कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/अष्टमः सर्गः(सुरतवर्णनः)
← सप्तमः सर्गः(उमापरिणयः) | कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५) अष्टमः सर्गः(सुरतवर्णनः) कालिदासः |
नवमः सर्गः(कैलासगमनः) → |
श्रीः ।
कुमारसंभवम्
सी ता रा म क वि कृ त या
संजीविन्या समेतम्
अष्टमः सर्गः ।
शिरसा शकलं शशाङ्कमूर्तेर्भसितं विभ्रतमङ्गकेन भूरि।
गरलं च गलेन चिन्तयामो हरमर्धाङ्गहराद्रिराजकन्याम् ॥
टीका सप्तसु मल्लिनाथकृतिना संजीविनीसंज्ञिका
या सर्गेषु कुमारसंभवमहाकाव्यस्य चक्रे पुरा।
सैवैतर्ह्यवशिष्टदिक्प्रमिततत्सर्गेषु विद्वन्मुदे
सीतारामकवीश्वरेण हि यथाप्रज्ञं समापूर्यते ॥
टिप्प०-1 मल्लिनाथीयमग्रिमाष्टमसर्गस्य व्याखानं सीतारामकविसमादृतपाठाद्विभिन्न मूलपाठवत्त्वाच्च ग्रन्थान्ते टीकानुगुणमूलेन सर्ग संयोजितमस्ति । मल्लिनाथः कुमारसंभवकाव्यस्य सप्तमसर्गे यावदेव व्याख्यानमररचदिति सीतारामकव्युक्त्यैतया सुस्फुटमनुमीयते, परं त्वष्टमसर्गटीकापि मलिनाथीया ह्येतद्ग्रन्थान्ते संयोजिता यत्रतत्र त्रुटि बहुल वरीवर्तते; तत इयमारेका संभवति-किमिदमष्टमसर्गव्याख्यानं मल्लिनाथीयमन्यकर्तृकं वा? अपि चेन्मल्लिनाथीयं तर्हि सीतागमादिटीकाकृद्भिः किं तदनुपलब्धमामीदिति च । भट्टनारायण-नाथादीनामपि टीका त्वष्टमसर्गावधि लभ्यते, अत: कालिदासप्रणीतं कुमारसंभव- मष्टममर्गपरिमितमेवेत्यवांचीनैरनुमन्यते । एतन्मतादरणं हि जिज्ञासा संभवति-को नाम रचयिताऽस्याग्रिमग्रन्थस्य, कथं वा विना कुमारोत्पत्तिवर्णनेन 'कुमारसंभवम्' इति कविकुलालङ्कारेणास्यानन्वर्थाभिधानकरणे हेतुरिति । सप्तसर्गान्तं कुमारसंभवमिति मतं तु 'नातिस्वल्पा 'नातिदीर्घाः सर्गा अष्टाधिका इह ' (सा. द. ६।३२० ) इत्यष्टसर्गान्यूनत्वलक्षितमहाकाव्यलक्षणाव्याप्तिप्रसंगात् 'कुमारसंभवमहाकाव्यस्य' इत्युक्त्या व्याहतमेव भवेत् । नवपरिणीतगिरिजारहाकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते--
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥१॥
पाणिपीडनविधेरिति ॥ पाणिपीडनं नाम षोडशविधेषु संस्कारेषु कश्चित्संस्कारविशेषः । पीडयति यस्मिन्निति पीडनम् । 'करणाधिकरणयोश्च' (पा.३।३।११७) इति ल्युट् । पाणेः करतलस्य पीडनं ग्रहणम् , विवाह इत्यर्थः । पाणेरिति कृद्योगलक्षणा कर्मणि षष्टी, तस्य विधेर्विधानात् । 'विधिर्विधाने दैवेच' इत्यमरः । अनन्तरं पश्चात् । भावसाध्वसयोः कामेच्छातिभययोः परिग्रहात् , परिग्रहं ग्रहणं कृत्वेत्यर्थः । ल्यब्लोपे पञ्चमी। मुग्धत्वादुभे अप्यवलम्ब्येति भावः। 'भावः स्वभावेऽभिप्राये चेच्छासत्तात्मजन्मसु' इति विश्वः । स्थिताया इति शेषः। इयं च मुग्धाभेदो नवोढा। तदुक्तं भानुमित्रैः-'लज्जाभयपराधीनरतिर्नवोढा' इति । शैलराजस्य हिमालयस्य दुहितुः कन्यायाः पार्वत्या वपुरङ्गम् । हरं शिवं प्रति, लक्षयित्वेत्यर्थः । 'लक्षणेस्थं- (पा.१।४।९०) इति प्रतेः कर्मप्रवचनीयसंज्ञा । तद्योगे 'कर्मप्रवचनीययुक्ते-'(पा.२।३।८) इति द्वितीया। कामे यद्दोहदमभिलाषः, इच्छेति यावत् । 'अथ दोहदम् । इच्छा काङ्क्षा' इत्यमरः । कामविषयकोऽभिलाष इत्यर्थः । तेन निमित्तेन मनोहरं रुचिकरमभूत् , अतिमनोहराण्यपि कामिनीवपुंषि स्वकामेच्छयैव रोचकानि भवन्तीति भावः । सर्गेऽस्मिन् रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ' इति लक्षणात् । रसश्च प्रायः संभोगशृङ्गार एव ॥ १॥
इदानीं लक्षणरीत्या नवोढात्वमेव दशभिः प्रपञ्चयति-
व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥२॥
व्याहृतेत्यादि ॥ सा पार्वती व्याहृता प्रियेण पृष्टा सती प्रतिवचः प्रत्युत्तरं न संदधे, न दत्तवतीत्यर्थः । तथावलम्बितं करेण धृतमंशुकं वस्त्रं यस्यास्तथोक्ता सती गन्तुमैच्छत् । तथा पराङ्मुखी परिवर्तितवदना सती शयनं पर्यङ्कं सेवते पाठा०-१ दौहृदसुखं मनोहरम्. स्म सिषेवे। तथापि तस्यां प्रतिकूलवर्तिन्यामपि सत्यां पिनाकिनो हरस्य रतये प्रमोदाय बभूव, प्रियायाः प्रतिकूलव्याप रैरपि प्रियः प्रसन्न एवाभूदित्यर्थः । तस्य मुग्धास्वभावबोधकुशलत्वादिति भावः ॥ २ ॥
कैतवेन शैयिते कुतूहलात्पार्वती प्रति मुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये विद्युताहतमिव न्यमीलयत् ॥३॥
कैतवेनेति ॥ पार्वती कर्त्री। प्रिये हरे कुतूहलाकैतवेन मिथ्यैव शयिते सुप्ते सति, किमियं कुर्यादित्यभिप्रायेणेति भावः । मुखं प्रेयोमुखं लक्ष्यीकृत्य निपातितं निक्षिप्तम् , 'किमयं स्वपिति जागर्ति वा?' इत्यभिप्रायादिति भावः । चक्षुः स्वनेत्रं कर्म । अथ च प्रिया इत्याकाङ्क्षावशात्पुनरपि संबध्यते । सस्मितं समन्दहासं यथा स्यात्तथोन्मिषत्युज्जाग्रति सति विद्युताहतमिव प्रतिहतमिवेस्युत्प्रेक्षा । न्यमीलयत् , मुद्गयति स्मेत्यर्थः ॥ ३ ॥
नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः ।
तेद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविवन्धनम् ॥४॥
नाभिदेश इति ॥ नाभिदेशे निहितः स्थापितः, नीवीमोचनार्थमित्ति भावः । शंकरस्य करस्तया पार्वत्या सकम्पया सत्या रुरुधे प्रतिरुद्धः। कर्मणि लिट् । अथ च तद्दुकूलं तस्या दुकूलं वस्त्रं कर्तृ । स्वयमात्मना, नतु प्रेरकनियोगात् दूरमतिशयितमुच्छ्रसितमुद्घाटितं नीव्या बन्धनं यस्य तथोक्तमभवत्, सात्त्विकभावादिति भावः ॥ ४ ॥
एवमालि! निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥५॥
एवमिति ॥ सा पार्वती कर्त्री। हे आलि हे सखि पार्वति ! त्वया रहसि निगृहीतं त्यक्तं साध्वसं भयं यस्मिन्कर्मणि यथा तथा शंकरः सेव्यतामित्येवंभूतं सखीभिः कर्त्रीभिः । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । उपदिष्टमुपदेशम्। भावे निष्ठा । प्रिये प्रमुखवर्तिनि सत्याकुला संभ्रान्ता सती नास्सरत् ॥५॥
पाठा०-१ शयने. २ विद्युतेव निहितम्, ३ सशङ्कया. ४ तन्नितम्बमभवत्तदा; तन्नितम्बमथ चाभवत्. अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ ६ ॥
अपीति॥ पार्वत्यनङ्गशासनं प्रियं कथायां संभाषणे प्रवृत्तये, लजावशान्मां प्रति मौनमाश्रिताया अस्याः संभाषणे कथमपि प्रवृत्त्यर्थमित्यर्थः । अवस्तुन्यप्यलभ्यपदार्थेऽपि प्रश्नतत्परं परिवीक्ष्य ज्ञात्वा । हृच्चक्षुषावेक्षणमिहापेक्षितम् । वीक्षितेन प्रियसंमुखमवलोकनेन मूर्ध्नः कम्पस्तन्मयं तद्रूपम् , न हि किंचिन्मयापेक्षितमित्यभिलाष व्यञ्जकमिति भावः । उत्तरं ददौ ॥ ६ ॥
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ७॥
शूलिन इति ॥ रहसि हृतांशुका, रतार्थमिति भावः । अत एव करतलयोर्द्वयेन शूलिनः प्रियस्य नयने, द्वे इति शेषः । संनिरुध्यावृत्य स्थिता सा पार्वती । तस्य ललाटलोचने तृतीये नेत्रे पश्यति सति । मोघो निष्फलो यत्नो यस्या अत एव विधुरा दुःखिता । ततो विशेषणसमासः । अभूत् ॥ ७ ॥
