते---मा भूत्क्रीडायां तृच्, लक्षणाभावात्, जीविकायां तु ण्वुल्तृचाविति ण्वुलिव तृच् कस्मान्न स्यादिति। अन्ये तु तदनुसारेणेदमप्येवं व्याचक्षते---क्रीडाजीविकयोर्नास्तीति द्व्योर्नास्ति, किन्त्वन्यतरत्रैवेत्यर्थः। अक एवोदाह्रियत इति। उभयत्रेत्यर्थः। उद्दालकपुष्पभञ्जिकेत्यादौ। संज्ञायामिति ण्वुल। नित्यग्रहणमुत्तरार्थम्। न हि वाक्येन क्रीडाजीविकयोरवगतिरस्ति, क्रियाकारकसम्बन्धमात्रावगमात्।।
कुगतिप्रादयः।। 2.2.18 ।।
कुगतिप्रादयः।। कुशब्दोऽव्ययं गृह्यत इति। स्वरादिष्वपठितोऽप्ययं पठितव्य इति भावः। नित्यसमासविषयस्यास्य पूर्वपदप्रकृतिस्वराणामव्ययत्वम्, यथा वक्ष्यति---अव्यये नञ्कुनिपातानामिति वक्तव्यमिति। न द्रव्यवचन इति। पृथिव्यादिद्रव्ये यो वर्तते स न गृह्यत इत्यर्थः। दुर्निन्दायामिति। प्रशप्ते द्वेषान्निन्दा भवति, पापं तु वस्तुस्थित्या गर्हितमिति द्वयोरप्युपादानम्।
प्रायिकमिति। अन्यथेषदर्थे चेति कोः कादेशविधानमनुपपन्नं स्यात्। दुष्कृतमिति। दुर्निन्दायामिति विषयनिर्देशो गतित्वेन प्राप्तस्यापि समासस्य नियामकः स्यादिति मन्यते। यदा तु प्रादिग्रहणप्राप्तस्यैव नियामकस्तदा गतित्वादेवात्र सिद्धः समासः। दुरत्र कृच्छ्रार्थोऽनभिधानात्कृतेः खल् न भवति, दुष्कर इत्यादावुपपदसमासः, आमन्द्रैरिन्द्र हरिभिरित्याङो मन्द्रं प्रत्यगतित्वादनीषदर्थत्वाच्च समासाभाव इत्यैकस्वर्थं न भवति। सुष्टुतमिति। सुशब्दोऽतिशये, न पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतमिति। `अतिरतिक्रमणे च' इति कर्मप्रवचनीयत्वात्षत्वाभावः।।
प्रादयो गताद्यर्थ इति। वृत्तिविषये गताद्यर्थवृत्तयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्त इति।
पर्यध्ययन इति। परिश्रान्तोऽध्ययनार्थमित्यर्थः।
वाससी इवेति। `वसेर्णिच्च' इत्यसुन्प्रत्ययान्तो वासः शब्दः, वस्त्रशब्दः ष्ट्रन्प्रत्ययान्तः, द्वावपि नित्याद्युदात्तौ।
प्रादिप्रसङ्ग इति। सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानां प्रतिषेध उच्यते, प्रत्यादिविषयश्चायं निषेधः। स्वत्योस्तु समासो भवत्येव। वृक्षं प्रतीति। कर्मप्रवचनीयेन योगाद् द्वितीयावत्समासस्यापि प्रसङ्गः, उदात्तवता सिङा गतेः समासवचनम्---यो जात एव पर्यभूषत्, यः शम्बरमन्वविन्दत्, योऽन्तरिक्षं विममे, यौ वै प्रजवं याताम्, अपथेन प्रतिपद्यते।।
उपपदमतिङ्।। 2.2.19 ।।
उपपदमतिङ्।। एधानाहारको व्रजतीति। `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल्। अतिङिति किमिति। येनाभिप्रायेण पृष्टं तमाविष्करोति।
ननु चेति। एतज्ज्ञापयतीति। स्यादेतत्---मुख्यस्य तिङन्तस्य प्रतिषेधोऽनर्थक इति। यस्तेन समानार्थः सुबन्तस्तस्य प्रतिषेधो विज्ञायते। तत्र यद्यपि कालकारकसंख्योपग्रहयुक्तः पूर्वापरीभूतः क्रियारूपस्तिङन्तार्थप्रधानोऽर्थो न सुबन्तस्य सम्भवति, तथापि क्रियावाचित्वमात्रेण तदर्थत्वमाश्रीयते, क्रियावाच्युपपदं न समस्यत इत्यर्थः। तेन कारको गतः, कारकस्य व्रज्येति गतब्रज्याशब्दयोः कारकशब्देन समासो न भवति; अन्यथा हि क्रियार्थायामिति सप्तमीनिर्देशेनोपपदत्वादनयोरपि समासः स्यादिति? तन्न; अनुपपदत्वात्। क्रियायां क्रियार्थायामिति सप्तमीनिर्देशेन क्रियावाचिन उपपदत्वम्, धातुरेवात्र क्रियावचनस्तदाश्रयश्च ण्वुल् प्रत्ययः। गतशब्दस्तु क्रियोपसर्जनं कर्त्तारमाह, व्रज्याशब्दोऽपि यस्तस्य सिद्धता नाम धर्मस्तत्र धञादयो भवन्तीति धात्वर्थस्य सिद्धतायां वर्तन्ते, अतो यत्क्रियावाचित्वादुपपदं न तत्सुबन्तम्, यत्मुबन्तं न तत्क्रियावाचि नाप्युपपदमिति नार्थ एवमनातिङ्ग्रहणेन।
एतयोर्योगयोरिति। ननु चास्मिन्नेव योगे तदनभिसम्बन्धो युक्तः, यत्रातिङ्ग्रहणमस्ति, न पूर्वत्र? एवं मन्यते---योगविभागेनातिङ्ग्रहणं पूर्वसूत्रेणापि सम्बन्धनीयमिति। यद्येवम्, कुशब्दे प्रादिषु चातिप्रसङ्गः, तत्रापि प्राक् सुबुत्पत्तेः समासः स्यात्? एवं तर्हि पूर्वसूत्रे गतिग्रहणं पृथक्कृत्य तेनैवातिङ्ग्रहणं सम्बन्धनीयम्।
