कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/तृतीयः सर्गः(मदनदहनः)

← द्वितीयः सर्गः(ब्रह्मसाक्षात्कारः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
तृतीयः सर्गः(मदनदहनः)
कालिदासः
चतुर्थः सर्गः(रतिविलापः) →

तृतीयः सर्गः ।


 तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात ।
 प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥१॥

 तस्मिन्निति ॥ भघोन इन्द्रस्याक्षणां सहस्रं त्रिरावृत्ता दश परिमाणमेषामिति त्रिदशान्देवान् । 'संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' (पा. २।२।२५) इति बहुव्रीहिः । 'बहुबीहौ संख्येये-' (पा. ५।४।७३) इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्त्वा तमिन्कामे युगपत्पपात । सहस्त्रेणाक्षि- भिरद्राक्षीदित्यादरातिशयोक्तिः । ननु सुचिरपरिचितानेकसुरपरित्यागेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्कद्यार्थान्तरं न्यसति-प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थि- त्वेन हेतुना चलं चञ्चलम् । फलतन्त्राःप्रभवः, न तु गुणतन्त्रा इति भावः॥ १ ॥

 स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः ।
 भर्तुः प्रसादं प्रतिनन्द्य मूर्धा वक्तुं मिथः प्राक्रमतैवमेनम् २

 स इति ॥ स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षणया तु न; 'न


पाठा०-१ निसृष्ट. २ प्रतिवन्द्य. लोकाव्ययनिष्ठाखलर्थतनाम्' (पा. २।३।६९) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्धा प्रतिनन्ध संभाव्य मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । 'प्रोपाभ्यां समर्थाभ्याम्' (पा. १।३।४२) इत्यात्मनेपदम् ॥ २॥

 आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
 अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥३॥

 आज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार ! ज्ञातपुंविशेषेत्यर्थः । सापेक्षस्वेऽपि गमकत्वात्समासः। आज्ञापय, तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह-लोकेषु ते तव यत्क- रणीयं कर्तन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन संवर्धितं वृद्धि गमितमिच्छामि । संस्मरणकृतमनुग्रहं केनचिन्नियोगेन वर्धय, कचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्त- पाठे णिजर्थे यत्रः कार्यः ॥३॥

 न च मे किंचिदसाध्यमस्तीत्याह-

 केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्धैर्जनिता तपोभिः ।
 यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥४॥

 केनेति ॥ पदकाक्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्धैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता ? तं ब्रूहीति शेषः । किमर्थम् ? यावद्यतः स भवद्वैरी। अहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति, अविलम्बेनैव भविष्यतीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लद ॥ ४ ॥

 संप्रति चतुर्वर्गे मोक्षमधिकृत्याह-

 असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः।
 बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः॥५॥

 असंमत इति ॥ तवासंमतः कः ? पुनर्भवः पुनरुत्पत्तिः, संसार इति


पाठा०-१ संवर्धितुम्. २ फलकाङ्क्षिणा. ३ आरोपितः. ४ विलासैः. ४ कु० सं० यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भूमिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्ठतु । आरेचितलक्षणं तु- स्याद्भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्भ्रुकुटिं विदुः ॥ इति ॥ ५॥

 धर्मार्थावधिकृत्याह-

 अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
 कस्यार्थधर्मों वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥६॥

 अध्यापितस्येति ॥ उशनसा शुक्रेण नीति नीतिशास्त्रमध्यापितस्यापि । 'अपि'शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना द्विकर्मकादिधातोर्ण्यन्तात्प्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एवं प्रणिधितो येन सोऽहम् । 'प्रणिधिः प्रार्थने चरे' इति यादवः । प्रवृद्ध ओघः प्रवाहः सिन्धोर्नधास्तटाविव पीडयामि ? वद ॥६॥

 काममधिकृत्याह-

 कामेकपत्नीव्रतदुःखशीला लोलं मनश्चारुतया प्रविष्टाम् ।
 नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ।।७॥

 कामिति ॥ एकः पतिर्यस्याः सैकपत्नी पतिव्रता । 'नित्यं सपत्न्यादिषु' (पा. ४।११३५) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीला दुःखस्वभावाम् , दृढव्रतामित्यर्थः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वञ्चित्तं प्रविष्टां कां नितम्बिनीं मुक्तलजां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । 'विभाषा ग्रहः' (पा. ३।१।१४३) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि, त्वदर्थे पतिव्रतामपि व्रताद्भ्रंशयिष्यामीत्यर्थः । एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-अहल्यायै जारः' इति ॥ ७ ॥


पाठा०-१ प्रणिधे.  त्रिविधा नायिका स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्युक्तम् । इतरे प्रत्याह-

 कयासि कामिन् ! सुरतापराधात्पादानतः कोपनयावधूतः ।
 यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥८॥

 कयेति ॥ हे कामिन्कामुक ! सुरतापराधात् , अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि ? तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरण करिष्यामीति ॥८॥

 प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
 बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ९