चुम्बनेष्वधरदानवर्जितं खिन्नहस्तमदयोपगूहनम् ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ।। ८॥
चुम्बनेष्विति ॥ चुम्बनेश्वधरदानेनाधरोष्ठखण्डनेन । 'दो अवखण्डने' । भावे ल्युट । वर्जितं रहितमपि तथा खिन्नहस्तं मन्दप्रचारितकरम् , स्तनयोरिति शेषः । गम्यमानार्थत्वादप्रयोगः । 'पाणिः' इति पाठे भिन्नं पदम् । तदा खिन्नपाण्यपीति योजनीयम् । सदयमगाढं यदुपगृहनमालिङ्गनं तद्यस्मिंस्तादृशमपि । अत एव क्लिष्टः परितोषाभावात्खिन्नो मन्मथः कामो यस्मिंस्तत्तथोक्तमपि । तथा दुर्लभं प्रतिकृतं प्रतीकारो यस्य, रसाभासभियेति भावः । प्रतिकृतमिति भावे निष्ठा । तथोक्तमपि वधूरतं प्रियासुरतं प्रभोः प्रियस्य प्रियं प्रीतिजनकम् । 'इगुपध-' (पा. ३।१।१३५) इति कः । अभूदिति शेषः ॥ ८ ॥
यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत् ।
यद्रतं च सदयं प्रियस्य तत्पार्वती विपहते स्म नेतरत् ॥ ९॥
पाठा०-१ परिगृह्य. २ सन्नहस्तमदयोपगूहने. ३ दत्तम्. ४ नखं च. ५ हर स्य. यदिति ॥ पार्वती प्रियस्य प्रियकर्तृकम् । 'कर्तृकर्मणोः-' (पा. २।३।६५) इति कर्तरि षष्ठी । अक्षताधरमदष्टाधरोष्ठं यन्मुखस्य ग्रहणं चुम्बनार्थं करेणादानम् । तथाऽव्रणपदमदत्तचिह्नं यन्नखस्य दानम् । इह कर्मणः शेषत्वविवक्षायां षष्टी । अन्यथा 'न लोक-' (पा. २।३।६९) इति तन्निषेधः प्रसज्जेत । तथा सदयं स्पर्शमात्रविरामं यच्च रतम् । मध्यान्तयोस्तृतीयान्तेन संबन्धः । 'न लोक-' (पा. २|३|६९) इति कृद्योगलक्षणायाः षष्ठ्या बाधात् । तद्विषहते स्म सोढवती । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । 'परिनिविभ्यः' (पा. ८।३।७०) इति षत्वम् । इतरत्कठोरमुखग्रहणादि न विपहते स्मेत्यर्थः ॥ ९ ॥
रात्रिवृत्तमिति ॥ प्रभातसमये रात्रिवृत्तं नैशं वृत्तान्तम् । 'वाच्यवद्वर्तने वृत्तं चरित्रच्छन्दसोरपि' इति विश्वः । अनुयोक्तुं प्रष्टुम् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं सखीजनं सा पार्वती ह्रिया हेतुभूतयाऽपकुतूहलं शमितजिज्ञासाकौतुकं नाकरोत्, नोत्तरयांचक्र इत्यर्थः । अथ च हृदयेन, मनसा तु कर्तृणा शंसितुमुत्तरं कर्तुं तत्वरे त्वरितम् । भावे लिट् ॥ १० ॥
दर्पण इति ॥ किंचेति चार्थः । दर्पणे परिभोगदर्शिनी संभोगचिह्नावलोकिनी सा पार्वती । पृष्ठतो निषेदुषः स्थितवतः प्रणयिनो हरस्य बिम्बं मुखमण्डलम् । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । आत्मन उपबिम्बं बिम्बसमीपे । 'अव्ययं विभक्ति-'(पा.२।१।६) इति समीपार्थेऽव्ययीभावः । पतितं प्रेक्ष्य लज्जया कानि कानि चेष्टाविशेषचमत्कृतानि न चकार, अपि तु सर्वाणि चकारैवेत्यर्थः ॥ ११ ॥
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी स[५]माश्वसत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ १२ ॥
नीलकण्ठेति ॥ जननी मेना । तां पार्वतीं नीलकण्ठेन शिवेन परिभुक्तं यौवनं यस्यास्तथोक्तां विलोक्य समाश्वसदाश्वासं प्राप, हृष्टवतीति यावत् । तथा हि-वधूजनो मातुर्मानसीं मनसिजां शुचं शोकं भर्तृवल्लभतया भर्तृप्रीति- पात्रतयाऽस्यति क्षिपति । 'असु क्षेपणे' लट् । आत्मजासु पतिप्रसाद एव मातृणां मुदो हेतुरिति भावः ॥ १२॥
वासराणि कतिचित्कथंचन स्थाणुना रतमकारि चानया ।
ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥१३॥
वासराणीति ॥ कतिचिद्वासराणि दिवसान् । 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इत्यमरः । 'कालाध्वनो:-' (पा.२|३।५) इति द्वितीया । स्थाणुना शिवेन । 'स्थाणू रुद्र उमापतिः' इत्यमरः । अनया पार्वत्या सह कथंचन बलेन रतं सुरतमकारि कृतम् , तदनुकूलरसोत्पत्यभावादिति भावः। अथ च सा शनैः शनैर्ज्ञातो मन्मथरसो यया तथा सती रतौ या दुःखशीलता दुरवगाह्यस्वभावता तां मुमोच, स्वयमप्यनुरज्यति स्मेत्यर्थः ॥ १३ ॥
तदेवाह-
सखजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥
सस्वज इति ॥ सा पार्वती। उरसो निपीडनं यस्मिन्कर्मणि यथा स्यात्तथा प्रियं सस्वज आलिङ्गितवती, तथाऽनेन प्रियेण प्रार्थितम् चुम्बनार्थमित्यर्थः । मुखं नाहरन्नावक्रयत्। परंतु मेखलया काक्ष्या सह यः प्रणयः स्नेहस्तत्र या लोलता, जिघृक्षया मन्दप्रसरणमित्यर्थः। तां गतं प्राप्तमस्य प्रियस्य हस्तं पाणि शिथिलं मन्दं यथा तथा रुरोध, न तु प्रागिवेति भावः ॥ १४ ॥
भावसचितमदृष्टविप्रियं दार्ढ्यभाक्क्षणवियोगकातरम् ।
कैश्विदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम् ॥ १५ ॥
भावेति ॥ भावेन स्वगतत्वाभिव्यञ्जकचेष्टाविशेषेण सूचितं ज्ञापितम् । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इति मेदिनी । तथा न दृष्टं विप्रियमौदासीन्यं यत्र । तथा दार्ढ्यं दृढत्वं भजति तथोक्तम् । तथा क्षणवियोगेऽपि
पाठा०-१ पदमकार्यत प्रिया. २ रत. ३ निपीडितम् ; निपीडिता. ४ चाटुतत्क्षण; चाटुमत्क्षण.५ तदा. ६ रूढम्. कातरम् , तदसहिष्ण्वित्यर्थः। गूढं सखीजनानभिज्ञेयं तयोः शिवपार्वत्योः प्रेम नेहः। 'प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । कैश्चिदेव दिवसैरितरेतराश्रयं परस्परनिष्ठम् , अभूदिति शेषः ॥ १५ ॥
प्रेम्णः परस्पराश्रयत्वमेव प्रपञ्चयति-
तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैवा ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकवृत्तिभाक् ॥१६॥
तमिति ॥ वधूः पार्वती । आत्मसदृशं तं वरं शिवमनु लक्षयित्वा यथा येन प्रकारेणारज्यत । 'रञ्ज रागे' दैवादिकाल्लङ् ! वरः शिवस्तां वधूमनु तथैवारज्यत । हि यथा जाह्नवी सागरासमुद्रादनपगाऽनिवर्तमाना, अस्तीति शेषः । सोऽपि समुद्रोऽपि तस्या जाह्नव्या मुखसंबन्धिनि रस एकां केवलां वृत्तिं भजतीति तथोक्तः, अस्तीति शेषः । उपमालंकारः ॥ १६ ॥
शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ।। १७॥
शिष्यतामिति ॥ निधुवनोपदेशिनः सुरतोपदेष्टुः शंकरस्य शिष्यतामुपदेश्यतां प्रपन्नया प्राप्तया तया पार्वत्या रहसि यद्युवतीषु त्रिजगद्विलासिनीपु मध्ये नैपुणं कौशलं शिक्षितमधीतम् । तदेव नैपुणशिक्षणमेव गुरुदक्षिणीकृतं गुरोरदक्षिणा दक्षिणा यथा संपद्यते तथा कृतम् । अभूततद्भावे च्विः। 'अस्य च्वौ' (पा.७।४।३२) इतीकारः । शिवोपयोगित्वेन तत्कृतसुरतारम्भानुगुणसुरतकौशलमेव दक्षिणात्वेन परिणतमिति भावः । इह वाक्यार्थवृत्तिनिदर्शनालंकारः; 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना' इत्युक्तत्वात् ॥ १७ ॥
दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥१८॥
दष्टमुक्तमिति ॥ अम्बिका पार्वती पूर्व दष्टं पश्चान्मुक्तमधरोष्ठं वेदनया पीडया विधुतौ कम्पितौ हस्तौ पाणी एव पल्लवौ यया तथोक्ता सती शीतलेन शूलिनः शिवस्य मौलौ यच्चन्द्रस्य शकलं कलारूपं तेन कृत्वा क्षणं निरवापयत् , सुखयति स्मेत्यर्थः ॥ १८॥
