← अध्यायः ०६ कौशिकपद्धतिः
अध्यायः ०७
केशवः
अध्यायः ०८ →

अथ सप्तमोऽध्यायः
[स्वस्त्ययनकर्माणि]

स्वस्त्ययनकर्मणां विधिं वक्ष्यामः
[स्वस्तिदाः (१.२१) ये ते पन्थानः (७.५५) इत्यध्वानं दक्षिणेन प्रक्रामति ॥ कौशिकसूत्र ७,१{५०}.१ ॥]
यदा ग्रामे गच्छति तदाचमनं कृत्वाऽस्वस्तिदाःऽ इति सूक्तं जपित्वा दक्षिणेन पादेन प्रक्रामत्यध्वानम् ।ऽये ते पन्थानोऽव दिवःऽ इत्यृचं जपित्वाध्वानं दक्षिणेन पादेन प्रक्रामति । ततो ग्रामं गच्छति । स्वस्त्ययनं भवति ॥

[व्युदस्यत्यसङ्ख्याताः शर्कराः ॥ कौशिकसूत्र ७,१{५०}.२ ॥]
ऽस्वस्तिदाःऽ इति सूक्तेन शर्करा अभिमन्त्र्य गृहे क्षेत्रेऽन्यत्र वा प्रक्षिपति । स्वस्त्यर्थी । इदं कर्म । सर्वार्थकामः ।ऽये ते पन्थानःऽ इत्येकर्चेन सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य गृहादिषु प्रक्षिपति । इदं कर्म सर्वार्थस्वस्त्ययनकामः । यत्र क्षिपति तत्राविनाशो भवति । द्विपदचतुष्पदादीनां स्वस्त्ययनं भवतीत्यर्थः ॥

[तृणानि छित्त्वोपतिष्ठते ॥ कौशिकसूत्र ७,१{५०}.३ ॥]
ऽस्वस्तिदाःऽ इति सूक्तेन दर्भादीनि तृणान्यभिमन्त्र्य गृहे वा क्षेत्रे वा प्रक्षिपति स्वस्त्ययनकामः ।ऽये ते पन्थानोऽव दिवःऽ इत्यृचा तृणान्यभिमन्त्र्य प्रक्षिपति । गृहे पथि वा स्वस्त्ययनकामः ।ऽस्वस्तिदाःऽ इति सूक्तेन इन्द्रमुपतिष्ठते स्वस्त्ययनकामः ।ऽये ते पन्थानोऽव दिवःऽ इत्यृचेन्द्रमुपतिष्ठते स्वस्त्ययनकामः ॥

[आरे (१.२६) अमूः पारे (१.२७) पातं नः (६.३) य एनं परिषीदन्ति (६.७६) यदायुधं दण्डेन व्याख्यातम् ॥ कौशिकसूत्र ७,१{५०}.४ ॥]
अभ्यातानान्तं कृत्वाऽआरेऽसौऽ इति सूक्तेन शस्त्रं सम्पात्याभिमन्त्र्य प्रयच्छत्यभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽअमूः पारेऽ इति सूक्तेन खड्गादिशस्त्रं सम्पात्य हस्तेन विमृज्याभिमन्त्र्य धारयति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वाऽपातं नःऽ इति सूक्तेन छुरिकादिशस्त्रं सम्पात्य विमृज्याभिमन्त्र्य राज्ञे प्रयच्छति । सुखं भवतीत्यर्थः । तन्त्रं कृत्वाऽय एनं परिषीदन्तिऽ इति सूक्तेन यस्य यच्छस्त्रं तत्सम्पात्य विमृज्याभिमन्त्र्य युधि वीराय प्रयच्छति । स्वस्त्ययनकामः । उत्तरतन्त्रम् । शस्त्रम् । छुरिका । धनुषम् । कण्ड । खड्गम् । कुन्त । कडनल । वज्र । गदा । परशु । कुठार । भिण्डमाला । त्रासगण्डा । लोहदण्ड । लष्टि । पागानिम् । इत्याद्यायुधम् ॥

[दिष्ट्या मुखं विमाय संविशति ॥ कौशिकसूत्र ७,१{५०}.५ ॥]
ऽआरेऽसौऽ इति सूक्तं जपित्वा दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः । मध्यमाङ्गुल्यङ्गुष्ठाभ्यां प्रादेशिन्यङ्गुष्ठाभ्यां प्रादेशी दिष्टिरित्युच्यते ।ऽअमूः पारेऽ इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति रात्रौ स्वस्त्ययनकामः ।ऽपातं नःऽ इति सूक्तेन दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः ।ऽय एनं परिषीदन्तिऽ इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति । स्वस्त्ययनकामः ॥

[त्रीणि पदानि प्रमायोत्तिष्ठति ॥ कौशिकसूत्र ७,१{५०}.६ ॥]
ऽआरेऽसौऽ इति सूक्तेन यदोत्तिष्ठति तदा सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति स्वस्त्ययनकामः । प्रभाते निद्रां त्यक्त्वाऽअमूः पारेऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति प्रातर्ग्रामे वा । यदा प्रयोजनार्थं गच्छति तदाऽपातं नःऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । गच्छतां स्वस्तिर्भवति । यो मन्त्रं पठति स स्वयं करोति । अन्यकर्तृके दक्षिणादानं सर्वत्र । निद्रां त्यक्त्वाऽय एनं परिषीदन्तिऽ इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । स्वस्त्ययनकामः ॥

[तिस्रो दिष्टीः ॥ कौशिकसूत्र ७,१{५०}.७ ॥]
सुप्तोत्थायऽआरेऽसौऽ इति सूक्तं जपित्वा भूमौ तिस्रो दिष्टीर्मीत्वा ततो गच्छति । प्रयोजनार्थम् । स्वस्त्ययनकामः । निद्रां त्यक्त्वाऽअमूः पारेऽ इति सूक्तं जपित्वा तिस्रः प्रादेशीर्भूमौ मीत्वोत्थाय गच्छति । स्वस्त्ययनकामः । यदा प्रयोजनार्थं गच्छति तदाऽपातं नःऽ इति सूक्तं जपित्वा तिस्रो दिष्टीः प्रादेशीर्मीत्वा भूमौ ततो गच्छति । स्वस्त्ययनकामः । सुप्त्वोत्थायऽय एनं
परिषीदन्तिऽ इति सूक्तेन तिस्रः प्रादेशीर्भूमौ मीत्वा तत उत्तिष्ठन् गच्छति । प्रयोजनार्थम् । ग्रामे वाऽध्वनि वा । स्वस्त्ययनकामः ॥

