कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/नवमः सर्गः(कैलासगमनः)

← अष्टमः सर्गः(सुरतवर्णनः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
नवमः सर्गः(कैलासगमनः)
कालिदासः
दशमः सर्गः(कुमारोत्पत्तिः) →

नवमः सर्गः ।


 तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
 संभोगवेश्म प्रविशन्तमन्तर्ददर्श १पारावतमेकमीशः॥१॥

 तथाविध इति ॥ प्रियायाः पार्वत्याः संबन्धिनि मुखारविन्दे वदनकमले मधुपो भ्रमरभूत ईशः शिवस्तथाविधे पूर्वोक्तप्रकारेऽनङ्गरसप्रसङ्गे कामरसावसरे संभोगस्य वेश्म गृहमन्तः प्रविशन्तमेकं पारावतं कपोतं ददर्श दृष्टवान् । सर्गे- ऽस्मिन्वृत्तमुपजातिः ॥ १ ॥

 सुकान्तकान्तामणितानुकारं कूजन्तमाघूर्णितरक्तनेत्रम् ।
 प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुर्न्यञ्चितचारुपुच्छम्२ ॥२॥

 सुकान्तेति ॥ कथंभूतं पारावतम् ! सुकान्तमतिमनोहरं यत्कान्तामणितं रमणीरतिकूजितम् । 'मणितं रतिकूजितम्' इत्यमरः । तस्यानुकारोऽनुकरणं यत्र यस्मिन्कर्मणि तद्यथा तथा कूजन्तं शब्दायमानम् । तथा आघूर्णिते रक्तनेत्रे येन तथोक्तम् । तथा प्रस्फारितो विस्तारित उन्नम्र उच्चैस्तथा विनम्रः कण्ठो यस्य तम् । तथा मुहुर्मुहुर्वारंवारं न्यञ्चितः संकुचितश्चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः। 'पुच्छः पश्चात्प्रदेशे स्यात्' इति विश्वः ॥ २ ॥


 विशृङ्खलं पक्षतियुग्ममीषद्दधानमान१न्दगतिं मदेन ।
 शुभ्रांशुवर्णं जटिलाग्रपादमितस्ततो २मण्डलकैश्चरन्तम् ॥ ३ ॥

 विशृङ्खलमिति ॥ पुनः कथंभूतम् ? विशृङ्खलं विगतशृङ्खलाकम् । अनेन विशेषणेन कदाचित्कस्यापि बन्धनाभावस्य द्योतनात् स्वेच्छाविहारित्वं ध्वन्यते । 'शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च' इति विश्वः । पक्षत्योः पक्षमूलयोर्युग्मं द्वयम् । 'पक्षात्तिः' (पा. ५|२||२५) इति निप्रत्ययः । तथेषन्मदेन हेतुनानन्दगतिं च दधानम् । तथा शुभ्रांशोश्चन्द्रस्य वर्ण इव वणों यस्य तम् । “विधुः सुधांशुः शुभ्रांशुः' इत्यमरः । तथा जटिलौ जटायुक्तावग्रपादौ यस्य तम् । 'जटिलस्तु जटायुक्तः' इति विश्वः । तथा मण्डलकैर्मण्डलाकारगतिविशेषैरितस्ततश्चरन्तं भ्रम- माणम् , तं कपोतं ददर्शेति संबन्धः । 'मण्डलके' इति पाटे सुरतमण्डप इति व्याख्येयम् । त्रिभिरेतद्विशेषकम् ॥ ३॥

 रतिद्वितीयेन मनोभवेन ह्रदात्सुधायाः प्रविगाह्यमानात् ।
 तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ४

 रतीति ॥ रत्या सपल्या द्वितीयेन, रतिसहायेनेत्यर्थः । मनोभवेन का । प्रविगाह्यमानादवलोड्यमानात्सुधाया हृदान्नवमुत्थमुत्पन्नं फेनस्य चयमिव स्थित तं कपोतं वीक्ष्येन्दुमौलिः शिवः क्षणमभ्यनन्ददस्तौपीत् । कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालंकारः ॥ ४ ॥

 ३तस्याकृति कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्मविहंगमग्निम् ।
 विचिन्तयन् संविविदे स देवो भ्रूभङ्गभीमश्च रुषा बभूव ॥५॥

 तस्येति ॥ अन्तर्भवतीत्यन्तर्भवः, सर्वान्तर्व्यापीत्यर्थः । स देवो हरः। दिव्यां भव्यां कामपि लोकोत्तरां तस्य पारावतस्याकृतिं वीक्ष्य छद्मना कैतवेन विहंगं कपोतस्वरूपधारिणमग्निं विचिन्तयन्वितर्कयन् संविविदे विजज्ञे, निश्चयात्मक- बुधाऽग्निरेवायमिति बुबुध इत्यर्थः । 'समो गम्यृच्छि-' (पा. १।३।२९) इत्यने- नात्मनेपदम् । रुषा ध्रुवोर्भङ्गेन भीमो भयंकरश्च बभूव, असामयिकागमनकारि- स्वादिति भावः ॥ ५॥

पाठा०-१ आनन्दगतम् ; आमन्दगतिम्. २ मण्डलकं. ३ तदाकृतिम्.