पाठा०-१ निर्वृतिः, २ तत्. प्रियानुरागव्यञ्जकचेष्टामाह-
चुम्बनादलकचूर्णदूषितं शंकरोपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ १९ ॥
चुम्बनादिति ॥ चुम्बनाद्वेनोरलकचूर्णेन केशप्रसाधनचूर्णविशेषेण दूषितमवरुद्ध ललाटजं ललाटे जातम् । 'सप्तम्यां जनेर्डः' (पा.३।२।९७) इति डप्रत्ययः । अलुको वैभाषिकत्वान्नालुक् । नयनं नेत्रम् । उक्छ्वसत्कमलगन्धये विकसत्कमलसुगन्धये, पद्मीनीत्वादिति भावः । 'उपमानाच्च' (पा.५।४।१३७) इतीकारः । 'गन्धो गन्धक आमोदे' इति विश्वः । पार्वत्या वदनमेव गन्धवाही पवनस्तस्मै । 'गन्धवाहानिलाशुगाः' इति कोशनिर्दिष्ट गन्धवाह' शब्दस्य गन्धं वहतीति योगालम्बनेन 'गन्धवाहि'शब्देनापि वायुवप्रतीतिः। रूढ्यालम्बने त्वण्प्रत्ययान्तस्यैव पवनत्वप्रतीतौ शक्तिमत्त्वादवाचकपददोषप्रसङ्ग इति बोध्यम् । ददौ, तत्राधो रजो निवर्तयितुं स्थापितवानित्यर्थः ॥ १९॥
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया मासमात्रमवसद्वृपध्वजः ॥ २० ।।
एवमिति ॥ एवमिन्द्रियाणि सुखयतीतीन्द्रियसुखः। 'सुख शब्दात् करोत्यथंकणिजन्तात्पचाद्यच् । णिज्लोपश्च । तस्य वर्त्मनः सेवनादाचरणाद्धेतोरनुगृहीतः प्रसादितो मन्मथो येन, स्ववपुर्योजनादिति भावः । अत्र 'परिणेष्यति पार्वतीं यदा वपुषा स्वेन नियोजयिष्यति' (४।४२) इति चतुर्थसर्गोक्तमनुसंन्धेयम् । तथोक्तो वृषध्वजो हरः शैलराजभवने हिमालयगृह उमया पार्वत्या सह मासमात्रं त्रिंशद्दिनात्मकः कालो मासस्तमेवावसत् । 'कालाध्वनो:-'(पा.२।३|५) इति द्वितीया । 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः ॥ २० ॥
सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् ।
तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता ॥ २१ ॥
स इति ॥ स आत्मभूः शिवः। आत्मजायाः पार्वत्या विरहदुःखेन खेदितं हिमवन्तमनुमान्य तत आज्ञां गृहीत्वा। अप्रमेयवत्स्वेव स्थानेषु वर्तत इत्यपरिच्छेद्या गतिर्गमनव्यापारो यस्य तथाभूतेन ककुद्मता नन्दिना तत्र तत्र पर्वते
पाठा०-१ चात्मनः. २ मासमेकम्. ३ अनुमन्य. ४ पीडितम्. ५ संचरन्. संपतन्संचरमाणो विजहार विहारं कृतवान् । इह 'संचरन्' इति पाठोऽसाधुः । 'समस्तृतीयायुक्तात्' (पा.१।३।५४) इति नित्यमात्मनेपदनियमाच्छतुर्दोर्लभ्यात् । अमन्तमार्गपद शेषयित्वा सकर्मकत्वादप्रसङ्ग इति केचित्समर्थयन्ते ॥ २५ ॥
मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती ।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥ २२ ॥
मेरुमिति ॥ मरुदिवाशु गच्छतीति मरुदाशुग उक्षा वृषभो यस्य सः । 'शेषाद्विभाषा' (पा.५।४।१५४) इति कप् । कृती कुशलो हरः । मेरुं सुमेरुम् । 'मेरुः सुमेरुहेमाद्रिः' इत्यमरः। एत्यागत्य पार्वत्याः स्तनाभ्यां पुरस्कृतान्पूजितानाश्रयत्वेन स्वीकारात् । अल्पीयसां महत्स्वीकार एव पूजात्वेन परिणमतीति भावः। महतामल्पीयःस्वीकारे को हेतुरित्याशङ्क्या विशेषयति-सुरतेति । सुरतेषु यानि मर्दनानि तेषु क्षमान्सहिष्णून् । हेम्नः पल्लवानां विभङ्गाः खण्डास्तेषां संस्तरानास्तरणान्यन्वभूत् , तत्र सुप्त्वा विजहारत्यर्थः । अल्पीयसामपि सहिष्णुत्वं हेम्नो विकारत्वात् । अल्पीयस्त्वं तु पदो लवः पल्लव इति श्लिष्टार्थमहिम्ना समर्थ्यते ॥२२॥
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः ।
मॅन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥ २३ ॥
पद्मनाभेति ॥ हरः। पद्मनाभो हरिः । ‘पद्मनाभो मधुरिपुः' इत्यमरः। तस्य चरणाभ्यामङ्किताश्चिह्निता अश्मानो येषाम् । एतेन हरेरपि विहारयोग्यत्वं ध्वन्यते । तथा नवा अमृतविप्रुषोऽमृतबिन्दून् । 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्यमरः। प्राप्तवत्सु, समुद्रमन्थनसाधनत्वादस्येति भावः । मन्दरस्य च कटकेषु नितम्बेषु । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । पार्वत्या वदनरूपे पद्मे षट्पदो भ्रमरः सन् । अवसद्वासमकरोत् ॥ २३ ॥
रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः ।
एकपिङ्गलगिरौ जगद्गुरुनिर्विवेश विशदाः शशिप्रभाः ॥२४॥
रावणेति ॥ जगतां गुरुनियन्ता । उत्पत्त्यादित्रिविधकर्मणां गुणभेदेन कार- कत्वादिति भावः । शिवः । एकपिङ्गलस्य कुबेरस्य । 'यक्षैकपिङ्गैलविलश्रीदपुण्य- जनेश्वराः' इत्यमरः। गिरौ कैलासे रावणस्य प्रसिद्धराक्षसस्य ध्वनितात्सिंहना-
पाठा०-१ आशुवाहनः, २ संस्तराम्. ३ सुरततत्परः क्षपाम्. ४ वलय. ५ मान्दरेषु. ६ वारणखनित. ७ मृदु. । । दादीतया तया पार्वत्या कण्ठे सक्तं सज्जितं दृढं बाहुबन्धनं यस्य स तथोक्तः सद् विशदाः स्वच्छाः, शारदिका इति भावः । शशिनः प्रभाः कौमुदीर्निर्विवे- शोपभुक्तवान् ॥ २४ ॥
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। २५ ॥
तस्येति ॥ जातु कदाचित् । तस्य तत्कर्तृके । मलयस्थलीषु रतं सुरतं तत्र सति । धूताः कम्पिताश्चन्दनानां चन्दनवृक्षाणां लताः शाखा येन स तथोक्तः । लवङ्गानां केसरैः किञ्जल्कैः सह वर्तत इति तथोक्तः । दक्षिणानिलो मलयपवनः। चाटुकार इव मधुरभापीव । प्रियायाः क्लमं खेदमाचचाम, हृतवानित्यर्थः ॥२५॥
हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
सा व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥२६॥
हेमेति ॥ सा उमा पार्वती हेम्नस्तामरसेन रक्तोत्पलेन तटोत्पनेन ताडितः प्रियो यया सा, परिहासविधित्सयेति भावः । तथा तस्य प्रियस्य कराम्बुना हस्ताक्षिप्त- जलेन विनिमीलिते ईक्षणे नेत्रे यया। तथा मीनपङ्क्त्या पुनरुक्ता मेखला रशना यस्यास्तथोक्ता सती। तरङ्गिणी नदी व्यगाहत विजगाहे, जलक्रीडां चकारेत्यर्थः। 'तरङ्गिणी शैवलिनी' इत्यमरः ॥ २६ ॥
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ।। २७ ।।
तामिति ॥ अयुग्मानि विषमाणि, त्रीणीति यावत् । लोचनानि यस्य स तथोक्तः शिवो नन्दन इन्द्रोद्याने पुलोमतनया शची। 'पुलोमजा शचीन्द्राणी' इत्यमरः । तस्या अलकेषु कशेषूचितैः पारिजातकुसुमैः कल्पवृक्षपुष्पैस्तां पार्वती प्रसाधयन्भृषयन् , तथा सुरवधूभिर्देवाङ्गनाभिः सस्पृहमीक्षितः सन् , चिरमव- सदिति शेषः ॥ २७॥
इत्यभौममनुभूय शंकरः पार्थिवं च दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत ॥२८॥
पाठा०-१ रतेधूतचन्दनलतः; रते धूतचन्दनवनः, २ सतुषारशीतलः. ३ खे. ४ मेखलाम्. ५ सुरवधूभिरेक्ष्यत; सुरवधूनिरीक्षितः; सुरवधूभिरैक्षत. ६ वनिता. ७ गिरिम्. इतीति ॥ शंकरः इत्येवमभौमं स्वर्गीयं तथा पार्थिवं भौमं च सुखम् । दयि- तासखः सन्ननुभूय कदाचित्समय आतपे सूर्ये लोहितायति रक्तवर्णे जायमाने सति । 'लोहितादिडाज्भ्यः क्यष्' (पा. ३।१।१३) इति क्यष् । गन्धमादनस्य गिरेर्वनं व्यगाहत, तत्र क्रीडितुं जगामेत्यर्थः ॥ २८ ॥