गतिकारकोपपदानाम्, अस्यायमर्थः---गतीनां कारकाणामुपपादानां च कृद्भिः सह यः समासस्तेनतेन लक्षणेन स उत्तरपदात्सुबुत्पत्तेः प्रागेव कार्यः, पूर्वपदन्तु सुबन्तमेव समस्यत इति। गतीनां तावत्---व्याजिघ्रतीति व्याघ्री,`पाघ्राध्माधेट्द्दशः शः' इति प्राप्तस्य जिघ्रतेः `संज्ञायां प्रतिषेधो वक्तव्यः' इति निषेधात् `आतश्चोपसर्गे' इति कः, व्याङोर्घ्रशब्देन गतिसमासः, स यद्युत्तरपदे सुबन्ते जाते पश्चात्स्यात्, ततः सुबुत्पत्तये संख्याकर्मादियोगो विवक्षितव्यः, तद्योगाच्च प्रागेव लिङ्गयोगः स्वार्थमभिधाय शब्द इति न्यायात्, ततश्च लिङ्गनिमित्तः प्रत्ययो भवन् घ्रशब्दमात्रस्याजातिवाचित्वादाप् स्यात्, ततश्च व्याङोर्घ्राशब्देन समासः, ततो व्याघ्राशब्दस्य जातित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्; प्राक् सुबुत्पत्तेः समासो भवन् लिङ्गयोगमपि नापेक्षत इत्यन्तरङ्गत्वात्स एव तावद्भवति पश्चात्स्त्रीप्रत्ययो भवन्ङीषेव भवति, पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि भवन्ति, निर्गत इति रुत्वम्, संय्यन्तेति परसवर्णविकल्प इत्यादीनि। कारकाणाम्‌ अभ्रेर्लिप्ताऽभ्रलिप्ती, `कर्तृ करणे कृता बहुलम्' इति समासः, यद्युत्तरपदस्य सुबन्तत्वं स्यात्पूर्ववट्टाप् स्यात्, ततः `क्रीतात्करणपूर्वात्' `क्तादल्पाख्यायाम्' इति ङीष् न स्याद्; अत इत्यधिकारात्, वचनसामार्थ्याद्वा पूर्वशब्दं व्यवस्थावचनमाश्रित्य वाक्यावस्थायामेव स्यात्, अत इत्यधिकारो वा व्यवच्छिद्येत। प्राक्‌ सुबुत्पत्तेः समासे पूर्ववत्सिद्धमिष्टम्। अत्रापि पूर्वपदस्य सुबन्तात्वाच्चर्मक्रीतीत्यादौ नलोपादिकार्याणि भवन्ति। उपपदानाम्--कच्छेन पिबतीति `सुपि स्थः' इत्यत्र सुपीति योगविभागात्कः, कच्छपी, व्याघ्रीतुल्यम्, माषान्वपति `सुप्यजातौ णिनिस्ताच्छील्ये' माषवापिणी, ङीपः प्राक् समासे प्रातिपदिकस्यान्तो नकार इति णत्वं भवति। सुबन्तस्य तु समासे ङीप्समासस्यान्तो न तु नकार इति न स्यात्। अत्रापि पूर्वपदस्यसुबन्तत्वाच्चर्मकारादौ नलोपादिपदकार्य भवत्येव। अत्रोपपदग्रहणं गतिकारकव्यतिरिक्तोपपदपरिग्रहार्थम्--मृषावापिणी, इषद्दर्शाया अपत्यं ऐषद्दर्शेयः, अत्र दर्शशब्देन समासे सति समुदायात्स्त्रीभ्यो ढकं बाधित्वा दर्शाशब्दात् स्त्रीप्रत्ययलक्षणो ढक् स्यात्, स्त्रीप्रत्यये तदादिनियमाभावेऽपि दर्शाशब्दादपि कदाचित्स्यादित्येषा दिक्।
जातान्यस्याः परिभाषायाः प्रयोजनानि। कथं पुनतिङ्ग्रहणेनायमर्थः साधयितुं शक्यः, यावता प्रथमान्तमतिङ्ग्रहणं प्रथमान्तस्यैव सुब्ग्रहणस्य निवृत्तिं सूचयेदिति पूर्वपदे पदकार्याणि न स्युः, उत्तरपदे चोक्तमिष्टं न सिध्यति, तदेतत्क्रियमाणमतिङ्ग्रहणं विपर्ययमेव साधयति, तदपि गत्युपपदयोरेव कारकेषु तु `कर्तृ करणे कृता बहुलम्' इत्यादावस्याः कथाया अप्रसङ्ग एव? उच्यते---योगविभागेनातिङ्ग्रहणं गतिनापि संबध्यत इत्युक्तम्, एवं स्थिते योगद्वयविहितसमासमतिङ्ग्रहणेन विशेषयिष्यामः----गतिः समस्यते अतिङ् समासो भवति, उपपदं समस्यते अतिङ् च समासो भवतीति। तदेवम्` माङि लुङ्' मा कार्षीदित्यादौ तिङन्तेन समासो मा भूदित्येवमर्थं क्रियमाणमतिङ्ग्रहणं सुपेति तृतीयान्तस्य निवृत्तिं साधयतीति गत्युपपदयोस्तावत्सिद्धिमिष्टम्। वृत्तावपि `सुप् सुपेति न संबध्यते' इति समुदायस्य निवृत्तिर्विवक्षिता, न केवलस्य सुब्ग्रहणस्य। प्रत्युदाहरणमपि दिङ्मात्रं प्रदर्शितम्, न हि तत्र तिङन्तेन समासः, कि तर्हि? तिङन्तस्य सुबन्नेन, `कर्त्तृ करणे कृता बहुलम्' इत्यत्रापि कृतेति न वक्तव्यम्, कथम् ? कर्त्तृ करणयोः क्रियापेक्षत्वात्क्रियावचनेन तावत्समासः,धातुश्च क्रियावचनः, धातोश्च द्वये प्रत्ययाः---कृतस्तिङश्च, तत्र सुबधिकारात्तिङन्तेनाप्रसङ्गः, तदेतत् कृद्‌ग्रहणं कृदन्तावस्थायामेव यथा स्यादित्येवमर्थमिति केचित्।
नेति वयम्। काष्ठैः पचतितराम्, दध्ना भुक्तपूर्वीत्यादौ तद्धितान्तेन समासो मा भूदित्येवमर्थं कृद्‌गहणं कर्त्तव्यं कष्टश्रितादिषु प्राक्सुबुपत्तेः समासो न साधित इति कष्टश्रितेत्यादि न सिद्ध्यति। एव तर्हि गतिकारकोपपदानामिति परिभाषा पूर्वाचार्यैः पठिता सूत्रकारेणाप्यतिङ्ग्रहणेन तद्देश आश्रीता। तत्र सामान्यापेक्षां ज्ञाप्रकमिति कृत्स्नमेव परिभाषार्थं ज्ञापयतीति सिद्धमिष्टम्।
तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः।
नान्ये सहस्रमप्यन्धाः सूर्य पश्यन्ति नाञ्जसा।।
अमैवाव्ययेन ।। 2.2.20 ।।
अमैवाव्ययेन।। स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत---अमैवाव्ययेनेति, मैवं विज्ञायि---अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति---`अधिकरणे शेतेः' इत्यच्, `अतोऽम्' इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह----एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशात्तदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते---अमैव यत्तुल्यविधानं न तु प्रत्ययान्तरोत्पत्तौ निमित्तमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति। `विभाषाग्रेप्रथमपूर्वेषु' इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे `अमैव तुल्यविधानं तदेवोपपदं समस्यते' इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वात्तद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद्---अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः।।
