कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/दशमः सर्गः(कुमारोत्पत्तिः)

← नवमः सर्गः(कैलासगमनः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
दशमः सर्गः(कुमारोत्पत्तिः)
कालिदासः
एकादशः सर्गः(कुमारोत्पत्तिः) →

दशमः सर्गः ।


  आससाद सुनासीरं सदसि त्रिदशैः सह ।
  एष त्रयम्बकं तीव्रं वहन्वह्निर्महन्महः ॥१॥

 आससादेति ॥ एष वह्निः । तीव्रं दुःसहं महत्रैयम्बकं शैवम् । 'त्र्यम्बक'- शब्दात् इदमर्थकेऽणि 'न य्वाभ्याम्-' ( पा. ७|३|३ : इत्यैजादेशः । महो वीर्यं वहन् । त्रिदशैर्देवैः सह सदसि सभायां स्थितं सुनासीरं महेन्द्रमाससाद प्राप । 'वृद्धश्रवाः सुनासीरः' इत्यमरः ॥ ३ ॥

  सहस्रेण दृशामीशः कुत्सिताङ्गं च सादरम् ।
  दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम् ॥२॥

 सहेति ॥ कुत्सिताङ्गमत एव दुर्दर्शनं धूम्रं धूम्रवर्ण धूमितं संजातधूमम् । तारकादित्वादितच । मण्डलं यस्य तमग्निमीशो महेन्द्रो दृशां सहस्रेण सादरं यथा तथा ददर्श दृष्टवान् ॥ २ ॥

  दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा ।
  व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेपिरोपजम् ॥ ३ ॥

 दृष्ट्वेति ॥ इन्द्रो वह्निं नथाविधं दृष्ट्वा क्षुब्धेन संचलितेन चेतमा कन्दर्पद्वेषिणो हरस्य रोषाज्जातं किंचिदपराधलक्षणं चिरं व्यचिन्तयत् ॥ ३ ॥

  स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम्
  उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ ४ ॥

 स इति ॥ सोऽग्निर्विलक्ष्यमुखैर्म्लानमुखैर्देवैः क्षणं क्षणं प्रतिक्षणं वीक्ष्यमाणो दृश्यमानः सन् । सुरेन्द्रेण सादरमादिष्टमासनमुपाविशत् ॥ ४ ॥

  हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः ? ।
  इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥५॥

 हव्यवाहेति ॥ सोऽग्निः । हे हव्यवाह! त्वया दुर्दशेयं दशाऽवस्था कुतो

पाठा०-१ तच्च; मत्वा. २ द्युसदां सोऽतिसादरम् ; द्युसत्संसदि सादरम्. ३ धूमिल. ४ क्रुद्धेन. ५ स्रवज्जलमुखैः; सविलक्षमुखैः. ६ सुमहादुर्दशा; सुदुर्दर्शा दशा. हेतोरासादि प्रापि ? इति सुरेन्द्रेण पृष्टः सन्निःश्वस्य निःश्वासं कृत्वा वचो वक्ष्यमाणमवदत् ॥ ५॥

 अथ युग्मेनाह-

  अनतिक्रमणीयात्ते शासनात्सुरनायक ! ।
  पारावतं वपुः प्राप्य वेपमानोऽतिसाध्वसात् ॥ ६ ॥
  अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।
  कालस्येव स्मरारातेः स्वं रूपमहमासदम् ॥ ७ ॥

 अनतीति ॥ अभिगौरीति ॥ हे सुरनायक! अहं पारावतं कपोतं वपुः प्राप्यानतिक्रमणीयादनल्लङ्घनीयात्ते तव शासनाद्धेतोरभिगौरि गौर्यामित्यभिगौरि । 'अव्ययं विभक्ति-' (पा. २|१।६) इत्यादिना विभक्त्यर्थेऽव्ययीभावः । रतासक्तं महेश्वरं जगाम प्राप । जगामेति लिट उत्तमपुरुषैकवचनम् । अथ चातिसाध्व- साद्वेपमानः कम्पमानोऽहं कालस्येव, तद्वद्भयानकस्येत्यर्थः । स्मरारातेर्हरस्य । पुर इति शेषः । स्वं रूपमाग्नेयं स्वरूपमासदं प्रापम् । लङ उत्तमपुरुषक- वचनम् ॥ ६-७ ॥

  दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् ।
  ज्वलद्भालानले होतुं कोपनो माममन्यत ॥ ८ ॥

 दृष्ट्वेति ॥ हे जम्भभिदिन्द्र ! सुज्ञो हरो मां दृष्ट्वा । अथ च छद्मना विहङ्गं विज्ञाय ज्ञात्वा । दर्शनमात्रादेव तु कापठ्यानवगम एव किंतु विलम्बोपस्थिततया । अतो ज्ञानदर्शनयोर्भिन्नकालीनत्वात्पृथग्व्यपदेशः । अतो ल्यब्द्वयस्य मनन- क्रियापेक्षया पूर्वत्वेनान्वयः । कोपनः क्रोधनः सन् । 'क्रुधमण्डार्थेभ्यश्च' (पा. ३।२।१५१ ) इति युच् । मां ज्वलति भालस्थेऽनलेऽग्नौ होतुं दग्धुममन्यत मेने । मननमत्र विचारणं तद्धवनफलकमिति भावः । अहमेनमग्नौ धक्ष्यामीति विचचारेत्यर्थः ॥ ८॥

पाठा०-१ अतिगौरी. २ उपान्तम्. ३ ज्ञानभृत् ; यज्ञभित्. ४ कोपतः.

५ अयममन्यत; मामलोकयत्.