 स्वरूपमास्थाय ततो हुताश१स्त्रसन्व२लत्कम्प३कृताञ्जलिः सन् ।
 प्रवेपमानो नित४रां स्मरारिमिदं वचो व्यक्तमयोध्युवाच॥६॥

 स्वरूपमिति ॥ ततोऽनन्तरं हुताशोऽग्निस्त्रसन्बिभ्यन्सन् । 'वा भ्राश-' (पा. ३।१।७०) इत्यादिना वैकल्पिकत्वान्न श्यन् । स्वरूपमाग्नेयं रूपमास्थायाश्रित्य। अथ स्वरूपाश्रयणानन्तरम् । वलन्नुद्भवन् कम्पो यथा तथा कृतो बद्धोऽञ्जलिर्येन । तथा नितरां प्रवेपमानः कम्पमानश्च सन् । स्मरारि शिवं व्यक्तं स्फुटमिदं वक्ष्य- माणं वचोऽध्युवाचोक्तवान् । 'दुह्याच्-' (वा० १०९०-१०९५) इत्यादिना ब्रुवो द्विकर्मकत्वम् ॥ ६ ॥

 असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
 ६ततः सुरेन्द्रप्रमुखाः प्रभो! त्वामुपासते दैत्यवरैर्विधूताः ॥७॥

 असीति ॥ हे प्रभो ! त्वमेको जगतामधीशोऽसि, त्वत्सदृशो जगतां पालयिता न कोऽप्यन्योऽस्तीत्यर्थः । अत एव स्वर्गौकसामिन्द्रादीनां विपदस्त्वं निहंसि दूरी- करोषि । ततः कारणात्सुरेन्द्रप्रमुखा देवास्त्वामुपासते । यतो दैत्यवरैर्विधूतास्तिर- स्कृताः ॥७॥

 त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये ७सुरतादृतूनाम् ।
 ८रह:स्थितेन ९त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः॥८॥

 त्वयेति ॥ हे प्रभो ! प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन । 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच् । 'अरुढिषत्-' (पा.६।३।६७) इत्यादिना मुम् । तेन त्वया रहःस्थितेन सता सुरताद्धेतोर्ऋतूनां शतं व्यतीये व्यतीतम् । इणः कर्मणि लिट् । अथ च सुरेन्द्रस्त्वदवीक्षणेन तवानवलोकनेनार्तः पीडितः सन् सुरैः सह परमत्यन्तं दैन्यं प्राप, त्वद्विरहासहत्वादिति भावः ॥ ८॥

 त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
 उपागतोऽन्वेष्टुमहं विहंगरूपेण विद्वन् ! समयोचितेन ॥९॥

 त्वदीयेति ॥ हे विद्वन् ! त्वदीया त्वत्कर्मिका या सेवा तस्या अवसरस्य प्रतीक्षा येषां तैः शक्रमुखैरिन्द्रादिभिः सुरैरभ्यर्थितोऽहं त्वामन्वेष्टुं मृगयितुं समयोचितेन विहंगरूपेण पारावतरूपेण । 'जिह्वेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्व- स्वपते न तेन' इति (नैषधीय० ३।४३) श्रीहर्षोक्तेरिति भावः। उपागतोऽस्मि ॥९॥

 इति प्रभो! चेतसि संप्रधार्य १तन्नोऽपराधं भगवन्क्षमस्व ।
 पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी॥१०॥

 इतीति ॥ हे प्रभो हे भगवन् ! तत्तस्मात्कारणात् । इति चेतसि संप्रधार्य संविचार्य नोऽस्माकमपराधं क्षमस्व । असमय इन्द्रप्रेरितस्य तवापराधः कथं सोढव्य इति चेत्तत्राह-परेति । परैरभिभूता पराभिभूता अत एव शरणार्थिनो रक्षितारं याचमानाः । 'शरणं गृहरक्षित्रोः' इत्यमरः । अमी इन्द्रादयः कालातिपातं काल- विलम्बं किं कथं क्षमन्ते ? आर्तैः कालविलम्बो न सह्यत इति भावः। 'प्रतीक्षते जातु न कालमार्तः' इति न्यायात् । वद, कथयेत्यर्थः ॥ १० ॥

 प्रभो! प्रसीदाशु२ ३सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः।
 ४स्वर्लोकलक्ष्मीप्रभुतामवाप्य५ जगत्त्रयं पाति तव प्रसादात् ॥११॥

 प्रभो इति ॥ हे प्रभो ! प्रसीद प्रसन्नो भव । आत्मपुत्रमाशु सृज । यमात्म- पुत्रं सेनान्यं प्राप्यासौ सुरेन्द्रस्तव प्रसादात्स्वर्लोकलक्ष्म्याः प्रभुतामवाप्य जगत्त्रयं पाति रक्षिष्यति। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् ॥११॥

 स शंकरस्तामिति जातवेदोविज्ञापनामर्थवतीं निशम्य ।
 अभूत्प्रसन्नः परितोषयन्ति गीर्भिगिरीशा रुचिराभिरीशम् १२

 स इति ॥ स शंकर इतीत्येवंभूतामर्थवतीं सार्थकाम् , योग्यामिति यावत् । तां जातवेदसोऽग्नेर्विज्ञापनां प्रार्थनां निशम्य श्रुत्वा प्रसन्नोऽभूत् । तथा हि-गिरीशा वाग्मिनः पुरुषा रुचिराभिर्गीर्भिरीशं स्वामिनं परितोषयन्ति, प्रसादयन्तीत्यर्थः १२

 प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
 शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित १३

 प्रसन्नेति ॥ प्रसन्नचेताः स मदनान्तकारो हरो जयिनो जयशीलस्य तथा

पाठा०-१ मम. २ अथ. ३ सृजाशु पुत्रम् ; सृजस्व पुत्रम्. ४ स्वर्गैक- लक्ष्मी. ५ उपेत्य. ६ मदनान्तकारी... जयाय शत्रुपराजयार्थं शक्रस्य सेनाधिपतेस्तारकारेस्तारकशत्रोः, अपत्यस्येत्यर्थः । भवाय जन्मने, तत्कर्तुमित्यर्थः । भावि भविष्यत्किंचिच्चेतसि व्यचिन्तयत्, विच- चारेत्यर्थः ॥ १३॥

 युगान्तकालानिमिवाविषयं परिच्युतं मन्मथरङ्गभङ्गात् ।
 रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ॥१४॥