अथाध्वाने गच्छतां कर्मोच्यते
[प्रेतं पादौ (१.२७.४) इत्यवशस्य ॥ कौशिकसूत्र ७,१{५०}.८ ॥
पाययति ॥ कौशिकसूत्र ७,१{५०}.९ ॥]
पथि गच्छन्तं सम्बलं सक्त्वादिऽप्रेतं पादौऽ इत्यृचाभिमन्त्र्य ब्राह्मणाय ददाति । स्वस्त्ययनकामः ॥

[उपस्थास्ते (१२.१.६२) इति त्रीण्योप्यातिक्रामति ॥ कौशिकसूत्र ७,१{५०}.१० ॥]
ऽउपस्थास्तेऽ इत्यृचौदनसक्तून् वटकादीनि त्रीणि द्रव्याण्यभिमन्त्र्य भूमौ निक्षिपति । त्रीणि त्रीणि प्रसृतीर्वाञ्जलीर्वा मुष्टीर्वा पथि । ततो गच्छति । स्वस्तिर्भवति । सर्वस्यानेन विधानेन । एतदध्वानकर्म समाप्तम् ॥

अथ सर्वार्थस्वस्त्ययनकर्मोच्यते
[स्वस्ति मात्रे (१.३१.४) इति निश्युपतिष्ठते ॥ कौशिकसूत्र ७,१{५०}.११ ॥]
ऽस्वस्ति मात्रेऽ इत्यृचा निश्युपतिष्ठते स्वस्त्ययनकामः । गृहे वाथवारण्ये वा भये वा समुपस्थिते स्वस्त्ययनं नित्यं वा कुर्वीत ॥

वणिक्कर्मलाभ उच्यते
[इन्द्रमहम् (३.१५) इति पण्यं सम्पातवदुत्थापयति ॥ कौशिकसूत्र ७,१{५०}.१२ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽइन्द्रमहम्ऽ इति सूक्तेन वणिजं वस्त्रं वा पूगीफलं वाश्वान् वा हस्तिनो वा रत्नादि सम्पात्याभिमन्त्र्य तत उत्थापयति ॥

