← अध्यायः ०५ कौशिकपद्धतिः
अध्यायः ०६
केशवः
अध्यायः ०७ →

अथ षष्ठोऽध्यायः
[अभिचारकर्माणि]

अथ क्रमप्राप्तोऽथर्ववेदविहितोऽभिचार उच्यते । मीमांसायामभिचारो निषिद्धः ।ऽचोदनालक्षणोऽर्थो धर्मःऽ (जैसू १.१.२) इति । हिंसाचारः प्रतिषिद्धः । पुनरुपपादेऽभिचारः समर्थितः । मनुस्मृतौ च विहितोऽभिचारोऽन ब्राह्मणो वेदयिता कदाचित्ऽ इत्यादिना । तस्मात्श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकमिति । दोषश्च श्रूयते ।ऽषट्स्वभिचरन् पततिऽ इति मनुः ।ऽप्रमाणं स्मृतिःऽ इत्युक्तं मीमांसायाम् । तस्माद्विहितोऽभिचारः कर्तव्यः ॥

उभयतः परिच्छिन्नं शरमयं बर्हिराभिचारिकेषु ॥ कौशिकसूत्र ६,१{४७}.१ ॥
दक्षिणतः सम्भारमाहरत्याङ्गिरसम् ॥ कौशिकसूत्र ६,१{४७}.२ ॥
आङ्गिरसकल्पोक्ताः सम्भाराः प्रत्येतव्याः । दक्षिणस्यां दिशि मण्डपं कुर्यात् । कृत्तिकानक्षत्रे प्रयोगः कृष्णपक्षे वा रात्रौ निरोधि वा.
मण्डपं कारयेत्तत्र यथोक्तविधिना गुरुः.
पताकातोरणैर्युक्तं द्वारं वा दक्षिणं स्मृतम् ॥

[इङ्गिडमाज्यम् ॥ कौशिकसूत्र ६,१{४७}.३ ॥]
विषमिश्रमिङ्गिडमाज्यम् ॥

सव्यानिम् ॥ कौशिकसूत्र ६,१{४७}.४ ॥
दक्षिणापवर्गाणि ॥ कौशिकसूत्र ६,१{४७}.५ ॥
दक्षिणाप्रवण ईरिणे दक्षिणामुखः प्रयुङ्क्ते ॥ कौशिकसूत्र ६,१{४७}.६ ॥
साग्नीनि ॥ कौशिकसूत्र ६,१{४७}.७ ॥
अग्ने यत्ते तपः (२.१९२३) इति पुरस्ताद्धोमाः ॥ कौशिकसूत्र ६,१{४७}.८ ॥
[तथा तदग्ने कृणु जातवेदः (५.२९.२, ३) इत्याज्यभागौ ॥ कौशिकसूत्र ६,१{४७}.९ ॥
निरमुं नुदे (६.७५) इति संस्थितहोमाः ॥ कौशिकसूत्र ६,१{४७}.१० ॥
कृत्तिकारोकारोधावाप्येषु ॥ कौशिकसूत्र ६,१{४७}.११ ॥]
ऽतथा तदग्नेऽ इत्यादि स्मर्तव्यं सर्वत्र । अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ (२.११) इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । कारयिता कर्ता सदस्याश्च सर्वेषां बन्धनमात्मरक्षार्थम् ॥

अधुना दीक्षोच्यते
[भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति ॥ कौशिकसूत्र ६,१{४७}.१२ ॥]
शुक्लपक्षे त्रयोदश्यां पूर्वाह्णेऽभ्यातानान्तं कृत्वाऽद्यावापृथिवी उर्वन्तरिक्षम्ऽ (२.१२) इति सूक्तम् ।ऽकनकरजतऽ इति सूक्तम् । द्वाभ्यां वेणुदण्डं वृश्चति छिनत्ति कर्ता ॥

[मृत्योरहम् (६.१३३.३) इति बाधकीमादधाति ॥ कौशिकसूत्र ६,१{४७}.१३ ॥]
ऽमृत्योरहम्ऽ इत्यृचा बाधकीरादधाति समिधः ॥

[य इमाम् (६.१३३) अयं वज्रः (६.१३४) इति द्विगुणामेकवीरां सन्नह्य पाशान्निमुष्टितृतीयं दण्डं सम्पातवत् ॥ कौशिकसूत्र ६,१{४७}.१४ ॥
पूर्वाभिर्बध्नीते ॥ कौशिकसूत्र ६,१{४७}.१५ ॥]
ऽय इमां देवो मेखलाम्ऽ इति पञ्चर्चेन सूक्तेन मेखलां सम्पात्य ।ऽअयं वज्रःऽ इति तृचेन सूक्तेन दण्डं सम्पात्यऽय इमाम्ऽ इति तृचेन मेखलां बध्नाति ॥

[वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्र पुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति दण्डमादत्ते ॥ कौशिकसूत्र ६,१{४७}.१६ ॥]
ऽवज्रोऽसि सपत्नहाऽ इति तृचेन सूक्तेन दण्डं गृह्णाति ।ऽनमो नमस्कृद्भ्यःऽ इति सप्तर्षिभ्य उपस्थानं करोति शालाया बहिः । ततः शालायां प्रविश्य ततो व्रतादानीयाः समिध आदधाति शान्ताः । व्रतश्रावणं तस्मिन् करोति । अभ्यातानाद्युत्तरतन्त्रम् । दीक्षितस्त्रिरात्रमनशनम् । त्रिरात्रे निवृत्ते कृष्णपक्षे प्रतिपदि कर्म भविष्यति.
ऽनमो नमस्कृद्भ्यः सुमति प्रयुञ्जे न मे प्रसूत तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणा नयामेन्याऽ इत्युपस्थानमन्त्रः.
ऽअग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तस्मिन्मे ऋद्धिः । तस्मै नमस्तस्मै स्वाहाऽ इति । इन्द्र । सोम । सूर्य । चन्द्र । देवा व्रतपतयः । आपो व्रतपत्न्यः । व्रतानां व्रतपतयः । व्रतादानीयाः समिधमन्त्राः ॥
ऽकनकरजतकरेद्वसोपा मारयिष्यामि तं जनम् । प्रजां तस्य पशूंश्च एते अग्ने आवृश्चाम्यहन्न्युदितो जने । गृहांश्च तस्य विनाशनकामे कामवानहंऽ च.
अन्वा वृश्चामि देवेभ्य अन्वा वृश्चाम्यग्नये.
अन्वा पृथिव्यै वृश्चामि अन्वा वृश्चामि मृत्यवे ॥
आवृक्ते असि देवेभ्यो दृष्ट्वा ओषधीषु च.
आवृक्त इति द्वे (द्वे) । विष्णो सं त्वा वृश्चामि सर्वतः ॥
ऽअन्वा वृश्चामि देवमनुष्येभ्यो भूतये । अन्वा निरृत्याः पाशेभ्यो वृश्चामि यथा मृत्यो न मोच्छिषत्ऽ । आङ्गिरसदण्डवृश्चनसूक्तम् ॥

[भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति ॥ कौशिकसूत्र ६,१{४७}.१७ ॥]
प्रतिदिनं भक्तं गृहीत्वा मेखलाया ग्रन्थिमालिम्पतिऽआहुतास्यभिहुतऽ (६.१३३.२) इत्यृचा ॥

[अयं वज्रः (६.१३४) इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति ॥ कौशिकसूत्र ६,१{४७}.१८ ॥
अन्तरुपस्पृशेत् ॥ कौशिकसूत्र ६,१{४७}.१९ ॥]
ऽअयं वज्रःऽ इति तिसृभिरृग्भिः बाह्यतो दण्डमर्धमवागग्रं कृत्वान्वृचं निहन्ति ॥

[यदश्नामि (६.१३५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ६,१{४७}.२० ॥
यत्पात्रमाहन्ति फड्ढतोऽसौ इति ॥ कौशिकसूत्र ६,१{४७}.२१ ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायच्छामि इत्यायच्छति ॥ कौशिकसूत्र ६,१{४७}.२२ ॥]
ऽयदश्नामिऽ,ऽयद्गिरामिऽ इति द्वाभ्यामृग्भ्यां भोजनं करोति ।ऽयत्पिबामिऽ इत्यृचोदकं पिबति । अमुष्यस्थाने शत्रुनामग्रहणममुंस्थाने च ।ऽफड्ढतो महुमदःऽ इत्येतेन मन्त्रेण भोजनपात्रं भिनत्ति । आचमनं कृत्वा ।ऽइदमहं महुमदस्य तुरष्कस्य सूतिकर्णपुत्रस्य प्राणापानावप्यायच्छामिऽ इत्यनेन मन्त्रेण मेखलाग्रन्थिं बध्नाति गाढं करोति । प्रत्यहमेतत्कर्म ॥

[येऽमावास्याम् (१.१६) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारे ॥ कौशिकसूत्र ६,१{४७}.२३ ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन सीसचूर्णानि कृत्वाभिमन्त्र्य भक्ते ददाति द्वेषस्य ।ऽयेऽमावास्याम्ऽ इति सूक्तेनालङ्कारान् समालभते द्वेषस्य ॥

[पराभूतवेणोर्यष्ट्या बाहुमात्र्यालङ्कृतयाहन्ति ॥ कौशिकसूत्र ६,१{४७}.२४ ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन वेणुयष्ट्यालङ्कृतया शत्रुमाहन्ति । बाहुमात्रा लोहितविषमिश्रा स्वयञ्छिन्ना यष्टिसंस्कारः ॥

[द्यावापृथिवी उरु (२.१२) इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति ॥ कौशिकसूत्र ६,१{४७}.२५ ॥]
ऽद्यावापृथिवी उरुऽ इति सूक्तेन परशुं वृक्षपत्रं च गृहीत्वा दक्षिणा धावतः शत्रोः पदं रजं छिनत्ति ॥

[अन्वक्त्रिस्तिर्यक्त्रिः ॥ कौशिकसूत्र ६,१{४७}.२६ ॥
अक्ष्णया संस्थाप्य ॥ कौशिकसूत्र ६,१{४७}.२७ ॥]
तिरश्चीनं त्रिः कोणे एकैकम् । एवमष्टवारान् । सूक्तावृत्तिः ॥

[आव्रस्कान् पांशून् पलाशमुपनह्य भ्रष्टेऽभ्यस्यति ॥ कौशिकसूत्र ६,१{४७}.२८ ॥]
तस्माच्छेदात्पांसूंश्च गृहीत्वा बधकपत्रे बद्ध्वा सूक्तेनाभिमन्त्र्य भ्रष्टेऽभ्यस्यति क्षिपति ॥

[स्फोटत्सु स्तृतः ॥ कौशिकसूत्र ६,१{४७}.२९ ॥]
यदि स्फोटति द्वेष्यो मृतो जानीयात् । अथवा एतत्सर्वं प्रतिकृतेः कर्तव्यमिति ॥

अभिचारतन्त्रमुच्यते
दक्षिणामुखः प्रयुङ्क्ते ।ऽअव्यसश्चऽ (१९.६९.१) बर्हिर्लवनम्, वेदिः, उत्तरवेदिः, चाण्डालाग्निप्रणयनम्, अग्निप्रतिष्ठापनम्,ऽममाग्ने वर्चःऽ (५.३.१) इति व्रतग्रहणम्, इध्मप्रोक्षणम्, इध्मोपसमाधानम्, ब्रह्मासनं पश्चिमतः, ब्रह्मस्थापनम्, शरमयं बर्हिःप्रोक्षणम्, प्रसव्यं स्तरणम्, स्तीर्णप्रोक्षणं प्रसव्यमात्मासनसंस्कारः, उदपात्रस्थापनम्, लोहमयस्रुवग्रहणम्, शाकपात्रेणेमामिङ्गिडविषमिश्राज्यं संस्कृत्य ग्रहग्रहणे विशेषः ।ऽमहुमदस्य त्वा प्राणाय गृह्णेऽ इत्यादि पञ्चमग्रहग्रहणम् ।ऽअग्ने यत्ते तपःऽ (२.१९२३) इति पुरस्ताद्धोमाः । पञ्च सूक्तानि ।ऽतथा तदग्ने कृणु जातवेदःऽ (५.२९.२३) इति ऋचावाज्यभागौ । ततोऽभ्यातानान्तं पूर्वतन्त्रम् । आभिचारिके तन्त्रे पूर्वतन्त्रम्.