तृतीयाप्रभृतीन्यतरस्याम्।। 2.2.21 ।।
तृतीयाप्रभृतीन्यतरस्याम्।। तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्त्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुत्तरपदप्रकृतिस्वरः, `आदिर्णमुल्यन्यतरस्याम्' इत्याद्युदात्तत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदात्तम्; स्वरादिषु तथा पाठात्। कारमित्याद्युदात्तम्।।
क्त्वा च।। 2.2.22 ।।
क्त्वा च।। क्त्वेति तृतीयान्तम्। `आतः' इत्याकारलोपः, यथा---`समासेऽनञ्पूर्वे क्त्वे ल्यप्' इति `क्त्वि स्कन्दिस्यन्द्योः' इति।।
शेषो बहुव्रीहिः।। 2.2.23 ।।
शेषे बहुव्रीहिः।। उपयुक्तादन्यः शेष इति। `शिष असर्वोपयोगे' इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोत्तरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च---`शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्' इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते----स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य श्रृङ्गग्राहिकया समासो नोक्तः, यथा---प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्।।
अनेकमन्यपदार्थे।। 2.2.24 ।।
अनेकमन्यपदार्थे।। अनेकं सुबन्तं सह समस्यत इति। परस्परमित्यर्थः। तदनेन सुबित्येतदत्रानुवर्तते, न सुपेत्येतद्; उत्तरपदस्याप्यनेकमित्यनेनैव प्रतिपादितत्वादिति दर्शयति। सर्वेषु विभक्त्यर्थेष्विति। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयत इति विभक्त्यर्थस्य प्राधान्यात्तस्यैवान्यपदार्थग्रहणेन प्रहणमिति भावः। अत एव प्राप्तोदकोऽयं ग्राम इति ग्रामशब्दानुप्रयोगः, अन्यथा यावानेवार्थो ग्रामपदस्य तावतोऽभिधाने गतार्थत्वान्न स्यात्, यथा---द्वन्द्वे च--शब्दस्य। यदा तु समासेन विभक्त्यर्थ एव सम्बन्धादिरभीप्स्यते तदा विभक्तिर्मानुप्रयोजि, द्रव्यस्यानभिहितत्वात्तद्वाचिनोऽनुप्रयोगः कस्मान्न स्यात् यदि विभक्त्यर्थोऽभिधीयते, कथं ग्रामादिभिः सामानाधिकरण्यं तल्लिङ्गसंख्यायोगे वा बहुव्रीहिर्भवतिप्राप्तोदको ग्रामः, उद्‌धृतौदना स्थालीति? उच्यते---विभक्त्यर्थस्य सम्बन्धादेराश्रितत्वेन गुणत्वादभेदोपचारात्सामानाधिकरण्यमाश्रयतश्च लिङ्गवचनानि भविष्यन्ति शुक्लादिवत्, यथा---शुक्लं वस्त्रम्, शुक्ला पटी, शुक्लः कम्बलः, शुक्लैः, शुक्ला इति। नन्वेवं यथा शुक्लशब्देन कदाचिद्‌गुण उच्यते, कदाचित् गुणी; तथा बहुर्वीहावपि प्राप्नोति। नैषोऽस्ति नियमः----गुणशब्देन कदाचिद्‌गुणमात्रमभिधीयत् इति, पट्वादिष्वदर्शनात्, न हि भवति देवदत्तस्य पटुरिति; तद्वदिहापि नित्यमेव गुणिनिष्ठता भविष्यति। एवमपि बहुव्रीहिणा यथा विभक्त्यर्थस्याभिधानात् षष्ठ्यादयो न भवन्ति, तथा लिङ्गसंख्ययोरप्यभिधानात्तयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ? नैष दोषः; स्वाथिंकाष्टाबादयः, स्त्रियां यद्वर्तते तस्मात्स्वार्थिकाष्टबादयो भवन्तीति तेन बहुव्रीहिणाऽभिहितेऽपि स्त्रीत्वे भविष्यन्ति। एवं च कृत्वा `अनो बहुव्रीहेः' इत्याद्युपपन्नं भवति।
समासेन च बाह्यक्रियापेक्षा या कर्मादिशक्तिस्तद्रहितसमासप्रातिपदिकार्थमात्रस्यैवैकत्वादेरुक्तत्वादिति कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भविष्यन्तिचित्रगुं पश्य, चित्रगुणा कृतमिति। एवमपि प्रथमा न प्राप्नोति, समासेन संख्याया अभिधानात्? वचनग्रहणादेकः, द्वौ, बहव इतिवद्भविष्यति। अथ वा----लिङ्गमात्रं संख्यामात्रं बहुव्रीहिणाभिहितं न विशेषस्तत्रावश्यं विशैषार्थिना तद्वाची शब्दः प्रयोक्तव्यः, एवं च कृत्वा सह प्रकृत्वा सह प्रकृत्यर्थेन विभक्त्यर्थे बहुव्रीहिणाभिधीयमानेऽपि न कश्चिद्दोषः। कथं सामान्यमनभिहितं विशेषस्यानुप्रयोगः? सामान्यस्य तर्हि न प्राप्नोति----देवदत्तः कश्चिदिति, सामान्यमपि विशेषः, यथा विशेषेण विशेषान्तरं व्यावर्त्यते तद्वत्सामान्येन विशेषो व्यावर्त्यते, अन्यथा सन्देहः स्यात्---सामान्यमत्र विवक्षितम्? विशेषो वा ? इति।