[निमृज्य दिग्युक्ताभ्यां दोषो गाय (६.१) पातं नः (६.३७) इति पञ्च अनडुद्भ्यः (६.५९) यमो मृत्युः (६.९३) विश्वजित्(६.१०७) शकधूमम् (६.१२८) भवाशर्वौ (४.२८) इत्युपदधीत ॥ कौशिकसूत्र ७,१{५०}.१३ ॥]
निमृज्य विक्रययोग्यं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । लाभो भवति स्वस्तिर्भवति । सर्वत्राधिकरणं धेनुर्दक्षिणा । ब्रह्मणे च धेनुः । अभ्यातानान्तं कृत्वाऽयेऽस्याम्ऽ (३.२६)ऽप्राची दिक्ऽ (३.२७) इति सूक्ताभ्यामाज्यं जुहुयात् । तत उत्तरतन्त्रम् ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां पालाशसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यामुदुम्बरसमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां जम्बसमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां काम्पीलसमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां स्रक्समिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां वन्दकसमिध आदधाति शुभकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां शिरीषसमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां स्रक्त्यसमिध तिलकसमिध आदधाति । सर्वत्र धेनुर्दक्षिणा.
ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां वरणसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां बिल्वसमिध आदधाति । स्वस्त्ययनकामोऽनुवर्तते सर्वत्र । हस्तहोमे तन्त्रं वा । कर्मबाहुल्यात्फलबाहुल्यम् ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां जङ्गिडसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां कुटकसमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां गर्ह्यकसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां गलाबलसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां वेतससमिध आदधाति स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां शाल्मलिसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां सिवनिसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां स्यन्दनकसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यामरणिकसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यामश्मन्तकसमिध आदधाति ।ऽयेऽस्याम्ऽ
ऽप्राची दिक्ऽ इति सूक्ताभ्यां तुन्यकसमिध आदधाति । स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां देवदारुसमिध आदधाति । स्वस्त्ययनकामः । पालाशादिवृक्षद्वाविंशतिसमिध आदधाति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्याम् । तत्र सर्वत्रैते समुच्चिता वा विकल्पिता भवन्ति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां पुरोडाशं जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वाऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां दुग्धं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यामुदौदनं जुहोति । आज्यतन्त्रे । तन्त्रं कृत्वाऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां पायसं जुहोति । तन्त्रं समापयेत् । स्वस्त्ययनकामः । पशुतन्त्रं कृत्वाऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां रुद्रदैवत्यान्यवदानानि स्थालीपाकं च जुहोति । पशुतन्त्रोत्तरतन्त्रम् ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां व्रीहीन् जुहोति । स्वस्त्ययनकामः ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां यवाञ्जुहोति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां तिलाञ्जुहोति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां दधिधानाञ्जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वाऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां दधिसक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां शष्कुलीर्जुहोति । तत उत्तरतन्त्रम् । सर्वत्र स्वस्त्ययनकामः.
अभ्यातानान्तं कृत्वाऽदोषो गायऽ इति तृचेन सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः ।ऽदोषो गायऽ इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वाऽदोषो गायऽ इति तृचेन सूक्तेन पुरोडाशं जुहोति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणान्तं समानम् । दुग्धम् । ओदनम् । पायसम् । पशुतन्त्रं कृत्वाऽदोषो गायऽ इति सूक्तेनाथर्वविधानेनाथर्वणं यजते । पश्ववदानानि जुहोति । स्थालीपाकं च । स्वस्त्ययनकामः ।ऽदोषो गायऽ इति सूक्तेन व्रीहीनावपति ।ऽदोषो गायऽ इति सूक्तेन यवानावपति ।ऽदोषो गायऽ इति सूक्तेन तिलानावपति । स्वस्त्ययनकामः ।ऽदोषो गायऽ इति सूक्तेन धानान् जुहोति ।ऽदोषो गायऽ इति सूक्तेन करम्भं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः ।ऽदोषो गायऽ इति सूक्तेन तिलशष्कुलीर्जुहोति । आज्यतन्त्रे । अभ्यातानान्तं कृत्वाऽपातं नःऽ इति पञ्चभिरृग्भिराज्यं जुहोति । तत उत्तरतन्त्रम् । स्वस्त्ययनकामः ।ऽपातं नःऽ इति पञ्चभिरृग्भिः पालाशादयः समिध आदधाति वृक्षाणां द्वाविंशतीनां स्वस्त्ययनकामः ।ऽपातं नःऽ इति पयो जुहोति आज्यतन्त्रे ।ऽपातं नःऽ इति भक्तं जुहोत्याज्यतन्त्रे ।ऽपातं नःऽ इति पायसं जुहोत्याज्यतन्त्रे ।ऽपातं नःऽ इति इन्द्रं पशुना यजेत । वशाविधानेन । स्वस्त्ययनकामः ।ऽपातं नःऽ इति व्रीहीन् जुहोति । तन्त्रविकल्पः ।ऽपातं नःऽ इति यवानावपति । स्वस्त्ययनकामः ।ऽपातं नःऽ इति तिलानावपति ।ऽपातं नःऽ इति धाना जुहोति ।ऽपातं नःऽ इति दधिसक्तून् जुहोत्याज्यतन्त्रे ।ऽपातं नःऽ इति शष्कुलीर्जुहोति । शष्कुल्यः
श्रीआनन्दपुरे प्रसिद्धः.
ऽअनडुद्भ्यःऽ इत्याज्यं जुहोति सूक्तेनाज्यतन्त्रे । स्वस्त्ययनकामः ।ऽअनडुद्भ्यःऽ इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । स्वस्त्ययनकामः । यत्र समिध आदधाति तत्र पालाशादिद्वाविंशतिवृक्षाणां गृहीतव्याः । शान्तिकपौष्टिकेषु च ।ऽअनडुद्भ्यःऽ इति सूक्तेन पुरोडाशं जुहोत्याज्यतन्त्रे ।ऽअनडुद्भ्यःऽ इति सूक्तेन दुग्धं जुहोति ।ऽअनडुद्भ्यःऽ इति सूक्तेन उदौदनं जुहोत्याज्यतन्त्रे ।ऽअनडुद्भ्यःऽ इति तृचेन सूक्तेन क्षीरौदनं जुहोत्याज्यतन्त्रे ।ऽअनडुद्भ्यःऽ इति तृचेन रुद्राय पायसं जुहोति पशुतन्त्रे ।ऽअनडुद्भ्यःऽ इति तृचेन व्रीहीनावपति । स्वस्त्ययनकामः ।ऽअनडुद्भ्यःऽ इति तृचेन यवानावपति । तन्त्रविकल्पः ।ऽअनडुद्भ्यःऽ इति तृचेन तिलानावपति । हस्तहोमे तन्त्रविकल्पः ।ऽअनडुद्भ्यःऽ इति तृचेन धाना जुहोति । स्वस्त्ययनकामः ।ऽअनडुद्भ्यःऽ इति तृचेन दधिसक्तून् जुहोत्याज्यतन्त्रे ।ऽअनडुद्भ्यःऽ इति तृचेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः.
ऽयमो मृत्युःऽ इति सूक्तेनाज्यं जुहोत्याज्यतन्त्रे ।ऽयमो मृत्युःऽ इति सूक्तेन समिध आदधाति पालाशादीनां द्वाविंशतिवृक्षाणां स्वस्त्ययनकामः ।ऽयमो मृत्युःऽ इति तिसृभिः ऋग्भिः पुरोडाशं जुहोत्याज्यतन्त्रे ।ऽयमो मृत्युःऽ इति सूक्तेन पयो जुहोति ।ऽयमो मृत्युःऽ इति सूक्तेन उदौदनं जुहोति तन्त्रे ।ऽयमो मृत्युःऽ इति सूक्तेन पायसं जुहोति तन्त्रे ।ऽयमो मृत्युःऽ इति सूक्तेन विश्वेभ्यो देवेभ्यः पशुं यजेत् । पशुतन्त्रेऽयमो मृत्युःऽ इति सूक्तेन व्रीहीनावपति ।ऽयमो मृत्युःऽ इति सूक्तेन यवानावपति ।ऽयमो मृत्युःऽ इति सूक्तेन तिलानावपति ।ऽयमो मृत्युःऽ इति सूक्तेन धाना जुहोति ।ऽयमो मृत्युःऽ इति सूक्तेन दधिसक्तून् जुहोति ।ऽयमो मृत्युःऽ इति सूक्तेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः.
अभ्यातानान्तं कृत्वाऽविश्वजित्ऽ इति सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः ।ऽविश्वजित्ऽ इति सूक्तेन पालाशादीनां समिध आदधाति । तन्त्रविकल्पः ।ऽविश्वजित्ऽ इति सूक्तेन पुरोडाशं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः ।ऽविश्वजित्ऽ इति सूक्तेन पयो जुहोति । तन्त्रं कृत्वाऽविश्वजित्ऽ इति उदौदनं जुहोति । उत्तरतन्त्रम् ।ऽविश्वजित्ऽ इति सूक्तेन पायसं जुहोति तन्त्रे ।ऽविश्वजित्ऽ इति सूक्तेन विश्वजिते देवतायै पशुना यजेत् । पशुतन्त्रेण ।ऽविश्वजित्ऽ इति सूक्तेन व्रीहीनावपति ।ऽविश्वजित्ऽ इति यवानावपति ।ऽविश्वजित्ऽ इति तिलानावपति ।ऽविश्वजित्ऽ इति धाना आवपति ।ऽविश्वजित्ऽ इति करम्भं जुहोति ।ऽविश्वजित्ऽ इति शष्कुलीर्जुहोति । स्वस्त्ययनकामः.
अभ्यातानान्तं कृत्वाऽशकधूमम्ऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः ।ऽशकधूमम्ऽ इति समिधपुरोडाशादि पूर्ववत्भवति । शकधमदेवतापशुम् । स्वस्त्ययनकामः ।ऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेनाज्यादित्रयोदशद्रव्याणि भवन्ति । आज्यतन्त्रे । अनेन पालाशादीनां समिदाधानम् । स्वस्त्ययनकामः । यत्र शान्तिकहोमस्तत्र सर्वत्र स्वस्त्ययनकामः । यथासम्भवं तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति ।
द्विपदे चतुष्पदे गृहे बहिर्ग्रामे नगरे वा मण्डले वा यत्र क्वचिधोमस्तत्र सर्वत्र शान्तिं करोतीत्यर्थः । महाशान्तिं वा सर्वत्र कारयेद्विकल्पेन । पाकयज्ञविधानेन रुद्रदेवतायै चरुमाज्यभागान्तं कृत्वाऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन सर्वेण तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । समाप्तानि स्वस्त्ययनानि । यत्र यत्र क्वचिद्धोमस्तत्र तत्र स्वस्त्ययनकामः । कुर्याच्छान्तिकपौष्टिके सर्वत्र ॥

अथ जनविधाते स्वस्त्ययनम्
[उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति ॥ कौशिकसूत्र ७,१{५०}.१४ ॥]
रुद्रदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वाऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन सारूपवत्सस्य चरुं त्रिर्विभज्य ततः तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुद्रभूतप्रेतराक्षसलोकपालदेवग्रहमहादेवगणाद्युपहताभिघाते स्वस्त्ययनम् । समाप्तं महादेवाभिघाते स्वस्त्ययनम् ॥

