काशिका (पदमञ्जरीव्याख्यासहिता)/द्वितीयोऽध्यायः/प्रथमः पादः

काशिका (पदमञ्जरीव्याख्यासहिता)
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

काशिकावृत्तिः - 2
पदमञ्जरी
अथ द्वितीयाध्याये प्रथम पादः
1 समर्थः पदविधिः ।। 2-1-1 ।।
परिभाषेयमिति। नाधिकारः, पदविधिग्रहणात्, अन्यथा वक्ष्यमाणानां पराङ्वद्भावदीनां पदविधित्वाव्यभिचारादनर्थकं तत्स्यात्। परितः = सर्तत्र, परत्र, व्यवहिते च, अनन्तरे च - भाष्यते कार्यमानयेति करणे `गुरोश्च हलः' अत्यकारप्रत्ययः। भावसाधन एव वाऽभेदोपचारात्सूत्रे प्रयुज्यते। इदंशब्दस्य सूत्रे प्रयुक्तस्यापि विधेयपरिभाषाशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। स कर्व इति। ननु यः कश्चित्पदविधिरिति सामान्यनिर्देशेनैव तध्दर्मभूता व्याप्तिरुक्ता, किं कर्मग्रहणेन? नैतदस्तिः `यः कश्चिद् ब्राह्मण आनीयताम्' इत्युक्ते क्षत्रियादिनिवृत्तिः प्रतीयते, न व्याप्तिः। प्रथमपठितमपि समर्थसब्दमुल्लङ्घ्योद्देश्यसमर्पकत्वबलादार्थेन क्रमेण प्रथमे भाविनं पदविधिशब्दं व्याख्यास्यान्विधिशब्दः कर्मसाधन इति दर्शयति-विधीयत इति विधिरिति। कार्यमित्यर्थः। पदानामिति। शेषलक्षणा षष्ठी। पदानां सतां यत्कार्यं विधीयत इत्यर्थः। यदि तु भावसाधनो विधिशब्द आश्रीयेत-विधानं विधिरिति, ततः पदेषु कृद्योगलक्षणा कर्मणि षष्ठी-पदानामसतां निष्पादनं पदविधिरिति, तत्र समासतध्दितसुब्धातुवृत्तयो न संगृहीताः स्युः। तत्र हि पदानां सतां समासादिकार्यं विधीयते, न पुनः पदत्वम्। ननु च कर्मसाधनपक्षेऽपि विभक्तिविधानमसंगृहीतं स्यात्, पदान्येव हि तत्र विधीयन्ते न तु पदानां सतां किञ्चिद्? उच्यते-`कर्मणि द्विताया' इत्यादिना तु नियमः क्रियते, न पदविधिः। अथाप्येकवाक्यतया स्वादिसूत्रेण विभक्तीनां विधानम्? एवमपि कारकविभक्तिषु तावत्क्रियाकारकयोरविनाभूतः सम्बन्धः, उपपदविभक्तीनां तु `अनतरान्तरेणयुक्ते' इत्यादीनामुपसर्गविभक्तीनां च `नेर्विशः' इत्यादीनामेकवाक्यतायां भिन्नवाक्यतायां च पदविधित्वमस्त्येव; उपपदानामुपसर्गाणां च पदत्वात्। समासादिरित्यादिशब्देन तध्दितवृत्त्यादीनां ग्रहणम्, तध्दिता अपि सुबन्तादुत्पद्यन्ते। `समर्थानां प्रथमाद्वा' इत्यस्य तु समर्थग्रहणस्य प्रयोजनं तत्रैव वक्ष्यामः। एवम् `इसुसोः' सामर्थ्ये' इत्यादीनामपि समर्थः शक्त इति; तत्रैव समर्थसब्दस्य रूढत्वात्। स्वकार्यनिष्पादनक्षमो हि लोके `समर्थः' इत्युच्यते। अर्थप्रतिपादनं च शब्दानां स्वकार्यव्युत्पाद्यत्वेन चाधिकृता लौकिकाः वैदिकाञ्च यस्य कस्यचित्प्रतिपादने समर्थाः, उच्यते चेदं समर्थ इति, तत्र सामर्थ्याद्विशेषोऽवगम्यते, स तु विशेषः प्रत्यासत्तेरेवंरूप इत्याह-विग्रहवाक्यार्थाभिधाने इति। विशेषेण गृह्यते = ज्ञायतेऽनेन समासार्थ इति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यद्वा-विशेषेण ग्रहणं विग्रहः, तदर्थं वाक्यं विग्रहवाक्यम्, अश्वघासादिवत्षष्ठीसमासः। अथ वा-अभेदोपचाराद्विग्रहार्थवाक्यं विग्रह इति विशेषणसमासः, तद्यथा-राजपुरुष इत्ययं समासः, तदर्थं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्द समर्थः, अतोऽपि तत्प्रतीतेः, स पुना राजविशिष्टः पुरुषः। समर्थो वेदितव्य इति। साधुत्वेनेति शेषः। यः पदविधिः स विग्रहवाक्यार्थाभिधाने समर्थः सनासाधुर्भवतीत्यस्मिन्पक्षे सूत्रार्थः, नार्थान्तरं साधीयः पश्यामः। तत्तु सामर्थ्यं प्रयोगतोऽनुसर्त्तव्यम्। न पुनरियं वृत्तिरस्य वाक्यस्यार्थाभिधानसमर्था, नान्यस्येत्येतत्सूत्राक्षरैर्लभ्यते। अत एवास्मिन्व्याख्यानेऽपरितुष्टः सन्व्याख्यानान्तरमाह--अथ वेति। अत्र पक्षे उपचरितवृत्तिः समर्थशब्दः, तदाहसमर्थपदाश्रयत्वादिति। समर्थानां पदानां सम्बध्दार्थानां संसृष्टार्थानासिति। यः पदानां विधिः स समर्थानां विदितव्यः। समर्थानामिति कोऽर्थः? संबध्दार्थानां संसृष्टार्थानां वेत्यर्थः। तत्र वाक्ये संबध्दार्थता। व्यपेक्षा हि तत्र सामर्थ्यम्। अन्योऽन्यापेक्षा = व्यपेक्षा। आकांक्षामन्निधियोग्यत्वेषु सत्सुः यः परस्परसम्बन्धः सा व्यपेक्षा। वाक्ये हि `राज्ञः' इति पदनियतसंबन्ध्यपेक्षयोद्‌भूतसंबन्धं विशेषणभूतमर्थमाचष्टे, स्वसंनिहितं योग्यं च पुरुषमपेक्षते। ममायमिति `पुरुषः' ईत्येनेनापि पुरुषः स्वनिष्ठोऽभिधीयमानः स्वसंनिहितं राजत्वमवच्छेदकत्वेनापेक्षते-अहमस्येति। अतो विशेषणविशेष्यभावेन सम्बन्धोऽनियतसंबन्धिविषयत्वाच्चापेक्षया यो यः सन्निहितो योग्यश्च तेन सम्बध्यते-राज्ञः पुरुश्चाश्चश्च, राज्ञो देदत्तस्य च पुरुष इति, नार्थान्तरस्य। वृत्तो तु संसृष्टार्थता। एकार्थीभावो हि तत्र सामर्थ्यम्। वृत्तौ हि राजपदं राजानमभिधाय न तावति पर्यवस्यति, पुरुषमप्याचष्टे, यथा-`गङ्गायां घोषः' इति गङ्गापदं तीरम्। यदि तु तावत्येव पर्यवस्येत्ततो यथा वाक्ये राज्ञः पुरुषोऽश्वश्चेति द्वाभ्यां सम्बन्धो भवति, तथा राजपुरुषोऽश्वश्चेत्यत्रापि स्यात्। स्वविशेषणसम्बन्धोऽपि स्याद्-ऋध्दस्य राडपुरुष इति यथा ऋध्दस्य राज्ञः पुरुष इति तथा पुरुषपदमपि राजविशिष्टमेव पुरुषमाचष्टे, न पुरुषमात्रम्। यदि तथा स्यात्ततो यथा वाक्ये राज्ञः पुरुषो देवदत्तस्य चेति द्वाभ्यां सम्बन्धो भवति, तथा रापुरुषो देवदत्तस्य चेत्यपि स्यात्। अतो यस्य विशेषस्य भावादयं विशेषः स एकार्थीभावः। भाष्योक्ताश्चापरे विशेषाः-`सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः स्वरभेदश्च संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशंषणं च योगश्च ' इति। तथा सुपि अलोपश्च भवति वाक्ये-राज्ञः पुरुषः, नीलमुत्पलमिति समासे तु द्योरेकस्मिन्विशिष्टेऽर्थे वृत्तेः पृथगर्थाभावात्स्वभावत एव विभ्क्तनिवर्त्तते। सैव च स्वाभाविकी निवृत्तिः शास्त्रेणान्वाख्यायते-`सुपो धातुप्रातिपदिकयोः' इति प्रत्ययलक्षणेन नलोपादिकार्थं यथा स्यादिति। पृथगर्थाभावे तु पथग्विभक्तिर्न भवति। तथा वर्णेषु व्यवधानं च पृथगपर्थत्व एव दृष्टः--राज्ञः पुरुष इति द्वावपि नित्स्वरेणाद्युदात्ती। अभेदेन दृष्टः, यथा--पुरुष इति वृत्तौ चैकस्वर्यं दृश्यते। किं च, संख्याविशेषोऽवगम्यते पृथगरेथेषु--राज्ञः राज्ञोः राज्ञां पुरुष इति। वृत्तौ त्वव्यक्तमभिधानं विष्ठति, ब्राह्मणकम्बल इति मन्देहो भवति-संबुध्दिर्वा स्यात्? षष्ठीसमासो वा? इति, न चात्रस्वरान्नर्णयः। वाक्येऽप्यामन्त्रितनिघातः कम्बलशब्दो घृतादितावादन्तोदात्तः, समासेऽप्यन्तोदात्तता। उपसर्जनविशेषणं च व्याख्यातम्। योगश्च भवति पृथगर्थेषु-राज्ञो गौश्चाश्चश्च कम्बलश्चेति। वृत्तौ त्वेकार्थ्याद्भेदनिबन्धनस्य समुच्च यस्याभावाच्चशब्दो निवर्त्तत-राज्ञो गवाश्वकम्बला इति, तदेतैर्विशेषैर्वज्ञायते संभिन्नोभयरूपः पासूदकवदविभागापन्नो वृत्तावर्थ इति। तेन राज्ञः पुरुषमानय राजपुरुषमानयेति च यद्यचप्येक एवानीयत इति कार्ययोगिनोऽभेदस्तथाच्यभिधानप्रकारो भिद्यते, यथा-ब्राह्मणानां शतं भोज्यतामिति। तदेवं वृत्तिवाक्ययोरर्थो भिद्यत इति स्थितम्। एवं च त्र तत्र वावचनं चिन्त्यप्रयोजनम्; भिन्नार्थया वृत्त्या वाक्यस्य बाधाऽप्रसङ्गात्। अन्ये तु जहत्स्वार्था वृत्तिरिति वदन्तो वर्त्तिपदानामानर्थक्यमेवाहुः, तत्तु न रोचयामहे। किं राजपुरुष इत्यत्र राजार्थो न गम्यते? ओमिति चेत्, पुरुषमात्रानयनं प्राप्नोति। अथ गम्यते? किंनिबन्धना तस्यावगतिः? न तावत् समासस्य तत्र शाक्तिः कल्प्या; राजशब्दनिबन्धनायामपि तस्यामनर्थाभावात्। न च वाक्ये राजपदं व्युत्पन्नं पुनः समासे वियुत्पत्तिमपेक्षते, तावत्येव च प्रतिपद्यते राजार्थः। अते न जहत्स्वार्था वृत्तिः, अर्थाभिधानप्रकारभेद इत्येतदेव सांप्रतम्। तत्र सम्बध्दार्थानां संसृष्टार्थानामिति स्थतं परिभाषाप्रवृत्तौ हेतुर्नान्यतरत्, यतो मा भूद्व्यपेक्षामात्राश्रयेण सापेक्षस्यापि वृत्तिः। यदेयेवम्, पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्त्तेत; तत्रैकार्थीभावस्यासम्भवात्। मा प्रवर्त्तिष्ट, पराङ्गवद्भावेत्न्निमित्तग्रहणं नोदयिष्यति। विभक्तिविधानेऽपि क्रियाकारकयोर्व्यपेक्षाऽविनाभाविनी क्वचिद्युक्तग्रहणम्; क्वचिद्योगग्रहणम्, क्वचित्‌-तृतीयया योगस्याक्षेप इति न क्वापि दोषः। अत एवानन्तरमपि पराङ्गवद्भावमुल्लङ्घ्य समासमुदाहरति--वक्ष्यतीति। समर्थग्रहणं किमिति। सूत्रं किमर्थमित्यर्थः। न हि केवलेन पदविधिग्रहणेन किञ्चत्क्रियते। पश्येत्यादि। ननु च श्रितादिभिर्द्वितीयां विशेषयिष्यामः-श्रितादियोगे या द्वितीयोति। एवमपि सापेक्षस् प्रसङ्गः-महत्कष्टं श्रित इति, भवति ह्यत्र श्रितादिनिमित्ता द्वितीया, समर्थग्रहणे तु सति न भवति। यद्यप्यत्र वाक्यावस्थायां व्यपेक्षानक्षणसामर्थ्यमस्ति, वृत्त्यवस्थायान्तु नैकार्थीभावः संभवतीत्यवोचाम। कथं तर्हि देवदत्तस्य गुरुकुलमिति सापेक्षस्य वृत्त? नात्र गुरुण देवदत्तस्य सम्बन्धः; किं तर्हि? समुदायेन, गुरुद्वारकश्च सुलेन सम्बन्ध इत्यर्थाद् गुरुणापि योगो भवति। उक्तं च-
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह।। इति
अथ वा--परिपरूर्णार्थस्यान्येन सहैकार्थीभावः स्वार्थपरिपूर्त्तिश्च समाबन्धि शब्दस्य प्रतियोगिनेति भवति तदपेक्षस्यापि वृत्तिः। उक्तं च -
सम्बन्धिशब्दः सापेक्षो न्त्यं सर्वः प्रयुज्यते।
स्वार्थवत्सा व्यपेक्षाऽस्य वृत्तावपि न हायते।। इति
किं त्वं करिष्यसीत्यादि अत्र शक्यं वक्तुम्। तत्कृतार्थेनेति। तच्छब्दः प्रकृतपराम्र्शाय तृतीयान्तं समस्यत--तदर्थेन यः कृचो गुणस्तद्वचनेनेति। अत्र च यस्य समासः शह्क्यते--शंकुलयेति, न तदर्थेन कृतं खण्डनम्; यदथंन च कृतं खण्डनमुपलेनेति, न तस्य समासः शङ्क्यच इति न भविष्यतीति। तस्मान्महत्या शंकुलया खण्ड इति सापेक्षमुदाहर्त्तव्यम्। गच्छ त्वं यूपायेति। `गत्यर्थकर्मणि' इति चतुर्थी। तद्वा-`क्रियार्थापपदस्य च कर्मणि' इति, यूपमाहर्त्तु गच्छेति, अत्राप्येतदर्थत्वादेव दारुणो न भविष्यतीति सापेक्षं प्रत्युदाहर्त्तव्यम्-महते यूपाय दार्विति। यणादेशो नित्यश्च तुग्भवतीति। द्वावप्येतौ वर्णविधी, नित्यस्तुक् च `दीर्घात्' इत्यायमेव, यस्तु `पदान्ताद्वा' इति विकल्पितस्तुक् स पदविधित्वादत्र न भवति। अन्ये तु यणादेशोऽनित्यश्च तुगभवतीत्यकारप्रश्लेषं वर्णयन्तः `पदान्ताद्वा' इति विकल्पितस्तुग्भवतीति व्याचक्षते। नन्वसौ पदविधिर्नेति? आह-तत्रन्तग्रहणं एवं सिध्देऽन्तग्रहणस्यैतत्प्रयोजनम्-पदान्तस्य दूर्घस्य वर्णस्य विधिस्तुग् यथा स्याति, दीर्घान्तस्य पदस्य मा भूदिति।।