अथोत्तरतन्त्रमुच्यतेस्विष्टकृदाद्युत्तरतन्त्रम् । सर्वत्राभिचारकर्मणि अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रम् । विष्णुक्रमा द्वादश ।ऽनिरमुं नुदेऽ (६.७५) इति संस्थितहोमाः । उदपात्रे सम्पाता न भवन्ति । अभिचारतन्त्रे सर्वत्रास्मिन्
पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत ॥ कौशिकसूत्र ६,१{४७}.३० ॥
द्वादशरात्रं यावत् ॥

तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति ॥ कौशिकसूत्र ६,१{४७}.३१ ॥
दक्षिणामुखः संवेशनं करोति । शय्याया उत्थाय त्रिरह्नः प्रातर्मध्यन्दिने सन्ध्यायां चोदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपतिऽद्यावापृथिवीऽ (२.१२) सूक्तेन प्रत्यृचम् ॥

[नद्या अनामसम्पन्नाया अश्मानं प्रास्यति ॥ कौशिकसूत्र ६,१{४७}.३२ ॥]
ततो नद्या अनामसम्पन्नाया अश्मानं गृहीत्वा दक्षिणप्रदेशे प्रहरति ।ऽद्यावापृथिवी उरुऽ इति सूक्तेन प्रत्यृचम् । अश्मानं त्रिकालं प्रहरति ॥

[उष्णेऽक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति ॥ कौशिकसूत्र ६,१{४७}.३३ ॥]
उष्णोदकमध्येऽक्षतसक्तून् प्रक्षिप्य पिबेतनालोडितानेकोच्छ्वासेन ॥

[कथं त्रींस्त्रीन् काशींस्त्रिरात्रम् ॥ कौशिकसूत्र ६,१{४७}.३४ ॥
द्वौ द्वौ त्रिरात्रम् ॥ कौशिकसूत्र ६,१{४७}.३५ ॥
एकैकं षड्रात्रम् ॥ कौशिकसूत्र ६,१{४७}.३६ ॥]
त्रींस्त्रीन्मुष्टीन् त्रिरात्रं द्वौ द्वौ द्विरात्रम् । एकैकं षड्रात्रं भुङ्क्तेऽआहुतास्यभिहुतऽ (६.१३३.२) इत्येवमादि स्मर्तव्यम् ॥

[द्वादश्याः प्रातः क्षीरौदनं भोजयित्वोच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति ॥ कौशिकसूत्र ६,१{४७}.१७ ॥
सन्धावत्सु स्तृतः ॥ कौशिकसूत्र ६,१{४७}.३८ ॥]
त्रयोदशेऽहनि शय्याया उत्थायोत्तरतन्त्रं कृत्वा ब्राह्मणान् परिचारकांश्च क्षीरौदनं भोजयित्वा पात्रस्थमुच्छिष्टमेकधा कृत्वाऽद्यावापृथिवी उरुऽ इति सूक्तेनाभिमन्त्रयेत्.
तं गृहीत्वा बहुमत्स्ये गर्ते प्रक्षिपेत् । यदि ते धावन्तो दृश्यन्ते ततो द्वेष्यो मृतो जानीयात् । एकं कर्म ॥
आभिचारिकं पूर्वतन्त्रं कृत्वा "पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयति । तत उत्थाय त्रिरह्न" इति वर्तते ॥ नद्या अनामसम्पन्नाया अश्मानं प्रास्यति प्रत्यृचम् ।ऽद्यावापृथिवी उरुऽ इति सूक्तेन त्रिकालम् । उष्णोदकसक्तूनिति समानम् ॥

[लोहितशिरसं कृकलासममून् हन्मि इति हत्वा सद्यः कार्यो भाङ्गे शयने ॥ कौशिकसूत्र ६,१{४७}.३९ ॥
लोहितालङ्कृतं कृष्णवसनमनूक्तं दहति ॥ कौशिकसूत्र ६,१{४७}.४० ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन लोहितशिरसं कृकलासं शत्रोर्नामोच्चार्य मारयित्वा प्रेतवत्कृत्वाभिमन्त्र्य दहति ॥

[एकपदाभिरन्योऽनुतिष्ठति ॥ कौशिकसूत्र ६,१{४७}.४१ ॥]
ततःऽअग्ने यत्ते तपःऽ (२.१९२३) इति पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्ता । एकपादेनोर्ध्वस्थितः ॥

[अङ्गशः सर्वहुतमन्यम् ॥ कौशिकसूत्र ६,१{४७}.४२ ॥]
आभिचारिकं तन्त्रं कृत्वाऽद्यावापृथिवीऽ इति सूक्तेन कृकलासमष्टधा कृत्वा प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥ कौशिकसूत्र ६,१{४७}.४३ ॥]
अभ्यातानान्तं कृत्वा पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥

[निवृत्य स्वेदालङ्कृता जुहोति ॥ कौशिकसूत्र ६,१{४७}.४४ ॥]
निवृत्य वेद्यामुपवेश्यऽद्यावापृथिवीऽ इति सूक्तेन स्वेदाक्ताः शरभृष्टीः प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[कोश उरःशिरोऽवधाय पदात्पांसून् ॥ कौशिकसूत्र ६,१{४७}.४५ ॥]
अभ्यातानान्तं कृत्वा कृकलासस्योरःशिरोऽवधाय पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदेनालङ्कृत्यऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा शत्रुपादात्पांसून् गृहीत्वा पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदालङ्कृतान् पांसून्ऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । उत्तरतन्त्रम् ॥

[पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणाम् ॥ कौशिकसूत्र ६,१{४७}.४६ ॥
विषं शिरसि ॥ कौशिकसूत्र ६,१{४७}.४७ ॥
बाधकेनावागग्रेण प्रणयन्नन्वाह ॥ कौशिकसूत्र ६,१{४७}.४८ ॥
पाशे स (२.१२.२) इति कोशे ग्रन्थीनुद्ग्रथ्नाति ॥ कौशिकसूत्र ६,१{४७}.४९ ॥]
पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणां कृकलासशरीरेऽवधाय विषं शिरसि दत्त्वा बाधकेनावागग्रेण नीत्वाऽद्यावापृथिवीऽ इति सूक्तेनाभिमन्त्र्यऽपाशे सःऽ इति पादेन ग्रन्थीन्कोशे बध्नाति ॥

आमुम् (२.१२.४) इत्यादत्ते ॥ कौशिकसूत्र ६,१{४७}.५० ॥
मर्मणि खादिरेण स्रुवेण गर्तं खनति ॥ कौशिकसूत्र ६,१{४७}.५१ ॥
बाहुमात्रम् [अतीव यः (२.१२.६) इति शरैरवज्वालयति ॥ कौशिकसूत्र ६,१{४७}.५२ ॥]
ऽअतीव यःऽ इत्यवज्वाल्य तत्र निदधाति ॥