अथ शीघ्रेण पुण्यमङ्गलकर्मकरणे स्वस्त्ययनमुच्यते
[उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधाय शकधूमं किमद्याहः इति पृच्छति ॥ कौशिकसूत्र ७,१{५०}.१५ ॥
भद्रं सुमङ्गलमिति प्रतिपद्यते ॥ कौशिकसूत्र ७,१{५०}.१६ ॥]
ऽशकधूमम्ऽ इति चतुरृचेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधायाग्रे भूत्वाभिमन्त्र्य ततः शकधूमंऽकिमद्याहःऽ इति पृच्छति । स चऽशोभनमद्याहःऽऽमङ्गलमद्याहःऽ इति ब्राह्मणो वदति । यदा कर्ता कर्म कुर्याच्चतुर्दश्यां चतुर्थ्यां नवम्यां वा शनिदिने व्यतीपाते विष्टावन्यत्रापि निन्दितेऽहनि ततश्चन्दनम् । अन्नप्राशनचूडाकर्मनामकरणगृहप्रवेशवस्त्रायलङ्कारधारणम् । राजदर्शनाश्वहस्त्यादियानरथारोहणं पुण्यकर्मे नित्यनैमित्तिककाम्यादीनि कर्माणि । यदा शीघ्रे प्रयोजने कार्यं कर्तुमिच्छतीदं कर्म कृत्वा ततः शान्तिकपुण्यकर्म करोति । समाप्ता शीघ्रकर्मकरणे शान्तिः ॥

अथ सर्पादिस्वस्त्ययनमुच्यते
[युक्तयोः मा नो देवाः (६.५६) यस्ते सर्पः (१२.१.४६) इति शयनशालोर्वराः परिलिखति ॥ कौशिकसूत्र ७,१{५०}.१७ ॥]
सर्पवृश्चिकद्विदंशकमशकभ्रमरभूमिकीटककृमय एतेषां भयं न भवति ।ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां सिकतामभिमन्त्र्य शयनं परिकिरति ।ऽयेऽस्यां स्थऽ इति सूक्तेन सिकतामभिमन्त्र्य शालां परितः किरति ।ऽयेऽस्यां स्थऽ इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति ।ऽप्राची दिक्ऽ इति सूक्तेन शालां परिकिरति ।ऽप्राची दिक्ऽ इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति । स्वस्त्ययनकामः ।ऽमा नो देवाःऽ इति सूक्तेन शर्करामभिमन्त्र्य शयनं शालां वा क्षेत्रे वा परिकिरति । स्वस्त्ययनकामः ।ऽभवाशर्वो मृडतम्ऽ (११.२) इति सूक्तेन शर्करामभिमन्त्र्य गृहे क्षेत्रे वा प्रकिरति स्वस्त्ययनकामः ।ऽयस्ते सर्पो वृश्चिकःऽ इत्यृचा शर्करामभिमन्त्र्य शयने वा शालायां वोर्वरायां वा गृहे वा वने वा ग्रामे वा पत्तने वा तत्र परिकिरति । सर्पादिस्वस्त्ययनं भवति । शान्तिः । निर्भयो भवतीत्यर्थः ॥

[तृणानि युगतर्द्मना सम्पातवन्ति द्वारे प्रचृतति ॥ कौशिकसूत्र ७,१{५०}.१८ ॥]
अभ्यातानान्तं कृत्वाऽयेऽस्यां स्थ प्राच्याम्ऽ इति सूक्तेन तृणमालां सम्पात्याभिमन्त्र्य द्वारे बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । महानवम्यां दीपोत्सवे च शिष्टाचारः । अभ्यातानान्तं कृत्वाऽप्राची दिक्ऽ इति सूक्तेन तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य द्वारे प्रचृतति । तत अभ्यातानाद्युत्तरतन्त्रम् । महानवम्यामिदं जयकर्म । अभ्यातानान्तं कृत्वाऽयस्ते सर्पःऽ इत्यृचा तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य अभ्यातानान्तं कृत्वाऽनमो देववधेभ्यःऽ (६.१३) इति तृचेन सूक्तेन तृणानि युगछिद्रेण सम्पात्य द्वारे बध्नाति । तत उत्तरतन्त्रम् । पथि वा गृहद्वारे वा पत्तनद्वारे वा प्रचृतति । अभ्यातानाद्युत्तरतन्त्रम् । अहिभये वृश्चिकभये मशकभये भ्रमरसङ्घे कृमिभये इदं कर्म ॥

[ऊबध्यं सम्भिनत्ति ॥ कौशिकसूत्र ७,१{५०}.१९ ॥]
ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां गोमयमभिमन्त्र्य गृहे विसृजति ।ऽमा नो देवाःऽ इति सूक्तेन गोमयमभिमन्त्र्य द्वारे विसृजति ।ऽयस्ते सर्पःऽ इत्यृचा गोमयमभिमन्त्र्य द्वारे सम्भिनत्ति ॥

[निखनति ॥ कौशिकसूत्र ७,१{५०}.२० ॥]
ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां गोमयमभिमन्त्र्य द्वारे निखनति ।ऽमा नो देवाःऽ इति सूक्तेन शुष्कगोमयमभिमन्त्र्य गृहे निखनति ।ऽयस्ते सर्पःऽ इत्यृचा गोमयमभिमन्त्र्य गृहे निखनति ॥

[आदधाति ॥ कौशिकसूत्र ७,१{५०}.२१ ॥]
ऽयेऽस्याम्ऽऽप्राची दिक्ऽ इति सूक्ताभ्यां शुष्कगोमयमादधात्यग्नौ ।ऽमा नो देवाःऽ इति सूक्तेन गोमयमग्नौ जुहोति ।ऽयस्ते सर्पःऽ इत्यृचा गोमयमग्नौ जुहोति । गृहे क्षेत्रे ग्रामे नगरे वा स्वस्त्ययनकामः ॥