  वचोभिर्मधुरैः सार्थैर्विनम्रेण मया स्तुतः ।
  प्रीतिमानभवद्देवः स्तोत्रं कस्य न तुष्टये ॥९॥

 वचोभिरिति ॥ मया विनम्रेण सता सार्थैः साभिप्रायार्थैरत एव मधुरैर्मनो- हरैर्वचोभिः करणैः । स्तुत ईडितो वो हरः प्रीतिमानभवत् , मदुपरि प्रससादेत्यर्थः । तथा हि ‌- स्तोत्रं स्तुतिः। 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । कस्य तुष्टये संतोषाय न भवति ? अपि तु सर्वस्यापीत्यर्थः । अत्र सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ ९ ॥

  शरण्यः सकलत्राता मामत्रायत शंकरः ।
  क्रोधाग्नेर्बलतो ग्रासात्त्रासतो दुर्निवारतः ॥ १० ॥

 शरण्य इति ॥ शरण्यः शरणे साधुः । 'तत्र साधुः' (पा. ४।४।९८ ) इति एव सकलत्राता सर्वेषां रक्षिता । एवंभूतः शंकरो हरो ज्वलतो दीप्यमानस्य दुर्निवारतो दुःखेन निवारयितुं शक्यस्य क्रोधाग्नेः क्रोधाग्निकर्तृकाद्ग्रासाद्यस्त्रासो भयं तस्मान्मामत्रायत ररक्ष । 'त्रैङ् पालने' लङ् ॥ १० ॥

  परिहृत्य परीरम्भरभसं दुहितुर्गिरेः ।
  कामकेलिरसोत्सेकाद्व्रीडया विरराम सः ॥ ११ ॥

 परिहृतेति ॥ स हरो गिरेर्दुहितुः पार्वत्याः संबन्धिनं परीरम्भरभसं परिहृत्योत्सृज्य व्रीडया हेतुभूतया कामस्य केले रसस्योत्सेकान्मानसस्यासक्तेविरराम विरतोऽभूत् । 'व्यापरिभ्यो रमः' ( पा. १।३।८३ ) इति परस्मैपदम् ॥ ११ ॥

  रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् ।
  त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात् ॥ १२ ॥

 रङ्गेति ॥ तदा स हरो रङ्गस्य कामकेलेर्भङ्गादन्तरायात् । अस्य हेतोः क्रोधाभिव्यञ्जकत्वे न दोषः । च्युतं पतितममोघं सफलं त्रिजगद्दाहकमत एव सुदुर्वहं सुतरां दुःखेन वोढुं शक्यं रेतः शुक्र मद्विग्रहमधि, मम शरीर इत्यर्थः । सद्यो

पाठा०-१ सान्त्वैः. २ ग्रासत्रासतः. ३ परिरम्भं रभसात्. ४ तदमोघम्. ५ सुदुर्धरम्. ६ अभिन्यधात्. न्यधात् । 'अधि मद्विग्रहम्' इति वक्तव्ये मद्विग्रहमधीत्युक्तं महाकवि- प्रयोगान्न दोषाय ॥ १२ ॥

  दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
  निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ॥ १३ ॥

 दुर्विषेणेति ॥ दहनात्मनाग्निरूपेणात एव दुर्विषह्येण दुःखेन वोढुं शक्येन । 'शकिसहोश्च' (पा. ३।१|१९९ ) इति यत् । तेन तेजसा वीर्येण निर्दग्धमत एव दुर्वहमात्मनो देहं वोढुमहमक्षमोऽस्मि । यथाऽहं क्षमः स्यां तथैव त्वयाशु विधेयमिति व्यज्यते ॥ १३ ॥

  रौद्रेण दह्यमानस्य महसातिमहीयसा ।
  मम प्राणपरित्राणप्रगुणो भव वासव ! ।। १४ ।।

 रौद्रेणेति ॥ हे वासव इन्द्र ! अतिमहीयसा रौद्रेण शांभवेन महसा तेजसा दह्यमानस्य मम प्राणानां परित्राणेन प्रगुणो विख्यातो भव । मम प्राणत्राणे भवतो महद्यशो भविष्यतीति भावः ॥ १४ ॥

  इति श्रुत्वा वचो वह्नेः परितापोपशान्तये ।
  हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ १५ ॥

 इतीति ॥ विबुधानामीश्वरो महेन्द्रो वह्नेरित्येवंभूतं वचः श्रुत्वा परिताप- स्योपशान्तये, अर्थात्तस्यैवेत्यर्थः । मनसा हेतुं निदानं विचिन्तयामास । कनोपाये- नास्य तापोपशान्तिर्भवेदिति विचारयामासेत्यर्थः ॥ १५॥

  तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
  किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत ॥ १६ ॥

 तेज इति ॥ दिवस्पतिरिन्द्रम् कृपीटयोनिमग्निं कर्मभूतं तेजसा शांभवेन धाम्ना दग्धानि प्लुष्टान्यस्याग्नेर्गात्राणि पाणिना परामृशन्स्पृशन्सन् । किंचिद्वक्ष्य- माणमभाषतोवाच । भाषतेर्द्विकर्मकत्वं हि ब्रुञर्थनिबद्धत्वात् । 'अर्थबन्धनेयं संज्ञा' इति वार्तिकात् । 'कृपीटयोनिर्ज्वलनः' इत्यमरः । 'शतमन्युर्दिवस्पतिः' इति च ॥ १६ ॥  अथेन्द्रोऽग्निं सप्तभिः स्तौति-

  प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
  देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ १७ ॥

 प्रीत इति ॥ भो अग्ने ! त्वं प्रीतः सन् । स्वाहाकारः स्वधाकारो हन्तकार एतैः शब्दैः कृत्वा होतृभिः प्रक्षिप्तेन, हविषेर्नि शेषः । देवानिन्द्रादीन्पितॄन्मनुष्यांश्च स्वयं प्रीणयसे प्रसादयसि । कथमेतान्प्रसादयामीत्याह- यत एक एव त्वं तेषां देवादीनां मुखमसि ॥ १७ ॥

  त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
  भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ १८ ॥

 त्वयीति ॥ होतारो हवींषि त्वयि जुह्वति । अत एव ध्वस्तकल्मषाः स्रस्त- पापाः सन्तः स्वर्गं भुञ्जन्ति । हि यतस्त्वमेक एव स्वर्गप्राप्तौ कारणम् । 'ज्योति- ष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेरिति भावः ॥ १८ ॥

  हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
  तपस्विनस्तपःसिद्धिं यान्ति त्वं तपसां प्रभुः॥ १९ ॥

 हवींषीति ॥ भो हुताश ! तपस्विनो मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः । 'नाभ्यस्ताच्छतुः' (पा. ७।१।१८) इति नुम्निषेधः । तपःसिद्धिं यान्ति प्राप्नुवन्ति । यतस्त्वं तपसां प्रभुः ॥ १९ ॥

  निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति ।
  ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ २० ॥

 निधत्स इति ॥ भो अग्ने ! त्वमर्काय देवान्तःपातिने सूर्याय हुतं हविर्नि- धत्से निधानरूपतया दधासि । अतः सोऽर्कः पर्जन्यः सन्नभिवर्षति । ततो वर्ष- णादन्नान्युत्पद्यन्ते । तेभ्योऽन्नेभ्यः प्रजा जायन्ते । तेन कारणेन जगतः पितासि । पातीति पितेति व्युत्पत्या साधारणरक्षकस्यापि पितृत्वम् , न केवलं जनकस्यैवेति

पाठा०-१ भुञ्जते. २ तपसः. ३ नयसे. ४ प्रजा तेभ्यः, ! भावः । अत एवोक्तं नीतौ-'अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति । जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥' इति ॥ २० ॥

  अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ।
  ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ २१ ॥

 अन्तरिति ॥ भो अग्ने ! त्वं भूतानां प्राणिनामन्तश्चरोऽन्तर्व्याप्यसि । तानि भूतानि च त्वत्तो भवन्त्युत्पद्यन्ते । तत उभयकारणतस्त्वं जीवितानि प्राणितानि भूतानि येन तथोक्तो जगतः प्राणदश्चासि । अग्नेरन्तराधेयतयैव प्राणिनां जीवन- मतो जीवितभूतत्वम् । अग्नेरेव जगदुत्पादकतया प्राणदत्वं चाासिद्धम् । उत्तर- वाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात्पृथक्त्वेन ग्रहणं व्यर्थमिति चेन्न । अन्तर्व्यापि- त्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम्। यस्य यत्र यत्रान्तर्भावित्वं तस्य तत्र तत्र जीवितभूतत्वमिति नियमाभावात् । न च वह्निसंबन्धावच्छिन्नत्वेन तयोः सामानाधिकरण्यमिति वाच्यम् । वह्निसंबन्धावच्छिन्नत्वमन्तर्व्याप्तेः, तप्तायःपिण्डे न तत्र जीवितभूतत्वम् । अतो वह्निसंबन्धावच्छिन्नत्वेनापि समानाधिकरणतानियमः कर्तुं न शक्यते, उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् । कुलालस्य सत्यप्युत्पादकत्वे प्राणदत्वं नास्ति । घटमुत्पादयतोऽपि कुलालस्य न जीवनदातृत्वशक्तिरित्यलं विवादेन । अतिगहनोऽयं विवादः । 'जगतः' इति षष्ठी प्राणान्वयान्न तु दानान्वयात् । अन्यथा 'कर्मणा यमभिप्रैति स संप्रदानम्' (पा. १|१४॥३२) इति संप्रदानत्वाच्चतुर्थी प्रसन्नतेति । ननु जगत इत्यस्य प्राणान्वये केवलसंबन्धवाचकत्वेन तस्य नित्यसंप्रदानविवक्षा केन निरस्यते ? एवं च संप्रदानान्तरं मृग्यं स्यात् । अथवा जगत्संबन्धिनां प्राणानां दानं जगत्संप्रदान- कमेवेत्यर्थात्संप्रदानसिद्धिः ॥ २१ ॥

  जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
  कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ २२ ॥

 जगत इति ॥ भो अग्ने! त्वमेक एवास्य सकलस्य जगत उपकारकृद्धितकृदसि। अत एवास्माकं तत्र कार्योपपादने त्वत्तोऽन्यः । 'अन्यारात्-' (पा. २।३।२९) इति पञ्चमी । कः प्रगल्भते समर्थो भवेत् ? न कोऽपीत्यर्थः ॥ २२ ॥

पाठा०-१ अन्तश्चरसि. २ त्वद्बलवन्ति. ३ त्वत्तः. ४ जीवितभूयः. ५ तत.

  अमीषां सरसंघानां त्वमेकोऽर्थसमर्थने ।
  विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ! ॥ २३ ॥

 अमीषामिति ॥ भो अनल! अमीषां सुरसंघानां देवसमूहानामस्मदादी- नामर्थसमर्थने कार्यसाधने विषये त्वमेक एव समर्थोऽसि । एवंविधोऽप्यहं विपन्नः किं करोमीत्याह-विपत्तिरिति । उपकारेषु परहितेपु व्रतिनो नियमवतः पुरुषस्य विपत्तिरपि सम्यक् श्लाघ्या भवति । अतो विपन्नोऽपि स्तूयस इति भावः ॥ २३ ॥

 सप्रत्युपायमुपदिशति-

  देवी भागीरथी पूर्वं भक्त्यास्माभिः प्रतोषिता ।
  निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥ २४ ॥

 देवीति । पूर्वमस्माभिर्भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानं कुर्वतस्तवोदीर्णमत्युल्बणं तापं निर्वापयिष्यति, प्रशामयिष्यतीत्यर्थः ॥ २४ ॥

  गङ्गां तद्गच्छ मा कार्षीर्विलम्बं हव्यवाहन! ।
  कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ २५ ॥

 गङ्गामिति ॥ भो हव्यवाहन ! तत्तस्माद्गङ्गां देवीं गच्छ याहि । विलम्बं मा कार्षीर्मा कुरु । 'न माङ्योगे' (पा. ६।४।७४ ) इत्यडागमनिषेधः । तथा हि- अवश्यकार्येष्ववश्यकर्तव्येषु कार्येषु सिद्धये क्षिप्रकारिताऽनलसितत्वम् , उचितेति शेषः । तस्मात्त्वया शीघ्रमेव गन्तव्यमिति भावः ॥ २५ ॥