 युगान्तेति ॥ अथ स शिवः, युगान्तकालस्याग्निमिवाविषह्यं सोदुमशक्यं मन्मथरङ्गस्य कामक्रीडाया भङ्गाद्धेतोः परिच्युतं भ्रष्टं तथाऽमोघं सफलं तत्प्रसिद्धं रतान्तस्य सुरतान्तस्य रेतो वीर्यं हिरण्यरेतसि वह्नावाधान्निदधे। यत ऊर्ध्वरेताः, ऊर्ध्वगामिवीर्यं इत्यर्थः ॥ १४ ॥

 १अथोष्णबाष्पानिलपितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
 बभार भूम्ना सहसा पुरारिरेतः २परिक्षेपकुवर्णमग्निः ॥ १५ ॥

 अथेति ॥ अथानन्तरमग्निर्विशुद्धमात्मदेहमुष्णबाष्पानिलेन मुखनिःश्वासेन दूषितं म्लानीकृतमन्तर्मध्यं यस्य तमादर्शमिव सहसा भूम्ना बाहुल्येन पुरारेः शिवसंबन्धिनो रेतसः परिक्षेपम्तेन कुवर्णं कुत्सितवर्णं बभार धृतवान् ॥ १५ ॥

 त्वं सर्वभक्षो भव भीमका कुष्ठाभिभूतोऽनल! धूमगर्भः ।
 इत्थं शशापाद्रिसुता हुताशं ३रुष्टा रतानन्दसुखस्य भङ्गात् ॥ १६ ॥

 त्वमिति ॥ रतानन्दः सुरतानन्दस्तत्र यत् सुखं तस्य भङ्गादन्तरायाद्धेतो रुष्टाऽद्रिसुता पार्वती । हे अनल! त्वं सर्वं मेध्यममेध्यं वा भक्षति तथोक्तः । तथा भीमं भयानकं कर्म यस्य । तथा कुष्टेनाभिभूतः पराभूतः । तथा धूमो गर्भे मध्ये यस्य तथोक्तश्च भव । इत्थं हुताशमग्निं शशाप, शपति स्मेत्यर्थः । अत्र शीप्स्य- मानत्वाभावात् 'श्लाघह्नुङ्स्था-' (पा. १|४|३४ ) इति न संप्रदानत्वम् ॥ १६ ॥

 दक्षस्य शापेन शशी ४क्षयीव ५प्लुष्टो हिमेनेव सरोजकोशः।
 वहन्विरूपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ॥ १७ ॥

 दक्षस्येति ॥ वह्निरग्निर्दक्षस्य शापेन द्वेतुना क्षयी क्षयरोगवाशशी चन्द्र

पाठा०-१ अथोष्मबाष्पानलदूषितान्तर् अत्युष्णबाष्पानिलदूषितान्तर्. २ परिक्षिप्तकुवर्णम् ; परिक्षेपविवर्णम्. ३ तथा. ४ क्षयाय. ५ पृष्टः. इव । तथा हिमेन शीतेन प्लुष्टो दग्धः । 'प्लुष दाहे' कर्मणि निष्ठा । सरोजकोश इव । वपुः स्वशरीरमुग्रस्य शिवस्य । 'उग्रः कपर्दी श्रीकण्ठः' इत्यमरः । रेतश्चयेन वीर्यसंघातेन । 'शुक्रं तेजोरेतसी च' इत्यमरः । हेतुभूतेन विरूपं भ्रष्टशोभ- मेतादृशं वहन्निर्जगाम संभोगवेश्मतो निःसृतवान् । 'किल' इति प्रसिद्धौ ॥ १७ ॥

 स १पावकालोकरुपा विलक्षां स्मरत्रपास्मेरविनम्रवक्राम् ।
 विनोदयामास २गिरीन्द्रपुत्रीं शृङ्गारग:मधुरैर्वचोभिः ॥१८॥

 स इति ॥ पावकस्य वढेरालोकेन या रुट् क्रोधस्तया हेतुना विलक्षां विरूपो विकृतिमापन्नो लक्षो लक्षणं चिह्नं शरीरशोभा यस्यास्ताम् । तथा स्मरत्रपाभ्यां कामलजाभ्यां स्मरं सस्मितं विनम्रं नतं च वक्रं यस्यास्तथोक्तां गिरीन्द्रपुत्रीं पार्वतीं स हरः शृङ्गारगर्भैरत एव मधुरैर्वचोभिर्विनोदयांमास, प्रसादितवानित्यर्थः ॥ १८ ॥

 हरो विकीर्णं घनघर्मतोयैर्नेत्राञ्जनाङ्कं ३हृदयप्रियायाः ।
 द्वितीयकौपीनचलाञ्चलेनाह४रन्मुखेन्दोरकलङ्किनोऽस्याः५।।१९।।

 हर इति ॥ हरो हृदयस्य प्रियाया अस्याः पार्वत्याः अकलङ्किनो मुखेन्दोः संबन्धिन तथा घनानि यानि धर्मतोयानि प्रस्वेदजलानि तैर्विकीर्णं व्याप्तं नेत्र- योरञ्जनमेवाङ्कः कलङ्कस्तं द्वितीयं यत् कौपीनं योगिनः स्कन्धलम्बि वस्त्रम् । 'कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च' इति मेदिनी । तस्य चलं यदञ्चलं प्रान्तस्तेनाहरद्धृतवान् , अकलङ्कस्य कलाङ्कानौचित्यादिति भावः ॥ १९ ॥

 मन्देन ६खिन्नाङ्गुलिना ७करेण कम्प्रेण तस्या बदनारविन्दात् ।
 परामृशन् धर्मजलं जहार हरः ८सहेलं व्यजनानिलेन ॥२०॥

 मन्देनेति ॥ हरः शिवः । मन्देन लघुप्रचारेण । तथा खिन्ना अलसप्रयोगेणो- दासीना अङ्गुलयो यस्य तेन । तथा कम्प्रेण कम्पशीलेन । 'नमिकम्पिस्म्यजसकम्-' (पा. ३।२।१६७) इति रः । करेण कृत्वा तस्याः पार्वत्या बदनारविन्दाद्धर्मस्य, धर्मरूपं वा जलं परामृशन्विश्लेषयन्सहेलं सक्रीडं यथा तथा व्यजनस्यानिलेन कृत्वा जहार ॥२०॥

पाठा० . १ आलोकनतः. २ नगेन्द्र. ३ सदयं प्रियायाः. ४ हरन्. ५ अपि.