[अवधाय सञ्चित्य लोष्टं स्रुवेण समोप्य ॥ कौशिकसूत्र ६,१{४७}.५३ ॥]
सञ्चित्य लोष्टं मृत्तिकोपरि निदधाति ।ऽद्यावापृथिवीऽ इति सूक्तेन स्रुवेण जुहोति ॥

[अमुमुन्नैषमित्युक्तावलेखनीम् ॥ कौशिकसूत्र ६,१{४७}.५४ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनावलेखनीं हृदये विध्यत्यसितालकाण्डेन ॥

[छायां वा ॥ कौशिकसूत्र ६,१{४७}.५५ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन यष्टिना द्वेष्यस्य छायामाहन्ति ॥

[उपनिनयते ॥ कौशिकसूत्र ६,१{४७}.५६ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनोदपात्रमभिमन्त्र्य निनयति ॥

[अन्वाह ॥ कौशिकसूत्र ६,१{४७}.५७ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनान्वाह शत्रुमारणकामः ॥ षष्ठेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४७ ॥


________________________________


[भ्रातृव्यक्षयणम् (२.१८) इत्यरण्ये सपत्नक्षयणीरादधाति ॥ कौशिकसूत्र ६,२{४८}.१ ॥]
ऽभ्रातृव्यरक्षणम्ऽ इति सूक्तेन अश्वत्थसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन बाधकसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इत्येरण्डसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति श्लेष्मान्तकसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति खदिरसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति शरसमिध आदधाति । अरण्यकर्म ॥

[ग्राममेत्यावपति ॥ कौशिकसूत्र ६,२{४८}.२ ॥]
ग्राममेत्य ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णव्रीहीनावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णयवानावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णतिलानावपति । पुनरपिऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन व्रीहीनावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन यवानावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन तिलानावपति । एवं षडावृत्तिः सूक्तस्य ॥

[पुमान् पुंसः (३.६) इति मन्त्रोक्तमभिहुतालङ्कृतं बध्नाति ॥ कौशिकसूत्र ६,२{४८}.३ ॥]
अभ्यातानान्तं कृत्वाऽपुमान् पुंसःऽ इति सूक्तेनाभिहुतालङ्कृतमाश्वत्थमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्रुवाग्रे दण्डे बन्धनमभिहुतं सम्पातितं भवति ॥

[यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रांश्चम्वा मर्मणि निखनति ॥ कौशिकसूत्र ६,२{४८}.४ ॥]
अभ्यातानान्तं कृत्वाऽपुमान् पुंसःऽ इति सूक्तेन यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽभिमन्त्र्य शत्रुमर्मणि निखनति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[नावि प्रैणान् (३.६.८) नुदस्व काम (९.२.४) इति मन्त्रोक्तं शाखया प्रणुदति ॥ कौशिकसूत्र ६,२{४८}.५ ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सप्तसु मर्मसुऽपुमान् पुंसःऽ इति सूक्तेन निखनति । ततोऽश्वत्थशाखयाऽप्रैणान्नुदे मनसाऽ इत्यृचाऽनुदस्व कामऽ इत्यृचा प्रणुदति । तत उत्तरतन्त्रम् ॥

[तेऽधराञ्चः (३.६.७) इति प्रप्लावयति ॥ कौशिकसूत्र ६,२{४८}.६ ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सम्पात्याभिमन्त्र्यऽपुमान् पुंसःऽ इति ततःऽतेऽधराञ्चःऽ इत्यृचोदके प्लावयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[बृहन्नेषाम् (४.१६) इत्यायन्तं शप्यमानमन्वाह ॥ कौशिकसूत्र ६,२{४८}.७ ॥]
ऽबृहन्नेषाम्ऽ इति सूक्तेन शत्रुं क्रोशन्तमन्वाह । मरणं भवति ॥

[वैकङ्कतेन (५.८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ६,२{४८}.८ ॥]
बर्हिर्लवनादि कृत्वा वैकङ्कतवृक्षस्येध्मोपसमाधानम् । वैकङ्कतस्रवग्रहणम् । अभ्यातानान्तं समानम् ।ऽवैकङ्कतेनऽ इति सूक्तेन जुहोति । तत उत्तरतन्त्रम् ॥

[ददिर्हि (५.१३) इति साग्नीनि ॥ कौशिकसूत्र ६,२{४८}.९ ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन कृकलासकर्म । शरभृष्टिकर्म । सपत्नक्षयणीकर्माणि षट् । ग्राममेत्यावपनकर्माणि षट् । मणिकर्म । पाशकर्माणि त्रीणि । वैकङ्कतस्रुवकर्म । एकोनविंशतितन्त्राणि भवन्ति ।ऽददिर्हि मह्यम्ऽ इति सूक्तेन प्रधानमव्ययं मत्स्यादिब्राह्मणतर्पणपर्यन्तं समानम् ॥

[देशकपटु प्रक्षिणाति ॥ कौशिकसूत्र ६,२{४८}.१० ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन सर्पच्छत्रं चूरयति ॥

[तेऽवदन् (५.१७) इति नेतॄणां पदं वृश्चति ॥ कौशिकसूत्र ६,२{४८}.११ ॥]
ऽतेऽवदन्ऽ इति सूक्तेन नेतॄणां पदं वृश्चति । विधानेन सूक्तावृत्तिः ॥

गोहरणेऽभिचारः
[अन्वाह ॥ कौशिकसूत्र ६,२{४८}.१२ ॥]
ऽतेऽवदन्ऽ इति सूक्तेन चौरानन्वाह ॥

[ब्रह्मगवीभ्यामन्वाह ॥ कौशिकसूत्र ६,२{४८}.१३ ॥]
ऽनैतां ते देवाःऽऽअतिमात्रम्ऽ (५.१८, १९) इति सूक्ताभ्याम् ।ऽश्रमेण तपसाऽ (१२.५) इत्यनुवाकः । सदा गोहरण मारण विशसनदोहनेषु क्रियमाणेषु ब्रह्मगवीं जपति ॥