 प्रसीदेति ॥ हे वीर ! प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु, उदास्तामित्यर्थः । मदीयैः शरैर्मोघीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । 'वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. ५।३।९३) इति डतमच्प्रत्ययः। कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु, किमु वक्तव्यं पुंभ्य इत्यर्थः । सकृद्धीतः सर्वतो बिभेतीति भावः । 'भीत्रार्थानां भयहेतुः' (पा. ११४।२५) इत्यपादानत्वात् पञ्चमी ॥ ९ ॥

 तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
 कुर्यां हरस्थापि पिनाकपाणेर्धैर्यच्युति के मम धन्विनोऽन्ये ॥१०॥

 तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात् कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधु वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा. १४२५) तस्य हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानि कुर्याम्, कर्तुं शक्नुयामित्यर्थः । 'शकि लिङ् च' (पा. ३।३।१७२) इति शक्याथै लिङ् । अन्ये धन्विनो धनुर्भूतो मम के , न केऽपीत्यर्थः । 'किं'शब्दः कुत्सायाम् । 'कुत्साप्रश्नवितर्केषु क्षेपे किंसब्द इष्यते' इति शाश्वतः ॥ १० ॥


पाठा०-१ सहसापराधात्, २ तस्याः.

 अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् ।
 संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥११॥

 अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्राक्ष ऊरुदेशात्पादमाक्रान्त्याऽऽक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्य संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । 'कुर्यां हरस्थापि-' (३।१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे ॥ ११ ॥

 सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
 वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च ॥१२॥

 सर्वमिति ॥ हे सखे ! 'सखे' इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे, तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् ; त्वमस्त्रं सर्वतोगामि च साधकं च, तापसेष्वप्यकुण्ठमित्यर्थः ।। १२ ॥

 अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
 व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥१३॥

 अवैमीति ॥ हे सखे ! ते सारं बलमवैमि वेद्मि; अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये 'तस्मै हिमाद्रेः-'(३।१६) इति वक्ष्यमाणे नियोक्ष्ये । 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा. ९३९) इति वार्तिकादात्मनेपदनियमः । तथा हि-सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह-कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् , भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा । शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । 'क्रियार्थोपपदस्थ-' (पा.२।३।१४) इत्यादिना चतुर्थी । व्यादि- श्यते नियुज्यते । शेषशायी हि भगवान् ॥ १३ ॥

 नियोगाङ्गीकारं सिद्धवत्कर्तुमाह-

 आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
 निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ १४ ॥

 आशंसतेति ॥ वृषाके हरे बाणगति बाणप्रसरमाशंसता कथयता । 'कुर्यां


पाठा०-१ अक्रान्ति. २ संकल्पितेऽर्थे. ३ यज्ञाङ्ग. ४ अर्थमंत्रम्. हरस्यापि पिनाकपाणेः' (३।१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । 'ईषदसमाप्तौ-' (पा.५।३।६७) इत्यादिना कल्पप्प्रत्ययः । कथमेतदत आह-इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्दिषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्नुमिष्टमेतदेव हरे बाणप्रयोगरूपमेव निबोध, हरायत्तं बुध्यस्वेत्यर्थः । 'बुध बोधने' इति धातोर्लोट् । अत्र 'आशंसता प्रार्थयमानेन' इति नाथच्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् , याज्जार्थत्वस्यामामाणिकत्वात् , 'कुर्यां हरस्यापि --' (३।१०) इत्यत्रानयोरभावादयोगाच्चेति ॥ १४ ॥

 किं तत्कार्यं, कथं वा तस्य हरायत्तत्वं, कुतो वा मदपेक्षेत्यत्राह-

 अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
 स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्बह्मणि योजितात्मा ॥१५॥

 अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजःसंभूतं सेनान्यं सेनापतिमुशन्ति कामयन्ते । 'वश कान्तौ' इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः, कृतमव्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा' इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः, मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः, अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥ १५ ॥

 तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
 योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥१६॥

 तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । 'रुच्यर्थानां प्रीयमाणः' (पा.१।४।३३) इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रे स्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह --योषित्सु स्त्री पु मध्ये । 'यतश्च निर्धारणम्' (पा.२।३।४१) इति सप्तमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मगोपदिष्टम् । 'उभे एव क्षमे वोढुम्' (२।६०) इत्यादिनोक्तमित्यर्थः ॥ १६ ॥


पाठा०-१ ब्रह्मनियोजितात्मा. २ जितात्मने. ३ योजयितुं.  सापीदानीं संनिकृष्टैव तस्येत्याह-

 गुरोनियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
 अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः १७

 गुरोरिति ॥ नगेन्द्र कन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरूर्ध्वभूमौ । 'भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नसन्नारूढयोः' (पा. ५।२।३४) इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' (पा. ३।१।१५) इति क्यङ्प्रत्ययः,ततः शतृप्रत्ययः । स्थाणुं रुद्रमन्वास्ते, उपास्त इत्यर्थः। इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह-स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । 'प्रणिधिः प्रार्थने चरे' इति यादवः ॥ १७ ॥

 तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
 अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१८॥