६ खिन्नाङ्गुलिना. ७ कम्पेन; प्रेम्णा च, ८ सलीलं.

 रतिश्लथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
 स पारिजातोद्भवपुष्पमय्या स्रजा बबन्धामृतमूर्तिमौलिः ॥२१॥

 रतिश्लथमिति ॥ अमृतमूर्तिश्चन्द्रो मौलौ यस्य स हरो देवः। रतौ श्लथं शिथिलबन्धनमत एवांसयोः स्कन्धयोरखसक्तं लग्नमत एव विगलन्त्यधःपातुकानि प्रसूनानि यस्य तं तस्याः कबरीकलापं कचभारं पारिजातोद्भवपुष्पमय्या पारिजातो- द्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्रजा मालया बबन्ध । 'तत्प्रकृत- वचने-' (पा. ५।४।२१) इनि प्राचुर्ये मयट् । ततः 'टिड्डाणञ्-' (पा. ४।१।१५) इति ङीप् ॥ २१ ॥

 कपोलपाल्यां मृगनाभिचित्रपत्रावलीमिन्दुमुखः सुमुख्याः ।
 स्मरस्य सिद्धस्य जगद्विमोहमत्राक्षरश्रेणिमिवोल्लिलेख ।। २२।।

 कपोलपाल्यामिति ॥ इन्दुमुखो हरः सुमुख्याः पार्वत्याः संबन्धिन्यां कपोलपाल्यां मृगनाभ्याः कस्तूर्या या चित्रा पत्रावली पत्ररचना तां सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैस्तेषां मन्त्राणां यान्यक्षराणि वर्णास्तेषां श्रेणिं पतिमिवोल्लिलेख लिखितवान् । अत्र पत्ररचनारूपे वस्तुन्यक्षरश्रेणिरूपणाद्वस्तू- प्रेक्षालंकारः ॥ २२ ॥

 रथस्य १कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं २न्यधात्सः ।
 जगज्जिगीषुर्विपमेषुरेष ध्रुवं यमारोहति पुष्पचापः ॥ २३ ॥

 रथस्येति ॥ स हरः। कर्णावभि कर्णसंमुखे तन्मुखस्य पार्वतीमुखरूपस्य स्थस्य संबन्धि ताटङ्करूपं चक्रद्वितयं चक्रद्वयं न्यधात् । यतो विषमेषुरेष पुष्पचापः कामो जगजिगीषुस्त्रिभुवनविजयेच्छुः सन् यमारोहनि । ध्रुवं निश्चितम् । मुखरूपिणं रथमारुह्य जगन्ति विजेतुमिच्छति काम इति भावः ॥ २३ ॥

 तस्याः स कण्ठे ३पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
 या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाझौधयुगस्य लक्ष्मीम् २४

 तस्या इति ॥ स हरम्तस्याः कण्ठे। पिहिते स्वरप्रसारेणावृते स्तनाग्रे चूचुके

पाठा०-१ कर्णावलितं मुखस्य. २ व्यधात्, ३ अभिघनस्तनं याम् ; अभि- घनम्तनाग्रम्. ४ सा. यया तथोक्तां मुक्ताफलहार एव वल्ली तां न्यधत्त निदधे । या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गाया ओघयोः प्रवाहयोर्युगस्य लक्ष्मीं शोभां प्राप, तद्वच्छुशुभ इत्यर्थः । अभूतोपमा ॥ २४ ॥

 नखव्रणश्रेणिवरे१ बबन्ध नितम्बबिम्बे रशनाकलापम् ।
 २चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ॥२५॥

 नखेति ॥ स्मरारिर्हरः नखव्रणश्रेणिभिरात्मप्रयुक्ताभिर्वरे मनोहरे तस्या नितम्बबिम्बे रशनाकलापम् । चलं स्वं चेत एव मृगस्तस्य बन्धनाय मनोभुवः संबन्धिनं पाशमिव बबन्ध, मनोभूरस्यात्मनश्चेतो मृगस्य रशनाकलापरूपजालेन बन्धनं करिष्यति, अतो हरः स्वयमेव तत्र तं निदधावित्यर्थः । न हि कामलुब्ध आत्मनीनं गणयतीति भावः ॥ २५ ॥

 भालेक्षणाग्नौ स्वयमञ्जनं स ३भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
 नवोत्पलाक्ष्याः पुलकोपगूढे४ कण्टे ५विनीलेऽङ्गुलिमुञ्जघर्ष ॥२६॥

 भालेक्षणेति ॥ स हरो भाले यदीक्षणं नेत्रं तदेवाग्निः, दीपकरूप इत्यर्थः । तत्राञ्जनं स्वयं भङ्क्त्वा पातयित्वा । अथ च नवोत्पलाक्ष्यास्तस्याः पार्वत्या दृशोः साधु निवेश्य सम्यगञ्जयित्वा । अथ च पुलकै रोमाञ्चैरुपगूढे व्याप्ते विनीले श्यामले कण्टे, स्वीय इति शेषः । अङ्गुलिमुज्जघर्ष घृष्टवान् । यथान्योऽपि दीपकोपर्यङ्गुल्यैव कज्जलं पातयित्वा स्वस्त्रीनेत्रयोर्निवेश्य कुत्रचिदङ्गुलिमुद्धर्षति तद्वत् , अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः । स्वभावोक्तिरलंकारः ॥ २६ ॥

 अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
 स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः६ ।। २७ ।।