2 सुबामन्त्रिते पराङ्वत्स्वरे ।। 2-1-2 ।।
परस्याङ्गवदिति। तस्यैव पदस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति, तद्‌ग्रहणेन गृह्यत इत्यर्थः। तादात्म्यातिदेशोऽयमिति। अङ्गश्बदस्यावयववचनत्वात् तस्यामन्त्रितस्यात्मा तदात्मा, तस्य भावस्तादात्म्यम्, तत्स्वभावत्वमित्यर्थः। एतदेव स्पष्टयति-सुबन्तमिति। अनुप्रविशति = अन्तर्भवति, सुबन्तामन्त्रितसमुदाय एकस्मिन्नामन्त्रिते संपन्ने यः स्वरः शक्यते कर्तुं स कर्त्तव्य इत्यर्थः। कः पुनरसौ? आद्युदात्तत्वम्, समुदायस्य च पदात्परत्वे निघातः। कुण्डेनाटन्निति। नन्वत्र सति तावत्पराङ्गवद्भावे समुदायस्याद्युदात्तत्वं शेषनिघामन्त्रितं निहन्यते। यदा तर्ह्यटन्नित्येतत्पादादौ वर्त्तते तदा नास्ति निघात इति द्वयोराद्युदात्तत्वं स्यात्। किं च पुंल्लिङ्गोऽपि कुण्डशब्दोऽस्ति-पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः। इति।
कुण्डीति च जानपदादिसूत्रेण ङीषि भवति। परशुना वृश्चन्निति। `आङ्परयोः खनिश्रृभ्यां डिच्च' इति कुप्रत्ययान्तत्वादन्तोदात्तः परशुशब्दः, मद्रशब्दः `मदेश्च' इति रक्‌प्रत्ययान्तः, कश्मीरशब्दो धृतादित्वादन्तोदात्तः, `सुबन्तस्य पराङ्गवद्भावे तन्निमित्तग्रहणम्' तस्यामन्त्रितवाच्यस्यार्थस्य यन्निमित्तं तदभ्धाय्येव सुबन्तं पराङ्गवदित्यर्थः। उदाहरणेषु तृतीयान्तस्य तावन्निमित्तत्वमस्त्येव;षष्ठ्यन्तस्याप्यस्ति, भृत्यनिमित्ता हि राजता, देशनिमित्ता वा। एवं गोषु स्वामिन्नित्यत्रापि भवति। तन्निमित्तत्वाभावे तु न भवति-मरुत्त्वां इन्द्र वृषभो रणाय, मरुद्भिरिन्द्र सख्यं ते अस्तु, मायाभिरिन्द्रमायिनम्, एतेनाग्ने ब्रह्मणा वावृधस्व, क्षेत्त्रेणाग्ने स्वायुस्सम्भरस्व, मित्रेणाग्ने मित्रधेये यतस्व। सुबिति किमिति। तन्निमित्तग्रहणादेव तिङ्न्तस्य सिध्दो निरास इति प्रश्नः। पीड्ये पूड्यमानेति। न हि सूत्रकारो वार्त्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। `पीड अवगारहने' चुरादिणिच्, उभयत्र कर्मणि लट्, एकत्रोत्तमैकवचनमिट्, अवपत्र शानच्, यकि णिलोपः, `तास्यनुदात्तेत्' इति इटोऽ नुदात्तत्वम्, यकः प्रत्ययस्वरः, `एकादेश उदात्तेनोदात्तः' इत्येकार उदात्तः, पीड्यमानेत्यत्रामन्त्रितनिघातः। ननु च समर्थग्रहणानुवत्तयैवात्र न भविष्यति, अस्त्य त्रापि सामर्थ्यम्, कथम्? सम्बोधनपदं क्रियाया एव विशेषकम्, तथा च ब्रजानि देवदत्तेत्यत्रामन्त्रितनिधातो भवति। उक्तं च
सम्बोधनपदं यद्यत्तत्क्रियाया विशेषकम्।
ब्रजानि देवदत्तेति निधातोऽत्र तथा सति।। इति।
अथ वा- हेतुहेतुमद्भावलक्षणोऽत्र सम्बन्धः, हे पीड्यमान त्वत्पीडयाहमपि पीड्य इति। गेते गार्ग्य इति। गेहशब्द उञ्छादित्वादन्तोदात्तः, एकस्यामासनादिकायां क्रियायां द्वयोरपि कारकत्वात्तद्‌द्वारेणास्ति सामर्थ्यम्। परग्रहणं किमिति। सन्निधानादामन्त्रितस्ययैव भविष्यतीति प्रश्नः। पूर्वस्य मा भूदिति। निमित्तभाव एवामन्त्रितस्योपक्षीणतया पूर्वस्यापि स्यादिति भावः. एवं च पूर्वस्यामन्त्रितत्वमतन्त्रम्। गार्ग्यः कुण्डेनाटन्नित्यादावपि भवति सन्निधानात्। अमन्त्रितत्वमपि तन्त्रमिति चेत; यद्येवम्, परमेव संनिहितमिति न पूर्वं प्रत्यङ्गत्वप्रसह्गः। देवदत्तः कुण्डेनाटन्नित्यत्र पूर्वं प्रत्यङ्गत्वे सति समुदायस्याद्युदात्तत्वं शेषनिघातः। अटन्नित्यामन्त्रितनिघात इति स्वरः. परग्रहणे तु सति देवदत्तशब्दस्यामन्त्रिताद्युदात्तत्वम्। तथा कुण्डेनाटन्नित्यम्यापि निधातस्तु न भवति; `अमन्त्रितं पूर्वमविद्यमानवत्' इति देवदत्तशब्दस्याविद्यमानवत्त्वाद्। छन्सि तु परमपि पूर्वस्याङ्गवद्ष्यते-आ ते पितर्मरुतां सुम्नमेतु। पुतरित्यनेन सह मरुतामित्यस्यापि निघातः। यथा मत्पुण्डीभूतः। तत्र सुबन्तस्य मृत्पिण्डात्मना परणामासम्भवादेकीभावप्रतिपादनपरमेतत्। मृत्पिण्ड इवैकतामापन्न इत्यर्थः। यद्वा, पिण्डीशब्दोऽप्यस्ति-प्रविश पिण्डीमिति, तस्यायं प्रयोगः. भूतशब्दउपमार्थः-पितृभूत इति यथा। किमर्थं पुनरेवंभूतस्यस्वरप्राप्तये यत्न इत्यत आह-उभयोरपीति। असत्यङ्गग्रहणे कार्यव्यपदेशशास्त्राणामन्यतमातिदेशः स्याद्। यथा परस्य कार्यमामन्त्रितस्य स्वरः आमन्त्रितव्यपदेशः स्वरशास्त्रं वा, तथा सुबन्तस्यापि तद्भवतीति। एवं चोभयोराद्युदात्तत्वं स्यात्। ननु च पदात्परस्य निघातादुभयोरनुद्त्तत्वं मा भूद्ति वाच्यम्; सत्यम्, आमन्त्रितस्यापादादित्वे सति, पादादित्वे तदुक्तम्। वत्करणं किमिति। परत्र परशब्दप्रयोगादेव वत्यर्थो लप्स्यत इति प्रश्नः। स्वाश्रयमपि यथा स्यादिति। नानेन क्वाचित्कत्वमस्योच्यते। एवं हि विषयविभागे न ज्ञायते-क्वाह्गवद्भवति? क्व नेति? नापि कादाचत्कत्वम्-कदाचिदङ्गवत्, कदाचिन्नेति, एवं हि सर्वत्र विकल्पः स्यात्। तस्मादमयत्रार्थ--असति वद्‌ग्रहणे आम् कुण्डेनाटन्निति स्थिते अटन्नित्यस्य निघाते प्राप्ते कूण्डेनेत्यस्यानुप्रवेशात्कुण्डेनाटन्नित्येकमामन्त्रितं सम्पन्नम्। न च तदेकान्तरमिति प्रतिषेधाभावान्निघात एव स्यात्। वत्करणे तु सति अटन्नित्यस्य तावदेकान्तरत्वान्निघातप्रतिषेधे आद्युदात्तत्वं प्राप्तम्। तस्यां दशायां कुणडेनेत्यम्यानुप्रवेशात्समुदायस्याद्युदात्तत्वं भवति। तदेवं समुदायस्यानैकान्तरत्वेऽपि अटन्नित्यस्य यदेकान्तरत्वं वत्करणेन लब्धं तेनैव समुदायस्य निघातनिवृत्तिराद्युदात्तत्वं च भवति। कूपे स्ञ्चन्निति। अत्र पराङ्गवद्भावे सति ऐकपद्यत्षत्वप्रसङ्गः, स्वाश्रयं पदादित्वं भविष्यति, सर्वातिदेशेषु ह्यविरुध्दं स्वाश्रयं भवति। किं च नात्रातिदेशिकं सकारस्य किञ्चिच्छास्त्रीयं कार्यमस्ति, अतोऽपि स्वाश्रयं भवत्येव, यथा नमते दण्डः स्वयमेवेत्यत्र यक्प्रतिषेधे शप्। इदं तर्हि-`चर्म नम्न्', अत्र पराङ्गवद्भावे सति समानपदस्थत्वाण्णात्वं स्यात्। सत्यपि समानपदत्वे `पर्वपदात्संज्ञायामगः' इति नियमादसंज्ञायां न भविष्यति। नायं नियमस्य विषयः, पूर्वपदशब्दो हि समासावयवे रूढः। तेन समास ए नियम्। अथ तु पूर्वं पदं पूर्वपदंपूर्वपदादत्यविशेषेण नियमो व्याख्यायेत, ततः स्वरग्रहणं शक्यमकर्तुम्। अक्रियमाणे च तस्मिन्, समानाधिकरणस्योपसंख्यानमित्येतदमपि शक्यमकर्त्तुम्। कथं परस्याङ्गवद्भावे कृते चिणो लुङ्न्यायेन विष्यभेदाल्लक्षणस्यावृत्तौ पूर्वस्यापि पराङ्गवद्भावो भविष्यति? सति तु स्वरग्रहणे स्वहादन्यत्र परशुना वृश्चन्नित्यत्र वृश्चन्निति प्रतिपदिकम्; न च प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेषः, `न ङिगंबुध्द्योः' इति निषेधाल्लिङ्गात्; तत्र पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात् `सुपो धातुप्रातपदिकयोः' इति सुब्लुक् प्रसज्येत; स्वहग्रहणे तु सतु सुब्लुकि कर्त्तव्ये पराङ्गवद्भावाभावः? नैतदस्ति; पराङ्गवदित्यामन्त्रितं संनिधानात्परशब्देन गृह्यते; तस्य रूपस्य सूबन्तैकान्तत्वात्सुबन्तकार्य एव पराङ्गवद्भावः, न प्रातिपदिककार्ये। उच्चैरधीयानेति। उच्चैर्नीचैः शब्दौ स्वराद्ष्वन्तोदात्तौ पठितौ, अधिकरणशक्तिप्राधान्याञ्च तस्मिन्निमित्तं च ।।

3 प्राक्कडारात्समासः ।। 2-1-3 ।।`यथाऽसादृश्ये' इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु `प्रत्ययः' इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्त्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः. अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि `दिक्समासे बहुव्रीहौ' `तृतीयासमासे' `द्वन्द्वे च ' समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति।।
 
4 सह सुपा ।। 2-1-4 ।।
सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा `वृध्दो यूना' इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्। `कृत्तध्दितसमासाश्च' इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्। `समासाञ्च तद्विषयात्' इत्यत्रापि प्रातिपदिकादित्यनुवर्त्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्, `समासः' इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत।
यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः। `हलश्च' इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदात्तत्वं तु न भवति;`तिङ्‌ङतिङः' इति निघातात्। अनोः `गतिर्गतौ' इति निघातः, वेैर्यणादेशे `उदात्तस्वरितयोः' इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्टं समासान्योदात्तत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिङैकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदत्तेति `आम एकन्तरमामन्त्रितमनन्तिके' इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः।।

5 अव्ययीभावः ।। 2-1-5 ।।
इह लघ्वर्थ संज्ञाकरणमित्येकाक्षरा संज्ञां कार्या, किमर्थं महती क्रियते इत्याहृ-अन्वथसंज्ञा चेयमिति। अनवव्ययमव्ययं भवतीत्यव्ययीभावः, `भेवतेर्ण उपसंख्यानम्' इति णप्रत्ययः। अन्वर्थत्वे किं सिध्यतीत्यत आहतेनेति। पूर्वपदग्रङणमव्ययस्योपलक्षणार्थम्। सूपप्रति, शाकप्रतीत्यादावुत्तरपदार्थप्रधान्यान्न स्यात्तस्मादव्ययीभावेऽव्ययार्थः प्रधानमिति सूत्यते। एवं ह्यव्ययानव्ययसमुदायोऽव्ययधर्मभादव्ययं भवतीति। किं सिध्दं भवति? समृध्दा मद्राः समद्रा इत्यादावुत्तरपदार्थप्रधान्येऽव्ययीभावस्यातिप्रसङ्गः परिहृतो भवति। पारेगङ्गम्, द्विमुनि, उन्मत्तगङ्गमित्यादौ चच वचनादव्ययीभावः। एवं चानव्ययमव्ययं भवतीत्यन्वर्थतयैवाव्ययकार्यस्यापि लाभाद् `अव्ययीभावश्च' इत्येतदपि न तदिति चोत्, न; अत्रैव परिगणय्यान्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुनीयताम्।।