प्राप्तोदको ग्राम इत्यादिनि द्वितीयाद्यर्थेषु यथाक्रममुदाहरणानि। ऊढो रथो येन, उपहृतः पशुर्यस्मै, उद्‌धृत ओदनो यस्याः, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः। प्रथमार्थे तु न भवतीति। अनभिधानात्, एवमनन्तरादिषु न भवति----चित्रा गावो यस्यानन्तरा इति। अनेकमिति किमिति। सुप्सुपेत्यधिकारादेव तत्पुरुषवद्वहुव्रीहिरप्येकस्य न भविष्यतीति प्रश्नः। बहूनामपि यथा स्यादिति। अन्यथा सुप्सुपेति संख्याया विवक्षितत्वाद्यथा तत्पुरुषो बहूनां न भवति---महत्कष्टं श्रित इति, तथा बहुव्रीहिरपि न स्यादिति भावः। ज्ञापकात्सिद्धिम्, यदयं तद्धितार्थेत्युत्तरपदे द्विगुं रास्ति तज्ज्ञापयति---बहूनामपि समास इति। यद्येवम्, तत्पुरुषेऽपि प्रसङ्गः, अथ चित्रगुरित्यत्रोत्तरपदस्याप्युपसर्जनसंज्ञा प्रयोजनं कस्मान्न भवति, सत्यनेकग्रहणे सुपेत्यस्य निवर्तितत्वादुत्तरपदमपि तेनैव प्रत्याय्यते, तदपि समासशास्त्रे प्रथमानिर्दिष्टं भवति, नान्यथा? एवं मन्यते----चित्रगुस्तिष्ठति, चित्रगुं पश्येति प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्त्तिपदयोर्नित्यप्रथमान्तत्वादेकविभक्तीत्येव सिद्धमुपसर्जनत्वमिति।
सुसूक्ष्मजटकेशेनेति। सुष्ठु सूक्ष्मा जटाः केशा अस्येति चतुर्णां बहुव्रीहौ `ङ्यापोः संज्ञाछन्दसोर्बहुलम्' इति बहुलवचनाद्‌ह्रस्वत्वम्,यद्वा सुष्ठु सूक्ष्मा जटा येषु ते सुसूक्ष्मजटास्ताद्दशाः केशा अस्येति पुनर्बहुव्रीहिः। एवं सुष्ठु गजाजिनं वास आच्छादनं यस्य तेन सुगजाजिनवाससा, तृतीयान्तोदाहरणम्; श्लोके तथा पठितत्वात्।
`सुसूक्ष्मजटकेशेन सुगजाजिनवाससा।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिद्ध्यति'।।
इति भाष्ये श्लोकः पठितः तत्र तु श्लोकपूरणार्थं तृतीयानिर्देशः। अन्यग्रहणं बहुव्रीहितत्पुरुषयोर्विषयविभागार्थम्, असति तस्मिन् कण्ठेकाल इत्यादौ व्यधिकरणपदे सावकाशं बहुव्रीहि स्वपदार्थ इव नीलोत्पलं सर इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्वहुव्रीहिर्बाधत इति न कश्चिद्दोषः।
पदग्रहणं किम्? पदार्थे यथा स्याद्वाक्यार्थे मा भूत्। कश्चित्कञ्चिन्नद्यां सिष्णासुमाह----नद्यां ग्राहाः सन्तीति, एतानि पदानि`तस्मात्तत्र मा स्नासीः' इति वाक्यार्थं गमयन्तीति तेषां बहुव्रीहिसंज्ञा प्राप्नोति। अर्थग्रहणं किम्, यावता पदेपदान्तरस्य वृत्त्यसम्भवादेव पदार्थे भविष्यति? कृत्स्ने पदार्थे यथा स्यात्, अन्यथा प्राधान्याद्विभक्त्यर्थ एव स्यान्न प्रकृत्यर्थे द्वव्ये। तत्र यदुक्तम्----अभेदोपचाराद्धर्मिणोऽभिधाने सिद्धेऽपि शुक्लादिवद्धर्ममात्रस्यापि कदाचिदभिधानं प्राप्नोति, तदनेनापाक्रियते। पट्वादिशब्दवन्नित्यं धर्मिनिष्ठो बहुव्रीहिरिति प्रतिपादनेन बहुव्रीहिः समानाधिकरणानामित्यादिरभिधानसिद्धस्यार्थस्य प्रपञ्चः।
उच्चैर्मुख इति। उच्चैसोऽथिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनम्।
सप्तम्युपमानेति। सप्तम्यन्तमुपमानवाचि च पूर्वपद यस्य तस्य शब्दान्तरेण समासस्तत्रस्थस्योत्तरपदस्य लोप इत्यर्थः। कण्ठेस्थ इति। `सुपि स्थः' इति कः। `अमूर्द्धमस्तकात्' इत्यलुक्। कण्ठेस्थित इति पाठेतु सप्तमीति योगविभागात्समासः। समानाधिकरणत्वात्समासे सिद्धे वचनमुत्तरपदलोपार्थम्, तेन वैयधिकरण्येऽप्यत्र गमकत्वमस्तीति प्रदर्श्यते। उष्ट्रखमिवोति। अवयवधर्मेण समुदायव्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्वपदमुष्ट्रमुखशब्दः, अत्रोपमानोपमेययोर्वौयधिकरण्यवद्वचनमुत्तरपदलोपार्थं च। उष्ट्रमुख इति। उष्ट्रो मुखमस्येति। विग्रहः, न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यत इति सामर्थ्यात् साद्दश्यावगतिः, मुखेन च सुखस्य साद्दश्यं प्रसिद्धमित्युष्ट्रमुखमिव मुखमस्येत्ययमर्थो भवति। तस्मादुत्तरपदलोपो न वक्तव्यः।
समुदायविकारषष्ठ्या इति। समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तात्परं यदुत्तरपदं तदन्तस्य समासस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः। केशचूड इति। इदमपि केशसमाहारे केशशब्दस्य वृत्तेः सिद्धम्। एवं स्वर्णविकारे स्वर्णशब्दस्य वृत्तेः स्वर्णालङ्कार इति सिद्धम्। वचनं तु केशमसाहारचूडः, स्वर्णविकारालङ्कार इत्युत्तरपदस्य श्रवणं मा भूदिति।
प्रादिभ्यो धातुजस्येति। इदं न वक्तव्यमेव, प्रादयो हि ससाधनां क्रियां प्राहुः---यथा निष्कौशाम्बीः, निर्वाराणसिः, प्राचार्य इति। एवं नञोऽस्त्यर्थानामित्येतदपि।
सुबधिकार इति। अस्तीति तिङन्तमिति मत्वा वचनं निपातत्वात्सिद्धम्। उपसर्गविभक्तिप्रतिरूपका निपाताः, स्वरादिषु चास्तिशब्दः पठ्यते। इह किं सब्रह्मचारीति? बहुव्रीहिरयम्। के सब्रह्मचारिणस्तव, किं सब्रह्मचारी त्वमिति पूर्वपदप्रकृतिस्वरो ह्यत्रेष्यते, तत्र कठसब्रह्मचार्यहमिति सम्भावितम्प्रतिवचनम्। यत्तु कठोऽहमिति न तत्साक्षात्प्रतिवचनम्,किं तर्हि? आर्थिकम्। अहं तावत्कठ इत्युक्ते गम्यत एतन्नतु तेऽपि कठा इति। कठस्य हि कठा एव सब्रह्मचारिणो भवन्ति, नान्ये। समाने ब्रह्मणि व्रतचार्येव सब्रह्माचारी भवति। के सब्रह्मचारिणस्तवेति वाक्येन तु प्रश्ने कठा इति प्रतिवचनम्। समासेन तु प्रश्ने कठा इति प्रतिवचनं कदाचिदपि न भवति; वर्तिपदार्थानामुपसर्जनत्वात्, किं सब्रह्मचारीतिसमासेन सब्रह्मचारिणामभिधानात्। इह द्वौ द्रोणावर्द्धद्रोणाश्चार्द्धतृतीया द्रोणा इति? अर्द्धस्तृतीयो येषामिति बहुव्रीहावुद्‌भूतावयवभेदः समुदायः समासार्थ इति बहुवचनं द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणेऽपि लक्षणया वर्त्तत इति सामानाधिकरण्यं च भवति।।
संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये।। 2.2.25 ।।
संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये।। उपदशा इति। `बहुव्रीहौ संख्येये डजबहुगणात्' इति डचि टिलोपः, दशानां समीपे ये भवन्ति त उच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। उपशब्दोऽयमाराच्छब्देनैकार्थत्वात्समीपे समीपिनि च वर्तते। तत्र समीपिप्राधान्येऽयं बहुव्रीहिः। सामीप्यप्राधान्ये `अव्ययं विभक्तिसमीप' इत्यव्ययीभावः। उपदशं दन्तोष्ठा इति। अत्र धर्मधर्मिणोपभेदोपचारात्सामानाधिकरण्यम्। उपविशा इति। `ति विंशतेर्डिति' इति लोपः। आसन्ना दशानामासन्नदशाः, तेऽपि नवैकादश वा। अधिकदशास्त्वेकादश। द्वौ वा त्रयो वा द्वित्राः, वार्थेऽयं समासः। वार्थश्च यदि विकल्पः स्यात्, ततो यदि द्वौ भवतस्तदा बहुवचनं न स्यात्। तस्मात्संशयोऽत्र वार्थः, स चानियतसंख्याविमर्शः, तत्र तु त्रयोऽपि सर्वदा परिस्फुरन्तीति तदपेक्षं बहुवचनम्। अथ वा----पञ्चैवात्र सर्वदा भवन्ति, कथम्? विमर्शज्ञानमुभयपक्षालम्बि एकं च तत्र, यथा---द्वौ वा त्रयो वा पुरुषा आनीयन्तामित्यत्र पुरुषशब्दे तिङन्ते च बहुवचनमेव भवति, कस्य हेतोः? मिश्रितेषु तयोर्वृतेः। एवं द्वित्रिपदमपि मिश्रितेषु वर्तत इति सैषा पञ्चाधिष्ठाना वाक्, अतो बहुवचनमेव भवति। आनयनादिकार्थं तु द्वयोस्त्रयाणां वा यथारुचि भवति। वाक्यवदेव समासस्य चैषा हि आपत्, अतस्तेषु मिश्रितेषु वृत्तिः, तेन द्वौ वा पुरुषा आनीयन्तामिति वाक्ये द्विशब्दाद् द्विवचनमेव भवति। त्रिचतुरा इति। `चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्' इत्यच्। द्विदशा इति। अत्र द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यते, न दशत्वसंख्या; एकत्वात्। नापि संख्यायुक्ताः, बहुत्वात्। तत्र वाक्ये सुचमन्तरेणाभ्या वृत्तेरनवगमात्सुच् भवति, ततश्चास्वपदविग्रहः क्रियते---द्विर्दश द्विदशा इति। वृत्तौ तु स्वभावादेव सुचमन्तरेणाभ्यावृत्तिसंख्यां द्विशब्द एवाहेति संख्यावाचित्वात्समस्यते।
नन्वत्र वार्थः सुजर्थश्चान्यपदार्थे इति पूर्वेणैव सिद्धम्, तन्न; सुचः स्वार्थिकत्वात्तदर्थोऽपि पदार्थ एव। मत्वर्थे पूर्वयोगः; अमत्वर्थार्थोऽयमारम्भः। ननु प्राप्तोदकादि प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु यथाभिधानं भवतीत्युक्तम्, एवं तर्हि प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः। अथ प्रथमार्थं वर्जयित्वेत्येतदनाद्दत्य यथाभिधानं भवतीत्युच्यते, एवं तर्हि तस्यैव प्रपञ्चः संख्यायाः समासः, अव्ययानां तु चतुर्दशादिभिः संख्येयवाचिभिः समासो विधेय एव। केचित्तु ये विंशत्यादयः संख्याने वर्त्तन्ते तैः पूर्वेणैव सिद्धम्---अधिका विंशतिर्येषां त इमेऽधिकविंशाः, विंशतिसंख्या आसन्ना येषां ते आसन्नविंशा इति, तत्र `सर्वनामसंख्ययोः' इति विंशतिशब्दस्य पूर्वनिपातः प्राप्नोति, तस्माद्विंशत्याद्यर्थमप्यव्ययादीनां ग्रहणं कर्तव्यमेव।।
दिङ्नामान्यन्तराले।। 2.2.26 ।।
दिङ्नामान्यन्तराले।। दक्षिणपूर्वेति। अन्तरालस्यान्यपदार्थत्वात्पूर्वणैव सिद्धे वचनमिदं त्वमत्वर्थेपि यथा स्यात्प्रथमार्थेपि यथा स्याद्वैयधिकरण्येऽपि यथा स्यात्। किं च `विभाषा दिक्समासे बहुव्रीहौ' इत्यत्र दिशां प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहर्ण यथा स्यात्, यास पूर्वा सोत्तरास्योन्मुग्धस्य तस्मै उत्तरपूर्वाय देहीत्यत्र मा भूदित्येवमर्थः। अतस्तदर्थोऽप्ययमारम्भः। कबभावार्थं च `शेषाद्विभाषा' इत्यत्र शेषाधिकारविहितस्य बहुव्रीहेर्ग्रहणम्। `अनेकमन्यपदार्थे' इत्यत्रैव शेषग्रहणमनुवर्त्तते, तेनात्र कम्न भवति। `सर्वनाम्नो वृत्तिमात्रे' इति मात्रग्रहणाद् `विभाषा दिक्‌समासे' इति यदा सर्वनामसंज्ञा नास्ति तदापि भवति।।
तत्र तेनेदमिति सरूपे।। 2.2.27 ।।
तत्र तेनेदमिति सरूपे।। इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति---एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह---लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह---ततश्चेत्यादि। एतदेव विवृणोति---यत्तत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणम्=केशादि, प्रहरणम्=दण्डादि, कर्मव्यतीहारः===परस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्‌गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि---ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्वहिरङ्गः।।