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार महधर्मचारिणीम् ॥२९॥
तत्रेति ॥ तत्र गन्धमादनवने स हरो भास्कर सूर्य नेत्रगम्यं नेत्रप्राप्यम् , नेत्रावलोक्यमिति यावत् । अवलोक्य विचार्य । काञ्चनं सौवर्ण शिलातलमाश्रयो यस्य तथोक्तः सन् । दक्षिणेतरो भुजो वामभुजस्तत्र व्यपाश्रयः संबन्धो यस्या- स्ताम् , तत्र स्थितामित्यर्थः । सहधर्मचारिणीं पत्नीं पार्वतीं व्याजहारोक्तवान् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ॥ २९ ॥
पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ ३० ॥
पद्मेति ॥ हे प्रिये ! अमौ पुरोवर्यहर्पतिः सूर्यः । अरुणौ त्रिभगौ तृतीयांशौ ययोस्तयोस्तव नेत्रयोरिव पद्मकान्ति कमलशोभां संक्रमय्य तुलयित्वा, कमल- प्रतिनिधित्वेन रात्रौ तव नेत्रकमल एव स्थास्यत इति विचार्येति भावः। संक्षये प्रलये प्रजेश्वरो ब्रह्मा जगदिव। अहो दिनं संहरति, स्वस्यास्तंगतत्वादिति भावः । अत्र गम्योत्प्रेक्षा ॥ ३०॥
सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्वजन्त्यमी ॥ ३१ ॥
सीकरेति ॥ हे प्रिये ! अवनते नम्रीभूनते, अस्तंगत इति यावत् । विवस्वति सूर्ये मरीचिभिः स्वकिरणैः सह सीकराणां जलकणानाम् । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । व्यतिकरं संबन्धं दूरयति दूरं कुर्वति सति । अमी पुरोवर्तिन- स्तव पितुर्हिमालयस्य निर्झराः प्रवाहा इन्द्रचापेन यः परिवेषः परिधिः। 'परि- वेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । तेन शून्यास्तेषां भावस्तत्ता तां व्रजन्ति,
पाठा०-१ अरुणान्तभागयोः. २ संगमय्य. ३ धूनयति. ४ प्रसवितुः. ५ ते. गच्छन्तीत्यर्थः । निर्झरकणपतितसायन्तनकिरणैरुद्भासमानेन्द्रचापपरिधिता सूर्य- स्यास्तंगतत्वाद्विलीना इति भावः ॥ ३१ ॥
दष्टतामरसकेसरस्रजोः क्रन्दतोविपरिवृत्तकण्ठयोः ।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥३२॥
दष्टेति ॥ हे प्रिये ! दृष्टा तामरससंबन्धिना केसराणां स्रक् याभ्यां तयोः । तथा विपरिवृत्तौ परस्परपराङ्मुखीभूतौ कण्ठौ ययोः। तथा निघ्नयोः परस्पराधी- नयोः। 'अधीनो निघ्नः आयत्तः' इत्यमरः । अत एव क्रन्दतो रुदतोः । तथा सरसि स्थितयोश्चक्रवाकयोरल्पमन्तरं वियोगोऽनल्पतामतिशयिततां गतम् , प्राप्तमित्यर्थः ॥ ३२॥
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
आविभातचरणाय गृहते वारि वारिरुहबद्धषट्पदम् ।। ३३ ॥
स्थानमिति ॥ हे प्रिये ! दन्तिनो गजाः सल्लकीविटपा वृक्षविशेषास्तेषां भङ्गैः खण्डैर्वासितं सुगन्धितमाह्निकं दैनं स्थानमपास्य त्यक्त्वा । विभातमारभ्येत्याविभातं यच्चरणमाचरणम् , सांध्यं कृत्यमिति यावत् । तस्मै तत्कर्तुम् । वारिरुहेपु कमलेषु बद्धाः षट्पदा भ्रमरा यत्र तादृशं वारि जलं गृह्णते, करेणाददत इत्यर्थः । गम्योत्प्रेक्षा ॥ ३३ ॥
पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता ।
लब्धया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ ३४ ॥
पश्येति ॥ हे मितकथे मिताः परिमिताः कथा यस्यास्तत्संबोधनं हे मित- भाषिणि प्रिये ! पश्चिम दिगन्तं लम्बते तथोक्तेन विवस्वता सूर्येण लब्धया प्रतिमया प्रतिविम्बेन कृत्वा सरःसंबन्धिनामम्भसां तापनीयं सौवर्ण सेतोबन्धनमिव निर्मि- तम् , कृतमित्यर्थः । इति त्वं पश्य । तरङ्गितसरोजलेषु पतितमत एवाविरलतया सहस्रधा विभक्तं स्वप्रतिबिम्बमेव सूर्यनिर्मितः सेतुरिवेत्युत्प्रेक्षा। 'तपनीयं शात- कुम्भम्' इत्यमरः । ततः 'तस्य विकारः' (पा. ४।३।१३४) इत्यण् ॥ ३४ ॥
पाठा०-१ त्यजोः. २ विरहदीनकण्ठयोः. ३ भिन्नयोः. ४ आविभाति शरणाय
गच्छतः सान्ध्यकर्मविधयेऽनुगृह्णते. ५ कथमिदम्. ६ दीर्घया. उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ३५ ॥
उत्तरन्तीति ॥ हे प्रिये ! गाढः पङ्को यत्र तादृशं पल्बलमल्पसरः । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य, स्वाधिवासन विक्षिप्तं कृत्वेत्यर्थः । अतिवाहितोऽतिक्रान्त आतपो धर्मों यैः । तथा दंष्ट्रिण्ः प्रशम्नदंष्ट्रायुक्ताः। वन- वराहाणामारण्यकसूकराणां यूथं पान्ति रक्षन्ति ने वनवराहयूथपाः, महान्तो वराहा इत्यर्थः । दृष्टा भङ्गुरा भङ्गशीला बिसाङ्कुरा मृणालतन्तको येते तथोक्का इव । उत्तरन्ति निःसरन्ति, अर्थात्सरस इत्यर्थः । अत्र बहिदृश्येषु दंष्टाङ्कुरेषु बिसाङ्कुरत्वोप्रेक्षणादुप्रेक्षालंकारः ॥ ३५ ॥
एष वृक्षशिखरे कृतास्पदो जातरूपरससौरमण्डलम् ।
हीयमानमहरत्ययातपं पीवरोरु ! पिवतीव बर्हिणः ।। ३६ ॥
एष इति ॥ हे पीबरोरु ! वृक्षशिखरे कृतमास्पदं स्थितिर्येन, तत्र स्थित इत्यर्थः । एष पुरोवर्ती बर्हिणो मयूरः । 'मयूरो बहिणो बर्ही' इत्यमरः । कर्ता। जातरूपस्य सुवर्णस्य । 'चामीकरं जातरूपम्' इत्यमरः । यो रसो जलं तद्वद्गौरं पीतं मण्डलं बर्हसमूहो यस्य तादृशम् । अहो दिवसम्यात्ययः संन्ध्या तस्या आतपं पिबतीवेत्युप्रेक्षा। यतो हीयमानम् , अन्यथा कथमस्य हानिः स्यादिति भावः ॥३६॥
पूर्वभागतिमिरप्रवृत्तिभिव्यक्तंपङ्कमिव जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥
पूर्वेति ॥ विवस्वता हृतं शोषितमातपो जलमिव यस्य तादृशं खं व्योम । पूर्व- भागे यास्तिमिरप्रवृत्तयस्तमःप्रसारास्ताभिः कृत्वा । एकत्र एकत्र भागे व्यक्तः पङ्को यत्र तदिव जातं सन् । किंचिच्छेषवदीपज्जलशेषि सर इव भानि। अस्तंगच्छ- दर्काल्पातपे किंचिज्जलशेषोत्प्रेक्षणपूर्वक उपमालंकारः ॥ ३७ ।।
आविशद्भिरुटजाङ्गणं मृगैर्मॉलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशंदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥
आविशद्भिरिति ॥ उटजस्य पर्णशालाया अङ्गणम् । 'पर्णशालोटजोऽस्त्रियाम्'
पाठा०-१ मण्डल:. २ लग्नपङ्कम्. ३ उटजाङ्गणे. ४ अग्निधेनवः. इत्यमरः । आविशद्भिः प्रविशद्भिर्मृगैः। तथा मूलेषु यः सेकः सेचनं तेन सरसा आर्द्रास्तथोक्तैर्वृक्षकैरल्पवृक्षश्चोपलक्षिताः । तथा प्रविशन्त्योऽग्र्याः श्रेष्ठा धेनवो येषु । तथोदीरिता उद्दीपिताः । सायंहोमार्थमिति भावः अग्नयो गार्हपत्यादयो येषु तथोक्ता आश्रमा ऋषीणां वासस्थानानि । श्रियं बिभ्रति, शोभन्त इत्यर्थः ॥३८॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥३९॥
बद्धेति ॥ बद्धकोशं मुकुलितमपि कुशेशयं कमलं कर्तृ । वसतिं ग्रहीष्यते षट्पदाय भ्रमराय प्रीतिपूर्वमन्तरमवकाशम् । 'अन्तरमवकाशावधि-' इत्यमरः । दातुमिवेत्युत्प्रेक्षा । क्षणं सावशेषं विवरं छिद्रं यस्य तथा तिष्ठति ॥ ३९ ॥
दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥४०॥
दूरमिति ॥ हे प्रिये ! वारुणी दिक पश्चिमदिक् । दूरमग्रे परिमेया अल्पत्वात्परिमातुं शक्या रश्मयः किरणा यस्य तादृशेनारुणेन भानुना। केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवाख्यवृक्षपुष्पं तदेव तिलकं तेन मण्डिता कन्यकेव भाति| ४०