 तदिति ॥ तत्तस्मास्तिद्ध्यै कार्यसिद्ध्यर्थं गच्छ देवकार्यं कुरु। आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव; तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । 'अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ॥' इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पत्तेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ॥ १८ ॥

 तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
 अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥१९॥

 तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रगतिरस्त्रप्रसरस्तवैव नाम । 'नाम' इति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतमस्यास्तीति कृती कृतार्थः । तथा हि- अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि; इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ॥ १९॥


पाठा०-१ अध्यास्त. २ लभ्य. ३ प्रत्ययसङ्गलब्धौ. ४ अस्मिन्. ५ काम. ।  प्रोत्साहनार्थं स्तौति-

 सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् ।
 चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥२०॥

 सुरा इति ॥ एते सुराः समभ्यर्थयितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि, सर्वलोकार्थमित्यर्थः । कर्म ते तव चापेन, न त्वन्येनेति भावः। अतिहिंस्रमतिघातुकं च न । 'अहो बत' इति संबोधने । 'अहो बतानुकम्पायां खेदे संबोधनेऽपि च' इति विश्वः । अथवा अहो आश्चर्ये । 'बत' इत्यामन्त्रणे संतोषे चेति । 'बतामन्त्रणसंतोषखेदानुक्रोशविस्मये' इति विश्वः । स्पृहणीयवीर्योऽस्याश्चर्यविक्रमोऽसि । 'आश्चर्यं स्पृहणीयं च' इति नानार्थकोशः ॥ २० ॥

 मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
 समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥२१॥

 मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथा हि-समीरणो वायुर्हुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यपदिश्यते ? अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम् । तदुक्तम्- “यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥" इति ॥ २१ ॥

 तथेति शेषामिव भर्तुराज्ञामादाय मूर्धा मदनः प्रतस्थे ।
 ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ २२ ॥


पाठा०-१ समीरणश्चोदयिता; समीरणः प्रेरयिता. २ मालामिव. ३ दिग्वारणा.


टिप्प०-1 विवरणकारास्तु 'उपमायां तु पदार्थयोः साम्यम् , तच्च वाच्यम् , अत्र (प्रतिवस्तूपमायां) तु वाक्यार्थयोः; तदपि गम्यमेवेति ततो भेदः। साम्यप्रतिपादकानां इवादीनां पदत्वेन तैः पदार्थयोरेव साम्यं बोध्यते "पदार्थः पदार्थेनान्वेति" इति नियमात्' इत्याहुः।  तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । 'प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता' इति विश्वः । 'माल्याक्षतादिदाने स्त्री शेषा' इति वैजयन्ती-केशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १।३।२२) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श, हस्तस्पर्शेन संभावयामासेत्यर्थः । 'शेषामिवाज्ञाम्' इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्यु- पमा । अथ न दत्ता तर्हि शेपात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति ॥२२॥

 स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
 अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥२३॥

 स इति । स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं अतिसंकटमापतितम्' इति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्विर्येन स तथोक्तः, शीर्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम ॥२३॥

 तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
 संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ २४॥

 तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनेर्मनोभवस्याभिमानभूतम् , गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजं स्वरूपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव, वसन्तधर्मान्प्रवर्तयामासेत्यर्थः ॥ २४ ॥


पाठा०-१ कर्मसिद्धिः. २ तपःसमाधिप्रतिकूलवी. ३ आदाय,


टिप्प०-1 बालबोधिनीकारस्तु 'मालां' इति पाठमादृत्य 'शिरसा मालामिव मालेव माल्यं मंगलार्थ प्रसन्नस्रजमलंकारतामप्युपादायेत्यर्थः । प्रयाणकाले हि मंगलार्थं माला दीयते इति शिष्टाचारः' इत्याह ।  वसन्तधर्मानाह-

 कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
 दिग्दक्षिणा गन्धवह मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ॥२५॥

 कुबेरेति ॥ उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्घ्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च । दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च । गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाप्रभागेण वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिश्वासमिव । 'दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः' इति वैजयन्ती। उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगति प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ता इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषणसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्टते; अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । न च श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासादयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ॥ २५ ॥

 असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
 पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनू पुरेण ॥ २६ ॥

 असूतेति ॥ अशोको वृक्षविशेषः, सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव, स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च 'मूलाप्रभृत्यग्राद्वृक्षांस्तक्ष्णुवन्ति' इति 'कार्तिक्याः प्रभृत्याग्रहायणी मासे'


पाठा०-१ जुष्टाम्, नाथाम्.