 ननु शक्तेनापि मया दुर्वाह्यं शैवं तेजो गङ्गा कथं धरिप्यतीत्याशङ्क्याह-

  शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
  त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ २६ ॥

 शंभोरिति ॥ भो अग्ने ! शंभोरम्भोमयी जलमयी मूर्तिर्देवी सा सुरापगैव गङ्गैव दुर्धरं स्मरद्विषो हरस्य बीजं तेजस्त्वत्त आदाय धारयिष्यति, धरिष्यती- त्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः ॥ २६ ॥

पाठा०-१ सुरसैन्यानाम्. विपदोऽपि पदं श्लाघ्योपकारयति नो हि सः; विपदोऽपि पदं श्लाघोपकारव्रतिनो हि सा. ३ विषादम्. ४ अर्थेष्ववश्यकार्येषु सिद्धये

क्षिप्रकारिता. ५ तत्र गत्वा च तद्वीजममोघं मुञ्च सुस्थिरम्.

  इत्युदीर्य सुनासीरो विरराम स चानलः ।
  तद्विसृष्टस्तमापृच्छ्यं प्रतस्थे खर्धुनीमभि ॥ २७ ॥

 इतीति ॥ इत्येवंभूतमुदीर्योक्त्वा सुनासीर इन्द्रो विरराम, तूष्णीं तस्था- वित्यर्थः । विररामेति 'व्याङ्परिरभ्यो रमः' (पा. १।३।८३ ) इति परस्मैपदम् । 'वृद्धश्रवाः सुनासीरः' इत्यमरः । सोऽनलश्चाग्निस्तु तद्विसृष्टस्तेन सुनासीरेण विसृष्टस्त्यक्तः, गन्तुमनुमत इत्यर्थः । तादृशः सन् । तमिन्द्रमापृच्छ्य 'अहं गच्छामि' इत्याज्ञामादाय स्वर्धुनीं गङ्गामभि प्रतस्थे प्रस्थितवान् ॥ २७ ॥</poem>}}

  हिरण्यरेतसा तेन देवी स्वर्गतरंगिणी ।
  तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी ॥ २८ ॥

 हिरण्येति ॥ तेन प्रस्थितेन तीर्णाध्वनाऽवगाहितमार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी निःशेषा ये केशाः पञ्च केशास्तेषां नाशिनी, मुक्तिदायिनीत्यर्थः । सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता । कर्मणि लिट् ॥२८॥

 अथ विभिस्तामेव विशिनष्टि-

  स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता ।
  उदारदुरितोद्गारहारिणी दुर्गतारणी ।। २९ ।।

 स्वर्गेति ॥ स्वर्गे यदारोहणं तस्य निःश्रेणिः सोपानपङ्क्तिः, अस्यां स्नानमात्रेणैव स्वर्गमारोहन्तीत्यर्थः । पुनश्च मोक्षमार्गस्य मुक्तिपथस्याधिदेवता, यां प्रसाद्य मुक्तिमाप्नुवन्तीत्यर्थः । पुनश्चोदाराणामुच्चैस्तराणां दुरितानां पापानामुद्गारस्य समू- हस्य हारिणी, विनाशिनीत्यर्थः । पुनश्च तरन्त्यनया सा तारणी । दुर्गस्य संसार- रूपस्य तारिणी, संसारार्णवमनया तरन्तीत्यर्थः । तारणीति णिजन्तात्तरतेः 'करणा- धिकरणयोश्च' (पा. ३,३,११७ ) इति करणे ल्युट् । ततः 'टिड्ढाणञ्-' (पा. ४|१|१५) इत्यादिना ङीप् । 'तारिणी' इति पाठे तारयति लोकान्सा तारिणी। दुर्गात्तारिणी । अत्र णिनौ कृते 'ऋन्नेभ्यः-' (पा. ४|१|५ ) इति ङीप् ॥ २९ ॥

  महेश्वरजटाजूटवासिनी पापनाशिनी ।
  सरागान्वयनिर्वाणकारिणी धर्मधारिणी ॥३०॥

पाठा०-१ आमन्त्र्य. २ अघविनाशिनी. ३ स्वर्ग. ४ सागरान्वय.  महेश्वरेति ॥ पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती पुनश्च पापना- शिनी। अत्रापि तारणीवत्प्रत्ययव्यवस्था। पुनश्च सरागस्य विषयलिप्सोरन्वयस्य वंशस्यापि निर्वाणकारिणी मोक्षकारिणी, किं पुनर्विमुक्तानामित्यर्थः । धर्मं धार- यतीति धर्मधारिणी । आत्मसंबन्धेन जन्तून्धर्मवतः कुर्वन्तीत्यर्थः ॥ ३० ॥

  विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।
  त्रिभिः स्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ ३१ ॥

 विष्ण्विति ॥ पुनश्च विष्णुपादोदकादुद्भूतोत्पन्ना, विष्णुपादोदकमेवास्या जन्महेतुरित्यर्थः । विष्णुपादोदकमेवोद्भूतं प्रादुर्भूतं रूपं यस्याः सेति वा । पुनश्च ब्रह्मलोकादुपागतेहागता । पुनश्च त्रिभिः स्रोतोभिः प्रवाहैभुवनत्रयं स्वर्गमृत्यु- पाताललक्षणमश्रान्तं निष्परिश्रमं यथा भवति तथा पुनाना, पवित्रीकुर्वाणेत्यर्थः । अत एव त्रिस्रोता इति नाम दधातीत्यर्थः । 'पूञ् पवने' । शानच् श्नाप्रत्ययश्च ॥ ३१ ॥

  जातवेदसमायान्तमूर्मिहस्तैः समुत्थितः ।
  आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ ३२ ॥