[चेष्टाम् ॥ कौशिकसूत्र ६,२{४८}.१४ ॥
विचृतति ॥ कौशिकसूत्र ६,२{४८}.१५ ॥
ऊबध्ये ॥ कौशिकसूत्र ६,२{४८}.१६ ॥
श्मशाने ॥ कौशिकसूत्र ६,२{४८}.१७ ॥]
ऽनैतां तेऽ इति सूक्ताभ्यां चेष्टां विचृतति श्मशान ऊबध्येऽश्मानमवधाय ततोपरि स्थितः ।ऽनैतां तेऽ इति सूक्ताभ्यांऽश्रमेण तपसाऽ इत्यनुवाकं जपति ॥

[त्रिः अमून् हनस्व इत्याह ॥ कौशिकसूत्र ६,२{४८}.१८ ॥]
त्रिःऽअमून् हनस्वऽ इति वदति ॥

[द्वितीययाश्मानमूबध्ये गूहयति ॥ कौशिकसूत्र ६,२{४८}.१९ ॥
द्वादशरात्रं सर्वव्रत उपश्राम्यति ॥ कौशिकसूत्र ६,२{४८}.२० ॥
द्विरुदिते स्तृतः ॥ कौशिकसूत्र ६,२{४८}.२१ ॥
अवागग्रेण निवर्तयति ॥ कौशिकसूत्र ६,२{४८}.२२ ॥]
द्वादशरात्रं यावत् । अहरहःऽददिर्हिऽ इति सूक्तेन । ततः दधोहनि (?) मृतो द्वेष्य इति जानीयात् । न सन्देहः । अयं भवितव्यम् ॥

[उप प्रागात्(६.३७) इति शुने पिण्डं पाण्डुं प्रयच्छति ॥ कौशिकसूत्र ६,२{४८}.२३ ॥]
ऽउप प्रागात्सहस्राक्षःऽ इति श्वेतमृत्तिकामभिमन्त्र्य शुने प्रयच्छति ॥

[तार्च्छं बध्नाति ॥ कौशिकसूत्र ६,२{४८}.२४ ॥]
तन्त्रं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन पलाशमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥

[जुहोति ॥ कौशिकसूत्र ६,२{४८}.२५ ॥]
तन्त्रं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन इङ्गिडं जुहोति । उत्तरतन्त्रम् ॥

[आदधाति ॥ कौशिकसूत्र ६,२{४८}.२६ ॥]
ऽउप प्रागात्ऽ इति सूक्तेन समिध आदधाति ॥

[इदं तद्युजे (६.५४) यत्किं चासौ मनसा (७.७०) इत्याहिताग्निं प्रतिनिर्वपति ॥ कौशिकसूत्र ६,२{४८}.२७ ॥
मध्यमपलाशेन फलीकरणाञ्जुहोति ॥ कौशिकसूत्र ६,२{४८}.२८ ॥]
ऽइदं तद्युजेऽ इति सूक्तेनाहिताग्नौ यवादि निर्वपति । आहिताग्नेरभिचारः ।ऽइदं तद्युजेऽ इति सूक्तेन मध्यमपलाशपर्णेन फलीकरणाञ्जुहोति ।ऽयत्किं चासौ मनसाऽ इति पञ्चर्चेन सूक्तेनाहिताग्नौ यवादि प्रतिनिर्वपति ।ऽयत्किं चासौऽ इति सूक्तेन फलीकरणाञ्जुहोति ॥

[निरमुम् (६.७५) इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति ॥ कौशिकसूत्र ६,२{४८}.२९ ॥]
बर्हिर्लवनादि प्रतिष्ठापनान्तं कृत्वाऽनिरमुं नुदेऽ इति सूक्तेन तमग्निमङ्गुष्ठेन त्रिवारं स्फोटयति । पुनः शरम् । अन्यमग्निं प्रणयति ।ऽनिरमुं नुदेऽ इति सूक्तेन स्तरणं कृत्वा पुनर्मन्त्रेण स्तृणाति ॥

[शरं कद्विन्दुकोष्ठैरनुनिर्वपति ॥ कौशिकसूत्र ६,२{४८}.३० ॥]
ऽनिरमुं नुदेऽ इति सूक्तेन कध्विण्डकोष्ठैरनुनिर्वपति ॥

[लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति ॥ कौशिकसूत्र ६,२{४८}.३१ ॥]
अभ्यातानान्तं कृत्वा लोहिताश्वत्थेन स्रुवेण पलाशेन वेङ्गिडमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[त्वं वीरुधाम् (६.१३८) इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य सम्पिष्य निखनति ॥ कौशिकसूत्र ६,२{४८}.३२ ॥
शेप्यानडे ॥ कौशिकसूत्र ६,२{४८}.३३ ॥
शेप्यायाम् ॥ कौशिकसूत्र ६,२{४८}.३४ ॥]
ऽत्वं वीरुधाम्ऽ इति सूक्तेन मूत्रपुरीषे बन्धवत्सखल्वायां कृत्वा तस्य वृषणैरपिधाप्य बाधकेन काष्ठेन हत्वा सूक्तेन मर्म निखनति ॥

[यथा सूर्यः (७.१३) इत्यन्वाह ॥ कौशिकसूत्र ६,२{४८}.३५ ॥]
ऽयथा सूर्यो नक्षत्राणाम्ऽ इति द्व्यर्चं सूक्तं शत्रुं दृष्ट्वा जपति ॥

[उत्तरया यांस्तान् पश्यति ॥ कौशिकसूत्र ६,२{४८}.३६ ॥]
ऽयावन्तो मा सपत्नानाम्ऽ (७.१३.२) इत्यृचा शत्रुं निरीक्षते । चक्षुषा ॥

[इन्द्रोतिभिः (७.३१) अग्ने जातान् (७.३४) यो नस्तायद्दिप्सति (७.१०८) यो नः शपात्(७.५९) इति वैद्युद्धतीः ॥ कौशिकसूत्र ६,२{४८}.३७ ॥]
ऽइन्द्रोतिभिर्बहुलाभिःऽ इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति ।ऽअग्ने जातान्ऽ इति द्व्यर्चेन विद्युद्धतवृक्षस्य समिध आदधाति ।ऽयो नस्तायद्दिप्सतिऽ इति द्वाभ्यामृग्भ्यां विद्युद्धतसमिध आदधाति ।ऽयो नः शपात्ऽ इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति ॥