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥४१॥
सामभिरिति ॥ किणोप्मपायिनः किरणानामूष्माणमेव पिबन्तीति तथोक्ताः। सहस्रशः सहचरा वालखिल्यादय ऋषयः । अग्नौ परिकीर्ण निक्षिप्तं तेजो येन तं भानुं सूर्यम् । स्यन्दनम्य स्थस्य संबन्धिनो येऽश्वाम्तेषां हृदयंगमा मनोहराः स्वना येषां तैः सामभिः सामवेदैः संस्तुवन्ति, स्तुतिं कुर्वन्तीत्यर्थः ॥ ४१ ॥
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ४२ ॥
सोऽयमिति ॥ सोऽयं सूर्यो दिवसं महोदधौ संनिधाय संस्थाप्य । आनता नम्रीभूता शिरोधरा ग्रीवा येषां तैः । अत एव कर्णयोश्चामरैर्विघट्टिते
४ कुसुमेन. ५ स्यन्दनस्य. पाठा०-१ उत्तरम्. २दृरलग्न. ३ वारुणा. ६ स्वरैः. ७ ईक्षणे येषां तैः । युगेन स्कन्धधार्यकाष्ठेन भुग्ना मृदिताः केसराः स्कन्धरोमाणि येषां तथोक्तैर्हयैरश्वैः कृत्वा । अस्तमस्ताचलमेति गच्छति । 'अस्तस्तु चरमः क्ष्माभृत्' इत्यमरः ॥४२॥
खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥४३॥
खमिति ॥ हे प्रिये ! ख व्योम रवौ संस्थितेऽस्तंगते सति प्रसुप्तमिव भवति । युक्तमेवेत्याह-महतस्तेजस ईदृशी वक्ष्यमाणा गतिरस्ति । सा केत्याह--तत्तेजः कर्तृ । उद्गतमुदितं सत् । यावत् , स्थानमित्यर्थः । प्रकाशयति, च्युतं भ्रष्टमस्तमितं सदिति यावत् । तावतः स्थानस्य मीलनाय संकोचनाय भवति खलु । यत्र तेजस्तिष्ठति तत्प्रकाशते, यतो गच्छति तन्न प्रकाशत इति भावः । उत्प्रेक्षालंकारः ॥४३॥
संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
येने पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥४४॥
संध्ययेति ॥ संध्ययापि कर्त्र्या अस्तशिखरे समर्पितं निहितं वन्द्यं पूज्यं रवेर्वपुर्मण्डलं कर्म । अनुगतमन्वगामि । योग्यमेवैतदित्याह - पूर्वमुदये प्रातःसमये येन पुरस्कृताऽग्रे कृता संमानिता च । उदये प्रागेव संध्यागम इति प्रसिद्धम् । आपदि विपत्समये, अस्तमय इति यावत् । तं सूर्यं कथं नानुयास्यति ? अपि तु यास्यत्येवेत्यर्थः । सतीधर्म एष एवेति भावः॥४४॥
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यमूः ।
द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमंण्डिताः॥४५॥
रक्तेति ॥ हे कुटिलकेशि प्रिये ! अमूः पुरोगताः । रक्ताश्च पीताश्च कपिशाश्च तथोक्ताः, नानावर्णा इत्यर्थः । पयोमुचांं कोटयोऽश्रयः। 'स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः' इति विश्वः । भान्ति । तास्त्वं द्रक्ष्यसीति हेतोरनया संध्यया कार्त्र्या । वर्तिकाभिश्चित्रशलाकाभिः साधु यथा तथा मण्डिता इव भूषिताः किम्वित्युत्प्रेक्षा ॥ ४५ ॥
पाठा०-१ उत्थितम्. २ तावता. ३ पदम्. ४ धर्मम्. ५ प्राक्तथेयम्.
६ सांध्यवेलया. ७ वर्णिकाभिः. ८ वर्तिताः. सिंहकेसरसटामु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥४६॥
सिंहेति ॥ हे प्रिये ! भूभृतां पर्वतानां संबन्धिनां सिंहानां केसराः किञ्जल्का इव याः सटाः स्कन्धकेशास्तासु । पल्लवानां प्रसवो येषु तेषु द्रुमेषु च तथा धातुयुक्तेषु शिखरेषु च भानुना संविभक्तंं सम्यग्विभज्य दत्तमिव सांध्यमातपं पश्य । केसरादीनामात्मसदृशत्वात्सुहृद्भूततया सूर्योऽस्तगमनसमय आसन्नमृत्युः पुरुष आत्मघनमिव घनीभूतं तात्कालिकमातपं तेभ्यो दत्त्वाऽस्तं गच्छतीति भावः ॥४६॥
अद्रिराजतनये! तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः।
ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी॥४७॥
अद्रीति ॥ हे अद्रिराजतनये ! विधिविदस्तपस्विनोऽमी ब्राह्मणाः । अभिसंध्यं संध्यामभिव्याप्य । पावनं पवित्रं यदम्बु तेन विहिताऽञ्जलिक्रियार्घ्यदानं यैस्तथोक्ताः । भूत्वेति शेषः । शुद्धय आत्मशुद्धिं कर्तुमादृता आदरयुक्ताश्च सन्तः । गृढं रहस्यभूतं ब्रह्म गायत्रीं गृणन्ति । जपन्तीत्यर्थः ॥ ४७ ॥
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ४८
तदिति ॥ हे वल्गुवादिनि मिष्टभापिणि ! तत्तस्मात्कारणात्प्रस्तुताय सांध्याय नियमाय विधये नियमं कर्तुं मामपि मुहूर्तं क्षणमात्रमनुमन्तुं त्वं गच्छेत्यनुमननं कर्तुमर्हसि। तथा त्वांं विनोदे विनोदकरणे निपुणः कुशलः सखीजनो विनोदयिष्यति ॥४८॥
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधारणापरा ।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ ४९ ॥
निर्विभुज्येति ॥ ततोऽनन्तरं शैलराजतनया पार्वती दशनच्छदमोष्टं निर्विभुज्य वक्रीकृत्य भर्तुर्वाच्यवधीरगापरा तिरस्कृतिसक्ता, श्रुतमप्यशृण्वतीत्यर्थः । समीपगां विजयानाम्नीं सखीम् । अहेतुकं निष्कारणमाललाप, आलापं कृतवतीत्यर्थः ॥४९॥
पाठा०-१ भूभृता. २ धातुशिखरेषु चात्मनः; चास्तशिखरे विवस्वता; धातु- शिखरेषु चात्मना. ३ पार्ष्णिमुक्तवसुधास्तपस्विनः, ४ रचिता. ५ अभिसांध्यम्.
६ सिद्धये. ७ सहेतुकम. ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥
ईश्वर इति ॥ दिवसात्यये सायंकाल उचितं विधिं मन्त्रपूर्वं यथा तथाऽनुतस्थिवान्कृतवानीश्वरोऽप्यसूयया मां त्यक्त्वा गत इत्यभिप्रायगर्भितयेर्ष्ययाऽवचनामभाषमाणाम् । 'वच परिभाषणे' कर्तरि ल्युः । पार्वतीं प्रत्युपेत्य समीपमागत्य पुनः सस्मितं यथा तथाहोक्तवान् ॥ ५० ॥
मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यया।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥५१॥
मुञ्चेति ॥ हे अनिमित्तकोपनेऽकारणकोपने ! कोपं क्रोधं मुञ्च । यतोऽस्म्यहंं संध्यया कर्त्र्या प्रणमितो नान्यया, अहं संध्यावशं गतः, नान्यावशं गतः; अतः कोपं मा कुर्वित्यर्थः । अथ च आत्मनः सहधर्मचारिणं माम्, संध्यां कर्तुं गच्छन्तमिति शेषः । चक्रवाकेन समा वृत्तिर्यस्य तं किं न वेत्सि? इदानीमुभयोः प्रियाविरहखिन्नत्वादिति भावः ॥ ५५ ॥
निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु ! पूर्वमुज्झिता ।
सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ।।५२॥
निर्मितेष्विति ॥ हे सुतनु ! स्वयंभुवा ब्रह्मणा निर्मितेषु कल्पितेषु पितृषु तनुः सूक्ष्मा या संध्या पूर्वमुज्झिता सेयं संध्यास्तमुदयं च सेवते । तेन कारणेन हे मानिनि ! ममात्र गौरवमादरः, अस्तीत्यर्थः ॥ ५२ ॥
तामिमां तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३ ।।
तामिति ॥ हे शैलराजतनये प्रिये ! तामिमां संध्यामधुनैकतः पूर्वत्र तिमिर वृद्धिपीडितामत एव तटे तमालानां माला यस्यास्तथोक्तां धातूनां गैरिकादीनां रसस्य निम्नगां नदीमिव स्थितां पश्य । उपमालंकारः। मालिनीत्यत्र 'व्रीह्मादिभ्यश्च'(पा. ५।२।११६) इतीनिः॥ ५३ ॥
पाठा०-१ अनुतिष्ठवान्. २ सोऽभ्युपेत्य. ३ प्रयमितः. ४ नान्यथा. ५ उत्थिता.