 जातवेदसमिति ॥ सुतरामतिशयिनो यः प्रसादस्तस्य धरा धारिणी सा गङ्गा । आयान्तमागच्छन्तं तं जातवेदसमग्निमर्थसिद्ध्या अर्थसिद्धिं कर्तुं समु- त्थितैरुच्चलितैर्मय एव हम्तस्तैः कृत्वा आजुहांवैव । अन्याऽपि हस्तसंकेतेन कंचिदाह्वयति । पुनः पुनरूर्मिसमुत्थानं तत्कर्तृकमाह्वानमिवेत्युत्प्रेक्षा । आङ्पूर्वात् ह्वयतेः कर्तरि लिट् ॥ ३२ ॥

  संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
  ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ ३३॥

 संमिलद्भिरिति ॥ संमिलद्भिः सम्यङ्मिलन्त्येकीभवन्तीति तथोक्तैः । तथो- न्मदैरुन्मत्तैरत एव कलं मधुरं यथा भवति तथा कूजद्भिः शब्दायमानैर्मरालै- र्हंसैर्युक्ता सा देवी गङ्गा तमग्निमित्यभ्यधादुवाच । किमिति तत् ? भो अग्ने ! तुभ्यं श्रेयांसि ददे । दुःखानि निहन्मि । आत्मशक्त्याभिधाने जलरूपतयाऽशक्तापि स्वकीयतीरगतहंसनिनादेन वदति स्मेति भावः ॥ ३३ ॥

पाठा०-१पुनाति. २ समुच्छ्रितैः. ३ आजुहावास्य संसिद्ध्यै सुप्रसादादरेव सा.

  कल्लोलरुद्गतैरर्वाचीनं तटमभिद्रुतः ।
  प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ ३४ ॥

 कल्लोलैरिति ॥ स्वर्धुनी गङ्गा प्रीता सती। उद्गतैरानन्दादुद्वेलैस्त एवा- र्वाचीनमर्वाग्भवं तटमभिद्रुतैः पलायितैः कल्लोलैः कृत्वा तं जातवेदसमभीयायेव संमुखीबभूवेव ॥ ३४ ॥

  अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
  विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ।। ३५॥

 अथेति ॥ अथानन्तरं तापेन हरतेजोजन्मनार्तः पीडितोऽत एवाभ्युपेतः संमुखमुपागतोऽनलोऽग्निः । 'किल' इति प्रसिद्वौ । निममज्ज निमग्नोऽभूत् । ननु झटित्येव किं मग्न इत्यर्थान्तरं न्यस्यति-विपदापदा परिभूता जिताः पुरुषा विलम्बितुमापव्यतीकारविलम्बभविष्णुतां सोढुं किं व्यवस्यन्युद्युञ्जते ? अपि तु नेत्यर्थः । 'प्रतीक्षते जातु न कालमार्तिः' इति न्यायादिति भावः ॥ ३५ ॥

  गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
  स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि ॥ ३६॥

 गङ्गेति ॥ सोऽग्निः कल्याणकारिण्यनेकमङ्गलविधायिनि श्रमहारिणि परि- श्रमहारके । पुण्यं भारयति जनैः संग्राहयति तस्मिन्पुण्यभारिणि । येन जनाः पुण्यभारवन्तो भवन्तीति भावः । तारिणि भवार्णवतारिणि गङ्गावारिणि गाङ्गेय- जले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप, तापार्तानां वारिनिमज्जनमेव सुखैक- हेतुरिति भावः ॥ ३६ ॥

  तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
  गङ्गायामुत्तरंगायामन्तस्तापविपद्धृति ॥ ३७ ॥

 तत्रेति ॥ माहेश्वरं शैवं धाम तेजो हविर्भुजोऽग्नेः सकाशात्तत्र गङ्गायां संचक्राम संक्रान्तम्, लग्नमिति यावत् । अत एव किंभूतायां गङ्गायाम् ? अन्तर्मध्ये ताप एव विपत् तां धरति तथोक्तायामत एवोल्ललिता अतिवेलास्तरंगाः

पाठा०-१ उपागतैः. २ प्रीत्येव. ३ अभ्युपेत्य. ४ परिभूतः. ५ व्यवस्यति. ६ पुण्यतारिणि. ७ इद्धभङ्गायाम्. ८ अन्तस्तापविपद्भृतः; अन्तस्तापभिदाभृति. कल्लोला यस्यास्तथोक्तायाम् । विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात्पूर्वोत्पादनं यत्तत्पूज्यतया व्यवस्थितम् , न तु चित्तपरितोषाय । धामसंक्रमणात्प्राग्विपद्धरणासंभवात् । "धृतः' इति पञ्चम्यन्तपाठे हविर्भुजो विशेषणम् । उत्तरंगत्वेन जलप्रकृतिविलसितं च स्वीकर्तव्यम् ॥ ३७॥

  कृशानुरेतसो रेतस्यादृते सरिता तया ।
  निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ॥ ३८ ॥

 कृशान्विति ॥ तया सरिता गङ्गया कृशानुरेतसो हरस्य रेतसि धामनि । 'कृशानुरेताः सर्वज्ञः' इत्यमरः । आदृते, आदरपूर्वकं गृहीते सतीत्यर्थः । हव्य- वाहोऽग्निः । णिजन्तात्पचाद्यच् । बहु सौख्यं वहन्सन् । ततो गङ्गातो निश्चक्राम बहिर्निःसृतः ॥ ३८॥

  मुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः ।
  यथागतं जगामाथ परां निर्वृतिमादधत् ॥ ३९ ॥

 सुधासारैरिति ॥ अथानन्तरम् । सुधासारैरिवामृतमयैरिवाम्भोभिर्जलैर- भिषिक्तः स्नातोऽत एव परामत्युत्कटां निर्वृतिं सुखमादधद्बिभ्रद्धुताशनोऽग्निर्यथा- गतमागतमनतिक्रम्य जगाम गतवान् ॥ ३९॥