[सान्तपनाः (७.७७) इत्यूर्ध्वशुषीः ॥ कौशिकसूत्र ६,२{४८}.३८ ॥
घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम् ॥ कौशिकसूत्र ६,२{४८}.३९ ॥]
ऽसान्तपनाःऽ इति तृचेनोर्ध्वशुष्कवृक्षसमिध आदधाति ।ऽसान्तपनाःऽ इति तृचेन घ्रंसश्रृतं पुरोडाशं जुहोति ।ऽसान्तपनाःऽ इति तृचेन घ्रंसविलीनमाज्यमिङ्गिडं जुहोति । सर्वहुतम् । आज्यतन्त्रे । तन्त्रं कृत्वा ॥

[उदस्य श्यावौ (७.९५) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदत्यभिन्युब्जति ॥ कौशिकसूत्र ६,२{४८}.४० ॥]
अभ्यातानान्तं कृत्वाऽउदस्य श्यावौऽ इति तृचेन सूक्तेनाज्यं जुहोतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमुखमपनुदति । अभ्यातानाद्युत्तरतन्त्रम् । अभिन्युब्जत्युपधावन्तम् ॥

[उपधावन्तमसदन् गावः (७.९६) इति काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् ॥ कौशिकसूत्र ६,२{४८}.४१ ॥]
ऽअसदन् गावःऽ इत्यृचा काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति ॥

[अशिशिषोः क्षीरौदनम् ॥ कौशिकसूत्र ६,२{४८}.४२ ॥]
ऽअसदन् गावःऽ इत्यृचा रक्तशालिक्षीरौदनं पक्त्वाभिमन्त्र्य द्वेष्याय प्रयच्छति । भक्षार्थम् ॥

[आमपात्रमभ्यवनेनेक्ति ॥ कौशिकसूत्र ६,२{४८}.४३ ॥]
ऽअसदन् गावःऽ इत्यृचामपात्रस्योपरि हस्तप्रक्षालनं करोति मन्त्रेण ॥ षष्ठेऽध्याये द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४८ ॥


________________________________


[सपत्नहनम् (९.२) इत्यृषभं सम्पातवन्तमतिसृजति ॥ कौशिकसूत्र ६,३{४९}.१ ॥]
ऽसपत्नहनम्ऽ इत्यर्थसूक्तेनर्षभं सम्पातवन्तं कृत्वा द्वेष्याभिमुखं विसृजति । वृषोत्सर्गवत् । यन्ता । अभ्यातानाद्युत्तरतन्त्रम् ॥

[आश्वत्थीरवपन्नाः ॥ कौशिकसूत्र ६,३{४९}.२ ॥]
ऽसपत्नहनम्ऽ इत्यर्थसूक्तेनाश्वत्थीः स्वयम्पतिताः समिध आदधाति ॥

उदवज्राणां विधानमुच्यते
[स्वयमिन्द्रस्यौजः (१०.५) इति प्रक्षालयति ॥ कौशिकसूत्र ६,३{४९}.३ ॥]
ऽइन्द्रस्यौजः स्थऽ इति पूर्वार्धर्चैर्घटं प्रक्षालयति ॥

[जिष्णवे योगाय (१०.५) इत्यपो युनक्ति ॥ कौशिकसूत्र ६,३{४९}.४ ॥]
ऽजिष्णवे योगायऽ इत्युत्तरार्धर्चैः षडुदकसमीपे घटं निदधाति ॥

[वातस्य रंहितस्यामृतस्य योनिः इति प्रतिगृह्णाति ॥ कौशिकसूत्र ६,३{४९}.५ ॥
उत्तमाः प्रताप्याधराः प्रदाय एनमेनानधराचः पराचोऽवाचस्तपसस्तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानामित्यतिसृजति ॥ कौशिकसूत्र ६,३{४९}.६ ॥
इदमहं यो मा प्राच्या दिशोऽघायुरभिदासादपवादीदिषूगुहः तस्येमौ प्राणापानावपक्रामामि ब्रह्मणा ॥ कौशिकसूत्र ६,३{४९}.७ ॥
दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाया ऊर्ध्वायाः ॥ कौशिकसूत्र ६,३{४९}.८ ॥
इदमहं यो मा दिशामन्तर्देशेभ्यः इति अपक्रामामि इति ॥ कौशिकसूत्र ६,३{४९}.९ ॥
एवमभिष्ट्वा ॥ कौशिकसूत्र ६,३{४९}.१० ॥
नापोहननिवेष्टनानि सर्वाणि खलु शश्वद्भूतानि ॥ कौशिकसूत्र ६,३{४९}.११ ॥
ब्राह्मणाद्वज्रमुद्यच्छमानाच्छङ्कन्ते मां हनिष्यसि मां हनिष्यसि इति तेभ्योऽभयं वदेत्
शमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यमिति ॥ कौशिकसूत्र ६,३{४९}.१२ ॥
यो व आपोऽपाम् (१०.५.१५२१), यं वयम् (१०.५.४२४९) अपामस्मै वज्रम् (१०.५.५०) इत्यन्वृचमुदवज्रान् ॥ कौशिकसूत्र ६,३{४९}.१३ ॥
विष्णोः क्रमोऽसि (१०.५.२५३५) इति विष्णुक्रमान् ॥ कौशिकसूत्र ६,३{४९}.१४ ॥]
ऽइदमहं यो मा प्राच्या दिशःऽ इत्यष्टर्चेन कल्पजेन सूक्तेनोदकमध्ये घटं निदधाति ।ऽइदमहम्ऽ इति घटमुदकेऽधोमुखं करोति ।ऽइदमहम्ऽ इति सूक्तेन घटमुदकपूर्णं कृत्वापक्रामति ।ऽइदमहं यो मा प्राच्या दिशःऽ सूक्तेनोदकपूर्णं घटं मण्डपे स्थापयति । एतदभिचार उदकाहरणम्.