[अपामार्गप्रसूनान् कुद्रीचीशफान् पराचीनमूलान् ॥ कौशिकसूत्र ७,१{५०}.२२ ॥]
ऽयेऽस्याम्ऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे सम्भिनत्ति ।ऽयेऽस्यां स्थऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे निखनति ।ऽयेऽस्यां स्थऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्याग्नौ जुहोति ।ऽप्राची दिक्ऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य गृहे स्तृणाति ।ऽप्राची दिक्ऽ इति सूक्तेनापामार्गप्रसूनमभिमन्त्र्य द्वारे निखनति ।ऽप्राची दिक्ऽ इति सूक्तेनापामार्गमञ्जरीं जुहोति ।ऽमा नो देवाःऽ इति सूक्तेनापामार्गमभिमन्त्र्य गृहे स्तृणाति ।ऽमा नो देवाःऽ इति सूक्तेनापामार्गमभिमन्त्र्य भूमौ निखनति स्वस्त्ययनकामः ।ऽमा नो देवाःऽ इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य अग्नौ जुहोति ।ऽयस्ते सर्पःऽ इति अपामार्गमञ्जरीमभिमन्त्र्य सम्भिनत्ति ।ऽयस्ते सर्पःऽ इति अपामार्गमञ्जरीं निखनति ग्राममध्ये स्वस्त्ययनकामः ।ऽयस्ते सर्पःऽ इत्यृचापामार्गं जुहोति ।ऽयेऽस्यां स्थऽ इति सूक्तेन गुडूचीमभिमन्त्र्य नाना करोति ।ऽयेऽस्याम्ऽ इति सूक्तेन गुडूचीमभिमन्त्र्य निखनति ।ऽयेऽस्याम्ऽ इति सूक्तेन गुडूचीपादानभिमन्त्र्याग्नौ जुहोति ।ऽप्राची दिक्ऽ इति गुडूचीपादानभिमन्त्र्य गृहे स्तृणाति ।ऽप्राची दिक्ऽ इति गुडूचीपादा ये अधोमुखास्तानभिमन्त्र्य निखनति ।ऽप्राची दिक्ऽ इति गुडूचीमग्नौ जुहोति ।ऽमा नो देवाःऽ इति गुडूचीमभिमन्त्र्य ग्रामे स्तृणाति । स्वस्त्ययनकामः ।ऽमा नो देवाःऽ इति गुडूचीमभिमन्त्र्य निखनति ।ऽमा नो देवाःऽ इति गुडूचीमग्नौ जुहोति ।ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमभिमन्त्र्य स्तृणाति ।ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमभिमन्त्र्य निखनति ।ऽयस्ते सर्पःऽ इत्यृचा गुडूचीमग्नौ जुहोति । मशककीटकसर्पवृश्चिकादिस्वस्त्ययनानि भवन्ति । समाप्तानि मशकादीनां स्वस्त्ययनानि ॥ सप्तमे प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५० ॥


________________________________


अथ व्याघ्रचौरवृकचरकसिंहारण्यकादीनां भये स्वस्त्ययनान्युच्यन्ते
[उदितः (४.३) इति खादिरं शङ्कुं सम्पातवन्तमुद्गृह्णन्निखनन् गा अनुव्रजति ॥ कौशिकसूत्र ७,२{५१}.१ ॥]
अभ्यातानान्तं कृत्वाऽउदितस्त्रयो अक्रमन्ऽ इति सूक्तेन खदिरकीलकं सम्पात्य तत उत्तरतन्त्रं कृत्वा कीलकं निखनन्नुत्पाटयन् गृहादरण्यं गां पृष्ठतो गच्छति । व्याघ्रादिस्वस्त्ययनकामः ॥

[निनयनं समुह्य चारे सारूपवत्सस्येन्द्राय त्रिर्जुहोति ॥ कौशिकसूत्र ७,२{५१}.२ ॥]
ऽउदितःऽ इति सूक्तेनोदकघटमभिमन्त्र्य गोप्रचारे निनयति । ततः पांशुकूटं तत्र कृत्वार्द्धं दक्षिणेन हस्तेन विक्षिपति । इन्द्राय पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽउदितःऽ इति सूक्तेन सप्तर्चेन द्वाभ्यां द्वे आहुती तिसृभिरृग्भिस्तृतीया । पार्वणाद्युत्तरतन्त्रम् ॥

[दिश्यान् बलीन् हरति ॥ कौशिकसूत्र ७,२{५१}.३ ॥]
सारूपवत्सेन दुग्धे चरुश्रपणं हविरुच्छिष्टेन बलिहरणं कुर्यात् ॥

[प्रतिदिशमुपतिष्ठते ॥ कौशिकसूत्र ७,२{५१}.४ ॥
मध्ये पञ्चममनिर्दिष्टम् ॥ कौशिकसूत्र ७,२{५१}.५ ॥]
ऽयेऽस्यां स्थऽ इति सूक्तेन प्रत्यृचमुपतिष्ठते । मध्ये पञ्च बलिहरणम् । प्राची । दक्षिणा । प्रतीची । उदीची । एवं मध्यं च । प्राची । दक्षिणा । प्रतीची । उदीची । एवं चोपस्थानानि ॥

[शेषं निनयति ॥ कौशिकसूत्र ७,२{५१}.६ ॥]
अनिर्दिष्टं शेषं हविर्भूमौ निनयतीति पञ्चमम् ॥

[ब्रह्म जज्ञानम् (५.६) भवाशर्वौ (४.२८) इत्यासन्नमरण्ये पर्वतं यजते ॥ कौशिकसूत्र ७,२{५१}.७ ॥]
पर्वतदेवताया अरण्ये पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽ (५.६.१२) इति सूक्तेन जुहोति ।ऽहिमवते जुष्टं निर्वपामि । हिमवते त्वा जुष्टं प्रोक्षामि । हिमवन्तं गच्छतु हविः स्वाहाऽ इति । निकटपर्वतं यजते । पार्वणाद्युत्तरतन्त्रम् ॥

[अन्यस्मिन् भवशर्वपशुपत्युग्ररुद्रमहादेवेशानानां पृथगाहुतीः ॥ कौशिकसूत्र ७,२{५१}.८ ॥]
पर्वतदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वाऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञतन्त्रं कृत्वाऽभवाय जुष्टं निर्वपामिऽ इत्यादि । भव । शर्व । पशुपति । उग्र । रुद्र । महादेव । ईशान । एताः सप्त देवताः । देवतानिर्वापं कृत्वैकस्मिन् भाण्डके श्रपणम् ।ऽब्रह्म जज्ञानम्ऽ इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवाशर्वादिभ्यो देवताभ्यो निर्वापं कृत्वा बृहद्भाण्डके श्रपणम् । आज्यभागान्तं कृत्वाऽभर्वाशर्वौ मृडतम्ऽ इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवम् । शर्वम् । पशुपतिम् । उग्रम् । रुद्रम् । महादेवम् । ईशानं यजते । एते सप्त पर्वतदेवताः । व्याघ्रचौरवृश्चिकहस्त्यारण्यकमहिषारण्यकगोइत्यादिभये स्वस्त्ययनम् ॥

गोष्ठकर्मोच्यते
[गोष्ठे च द्वितीयमश्नाति ॥ कौशिकसूत्र ७,२{५१}.९ ॥]
गोशान्तिः । पाकयज्ञतन्त्रं कृत्वेन्द्रदेवतायैऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽ (५.६.१३) इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भवाशर्वादिभ्यो निर्वापं कृत्वैकस्मिन् भाण्डे श्रपणं कृत्वा ततो ब्रह्मजज्ञानेन जुहोति । सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । पर्वतदेवतायै पाकयज्ञविधानमाज्यभागान्तं कृत्वाऽभवाशर्वौ मृडतम्ऽ इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भवशर्वपशुपतिउग्ररुद्रमहादेवईशानान्तं निर्वापं कृत्वैकस्मिन् भाण्डके श्रपणं कृत्वाऽभवाशर्वौऽ इति सूक्तेन जुहोति । प्रतिदेवतं सूक्तावृत्तिः । तत उत्तरतन्त्रम् । रुद्रदेवस्य चरोर्हविरुच्छिष्टं यजमानोऽश्नाति । यद्धि कर्मणि तत्र सर्वत्र ॥