टिप्प०-1 'वसन्ते हि रविरुदीची गच्छति, तदा तु दक्षिणायनत्वात् समयाभावः' इति बाल०। इत्यादि । सपल्लवानि कुसुमान्यसूत , उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नृपुरो यस्य तेन । सिञ्जधातोरकर्मकात् 'गत्यर्थाकर्मक-' (पा. ३।४।७२) इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्क ताडनं नापैक्षत । 'सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत् ॥' इति । तथा हि- 'पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः। आलो कितः कुरबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति' इति ॥२६॥

 सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतबाणे ।
 निवेशयामास मधुर्द्धिरेफान्नामाक्षराणीव मनोभवस्य ॥ २७ ॥

 सद्य इति ॥ मधुर्वसन्त एवेषुकारः प्रवालोद्गमाः पल्लवाङ्कुरा एव चारूणि पत्राणि पक्षा यस्थ तस्मिन् । 'पत्रं वाहनपक्षयोः' इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समाप्तिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र 'प्रवालपत्रे' इत्याद्येकदेशविवर्तिरूपकं मधोरिषुकारत्वरूपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरूपकोत्थापितेयमुत्प्रेक्षा ॥ २७ ॥

 वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
 प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥२८॥

 वर्णेति ॥ कर्णिकारं कर्णिकारकुसुमम् । 'अवयवे च प्राण्योषधिवृक्षेभ्यः' (पा. ४।३।१३५) इत्युत्पन्नस्य तद्धितस्य 'पुष्पमूलेषु बहुलम्' (वा. २९५०) इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तथा हि-प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि किंचिद्वैकल्यं संपादयति, यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ २८ ॥


पाटा०- १ सख्युः. २ निगन्धमिति.


टिप्प०---1 'शरा हि स्वामिनामाङ्किता भवन्ति । मनोभवस्येति काकाक्षिगोलकन्यायेनोभयत्र संबन्धः' इति बाल० ।

 बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
 सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥२९॥

 वालेन्द्विति ॥ अविकासभावान्निर्विकासत्वान्मुकुल भावाद्धेतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । 'पलाशे किंशुकः पर्णः' इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्योदत्तानि, पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्ताव- दस्ति । 'नखक्षतानीव' इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । 'विशेषणसामर्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत' इति हि लक्षणम् ॥२९॥

 लग्गद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
 रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ ३० ॥

 लग्नेति ॥ मधुश्रीर्वसन्तलक्ष्मीलग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्ण तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवोष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधया- मास ॥ अन्न रूपकालंकारः ॥ ३०॥

 मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विध्नित दृष्टिपाताः ।
 मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः॥३१॥

 मृगा इति ॥ प्रियालद्रुमा राजादनवृक्षाः । 'राजादनः प्रियालः स्यात्' इत्यमरः । तेषां मार्यस्तासां रजःकणैर्विनिताः संजातविना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः, मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मर-


पाठा०-१ निवेश्य. २ प्रियालु पियाल.


टिप्प०-1 'असूत सद्यः' (३४२६) इत्यत आरभ्यात्रावधि वसन्तर्तुतुभूतं स्थावराणां विकारं वर्णयामास कालिदाप्तः। 2 इतःपरं वसन्तर्तुहेतुकं जङ्गमानां विकारं वर्णयति । शब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्तिस्म । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (ह० का०) इति चरतेः सकर्मकत्वम् ॥ ३१ ॥

 चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
 मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ।। ३२ ॥

 चूताङ्कुरेति ॥ चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । 'रसभावपटौ रक्ते कषायः' इति केशवः । पुमान्कोकिलः पुंस्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । 'मधुरं चुकूजे' इति यत्तत्कूजनमेव मनस्विनीनां मानविधाते रोषनिरासे दक्षं स्मरस्य वचनं 'मानं त्यजत' इत्याज्ञावचनं जातम् , कोकिलकूजितश्रवणानन्तरं स्मराज्ञप्ता इव मानं जहुरित्यर्थः ॥ ३२ ॥

 हिमव्यपायाद्विशदाधराणामापाण्डरीभूतमुखच्छवीनाम् ।
 स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३३ ॥

 हिमेति ॥ हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् , कुङ्कुमपरिहारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्गमः पदं चक्रे, धर्मोदयात्स्वेदोदयोsभूदित्यर्थः । विशदाधरत्वं मधूच्छिष्टराहित्यादिति भावः । हेमन्तेषु नार्यो बिम्बोष्ठेषु मधूच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् ॥ ३३ ॥

 तपखिनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
 प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥३४॥

 तपस्विन इति ॥ स्थाणोर्वनमोको येषां ते तपस्विनस्तत्रत्या मुनयः । समाकाल आद्यन्तावस्या आकालिकी। अकालभवत्वादुत्पत्त्यनन्तरविनाशिनीभित्यर्थः । 'आकालिकडाद्यन्तवचने (पा.५।१।११४) इति समानकालादिकट्प्रत्ययः,


पाठा०-१ आपाण्डरीभूत.