६ सेव्यते. ७ वृत्ति. ८ भूमिलग्नमिव संप्रति स्थिताम् ; भूमिलग्नमिव संप्रतिष्ठिताम्. सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
सांपरायवसुधासशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् ॥५४॥
सांध्यमिति ॥ अपरा प्रतीची दिक् । अस्तमितं शेषं च सांध्यम् । तथा रक्तालेखा पङ्क्तिर्यस्य । तथा सांपराया सांग्रामिकी या वसुधा तत्र सशोणितं सरक्तमत एव तिर्यगुज्झितं त्यक्तं मण्डलस्याग्रमिव स्थितमातपं बिभर्ति ॥ ५४ ॥
यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने ! विजृम्भते ॥५५॥
यामिनीति ।। हे दीर्घनयने प्रिये ! यामिनीदिवसयोः संधौ संध्यायां संभवति तथोक्ते सांध्ये तेजसि सुमेरुणा व्यवहितेऽन्तर्हिते सति निरङ्कुशं निरर्गलमेतत्पुरोवर्त्यन्धतमसं गाढं तमो दिक्षु विजृम्भते प्रसरति, संध्यापि विलीनेत्यर्थः ॥५५॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एव तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥५६॥
नोर्ध्वमिति ॥ निशि तिमिरौघेण वेष्टित एष लोको गर्भवास इव वर्तते । गर्भस्थित इव प्रतिभासमानत्वादिति भावः । यत ईक्षणानां लोकनेत्राणां गतिः प्रसर ऊर्ध्वं न; तथाधोऽपि न; तथाऽभितो वामदक्षिणोऽपि न; तथा पुरतो न; पृष्ठतश्च न, गर्भस्थितवज्जनैः कुत्रापि नावलोक्यत इत्यर्थः । ततो निशावृत्तौ गर्भवृत्तित्वोत्प्रेक्षा ॥ ५६ ॥
शुद्धमाविलमवस्थितं चलं वक्त्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हृतान्तरम् ॥५७॥
शुद्धमिति ॥ शुद्धं निर्मलमाविलं मलिनमवस्थितं स्थिरं चलं चरिष्णु वक्रं कुटिलमार्जवगुणेनर्जुत्वगुणेनान्वितं सरलं च यत् तत्सर्वमेव तमसा समीकृतम् । तमोव्याप्त्या पृथगभासमानत्वादिति भावः । तथा हि-असतां कादाचित्कमपि महत्त्वं धिक् । यतो हृतान्तरं समीकृतसदसगुणम् । अत्र सामान्येन विशेषसमर्थनपोऽर्थान्तरन्यासः ॥ ५७ ॥
पाठा०-१ संपरायवसुधा सशोणितं. २ उत्थितम्. ३ निरर्गलम्. ४ तिमि- रोल्ब. ५ हतान्तरम् ; अनन्तराम्.
B नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिराहतम् ॥५८॥
नूनमिति ॥ हे पुण्डरीकमुखि कमलमुखि प्रिये ! नूनं यज्वनां द्विजानां पतिश्चन्द्रः शार्वरस्य शर्वरीसंबन्धिनस्तमसो निषिद्धये निवृत्तय उन्नमत्युदेति । अत एव कैतकैः केतकसंबन्धिभी रजोभिरिवाहतं व्याप्तं पूर्वदिशो मुखम् , पश्येति शेषः ५८
मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥ ५९॥
मन्दरेति ॥ सतारका सनक्षत्रा निशा रात्रिर्मन्दरेण गिरिणान्तरिता मूर्तिर्यस्य तेन शशभृता चन्द्रेण प्रियसखीभिः समागता मिलिता त्वं पृष्ठतः स्थित्वा वचनानि श्रोष्यता श्रोतुमवस्थितेन मयेव लक्ष्यते । उपमालंकारः ॥ ५९ ॥
रुद्धनिर्गमनमा दिनक्षयात् पूर्वदृष्टतनु चन्द्रिकास्मितम् ।
एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिनोदितम् ॥६॥
रुद्धेति ॥ आ दिनक्षयाद्दिनक्षयं मर्यादीकृत्य रुद्धनिर्गमनं रुद्वोदयम् । अथ च, पूर्वस्यां दृष्टा तनुर्यस्य । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा० १३७६) इति पूर्वाशब्दस्य पुंवद्भावः । एतच्चन्द्रमण्डलं कर्तृ । रात्र्या नोदितं कथयितुं प्रेरितं सत् । चन्द्रिकैव स्मितं यस्मिन्कर्मणि यथा तथा दिशः पूर्वस्या रहस्यमुद्गिरतीव वमतीव । यथा सेर्ष्या काचित् केनचिद्द्वारा सपत्नी रहस्यं कथयति तथा रात्रिरूपा स्त्री दिग्रूपायाः स्त्रियो रहस्यं तदवयवप्रदर्शनं प्रकटयति, त्वं पश्येत्यभिप्रायः । उत्प्रेक्षालंकारः ॥६॥
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥६१॥
पश्येति ॥ पक्वा या फलिनी तस्याः फलं तस्य त्विडिव त्विड् यस्य । तथा बिम्बेन लाञ्छितं योजितं वियत्सरोऽम्भश्च येन, उभयत्रापि दृश्यमानेनेत्यर्थः हिमांशुना चन्द्रेण कर्त्रा । चक्रवाकयोर्मिथुनं तीरस्थं विडम्ब्यते प्रतार्यते । यतो
पाठा०-१ उन्नयति. २ पश्य दिङ्मुखम् ; दिङ्मुखं यथा. ३ आवृतम्. ४ तनु- चन्द्रिका. ५ रात्रिचोदिता. ६ चन्द्रमण्डलम्. ७ विप्रकृष्टविधुरम् ; विप्रकृष्टविरहम् ;विप्रकृत्तविवरम्, विप्रकृष्टं न जातं विवरमन्तरमुभयोस्तारतम्यं यस्य । त्वं पश्य सरःप्रतिबिम्बितचन्द्रमण्डलं फलिनीफलभ्रान्त्या जिघृक्षुतापूर्वकमुद्दिश्य गच्छन्मिथुनं, वस्तुतस्तु तत्र फलिनीफललाभाभावान्न्यस्तशस्त्रेण भूयत इति भावः । 'फलिन्यग्निशिखायां च फलिन्याम्' इति मेदिनी ॥ ६१ ॥
शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ ६२॥
शक्यमिति ॥ हे प्रिये ! नव उदयो येषाम् । तथाऽप्रगल्भा नूतना ये यवास्तेषां सूचयोङ्कुरास्तद्वत्कोमलाः । ओषधीनां पत्युश्चन्द्रस्य कराः किरणाः कर्णपूरस्य रचनाकृते रचनायै तवाग्राणि ये नखसंपुटास्तैः । तेषामतितैपक्ष्ण्यादिति भावः । छेत्तुं द्विधाकर्तुं शक्यम् , शक्तैर्भूयत इत्यर्थः । शक्नोतेः 'ऋहलोः-' (पा. ३।१।१२४) इति भावे ण्यत् । यवाङ्कुरवत् कोमलांश्चन्द्रकरानुत्तार्य त्वया कर्णपूरं कर्तुमुत्साहः क्रियतामिति भावः ॥ ६२ ॥
अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥६३ ॥
अङ्गुलीभिरिति ॥ शशी चन्द्रः । कुड्मलीकृते मीलिते सरोजे एव लोचने यस्य तत्तथोक्तं रजन्या मुखं वदनं अङ्गुलीभिरिव मरीचिभिः किरणैः केशसंचयमिव तिमिरं तमः संनिगृह्य हठाद्गृहीत्वा चुम्बतीव । अन्योऽपि कश्चिच्चुम्बन् केशसंचयं संनिगृह्णाति । चुम्बनसमये केशसंनिग्रहे यः कोऽपि रसोद्बोधः स तद्वेद्यैकवेद्य इत्यर्थः । समासोक्तिरलंकारः ॥ ६३ ॥
पश्य पार्वति! नवेन्दुरश्मिभिर्भिन्नसान्द्रतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं सप्रसादमिव मानसं सरः॥६४ ॥
पश्येति ॥ हे पार्वति! नवस्येन्दो रश्मिभिर्भिन्नं सान्द्रं सघनं तिमिरं यस्य पाठा०-१ शक्यः. २ नवोदयः. ३ नवाः. ४ कोमलः.५ करः. ६ भग्नसान्द्र; सामिभिन्न; संविभिन्न. ७ संप्रसीदत्.