6 अव्ययं विभाक्तसमीपसमृध्दिव्यृध्द्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यम्पत्तिसाकन्यान्तवचनेषु ।। 2-1-6 ।।
श्रुतत्वादव्ययस्यैव विभक्त्यदयो विशेषणानि, न समासस्येत्याह-विभक्त्यादिष्विति। समस्यत इति। यद्यपि `समास' इति संज्ञामात्रं विधूयते, तथाप्ययमबुधवोधनाय भ्न्नयोः शब्दयोः संश्लेषः प्रक्रियायां क्रियत इति `समस्यते' इत्युक्तम्। वचनग्रहणं प्रत्येकमभिसम्बध्यत इति। तञ्च कर्मसाधनं विभक्त्यादिभिः समानाधिकरणम्। विभक्त्यादिषु वाच्येषु यदव्ययं वरत्तते = विभक्त्यादीनर्थान्यदव्ययं वक्ति, द्यौतयतीत्यर्थः। विभक्तिशब्देन कारकशक्तिरभिधायते विभज्यतेऽनया प्रतिपदिकार्थ इति कृत्वा। स्त्रीष्वधिकृत्येति। स्त्रीषु कथा प्रवर्त्यत इत्यन्वयः। अधिकृत्येति, प्रस्तुत्येत्यर्थः। संनिधानाञ्च स्त्रिय एव प्रसुतत्येति गम्यते, स्त्रीविषया कथा प्रवर्त्यत इत्यर्थः। प्रायेण तु प्रवर्त्तते इति। अत्राहुः-अधिकृत्य या कथा मा स्त्रीषु प्रवर्त्तत इकत्यर्थः, तत्र प्रस्तावने कथने च कर्तुरेकत्वात्सिध्दः क्त्त्वाप्रत्यय इति। अन्ये त्वाहुः-कृत्यस्य कथा कर्तव्यकथेत्यर्थः, सा स्त्रीषु अधिप्रवर्तते स्त्रीष्वधाति च प्रक्रियावाक्यम्, न त्वेतत्प्रयोगार्हम्; समासस्य नित्यत्वात्। अधिस्त्रीति। `अव्ययूभावश्च' इति नपुंसकत्वाद `ह्रस्वो नपुंससके' इति ह्रस्वः। सप्तम्यर्थे यदव्ययमिति। विभक्तिवचनतां दर्शयति। उपकुम्भमिति। कुम्भस्योपेति प्रक्रियावाक्यं षष्ठ्यन्तेन समासः। दुःशकम् दुर्यवनमिति। मनुष्यजातिवचनौ शकयवनशब्दौ, किमर्थं पुनर्वृध्दिग्रहणम्, अर्थाभाव इत्येव सिध्दम्? न सिध्द्यति; येन समस्यते तद्रथस्याभावोऽर्थाभावः, न चात्र शकानामभावः, किं तर्हि? तदीयाया ऋध्देः। अर्थाभाव इत्यर्थग्रहणं यत्र धर्मिस्वरूपस्यैवाभावस्तत्र यथा स्यात्, धर्ममात्रप्रतिषेधे मा भूत्, तद्यथा-ब्राह्मणेन ब्राह्मण्यामुत्पादितत्वेन कस्यचिद्‌ब्राह्मणत्वं प्रसज्य प्रतिषेधति-नायं ब्राह्मणो यस्तिष्ठन्मूत्रयति। इतरेतराभावे च मा भूत्-गौरश्चो न भवतीति; अत्रापि वस्त्वन्तनं प्रतिषिध्यते, न धर्मिस्वरूपम्। अतिशीतमित्यरिथाभावः। कालनवच्छिन्नोऽभाव आश्वीयते, इह तु संप्रत्यभाव इत्ययस्य भेदेनोपादानम्। अतितैसृकमिति। तिसृका नाम ग्रामः, `तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्' तत्र भवं तैसृकम् = आच्छादनम्। तच्च कालविशेष उपभोग्यम्। उष्णे शीते वा अतिशब्दो नेदानीमित्यस्यार्थे वर्तते। उपभोगक्रिया च वृत्तौ स्वावादेवान्तर्भवति, यथा-दध्युपसिक्त ओदनो दध्योदन इति। तद्‌ध्दरेण पूर्वोत्तरपदयोः सामर्थ्यम्, नेदानूमुपभोगार्हं तैसृकमाच्छादनमित्यर्थः। आच्छादनापेक्षस्यापि दैसृकशब्दस्य गमकत्वात्समासः। नात्र तैसृकस्य कालानवच्छिन्नो भावः, नापि संप्रति तसायाभावः, किं तर्हि? तदुपभोगस्येत्यर्थाभावादत्ययाच्चासंप्रतिभिद्यते। तत्पाणिनीति। तच्छब्दो निपातोऽप्यस्ति। प्रत्यर्थमिति। अर्थमर्थं प्रतीति वाक्यमप्यत्र भवति; भाष्यप्रयोगात्। यदि वा नात्राव्ययं वीप्सावृत्ति, किं तर्हि? कर्मप्रवचनूयत्वात्सम्वन्धमवच्छिनत्ति। वीप्सा तु द्विर्वचनद्योत्या। अनुपूर्वस्य भाव आनुपूर्व्यम्-ब्राह्मणादित्वात्ष्यञ्, ष्यञः षित्करणात्स्त्रियामपि भवति तस्य प्रयोगः। एवं ज्येष्ठ
ानुपूर्व्येणेति। सचक्रमित. सहशब्दसस्य समासः, `अव्यीभावे चाकाले' इति सभावः, एवमुत्तरेष्वप्युदाहरणेषु। गुणभूतेऽपीत्यादि। यदि `सादृश्ये' इति नोच्यते, िपूर्वपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशंष्यत्वात्प्रधावनं तदैव स्यात् सादृश्यं किख्येति, गुणभूते न स्यात्। सदृशः किख्येति। सादृश्यवतः प्राधान्यदर्शनेन सादृश्यस्य गुणभावं दर्शयचति। सरिखीति। पूर्ववद्‌ध्रस्वः। अपचितपरिमाणः श्रृंगालः किखी। अप्रसिध्दोदाहणम्; चिरन्तनप्रयोगात्। सम्पत्तिशब्दस्य समृध्दौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह-सम्पत्तिरनुपरूप आत्मभाव इति। सब्रह्म ब्राभ्रवाणामिति। तेषामनुरूपो ब्रह्मभाव इत्यर्थः। सतृणामिति। न चात्र तृणभक्षणं वास्तवमित्याह--न किञ्चिदति। तृणभक्षणमधिकोऽर्थः, तद्वचनेन किंचिदभ्यवहार्यं न परित्यजतीत्ययमर्थः प्रतिपद्यते तृणानि भक्षयन्कथमन्यत्परित्यजेदिति। परग्रहापेक्षयेति। `इदानीमेतावान्प्रदेशोऽध्येतव्यः' इति यावतः प्रदेशस्य परग्रहस्तदपेक्षया समाप्तिः = अनुतः, स चासकलेऽप्यध्ययने भवतीति भावः। साग्नीति। अग्न्यादयः शब्दास्तदर्थे ग्रन्था वर्त्तन्ते, तदानीं परिगृपीतस्य प्रदेशस्याग्न्यादिरन्तः, न तु ततः परेणाध्ययनं नास्ति; ततश्च न साकल्यमित्याह इयमिति।।

7 यथाऽसादृश्ये ।। 2-1-7 ।।
सादृश्ये समासस्य पूर्वेणैव सिध्दत्वादसंदेहार्थं सादृश्ये यथेत्यवचनाच्च नञोऽत्र प्रश्लेषः। असादृश्ये इति कितिति। सूत्रं किमर्थमित्यर्थः। यथा देवदत्त इति । देवदत्तस्य यज्ञदत्तं प्रत्युपमानत्वं यथाशब्दो द्योतयति। तत्रोपमानस्योपमेयापेक्षत्वेऽपि यथा-देवदत्तशब्दयोः सामर्थ्यात्परस्परेम समासप्रसङ्ग इति भावः। अथ पूर्वेणात्र सादृश्य इति वा, यथार्थ इति वा कस्मान्न भवतीत्याह पूर्वेणैवेति।।

8 यावदवधारणे ।। 2-1-8 ।।
यावन्ति पात्राणीति। यावदित्यव्ययं चास्ति, तध्दितान्तं च विद्यते, अतो नित्यमसासेऽपि तध्दितान्तेन विग्रहः।

9 सुप्प्रतिना मात्रार्थे ।। 2-1-9 ।।
अस्त्यत्र किचित्सूप इति किञ्चिदित्यव्ययं सूप इति पुंल्लिङ्गेन समानाधिकरणम्। सुबिति वर्त्तमान इति। `सुबामन्त्रिते' इत्यतः। अव्ययनिवृत्त्यर्थमिति। पूर्वहि सुब्ग्रहणमव्ययग्रहणेन सह विग्रहः कृतः। स्वरादीनां च दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषयो सत्त्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुध्देत्यव्यस्यैव समासः स्यात्।।

10 अक्षशलाकासङ्ख्या परिणा ।। 2-1-10 ।।
अक्षशालाकासङ्क्याशब्दा इति। अक्षशलाकाशब्दौ सह्क्यावाचिनश्च शब्दा इत्यर्थः। क्वचित्तु-अक्षशब्दः शलाकाशब्दः सङ्ख्याशब्दाश्चोति पाठः। कितवव्यवहार इति कितवा = द्यूतकाराः, तेषां व्यवहालेऽक्षशलाकानां पाततं तत्रैवायं समास इष्यते, एतच्चाभुधानस्वाभाव्याल्लभ्यते। कर्व उत्ताना इति। शलाकानामपि प्रकृतत्वात्सर्वे च सर्वाश्च सर्वे, उत्तानाश्च उत्तानाश्च उत्तानाः, अवाश्चश्चावाच्यशाचावाञ्चः, `पुमान्स्त्रिया' इति पुंसः शेषः। तस्यैवास्येति। पातयितुरित्यर्थः। विपातः = पराजयः। अन्यथापाते सति, जये यादृशः पातः सर्वे उत्तानाः पतन्त्यवाञ्चो वेति ततोऽन्यादृशेषु केषुच्जुत्तानेषु, केषुचिदवाक्षु पतत्सिवत्यर्थः। अक्षेशेति। वृत्तापेक्षया कर्त्तरि तृतीया। परमेणेति। अतिशयेनातः परमित्यर्थः पञ्चपरूति न भवतीति यावत्। अस्योपपदानं स्लोकेन क्रियते। पञ्चसु त्वेकरूपेष्विति। अत्रापि पुंसः शेषः। एकरूपास्विति प्रायेण पाठः। तत्र शलाकानामेव ग्रहणम्। जय एव भविष्यतीति। लृटोऽर्थो मृग्यः, यतः पञ्चस्वेकरूपेषु जय एव भवति, तेन परमेण चतुःपरीत्यन्वयः। अक्षादयस्तृचीयान्ता इति। अन्यथा वृत्तावयं समास इष्यते, तत्र चाक्षादीनां कर्तृत्वात्तृतीयैव युक्तेति भावः। पूर्वेक्तस्येति। पूर्ववृत्तस्येत्यर्थः। अनेकार्थत्वाध्दातूनां वचिरिह वर्त्तने वर्त्तते, तदेव यथा न तदिति तच्छब्देन परामृश्यते। पूर्वजये वृत्तस्याक्षादेर्यथा दत्‌वृत्तमभूत्, यदि संप्रति तथा न भवति एवं समासो भवतीत्यर्थः। पूर्वोक्तस्येति सामान्यापेक्षमेकवचनम्। जयकालेऽक्षादीनां यदेकरूपं वर्त्तनं तध्दिपरीते वर्त्तने परिणा द्योत्ये समास इति यावत्। एकतेवऽक्षशलाकयोरिति। अक्षशलाकाशब्दयोरेकवचनान्तयोः समास इत्यर्थः। इदमप्यभिधानस्वाभाव्यादेव लभ्यते, अन्था `राजपुरुषः' इत्यादाविवाभेदैकत्वमवगम्येत, न तु शुध्दमेकत्वम्। प्रायेण तु `कितवव्यवहारे च एकत्वेऽक्षशलाकयोः' इति श्लोकरूपेम पठ्यते, तत्रार्थान्तरं मृग्यं संहिताकार्यप्रसङ्गश्च। कितवव्यवहार इति किम्? अक्षेणेदं न तथा वत्तं यथा पूर्वशकटे। एकत्व इति किम्? अक्षाभ्यामक्षैर्वा इदं न तथा वृत्तम्। अक्षादय इति किम्? प्रसङ्गेनेदं न तथा पूर्वजये, परिणेति वचनात्सुबन्तमात्रेण न भवति।।

11 विभाषा ।। 2-1-11 ।।

12 अपपरिबहिरञ्चवः पञ्चम्या ।। 2-1-12 ।।
ननु बहिःशब्देन योगे न केनचित्पञ्चमी विधीयते, तत्कथं यस्य पञ्चम्यन्तेन समासः? बहिर्गतो ग्रामादित्यत्र त्वसामर्थ्यान्नैव समासेन भवित्वयमत आह-बहिःशब्देनेति। न च वचनसामर्थ्याद्वहिः शब्दस्यापञ्चम्यन्तेन समासो भवत्विति वाच्यम्; प़ञ्चमीग्रहणाद्। इह ह्यपपरिशब्दौ परस्परसाहचर्ययाद्वर्जनार्थौ गृह्यते, तौ च कर्मप्रवचनीयौ, तद्यौगे च पञ्चम्येव विहिता। अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते, तद्योगेऽप्यञ्चूत्तरपदलक्षणा पञ्चम्येवास्ति। तदेतत्पञ्चमीग्रहणं ज्ञापयति-षष्ठीविषये बहिर्योगे पञ्चमी भवतीति।

13 आङ् मर्यादाभिविध्योः ।। 2-1-13 ।।
`मर्यादाभिविध्योः' इति शक्यमकत्तुंम्, कथम्? पञ्चम्येति वर्त्तते, आङा च कर्मप्रवचनूयेनैव योगे पञ्चमी विहिता, एतयोश्यैवार्थयोराङः कर्मप्रवचीयसंज्ञा-`आङ् मर्यादावचने' इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्याद् इत्यभिविधावपि भवति। तत्रैव वाऽभिविधिग्रहणमेवास्तु।।

14 लक्षणेनाभिप्रती आभिमुख्ये ।। 2-1-14 ।।
अभ्याग्न, प्रत्यग्नीति। अग्नि प्रतीति विग्रहः, `अभिरभागे' `लक्षणेत्थम्भूत' इति अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया। तत्राग्निर्लक्षणम्, तेन हि शलाभानां पातो लक्ष्यते, अभिप्रती च लक्ष्यलक्षणभावं द्योतयित्वाभिमुख्यमपि द्योतयतः। स्रुघ्नं प्रतिगत इति येन देशेनाग्निर्गतस्तेनेति प्रतीतिर्भवति, गमनस्याग्निर्लक्षणभाभिमुख्यं चास्ति, `येन-तेन' शब्देन सह समासः स्यात्। अभ्यङ्काः, प्रत्यङ्काः इति। अभिनवोऽङ्क आसाम्, प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यं तु नास्ति। ननु च सति संभवेऽव्ययार्थे प्रधानेऽव्यीभाव इत्युक्तम्, कथमत्र प्रसङ्गः? एवं तर्ह्येतज्ज्ञापयति-भवतियत्र प्रकरणे बहुव्रीहिविषयेऽव्ययीभाव इति। तेन `संख्या वंश्येन', द्विमुनि व्याकरणमित्येतत्सिध्दं भवति।।

