कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/चतुर्थः सर्गः(रतिविलापः)
← तृतीयः सर्गः(मदनदहनः) | कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५) चतुर्थः सर्गः(रतिविलापः) कालिदासः |
पञ्चमः सर्गः(तपःफलोदयः) → |
चतुर्थः सर्गः ।
मूर्च्छिता रतिरित्युक्तम् , संप्रति तद्वृत्तान्तमेवाह-
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥१॥
अथेति ॥ अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । 'परायणमभिप्रेते तत्परे परमाश्रये' इति यादवः । विवशा
पाठा०-१ अथ स. २ दीर्घाकृतात्मा. - मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । 'नव'ग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यताऽनुभावयिष्यता। क्रियार्थ- क्रियायां लृट् । विधिना दैवेन । 'विधिर्विधाने देवे च' इत्यमरः । विबोधिता, वैधव्यानुफलोऽयं विधिरिति भावः । अस्मिन्सर्गे वियोगिनीवृत्तानि–'विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी' इति लक्षणात् ॥ १॥
अवधानपरे चकार सा प्रलयान्तोन्मिपिते विलोचने ।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ २॥
अवधानेति ॥ सा रतिः प्रलयान्ते मूर्छावसाने । 'प्रलयो नष्टचेष्टता' इत्य- मरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिद्दक्षयाऽवहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह-नेति । प्रियं कामम- तृप्तयोस्तृप्तिं न गतयोः, नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रिया- पेक्षया संबन्धे षष्टी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिद्दक्षां चक्र इति तात्पर्यार्थः ॥ २ ॥
अयि जीवितनाथ ! जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ३॥
अयीति ॥ 'अयि' इति प्रश्ने । 'अयि प्रश्नानुनययोः' इति विश्वः । अयि जीवितनाथ ! जीवसि प्राणिषि कच्चित् ? इत्यभिधायोस्थितया तया रत्या पुरोऽमे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्म ददृशे दृष्टम् , न तु पुरुष इति भावः ॥ ३ ॥
अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम्॥४॥
अथेति ॥अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसर- स्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा
पाठा०-१ निमम. २ धूसराकृतिः. तथोक्ता । 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीष् । विकीर्ण- मूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् , तन्नत्यान्प्राणिन इत्यर्थः । 'जानपदकुण्डगोणस्थल-' (पा. ४।१।४२) इत्यादिना ङीष् । समदुःखां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । 'विलापः परिदेवनम्' इत्यमरः ॥ ५ ॥
उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥५॥
उपेति ॥ तब यत्करणं गात्रम् । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलासिनां विलसनशीलानाम् । 'वौ कपलस-' (पा. ३।२।१४) इत्यादिना घिनुष्प्रत्ययः । उपमीयते येन तदुपमान- मभूत् । तत्करणमिदमीद्दशीम् दशामवस्थां गतम् , भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि। कर्मकर्तरि लट् । तथा हि-स्त्रियः कठिनाः खलु, कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरूपोऽर्थान्तरन्यासः। 'धीरसंचारिणी दृष्टिगतिर्गोवृषभाच्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥ इति ॥ ५॥
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ ६ ॥
क्केति ॥ हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलि- नीमिव, जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्व नु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् विद्रुतः पलायितोऽसि ? सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' (पा. ६।३।५०) इति हृदा- देशः । अणि हृद्भावाम 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्यु- भयपदवृद्धिः। हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सौहार्दमिति । तदेवाह वामनः (काव्या.सू. ५।२।८३)–'सौहृददौर्ह्दशब्दावणि
हद्भावात्' इति ॥ ६॥ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ७ ॥
कृतेति ॥ हे प्रिय ! त्वं मे मम विप्रियमप्रियं कृतवान्नासि; मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव, परस्परापकाररूपकारणाभा- वेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै, त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते ? क्रियाग्रहणाचतुर्थी ॥ ७ ॥
विप्रियमाशङ्कते-
स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥८॥
स्मरसीति ॥ हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । 'गोत्रं नाभ्यचले कुले' इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा ? 'विकल्पे किं किमूत च' इत्यमरः । च्युतकेशरैर्धष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पल- ताडनानि, सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा ? अपकारस्मरणादिदमदर्श- नमिति भावः ॥ ८॥
हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥९॥
हृदय इति ॥ 'हृदये वससि' इति स्मरवाक्यानुवादः । इत्येवंरूपं मत्प्रियं यदवोच उक्तवानसि । ब्रूजो लुङि 'वच उम्' (पा. ७।४।२०) इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचारपदं परस्य रञ्जनार्थं यदसत्य- भाषणं स उपचारस्तस्य पदं स्थानम् , कैतवस्थानमिति यावत् ; न चेत्त्वमन-
पाठा०-१ ताडनानि च. टिप्प०-1 रघुवंशगतोऽजविलापः कुमारसंभवगतो रतिविलापश्चेति करुणरसपरि- प्लुतं विभिन्नभूमिकमप्येतद्विलापद्वयमविभिन्नकल्पनोपमाशब्दप्रयोगादिभिः कविकालिदासः सम्यग्भणितवान् । तत्र श्लोकेनानेन ‘मनसापि न विप्रियं मया कृतपूर्व' (रघु० ८।५२) इति श्लोको हि सर्वथार्थसाम्यमासादयति। 2 श्लोकेनानेन समं 'इयमप्रतिबोधशायिनी रशना' (रघु० ८१५८) इति श्लोकस्तुलनामर्हति । ङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा ? आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ ९ ॥
न च मे कश्चिद्विचारः, किंतु लोकः शोच्यत इत्याह--
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् १०
परलोकेति ॥ परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये, त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादित्वात् 'सप्तमी शौण्डैः' (पा. २।१।४० ) इति समासः । 'अध्युत्तरपदात्' (पा. ५।४।७) इति खप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावे कुतः सुखमिति भावः॥ १० ॥
तदेवाह--
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ११
रजनीति ॥ हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे धनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । 'अन्यारादितरर्ते-' (पा. २।३।२९) इत्यादिना पञ्चमी । क ईश्वरः शक्तः ? न कश्चिदित्यर्थः । न हि कामान्धानां भीतिरस्तीति भावः ॥ ११ ॥
नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ १२ ॥
नयनानीति ॥ अरुणानि नयनानि घूर्णयन्भ्रामयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन् प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनाऽनुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे ( १०।३३)--'तां मदो
दयितसंगमभूषः' इति ॥ १२ ॥ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः।
बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥ १३ ॥
अवगम्येति ॥ हे अनङ्ग अशरीर! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलो. दयः उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां काश्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति, वृथा वृद्धिरिति दुःख- यिष्यत इत्यर्थः ॥ १३ ॥
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥
हरितेति ॥ हरितं चारुणं च । 'वर्णो वर्णेन' (पा. २।१।६९) इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः। कलेन मधुरेण पुस्को- किलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतचर्वणकार्यस्वारकल- शब्दस्येति भावः । नवचूनप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति वद; अन्यस्य पुष्पबाणस्याभावादिति भावः ॥ १४ ॥
अलिपङ्त्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणखनैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥
अलीति ॥ त्वयाऽनेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुण- वत्कर्मणि च नियोजिताधिकृतेयमलिपङ्त्तिः करुणस्वनैर्दीनस्वनैर्विरुतैः कूजितैर्गुरु- शोकां दुर्भरदुःखाम् । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दा- र्णवः । मामनुरोदितीव । उपसर्गात्सकर्मकत्वम् । 'रुदादिभ्यः सार्वधातुके' (पा. ७।२।७६) इतीडागमः ॥ १५ ॥
प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६ ॥
प्रतिपद्येति ॥ तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् ।
पाठा०-१ चारुपल्लवः. २ स्वरैः. ३ परपुष्टा. मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । डीबन्तस्यापि 'दूती' शब्दस्य छन्दोभङ्गभयाद्रस्वः । 'अपि माषं मषं कुर्याच्छ- न्दोमङ्गे त्यजेद्विरम्' इति केचित् । 'उणादयो बहुलम्' (पा. ३॥३॥१) इति बहुलग्रहणाइस्व इति वल्लभः ॥ १६ ॥
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥१७॥
शिरसेति ॥ हे स्मर! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि 'द्वितोऽथुच्' (पा. ३ ३।८९) इत्यथुच्प्रत्ययः । सात्त्विकान्तरोपलक्षणमेतत् । 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्चर्यमित्यष्टौ सात्त्विकाः परि- कीर्तिताः ॥' इति । उपगृढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनु- भूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समान- कर्तृकत्वं दुर्घटं समानक्रियापेक्षाम्तीति केचित् ॥ १७ ॥
रंचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥
रचितमिति ॥ हे रतिपण्डित रतिकुशल ! त्वया ममाङ्गेष्वक्यवेषु स्वयं रचितं ऋतुरस्य प्राप्त आर्ववं वासन्तम् । 'ऋतोरण' (पा. ५।१६१०५) इत्यण्प्रत्ययः। कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । 'पृञ् अवस्थाने' इति धातो- स्तौदादिकाकर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते ॥ १८ ॥
विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ १९ ॥
पाठा० -१ नवमङ्गेषु. २ विबुधैस्त्वमनङ्ग. ३ प्रतिकर्मणि. टिप्प.-1 कोकिलानां रतिदौत्ये सामर्थ्यमुक्तं कालिदासेन (रघु. ९।४७)-'त्यजत मानमलं बत विग्रहैन पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥' इति । 2 १८-१९ तमं श्लोकद्वयं मिथुनं परिकल्पितं स्वया' (खु. ८।६१-६२) इत्यादिश्लोकद्वयेन विमर्शमईति । विबुधैरिति ॥ दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः, अनभिज्ञत्वं च ध्वन्यते । यस्य मञ्चरणस्य परिकर्मणि प्रसाधने । 'परिकर्म प्रसाधनम्' इत्यमरः । असमाप्ते सति स्मृतोऽसि तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं रचितलाक्षारागं कुर्वेह्यागच्छ ॥ १९ ॥
अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥२०॥
अहमिति ॥ अहं पतङ्गवर्त्मना शलभमार्गेण, अग्निप्रवेशेनेत्यर्थः । 'पतङ्गः शलभे चाग्नौ मारिऽर्के शरे खगे' इति वैजयन्ती । एत्यागत्य पुनस्तेऽकाश्रय- ण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरका मिनीजनैरप्स- रोगणैर्याचन्न विलोभ्यसे, विलोभयिप्यसे 'यावत्पुरानिपातयोर्लद' (पा. ३।३।४) इति लट् ॥ २० ॥
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥ २१ ॥
मदनेनेति ॥ हे रमण ! त्यामनुयामि यद्यप्यनुगमिष्याम्येव । 'वर्तमानसा- मीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । 'यद्यपीत्यवधारणे' इति केशवः। किंतु रतिर्मदनेन विनाकृता, वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षण- मात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् ॥२१॥
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ २२ ॥
क्रियतामिति ॥ परलोकेऽन्तरितस्य व्यवहितस्य, मृतस्येत्यर्थः । ते तव मयाऽन्त्यमण्डनं कथं केन प्रकारेण क्रियताम् ? क्रियतामित्यत्र कामचारे लोद बोध्यः, द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः ? अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि इह मृतशरीरमपि
नास्ति, कस्य मण्डनमिति भावः ॥ २२ ॥ऋजुतामिति ॥ शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । 'धनुषश्च' (पा. ५।४।१३२) इत्यनङादेशः । ते तव मधुना वसन्तेन सह । 'मधुर्दैत्ये वसन्ते च चैत्रे च' इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम्,'ते' इत्यनुषङ्गः । तच्च स्मरामि ॥ २३ ॥
क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ २४ ॥
क्वेति ॥ हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्'(वा. २००९) इति खच्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन स कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा ? गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम्, भस्मतामित्यर्थः । न गमितः खलु, न प्रापितः किम् ? 'जिज्ञासानुनये खलु' इत्यमरः ॥ २४ ॥
अथेति ॥ अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम्, आश्वासयितुमित्यर्थः । 'अभ्युपपत्तिरनुग्रहः' इत्यमरः । आत्मानं पुरोऽदर्शयत्, आविरभूदित्यर्थः ॥ २५ ॥
तमवेक्ष्य रुरोद सा भृशं स्त[५]नसंबाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ २६ ॥
तमिति ॥ सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भृशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । 'परिक्लिश्यमाने च' (पा. ३।४।५५) इति णमुल् । उरो जघान
ताडितवती च । तथा हि-स्वजनस्याग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य
तदिवोपजायत आविर्भवति, उच्छृङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ॥ २६ ॥
इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ।
तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ।। २७ ॥
इतीति ॥ दुःखमस्याः संजातं दुःखिता, संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं, तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते, पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥ २७ ॥
अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २८ ॥
अयीति ॥ अयि स्मर! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सुकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह-नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् , चलमित्यर्थः । सुहृजने प्रेम तु नचलं खलु ॥ २८ ॥
ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य कोऽपीत्याह-
अमुना ननु ! पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
बिसतन्तुगुणस्य कारितं धनुपः पेलवपुष्पपत्रिणः ।। २९ ॥
अमुनेति ॥ ननु मदन ! पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगत् , बिसतन्तुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् , जगदाज्ञाकारितेत्यर्थः ।'हृक्रोरन्यतरस्याम्'(पा. ११४।५३) इति जगतः कर्मत्वम् ॥ २९ ॥
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दर्शव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ ३० ॥
पाठा०-१ यदिद. २ प्रकीर्यते. ३ कपोतपाण्डुरम्. ४ कोमल, पेशल.५ व्यसनप्रधूमिताम्. टिप्प०-1 श्लोकोऽयं रघुवंशस्य (८/५६) लोकेन सह तुल्ययोगितया विमर्शमर्हति । गत इति ॥ स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव, तिष्ठामीति शेषः ।'दशावर्ताववस्थायां वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । कुतः ? अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य, धूमवत्त्वान्नष्टदीपदशा- साम्यं, धूमश्च व्यसनमेवेत्यर्थः ॥ ३० ॥
विधिना कृतमर्धवैशसं ननु ! मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ३१ ॥
विधिनेति ॥ ननु वसन्त! कामवधे मदनवधे मां विमुञ्चता वर्जयता,अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । 'अर्धो वा एष आत्मनो यत्पत्नी' इति श्रुतेः । पत्युः स्वस्य चाश्रया-श्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपाधिन्यनपायित्वेन विश्वस्ते संशयद्रुम आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः, पतितुमेव साऽलमित्यर्थः । 'तुमर्थाच्च भाववचनात्'(पा, २/३/१५) इति चतुर्थी ॥३१॥
संप्रत्यनन्तरकर्तव्यं प्रार्थयते--
तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ॥ ३२ ॥
तदिति ॥ तत्तस्मात्कारणादुक्तप्रकारेण, अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनाति सर्जनादग्निदानात्पत्युरन्तिकं प्रापय, अग्निप्रवेशनं कारयेत्यर्थः ॥ ३२॥
पाठा०-१ अनघापि हि. २ संश्रिता द्रुमे. ३ भर्तुः. टिप्प०----1 श्लोकेनानेन (रघु० ८।४७) 'अथवा मम' इति श्लोकः तुलनां स्मारयति । कर्तव्यश्चायमर्थः स्त्रीणामित्याह-
शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥
शशिनेति ॥ कौमुदी चन्द्रिका शशिना सह याति, शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्म गच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचतनैः, अविवेकिभिरपीत्यर्थः । प्रतिपन्नं ज्ञातम् । 'अलवणा यवागूः', 'अनुदरा कन्या' इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । नाथस्तु 'पृथग्जनैः' इति पपाठ । पतिवर्त्म॑गा इत्यत्र स्मृतिः-'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिनाकृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति ॥ ३३ ॥
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभम्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ३४ ॥
अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव,एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनी । 'रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे' इति वैजयन्ती ।नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि,निधास्यामीत्यर्थः॥ ३४ ॥
कुसुमास्तरणे सहायतां बहुशः सौम्य ! गतस्त्वमावयोः ।
कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ।। ३५ ॥
कुसुमेति ॥ हे सौम्य साधो! त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहायतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः, अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व, यथेह तथामुत्रोपकर्तव्य मित्रेणेत्यर्थः ॥ ३५ ॥
तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥३६॥
पाठा०-१ विलीयते. टिप्प०-1 'शशिनं पुनरेति शर्वरी' (रघु. ८/५६) इति श्लोकोऽनेन तुलनामर्हति । तदन्विति ॥ तच्चिताकरणमन्वनन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिण- वातवीजनैर्मलयमारुतसंचालनैस्त्वरयेः, त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा. ३/२/१८८ ) इति वर्तमाने क्तः। तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति, तथा त्वया ज्ञातमेवेत्यर्थः ॥ ३६॥
इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ ३७॥
इतीति । अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति ॥३७ ॥
परलोकविधौ च माधव! स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥
परलोकेति ॥ किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादि कर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चुतवल्लरीर्निवपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रियाश्चुतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥
इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ ३९ ॥
इतीति ॥ इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् , कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाक् । हृदशोषविक्लवां हृदस्य जलाधारस्य शोषेण विक्लवां शफरी प्रोष्ठीम् । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती, सदयमुवाचेत्यर्थः । 'कृपा दयानुकम्पा स्यात्' इत्यमरः ॥३९॥
कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥४०॥
पाठा०-.१ यन्मया. २ विह्वलाम्, ३ अन्वकम्पत. ४ हरलोचनार्चिषाम्. टिप्प०-1 श्लोकेनानेन रघुवंशगत (८।६१-६२) 'मिथुनं परि-', 'कुसुमं कृतदोहदस्त्वया' इति श्लोकद्वयस्यौपम्यादिभिः साम्यं स्मारयति । कुसुमेति ॥ हे कुसुमायुधपत्नि रते! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति, किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच शृणु, तत्कर्मेति शेषः । येन कर्मणा स ते भर्ता हरलोचनस्यार्चिर्ज्वाला। 'ज्वाला भासो न पुंस्यर्चिः' इत्यमरः । तस्मिन् शलभत्वं पतङ्गत्वं गतः । 'समौ पतङ्गशलभौ' इत्यमरः ॥४०॥
तदेव कर्मोपाचष्टे-
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ।। ४१ ।।
अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः, स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुध्याभिशप्तः सन् । एतत्फलं दाहात्मकं स्वकर्मफलमन्वभूत् ॥ ४१ ॥
शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन-
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥४२॥
इति चाह म धर्मयाचितः स्मरंशापावधिदां सरस्वतीम् ।
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४३ ॥
परिणेष्यतीति ॥ इतीति च ॥ धर्मेण धर्माख्यप्रजापतिना याचितःप्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वती परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तानन्दः सन् । स्मरं
पाठा०-१ स योजयिष्यति. २ स्मरशापान्तभवाम्. टिप्प०-1 प्रजापतेः सुताभिलाषविषये तु---'उदीरय पितरा जारमामगं' (क० ७. ६.१०) इति पठ्यते, ऋक्संहिताया ऐतरेय ब्राह्मणे तु–'प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत् दिवमित्यन्य आहुरुषसमित्यन्येतामृश्यो भूत्वा रोहितंभूतामभ्त्यैत्' इति च पठ्यते । अत्र विषये जैमिनिसूत्रभाष्यवार्तिककारास्तु-'प्रजापतिस्तावत् प्रजापालनाधिकारादादित्य एवोच्यते, स च अरुणोदयवेलायामुषसमुद्यन्नभ्यैत् । सा तदागमनादेवोपजायतइति तद्दुहितृत्वेन व्यपदिश्यते । तस्यां चारुणकिरणाख्यबीजनिक्षेपात् स्त्रीपुरुषयोगवदुपचार इति व्याचख्युः । तस्यैतद्विसंवादिप्रवादस्स याथातथ्ये त्वभियुक्ता एव शरणम् । कामx स्वेन वपुषा नियोजयिष्यति संगमयिष्यति । इत्येवं स्मरशापस्यावधिदाम- वसानदायिनीx सरस्वती वाचं चाह, एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाचाम्बुधराश्चा- शनेरमृतस्य चेत्युभयोर्योनयः प्रभवाः । वशिपक्षे-अशन्यमृतशब्दौ कोपप्रसा- दपरौ । अन्यत्र वैधुताम्युदकपरौ । युग्मकम् ॥ ४२-४३ ॥
तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।
रविपीतजला तपात्यये पुनरोधेन हि 1युज्यते नदी ॥४४॥
तदिति ॥ हे शोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन् प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथा हि-रविपीतजला नदी तपात्यये प्रावृषि। 'प्रावृट् तपात्यये' इति हलायुधः । पुनरोधेन प्रवाहेण युज्यते संगच्छते हि ॥४४॥
इत्थं रतेः किमपि भूतमदृश्यरूपं
मन्दीचकार मरणव्यवसायबुद्धिम् ।
तत्प्रत्ययाच कुसुमायुधबन्धुरेना2-
माश्वासयत्सुचरितार्थपदैर्वचोभिः ॥४५॥
इत्थमिति ॥ इत्थमनेन प्रकारेणादृश्यरूपं किमपि भूतं कश्चित्प्राणी । 'युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु' इत्यमरः । रतेर्मदनदाराणां मरण- व्यवसायबुद्धिं मरणोद्योगबुद्धिं. मन्दीचकार, निवारयामासेत्यर्थः 'मूढाल्पापटु- निर्भाग्या मन्दाः' इत्यमरः। अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । एनां रतिं सुष्टु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादा- प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः ॥ ४५ ॥
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा 3परिपालयांबभूव ।
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोपम् ॥४६॥
पाठा०-१ पूर्यते. २ एताम्. ३ प्रतिपालयांबभूव. टिप्प०-1 विभिन्न विषयापीयमुपमा 'पतिरङ्कनिषण्णया तया' (रघु० ८।४२) इति श्लोकसाम्यं निर्दिशति। अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । 'सायंचिरम्-' (पा. ४।३।२३) इत्यादिनाव्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचके । पुष्पिताना वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ४६ ॥
इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
रतिविलापो नाम चतुर्थः सर्गः ।