टिप्प०-1 'हिमेनोष्ठा अभिहता विकीर्णाश्च भवन्तीति प्रसिद्धम् । ननु आकस्मिकवसन्तप्रवृत्तेः पूर्वं कथं तुषारधर्मवर्णनम् १ सत्यम् ; पूर्वरूपक्षयमात्रेऽसमयत्वमभिधायानन्तरं सामान्यरूपेण वर्णनमित्यदोषः' इति बाल०। प्रकृतेराकाल आदेशश्च निपातितः। 'टिड्डाणञ्-' (पा.४।१।१५) इत्यादिना डीप् । केचिदकालाद्देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ॥ ३४ ॥

 तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
 काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३५ ॥

 तमिति ॥ आरोपितमधिज्यं कृतं पुप्पचापं येन तस्मिन्नतिर्द्वितीया यस्य तस्मिन्नतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति, द्वन्द्वानि स्थावराणि जंगमानि च मिथुनानि, काष्टोत्कर्षः। 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः । 'प्रेमा ना प्रियता हादं प्रेमः स्नेहः' इत्यमरः । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं शृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवव्रुः प्रकटीचक्रुः, शृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः ॥ ३५ ॥

 ताश्चेष्टा आह 'मधु' इत्यादिभिश्चतुर्भिः-

 मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
 शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।। ३६ ॥

 मध्विति ॥ द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः—'शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा भ्रमरशब्दस्य द्विरेफत्वाविरेफो भ्रमरः' इति । कुसुममेवैकं साधारणं पात्रं तस्मिन् , मधु मकरन्दम् । 'मधु मद्ये पुष्परसे' इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन् पपौ, तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलश्च कृष्णसारः कृष्णमृगः। 'वर्णो वर्णेन' (पा.२।११६९) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं शृङ्गेणाकण्डूयत घर्षितवान् । 'कण्ड्वादिभ्यो यक्' (पा.३।१।२७) इति यक् । ततः कर्तरि लङ् ॥ ३६ ॥

 ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः ।
 अर्धोपमुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥३७॥


पाठा०-१ संस्पर्श. २ सरःपङ्कज.  ददाविति ॥रसादतिरागात् करेणुः करिणी । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुः, तस्य गन्धोऽस्यास्तीति पङ्कजरेणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽध यथा तथोपभुक्तेनार्धजग्धेन बिसेन जायां संभावयामास, स्वजग्धशेषं ददावित्यर्थः ॥३७॥

 गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छवासितपत्रलेखम् ।
 पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥ ३८ ॥

 गीतान्तरेष्विति ॥ किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छवासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्य पुष्पासवः, पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात् । पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुभ्द्रान्ताभ्यां नेत्राभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब ॥ ३८ ॥

 पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।
 लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ३९ ॥

 पर्याप्तेति ॥ पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा. ४११:५४) इति चिकल्पान ङीष् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि। लिङ्गादेव पुंस्त्वं गम्यते। विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः, ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत् , किमुतान्येषामिति भावः। एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः (१।४९)- 'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति । अत्र रूपकालंकारः ॥ ३९ ॥

 श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
 आत्मेश्वराणां न हि जातु विनाः समाधिभेदप्रभवो भवन्ति ॥४०॥


पाठा०-१ चुचुम्ब. टिप्प०-1 श्लोकेनानेन 'सज्जितानि सुरभीण्यथ यूनामुल्ललन्नयनवारिरुहाणि । आययुः सुमधुराणि सुरायाः पात्रतां प्रियतमावदनानि ॥' इति माघ (१०११) श्लोकस्तुलनामहति ।  श्रुतेति ॥ अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि, दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथा हि-आत्मनश्चित्तस्येश्वराणां नियन्तृणाम् , वशिनामित्यर्थः । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । घञथै कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ ४० ॥

 लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठापितहेमवेत्रः ।
 मुखार्पिकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैपीत् ॥४१॥

 लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । 'नन्दी भृङ्गिरिटस्तण्डुनन्दिनौ नन्दिकेश्वरे' इति कोशः। मुखेऽर्पितायाः सरोपविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । 'संज्ञा स्यान्चेतना नाम हस्ताद्यैश्वार्थसूचना' इत्यमरः । गणाप्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । 'क्रियार्थोपपदस्य-(पा.२।३।१४) इत्यादिना चतुर्थी । व्यनैपीच्छिक्षितवान् ॥ ४ ॥

 न केवलं गणा एव विनीताः, किंतु जरायुजादिचतुर्विधं प्राणिजातमपीत्याह-

 निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
 तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥ ४२ ॥

 निष्कम्पेति ॥ निष्कम्पवृक्षम् , इदमुद्भिज्जोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् , स्वेदजोपलक्षणमेतत् । मूकाण्डजं निःशब्दपक्षिसरीसृपादिकम् , एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम् , जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । 'नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसदियोऽण्डजाः । उद्भिदस्तरुगुल्माद्याः' इत्यमरः ॥ ४२ ॥

 दृष्टिप्रपातं परिहत्य तस्य कामः पुरःशुक्रमिव प्रयाणे ।
 प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ।। ४३ ॥

 दृष्टिप्रपातमिति ॥ कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुक्रं देशमिव । 'प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ॥' इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरूणां सुरपुंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् , 'आस्पदं प्रतिष्टायाम्' (पा. ६।१।१४६) इति निपातः । विवेश ॥ ३ ॥

 सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
 आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥४४॥

 स इति ॥ आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् , व्याघ्रचर्मास्तृतायामित्यर्थः । 'मोक्षश्रीार्ष्याघ्रचर्मणि' इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श। केचित्साहसिकाः 'त्रिलोचनम्' इति पेठुः । 'त्र्यम्बकम्' इत्युक्ते पादपूरणव्यत्यासात् 'त्रियम्बकम्' इति पादपूरणाथोऽयमियङादेशश्छान्दसः, महाकविप्रयोगादभियुक्तैरङ्गीकृतः ॥ ४४ ॥