15 अनुर्यत्समया ।। 2-1-15 ।।
यत्समयेति षष्ठीसमासोऽयम्। कथं पुनः समायाशब्देन योगे षष्ठी, यावता `अभितः परितः समया' इति द्वितायया भवितव्यम्? नैष दोषः; समयाश्बदस्य मुख्योऽर्थः सामीप्यम्, तद्योगे द्वितीया। इह तु समयाशब्दवाचिन्यनुशब्दे समयाशब्दो वर्त्तते, तदाह--अनर्यत्समया। समयावाचीति। यस्य समयेति कोऽर्थः? समयावाचीत्यर्थः, तदिह मुख्येनार्थेनायोगद् द्वितीया न भवति, षषठ्येव तु भवति, तस्याश्च समासः। न च पूरणगुणेति प्रतिषेधः; अनव्ययत्वात्। सामीप्ये हि वर्त्तमान- समयाशब्दोऽसत्तववाचित्वादव्ययम्। इह त्वनूशब्दार्थे वर्त्तते, तत्र यथा `अभिराभागे' इत्यादावनुकरणस्याव्ययसंज्ञा न भवति, तथास्यापि। एवं च यत्समयेत्यविभक्तिकः सौत्रो निर्देशः। वृत्तावपि यत्समयेति सूत्रानुकरणेन विभक्त्यभावः। तेनेति। तद्वाचिना शब्देनेत्यर्थः. अनुवनमिति। वनस्यान्विति सामूप्यसम्बन्धे षष्ठीसमासः, अस्यार्थमाह-वनं समयेति।।

16 यस्य चायामः ।। 2-1-16 ।।
लक्षणेनेति वर्त्तत इति। अन्यथा आयामो गङ्गाया इत्यस्यार्थेऽनुगङ्गमिति स्यात्। अत्राप्यायामवाचित्वादनुरेवायामशब्देनोच्यते, इत्याह अनुर्यस्यायामवाचीति। अनुगङ्ग वाराणसीति। षष्ठ्यन्तेन गङ्गाशब्देन समासः। गङ्गाया अन्विति। आयामो लक्षमत्वं चानुना द्योत्यते, लक्षणस्य लक्ष्यापेक्षत्वाल्लक्ष्यं समासार्थ इत्यर्थादुपमानोपमेयभावे समास इति वाराणस्या सामानाधिकरण्यम्-गङ्गाया इवायामो यस्याः, गङ्गेवायता वाराणसीत्यर्थः। तद्वदत्यन्तायतेत्यर्थ इति केचित्। तथा च `अनुगङ्गमेतत्सुत्रम्' इत्येकशेषसूत्रे भागवृत्तिकारः प्रयुङ्क्ते। नेति वयम्। किं प्रागायता वाराणसी? उतोदगायता? इति संदेहे इदमुच्यते-अनुगङ्गं वाराणासीति, यथोदगायता गङ्गा तथोदगायता वारामसीत्यर्थः। गङ्गायामानुसारेण वाराणस्यायाम इत्यर्थः। यमुनायामेन मथुरायामो लक्ष्यत इति। न यमुना स्वरूपेण लक्षणम्, किं तर्हि? आयामेन, मथुरापि न स्वरूपेण लक्ष्यम्, किं तर्हि? आयामेन। तत्र प्राप्ताप्तविवेकेनेदमुच्यते-यमुनायामेन मथुरायामो लक्ष्यत इति।।

17 तिष्ठद्‌गुप्रभृतीनि च ।। 2-1-17 ।।
समुदाया एव निपात्यन्त इति । गणे तथा पाठ एव तेषां निपातनम्। तेन शतृशानजाद्यपि भवति। `सुपो धातुप्रातिपदिकयोः' इति च प्रक्रियाकार्यं न कर्त्तव्यमिति भावः। अव्ययीभावसंज्ञानि भवन्तीति। समाससंज्ञापि विधेया, अन्तोदात्तत्वं च । प्रातिपदकसंज्ञा च यथा स्यादिति। तिष्ठद्‌गु कालविशेष इति। कालविशेष इत्येतदुत्तरैरपि सम्बध्यते, अत एवान्ते वक्ष्यति-`एते कालशब्दाः' इति, एतावान्कालविशेष इत्यस्याधिकार इत्यर्थः। विभक्त्यन्तरेण न समाबध्यन्ते इति। अव्यतिरिक्त एव प्रातिपदिकार्थे प्रयोग एषां कर्त्तव्यः, नान्यत्रेत्यर्थः। अन्यपदार्थे च वर्त्तन्त इति। तिष्ठद्‌गु, वहद्‌गु, आयतीगवमित्येतैरप्यस्य सम्बन्धः; अन्यथा कालशब्दत्वायोगात्। चकारोऽवधारणार्थ इति। अनेकार्थत्वान्निपातानाम्। अपरः समासो न भवतीति। वृत्त्यन्तरं न भवतीत्यर्थः। `आतिष्ठद्गुजपन्सध्याम्' इति तु पञ्चम्या `अव्ययात्' इति लुक्, न समासः। तिष्ठद्‌गु, वहद्ग्विति। लटः शत्रादेशो निपातनात्, `गोस्त्रियोः' इति ह्रस्वः। आयतीवगमित्यत्र तु पुंवद्भावाभावः शत्रादेशयः समासन्तश्च। खलेयवं खलेबुसमिति सप्तम्या अलुक्। लूयमानयवादिषु शानजादेशः। समभूमि, समपदातीति।। समत्वं भूमेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। कचित् समंभूमि समंपदातीति पाठः, तत्र पूर्वपदस्य मुमागमः. अन्ये तु संभूमि संपदातीति पठन्ति, तत्र समस्यान्तलोपः, संशब्दस्य वा समासः। सुषामादौ शोभनत्वं समस्य विगतत्वं दुष्टत्वं निर्गतत्वमपगतत्वं समस्येति। विग्रहः। आयतोसमा आयतीसमम्, शत्रादेशः, पूर्ववत् पुंवद्भावश्च । समा = संवत्सरः। एवं पापसमं पुण्यसममिति। प्राह्वादिषु चतुर्षु प्रगतत्वमह्न इत्यादिविग्रहः। सङ्गतं प्रतिगतमस्य सम्प्रति। विपरीतम् असम्प्रति। इच् कर्मव्यतीहार इति। अयमेव द्विदण्ड्यादिष्वपि विधीयत इति तत्राप्यव्ययीभावः. दण्डादण्डीति। दण्डेश्च दण्डैश्च प्रहृत्येदं युध्दं प्रवृत्तम्, `तत्र तेनेदमिति सरूपे' इति बहुव्रीहिः। `अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः। इच अव्ययीभावत्वेनाव्ययत्वात्सुपो लुक्।।

18 पारे मध्ये षष्ठ्या वा ।। 2-1-18 ।।
वावचनादिति। ननु महाविभाषयैवापवादेऽव्ययीभावे विकल्पिते पक्षे षष्ठी समासोऽपि भविष्यति, सोऽपि विकल्पित इति वाक्यमपि भविष्यति? उच्यते--इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन वाक्यमेव पक्षेऽभ्यनुज्ञायते। तत्रापवादविकल्पो वाक्यस्यैव प्रापक इत्युत्सर्गस्य नित्यो बाधकः स्याद्, वावचनात्सोऽपि पक्षेऽभ्यनुज्ञायत इति त्रैरूप्यसिध्दिः। एतदेव वावचनं ज्ञपकम्--यत्रोत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न भवतीति। तेन पूर्वं कायस्येत्यत्रैकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र इञा मुक्तेऽण्न भवति। एकारान्तत्वनिपातनं यत्र सप्तम्यर्थो न सम्भवतिपारेगङ्गादानयेति, तदर्थम्। म्बवे तु `तुत्पुरुषे कृति बहुलम्' इति बहुलवचनादलुका सिध्दम् ।।

19 संख्या वंश्येन ।। 2-1-19 ।।
एकलक्षण इति। एकस्वभावः सन्तानः = सम्बन्धः, सन्तानिनामेकलक्षणत्वात्सन्तानस्यैकलक्षणत्वम्। द्वौ मुनी इति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ च भाष्यकारश्च। जन्मना त्वेकलक्षणस्योदाहरणम्‌-एकविंसति भारद्वाजमिति। यदा तु विद्यया सहेति `लक्षणेनाभिप्रती' इत्यत्र प्रकारान्तरेणाप्ययमर्थः साधितः ।।

20 नदीभिश्च ।। 2-1-20 ।।
नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन `पूर्वकालैक' इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः `नदीपौर्णमास्याग्रहायणीभ्यः' इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु `गोदावर्याश्च नद्यश्च' इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते।।

21 अन्यपदार्थे च संज्ञायाम् ।। 2-1-21 ।।

22 तत्पुरुषः ।। 2-1-22 ।।
उत्तरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशात्तत्पुरुष इति संज्ञा।।

23 द्विगुश्च ।। 2-1-23 ।।
समासान्ता इति। यद्यपि `राजाहःसखिभ्यष्टच्' `तत्पुरुषस्यांगुलेः संख्याव्ययादेः' इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकत्तरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः. समासार्थोत्तरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। 1`अह्नष्टखोरेव' इति टिलोपः, `रात्राह्नाहाः पुंसि'। पञ्चगवमिति। `गोरतध्दितलुकि' इति टच्, पूर्ववत्स्त्रीत्वाभावः।।

24 द्वितीयाः श्रितातीतपतितगतात्यस्तप्राप्तापन्नः ।। 2-1-24 ।।
श्रितादिषु गत्यर्थत्वात्कर्त्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः = व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापत्तिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्टं श्रितः कष्टं तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि `अहीनेद्वितीया' इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; `अतीतात्यस्तयोरहीने' इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, `अहीने द्वितीया' इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा `जातिकालसुखादिभ्योऽनाच्छादनात्' इत्यन्तोदात्तत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे `अहीने द्वितीया' इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो `जातिकाल' इत्यन्तोदात्तत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि `अहीने द्वितीया' इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाँस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोर्द्वैस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ `शेषाद्विभाषा' इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव `अहीने द्वनिताया' इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदात्तादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि `गत्यर्थाकर्मक' इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत्त इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठ्तत्वे भवति - आरूढो वृक्षो देवदत्तेनेति, तथेहापि कष्टं श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्टं श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति। `गमेरिनिः' इत्यौणादिक इनिप्रत्ययः `भविष्यति गम्यादयः' इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि। `गत्यार्थकर्मणि' इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्, `सनाशंसभिक्ष उः'। `न लोकाव्यय' इति षष्ठीनिषेधः।।

25 स्वयं क्तेन ।। 2-1-25 ।।
`धावु गतिशुध्द्योः', `उदितो वा' इति क्त्वायां विकल्पितेट्‌त्वात् `यस्य विभाषा' इतीट्प्रतिषेधः, `च्छ्वोः शूडनुनासिके च' इत्यूठ्, `एत्येदत्यूठ्सु' इति वृध्दिः। स्वयंविलीनमिति। `लीङ् श्लेषणे', `स्वादयओदितः', `ओदितश्च' इति निष्ठानत्वम्, कृदय्रहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ।।

26 खट्वा क्षेपे ।। 2-1-26 ।।
खट्वारोहणं चत्यादि। विनिन्दितो मार्गः = विमार्गः। भूमिशयनार्हो ब्रह्मचारी, वेदाध्ययनकाले तेनाधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा रोढव्या। यत्त्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थानम्। तच्चोदाहरणमन्यस्याप्येवंविधस्योपलक्षणम्, तेन खट्वामारोहतु मा वाऽरुक्षद्विमार्गप्रस्थितः खट्वारूढ इत्युच्यत इत्यर्थः।

27 सामी ।। 2-1-27 ।।
तस्यासत्त्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः।।

28 कालाः ।। 2-1-28 ।।
इह `काला अत्यन्तसंयोगे' इत्येको योगः कर्त्तव्यः, तत्र `क्तेन' इत्यस्य निवृत्तत्वात्सर्वत्र समासः सिध्द्यति, किमर्थं योगविभागे क्तान्तेन समासो विधीयत इत्यत आह - अनत्यन्तसंयोगार्थ वचनमिति। अनत्यन्तसंयोगमेव दर्शयति - षण्मुहूर्त्ता इति। चराचरा इति। चरेः पचाद्यचि `चरिचलिपतिवदीनामुपसंख्यानमाक् चाभायासस्य' इति द्विर्वचनमागागमश्चाभ्यासस्येति। चरन्तोऽनवस्थिता इत्यर्थः। कदाचिदहरिति। उत्तरायणे। कदाचिद्रात्रिमिति। दक्षिणायने। ततस्तैश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नास्त्यत्यन्तसंयोगः। मासप्रमित इति। माङ आदिकर्मणि कर्त्तरि क्तः, मासं परिच्छेत्तुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रमा इति। न च तेन मासस्यात्यन्तसंयोग इति भावः।।