 अलक्तकमिति ॥ इन्दुचूडो हरः सरोरुहाक्ष्याः पार्वत्या पादसरोरुहाग्रेऽल- क्तकं संनिवेश्यानुलिप्य, करेणेति शेषः । स्वस्य मौलौ यद्गङ्गासलिलं तेन कृत्वा हस्तस्यारुणत्वमक्षालयन् ममार्ज ॥ २७ ॥

 भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
 नेपथ्यलक्ष्म्याः७ परिभावनार्थमदर्शयञ्जीवितवल्लभां सः ॥२८॥

पाठा०-१ श्रेणिकरे. २ चलत्. ३ न्यक्त्वा. ४ उपगूढः, ५विनी- लाङ्गुलिम्. ६ इन्दुमौलिः. ७ लक्ष्मी.  भस्मेति ॥ स हरः । आदर्शतलं भस्मनानुलिप्ते स्वकीये वपुषि विमृज्य शुद्धं कृत्वा नेपथ्यानामाकल्पवेषाणां लक्ष्म्याः शोभायाः परिभावनार्थमवलोकनार्थ सहेलं यथा तथा जीवितवल्लभां प्रियामदर्शयत् ॥ २८ ॥

 प्रियेण दत्ते मणिदर्पणे सा संभोगचिह्नं स्ववपुर्विभाव्य ।
 त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ॥ २९ ।।

 प्रियेणेति ॥ प्रियेण हरेण दत्ते मणीनां दर्पण आदर्श संभोगस्य चिह्नानि नखक्षतादीनि यत्र तथोक्तं स्वं वपुर्विभाव्यावलोक्य । भावनाऽत्र विलोकनपरिणता ज्ञेया । त्रपावती सलज्जा, ‘एतानि चिह्नानि विलोक्यान्यः किं वदिष्यति' इति विचारजनितया लज्जयान्धेत्यर्थः । सा पार्वती तन हरे घनमनुरागं प्रेम रोमाञ्चानां दम्भेन कैतवेन बहिर्बहिःस्थितत्ववैशिष्ट्यपूर्वकं बभार धृतवती । अन्तरस्या योऽनु- रागोऽभूत स एव बही रोमाञ्चत्वेन परिणत इति भावः ॥ २९ ॥

 नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सम्मेरमादर्शतले विलोक्य ।
 अमंस्त सौभाग्यवतीषु धुर्यामात्मानमुद्धूतविलक्षभावा ॥३०॥

 नेपथ्येति ॥ सा पार्वती । आदर्शतले दयितेन हरेणोपक्लृप्तां रचितां नेपथ्य- लक्ष्मीमाभूषणमण्डनं सस्मेरं सस्मितम् । अत्र स्मितस्यानुरागव्यञ्जकत्वम् । यथा तथा विलोक्योद्धृतस्त्यक्तो विलक्षभावः पूर्वसंजातवैलक्ष्यं यया, प्रसन्नेत्यर्थः । तथोक्ता सती। आत्मानं सौभाग्यवतीषु सतीषु मध्ये धुर्यामग्रगण्याममंस्त मेने, प्रियकृतनेपथ्यलक्ष्म्या अन्यदुर्लभत्वादिति भावः ॥ ३० ॥

 अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
 सुसंपदोपाचरतां कलानामङ्के स्थितां तां शशिखण्डमौलेः ॥३१॥

 अन्तरिति ॥ अथानन्तरं तत्रावसरे समये विजया जया चेत्युभे स्निग्धे सार्द्रचित्ते वयस्ये सख् । 'आलिः सखी वयस्या च' इत्यमरः । अन्तः प्रविश्य तत्र शशिनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य संबन्धिन्यङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया संपदा, शोभयेत्यर्थः ।

पाठा०-१ च. २ संयोगचिह्नम्. ३ विलक्षता सा; विलक्षभावम्. ४ उमां तदो- पाचरतां कलानाम् ; स्वसम्पदोपाचरतां कलानाम्. ५ दूरे स्थिताम ; अङ्कस्थिताम. उपाचरताम् , अलंचक्रतुरित्यर्थः । उपाचरतामिति लङः प्रथमपुरुषस्य द्विव- चनम् ॥ ३३ ॥

 व्यधुर्बहिर्मङ्गलगानमुच्चैवैतालिकाश्चित्रचरित्रचारु ।
 जगुश्च गन्धर्वगणाः सशङ्खखनं प्रमोदाय पिनाकपाणेः ॥३२॥

 व्यधुरिति ॥ बहिःप्रदेशे वैतालिका बन्दिनश्चित्रेण चरित्रेण चारु मनोहरं मङ्गलरूपं गानम् , गीतमित्यर्थः । उच्चैरुच्चस्वरेण व्यधुश्चक्रुः । तथा गन्धर्वगणाश्च पिनाकपाणेर्हरस्य प्रमोदायानन्दाय । 'प्रमोदामोदसंमदाः' इत्यमरः । सशङ्खस्वनं पाञ्चजन्यशब्दसहितं यथा तथा जगुः, गायन्ति स्मेत्यर्थः ॥ ३२ ॥

 ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
 द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ॥३३॥

 तत इति ॥ ततोऽनन्तरं स्वस्य स्वकर्तृकायाः सेवाया अवसरे समये तस्य हरस्य यदालोकनं तत्र तत्पराणामासक्तानां सुराणां गणान्कर्मभृतान् । नन्दी कर्ता । प्रणतो नम्रीभूतः सन् द्वारि प्रविश्य, न त्वन्तरेवेत्यर्थः । कृताञ्जलिः सन् निवेदयामास, देवा भवदवलोकनसमुत्सुकाः सन्तीति हरं बोधयामासेत्यर्थः ॥३३॥

 महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः।
 संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ॥३४॥