 तमेव देवं षड्भिः श्लोकैर्वर्णयति-

 पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
 उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ४५ ॥

 पर्यङ्केति ॥ पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजरायतश्च ऋज्वायतस्तं, संनमितावुभावसौ यस्य तं तथोक्तम् । 'वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोगः' इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्टः-'एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥' इति ।

तथा योगसारे-'उत्तानिते करतले करमुत्तानितं परम् ।

मादायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥' इति ॥ ४५ ॥

 भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
 कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमती दधानम्॥४६॥

 भुजंगमेति ॥ भुजंगमेनोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् ।


पाठा०--१ त्रिलोचनम्. २ उद्बद्धः; आबद्ध. ३ कर्णावतंस. ४ मृगत्वचम्, कर्णावसक्तम् , कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तम् , कण्ठप्रभाणां स न मिश्रणेन विशेषनीलामतिनीलां प्रन्थिमतीं बन्धनयुक्तां

कृष्णत्वचं कृष्णमृगाजिनं दधानम् ॥ ४६ ॥

 किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
 नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ ४७ ॥

 किंचिदिति ॥ किंचित्प्रकाशा ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । 'तारकाऽक्ष्णः कनीनिका' इत्यमरः । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपतिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैनत्रैः । त्रिनेत्रत्वाद्बहुवचनम् । लक्ष्यीकृतघ्राणं, नासाग्रनिविष्टदृष्टिमित्यर्थः । 'करणान्यबहिष्कृत्य स्थाणुवन्निश्चलारमकः । आत्मानं हृदये ध्यायेन्नसाग्रन्यस्तलोचनः ॥' इति योगसारे ॥ ४७ ॥

 अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरंगम् ।
 अन्तश्चराणां मरुतां निरोधानिवातनिष्कम्पमिव प्रदीपम् ॥४८॥

 अवृष्टीति ॥ अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः। अनुत्तरंगमनुद्भूततरंगमपामाधारं हृदमिव स्थितम् , एतेनापाननि- रोधः सूचितः । तथा निवाते निर्वातदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । 'निवातावाश्रयावातौ' इत्यमरः ॥ १८ ॥

 कपालनेत्रान्तरलब्धमार्गैज्योतिःप्ररोहैरुदितैः शिरस्तः ।
 मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः॥४९॥

 कपालेति ॥ कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः, शिरस्तो ब्रह्मरन्ध्रात् । पञ्चम्यास्तसिलू । उदितैरुद्भूतैर्ज्योतिःप्ररोहैस्तेजोङ्करैर्मृणालसूत्राधिकं सौकुमार्य मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् ॥४९॥

 मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
 यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥


पाठा०-१ विगत. २ लक्षीकृत. ३ निर्वात. ४ वेदविदः. ५ कु. सं०  मन इति ॥ नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । 'प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः-'यतो निर्याति विषयान् यस्मिंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥' इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । 'विदो लटो वा' (पा. ३।४।८३) इति झेर्जुस् । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् , स्वाति- रेकेण परमात्मनोऽभावादिति भावः ॥ ५० ॥

 स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
 नालक्षयत्साध्वससनहस्तः त्रस्तं शरं चापमपि स्वहस्तात् ॥५१॥

 स्मरेति ॥ स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यस्यमयुग्मनेत्रं विषमाक्षमदुरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद, भीतो मुद्यतीति भावः ॥ ५१ ॥

 निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन ।
 अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या॥५२॥

 निर्वाणेति ॥ अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् , नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता, वनदेवताभ्यां सखीभूताभ्यामनुप्रयाताऽनुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा ॥ ५२ ॥

 तामेवाह चतुर्भिः-

 अशोकनिर्भर्हितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
 मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥५३॥

 अशोकेति ॥ अशोकपुष्पेण निसितास्तिरस्कृताः पारागा येन तत्तथोकम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यस्मिंस्तत्तथोक्तम् । मुक्ताकलापीकृतानि सिन्दुवाराणि निर्गुण्डीकुसुमानि यस्मिंस्तत् । 'सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती॥५३॥


पाठा०-१ सिन्धुवार.

 आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
 पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५४॥

 आवर्जितेति ॥ स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव । तरुणार्कस्य राग इव रागो यस्य तत्, बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एवं पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव, स्थितेति शेषः ॥ ५४॥

 स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् ।
 न्यासीकृतां स्थानविदा स्मरेण मौवीं द्वितीयामिव कार्मुकस्य ॥५५।।

 रस्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः, 'कर्मण उका' (पा. ५।१६१०३) इत्युकन्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां कसरदाम बकुलमाला सैव काञ्ची तां पुनःपुनरवलम्बमाना हस्तेन धारयन्ती ॥ ५५ ॥

 सुगन्धिनिश्वासविवृद्धवृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
 प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 सुगन्धीति ॥ सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । 'बिम्बाधर इति वृत्तौ मध्यपदलोपः स्यात्' (काव्या. सू. ५।२।१४) इति वामनः। तस्यासन्नचरं संनिकृष्टचरं हिरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
 जितेन्द्रिये शूलिनि पुष्पचापः खेकार्यसिद्धिं पुनराशशंसे ॥५७।।

 तामिति ॥ सर्वावयवेष्वनवद्यामगर्ह्याम् । 'अवधपण्य-' (पा. ३।१।१०१) इति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् , न्यूनतामावहन्तीमित्यर्थः । तां पार्वती वीक्ष्य पुष्पचापः कामो जितेन्द्रिये, दुर्जये-


पाठा०~१ सुजातपुष्प. २ पुष्पकाञ्चीम्. ३ द्वितीयमौर्वीमिव. ४ पुष्पकेतु. ५ खकर्मसिद्धिम्. ६ आशशंस. ऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्व 'साध्वससनहस्तः' (३५१) इत्यादिना कार्यसिद्धरुन्मूलितत्वाभिधानादिह 'पुनः' इत्युक्तम् ॥ ५७ ॥

 भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
 योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ ५८॥

 भविष्यत इति ॥ उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमि द्वारदेशं समाससाद । 'स्त्री द्वाद्वारं प्रतीहारः' इत्यमरः । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् । 'परं दूरान्यमुख्येषु' इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगाद्यानात् । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । उपाररामोपारतः । 'व्याङ्परिभ्यो रमः' (पा. ११३१८३) इति परस्मैपदम् ॥ ५८ ॥

 ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः ।
 शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ।। ५९ ॥

 तत इति ॥ ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन तो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाधवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्गिरूद्धानां विमुक्तिः पुनःसंचारो येन स कृतप्राणविमुक्तिः, ईशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ॥ ५९ ॥

 तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
 प्रवेशयामास च भर्तुरेनां भ्रक्षेपमात्रानुमतप्रवेशाम् ॥ ६ ॥

 तस्मा इति । अथ नन्दी तस्मै भगवते। क्रियाग्रहणाचतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् , सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भूक्षेपमात्रेण भूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशयामास च ॥ ६ ॥

 तस्याः सखीभ्यां प्रणिपातपूर्व स्वहस्तलूनः शिशिरात्ययस्य ।
 व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥६१ ।।


पाठा०~१ उपासितुं सा च पिनाकपाणिम्. २ अन्तर्गतम्. ३ अनुमित.  तस्या इति ॥ तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरात्ययस्य वसन्तस्य संबन्धी पुष्पोच्चयः पुष्पप्रकरः । 'हस्तादाने चेरस्तेये' (पा. ३।३।४०) इति घञ्विषयत्वास्कवीनामयं प्रामादिकः प्रयोग इति वल्लभः। त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वकं व्यकीर्यत विक्षिप्तः ॥ ६१ ॥

 उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।
 चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ ६२ ॥

 उमेति ॥ उमापि नीलालकानां मध्ये शोभत इति तत्तथोक्तम् , अलकन्यस्तमित्यर्थः । नवकर्णिकारं विसंसयन्ती कर्णाच्युतः पल्लवो यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहणासंप्रदानत्वम् ॥ ६२ ॥

 अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
 न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ॥१३॥

 अनन्येति ॥ सा कृतप्रणामा देवी भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् ।

'भजो ण्विः' (पा. ३।२।६२) इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे

पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता । उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथा हि-ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने । 'लोकस्तु भुवने जने' इत्यमरः । विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति, न बोधयन्तीत्यर्थः॥ ६३ ॥

 कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गव्दह्निमुखं विविक्षुः ।
 उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ।। ६४ ॥

 कामस्त्विति ॥ कामस्तु बाणावसरं प्रतीक्ष्य, उमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । 'समौ पतङ्गशलभौ' इत्यमरः । 'तेन तुल्यं क्रिया चेद्वतिः' (पा. ५।१।११५) इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्ययः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (पा. ५।४।१०७) इति समासान्तोऽप्रत्ययः। हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौवीं

मुहुराममर्श परामृष्टवान् ॥ ६४ ॥

 अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
 विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करवीजमालाम् ॥६५॥

 अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । 'अस्मायामेधास्त्रजो विनिः' (पा. ५।२।१२१) इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती ॥ ६५ ॥

 प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च ।
 संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६६॥

 प्रतिग्रहीतुमिति ॥ त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । 'वा संज्ञायाम्' (पा. ५।४।१३३) इत्यनकादेशः । संमोह्यतेऽनेनेति संमोहनं नाम । नामेति प्रसिद्धौ । अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ॥ ६६ ॥

 हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
 उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥६७।।

 हर इति ॥ हरस्तु हरोऽपि चन्द्रोदयारम्भेऽम्बुराशिरिव किंचिदीषत्परिलुप्तधैर्यः, न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः। बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्नुमामुखे विलोचनानि व्यापारयामास, त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ॥ ६७ ॥

 विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
 साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ६८ ॥