[दर्भानाधाय धूपयति ॥ कौशिकसूत्र ७,२{५१}.१० ॥ भूत्यै वः पुष्ट्यै वः इति ।]
अग्नौ दर्भानाधाय यजमानो धूमं नियच्छति ।ऽभूत्यै वः पुष्ट्यै वःऽ इति मन्त्रेण । द्वितीयचरोर्हविरुच्छिष्टभक्षणं धूमपानं च । इति गोष्ठकर्माणि समाप्तानि । इति गोशान्तिः । इन्द्रयागो भवादियागश्चैकं कर्म द्वितन्त्रम् ॥

प्रथमप्रसवे गवां शान्तिरुच्यते
[प्रथमजयोर्मिथुनयोर्मुखमनक्ति ॥ कौशिकसूत्र ७,२{५१}.११ ॥]
ऽब्रह्म जज्ञानम्ऽ सहस्रधारेण घृतमभिमन्त्र्य वत्सवात्सिकामुखमनक्ति । एवंऽभवाशर्वौ मृडतम्ऽ इत्यर्थसूक्तेन घृतमभिमन्त्र्य वत्सस्य वत्सिकाया वा मुखं म्रक्षति । स्वस्त्ययनकामः । गोष्ठे प्रथमप्रसव एतत्कर्म ॥

[तिस्रो नलदशाखा वत्सान् पाययति ॥ कौशिकसूत्र ७,२{५१}.१२ ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तेन तिस्रो नलदशाखाः पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः ।ऽभावाशर्वौऽ इत्यर्थसूक्तेन तिस्रो नलदशाखा उदकेन पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः ॥

[शाखयोदकधारया गाः परिक्रामति ॥ कौशिकसूत्र ७,२{५१}.१३ ॥]
गवां प्रथमप्रसवेऽब्रह्म जज्ञानम्ऽ इति महत्काण्डिकेन सूक्तेन शाखामुदकमभिमन्त्र्य गोभ्यो बहिरुदकधारां निनयति । स्वस्त्ययनकामः । नलदो मासिका नलो वा ।ऽभवाशर्वौऽ इत्यर्थसूक्तेन शाखामुदकमभिमन्त्र्य तत उदकधारां गोर्बहिर्निनयति । शाखया सहाव्यवच्छिन्ना धारा । समाप्ता गोभ्यः प्रथमप्रसवे शान्तिः ॥

अथ पत्तनग्रामस्य गृहस्य शान्तिरुच्यते
[अश्मवर्म मे (५.१०) इति षडश्मनः सम्पातवतः स्रक्तिषु पर्यधस्तान्निखनति ॥ कौशिकसूत्र ७,२{५१}.१४ ॥]
अभ्यातानान्तं कृत्वाऽअश्मवर्म मेऽ इति षडर्चेन सूक्तेन सप्तम्यृचा सर्वासां द्वितीया कर्तव्या ।ऽये दिशामन्तर्देशेभ्यःऽ इति षट्सु ऋक्षु द्वितीया । षट्सम्पाताः । षडश्मनः सम्पातवतोऽभिमन्त्र्य ततो गृहकोणेषु निखनति चतुरः । एकं गृहमध्य एकं गृहोपरि निदधाति । उत्तरतन्त्रम् । गृहग्रामनगरपत्तनानां सर्वत्र स्वस्त्ययनं समाप्तम् ॥

अथान्नस्वस्त्ययनमुच्यते
[अलसाला (६.१६.४) इत्यालभेषजम् ॥ कौशिकसूत्र ७,२{५१}.१५ ॥
त्रीणि सिलाञ्जालाग्राण्युर्वरामध्ये निखनति ॥ कौशिकसूत्र ७,२{५१}.१६ ॥]
ऽअलसालाऽ इत्यृचा तिस्रः सस्यवल्लीरभिमन्त्र्य क्षेत्रमध्ये निखनति । अन्नव्याधिरक्षास्वस्त्ययनं समाप्तम् ॥

अथ मूषकपतङ्गशलभहरिणरोरुशल्यादीनि सस्यविनाशकानि तेषां शान्तिरुच्यते
[हतं तर्दम् (६.५०) इत्ययसा सीसं कर्षन्नुर्वरां परिक्रामति ॥ कौशिकसूत्र ७,२{५१}.१७ ॥]
ऽहतं तर्दम्ऽ इति सूक्तेन सीसं लोहमुद्घर्षन् सूक्तं जपित्वाभिप्रक्रामति । मूषकादिस्थाने ॥

[अश्मनोऽवकिरति ॥ कौशिकसूत्र ७,२{५१}.१८ ॥]
ऽहतं तर्दम्ऽ इति सूक्तेन शर्करानभिमन्त्र्य यत्र मूषकादीनि तत्र परिकिरति ॥

[तर्दमवशिरसं वदनात्केशेन समुह्योर्वरामध्ये निखनति ॥ कौशिकसूत्र ७,२{५१}.१९ ॥]
मूषकादिमुखं केशेन बन्धयित्वाऽहतं तर्दम्ऽ इति सूक्तेनाभिमन्त्र्य क्षेत्रमध्ये निखनति ॥

[उक्तं चारे ॥ कौशिकसूत्र ७,२{५१}.२० ॥]
अश्विनदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वाऽहतं तर्दम्ऽ इति सूक्तेन सारूपवत्सं चरुं जुहोति । तत उत्तरतन्त्रम् ।ऽअश्विभ्यां जुष्टं निर्वपामि । अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अश्विनौ गच्छतु हविः स्वाहाऽ इति.