29 अत्यन्तसंयोगे च ।। 2-1-29 ।।

30 तृतीया तत्कृतार्थेन गुणवचनेन ।। 2-1-30 ।।
तृतीयायाश्छन्दसे लुकि `गूणवचनेन' इत्यनेन सामानाधिकरण्यम्। अर्थेनेति पृथक् पदम्, अत एव गुणवचनेनार्थशब्देन चेति। कीदृशेन गुणवचनेन? तत्कृतेनेति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्शः, स च शब्दः। न च शब्देन गुणवचनस्य करणं सम्भवतीत्यतः सामर्थ्यात्तदर्थकृतेनेति विज्ञायत इत्याह - तृतीयान्तार्थकृतेनेति। यावदिति। यावच्छबदो निपातस्तात्पर्यपर्यायतां दर्शयति। अर्थद्वारकं चेदं गुणवचनस्य विशेषयणम्, अर्थ एव हि तृतीयार्थेन क्रियते, न गुणवचनः शब्दः। वचनग्रहणं किम्, यावार्थेन समासासम्भवाद् गुणवचनेवैव भविष्यति? एवं यथा विज्ञायेतगुणमुक्तवान् गुणवचनः, `कृत्यल्युटडो बहुलम्' इति लक्षितो गृह्यते, न तु यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तच्छब्दप्रवृत्तिनिमित्तम्; तृतायान्तार्थकृते सर्वत्रैव तस्य भावात्। शंकुलाखण्डः, किरिकाण इति। `खडि भेदने', `कण निमीलने' इत्याभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गणे वर्त्तित्वान्मतुब्लोपादभेदोपचाराद्वा त्दवति द्रव्ये वर्त्तेत इति गुणवचनौ भवतः। धान्येनार्थ इति। अर्थ्यत इत्यर्थः = प्रयोजनम्, अर्थनं वार्थः = प्रार्थना, अभिलाषः। सर्वत्र करणे तृतीयायाः समासः। अक्ष्णा काण इति। नात्राक्ष्णत्म्, किं तर्हि? अन्येनैव केनापि किर्यादिना, अक्ष्णा तु केवलं काणो लक्ष्यत इति तत्कृतत्वाभावः। किंच दघ्ना पटुनित्यत्र मा भूदित्येवमर्थमपि तत्कृतग्रहणं कर्त्तव्यम्। ननु यदि दधिकृतं पाटवं विवक्षितम् - दध्ना कृतः पटुरिति, ततो भवितव्यमेव समासेन; अथ भोजनाद्यपेक्षो दध्नः करणभावः - दध्ना भुङ्क्ते पटुरिति, ततोऽसामर्थ्यादेव न भविष्यति? इहापि तर्हि न स्यात् - कुंकुमेन लोहितं कोपेनं मुखमिति, अत्रापि हि कोरोतिक्रियया करण्सय सम्बन्धः - कुंकुमेन कृतं लोहितामिति। क्व तर्हि स्यात्? शंकुलया खण्ड इत्यादावेव तु स्यात्, यत्र पूर्वोत्तरपदयोः क्रियाकारकलक्षणः सम्बन्धः। तस्माद्यत्रोत्तरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्याद्भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किमिति। जातिवचनेषु जातेर्नित्यत्वात्तत्कृतस्यासम्भवः। क्रियावचने त्विष्यत एव। `कर्तृकरणे कृता बहुलम्' इति द्रव्यवाचिष्वपि तत्कृतस्यासम्भव एव। न ह्याकाशस्य तत्त्वं केनचित् क्रियते, अतो गुणवचनेनैव भविष्यतीति प्रश्नः। गोभिर्वपावानिति। गोसम्बन्धिदध्याद्युपयोगादेव तस्य वपावत्त्वं पूवरत्वमित्यस्ति तत्कृतत्वम्, न त्वसौ गुणवचनः।।

31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।। 2-1-31 ।।
पूर्वसूत्रेऽर्थशब्देन समासस्य साध्तत्वादिहार्थग्रहणमर्थनिर्देशार्तम्। तच्चानन्तरेणोनशब्देनैव सम्बध्यते, न पूर्वादिभिः; समसदृशब्दयोः पृथगुपादानात्। एतदेवेत्यादि। समसदृशशब्दाभ्याम्न्यत्रेदं तद्योगे तुल्यार्थैरिति तृतीयास्ति। इह तुल्यार्थयोगे षष्ठ्यपि पक्षे विधीयते, ततस्तस्याः समासे मातुः सदृशो मातृसदृश इति सिध्दम्, किमर्थमिह सदृशग्रहणम्? `तत्पुरुषे तुल्यार्थतृतीया' इति पूर्वपदप्रकृतिस्वरो यथा स्यात्, सिध्दोऽत्र प्रकृतिस्वरः - `सतृशप्रतिरूपयोः सादृश्ये' इति । तच्च तत्र सदृशग्रहणमवश्यं कर्त्तव्यम्, यदा षष्ठीसमासस्तदान्तोदात्तत्वं मा भूदिति। ननु चेदानीमनभिधानात् षष्ठीसमासो न भविष्यति? नैवं शक्यम्, अनुक्समासे हि दोषः स्यात्,
`षष्ठ्या आक्रोशे' - दास्याः सदृशः, वृषल्याः सदृश इति, तस्मात्तत्कर्तव्यम्, इदं तु न कर्त्तव्यम्? इदमपि कर्त्तव्यम्, हेतुतृतीयार्थं विद्यया हेतुना सदृशो विद्यासदृश इति, न ह्यत्र `तुल्यार्थैः' इति षष्ठी भवति, प्रतियोगिन्येव हि सा विधीयते। एवमपि न कर्त्तव्यम् - तत्कृततत्वात्पुर्वेणैव सिध्दम्, यो हि विद्यया सदृशः, विद्याकृतं हि तत्सादृश्यम्, तत्र पूर्वेणैव सिध्दम्। `मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्' गुडसंमिश्रा धाना इत्येवमर्थम्? ज्ञापकात्सिध्दम्, यदयं `मिश्रं चानुपसर्गमसन्धौ' इत्यनुपसर्गग्रहणं करोति, तज्ज्ञापयति - मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति। पूर्वादिष्विति। अवरशब्दोऽपि सूत्रे पठितव्य इत्यर्थः।।

32 कर्तृकरणे कृता बहुलम् ।। 2-1-32 ।।
`कर्तृकरणे' इति प्रथमाद्विवचनम्। वृत्तौ वस्तुव्याख्यानं कृतम् - कर्त्तरि करणे च या तृतीयेति। तथा चोत्तरत्र वक्ष्यति `कर्तृकरणे कृत्यैः सहाधिकार्थवचने समस्येते' इति। पर्वोपाधिव्यभिचारार्थमिति। अव्याप्त्यतिव्याप्तिपरिहार्थमित्यर्थः। पादहारक इति। ह्रियत इति हारक इति `कृत्यल्युटो बहुलम्' इति कर्मणि ण्वुल्, पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गले चोपक इति। `चुप मन्दायों गतौ', हेतुमण्णिजन्तात्कर्मणि ण्वुल्, `अमूर्ध्दमस्तकात्' यत्युल्क्। कृद्रहणमनर्तकम्; अन्यस्याभावात्। इह कर्तृकरण क्रियाया एव भवतः क्रिया च धातुव्च्या, ध्तोश्च द्वये प्रत्ययाः - कृतस्तिङश्च। तत्र सुपेत्यधिकारात्तिङन्ते न प्रसङ्गः। तद्वितनिवृत्यर्थं तु - इह काष्ठैः पचतितराम्, काष्ठैः पचतिरूपम्, काष्ठैः पचतिदेश्यम्, हस्तेन कृतपूर्वी, दध्ना भुक्तपूर्वी, धृतेनेष्टीति।।

33 कृत्यैरधिकार्यवचने ।। 2-1-33 ।।
स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्त्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यत्तटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेत्तुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेत्तुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्च इति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः।।

34 अन्नेन व्यञ्जनम् ।। 2-1-34 ।।
दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृत्तौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृत्तावन्तर्भूता क्रियेति तद्‌द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः।।

35 भक्ष्येण मिश्रीकरणम् ।। 2-1-35 ।।
खरविशदमिति। खरम् = कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ।।

36 चतुर्थी तदर्थार्थबलिहितसुखरक्षतै ।। 2-1-36 ।।
अर्थः पराभृश्यत इति। यद्यपि चतुर्थीति चतुर्थ्यन्तः शब्दः सन्निहितः, तथापि शब्दं प्रति तादर्थ्यासम्भावात्तदर्थ एव परामृश्यते इत्यर्थः। इत्येतैः शब्दैः सहेति। तत्र तदर्थेन सुबन्तेनेत्यर्थध्दरकं विशेषमम्, स्वरूपेण सुबन्तस्य तादर्थ्यासम्भवात्। द्वितीयस्त्वर्थशब्दः पृथगेव निभत्तम्। प्रकृतिविकारभावे समास इष्यत इति। ज्ञापकात्। यदयं बलिरक्षितग्रहणं करोति तज्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या समस्यत इति; अन्यथा कुबेरबलिः, गोरक्षितमित्यत्रापि तादर्थ्यसम्भवादनर्थकं तत्स्यात्। हितसुखग्रहणं तु `हितयोगे चतुर्थी वक्तव्या', `चतुर्थी चाशिषि' इत्यतादर्थ्येऽपि चतुर्थीसम्भवान्न ज्ञापकम्। यदि विकृतिः प्रकृत्या समस्यते - अश्वेभ्यो घासः, अश्वेभ्यः सुरा ऽश्वसुरम्, `विभाषासेना' इति नपुंसकत्वम्, हस्तिभ्यो विधा हस्तिविधा, विधा = अन्नविशेषः; अत्र न प्राप्नोति? अश्वघासादयः षष्ठीसमासा भविष्यन्ति। ननु स्वरे विशेषो भवति चतुर्थीसमासे हि सति `चतुर्थी तदर्थ' इति पूर्वपदप्रकृतिस्वरेण भाव्यम्, षष्ठीसमासे तु समासान्तोदात्तत्वेन? नैषोऽस्ति विशेषः; चतुर्थीसमासेऽपि नैव पूर्वपदप्रकृति स्वरेण भाव्यम्; ज्ञापकात्, यदयं `क्ते च' इति चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवतित्याह, तज्ज्ञापयति - प्रकृतिविकारभावाभाव एष स्वरो न भवतीति; अन्यथा गोरक्षितमित्यत्रापि `चतुर्थी तदर्थ' इत्येव सिध्देरनर्थकं तत्स्यात्। नैतदस्ति ज्ञापकम्; हितार्थमेतत्स्यात् - गोहितमित्यत्र हि तादर्थ्यं नास्ति। एवमपि `हिते च' इति वक्तव्ये `क्ते च' इति साम्न्यवचनं ज्ञापकमेव, सर्वथा कुबेरवलिरित्याद ौ मा भूदित्येवमर्थ प्रकृतिविकारभावे स्वर एषितव्यः। अथ रन्धनाय स्थालीत्यत्र षष्ठीसमासः कस्मान्न भवति? कश्चिदाह भवत्येव, तद्यथा - गोग्रासः, लालाम्बुजम्, क्रीडासरः, वासभवनम्, नाट्यशालेति। अपर आह - रन्धनस्थाल्यादयोऽनभिधानात् षष्ठीसमास न भवन्तीति। उभावपि प्रतिब्रूमः येषु षष्ठीसमास इष्यते तेषु चतुर्थीसमास एवास्तु, येषु तु नेष्यते तेषु तु चतुर्थीसमास एवानभिधानान्नेष्यताम्, माकारिज्ञापनार्थं बलिरक्षितग्रहणम्, स्वरस्तु चतुर्थीसमासेऽपि पूर्वोक्तेन प्रकारेण प्रकृतिविकारभाव एव व्यवस्थास्यते। किं चैवं सति सूत्रेमेवैतदनर्थकम्, यूपदार्वादावपि षष्ठीसमास एवास्तु, `चतुर्थी तदर्थ' इत्येतत्तु `षष्ठी तदर्थ' इति क्रियताम्, ज्ञापकाच्च स्वरस्य व्यवस्था क्रियत्म्। नन्वर्थभेद। भवति-षष्ठीसमासे सम्बन्धमात्रं गम्यते, चतुर्थीसमासे तु तादर्थ्यं सम्बन्धविशेषः? नैषोऽस्ति विशेषः, आरभ्यमाणेऽपि चतुर्थीसमासे न दण्डवारित- षष्ठीसमासः, तत्रार्थप्रकरणादिना विशेषोऽवसेयः। यद्येवम्, केवलेऽपि षष्ठीसमासे तथा विशेषोऽवसंस्यते, किञ्च सिध्दन्तेऽश्ववघासादिषु तावदर्थप्रकरणादिना तादर्थ्यविसायः सर्वत्रैव तथास्तु, नार्थौऽनेन? उच्यते-हितशब्देन तावत्षष्ठीसमासो न भवति; तद्योगे चतुर्त्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च `क्ते च' इत्यत्रापि चतुर्थीग्रहणं कर्तव्यं गोहितमित्याद्यर्थम्। एवं च गोरक्षितमित्यत्र न स्यात्, चतुर्थ्या असम्भवात्। `षष्ठी तदर्थ' इत्यस्य चाप्रसङ्गः, प्रकृतिविकाराभावादिति रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसंबव्धविशेषस्यनियमेन प्रतीयमानत्वाच्चतुर्थ्या सम्भवितव्यमिति नेनापि चतुर्थीसमास एव चर्तव्यः। बलिसुखग्रहणमपि कर्त्तव्यम्, तादर्थ्यस्य समासे नियमेन प्रतीतिर्यथा समयादित्येवमर्थम्। तस्मादारव्धव्यमेव सूत्रम्। प्रकृतिव्कारभाव एव समास इत्यस्य तु प्रयोजनं चिन्त्यम्। अर्थेन नित्यसमासवचनमिति। अन्था महाविभाषाधिकाराद् ब्राह्मणायार्थ इति वाक्यमपि स्यात्। सर्वेलिङ्गता चेति। परलिङ्गताया अपवादः, अभिदेयवशेन च सर्वलिङ्गता न सर्वत्रेति दर्शयति। ब्राह्मणार्थे पय इत्यादि। सर्थबिति चेत्, इत्संज्ञाभावः, इयङुवङ्प्रसङ्श्च। स्यादेतत् - तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थविति सूत्रं कर्तव्यम्, चतुर्थी वर्तते, चतुर्थसिमर्थात्तदर्थेऽभिधेये सर्थप्प्रत्ययो भवति, सकारः पदसंज्ञार्थः - राजार्थः, गवार्थः, पित्त्वादनुदात्तत्वम्; एवं चार्थ इति पूर्वपदप्रकृतिस्वरो न विधेयः, प्रत्ययत्वाच्च न तेन विग्रहः, तध्दितत्वाच्चाभिधेयवल्लिङ्गता सिध्द्यतीति? तन्न; सकारस्येत्संज्ञाभावप्रसङ्गात्। अथ `आदिर्ञिटुडवः' `षः प्रत्ययस्य' इति द्विषकारकनिर्देशाश्रयणेनेत्संज्ञा स्याद्? एवमपि वुञ्छणादिषु तृणादिभ्यः से प्रसङ्गः, श्र्यर्थम् भ्वर्थमित्यत्र चेयङुवङौ स्याताम्, बहुव्रीहावात्वकपोः प्रसङ्गः। स्यैदेतत् - यद्ब्राह्मणार्थः पयस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति शक्यते वक्तुम्, अतो ब्राह्मणोऽर्थोऽस्येति विगृह्य बहुव्रीहिः करिष्यते, तेन चतुर्थ्यन्तेन । विग्रहाभावः पूर्वपदप्रकृतिस्वरत्वमभिधेयवन्नङ्गता च सिध्द्यतीति? तन्न; महदर्थमित्यत्रत्वकपोः प्रसङ्गात्। तदर्थस्यार्थादेश उदभावप्रसङ्गः। स्यादेतत् - `चतुर्थी तदर्थ' इत्यनेन समासं विधायार्थ इत्यनेनाशेन तदर्थवाचन उत्तरपदस्यार्थशब्द आदेशो विधीयते, विभाषाधिकाराच्च यूपार्थं दारु यूपदार्वितुयभयं भाविष्यति, ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति कुबेरार्थो बलिः कुबेरबलिरित्यादि। किमर्थमिदम्, पूर्वेणैव सिध्दम्? ज्ञापकार्थम्, एतज् ज्ञापयति - प्रकृतिविकाराभावादन्यत्र नित्योऽर्थादेश इति। तेन रन्धनार्था स्थालीत्यादि भवति, न तु रन्धनस्थालीत्यादि। अश्वघासादयस्तु पूर्ववत्। अत्र समासे कृते उत्तरपदस्य विधीयमानेनार्थशब्देन विग्रहो न भविष्यति, यस्यावस्थानेऽर्थादेशस्तल्लिङ्गता स्थानिवद्भाधेन भविष्यति, अर्त इति पूर्वप्रदप्रकृतिस्वरस्तु विधेय एवेति, तन्न; उदकार्थो वीवध इति वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदभावप्रसङ्गात्। अतश्चतुर्थीसमास एव विधयः। तथा चार्तेन नित्यसमासः सर्वलिङ्गता च वक्तव्या? न वक्तव्या, ब्राह्मणायेति चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्ररो न भविष्यति। `लिङ्गमशइष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति कर्वलिङ्गता च सिध्दा।
तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः।
नान्ये सहस्त्रमप्यन्धाः सूर्यं पश्यन्ति नाञ्जसा।।