  सा सुदुर्विषहं गङ्गा धाम कामजितो महत् ।
  आदधाना परीतापमवाप व्योमवाहिनी ॥ ४० ॥

 सेति ॥ व्योम्नि वाहः प्रवाहोऽस्ति यस्यास्तथोक्ता सा गङ्गा कामजितो महेश्वरस्य महत्सुदुर्विषहम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति कृच्छ्रार्थे खल् । धाम तेज आदधाना सती परीतापं संतापम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा. ६।३।१२२ ) इति दीर्घः । अवाप, प्राप्तवतीत्यर्थः ॥ ४० ॥

  बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
  हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः ॥४१॥

 बहिरिति ॥ जलजन्तवो यादांस्यार्ताः सन्तो युगान्ताग्नेः प्रलयकालीनान-

पाठा०-१ आहृते. २ उदारैः. ३ परिषिक्तः. ४ कामम्. ५ पयांसि. लस्य शिखाशतैः प्रकरणाच्छिवधाम्न एव तप्तान्यत एवोष्णान्यस्या गङ्गाया जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः, निर्गतवन्त इत्यर्थः । यानि महेश्वरधाम- शिखाशतानि तान्यत्युग्रसंतापरूपसाधारणधर्मेण गम्यमानेन प्रलयकालानल- संबन्धीनीवेत्युत्प्रेक्षा । 'अर्चिर्हेतिः शिखा स्त्रियाम्' इत्यमरः । हित्वेति 'ओहाङ् स्यागे' इत्यस्य ॥ ४१॥

  तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
  समुदञ्चान्ति चण्डानि दुर्धराणि वभार सा ॥ ४२ ॥

 तेजसेति ॥ सा गङ्गा । रौद्रेण तेन तेजसा तप्तान्यत एव समुदञ्चन्ति, अतितापवशादुरप्लुत्य बहिर्निःसरन्तीत्यर्थः । अत एव चण्डानि प्रचण्डस्वरूपा- ण्यत एव दुर्धराण्यपि सलिलानि बभार धृतवती । तेजसो रुद्रसंबन्धित्वादिति भावः ॥ ४२ ॥

  जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे ।
  जग्मुः पट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥४३॥

 जगदिति ॥ माघे माघसंज्ञकं मासि । ‘पद्दयोमास्-' (पा. ६।१।६३ ) इति मासशब्दस्य हलन्तमासादेशः । जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किंचिदभ्यु- दयोन्मुखे । शैलान्तर्हितेन तेजसा दिशः किंचित्प्रकाशयतीत्यर्थः । षट् कृत्तिकाः स्नातुं सुरापगां मन्दाकिनीं जग्मुः प्रापुः ॥ ४३ ॥

 अथ चतुर्भिः सुरापगां विशिनष्टि-

  शुभ्रैरभ्रंकषैरूर्मिशतैः स्वर्गनिवासिनाम् ।
  कथयन्तीमिवालोकावगाहाचमनादिकम् ॥ ४४ ॥

 शुभ्रैरिति ॥ आलोको दर्शनमवगाहः स्नानमाचमनं चेत्यादीनि यस्य तादृशं कर्म कुर्वतां स्वर्गनिवासिनामभ्रंकषैरुत्प्लुत्याकाशस्पृग्भिः शुभ्रैरूर्मिशतैस्तरङ्गशतै- रात्मदुःखं कथयन्तीमिवेत्युत्प्रेक्षा । अस्मिन्श्लोके पदद्वयाध्याहारदोषः स्फुट एव । क्रियाकारकयोः परस्परनित्यसंबन्धादाक्षेपलक्षणन्यायेन केचित्समादधते । उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः । यथान्योऽप्यात्म-

पाठा०-१ दुर्भराणि, २ स्वर्गमनं सताम्. ३ आचमनादिना. न्याधिहेतुकं कंचिददनीयं पदार्थं कंचिदपि पुरुषं दर्शयित्वास्वाद्य च तत्पदार्थ- दोषं कथयति तथेयमपीति बोद्धव्यम् । अभ्रंकषैरिति 'सर्वकूलाभ्रकरीषेषु-' (पा. ३|२|४२ ) इत्यभ्रोपपदकात्कषेः खश् ॥ ४४ ॥

  सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
  बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥४५॥

 सुस्नातानामिति ॥ सुस्नातानां मुनीन्द्राणां सप्तर्षीणां बलिकर्मणि पूजा- विधावुचितानि योग्यानि तैः । यथा दूर्वाभिरक्षतैश्चान्वितैर्युक्तैः पुष्पोत्करैः कुसुम- समूहैर्बहिः कीर्णतीरां व्याप्तसैकताम् । 'लाजाः पुं भूम्नि चाक्षताः' इत्यमरः । 'अलं'शब्दोऽत्रात्यर्थवाचकः । स च 'कीर्णतीराम्' इत्यतः प्रागन्वयितव्यः ॥४५॥

  ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः ।
  योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ ४६॥

 ब्रह्मेति ॥ ब्रह्मासने स्थितैः । तथा ब्रह्मणो ध्याने परैः सक्तैः । तथा योग एव निद्रा तां गतैः तथा योगपट्टस्य बन्धो बन्धनं येषां तैः, योगपट्टं बध्नद्भि- रित्यर्थः । एवंविधैर्योगपरैर्योगिभिरुपाश्रितां सेविताम् । “उभौ जानू ऊर्ध्वतमौ सकठ्युपसुवाससा । बद्धौ च कृत्वा सततं ध्यायेत्परमनन्यधीः ॥” इति योग- लक्षणम् ॥४६॥

  पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसंबद्धदृष्टिभिः ।
  ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ ४७ ॥

 पादेति ॥ पादसंबन्धिनोऽङ्गुष्टस्याग्रेणैव, न समग्रपादेनेत्यर्थः । भूमिस्थैः, पृथिव्यां स्थितैरित्यर्थः । तथा सूर्ये संबद्धदृष्टिभिरन्वितविलोचनैः । तथा परं ब्रह्म गृणद्भिर्जपद्भिर्ब्रह्मर्षिभिः सप्तर्षिभिरुपसेवितामुपाश्रिताम् ॥ ४७ ॥

  अथ दिव्या नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
  कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥४८॥