टिप्प०-1 वामनोऽप्याह (काव्या. सू. ५।२।२२) 'शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात्' इति । अत्रोदाहरणम्-'शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुं' इति भाष्यकारप्रयोगः । इति । तन्नभस्तलं द्विरदभोगेन दूषितं मलिनं प्राक् पुनश्च कालान्तरेण सप्रसादं निर्मलं मानसं सर इव लक्ष्यते । त्वं पश्य, जलस्य नीलत्वादिति भावः ॥ ६४ ॥
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥६५॥
रक्तभावमिति ॥ हे प्रिये ! एष चन्द्रमा रक्तभावं रक्तिमानमपहाय मुक्त्वा परिशुद्धं विशदं मण्डलं यस्य तथोक्तो जातः । तथा हि-निर्मलप्रकृतिषु वस्तुषु कालदोषेण जाता विक्रिया विकारः स्थिर उदय उत्पत्तिर्यस्यास्तादृशी न भवति खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥६५॥
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः॥६६॥
उन्नतेष्विति ॥ हे प्रिये! शशिनः प्रभा चन्द्रिकोन्नतेपु स्थलेपु स्थिता वर्तते । तथा निशातमः कर्तृ । निम्नेषु नीचेषु संश्रयो यस्य तत्तथोक्तं वर्तते । तथा हि-गुणदोषयोर्गतिर्वेधसा विधिना : आत्मना नीचेनोच्चेन च सदृशी प्रकल्पिता रचिता हि नूनम् । नीचात्मा नीचस्थ एव भवति । उच्चात्मा उच्चस्थ एवेत्यर्थः ॥ ६६॥
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ।। ६७ ।।
चन्द्रेति ॥ गिरिर्मेखलासु नितम्बेषु ये तरवस्तेषु निद्रितान्सुप्तान् न शिखण्डिनो मयूरान् चन्द्रस्य पादैर्जनिता प्रवृत्तिनिर्गमनं येषां तैश्चन्द्रकान्तस्य ये जलबिन्दवस्तैः कृत्वाऽसमये बोधयति जागरयति । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति मेदिनी ॥ ६७ ॥
कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव पश्य सुन्दरि!।
हारयष्टिरचनामिवांशुभिः कर्तुमागतकुतूहलः शशी ६८।।
कल्पेति ॥ हे सुन्दरि! संप्रति शशी चन्द्रः प्रस्फुरद्भिरंशुभिः कृत्वा हारयष्टि-
पाठा०-१ वेधसैव. २ इह; एव. ३ इमान्. ४ अविकल्पसुन्दरि; व भु. सुन्दरि. ५ गणनाम्. ६ उद्यत. रचनां कर्तुमिवागतं कुतूहलं यस्य तथोक्तः सन् , कल्पवृक्षयुक्तेषु शिखरेषु, वर्तत इति शेषः । इव किम् ? त्वं पश्य । यथा कश्चिन्नीलपट्टसूत्रेण मुक्ताहारं विरलतया योजयति तथाऽयं चन्द्रोऽपि वृक्षपत्रान्तरालगतस्वीयकिरणमुक्ताफलैर्वृक्षपत्रच्छायरूपिणा नीलेन पट्टसूत्रेण च हारयष्टिं कर्तुमिवेहागत इति भावः ॥ ६८ ॥
उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः॥६९॥
उन्नतेति ॥ हे प्रिये! गिरेरुन्नतावनतभाववत्तया सतिमिरेयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता मत्तहस्तिनो भूतिः संपदिव भाति । उपमालंकारः ६९
एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् ।
मुक्तषट्रपदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥७०॥
एतदिति ॥ उच्छ्वसितं यथा तथा पीतमैन्दवं चान्द्रं प्रभारसं वोढुमक्षममिवैतत्कुमुदम् । मुक्तः षट्पदानां भ्रमराणां विरावः शब्दो येन तत्तथोक्तं सत् अञ्जसा झटिति । 'द्राग्झटित्यासाह्नाय' इत्यमरः । आ निबन्धनान्निरवशेषबन्धनाद्भिद्यते । सकर्मकाणामपि कर्माविवक्षयाऽकर्मकत्वात्कर्मकर्तरि लट् । अन्योऽपि बहुलमाम्रादिरसं पिबन्भिन्नोदरो भवति तद्वत् ॥ ७० ॥
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति चण्डिके! बलाद्व्यज्यते विपरिवृत्तमंशुकम् ॥७१।।
पश्येति ॥ हे चण्डिके ! कल्पतरौ लम्बि लम्बायमानत्वेन वर्तमानं शुद्धया ज्योत्स्नया चन्द्रकान्त्या जनितो रूपस्य संशयः संदेहो यत्र, उभयोरपि शुक्लत्वादिति भावः । एतादृशमंशुकं वस्त्रं मारुते चलति सति विपरिवृत्तं सद्बलाद्व्यज्यते, व्यक्तत्वेन ज्ञायत इत्यर्थः । त्वं पश्य ॥ ७१ ॥
शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ७२ ॥
शक्यमिति ॥ हे प्रिये ! अधः पतितपुष्पवत्पेशलैः सुन्दरैः । तथाऽङ्गुलि-
पाठा०-१ भागवत्तया. २ दन्तिनः. ३ उच्छ्वसितपीतम्. ४ सोढुम्. ५ चण्डिके चलम्; चण्डि केवलं व्यज्यते. ६ उद्धृतैः, ७ कोमलैः. ८ अलकम् ; अलकाः. भिरुत्थितैरुत्थापितैरेभिः पुरोवर्तिभिः शाखिनां संबन्धिभिः पत्रैर्जर्जरिता ये शशिनः प्रभाया लवा अंशास्तैस्तवालकानुत्कचयितुमुद्ग्रथितुं शक्यम् , शक्येन भूयतामित्यर्थः । काचित्तव सखी पुष्पप्रतिनिधित्वेन वृक्षाधःपतितजर्जरीभूतचन्द्रकान्तिशकलैः केशानुद्ग्रथयत्विति भावः ॥ ७२ ॥
एष चारुमुखि ! योग्यतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥ ७३ ।।
एष इति ॥ हे चारुमुखि ! एष शशी । वरः परिणेता नवदीक्षया नवपरिणीतयाऽत एव साध्वसाद्भयादुपगतः प्रकम्पो यस्यास्तया कन्ययेव । तरलबिम्बया चपलमण्डलया योग्यतारया सदृशतारकया युज्यते युनक्ति । त्वं पश्य ॥ ७३ ॥
पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रकृतिजप्रसादयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ७४
पाकेति ॥ हे प्रिये ! चन्द्रबिम्बेन निहिता स्थापिता तवाक्ष्णि नेत्रे या चन्द्रिका सा। पाके भिन्नो यः शरकाण्डस्तृणविशेषस्तद्वद्गौरयोः। तथोल्लसन्प्र- कृतिजः स्वभावजः प्रसादः प्रसन्नता ययोस्तयोस्तव गण्डलेखयोरुपरि रोहतीव आरोहणं करोतीवेत्युत्प्रेक्षा ॥ ७४ ॥
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु विभ्रती स्वयम् ।
त्वामियं स्थितिमतीमुपागता गन्धमादनवनाधिदेवता ॥७५॥
लोहितेति ॥ लोहिता रक्ता येऽर्कमणयस्तेषां भाजनं पात्रं तत्रार्पितं स्थापित कल्पवृक्षाणां मधु मकरन्दस्तद्विभ्रतीयं गन्धमादनवनस्याधिदेवता स्थितिमतीं स्थिरां त्वामुद्दिश्य स्वयमुपागता। त्वं पश्य, तुभ्यं मदिरां दातुमागच्छतीत्यर्थः ॥ ७५ ॥
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति ७६
आर्देति ॥ हे विलासिनि ! अत्र लब्धा वसतिर्निवासो येन तथोक्तो मदः
पाठा०-१ चन्द्रमुखि. २ पश्य तारया; योगतारया. ३ पाण्डु. ४ प्रतिकृति- प्रसन्नयोः; प्रतिकृतिप्रदीप्तयोः. ५ निहिताक्षि. ६ उपस्थिता; समागता. ७ प्रान्तरक्त; रक्तमेव; मत्तमेव. ८ कम्. ९ मधुः. किं कीदृशं गुणान्तरमन्यं गुणं करिष्यति ? अपि तु नेत्यर्थः । यतस्ते तव मुखं स्वभावतः स्वभावेनैवार्द्रकेसरवत्सुगन्धि । तथा मत्ते रक्ते नयने यस्य तथोक्तं चास्ति । ये ये मदगुणास्ते ते मदात्प्रागेव वर्तन्ते, अतः किमनेन मदेन कर्तव्यमिति भावः ॥ ७६॥
मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥७७॥
मान्यभक्तिरिति ॥ हे प्रिये ! अथवा मान्या भक्तिभावो यस्य तादृशः सखीजनोऽनङ्गस्य कामस्य दीपनमिदं मधु सेव्यतामित्युदारमभिधाय शंकरस्तामम्बिकां पार्वतीं पानं मदिरामपाययत ॥ ७७ ॥
पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ ७८ ॥