तेन सहेति तुल्ययोगे।। 2.2.28 ।।
तेन सहेति तुल्ययोगे।। तुल्ययोग इति। तुल्ययोगः==समानसम्बन्धः। सपुत्र इति। `वोपसर्जनस्य' इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थोऽभिधेयः, सत्यम्; व्यधिकरणयोः प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः, कबभावार्थं च। उक्तश्चात्र कबभावः। दशभिः पुत्रैरिति। इत्थम्भूतेत्यर्थः। प्रायिकमिति। ज्ञापकात्, यदयं `विभाषा साकाङ्क्षे', `छन्दस्यनेकमपि साकाङ्क्षम्', `पूर्वादिनिः' `सपूर्वाच्च', `सपूर्वायाः प्रथमायाः',`विभाषा सपूर्वस्य' इति विद्यमानार्थेऽपि समासं निर्द्दिशति, तज्ज्ञापयति----प्रायिकं विशेषणमिति।।
चार्थे द्वन्द्वः।। 2.2.29 ।।
चार्थे द्वन्द्वः।। समुच्चयेत्यादि। यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः, यथा---अहरहर्नयमानो गामश्वं पुरुषं पुशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदीति। दुर्मदी यथा सुराया न तृप्यति तथा यमो गवादीन्नयमान इत्यर्थः। अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः, गम्यमानत्वाच्च च--शब्दस्याप्रयोगः। एवं राज्ञो गौश्चाश्वश्चेति द्रव्ये द्रव्ययोः, रक्तः शुक्लश्चेति द्रव्ये गुणयोः, रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोः समुच्चय इत्यादि द्रष्टव्यम्। यदानेकस्य प्राधान्यात्तदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः, यथा---भिक्षामट गाञ्जानयेति। अत्र ह्यदर्शनादनानयन्नपि गामटत्येव भिक्षाम्, अनटँस्तु भिक्षां न गामानयति,अटन्नपि नान्विष्य गामानयति। इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति, यथा----देवदत्तयज्ञदत्ताभ्यामिदं कार्यमिति। तथैकापायेऽपि तद्भवति, उद्‌भूतावयवभेदत्वाच्च द्विवचनबहुवचने भवतः, ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः, यथा---छत्त्रोपानहमिति, संहतिप्रधानत्वात्त्वेकवचनम्। तत्रेत्यादि। स्यादेतत्----समुच्चये परस्परानपेक्षत्वेऽपि गवादीनामेकक्रियाद्वारकं सामर्थ्यं दध्योदनादिवदस्त्येवेति, तन्न युक्तम्; दध्योदनादावेकत्वात् क्रियायाः। इह तु कर्मभेदात्क्रिया भिद्यते, तथा च ` समुच्चयेऽन्यतरस्याम्' इत्यत्र भ्राष्ट्रमट मठमटेत्यादिकं कर्मभेदनिबन्धनं क्रियाभेदमाश्रित्योदाहरिष्यते। अन्वाचये त्वप्रधानमेव चार्थे वर्त्तते, न प्रधानमित्यनेकस्य पदस्य चार्थे वृत्त्यभावादपि समासाभावः। इह पटुश्चासौ खञ्जश्चेत्येकस्मिन्धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावात्समानाधिकरणयोरपि द्वन्द्वसंज्ञाप्रसङ्गः, ततश्च `द्वन्द्वे घि' इति नियमः स्यात्, विशेषणमित्यादिना तु तत्पुरुषकरणे खञ्जपटुरित्यपि सिद्ध्यति? नैष दोषः; एकसंज्ञाधिकाराद्विशेषविहितत्वात्तेत्पुरुषसंज्ञैव भविष्यति, अन्यथा नीलं च तदुत्पलं चेत्यादावपि द्वन्द्वः स्यात्। यद्वा---`शेष' इति वर्त्तते, अतो विशेषणमित्यत्रोपयुक्तत्वान्न भविष्यति। सामानाधिकरण्याभावे तु द्वन्द्व एव---पटुखञ्जावागताविति।
प्लक्षन्यग्रोधाविति। चशब्दस्याव्ययत्वेऽपि तदर्थे विधीयमानस्य द्वन्द्वस्य स्वभावादेव लिङ्गसंख्यायोगः। कथं पुन रत्र द्विवचनम्, यावता शब्दपौर्वापर्यादर्थाभिधानेऽपि पौर्वापर्यम्, ततश्च प्लक्षशब्दः सहार्थेन निवृत्तः न्यग्रोधशब्द उपस्थितः, एक एवार्थस्तस्यैकत्वादेकवचनमेव प्राप्नोति, तथा च `आद्यन्तौ टकितौ' इति क्रमेण प्रतीतिमङ्गीकृत्य यथासंख्यमित्यस्य प्रवृत्तिः, न च क्रमेण द्वयोरर्थयोः प्रतीतौ द्विवचनं भवति;यथा वा वाक्ये प्लक्षश्च न्यग्रोधश्चेति, अत्र न्यग्रोधार्थप्रतीतिदशायां प्लक्षार्थस्याप्रतीतितरेव कारणम्? अस्तु तर्हि युगपदधिकरणवचने द्वन्द्वः। किमिदं युगपदधिकरणवचन इति? अधिकरणं वर्तिपदार्थः, अधिकरणे युगपद्वचनं युगपदधिकरणवचनम्, तत्र द्वन्द्वो भवति। केन पुनर्युगपद् द्वयोर्वचनम्? एकैकेन पदेन। एतदुक्तं भवति---यावतां पदानां द्वन्द्वो यदि तावतामन्योऽन्यार्थाभिधानं युगपद्भवत्येवं द्वन्द्वो भवतीति। अत्र हि द्विवचनबहुवचनान्यथानुपपत्तिरेव प्रमाणम्; विग्रहे चापि दर्शनात्। विग्रहे खल्वपि युगपद्वचनता द्दश्यते---प्रमित्रयोर्वरुणयोः, द्यावाचिदस्मै पृथिवी नमेते इति; किं पुनः समासे, यत्र चान्याचान्या च शक्तिः प्रादुर्भवति! कथं पुनः प्लक्षशब्देन न्यग्रोधाभिधानम्, तेन वा तस्य? साहचर्यादिति। यद्वा तद्वा निमित्तं भवतु, यद्यपि य लोकव्यवहारे केवलस्य प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं न द्दष्टं न्यग्रोधशब्दस्य वा प्लक्षाभिधायित्वम्, द्वन्द्वावयवानां त्वनेकार्थाभिधायित्वं न केवलानामित्यदोषः। नियतविषयाश्चापि शब्दार्था भवन्ति, यथा---भ्रातृशब्दस्यैकशेष एव स्वसरि वृत्ति, पुत्रशब्दस्य दुहितरि। एतेनैतदपि निरस्तम्----एकेनोक्तत्वात्तस्यार्थस्य परस्य प्रयोगो नोपपद्यत इति।