 महेश्वर इति ॥ महानीश्वरः समर्थो हरो मानसस्य मनोरूपस्य सरसो राजहंसी हिमाद्रेस्तनयां पार्वतीं करे दधानः सन् । संभोगलीलाया आलयतो मन्दिरात् । 'निकाय्यनिलयालयाः' इत्यमरः । बहिस्तान्सुरानभि सहेलं सलीलं यथा तथा निर्जगाम, निश्चक्रामेत्यर्थः ॥ ३४ ॥

 क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम ।
 प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते ॥३५॥

 क्रमादिति ॥ महेन्द्रप्रमुखास्ते देवाः शिरःसु निबद्धा अञ्जलयो यैस्तथोक्ताः सन्तो महेशं हरम् । तथा प्रालेयो हिमानीरूपो यः शैलाधिपतिः पर्वतराजो हिमालयस्तस्य तनूजां कन्यां लोकत्रयस्य मातरं जननीं देवी पार्वतीं च क्रमात्प्रणेमुः, नमश्चक्रुरित्यर्थः । 'उपसर्गादसमासेऽपि' ( पा. ८।४।१४ ) इति णत्वम् ॥ ३५ ॥

 यथागतं तान्विबुधान्विसृज्य प्रसाध मानक्रियया प्रतस्थे ।
 स नन्दिना दत्तभुजोऽधिरुह्य वृपं वृषाङ्कः सह शैलपुत्र्या॥३६॥

 यथागतमिति ॥ स वृषाङ्को हरस्तान्विबुधानिन्द्रादीन्मानक्रियया, संमान- विधानेमेत्यर्थः । प्रसाद्य प्रसन्नान्कृत्वा । तथा यथागतं विसृज्य च । नन्दिना दत्तो भुजो यस्मै तथोक्तः सन् । शैलपुत्र्या पार्वत्या सह वृषमधिरुह्यास्थाय प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १|३।२३) इत्यात्मनेपदम् । 'साकं सार्धं समं सह' इत्यमरः ॥ ३६॥

 मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो गंगनाध्वगोऽन्तः ।
 वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः॥३७॥

 मन इति ॥ मनसोऽप्यत्यन्तं वेगो गनिर्जवो यस्य तेन ककुद्मता वृषेण गगन- रूपिणोऽध्वनो मार्गस्यान्तर्मध्ये प्रतिष्ठते चलतीति प्रतिष्टमानः स गिरीशो हरो विहारार्यं हेलया क्रीडया गतिर्येषां तैः, यदृच्छया संचरमाणैरित्यर्थः । वैमानिकैर्वि- मानैश्चरन्तीति वैमानिकाः । 'चरनि' (पा. ४|४|८ ) इनि ठक् । 'ठस्येकः' (पा. ७।३।५० ) इनीकादेशः । 'किङ्नि च' (पा. १९१५) इत्यादिवृद्धिः । तथोक्तैः, देवैरित्यर्थः । साञ्जलिभिः सद्भिर्ववन्दे नमस्कृतः । कर्मणि लिट् ॥ ३७ ।।

 वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी।
 तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरिजागिरीशौ॥३८॥

 स्वर्वाहिनीति ॥ तौ गिरिजागिरीशौ गौरीहरौ, कर्मभूतावित्यर्थः । स्वर्वा- हिन्या मन्दाकिन्याः संबन्धिनि वारिणि विहारं संचारं चरत्याचरति । करोतीति यावत् , मन्दाकिनीशीकरवाहीत्यर्थः । अनेन शैत्योक्तिः । तथा रतान्ते यो नारीणां संबन्धी श्रमः खेदस्तस्य शान्तिं करोति । अनेन मान्द्योक्तिः । तथा पारिजातस्य कल्पवृक्षस्य संबन्धिनां प्रसवानां पुष्पाणां प्रसङ्गः संबन्धो यस्य । अनेन सौग- न्ध्योक्तिः । शैत्य-मान्द्य सौगन्ध्यरूपगुणत्रयविशिष्टो मरुत् समीरणः, कर्तृभूत इत्यर्थः । सिषेचे, आराधयामासेत्यर्थः ॥ ३८ ॥

पाटा०-१ प्रसादमानक्रियया; प्रसाद्यमानः प्रियया. २ गगनाध्वनीनः.

 पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः।
 धृतार्धसोमोऽद्भुतभोगिभोगो विभूतिधारी स्व इव प्रपेदे ॥ ३९ ॥

 पिनाकिनेति ॥ पिनाकिनापि हरेणापि कलितः स्वमहत्त्वेनावृतोऽम्बरांश आकाशप्रान्तदशो येन तथोक्तः । द्वितीयपक्षे कलिता वेष्टिता अंबरस्यांशा दिग्रृपा येन, दिगम्बर इत्यर्थः । तथा अर्धो यः सोमश्चन्द्रः सोऽम्याम्तीत्यर्धसोमो हरः स धृतो येन, कैलासवामी हि भगवानिगरीश इति भावः । द्वितीयपले धृतोऽर्धः कलारूपश्चन्द्रो येन । चन्द्रशेखरो हि भावानिगरीश इति भावः । भोगिन्यश्च भोगिनश्च भोगिनः । 'पुमान्स्त्रिया' (पा. १|२|६७) इत्येकशेषः। भोगिनः कामुका इत्यर्थः । तेषां तत्कर्तृको यो भोगः संभोगः सोऽद्भुत आश्चर्यकारी यत्र । द्वितीयपक्षेऽद्भुता भोगिनां सर्पाणां भोगा दहा यत्र, सर्पभूषणो हि भगवानिति भावः । तथा विभूतिं धरतीति विभूतिधारी, संपद्वानित्यर्थः । द्वितीयपक्षे विभूतिं भस्म धरतीति तथा, भस्मोद्धृलनकारी भगवान्गिरीश इति भावः । तथा कैलासनामा स्फटिकानामचलेन्द्रो गिरीन्द्रः, कर्मभूत इत्यर्थः । स्व इवान्मेव प्रपेदे प्राप्तः कर्मणि लिट् । पूर्णोपमालंकारः ॥ ३९ ॥