 अथेति ॥ अथानन्तरं ताः कृत्तिका दिव्यां स्वर्गीयां नदीं देवीं गङ्गां विलो-

पाठा०-१ ब्रह्मा. २ योगिवरैः. ३ पद्मासनः. ४ भोगिभोगबद्धैः; भोगिभोग- युक्तैः. ५ भूमिष्ठैः; भूयिष्ठैः. ६ संविष्ट. ७ देवीं धुनीम् ; दिव्यनदीम्. ८ देवी. लो० ०४५-५२] सुरसरिदवलोकनेन कृत्तिकानामानन्दः क्याभ्यनन्दन्, आनन्दिता बभूवुरित्यर्थः । एतद्युक्तमेवेत्याह-एषा पीयूष- वाहिनी गङ्गा दृष्टा दर्शनगोचरीभूता सती किं पुरुषं नाभिनन्दयति ? अपि तु सर्वमेवेत्यर्थः । 'किम्' इति पाठे किं कुतः कारणान्नाभिनन्दयति मोदयति? अपि तु मोदयत्येवेत्यर्थः । अत एतदालोकन आनन्दो युक्त इति भावः ॥ ४८ ॥ चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि । यस्या विलोकनं पुण्यं श्रद्दधुस्तां मुदा हृदि ॥ ४९ ॥ चन्द्रेति ॥ चन्द्रश्चूडामणिभूतो यस्य स देवो हरो मूर्धनि यामुद्वहति । यस्या विलोकनं पुण्यं पुण्यकारि, तां गङ्गां हृदि मनसि मुदा प्रीत्या श्रद्दधुः, श्रद्धितां चक्रुरित्यर्थः । गुणवत्सु श्रद्धाया औचित्यादिति भावः ॥ ४९ ॥ दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम् । निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे ॥ ५० ॥ दिव्यामिति ॥ निर्वाणपदस्य मोक्षपदस्य देशिनीं दात्रीम् । तथा निर्धूत- कल्मषां दूरीकृतजनकिल्बिषां दिव्यां स्वर्गीयाम् । 'द्यूप्रायपायुदक्प्रतीचो यत्' (पा. ४।२।१०१ ) इनि दिवो यत् । विष्णोः पदीं चरणसंबन्धिनीम् । 'गङ्गा विष्णुपदी' इत्यमरः । देवीं गङ्गां ताः कृत्तिकाः सुतरां प्रह्वा नताः सत्यो मूर्ध्ना ववन्दिरे प्रणेमुः ॥ ५० ॥ सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम् । भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवो धुनीम् ।। ५१ ।। सौभाग्यैरिति ॥ अत्र ताः कृत्तिकाः श्रद्दधानाः सत्यः सौभाग्यैः शोभन- भाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सती पतिव्रतां तां दिवो धुनी गङ्गां भक्त्या निमित्तेन तुष्टुवुः । भक्तिनिमित्तं स्तवनमित्यर्थः ॥ ५१ ॥ मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः । प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥ ५२ ॥ पाठा०-१ तस्या विलोकनम् ; तस्यावलोकनम्. २ दिष्ट्या. ३ दर्शिनीम्. ४ निर्धू- तकल्मषाः. ५ भूत्वा. ६ ताम्. ७ खभाग्यैः. ८ संप्राप्ताम्. ९ सताम्. १० प्रतुष्टुवुः. ११ तास्तम्. १२ सिषेविरे. १३ दौत्यज्ञैः. १४ भाविमलैः. १५ तापसान्विताः.  मुक्तीति ॥ ताः कृत्तिका विमलैर्विगतमलैः। तथा मुक्तिर्मोक्षः सैव स्त्री तस्याः सङ्गः संबन्धः, प्राप्तिरिति यावत् । तत्र यद्दूत्यं दूतीभावः कर्म वा । तस्य ज्ञैः, ज्ञातृभिरित्यर्थः । येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः । तथाभूतैर्जलैः कृत्वा प्रक्षालितमला निवर्तितकल्मषाः सत्यस्तत्र गङ्गायां सस्नुः, स्नानं चक्रुरि- त्यर्थः । मलापकर्षस्नानानन्तरं शुद्धस्नानं क्रियत इति भावः । किंभूताः ? सुस्नाताः सु शोभनं विध्युक्तप्रकारकं स्नातं स्नानं यासां ताः। भावे निष्ठा । विध्युक्तप्रकारेण स्नानकर्त्र्य इत्यर्थः । पुनः किंभूताः ? तपसान्विताः, तपस्विन्य इत्यर्थः । 'ष्णा शौचे' कर्तरि लिट् ॥ ५२ ॥

  स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः ।
  चरितार्थं स्वमात्मानं वहु ता मेनिरे मुदा ।। ५३ ॥

 स्नात्वेति ॥ परिपचेलिमैः परिपक्वैः । 'तव्यत्तव्यानीयरः' (पा. ६।३।९६) इत्यत्र केलिमर उपसंख्यानात्पचतेः केलिमर् । भाग्यैर्दिष्टैर्निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् । 'पोरदुपधात्' (पा. ३|१|९८ ) इति यत् । तथाभूतायां तत्र गङ्गायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयमात्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरेऽमन्यन्त । 'मनु अवबोधने' कर्तरि लट् ॥ ५३ ॥

  कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
  अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ॥ ५४ ॥

 कृशानुरेतस इति ॥ अथानन्तरं गङ्गावगाहनाद्धेतोरमोघं सफलं कृशानु- रेतसो हरस्य रेतो वीर्यं सद्यस्तत्कालं तासां कृत्तिकानामभिकलेवरं कलेवरे शरीर इत्यभिकलेवरम् , शरीरमध्य इत्यर्थः। संचचार संचक्राम, लग्नमिति यावत् । अत्र तृतीयायोगाभावात्समः परतोऽपि चरतेर्नात्मनेपदम् । 'समस्तृतीयायुक्तात्' (पा. १।३।५४ ) इति सौत्रनियमात् ॥ ५४ ॥

  रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
  परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ ५५ ॥