कथं द्वन्द्वावयवानामेव परस्परसन्निधानादेषा शक्तिर्वह्निसन्निधाविव घृते द्रवता, नो खलु वह्निविगतौ भवति, यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः, बहुत्वाद्वहुचनं प्राप्नोति? नात्र चत्वारोऽर्थाः, किं तर्हि? याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोऽपि। स्यादेतत्---उभयोरत्र पर्यायत्वे यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति द्विर्वचने प्रतीतिः, एवं प्लक्षन्यग्रोधावित्यत्रापि प्राप्नोति, तन्न; युगपदुत्पादात्। तद्यथा द्वयोरक्ष्णोर्युगपद्विस्फारितयोः पुरोवर्त्तिन्यर्थद्वये युगपदेका प्रतीतिर्जन्यत तथेहापि द्रष्टव्यम्। ननु यदा प्लक्षशब्दो न तदा न्यग्रोधशब्दः, यदा न्यग्रोधशब्दो न तदा प्लक्षशब्द इति कथमत्र युगपद्व्यापारः? स्मृतिस्थयोर्युगपद्व्यापाराददोषः। पदानि हि श्रुतमात्राणि स्वं स्वमर्थं स्मारयन्ति, पश्चादाकाङ्क्षासन्निधियोग्यत्वेषु परामृष्टेषु स्मृतिस्थान्यभिदधति, तस्यामेव स्मृतौ युगपदारोहात्सम्भवत्येव युगपद्व्यापारः। या च सा पदार्थानां स्मृतिः सा क्रमभाविनीति तत्क्रमेणैव यथासंख्यादिव्यवस्था युगपदभिधानेऽप्युपपद्यते। तदेवं युगपदधिकरणवचने द्वन्द्व इति स्थितम्। इहैकविंशतिर्द्वाविशतिरिति, यद्ययं द्वन्द्व स्याद् एकं च विंशतिश्चेतीतरेतरयोगे द्विवचनबहुवचनप्रसङ्गः, समाहारे च `स नपुंसकम्' इति नपंसकप्रसङ्गः, अत एव एकाधिका विंशतिरेकविशतिरिति शाकपार्थिवादित्वात्समासः क्रियते? नैवं शक्यम्, `राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु संख्या' इति पूर्वपदप्रकृतिस्वरो न स्यात्। तस्माद् द्वन्द्व एवायम्। स समाहारे नेतरेतरयोगे, अनभिधानात्। नपुंसकत्वन्तु `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति न भवति।।
उपसर्जनं पूर्वम्।। 2.2.30 ।।
उपसर्जनं पूर्वम्।। आनयमो हि स्यादिति। यद्यपि विपरीतप्रयोगो लोके न द्दष्टः परपुरुषापराधात्तु वाक्यवत्सम्भाव्येतेत्यर्थः। इह राज्ञः पुरुषस्य पुत्रो राजापुरुषपुत्र इति षष्ठीसमासशास्त्रे द्वयोरपि प्रथमानिर्द्दिष्टत्वेऽप्युपसर्जनसंज्ञाऽन्वर्थत्वादप्रधानस्यैव भवति, पुरुषश्चात्र राजापेक्षया प्रधानमिति पूर्वनिपातनियमः।।
राजदन्तादिषु परम्।। 2.2.31 ।।
राजदन्तादिषु परम्।। न केवलमित्यादि। अत्र विहितपूर्वनिपातस्येति पाठे विहितः पूर्वनिपातो यस्य तस्येत्यर्थः। प्रायेण तु विहितस्येति पाठः। तत्रापवाद इति शेषः। अन्यस्यापि घ्यादेर्यः पूर्वनिपातो यथालक्षणं विहितस्तस्याप्यपवाद इत्यर्थः। अग्रे वणमिति। `वनं पुरगा' इत्यादिना णत्वम्। तदेव तर्हि णत्वविधानं परनिपातस्य ज्ञापकं भविष्यति? तन्न, `उपसर्जनं पूर्वम्' इति नियमो न प्रवर्त्तत इत्येतावतोऽप्यर्थस्य ज्ञापकत्वेन तदुपपन्नम्, तस्मात्कथं नियमेन परनिपातः स्यात्! इह च निपातनादलुगिव णत्वमपि न भविष्यतीति तत्राग्रेग्रहणं शक्यमकर्तुम्। पूवेकालस्येति। `पूर्वकालैक' इति प्रथमानिर्द्देशादुपसर्जनस्येत्यर्थः। उलूखलमुसलादिद्वन्द्वेषु क्वचिदल्पाक्षरत्वात्क्वचिद् घ्यन्तत्वात्क्वचिदजाद्यदन्तत्वात्पूर्वनिपातप्रसङ्गः, क्वचिदनियमः। द्दषदुपलमिति। प्रमाद पाठः; तेन परनिपातस्यापि सिद्धत्वादिह पाठः शक्योऽकर्तुम्।।
द्वन्द्वे घि।। 2.2.32 ।।
द्वन्द्वे घि।। द्वन्द्वेऽनेकमिति प्रथमानिर्देशात्सर्वेषामेवोपसर्जनत्वादनियमे प्राप्ते वचनम्। अनेकप्राप्ताविति। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते, न प्रतिव्यक्त्यावृत्त्या। तत्रैकस्यैव पूर्वनिपातेन जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते। नन्वाकृतिपक्षेऽपि पटुगुप्तौ मृदुगुप्तावित्यादिषु बहुषु व्यक्तिषु यथा युगपत्प्रवर्तते, तथात्रापि प्रवर्तताम्? एवं मन्यते---एकस्य युगपदवध्यवधिमद्भावो विरोधान्न सम्भवति। न चान्तमपेक्ष्योभयोः पूर्वत्वमन्यतरेण व्यवधानादिति, अत्र च यदा पटुमृद्वोर्द्वन्द्वं कृत्वा पश्चाच्छुक्लशब्दस्य द्वन्द्वः कियते तदाल्पाच्तरत्वात्तस्य पूर्वनिपाते शुक्लमृदुपटवः, शुक्लपटुमृदव इति च भवति। विस्पष्टपटुरिति। विस्पष्टशब्दः प्रवृत्तिनिमित्तस्य पाटवस्य विशेषणमिति विस्पष्टं पटुरिति विगृह्य `सुप्सुपा' इति समासः।।