 विलोक्य यत्र स्फटिकस्य भित्तौ सिद्धाङ्गनाः खं प्रतिबिम्बमारात् ।
 भ्रान्त्या परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला नमत्सु ॥४०॥

 विलोक्येति ॥ यत्र कैलासे स्फटिकस्य भित्तौ । आरात्समीपम् । 'आराद्दर- समीपयोः' इत्यमरः । पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्या भ्रान्त्या भ्रमेण मानग्रहिला माने प्रणयकलहे ग्रहिला आग्रहवत्यः । तुन्दादेराकृति- गणत्वाश्रयणादिलच् । सिद्धाङ्गनाः प्रियेषु नमत्स्वपि सत्सु विमुखीभवन्ति, परा- ङ्मुख्यो भवन्तीत्यर्थः ॥ ४० ॥

 सुबिम्बितस्य स्फटिकांशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
 गौर्यार्पितस्येव रसेन यत्र कस्तूरिकायाः शकलस्य लीलाम् ॥४१॥

 सुविम्बितस्येति ॥ यत्र स्फटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बितस्यात

पाठा०-१ मृतभोगिभोगः. २ स्वप्रतिबिम्बम्. ३ परस्याभिमुखीभवन्ति. ४ मनस्सु. ५ कस्तरिकास्थासकला एव स्फटिकांशुभिः, शुभैरित्यर्थः । गुप्तिः प्रतिबिम्बगोपनं यस्य, उभयोः शुक्ल- त्वात्पृथगभासमानस्येत्यर्थः । तथोक्तस्य चन्द्रस्य संबन्धी चिह्नप्रकरः कलङ्कसंचयः। 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । गौर्या पार्वत्याऽर्पितस्य निहितस्य कस्तूरि- कायाः शकलस्य खण्डस्य । संचय इवेत्युत्प्रेक्षा । लीलां क्रीडाम् , शोभामिति यावत् । करोति । निदर्शनाभेदः । स चोपमायोत्प्रेक्षया वा संकीर्यत इति संदेहसंक- रोऽत्रालंकारः । यदि गौर्यार्पितं तर्ह्युपमा, यदि नार्पितं तर्ह्युत्प्रेक्षेत्यवधेयम् ॥ ४१ ॥

 यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
 मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ।। ४२ ॥

 यदीयेति ॥ करीन्द्रा आत्मानं शरीरम् , स्वीयमिति शेषः । यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवमालोक्य विलोक्य मत्ता येऽन्ये कुम्भिनो दन्तिनम्तेषां भ्रमतो भ्रमाज्जनितया रुषा क्रोधेन । 'प्रतिधा रुट्क्रुधौ स्त्रियौ' इत्यमरः । अनिभीमा ये दन्तास्तेषां योऽभिघात आघातस्तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति, भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः॥ ४२ ॥

 निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
 दृष्ट्वा रतान्तच्युततारहारमुक्ताभ्रमं विभ्रति सिद्धवध्वः॥४३॥

 निशास्विति ॥ यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि तारा- कुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किंनरनार्यो रतान्ते च्युतो भ्रष्ट- स्तारोऽत्युच्चैर्यो हारो मुकाहारः । 'तारोऽत्युच्चैस्त्रयस्त्रिषु' इत्यमरः । तस्य या मुक्ता मौक्तिकानि तासां भ्रमं बिभ्रति । स्फटिकालयप्रतिबिम्बितमुक्तासदृश- नक्षत्रकुलमभिवीक्ष्य सुरतान्तकालीनहारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वो भवन्तीति भावः ॥ ४३॥

 नभश्चरीमण्डनदर्पणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
 अनर्घ्यचूडामणितामुपैति शैलाधिनाथस्य शिवालयस्य ॥४४॥

 नभश्चरीति ॥ नभसि चरतीति नभश्चरी, आकाशचारिणीत्यर्थः । 'चरेष्टः' (पा. ३|२|१६) इति टप्रत्यये टित्वात् 'टिड्डाणम्-' (पा. ४|१।१५) इति ङिप् ।


पाठा०-१ नाग. २ रतान्त. ३ शैलाधिराजस्य. तथोक्ता मण्डनस्य विलासस्य यो दर्पण आदर्शस्तस्य श्रीरिव श्रीर्यस्य तथोक्तः । अत्र 'श्री'शब्दस्य रूढत्वेन शोभेति संज्ञावाचकत्वात् 'संज्ञापूरण्योश्च' (पा. ३|३|:- ३८) इति पुंवद्भावो न । सुधानिधिश्चन्द्रो यस्य कैलासस्य मूर्धनि शृङ्गे तिष्ठन् । शिवालयस्य शिवाः कल्याणकारिण आलया गृहा यत्र तस्य । शैलानामधिनाथस्य पत्युर्हिमालयस्यानर्घ्यो यश्चूडामणिस्तत्तामुपैति । हिमालयशिग्वरस्य कैलासशिग्वरा- त्किंचिदधिकत्वम् । यदा कैलासमूर्धनि चन्द्रस्तदा हिमालयस्य मूर्ध्नोऽधः किंचि- द्वर्तत इति भावः ॥ ४४ ॥

 समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
 एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विता स्वैः।।

 समीयिवांस इति ॥ यत्र सुराः स्मरार्ता अत एव रिरंसवो रन्तुमिच्छन्तः । रमतेः सन्नन्तात् ‘सनाशंसभिक्ष उः' ( पा. ३|२।१३८ ) इत्युप्रत्ययः । तथोक्ताः। अत एव प्रियाभिः सहैकाकिलोऽपि प्रत्येकमेकसंख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तो भूयोभिः स्वैदेहैरन्विता इव विभान्ति । यतः प्रतिबिम्बभाजः प्रनि- बिम्बितवशादेक एवानेकधा दृश्यत इति युक्तमेवेति भावः ॥ ४५ ॥