37 पञ्चमी भयेन ।। 2-1-37 ।।
भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह -- भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्त्वर्थग्रणे `वृकेभ्यस्त्रासः' इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि `पादहारकः' इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति `जुगुप्साविराम' इत्यधर्मस्यापादानसंज्ञा।।

38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।। 2-1-38 ।।
अल्पशब्दाद् `बह्वल्पार्थात्' इति शस, `शसि बह्वल्पार्थस्य' इति पुंवद्भावः। कारकत्वं तु समसनक्रियायां कर्मत्वात्। अत एव पञ्चमी समस्यत इति कर्मणि लकारः। तत्र तु बह्वल्पार्थान्मङ्गले वचनमिति वक्ष्यति। तस्मादत एव निपादनादत्र शसति युक्तम्। अल्पा पञ्चमीति। अल्पाभ्यः प्रकतृतिभ्य उत्पन्नेत्यर्थः।

39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।। 2-1-39 ।।

40 सप्तमी शौण्डैः ।। 2-1-40 ।।
अत्र साहचर्याद् धूर्त्तादिष्वजहत्स्वार्थ एव शौणडशब्दः प्रयुज्यते, यथा - छत्त्रिणो गच्छन्तीति। अत्र च प्रमाणं बहुवचननिर्द्देशः, अतेऽन्तरेणाप्यादिशब्दं तदर्थो गम्यते इत्याह - शौण्हादिभिरिति। गणपाठसामर्थ्यात्तु बहुवचननिर्देशोऽर्थनिर्देशार्यः, बहुवचनान्तस्य वा समासार्थ इति न चान्यत्सप्तम्या निम्त्तमस्ति। न चैतदेव ज्ञापकं शक्यमाश्रयितुम्; शौण्डो देवदत्त इत्यादावपि प्रसङ्गाद्, अत आह - वृत्ताविति। अन्तःशब्दोऽत्र पठ्यते, तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः। अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्, `प्रनिरन्तः' इति णत्वम्। अधिशब्दः पठ्यते, तस्याविकरणप्राधान्येऽव्ययीभावः - अधिसत्‌रीति। आधेयप्राधान्ये ह्ययं तत्पुरुषः - ब्राह्मणाधईनमिति। `अद्युत्तरपदात्खः' इति खः। ब्राह्मणेष्वधीति वाक्यम्।।

41 सिध्दशुष्कपक्वन्धैश्च ।। 2-1-41 ।।
साङ्काश्यसिध्दिः काम्पिल्यसिध्द इति। सङ्काशेन निर्वृत्तं वनं साङ्कायम्। कम्पिलेन निर्वृत्तं काम्पिल्यम्। चातुर्थिकः सङ्काशादिभ्योण्यः तत्र तपसा सिध्द इत्यर्थः।।

42 ध्वाङ्क्षेण ।। 2-1-42 ।।
`स्वं पूपं शब्दस्य' इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृत्तौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः।।

43 कृत्यैर्ऋणे ।। 2-1-43 ।।
यत्प्रत्ययान्तेनैवेष्यते इति । `अल्पशः' इत्यनुवृत्तेरेतल्लभ्यते। कृत्यैरिति बहुवचनं तु प्रकृतिभेप्रायम्। ऋणग्रहणं च नियोगोपलक्षणार्थमिति। नियोगः = अवश्यम्भावः। ऋणमवश्यदेयमिति नियोगसाहचर्यान्नियोगमात्रमुपलक्षयति। तेन किं सिध्दं भवतीत्याह - इहापीति। पूर्वाह्णोगेयमिति। `तत्पुरुषे कृति बहुलम्' इत्युलुक्। यथा ऋणमवश्यं देयम्, एवमिदमपि पूर्वाह्णेऽवश्यं गेयमिति नियोगोऽस्ति।।

44 संज्ञायाम् ।। 2-1-44 ।।

45 क्तेनाहोरात्रावयवाः ।। 2-1-45 ।।
दिवा वृत्तमिति। ऐकपद्यमैकस्वर्यं च न भवति। ननु च दिवाशब्दोऽधिकरमशक्तिप्रधानः तत्रभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमैवास्माद्भवति, अतः सप्तम्यभावादेवात्राप्रसङ्गः। नैषोऽस्ति नियमः - अधिकरणक्तिप्रधान इति; दिवामन्या रात्रिरित्यपि दर्शनात्। कथं `रात्रिवृत्तमनुयोक्तुमुद्यत' इति? `कर्तृकरणे कृता बहुलम्' इति मन्यते। एवं चान्यजन्मकृतमित्याद्यपि भवति।।

46 तत्र ।। 2-1-46 ।।
तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते।।

47 क्षेपे ।। 2-1-47 ।।
अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेतत्तवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः। `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्।।

48 पात्रेसमितादयश्च ।। 2-1-48 ।।
युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी = ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्त्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः।।

49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।। 2-1-49 ।।
भिन्नप्रवृत्तिनिमित्तस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्त्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्त्यर्थम्। क्वचिद् भिन्नन्मित्तप्रयुक्तस्येति पाठः, भिन्नेन निमित्तेन प्रवृत्तिनिमित्तेन प्रवर्त्तितस्येत्यर्थः। `विशेषणं विशेष्येण' इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु `दिक्संख्ये संज्ञायाम्' इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थात्तेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, `एकतध्दिते च' इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्त्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः।।

50 दिक्संख्ये संज्ञायाम् ।। 2-1-50 ।।
`विशेषणं विशेषण' इति सिध्दे नियमार्थमेतत् - संज्ञायामेव ,नान्यत्रेति। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात् समासः।।

51 तध्दितार्थोत्तरपदसमाहारे च ।। 2-1-51 ।।
तध्दितार्थोत्तरपदसमाहारे च ।। `विशेष्येण' इति सिध्दस्य पूर्वेशानियमादप्राप्तविधिरयम्। अगृह्यमाणविषयत्वाद्वायमपि नियमः शक्यते वक्तुम् - अयं नियमः पूर्वो विधिरिति। एकापि सप्तमी विषयभेदाद्भिद्यत इत्याह - तध्दितीर्थे विषयभूत इत्यादिना। तध्दितार्थेऽभिधेय इत्येवं तु विज्ञायामाने पाञ्चनीपितिरित्यादौ दध्दितो दुर्लभः स्यात्; तदर्थस्य समामेनैवोक्तत्वादिति भावः। अस्मिन् पक्षेऽर्थग्रहणं चिन्त्यप्रयोजनम्। दध्दिते विषय इत्येवास्तु, तध्दिते परत इति तु विज्ञायमाने इतरेतराश्रयं प्राप्नोति - समासात्तध्दितो विधेयः, तध्दिते च समास इति। किञ्च - `तध्दितार्थेऽभिधेये' इत्यास्मन् पक्षे न दोषः, `द्विगोर्लुगलपत्ये' इति लुग्वचनं ज्ञापकमुत्पद्यते - द्विगोस्तध्दित इति सर्वतध्दितसाधारणो द्विगुः, तत्रावश्यं विशेषाभिधआनाय तध्दित उत्पद्यत इत्यपि श्कयं विज्ञातुम्। अथेवं कस्मान्न वज्ञायते - तध्दितार्थे द्विगुर्भवति, तध्दितो यथा स्यादिति द्विगुर्भवतीति, यथादारार्थं घटामहे, दारा यथा स्युरिति घटामह इति? नेवं शक्यं विज्ञातुम्; एवं हि विज्ञायमाने दध्दितोत्पत्तये विधीयमाना समाससंज्ञा विषयान्तरे न स्यात्। एवं तस्यैव समासस्य विधीयमाना द्विगुसंज्ञापि, ततश्च पञ्चारत्निरित्यत्र इगन्ते द्विगाविति स्वरो न स्यात्, तस्य तु समाहारद्विगुरवकाशः, यथा - स्वरे विधीयमानः पराङ्गवद्भावः षत्वणत्वयोर्न भवति, तथात्रापि। पौर्वशाल इति। पूर्वस्यां शालायां भव इति तध्दितार्थे विवक्षते समासः, ततस्तध्दितः। पूर्वशालाप्रिय इति। पूर्वा शाला प्रियास्येति त्रिपदे बहुव्रीहौ प्रियशब्दे उत्तरपदे परतः पूर्वयोस्तत्परुषे सति समासान्तोदात्तत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्परुषे सतदि समासान्तोदात्तत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमवतिष्ठेत। समाहारे दिक्शब्दो न सम्भवतीति। स हि समूहरुपत्वाद्भेदनिबन्धनः, संख्यैव च भेदमाचष्टे, दिक्शब्दस्तु प्रत्यर्थनियतः। विभक्तिरपि समासे निवर्त्तते। ननु यथा `काकसमूहः' इत्यत्र विभक्त्यभावेऽपि भेदावगतिस्तथात्रापि भविष्यति, तस्मात्प्रयोगाभावादित्येवात्र हेतुर्वक्तव्यः। पाञ्चनापितिरिति। पञ्चानां नीपितानामपत्यमिति समासे, अत इञ्। पञ्चकपाल इति। पञ्चसु कपालेषु संस्कृत इति समासे `संस्कृत भक्षाः' इत्यणः `द्विगोर्लुगलपत्ये' इति लुक्। पञ्चगवधन इति। पञ्च गावो धवमस्येति त्रिपदे बहुव्रीहौ कृते धनशब्द उत्तरपदे परतः पूर्वयोस्तत्पुरुषे `गोरतध्दितलुकि' इति टचि। अयमुत्तरपदे तत्पुरुषो महाविभाषाधिकाराद्विकल्पेन प्राप्नोति, नित्यो बक्तव्यः; अन्यथा पञ्चगोधन इत्यपि स्यात्। उक्तं च `द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' इति, वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय इति त्रिपदबहुव्रीहौ पूर्वयोर्द्वन्द्वः, स च नित्य इष्यते - नित्यं समासान्तो यथा स्यादिति। पञ्चपूलिति। पञ्चानां पूलानां समाहार इति विग्रहः, न तु पञ्चपूलाः समाहृता इति। भावसाधनो हि समाहारशब्दः - समाहरणं समाहारः = विप्रकीर्णानामेकत्र राशीकरणम्। पञ्चग्रामः, षण्णगरी, त्रिपुरीत्यत्रैकस्मिन् क्षणे क्रियायां समन्वयाद्भिन्नदेशानामपि बुध्द्या राशोकरणं भवति। अथ कर्मसाधने को दोषः? इह पञ्चकुमारीति, कुमार्यर्थप्रधान्यात्समासशास्त्रे चाप्रधमानिर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावाद् `गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वो न स्यात्, काममत्र नुपंसकह्रस्वत्वं सिध्दम्। इह पञ्च खट्वाः समाहृताः पञ्चखट्वीति वा टाबन्त इति सत्रीलिङ्गपक्षे ह्रस्वाभावाद् `द्विगोः' इति ङीब् न स्यात्। भावसाधने तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यं षष्ठ्यैव योग इतेयकविभ्क्तिकत्वात्सिध्दमुपसर्जनत्वम्। तस्माद्भावसादनः। द्विगुरेकवचनमित्येतत्तु `स नपुंसकम्' इति वक्ष्यामीत्याहभ्यते, कथं पञ्चपूलामानयोत्युक्ते पूलानामानयनम्, नान्तरेण द्रव्यानयनं भावानयनं सम्भवति, यथा नान्तरेण प्रत्रानय्नमग्नेरानयनं सम्भवति? एवमपि समाहारग्रहणमनर्थकम्, भावसाधनो हि समाहारशब्दः समूहपर्याययः, समूहश्च तध्दितार्थस्तत्र `तध्दितार्थ' इत्येव सिध्दम्। यद्येवम्, दध्दितोत्पत्तिः प्राप्नोति? उत्पद्यतां दध्दितः, `द्विगोः' इति लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति, पञ्चपूली-`अपरिमाणबिस्ताचित' इति ङीप्प्रातिषेधः प्राप्नोति, `पञ्चगवम्, `गोरतद्वितलुकि' इति टच् न प्राप्नोति? नैष दोषः; अपरिमाणेत्यत्र न तध्दितलुकीत्यपास्य `समाहार' इति वक्तव्यम्, तन्नियमार्थम् - अविशेषेण द्विगोङीब्भवति, अपरिमाणान्ताद्विस्ताचितकम्बल्यान्ताच्च समाहार एवेति, पञ्चानामश्वानां समाहारः पञ्चश्वी। क्व मा भूत्? पञ्चभिरश्वैः क्रीता पञ्चाश्वा। `गोरतद्वितलुक्' इत्यत्राप्यतध्दितलुकीत्यपास्य `द्विगोः समाहार' इति वक्तव्यम्, तन्नियमार्थम् - गोशब्दन्तस्य तत्पुरुषस्याविशेषेण टज् भवति, द्विगोस्तु समाहार एवेति, पञ्चानां गवां समाहारः पञ्चगवम्। क्व मा भूत्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः पटः। एवमपि पञ्चकुमारीत्यत्र `लुक् तध्दितलुकि' इति स्त्रीप्रत्ययस्य लुक् प्राप्नोति। तस्मात्तध्दितनिवृत्त्यर्थम्। समाहारग्रणात्तु समासस्यैव समाहारो वाच्यः, न तध्दितस्येति व्याख्यानात्तध्दितो नोत्पद्यत इति सिध्दमिष्टम्। इह पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इति मत्वर्थम्य तध्दितार्थत्वादयं समासः प्राप्नोति, न बहुव्रीहिः; अशेषत्वात्, तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवण स्यात्। अप्राग्दीव्तीयत्वाद् द्विगोर्लुगापि नास्ति। तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः।।