पार्वतीति ॥ पार्वती कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामपि सतां मनोहराम् । आम्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ, प्रापेत्यर्थः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। आम्रमेवानुष्ठानविशेषेण यथा सहकारं भवति तद्वद्विक्रियापि मनोहराऽभूदिति भावः ॥७८ ॥
तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥७९।।
तत्क्षणमिति॥ तत्क्षणं मदिरापानानन्तरसमय एव सा सुवदना पार्वती विपरिवर्तिता नष्टा ह्रीर्ययोरत एवेद्धः प्रवृद्धो रागो ययोरत एव शयनं नेष्यतोः, सुरतार्थमिति भावः। शूलिनः शिवस्य मदस्य चेत्यनयोर्द्वयोर्वशवर्तिनी वशंगता बभूव ७९
घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दु मदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ।। ८० ॥
घूर्णेति ॥ धूर्णमाने नयने यत्र । तथा स्खलन्ती कथा वाग्यत्र । तथा स्वेदस्य
पाठा०-१ दीपकम्. २ तदुपभोग. ३ निर्मिता. ४ नम्रता. ५ तत्क्षणे. ६ विपरि- वृत्तलज्जयोः. ७ वाञ्छतोः. ८ वशवर्तिका. ९ स्खलद्वचः; स्खलत्कचम्. १० बिन्दुमद, बिन्दवो यत्र। मद् रूपाणि कारणेन स्मितं मन्दहासश्च यत्र । तदुमायाः पार्वत्या मुखमीश्वरः शिवस्तावत्प्रथमं चिरं चक्षुषा पपौ सादरं ददर्श, आननेन तु न पपावित्यर्थः ॥ ८॥
तां विलम्बितपनीयमेखलामुद्बहञ्जघनभारदुर्वहाम् ।
ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥८॥
तामिति ॥ ध्यानेन संभृता संपादिता विभूतिरुपभोगसाधनसंपत्तिर्येन स ईश्वरो विलम्बिनी तपनीयस्य सुवर्णस्य मेखला काञ्ची यस्यास्ताम् । तथा जघनभारेण दुर्वहां दुःखेन वोढुं शक्याम्। वहतेः 'ईषदुःसुषु कृच्छाकृच्छार्थेषु' (पा.३।३।१२६) इति खल् । तां पार्वतीमुद्वहन्सन् । रह एकान्ते मणिशिलानां गृहं प्राविशत् ॥८॥
तत्र हंसधवलोत्तरच्छदं जाह्ववीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥
तत्रेति ॥ तत्र मणिशिलागृहे स हरो हंस इव धवलं उत्तरच्छदः शयनोपरितनं वस्त्रं यस्य । तथा जाह्नवीपुलिनवञ्चारु दर्शनं यस्य तच्छयनं पल्यङ्कम् । रोहिणीपतिश्चन्द्रः शारदं शरत्कालिकमभ्रं मेघमिव । प्रियासखः सन् , पार्वतीसहित इत्यर्थः । अध्यशेताशिश्रियत् । 'अधिशीङ्-' (पा. १।४।४६ ) इति कर्मत्वम् ॥ ८२ ॥
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ।। ८३ ।।
क्लिष्टेति ॥ क्लिष्टा विक्ल्ऱुप्ताः केशा यत्र । अवलुप्तं चन्दनं यत्र । व्यत्ययेनास्थानप्रयोज्यत्वेनार्पिता नखा यत्र । तथा समत्सरं सप्रणयकलहम् । तथा छिदुरो भङ्गशीलो मेखलागुणः काञ्चीसूत्रं यत्र । एतादृशं तत् पार्वतीरतं तस्य शिवस्य तृप्तये नाभूत् , कामोत्सवस्योद्वेलत्वादिति भावः ॥ ८३ ॥
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८४ ॥
केवलमिति ॥ ज्योतिषां नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु, रजन्यां प्रभात-
पाठा०-१ संभृतिविभूतिरीश्वरः; संभृतिविभूतिसंभृतम् ; संभृतिविभूतिगोचरम्. २ हरः. ३ क्लिष्टचन्द्रमदयैः कचग्रहै.. ४ व्युत्पथार्थित; उत्पथार्पित. ५ अभूदतृप्तये.. ६ परिगृहीत कल्पायां सत्यमित्यर्थः । केवलं प्रियतमायां दयालुना, न तु क्षीणशक्तिनेत्यर्थः । तेन शिवेन तया पार्वत्या प्रतिगृहीतमालिङ्गितं वक्षो यस्य तथोक्तेन सता नेत्रमीलनस्य । निद्राया इत्यभिप्रेतोऽर्थः । कुतूहलं कृतम् , सुप्तमित्यर्थः ॥ ८४ ॥
स इति ॥ बुधानां बुधकर्तृकै स्तव उचितः स शिव उषसि प्रभाते मूर्च्छनयोञच्चारणस्वरारोहावरोहेण, तदनुसारेणेत्यर्थः । परिगृहीताः कैशिका वीणातन्तवो यैस्तैः किंनरैः किंपुरुषैर्गीतं मङ्गलं यस्य तथोक्तः सन् । शातकुम्भस्य सुवर्णस्य यानि कमलानि तेषामाकराः समूहास्तैः समं सह व्यबुध्यत, जजागारेत्यर्थः । 'खनिः स्त्रियामाकरः स्यात्' इति कोशप्रामाण्यात् 'आकर' शब्दस्य खनिवाचकत्ये सत्यपि परिणतार्थपक्षपातेन समूहवाचकत्वमपि सोढव्यम् । दृश्यमानार्थे बाधस्य वतुमशक्यत्वात् ।। ८५॥
ताविति ॥ क्षणं शिथिलितं विरामगोचरीकृतमुपगूहनमाश्लेषो याभ्यां तो दंपती स्त्रीपुंसौ गौरीहरौ कर्मभूतौ । चलिताश्चालिता मानसस्य सरस ऊर्मय- स्तरंगा यैः । एतेन शत्योक्तिः । तथा पद्मानां भेदस्य प्रफुल्लतायाः पिशुनाः सूचकाः । अनेन सौगन्ध्योक्तिः । गन्धमादनवनान्तस्य मारुताः पवनाः सिषेविरे, सेवितवन्त इत्यर्थः ॥ ८६ ॥
ऊर्विति ॥ ऊरुमूले या नखमार्गाणां नखक्षतानां राजयः पङ्क्तयस्ताभिः कर्त्रीभिः हृते स्वविलोकनवशीकृते विलोचने यस्य तथोक्तो हरस्तत्क्षणं प्रभातसमय प्रकर्षेण शिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमां पार्वतीमवारयत् 'बन्धनं मा कुरु' इति निवारयांचक्रे, नखक्षतविलोकनवशंवदत्वादिति भावः ॥ ८७ ॥
स प्रजागरकषायलोचनं गाढदन्तपरिताडिताधरम्१ ।
आकुलालकमरंस्त२ रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥
स इति ॥ रागवान् स हरः प्रजागरेण रात्रिजागरेण कषाये म्लाने लोचने यत्र । तथा गाढं यथा तथा दन्तैः परिताडितोऽधरो यत्र । तथाऽऽकुला विरला अलकाः केशा यन्त्र । तथा भिन्नं तिलकं यत्र । एतादृशं प्रियाया मुखं प्रेक्ष्यारंस्त प्रससाद, आत्मनः कर्तृत्वादिति भावः ॥ ८८
तेन भिन्न३विषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥८९॥
तेनेति ॥ निशात्यये प्रभाते निर्मलेऽपि प्रकटेऽपि सति तेन हरेण भिन्नोऽत एव विषम उत्तरच्छद उपरितनं वस्त्रं यत्र । तथा मध्ये पिण्डिता एकत्रीभूता विसूत्रा सूत्ररहिता मेखला काञ्ची यत्र । तथा चरणरागेण यावकेन लाञ्छितं रक्तीकृतं च शयनं नोज्झितं न त्यक्तम् , सुखार्णवमग्नत्वादिति भावः ॥ ८९ ॥
स ४प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्५ ॥ ९० ॥
स इति ॥ हर्षवृद्धेर्जननमुत्पादकं प्रियामुखरसं दिवानिशं सिषेविषुः सेवितु- मिच्छति तथोक्तः । स शिवो विजयया पार्वतीसख्या यन्निवेदनं स्वागमज्ञापनं तस्मात् , तद्वारत्यर्थः । दर्शने प्रणयिनामभिलाषवतामयदृश्यतामदर्शनदातृत्व- माजगाम प्राप, सर्वं त्यक्त्वा तल्लय एव जात इति भावः ॥ ९० ॥
समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
शतमगमदृतूनां ६साग्रमेका निशेव ।
न तु७ ८सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः९ ॥ ९१ ॥
समदिवसेति ॥ तत्र गन्धमादनगिरौ समाः प्रत्येकं समसंख्याका ये दिवसा दिनानि तेषां निशीथमर्धरात्रम् , तमभिव्याप्येत्यर्थः । सङ्गिनः सङ्गवतः, न तु विषमदिन इत्यर्थः । शंभोः शिवसंबन्धि साग्रं किंचित्साधिकसंख्यमृतूनां शतमेका निशेव तत्तुल्यत्वेनागमद्व्यतीतम् । तथापि सुरतसुखेभ्यस्तु छिन्नतृष्णस्तृप्तो न बभूव । ततो न विररामेत्यर्थः । ज्वलन इव । यथा समुद्रान्तर्गतो ज्वलनो वाडवानलस्तज्ज- लौघैस्तृप्तो न भवति प्रत्यहं ज्वालयत्येव तद्वत् । मालिनीवृत्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ९१ ॥
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवर्श्र
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य उमा-
सुरतवर्णनं नामाष्टमः सर्गः ।