[बलीन् हरत्याशाया आशापतयेऽश्विभ्यां क्षेत्रपतये ॥ कौशिकसूत्र ७,२{५१}.२१ ॥]
हविःशेषेण बलिहरणं करोति प्रतिदिशम्ऽआशायै बलिं हरामि वषट्ऽ ।ऽआशापतयेऽ ।ऽअश्विभ्याम्ऽ ।ऽक्षेत्रपतयेऽ ॥

[यदैतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयात् ॥ कौशिकसूत्र ७,२{५१}.२२ ॥]
तस्मिन्नहनि मौनं कुर्यादस्तमनं यावत् । तस्मिन्नहनि पाकयज्ञविधानं क्रियते । समाप्तं मूषकशलभपतङ्गटिट्टिभकीटककीटिकाहरिणरोरुशल्यकगोधासेधाकृम्यादिभये स्वस्त्ययनम् ॥ सप्तमे द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५१ ॥


________________________________


अथ देशान्तरगमनस्य स्वस्त्ययनमुच्यते
[ये पन्थानः (६.५५) इति परीत्योपदधीत ॥ कौशिकसूत्र ७,३{५२}.१ ॥
प्रयच्छति ॥ कौशिकसूत्र ७,३{५२}.२ ॥]
ऽये पन्थानो बहवो देवयानाःऽ इति तृचेन सूक्तेनाज्यं जुहोति । आज्यतन्त्रे ।ऽये पन्थानःऽ इति समिध आदधाति । पुरोडाशादि योज्यं सर्वत्र ।ऽये पन्थानःऽ इति सूक्तेन तृचेन मन्थमभिमन्त्र्य पथिकाय प्रयच्छति स्वस्त्ययनकामः ।ऽये पन्थानःऽ इति तृचेन भक्तमभिमन्त्र्य प्रयच्छति भोजनार्थम् । समाप्ता ग्रामदूरागमनस्य शान्तिः । अनेन कर्मणा कलहादि दोषो न भवति ॥

पुरुषबन्धने मोचनशान्तिरुच्यते
[यस्यास्ते (६.८४) यत्ते देवीं (६.६३) विषाणा पाशान् (६.१२१) इत्युन्मोचनप्रतिरूपं सम्पातवन्तं करोति ॥ कौशिकसूत्र ७,३{५२}.३ ॥]
अभ्यातानान्तं कृत्वाऽयस्यास्तेऽ इति सूक्तेन चतुरृचेन येन बद्धः तत्सदृशं सम्पातवन्तं कृत्वा सूक्तसदृशं द्वितीयं च सम्पातवन्तं करोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽयत्ते देवी निरृतिःऽ इति तृचेन सूक्तेन बन्धसदृशं निगडयुगलद्वयं च सम्पातवन्तं करोति । नाभिमन्त्रणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽविषाणा पाशान्ऽ इति चतुरृचेन निगडयुगलद्वयं सम्पात्यैकं मुक्तं निगडं चर्ममयं वा लोहमयं वा येन बद्धस्तन्मयं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं बन्धमोचनम् ॥

वाचाबन्धस्य मोचनमुच्यते
[वाचा बद्धाय भूमिपरिलेखम् ॥ कौशिकसूत्र ७,३{५२}.४ ॥]
तन्त्रं कृत्वाऽयस्यास्तेऽ इति सूक्तेन भूमिलेखां सम्पात्य । तत उत्तरतन्त्रम् । समाप्तं वाचाबन्धनम् । स्वस्त्ययनकामः । बद्धो अनेन कर्मणा कृतेन मुच्यते बन्धनात् ॥

अग्निदाघरक्षार्थमुच्यते
[आयने (६.१०६) इति शमनमन्तरा ह्रदं करोति ॥ कौशिकसूत्र ७,३{५२}.५ ॥]
ऽआयने ते परायणेऽ इति सूक्तेनोदकमभिमन्त्र्य गर्ते प्रक्षिपति मध्ये दाघे । अदाघे च कृत्वा उदकपूरणं करोति ॥

[शाले च ॥ कौशिकसूत्र ७,३{५२}.६ ॥]
ऽआयने तेऽ इति सूक्तेन शालामध्ये द्वयोरुदकमभिमन्त्र्य गर्ते प्रक्षिपति । अग्निरक्षा भवति ॥

[अवकया शालां परितनोति ॥ कौशिकसूत्र ७,३{५२}.७ ॥]
ऽआयने तेऽ इति सूक्तेन अवकामभिमन्त्र्य शालामुपरि परितनोति दाघरक्षार्थी । अग्न्युपसर्गे एतत्कर्म ॥

[शप्यमानाय प्रयच्छति ॥ कौशिकसूत्र ७,३{५२}.८ ॥]
ऽआयने तेऽ इति सूक्तेन दिव्यमभिमन्त्र्य शप्यमानाय प्रयच्छति । दिव्ये शुध्यति । तप्तमाषके दिव्ये ॥

[निदग्धं प्रक्षालयति ॥ कौशिकसूत्र ७,३{५२}.९ ॥]
ऽआयने तेऽ इति सूक्तेनोदकमभिमन्त्र्य अङ्गं दग्धं प्रक्षालयति । अङ्गमारोग्यं भवति । अङ्गे अग्निरक्षा । समाप्तानि अग्निदाहरक्षाणि ॥

नावापेटकपटिकादिस्वस्त्ययनार्थोदकतरणरक्षार्थमुच्यते
[महीमू षु (७.६.२४) इति तरणान्यालम्भयति ॥ कौशिकसूत्र ७,३{५२}.१० ॥]
ऽमहीमू षुऽ इति तृचेन सूक्तेन नावाद्यभिमन्त्र्य ततश्चटन्ति । उपविशन्ति । न कदाचिन्मज्जति क्वचित् ॥

[दूरान्नावं सम्पातवतीं नौमणिं बध्नाति ॥ कौशिकसूत्र ७,३{५२}.११ ॥]
उदकरक्षार्थे दूरदेशगमन अभ्यातानान्तं कृत्वाऽमहीमू षुऽ इति तृचेन नावं सम्पात्य ततश्चटन्ति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽमहीमू षुऽ इति तृचेन नौमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तं दूरदेशगमने एतत्कर्म । नाविकेभ्यो बध्नाति । ये नावं चटन्ति तेषां बन्धनम् । समाप्तं नावार्थं स्वस्त्ययनम् ॥

अथ नष्टे द्रव्ये लाभकर्म उच्यते
[प्रपथे (७.९) इति नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन्निमृज्योत्थापयति ॥ कौशिकसूत्र ७,३{५२}.१२ ॥]
नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानांऽप्रपथे पथाम्ऽ इति चतुरृचं जपित्वा दक्षिणं पाणिमुग्मृज्योत्थापयति । नष्टनिरोक्षणार्थे ॥

[एवं सम्पातवतः ॥ कौशिकसूत्र ७,३{५२}.१३ ॥]
अभ्यातानान्तं कृत्वाऽप्रपथे पथाम्ऽ इति चतुरृचेन सूक्तेन नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां ततः पाणी सम्पात्य विमृज्योत्थापयति । तत उत्तरतन्त्रम् ॥

[निमृज्यैकविंशतिं शर्कराश्चतुष्पथेऽवक्षिप्यावकिरति ॥ कौशिकसूत्र ७,३{५२}.१४ ॥]
ऽप्रपथे पथाम्ऽ इति चतुरृचेन सूक्तेन एकविंशतिशर्करानभिमन्त्र्य चतुष्पथे प्रक्षिपति । समाप्तं नष्टलाभकर्म ॥

[नमस्कृत्य (७.१०२.१) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ७,३{५२}.१५ ॥]
ऽनमस्कृत्य द्यावापृथिवीभ्याम्ऽ इत्येकां जपित्वा ऊर्ध्वस्तिष्ठन्नुपतिष्ठते ॥