52 संख्यापूर्वो द्विगः ।। 2-1-52 ।।
क्वचिदनन्तरोऽपोक्ष्यते, यत्रैतदुच्यते - 'अनन्तस्य विधिर्वा भवति प्रतिषेधो वा' इति; क्वचित्समुदायः, यथा - `न षट्स्वस्रादिभ्यः' इत्यत्र वक्ष्यते - तस्मान्नोभाविति, तदिह समुदायोऽपेक्ष्ते? अनन्तरो वा? इति संशयेऽनन्तर इत्याह - तध्दितार्थ इत्यादि। अयं भावः - समुदायापेक्षायां संख्यापूर्वपदसमानाधिकरमसमासमात्रपरिग्रहे द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि स्यादितीगन्ते द्विगाविति स्वरप्रसङ्गः। समानाधिकरणतत्पुरुषापेक्षायामपि एकशाटीत्यत्रापि स्यात्। संख्याशब्दोपादनविहितत्पुरुषपरिग्रहेऽपि `दिक्सख्ये संज्ञायाम्' इत्यस्यापि ग्रहणात्सप्तरषय इत्यत्र द्विगुस्वरप्रसङ्गः। योगविभागश्चानर्थकः, `दिक्सख्ये संज्ञायां तध्दितार्थोत्तरपदसमाहारे' इत्येकयोगः कर्त्तव्यः स्यादिति। कथमेकापूपीति? अत्र ह्येकश्चासावपूपश्चेति पूर्वकालेति समासे कृते द्विगत्वे सति `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' इति `द्विगोः' इतईकारः सिध्द्यति, नान्यथा। न चैकशाटीतिवज्जातिङीष्नेन समासः सक्यतेकर्तुम्, केवलस्यापूपशब्दस्य पूंल्लिङ्गत्वात्? उच्यते - अत्रानन्तरसूत्रेण समाहार एव समासः। नन्वनेकविषयः समाहारो नेकस्य सम्भवति, कथम्? एहैसमप्यपूपं कश्चित्कृपणो दददनेकं मन्यते, तथा दानश्रध्दातिशयादपूपमहत्तवाद्वाऽनेकस्मिन्यः संगमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः, तत्ररोपितबहुत्वाश्रयः समाहार इति सिध्दम् ।।

53 कुत्सितानि कुत्सनैः ।। 2-1-53 ।।
कुत्सितानीति। `कुत्स अवक्षेपणे' मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्त्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः `इच्च' इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति = खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यूते प्रवर्त्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसत्तामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति। `दुल उत्क्षेपे', दुःपुर्वः औणादिकः कूटप्रत्ययः। `बहुलमन्यत्रापि' इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासत्तेः शब्दप्रवृत्तेः शब्दप्रवृत्तिनिमित्तकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र `विशेषणं विशेष्यण' इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्।।

54 पापाणके कुत्सितैः ।। 2-1-54 ।।

55 उपमानानि सामान्यवचनैः ।। 2-1-55 ।।
उपमीयतेनेऽनेत्युपमानमिति। उपपूर्वान्माङः करणे ल्युटि समास इति दर्शयति। भाष्ये तु मानस्य समीपमुपमानमित्यर्थकथनमात्रम्। अव्ययीभावे उपमानानीति रूपासिधिदिप्रसङ्गादिति भावः। उपपूर्वकश्च माङ्सादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्, तद्यथा - गौरिव गवय इति; गौः करणम्, पुरुषः परिच्छेत्ता, स हि गोः सादृश्येन गवयं परिच्छिनत्ति - गोसदृशो गवय इति। सामान्यवचनैरिति। समानशब्दः धर्मः - सामान्यम्, चच्चोपमानस्य श्रुतत्वात्तस्य चोपमेयापेक्षत्वात्तयोरेव साधारणो धर्मो विज्ञायत इत्याह - उपमानोपमययोरित्यादि। तद्विशिष्टोपमेयवनैरिति। तेन साधारणेन धर्मेण विशिष्टं यदुपमेयं तद्वचनैः, न तु साधारणधर्ममात्रवचनैरितियर्थः। वचनग्रहणाच्चायमर्थौ लभ्यते, सामान्यमुक्तवन्तः = सामान्यवचनाः। ये सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः, यथा गुणमुक्तवान् गुणवचन इति। तच्च सामान्यवदुपमानशब्दस्य संबन्धिश्बदत्वात्तदाक्षिप्तमुपमेयमेव विज्ञायत इति सुष्ठूक्तम् - तद्विशिष्टोपमेवचनैरिति। शस्त्रीश्यामेति। अत्र श्यामगुणविशिष्टत्वेन प्रमिध्दत्वादुपमानं शस्त्री, उपमेया देवदत्ता, तयोः साधारणो धर्मः श्यामत्वम्, तदभिधाय तद्विशिष्टायां श्यामाशब्दः पर्यवस्यातीति भवति सामान्यवचनः। ननु च समानाधिकरणेनेति। वर्त्तते, इह च शस्त्रीशब्दः शस्त्र्यां वर्त्तते, श्यामाशब्दस्तु देवदत्तायाम्, यदाह - `उपमानवाचीनि सुबन्तानि तद्विशिष्टोपमेयवचनैः' इति; तथा विग्रहवाक्ये इवशब्दः प्रयुक्तः - शस्त्रीव श्यामेति? सत्यम्; वचनसामर्थ्यात्तु वैयधिकरण्येऽपि समासः। यद्येवम्, मृगीव चपला मृगचपला, हंसीव गद्गदा हंसगद्गदा, पुंवत्कर्मधारयेति सामानाधिकरण्यलक्षणः पुवद्भावो न प्राप्नोति? नैष दोषः; जातायन्तरनिवृत्तिपरायां चोदनायां स्त्रीत्वमकिञ्चित्करम्, तत्र कुक्कुटाण्डम्, मृगक्षीरमित्यादिवदिदमपि सिध्दम्। ननु चान्यदेव चापलं स्त्रियाः, अन्यदेव पुंसः? सत्यम्; जातिमात्रोपादानेऽपि प्रकरणादिवशात् स्त्रीत्वं प्रत्यायिष्यते, तच्च बहिरङ्गत्वान्न स्त्रीप्रत्ययस्य निमित्तम्। अन्यथा पुंवद्भावेन निवृत्तौ स्त्रीप्रत्ययस्य तवापि कथं विशंषावगतिः। अस्त्वेवम्, यदि तु मृगीव चपलेति स्त्रीप्रत्ययान्तस्य समासः क्रियते, तदा मृगीचपलेति प्राप्नोति, न हि तेन समासो दण्डवारितः, समानाधिकरणाधिकारश्च बाध्येत। एवं तर्हि समानाधिरकणसमास एवायम् - शस्त्री चासौ श्यामा चेति, कथं पुनर्देवदत्तायां शस्त्रीश्बदः, जातिवचनो ह्यसौ सादृश्यनिमित्तादभोदोपचारात्, यथा - गौर्वाहीक इति। यद्येवम्, शस्त्रशब्दोऽप्युपमेये संक्रान्त इत्युपमानवाचित्वं नोपपद्यते? सत्यम्; पूर्वावस्थाश्रयेण तूपमानत्वं द्रष्टव्यम्। इवशब्दप्रयोगस्तूपमानप्रदर्शनार्थः, न प्रक्रियावाक्याङ्गमिति न कश्चिद्दोषः। ननु श्यामगुणत्वेन साधर्म्येण शस्त्रीशब्दो देवदत्तायां प्रयुज्यत इति श्यामशब्दो न प्रयोगार्हः, तन्न; बहवो हि शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुः श्यामेति, तत्रासति श्यामगुणेन शस्त्रीत्वसारोपितमिति। ननु सदपि श्यामपदं देवदत्तामुपस्थाप्य चरतार्थमिति नैव शस्त्रीगुणो निर्द्दिश्यते, नैतदस्ति; नैवमत्र वचनं व्यज्यते या श्यामा सा शस्त्रीवेति। कथं तर्हि शस्त्रीव श्यामा देवदत्तेति? अस्यां तु वचनव्यक्ताविवशब्देन तावदुपमेयनिष्ठत्वेन प्रतीयते, उपमेयनिष्ठो गुण उपमानं स्पृशत्येव। अथ वा चन्द्रमुखीत्यादावनिर्दिष्टोऽपि गुणः प्रियदर्शनत्वादिः प्रसिध्दिवशादुपमाननिमित्तत्वेन प्रतीयते, तदोपमेयेऽपि तावच्श्रुतः कथमुपमानं न स्प्रक्ष्यति। फाला इव तण्डुला। दीर्घत्वादिना धर्मेण।।

56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।। 2-1-56 ।।
उपमितमित्यत्र भूतकालो न विवक्ष्यत इत्याह - उपमोयमुपमितमिति। सामर्थ्यादिति। उपमेयमुपमानापेक्षमित्येतत्सामर्थ्येन चेत्सामान्यवाचीति यदा प्रकरणादिवशान्नियतः साधारणगुणः प्रतीयते तदा समासः, यदा तु गुणान्तरव्यवच्छेदाय विशिष्टः साधारणगुणवचनः शब्दः प्रयुज्यते तदा न समास इत्यर्थः। पुरुषोऽयं व्याघ्र इवेति। उपमानप्रदर्शनमेतत्, अत्र हि वैयधिकरण्यात्समासस्याप्रसङ्गः। यदा तु व्याघ्रश्बदस्ताध्दर्म्यात्पुरुषे वर्त्तते तदा सामानाधिकरण्ये सति समासः। अत एवोक्तम् - विशेषणं विशेष्येणेति प्राप्ते इति। पुरुषोऽयं व्याघ्र इव शूर इति। ननु सामान्यशब्दप्रयोगे सति तदपेक्षत्वादसामर्थ्यादेव न भविष्यति, एवं तर्ह्यतज्ज्ञापयति - भवति प्रधानस्य सापेक्षस्य वृत्तिरिति। तेन राजपुरुषोऽभिरुप औपगवः शोभन इत्यादि सिध्दं भवति। न्यायसिध्द एवार्थे लिङ्गदर्शनमिदम्। प्राधान्यादेवानेकोपकार्यत्वसम्भवात्पुरुषव्याघ्रोऽभिरुप इति भवत्येव। शौर्यं ह्यत्र समानधर्मः, नाभिरुपम्। अत एव `सामान्याप्रयोगे' इत्युक्तम्, न तु `गुणाप्रयोगे' इति।।

57 विशेषणं विशेष्येण बहुलम् ।। 2-1-57 ।।
भेदकमिति। असिश्छिनत्तीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति। `शिष्‌लृ शेषणे' विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोत्तरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमित्तकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-`लुब्योगाप्रख्यानात्' इति इह तर्हि कथम् `अथ जयाय नु मेरुमहीभृतः' इति, न मेरुर्महीभृत्त्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पत्तेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव `श्वेतं छागमालभेत' इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति।। विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुत्तरपदस्य विशेषणत्वप्रतिपत्त्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोत्तरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि `पाठक्रमादथक्रमो बलायम्' इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्।।

58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।। 2-1-58 ।।
पूर्वस्यैवायं प्रपञ्च इति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंलग्रहणेनैव सिध्दत्वादिति मन्यते।।

59 श्रेण्यादयः कृतादिभिः ।। 2-1-59 ।।
एकेन शिल्पेन पण्येन वा येदीवन्ति, तेषां समूरः = श्रेणिः। तत्र पृथक्‌स्थितानां श्रेणिकरणे यथा स्यात्, श्रेणिस्थानामेव तु दण्डादिरूपेण करणे मा भूदित्याह - श्रेण्यादिषु च्व्यर्थव्चनमिति इति। श्रण्यादयः पठ्यन्ते इति। तेन तत्रादिशब्दो व्यवस्थावाची। कृतादिराकृतिगण इति। प्रयोगदर्शनेनाकृतिग्राह्यो गणः = आकृतिगणः। अत्रादिशब्दः प्रकारे। च्व्यन्तानामित्यादि। परत्वादिति भावः। आकृतिगणेऽप्युदाहरणरुपेण कतिपयान्पठति। कृत...मतेत्यादि।।

60 क्तेन नञ्विशिष्टेनानञ् ।। 2-1-60 ।।
विशिष्टशब्दोऽयमधिके वर्त्तते, तच्चाधिक्यं क्वचित्सावधारणम्, तद्यथा - देवदत्तो यज्ञदत्तात्स्वाध्यायेन विशिष्टः, स्वाध्यायेनैव विशिष्टोऽन्ये गुणाः समा इति गम्यते। क्वचिन्निरवधारणम्, तद्यथा - देवदत्तो यज्ञदत्स्वाध्यायेन विशिष्टः, स्वाध्यायेन तावद्विशिष्टोऽन्ये गुणाः समा भूयांसो वा नेतन्निरुप्यते। वाक्यस्यैकरूपत्वेऽर्थप्रकरणादिना विशेषनिर्णयः। तत्र निरञ्धारणपक्षे - सिध्दं च तदभक्तं चेत्यत्रापि स्यात्, क्तान्तयोः प्रकृतिभेदेऽपि नव तावधिक इति विशिष्टग्रहणं चानर्थकं स्यात्, क्तेन सनञा नञित्येव वाच्यं स्यात्, अतः सावधारणपक्षमाश्रित्याह - नञैव विशेषो यस्येति। प्रकृत्यादिकमित्यादिशब्देन प्रत्ययोपसर्गयोर्ग्रहणम् तत्र सिध्दं च तदभक्तं चेति प्रकृतिरतुल्या, कर्त्तव्यमकृतमिति प्रत्ययः, प्रकृतं चानपकृतं चेत्युपसर्गः, एवं च पूर्वपदमपि क्तान्तमेव लभ्यत इत्याह - अनञ्क्तान्तमिति। अनञिति शक्यमकर्त्तुम्, न हि पूर्वपदे सनञि उत्तरपदे नञधिको भवति। कृतं च तदकृतं चेति। अवयवधर्मेणायं समुदायस्य व्यपदेशः, एकमेव च वस्त्वेकदेशकरणात्कृतं च भवत्येकदेशाकरणादकृतं चेति नात्र कश्चिद्विरोधः। यदि तर्हि सावधारणपक्ष आश्रीयते, एवं सति यस्य नुडपरो।धिकइडागमे वा, तेन सह समासो न स्यादित्यत आह -- नुडिटाविति। नुडिड्ग्रहणमागमोपलक्षणम्, न्यायस्य तुल्यत्वात्तेनच्छन्नाच्छन्नमिति तुगधिकस्यापि गहणम्‌। अशितानशितेनेति। `अश भोजने' `तस्मन्नुडचि'। क्लिष्टाक्लिशितनेति। `क्लिशः क्त्वानिष्ठयोः' इति पक्षे इट्; तत्र नुट् प्रत्ययान्तभक्तः, इट् प्रत्ययभक्तस्तुक् नञ्‌भक्त इति सर्वेषामुत्तरपदेऽन्तर्भावः। इह तु छाताच्छितमिति `शाच्छोरन्यतरस्याम्' इतीत्वे कृते नेनाधिक्यात्समासो न प्राप्नोति? अत्र केचिदाहुः - नुडिड्ग्रहण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राणमित्यत्र तु निष्ठानत्वस्यासिध्दत्वाद्भेदकत्वाभावः, गौणत्वात्सामानाधिकरण्यस्य पूर्वेण न प्राप्नोतीत्यारम्भः। पूर्वनिपातनियमार्थश्च - कृताकृतमित्येव यथा स्यात्, अकृतमिति मा भूत्। कृतापकृमिति। एकदेशस्येष्टस्य करणादेकदेशस्य चानिष्टस्य करणादेकमववस्तु कृतं भवत्यपकृतं च। भुक्तं च तदत्यवहऋतत्वात्, विभुक्तं चाशोभनत्वाद्भुक्तविभुक्तम्, विशब्दोऽत्रोशोभनत्वं द्योतयति विरूपम्। एवं पीनविपीतम्। गमनम् = गतम्, प्रत्यागमनम् = प्रत्यागतम्, तत् क्षुण्णभुवा प्रत्यागमनेन सह चरितं गमनं गतप्रत्यागतम्, यातं च तदनुयातं तदानीमेव पुनर्गमनात् यातानुयातम्। क्रयाक्रयिकेति। `अल्पे' इति कप्रत्ययः, तदन्तश्च स्वभावात्स्त्रियां वर्त्तते। क्रयाक्रयिकेति `अन्येपामपि दृश्यते' इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते गोबलीवर्दन्यायेन। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति। शाकपार्थवादीनामिति। `सिध्दये' इति शेषः। पृथोरपत्यं पार्थवः, केचित्पाथिवेति पठन्ति, पृथिव्या ईश्वरः पार्थिवः, `तस्येश्वरः' इत्यञ्, तस्याभ्यवहार्येषु शाकं प्रियत्वात्प्रधानम्। तत्र साहचर्यादेव तद्व्यपदेशत्वलाभादुत्तरपदलोपो न वक्तव्यः। समासस्तु वक्तव्यः, गौणत्वात्सामानाधिकरण्यस्य।।