अजाद्यदन्तम्।। 2.2.33 ।।
अजाद्यदन्तम्।। अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति। `द्वन्द्वे घि' इत्यस्यावकाशः---पटुगुप्तौ; `अजाद्यदन्तम्' इत्यस्यावकाशः---उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् `अजाद्यदन्तम्' इत्येतद्भवति विप्रतिषेधेनेति।।
अल्पाच्तरम्।। 2.2.34 ।।
अल्पाच्तरम्।। अत एव निपानतात्स्वार्थे तरप्, कुत्वाभावश्च। यदि तु प्रकर्षे तरप् चेत्तदा `धवखदिरपलाशाः' इत्यादौ बहुषु सन्निहितेषु द्विवचनोपपदत्वाभावादस्याप्रवृत्तावनियमः स्यात्। द्वयोरेव तु स्यात्---प्लक्षन्यग्रोधाविति। शङ्खदुन्दुभिवीणा इति। तूर्याङ्गानामित्येकवद्भावो न भवति; तूर्यशिल्पोपजीविनामेव तत्र ग्रहणात्। नियतद्रव्यविवक्षायां जातिरत्वाभांवात् `जातिरप्राणिनाम्' इत्येतदपि न भवति। शङ्खवीणाभ्यां दुन्दुभेर्द्वन्द्वे दुन्दुभिशङ्खवीणा इत्यपि भवति। एवं मृदङ्गश्च शङ्खपणवौ च मृदङ्गशपणङ्खवाः, धनपतिश्च रामकेशवौ च प्रासादो धनपतिरामकेशवानामित्यादि भवति। तथा होता च पोता च नेष्टा चोद्राता चेति बहूनां युगपद् द्वन्द्वे तृतीयस्योत्तरपदमनन्तरमिति तस्यैवानङ् भवति, नेतरयोः---होतृपोतृनेष्टोद्रातारः। द्वयोर्द्वयोर्द्वन्द्वे त्रयाणामप्यानङ् भवति---होतापोतानेष्टोद्रातार इति। एवमन्यत्रापि द्वन्द्वक्रियायामानुपूर्व्यविशेषाद्रूपविशेषो वेदतव्यः। पूर्वाभ्यामल्पाच्तरमित्येतत्पूर्वानुसारेण गम्य मानत्वाद् वृत्तौ न पठितम्। `द्वन्द्वे घि' इत्यस्यावकाशः---पटुगुप्तौ, `अल्पाच्तरम्' इत्यास्यावकाशः---प्लक्षन्यग्रोधौ; वागग्नी इत्यत्रोभयप्राप्तौ अल्पाच्तरमित्येतद्भवति। अजाद्यदन्तमित्यस्यावकाशः----उष्ट्रखरम्, अल्पाच्तरमित्यस्य स एव; वागिन्द्रावित्यत्रोभयप्राप्तौ `अल्पाच्तरम्'इत्येतद्भवति।
ऋतुनक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। मातापितराविति। `आचायं!श्रेष्ठो गुरूणाम्, मातेत्येके, इति स्मृतिः। `पितुर्द्दशगुणं माता गौरवेणातिरिच्यते' इति च।
श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेत्यभ्यर्हितत्वं श्रद्धायाः। दीक्षातपसी इति दीक्षार्थं तप इत्यभ्यर्हितत्वं दीक्षायाः। लघ्वक्षरादपि तपसो विप्रतिषेधादभ्यर्हितमित्येतदेव भवति।
समानाक्षराणामित्यत्र नास्तीति। तेन ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं न कृतमिति भावः। वर्णानामुत्पत्तिकृतमानुपूर्व्यं श्रूयत एव---`मुखतो ब्राह्मणमसृजद्वाहुभ्यां राजन्यमूरुभ्यां वैश्यं पद्भ्यां शूद्रम्' इति।
संख्याया अल्पीयस्या इति। द्वन्द्वे चाद्वन्द्वे चेत्याहुः। अल्पीयस इति पाठे अल्पीयसोऽर्थस्य वाचिकाया इत्यर्थः। नवतिशतमिति। द्वन्द्वः, `द्व्येकयोः' इति तु सौत्रो निर्देशः।।
सप्तमीविशेषमे बहुव्रीहौ।। 2.2.35 ।।
सप्तमीविशेषमे बहुव्रीहौ।। कण्ठेकाल इति। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं प्रयुज्यते तदा सप्तमीग्रहणेन प्रयोजनम्, अन्यदा तु विशेषणत्वादेव सिद्धम्। सम्प्रधारणायामिति। इदमस्तु इदमेवेति निरूपणा===सम्प्रधारणा। परत्वादिति। शब्दपरविप्रतिषेधादित्यर्थः। एवमर्थमेव च `संख्यासर्वनाम्नोः' इति नोक्तम्। गड्वादिभ्य इति गड्वादयः प्रयोगतो द्रष्टव्याः।।
निष्ठा।। 2.2.36 ।।
निष्ठा।। अवमुक्तोपानत्क इति। उरः प्रभृतित्वात्कप्। ननु चेत्यादि। यथा चित्रगुरिति। गुणद्रव्यशब्दयोरुपनिपाते गुणशब्दस्य विशेषणत्वम्, क्रियाद्रव्य शब्दयोरपि क्रियाया एव विशेषणत्वम्। ततश्च पूर्वेणैव सिद्धमिति भावः। विवक्षानिबन्धनत्वादिति। यदा कृत किञ्चिदनेनेति निर्ज्ञाते कट इति प्रयुज्यते तदा कटो विशेषणमिति मन्यते। कटे कटेन कृतमिति वा विग्रहीतव्यमिति। एवं विग्रहे कृतस्य विशेषणत्वशङ्कैव नास्तीति भावः। क्वचित्तु वाशब्दो न पठ्यते, तत्र विवक्षानिबन्धनत्वादित्युक्ते तामेव विवक्षां दर्शयतीति व्याख्येयम्।
जातिकालसुखादिभ्यः परवचनमिति। ज्ञापकात्सिद्धम्, `जातिकालसुखादिभ्योऽनाच्छादनाद्' इत्याह, तज्ज्ञापयति---जात्यादिभ्यः परा निष्ठा निपततीति। शार्ङ्गजग्धीति। शार्ङ्ग जग्घमनयेति बहुव्रीहिः। `क्तादल्पाख्यायाम्',`अस्वाङ्गपूर्वपदाद्वा' इति ङीष्। अत्राहुः----निष्ठाशब्देन या विहिता निष्ठा तस्या ग्रहणम्। तेन सुस्थितम्, चारुहसितमित्यादौ `नपुंसके भावे क्तः' इत्यस्य परनिपात इति।।
वाऽऽहिताग्न्यादिषु।। 2.2.37 ।।
कडाशः कर्मधारये।। 2.2.38 ।।
कडाराः कर्मधारये।। बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह---कडारादय इति।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां
द्वितीयाध्यायस्य द्वितीयः पादः।।

-----******-----