येन विधानेन वज्रप्रहरणं क्रियते तदुच्यते
ऽइन्द्रस्यौजःऽ (१०.५) इत्यादि सर्वं कृत्वाऽइदमहम्ऽ इति स्थापनान्तं कृत्वाऽअग्नेर्भागः स्थऽ (१०.५.८१४) इत्यष्टाभिरृग्भिर्द्विधाकरणम् । अर्धं घटे कृत्वार्धं भाजने करोति । भाजनमग्नौ तापयति । घटमन्यस्मै पुरुषाय प्रदापयति ।ऽअग्नेर्भागःऽ इत्यष्टौ तापने मन्त्राः । बर्हिरासने दक्षिणामुख उपविश्य भाजनमग्नौ कृत्वाऽवातस्य रंहितस्यामृतस्य योनिःऽ इति मन्त्रेणोदकं गृहीत्वाऽशमग्नयेऽ इति सूक्तेन कल्पजेन सर्वेभ्यो भूतेभ्योऽभयं वदेत् ।ऽयो व आपोऽपां भागोऽप्स्वन्तःऽ इत्यृचोदवज्रप्रक्षेपः । पुनरपिऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्यऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपामूर्मिरप्स्वन्तःऽ इत्यृचा वज्रप्रक्षेपः । पुनरपिऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्यऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपां वत्सोऽप्स्वन्तःऽ इति वज्रं प्रक्षिपेत् ।ऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्यऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपां वृषभोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनःऽवातस्य रंहितस्यऽ इत्युदकं गृहीत्वाऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनःऽवातस्य रंहितस्यऽ इत्युदकं सङ्गृह्यऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपामश्मा पृश्निःऽ इत्यृचा वज्रं प्रक्षिपेत् । पुनःऽवातस्य रंहितस्यामृतस्य योनिःऽ इति मन्त्रेणोदकं सङ्गृह्यऽशमग्नयेऽ इत्यभयं दत्त्वाऽयो व आपोऽपामग्नयोऽप्स्वन्तःऽ इत्यृचा वज्रं प्रक्षिपेत् ।ऽएनमेनानधराचः पराचःऽ इति कल्पजयर्चा भाजनस्थमुदकं भूमौ निनयति ।ऽयं वयम्ऽ (१०.५.४२) इति सूक्तेनैवम्ऽअपामस्मै वज्रम्ऽ
(१०.५.५०) इत्येकयैवमेव ।ऽइन्द्रस्यौजःऽ इत्यादि कर्तव्यम् । तत्र रुद्रकृताः श्लोकाः
प्रक्षालनं तथा योगो अप्सु पात्रनिधापनम्.
अपोहनमनेनैव तं निवेष्ट्य पात्रपूरणम् ॥
अपक्रामस्तदायं तु सूक्तेनेदमहं ततः.
निधापनादि तेनैव सर्वत्रानीय सादयेत् ॥
विभागदानसन्तापा ग्रहणं शान्तयश्च याः.
वज्रातिसर्गावित्येते सप्त वज्रस्य केवलाः ॥
ग्रहणं प्रतिवज्रं चाभयदानं तथैव च ॥
एते श्लोकाः ।ऽविष्णोः क्रमोऽसिऽ इति द्वादशभिः प्रत्यृचं विष्णुक्रमान् क्रमते शत्रोरभिमुखम् ॥

[ममाग्ने वर्चः (५.३) इति बृहस्पतिशिरसं पृषातकेनोपसिच्याभिमन्त्र्योपनिदधाति ॥ कौशिकसूत्र ६,३{४९}.१५ ॥]
सवविधानेन बृहस्पतिशिरसमोदनं द्वेष्याय ददाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन तं पृषातकेनोपसिच्यऽतस्यौदनस्यऽ इत्यर्थसूक्तेनाभिमन्त्र्य ददाति । सूक्तेनाभिमृशति । सूक्तेन सम्पातवन्तं करोति । तन्त्रम् । सूक्तं वाचयति ।ऽत्रिभिः स्थानैःऽ इत्युक्तम् ॥

प्रतिजानन्नानुव्याहरेत् ॥ कौशिकसूत्र ६,३{४९}.१६ ॥
उत्तमेनोपद्रष्टारम् ॥ कौशिकसूत्र ६,३{४९}.१७ ॥
[उदेहि वाजिन् (१३.१.१) इत्यर्धर्चेन नावं मज्जतीम् ॥ कौशिकसूत्र ६,३{४९}.१८ ॥]
ऽउदेहि वाजिन्ऽ इत्यर्धर्चेन नावचटितं द्वेष्यमन्वाह ॥

[समिद्धोऽग्निः (१३.१.२८३२) य इमे द्यावापृथिवी (१३.३) अजैष्म (१६.६९) इत्यधिपाशानादधाति ॥ कौशिकसूत्र ६,३{४९}.१९ ॥
पदेपदे पाशान् वृश्चति ॥ कौशिकसूत्र ६,३{४९}.२० ॥
अधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥ कौशिकसूत्र ६,३{४९}.२१ ॥]
ऽसमिद्धो अग्निः समिधानो घृतवृद्धःऽ इति पञ्चर्चेन शङ्कुसहितान् पाशानभिमन्त्र्यारण्ये निदधाति ।ऽसमिद्धो अग्निःऽ इति सूक्तेन पञ्चर्चेन पाशानभिमन्त्र्य द्वेष्यस्य पदं वृश्चति विधानेन ।ऽसमिद्धो अग्निःऽ इति सूक्तेन पञ्चर्चेन शङ्कुसहितान् पाशान् पदेऽवच्छिनत्ति । तान् सन्नह्य भ्रष्टेऽभ्यस्यति ।ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन शङ्कुसहिताञ्छत्रुषु पाशान् बद्ध्वाभिमन्त्र्य वृश्चति पदेपदे ।ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति । अष्टौ सूक्तावृत्तिः ।ऽअजैष्मऽ इति सूक्तचतुष्टयेनऽअगन्म स्वःऽ (१६.९.३४) इत्यवसानद्वयवर्जितेन शत्रुषु पाशान् बद्ध्वाभिमन्त्र्यारण्ये निदधाति ।ऽअजैष्मऽ इति सूक्तचतुष्टयेनोत्तमावसानद्वयवर्जितेन पाशानभिमन्त्र्य पदे पदे वृश्चति ।ऽअजैष्मऽ इति सूक्तचतुष्टयेनऽअगन्म स्वःऽ इति वर्जितेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥

[अशिशिषोः क्षीरौदनादीनि त्रीणि ॥ कौशिकसूत्र ६,३{४९}.२२ ॥]
ऽसमिद्धो अग्निः समिधानःऽ इति पञ्चर्चेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । अभ्यातानान्तं कृत्वाऽसमिद्धो अग्निःऽ इति पञ्चर्चेन वृषभं सम्पात्यातिसृजति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन रक्तशालिक्षीरौदनं सम्पात्याभिमन्त्र्य द्वेष्याय ददाति ।ऽय इमे द्यावापृथिवीऽ इत्यनुवाकेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । तन्त्रं कृत्वाऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन वृषभं सम्पातवन्तं कृत्वा शत्रुमभिमुखं विसृजति । उत्तरतन्त्रम् ।ऽअजैष्मऽ इति चतुर्भिः पर्यायैःऽअगन्म स्वःऽ इत्यवसानद्वयवर्ज्यं रक्तशालिक्षीरौदनमभिमन्त्र्य ददाति । तन्त्रे ।ऽअजैष्मऽ इति पूर्वम् । आमपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति ।ऽअजैष्मऽ इति पूर्वं वृषभं सम्पातवन्तं कृत्वा शत्रुगृहानभिमृशति । वृषोत्सर्गवत् ॥

[गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानभ्यतिनिनयति ॥ कौशिकसूत्र ६,३{४९}.२३ ॥]
प्रथमे दिवसेऽभ्यातानान्तं कृत्वा शत्रुप्रतिकृतिं च मृन्मयां कृत्वा वेदिमध्य ऊर्ध्वं स्थाणौ निबध्यऽसमिद्धो अग्निःऽ इति पञ्चर्चेन मूर्ध्नि सम्पातानानयति । घृतेन पाचयति प्रदिदिनम् । एकतन्त्रं यावत् । अभ्यातानाद्युत्तरतन्त्रम् । आभिचारिकं तन्त्रं कृत्वाऽय इमे द्यावापृथिवीऽ इत्यनुवाकेन शत्रुप्रतिकृतिं मृन्मयां पश्चादग्नेः स्थाणौ बद्ध्वा तस्य मूर्ध्नि सम्पातानानयति । प्रतिदिनं सूक्तावृत्तिः । द्वादशमे दिवसेऽभ्यातानाद्युत्तरतन्त्रम् । अभिचारं तन्त्रं कृत्वाऽअजैष्मऽ इति चतुर्भिः सूक्तैर्गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानानयति । अभ्यातानानि हुत्वा । ततः स्विष्टकृदाद्युत्तरतन्त्रम् ॥

[षष्ठ्योदवज्रान् प्रहरति ॥ कौशिकसूत्र ६,३{४९}.२४ ॥]
ऽयस्मिन् षडुर्वीः पञ्चऽ (१३.३.६) इत्युदवज्रान् प्रहरति । उक्तेन विधानेन ॥

[सप्तम्याचामति ॥ कौशिकसूत्र ६,३{४९}.२५ ॥]
ऽयो अन्नादोऽन्नपतिःऽ (१३.३.७) इत्यृचोदकमभिमन्त्र्य द्वेष्यं मनसा चाध्यायन् स चाचामति । स्वयं कर्ता । द्वेष्यस्य मरणं भवति ॥

[यश्च गाम् (१३.१.५६) इत्यन्वाह ॥ कौशिकसूत्र ६,३{४९}.२६ ॥]
ऽयश्च गां पदा स्फुरतिऽ इत्यर्धर्चेन द्वेष्यं दृष्ट्वान्वाह जपति । उत्तरतन्त्रम् । आभिचारिके तन्त्रे विशेषः । पार्वणौ समृद्धिः सन्नतिरेते होमा न भवन्ति । अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रं भवति ।ऽनिरमुं नुदऽ इति संस्थितहोमः ।ऽविष्णोः क्रमोऽसिऽ इति विष्णुक्रमान् । द्वादश भवन्ति । जाङ्मायने सम्पाता न भवन्ति । शेषं समानम् । अभ्यातानान्तं कृत्वाऽइदावत्सरायऽ इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात्(Kऔश्ष्४२.१५१६) । व्रतसमापनीरष्टौ समिध आदध्यात् । अभ्यातानादि शान्तमुत्तरतन्त्रम् ॥

[निर्दुर्मण्यः (१६.२) इति सन्धाव्याभिमृशति ॥ कौशिकसूत्र ६,३{४९}.२७ ॥]
अवभृथं स्नात्वाऽनिर्दुर्मण्यःऽ इति सूक्तेन सर्वौषधिरात्मानमभिमृशति । स्पृशतीत्यर्थः । अभिचारं कृत्वा कर्तेमां शान्तिं करोति । मरणं बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तताभावो वा भवति । अभिचारपद्धतिः समाप्ता ॥

भद्रमतेन भाष्यकार तथा दारिलमतेन च.
एभिस्त्रिभिर्भाष्यकारैः कौशिकीयो विचारितः ॥
तस्य तस्यैते पदार्था भवन्ति । मरणं वा बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तता वा दैवोपहतिर्वा पुत्रधनादिविनाशो भवति । तत्र श्लोकाः
मरणं व्यसनं चैव बन्धनं च विशेषतः.
प्रणिपातोन्मत्तता वा दैवोपहतिरेव च ॥
पुत्रादिधननाशश्च गृहे दोषान् बहूनपि.
अभिचरति पुरुष एतानि तु विनिर्दिशेत्.
त्रयाणां भाष्यकाराणां मतं जग्राह कौशिकी ॥
उपाध्यायकवीश्वरेण नामतोऽभिचारः कृतः तुरुष्कमहुमदस्योपरि कारितः ॥
पृथिव्यां दुष्ट उत्पन्नः सर्वदा च विनाशयेत्.
अधर्मसम्भवो दुष्टः प्रजाहिंसनतत्परः ॥
तुरुष्कनाम्ना पापिष्ठा देवब्राह्मणहिंसकाः.
पृथिव्यां श्रीभोजदेवो धर्मसंरक्षणाय च ॥
देशे मालवक उत्पन्नः श्रीराजगृहेषु च.
श्रीभोजदेवो जगद्विख्यातो राज्ञां सर्वेषां च मूर्धनि ॥
न च तुल्यो जगत्पतिर्न भूतो न भविष्यति.
अथर्ववेदविहितानामनुष्ठाता सवकर्मणाम्.
प्रतिबोद्धारशास्त्राणां स्वयं राज्यस्य चिन्तकः.
देवब्राह्मणभक्तश्च गुरुशुश्रूषणे रतः ॥
अथर्ववेदविहिता महाशान्तिरनेकशः.
कारापिता यथोक्तास्तेन यथाविहितदक्षिणाः ॥
ब्रह्मक्षत्रियरक्षणार्था अभिचारा महर्षिणा.
क्रमेण सूत्रिताः षष्ठे संहिताक्रमकारणात् ॥
इति षष्ठे तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४९ ॥




इति कौशिकपद्धतौ षष्ठोऽध्यायः समाप्तः ॥

____________________________________________________________________________