 विवृण्वतीति। शैलसुतापि स्फुरद्वालकदम्बकल्पैर्विकसकोमलनीपसदृशैः, पुलकितैरित्यर्थः । 'ईषदसमाप्तौ-' (पा. ५।३।६७) इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडा-


पाठा०-१ परिवृत्त. टिप्प०--1 'कदंबो वृक्षविशेषः, अङ्गानां रोमाञ्चितत्वादत्र तत्सादृश्यम् । बालशब्देन देव्या यौवनावस्था दर्शिता' इति नारायण । विम्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यकृता । 'तिर्यगर्थे साचि तिरः' इत्यमरः । तस्थौ, हिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव, देव्या अप्युदितो रतिभाव इति भावः ॥ ६८ ॥

 अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्द्भलवन्निगृह्य ।
 हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ।।

 अथेति ॥ अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रभिनेत्रो वशित्वाजिते- न्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवदृढं निगृह्य निवार्य स्व- चेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिद्रक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृष्टिं ससर्ज प्रसारयामास ॥ ६९॥

 स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् ।
 ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ७० ॥

 स इति ॥ स भगवान् दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमा- कुञ्चितः सव्यपादो यस्य तम् , आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृत- चारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः-'स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्स्यन्तरगौ पादौ मण्डलं तोरणाकृती ॥ समानौ स्यात्समपदमालीढं पदम- ग्रतः । दक्षिणं वाममाकुङ्ग्य प्रत्यालीढं विपर्यय ः ॥' इति ॥ ७० ॥

 तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
 स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ७१

 तप इति ॥ तपःपरामर्शन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तस्य हरस्य तृतीयादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरद्भूतज्वालः कृशानुरग्निः सहसाऽतर्कितमेव । 'अतर्किते तु सहसा' इत्य- मरः । निष्पपात किल निश्शकाम खलु ॥ ७१ ॥

 क्रोधं प्रभो! संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
 तावत्स वह्विर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ७२ ॥

 क्रोधमिति ॥ हे प्रभो स्वामिन् ! क्रोधं संहर संहर निवर्तय निवर्तय । 'चापले द्वे भवत इति वक्तव्यम्' (वा० ४६९४) इति वार्तिकेन द्वित्वम् । 'संभ्र- मेण वृत्तिश्चापलम्' इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कालमेव भवस्य नेत्राजन्म यस्य स भवनेत्रजन्मा । 'अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' ( काव्या.सू. ५।२।१९ ) इति वा- मनः। स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार, ददाहेत्यर्थः॥७२॥

 तीव्राभिपङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
 अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।। ७३ ॥

 तीब्रेति ॥ तीव्राभिषङ्गप्रभचेणातिदुःसहाभिभवसंभवेन । 'अभिषङ्गस्त्वभि- भवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती। इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं संस्तम्भयता प्रतिबघ्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्या मुहूर्त- मज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव, सहसा दुःखोपनिपातान्मुमूच्छेत्यर्थः । मोहेन दुःखसंवेदनाभावात्तस्योपकारक- त्वोक्तिः ॥ ७३ ॥

 तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
 स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ७४ ॥

 तमिति ॥ तपस्वी तपोनिष्टो भूतपतिः शिवस्तपसो विघ्नमन्तरायभूतं ते काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्त्वा स्त्रीसंनिकर्ष स्त्रीसं- निधानं परिहर्तुमिच्छन् , तस्यानर्थहेतुत्वादिति भावः। सभूतः सगणः सा- न्तर्दधे ॥ ७४ ॥

  शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
   व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
  सख्योः समक्षमिति चाधिकजातलज्जा
   शून्या जगाम भवनाभिमुखी कथंचित् ॥ ७५ ॥

 शैलात्मजेति ॥ शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पितुर- भिलाषं 'हरो वरोऽस्तु' इति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थं निष्फलं


पाठा०-१ परिहर्तुकामः सोऽन्तर्दधे. समर्थ्य विचार्य सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसम- क्षमवमानस्यातिदुःसहत्वादिति भावः । शून्या निरुत्साहा सती कथंचित्कृच्छ्रेण भवनस्याभिमुखी जगाम ॥ ७५ ॥

  संपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
   दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् ।
  सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां
   प्रतिपथगतिरासीद्वेगदीर्घी/कृताङ्गः ॥ ७६ ॥

 सपदीति ॥ सपद्यद्रिर्हिमवान् रुद्रस्य संरम्भात्कोपाद्भीत्या । 'संरम्भः संभ्रमे कोपे' इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्' (पा.५।४।११३) इति षष्प्रत्ययः । 'षिद्गौरादिभ्यश्च' (पा.४।११४१) इति डीए । अनुकम्पितुमर्हामनुकम्प्याम् । 'ऋहलोर्ण्यत्' (पा.३।१।१२४) इति ण्यत्प्रत्ययः। दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां दोर्भ्यामादाय पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घाकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रति गता मार्गानुसारिणी गतिर्यस्य स प्रतिपथगतिरासीत् , पन्थानमनुसृत्य जगामेत्यर्थः ॥ ७६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसृरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
मदनदहनो नाम तृतीयः सर्गः ।