61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।। 2-1-61 ।।
पूज्यमानैरिति वचनादिति। पूज्यमानस्य पूजापेक्षत्वादिति भावुः। अत एव सदिति स्वरूपग्रहणं न शतृशानचोः, न हि तौ पूजामाहतुः। उत्कृष्टो गोरिति। उध्दृत इत्यर्थः। महाजनः, महोदधिरित्यादौ पूजाभावेऽपि विशेषणं विशेष्येणेति समासः। वचनं तु गुणक्रियाश्बदैरपि समासे सदादीनामेव पूर्वनिपातनियमार्थम्।।

62 वृन्दरकनागकुञ्जरैः पूज्यमानम् ।। 2-1-62 ।।
वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्।।

63 कतरकतमौ जातिपरिप्रश्ने ।। 2-1-63 ।।
कतरकठ इति। `गोत्रं च चरणैः सह' इति जातिः तथा च प्रत्युदाहरणमिति। पूर्वं वृत्तिषूपन्यस्तमुपपन्नं भवतीति शेषः।।

64 किं क्षेपे ।। 2-1-64 ।।

65 पोटायुवतिस्तोककतिपयकृष्टिधेनुवशावेहब्दष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ।। 2-1-65 ।।
उभयव्यञ्जनेति। व्यज्यतेऽनेन स्त्रीत्वादिकमिति व्यञ्जनम् = स्तनादि, उभयोः स्त्रीपुंसयोर्व्यञ्जनं यस्याः सा तथोक्ता, नपुंसके पोटेत्यर्थः। पोटाशब्दस्तु तत्रपि स्त्रीत्वयुक्तः प्रवर्तते। शब्दानां चित्रशक्तित्वात् षण्डशब्दो यथा पुमान्।। धूर्त्तग्रहणमकुत्सार्थमिति। कुत्मायां तु `कुत्सितानि कुत्सनैः' इति सिध्दमिति भावः। तत्र कठधूर्त्त इति। यः कठः स धूर्त्त इत्यर्थः, न तु कठत्वं कुत्स्यते।।

66 प्रशंसावचनैश्च ।। 2-1-66 ।।
रूढिशब्दाः प्रशंसावचना गृह्यन्त इति। प्रशंसयेति वक्तव्ये वचनग्रहणादिह ग्रहणं रूढिशब्दानां प्रशंसामात्रवाचिमाम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वायः, ये च जातिशब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति सिंहो माणवक इति, ते सर्वे व्युदस्ता भवन्ति। मतल्लिकादय इति। `मतल्लिका मचर्चिका प्रकाण्डमुध्दतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः। आविष्टलिङ्गत्वादिति। नियतलिङ्गत्वादित्यर्थः। स्वलिङ्गोपादाना इति। स्वस्यैव लिङ्गस्योपादानं येषु ते तथोक्ताः। `प्रशंसावचनपोटायुवति' इत्येकयोगे कर्त्तव्ये योगविभागश्चिन्त्यप्रयोजनः।।

67 युवा खलतिपालितवलिनजरतीभिः ।। 2-1-67 ।।
संज्ञायूनो गहणे गार्ग्यायणः खलतिरित्यादाबेव तु स्यान्न च तस्य जरतीशब्देन सामानाधिकरण्यम्। न च गार्ग्यायणी युवतिरस्ति; सत्रियां युवसंज्ञाप्रातिषेधात्, अतो युवेति स्वरूपग्रहणमित्याह - युवाशब्द इति। खलत्यादिभिः समानाधिकरणैरिति। कथं पुनर्युवशब्दस्य जरतीशब्देन सामानाधिकरण्यम् पुंल्लिङ्गस्य स्त्रीलिङ्गेनेति, तत्राह - स्त्रीलिङ्गनिर्देश इति। अस्यां हि परिभाषायां सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्यापि ग्रहणादुपपद्यते युवतिजरतीशब्दयोः समानाधिकरण्यम्, असत्यां तु नोपपद्यत इत्यर्थापत्त्या परभाषा ज्ञायते। युवखलतीति। `कृदिकारादक्तिनः' `सर्वतोऽक्तिन्नर्थादित्येके' इति ङीष्। वलिशब्दः पामादिः। युवजरन्निति। जरद्भिरित्यपि पाठः केनचिदाचार्येण बोधित इति पुल्लिङ्गेनापि समासो भवतीति भावः। युवतिर्जरतीति। कथं विरुध्दवाचनोः सामानाधिकरण्यम्, अन्योऽन्याधर्मोपलम्भात्तद्रूपत्वारोपाद्भविष्यति। यद्येवम्, विभिन्नलिङ्गयोरप्येवमेव समानाधिकरण्यसम्भवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यम्; युवशब्दस्य पूर्वानिपातनियमार्थं वचनम्, अनियमो हि गुणशब्दत्वात्स्यात्।।

68 कृत्यतुल्याख्या अजात्या ।। 2-1-68 ।।
तुल्यापर्यायाश्चेति। आख्याग्रहणं स्वरूपनिराकरणार्थमिति भावः। भोज्योष्णादावनियमे प्राप्ते पूर्वनिपातनियमार्थं वचनम्। तुल्यमहानिति। `सन्महत्' इत्यस्याकृत्यतुल्याख्येषु सावकाशत्वात्कृत्यतुल्याख्येषु परत्वादयमेव समासो यक्त इति भावः। भोज्य ओदन इति। प्रतिषेधसामर्थ्याद् विशेषणमित्यपि न भवति।।

69 वर्णो वर्णेन ।। 2-1-69 ।।
`विशेषणं विशेष्येण' इति वर्त्तते, तत्र द्वयोः स्वरूपग्रहणेन विशेषणता भवेत्। वर्णश्चासौ वर्णइति। किं व्यावृत्तम्? किमन्वितम्? अथैकत्र विशेषाणां रूपस्यान्यत्र च ग्रहः? शक्लश्चासौ वर्ण इति न स्यात्, वर्णो विशेषणं शुक्लस्य वर्णत्वाव्यभिचारात्, तस्मादुभयत्र विशेषग्रहणमित्याह - वर्णविशेषवाचीत्यादि। कृष्णसारङ्ग इत्यादि। नानावर्णसमाहारः सारङ्गः, तथा सबलः, तस्य वर्णान्तरसमाहारेऽपि भावात्कार्ष्यान्वयो नियते न स्यादिति कृष्णो विशेणम्। एवं लोहिताशब्देऽपि द्रष्टव्यम्। ननु च कृष्णशब्दोऽत्रावयवे वर्त्तते, न समुदाये; तस्य सारङ्गत्वात्, तत्कथमवयववृत्तेः कृष्णशब्दस्य समुदायवृत्तिना सारङ्गशब्देन सामानाधिकरण्यमत आह - अवयवद्वारेणेत्यादि। कृष्णावयवसम्बन्धात्समुदाय एव कृष्ण उच्यत इत्यर्थः। अत एवात्र गौणं सामानाधिकरण्यमिति सूत्रारम्भः। ननु `तृतीया तत्कृतेन' इत्येवात्र सिध्दः समासः कथम्? सारङ्गशब्दो गुणवचनः सारङ्गत्वं कृष्णावय्वकृमित्यस्त्येव सिध्दिः; तत्रायमप्यर्थः - `वर्णो वर्णेष्वनेते' इति पूर्वपदप्रकृतिस्वरो न वक्तव्यो भवति, तत्पुरुषे तुल्यार्थतृतीयेत्येव सिध्दत्वात्, तदवयवं वक्तव्यमेतत्प्रतिषेधार्थम्, इह मा भूत् - कृष्णैतो लोहितैत इति। इदं तु न वक्तव्यम्? इदमपि वक्तव्यम्, इहापि यथा स्यात्-शुक्लबभ्रुः कृष्णशुक्ला हरितशुक्लः बभ्रूकपिलः, यस्य कश्चिदवयवः शुक्लः कश्चिद् बभ्रुः स समुदायोऽवयवय्वशब्दाभ्यां तथोच्यत इति नात्र तत्कृतत्वसंभवः। अत्र कृष्णसारङ्ग इत्यादौ यत्रैकोऽवयवयवशब्दः, अपरः समुदायशब्दः, तत्राव्यवस्याप्रधानत्वादुपसर्जनत्वात्पुर्वनिपातः। द्वयोस्त्ववयवशब्दयोः पर्याय इति द्रष्टव्यम्। इह यस्मिन् प्रयोगे वीरैः पुरषंस्तद्वान् ग्रामः प्रतिपादयितमिष्टस्तत्र प्रथममेवान्यपदार्थविवक्षा कार्या वीराः पुरुषा अस्मिन्सन्तीति वीरपुरुषको ग्राम इति बहुव्रीहिरेव नित्यं यथा स्यात्; अन्यथा पूर्वमनपेक्षितेऽन्यपदार्थे वीराः पुरुषा वीरुपुरुषा इति कर्मधारये कृते पश्चादन्यपदार्थविवक्षायां मत्वर्थीये सति वीरपुरुषवान् ग्राम इत्याद्यनिष्टमपि कदाचिदनुषज्येत। सर्वशब्दस्य त्वकारान्तैः कर्मधारयोऽपीष्यते। तस्माच्च मत्वर्थविवक्षायाम् `अत इनिठनौ' इति ठनं बाधित्वा इनिरेव भवतीति वक्तव्यम् सर्व धनं सर्वधनं तदस्यास्तीति सर्वधनी, सर्वबीजी, कर्वकेशी। यत्र कर्मधारयो जातिविशेषवचनः, तत्र कर्मधारयान्मत्वर्थीयो भवति - कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः, गौरखरवदरण्यम्, गौरमृगवदिति। न हि बहुव्रीहिणा तज्जात्या तद्वत्तवं शक्यं प्रतिपादयितुम्।।

70 ।। कुमारः श्रमणादिभिः ।। 2-1-70 ।।
कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ।।

71 चतुष्पादो गर्भिण्या ।। 2-1-71 ।।
चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्।।

72 मयूरव्यंसकादयश्च ।। 2-1-72 ।।
व्यंसकः = धूर्त्तः, मयूरश्चासौ व्यंसकश्येति व्यंसकशब्दस्य गुणवचनत्वात्पुर्वनिपाते प्राप्ते वचनम्। एवं छात्रव्यसकादीनां कम्बोजमुण्डपर्यन्तानाम्। अन्ये त्वाहुः - मयूरइव व्यंसकः, छात्रइव व्यंसकः कम्बोज इव मुण्डः, यवन इव मुंडः, उमानसमासोऽयम्, `उपमानानि समान्यवचनैः' इत्येव सिध्दे पूनर्विधानं तत्पुरुषं तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरो मा भूदिति, स ह्युपमानसंश्बदेनेन विहिते समासे विधीयत इति। पुनर्दायेति। `पुनश्चनसौ छन्दसि' इति गतिसंज्ञा वार्त्तिककारीयेति।। गणकारेणेदं पठितम्, एहि इडेति यस्मिन्कर्मणि तद् एहीडम्, एवम् एहीयवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा। एवम्-अपेहि वाणिजा, प्रेहिवाणिजा। एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता। इहवितर्का, लोण्मध्यमैकवचनम्। प्रोह करटमिति यस्यां सा प्रोहकरटा; एवं प्रोहकर्दमादय आहरवसनान्ताः। `कृती छेदने' तदेव वचनम्, मुचादित्वान्नुम्। कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। उध्दर उत्सृजेति यस्यां सोध्दरोत्सृजा। `आख्यातमाख्यातेन' इति सिध्देऽसातत्यार्थ वचनम्। एवम् उध्दमविधमा, उत्पचविपचा, उत्पतनिपता। उदक्च अवाक्च उच्चावचम्, उच्चैश्च नीचैश्च उच्चनीचम्, आचितं चोपचितं च आचोपचम्, निश्चितं च प्रचितं च निश्चप्रचम् - सर्व एते निपात्यते। न किञ्चन विद्यते यस्य सोऽकिञ्चनः, स्नात्वाकालकादिषु समासान्तोदात्तत्वं ल्यबभावश्च निपातनात्। प्रतीयमानक्रियापेक्षं च समानकतृकत्वम्-स्नात्वाकालकः संपन्न इति। जहि कर्मणेति। जहीति लोण्यमध्यमैकवचनम्; तदेतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ता विधीयते। जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। अश्नीत पिबतेत्येवं यत्र सततमभिधीयते सा अश्रातपिबता। एवं पचतभृज्जता, `भ्रस्ज पाके' भिन्धि लवणमिति यस्यामभिधीयते सा भिन्धिलवणा। एवं पचलवणा। अविहितलक्षमस्तत्पुरुष इति। यस्य तत्तपुरुषस्य लक्षणं न कृतम्, प्राप्तप्रयोगश्च भवति, स मयूरख्यंसकादेराकृतिगणत्वादत्रैव द्रष्टव्य इत्यर्थः।।
इति श्रीहरदत्तमिश्रविचितायां पदमञ्जयौ द्वितीयाध्यायस्य प्रथम पादः ।।