 देवोऽपि गौया सह चन्द्रमौलिर्यदृच्छया' स्फाटिकशैलशृङ्गे ।
 शृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ।। ४६ ॥

 देवोऽपीति ॥ चन्द्रमौलिर्देवोऽपि हरोऽपि स्फाटिकशैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्रभुत्वे शिखरे' इति मेदिनी। गौर्या पार्वत्या सह यदृच्छया स्वेच्छया, यथाकाममित्यर्थः । मनोहराभिरत एवानारताभिर्निरन्तरं भवन्तीभिः शृङ्गारचेष्टाभिश्चिराय व्यहरद्विजहार ॥ ४६ ॥

 देवस्य तस्य स्मरसूदनस्य हस्तं समालिङ्ग्य सुविभ्रमश्रीः ।
 सा नन्दिना वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ॥४७॥

 देवस्येति ॥ सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीर्यस्याः सा पार्वती । स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तं समालिङ्ग्य, अवलम्ब्येत्यर्थः । वेत्रभृता यष्टिधारकेण तथा पुरोगेणाग्रगामिना नन्दिना गणे-

पाठा०-१ दिशः. २ समालम्ब्य. ३ उपदिष्टं मार्गम. नोपदिष्टमार्गतो गमनं विधेयमिति प्रदर्शितमार्गा सती कलं मधुरं यथा तथा चचाल, मन्थरां गतिमकार्षीदित्यर्थः ॥ ४७ ॥

 चलच्छिखाग्रो विकटाङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः ।
 भ्रुवोपदिष्टः स तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ॥४८॥

 चलदिति ॥ चलन्ति शिखाग्राणि चूडाग्राणि यस्य । 'शिखा शाखा बर्हि- चूडालाङ्गलिक्यग्रमात्रके । चूडामात्रे शिखायां च ज्वालायां प्रपदेऽपि च ॥' इनि मेदिनी । तथा विकटाः कराला अङ्गभङ्गा नृत्यचेष्टाविशेषा यस्य । 'विकटो वज्रवाराह्यां त्रिषु रुचिरकालयोः' इति मेदिनी । तथा सुदन्तुर उन्नतः । 'दन्तुर- स्तून्नते त्रिषु ' इति मेदिनी । 'दन्त उन्नत उरच्' (पा. ५।२।१०६ ) इत्युरच्प्रत्ययः । शुक्लं शुभ्रं सुनीक्ष्णं सुतरां निग्मं तुण्डं मुखं यस्य । एतादृशः स प्रसिद्धो भृङ्गी गणविशेषस्तु तस्या भवान्या विनोदायानन्दाय शंकरेण भ्रुवोपदिष्टः प्रेरितः सन्ननर्न ॥ ४८॥

 कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् ।
 प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य ॥४९॥

 कण्ठस्थलीति ॥ कण्ठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः । तथा दंष्ट्राभिः करालं भयानकमाननं बिभ्रती काली कालिका । 'काली तु कालिका क्षीरकीटेषु परिकीर्तिता' इनि मेदिनी । प्रियस्य कलवस्य पार्वत्या मुदे प्रीत्यै नेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती । अभ्यनृत्यन्ननर्त। नृत्यतेर्देवादिकात्कर्तरि लङ् ॥ ४९ ॥

 भयङ्करौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
 सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ ५० ॥

 भयङ्कराविति ॥ विकटं करालं यथा तथा नदन्तौ शब्दायमानौ अत एव भयङ्करौ तौ कालीभृङ्गिणौ विलोक्य भयेन विह्वलमङ्गं यस्याः सा बाला पार्वती प्रसह्य बलात्कारेण स्वयमात्मनैवानङ्गशत्रोर्हरस्योत्सङ्गं सरागं सानुरागं यथा तथा ।

पाठा०-१ चलद्विषाणः, २ सदन्तुरः. ३ शुष्क सुतीक्ष्णतुण्डः. ४ हि ५ प्रणुन्ना. ६ नटन्तौ. ७ सरंगम्. 'सरङ्गम्' इति पाठे भावे नलोपश्चिन्त्यः । गाढमालिलिङ्ग, अन्योऽपि भीनः सन् कंचिदालिङ्गति तद्वदिति भावः ॥ ५० ॥

 उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
 प्रपद्य सद्यः पुलकोपगूढः स्मरेण रूढप्रमदो ममाद ॥५१॥

उत्तुङ्गेति ॥ ईशो हरो रूढोपर्यारूढा प्रमदा पार्वती यस्यात एवोत्तुङ्गमुच्चैः पीनं पुष्टं यत् स्तनपिण्ढम् , उभयोरतिस्थूलतया परस्परसंयुक्तत्वात्पिण्डीभूतमिति भावः । तेन कृत्वा पीडा यत्र । तथा ससंभ्रमं सभयं तस्यास्तत्कर्तृकं परिरम्भ- माश्लेषं प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैरुपगूढः सन् ममाद मत्तो बभूव ॥ ५५ ॥

 इति गिरितनुजाविलासलीलाविविधविभंगिभिरेष तोषितः सन् ।
 अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ।। ५२॥

इतीति ॥ गिरीन्द्रे कैलासे कृता वर्सातर्येन तथाऽमृतकरश्चन्द्रः शिरसि मणि- रिव यस्य स एष हर इत्येवंभूतैर्गिरितनुजायाः पार्वत्याः संबन्धिनी या विलास- लीला सकामचेष्टाक्रीडा तस्या विविधा नानाविधा या विभङ्ग्यो रचनास्ताभि- स्तोषितः प्रीतः सन् । वशिभिः स्ववशंगतैर्गणैर्नन्दिप्रभृतिभिः सह ननन्द जहर्ष । तेषां हर्षोऽनयोरलौकिकक्रीडादर्शनादिति भावोऽनुसंधेयः । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ५२ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
कैलासगमनो नाम नवमः सर्गः ।

पाठा०---१ पीठ. २ मुतया.