 रौद्रामिति ॥ दहनात्मकमग्निरूपमत एव सुतरां दुर्धरं दुःखेन धर्तुं शक्यं रौद्रं शैवं धाम तेजो दधानास्ताः कृत्तिका विषाम्बुधौ मग्ना इवेत्युत्प्रेक्षा । परिता-

पाठा० -१ सुरभ्यायाम्. २ बहुलाः. पमवापुः । विषाम्बुधिमग्नत्वे यादृशः परितापो भवति तादृशो रौद्रतेजोधारणे जात इति भावः ॥ ५५॥

  अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः ।
  अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ॥ ५६ ॥

 अक्षमा इति ॥ दुर्वहं दुर्धरं तद्धाम वोढुमक्षमा अत एवातुरा व्याकुलास्ताः कृत्तिकाः । अन्तर्मध्ये ज्वलन्तमग्निमिव दधानाः सत्योऽम्बुनो जलाद्वहिर्निर्ययुः, निर्जग्मुरित्यर्थः । अत्र धामन्यग्नित्वेनोत्प्रेक्षणादुत्प्रेक्षा ॥ ५६ ॥

  अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् ।
  तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् ।। ५७ ॥

 अमोघमिति ॥ नद्या गङ्गया सद्य उज्झितमत एव तासां कृत्तिकाना- मभ्युदरं दीप्तं सत् स्थितममोघं सफलं महच्छांभवं बीजं गर्भत्वमागमत् , गर्भी- भूतमित्यर्थः ॥ ५७ ॥

  सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः ।
  विपादमदधुः सद्यो गाढं भाँर्तृभिया ह्रिया ॥ ५८ ॥

 सुज्ञा इति ॥ सुज्ञाश्चतुरा अत एव गर्भभूतं तद्वीर्यं विज्ञायापि वोढुमक्षमा असमर्थाः, तस्यातिशयप्रज्वलितत्वादिति भावः । ताः कृत्तिका भर्तुर्भिया भयेन । यदि न धरित्यामस्तदानुचितं, नो चेच्छरीरदाह इति भयेनेत्यर्थः । ह्रिया लज्जया । एवंविधा इमाः याभिर्भर्तृवीर्यमपि न धृतमिति लोकप्रवादजन्मनेत्यर्थः । सद्यो गाढं विषादं खेदमदधुर्धृतवत्यः ॥ ५८ ॥

  ततः शरवणे सार्धं भयेन व्रीडया च ताः ।
  तद्गर्भजातमुत्सृज्य स्वान्गृहानभिनिर्ययुः ॥ ५९ ॥

पाठा०-१ दुर्धरम्. २ अग्निं ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः; निर्ययुः सहिताः शीघ्रं कृत्तिका विस्मयान्विताः. ३ नद्यां स्थितम्. ४ तीव्रम्. ५ गर्भीभूतम्. ६ आगमम्. ७ भर्तृभयात्. ८ अकाममरणं जातमकाण्डं भाविनोऽर्थतः । संभूया- न्योन्यमात्मानं शुशुचुस्तास्तदाविलम् ॥ (१ अकाण्डे. २ शुश्रुवुः.) ९ शापभयेन. १० सह. ११ ताः. १२ अभितो ययुः; अभि ता ययुः.  तत इति ॥ ततोऽनन्तरं ताः कृत्तिकास्तद्गर्भजातं गर्भसामान्यम् । 'जाति- र्जातं च सामान्यम्' इत्यमरः । भयेन व्रीडया च सार्धं सह शरवणे । 'प्रनिरन्तः- शरेक्षु--' (पा. ८।४|५ ) इत्यादिना 'शर' शब्दात् परवन-नकारस्य णत्वम् । 'शरः स्तुते जने बाणे' इति मेदिनी । उत्सृज्य परित्यज्य स्वान्गृहानभिनिर्ययुर्गतवत्यः । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः ॥ ५९ ॥

  ताभिस्तत्रामृतकरकलाकोमलं भासमानं
   तद्विक्षिप्तं क्षणमभिनभोगभमभ्युज्जिहानैः ।
  स्वौस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै-
   'वक्त्रैः षढ्भिः स्मरहरगुरुस्पर्धयेवाजनीव ॥ ६० ॥

 ताभिरिति ॥ ताभिः कृत्तिकाभिस्तत्र शरवणे विक्षिप्तं त्यक्तम् । तथाऽमृत- करकलावञ्चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ । अभिनभोगर्भं नभोगर्भं आकाशमध्य इत्यभिनभोगर्भम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । अभ्युज्जिहानैरभ्युज्जिहते संमुखमुदयन्ते तानि तैः । 'ओहाङ् गतौ' इत्यतः शानच् । तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः, ततोऽप्यधिकैरि- त्यर्थः । तथाऽमानैरसंख्यैः स्वैस्तेजोभिः । तथा षड्भिर्वक्रैश्च युक्तं स्मरहरगुरो- र्ब्रह्मणः स्पर्धयेर्प्ययेव, 'तव चत्वारि मम षडित्यतस्त्वत्तोऽहमधिकोऽस्मि’इत्येवंभूत- वाग्वादावसरफलकयेत्यर्थः । अजनि, परिप्राप्तमभूदित्यर्थः । 'दीपजन-' (पा. ३।१।६१) इत्यादिना च्लेश्चिण् । 'जनिवध्योश्च' (पा. ७।३।३५) इति वृद्धि- निषेधः । अत्र तेजसां षण्णां वक्त्राणां चोत्पादने ब्रह्मस्पर्धाया अहेतुत्वेऽपि तद्धे त्वेन कल्पनाद्धेतूत्प्रेक्षालंकारः । मन्दाक्रान्ता वृत्तम्-'मन्दाक्रान्ता जलधिषड- गैर्भ्भौ नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ ६० ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारोत्पत्तिर्नाम दशमः सर्गः ।

पाठा०-१ निक्षिप्तम्. २ तैः. ३ दिनकर. ४ वक्रम्. ५ स्मरहरशिरःस्पर्धयेव प्रपेदे.