[अंहोलिङ्गानामापो भोजनहवींष्यभिमर्शनोपस्थानमादित्यस्य ॥ कौशिकसूत्र ७,३{५२}.१६ ॥
स्वयं हविषां भोजनम् ॥ कौशिकसूत्र ७,३{५२}.१७ ॥]
अंहोलिङ्गः ऽय आशानाम्ऽ (१.३१.२) इत्येका ।ऽअग्नेर्मन्वेऽ (४.२३२९) इति सप्त सूक्तानि ।ऽया ओषधयःऽ (६.९६.१) इत्येका ।ऽवैश्वानरो न आगमत्ऽ (६.३५.२) इत्येका ।ऽशुम्भनीऽ (७.११७.१) इत्येका ।ऽयदर्वाचीनम्ऽ (१०.५.२२) इत्येका ।ऽअग्निं ब्रूमःऽ (११.६) इत्यर्थसूक्तम् । सप्तप्रतीक अंहोलिङ्गगणः । एकैकस्य प्रतीकस्य त्रयोदशहविर्भिः होमः प्रत्येतव्यः विकल्पेन.
ऽय आशानाम्ऽ इत्येकयोदकमभिमन्त्र्य पाययति । स्वस्त्ययनकामः ।ऽय आशानाम्ऽ इत्येकया भोजनमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः ।ऽय आशानाम्ऽ इत्येकया हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः । प्रतिदिनं कुर्यादित्यर्थः । हविरुपदधीताज्यादि त्रयोदश ।ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पाययति ।ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैः भक्तमभिमन्त्र्य भक्षयति ।ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैः हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः ।ऽया ओषधयःऽ इत्येकयोदकमभिमन्त्र्य पिबति ।ऽया ओषधयःऽ इति भक्तमभिमन्त्र्य भक्षयति ।ऽया ओषधयःऽ इति हविर्जुहोति । स्वस्त्ययनकामः । आप्लवनावसेचनाचमनादीनि यथासम्भवं कर्तव्यानि । प्रतीकविकल्पः । भोजने ओषधिवधविषः । आज्यसमिधादि । स्वस्त्ययनकामः ।ऽवैश्वानरो न आगमत्ऽ इत्येकयोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः ।ऽशुम्भनी द्यावापृथिवीऽ इत्येकया भक्तमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः ।ऽशुम्भनी द्यावापृथिवीऽ इत्येकयाज्यादिहविर्जुहोति । तन्त्रं वा ।ऽयदर्वाचीनम्ऽ इत्यृचा पानभोजनहविरपि एतत्त्रितयं करोति ।ऽअग्निं ब्रूमःऽ इति सूक्तेनोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः ।ऽअग्निं ब्रूमःऽ इति सूक्तेन भक्तमभिमन्त्र्य भक्षयति ।ऽअग्निं ब्रूमःऽ इति सूक्तेन हविराज्यसमिधादि जुहोति । स्वस्त्ययनकामः । पापसंसर्गे व्याधिसंसर्गे वर्णसंसर्गे अन्यस्मिन् पापे स्वस्त्ययनम् । सर्वस्वस्त्ययनं समाप्तम्.
अंहोलिङ्गेन विकल्पेन एतेन सूक्तेन हृदयमालभ्य जपं कृत्वा उपस्थानमादित्यस्य कुर्यात्तेनैव सूक्तेन । स्वस्त्ययनकामः । अभिमर्शनं पुरुषस्य अन्यस्य वा । हस्त्यश्ववृक्षगृहस्त्रीपुरुषादीनां स्वस्त्ययनं क्रियते । तस्याभिमर्शनमुपस्थानं च । स्वस्त्ययनकामः ।ऽय आशानाम्ऽ इत्येकया हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । भक्ष्यं हविः । पाकतन्त्रे आज्यतन्त्रे च सर्वत्राभिमन्त्रणम् । पाकतन्त्रस्य वा हविरुच्छिष्टम् । आज्यतन्त्रस्य वा हविरुच्छिष्टम्मभिमन्त्र्य ततो भक्षणम् । इदं कर्म स्वयं करोति ।ऽअग्नेर्मन्वेऽ इति सप्तभिः सूक्तैर्हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे । आज्यतन्त्रे नाभिमन्त्रणम् । स्वस्त्ययनकामः ।ऽया ओषधयःऽ इत्येकया हविरभिमन्त्र्य भक्षयति ।ऽवैश्वानरो न आगमत्ऽ इत्येकया हविरभिमन्त्र्य भक्षयति ।ऽशुम्भनी द्यावापृथिवीऽ इत्यृचा हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः ।ऽअग्निं ब्रूमःऽ इत्यर्थसूक्तेन हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे वा । आज्यतन्त्रे वा । अंहोलिङ्गेन प्रतीकेन हविर्हुत्वा ततोऽभिमन्त्रणं करोति । ततो भक्षणं कुर्यात् । इति स्वस्त्ययनं क्रियते । स्वयमभिमन्त्रणं करोति ।ऽस्वयं हविषां भोजनम्ऽ (Kऔश्ष्५२.१७) इति वचनात् । शान्तिकपौष्टिकयोर्यदुच्छिष्टं तस्याभिमन्त्रणम् । शान्तिकपौष्टिके हविरुच्छिष्टे न भक्षणं वा । अंहोलिङ्गेन हविरुच्छिष्टभक्षणं वा नियमे कुर्यात् । यत्र क्वचिच्छान्तिः क्रियते तत्र सर्वत्र स्वस्त्ययनहोमं कुर्यात् । गृहे नगरे वने वा बहिर्वा पत्तने वा ग्रामे पुरे वा सर्वत्र स्वस्त्ययनं कृत्वा सर्वेषु काम्येषु स्वस्त्ययनहोमः । समाप्तानि स्वस्त्ययनानि ॥

[आयुष्यकर्माणि]
आयुष्यकर्मणां विधिं वक्ष्यामः
[विश्वे देवा (१.३०) इत्यायुष्याणि ॥ कौशिकसूत्र ७,३{५२}.१८ ॥
स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति ॥ कौशिकसूत्र ७,३{५२}.१९ ॥]
अभ्यातानान्तं कृत्वाऽविश्वे देवाऽ इति सूक्तेन स्थालीपाकं श्रपयित्वा तत्स्थालीपाके घृतपिण्डत्रयं प्रतिनीय सम्पात्याभिमन्त्र्य घृतेन सह स्थालीपाकमश्नाति । त्रिरिति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[अस्मिन् वसु (१.९) यदाबध्नन् (१.३५) नव प्राणान् (५.२८) इति युग्मकृष्णलमादिष्टानां स्थालीपाक आधाय बध्नाति ॥ कौशिकसूत्र ७,३{५२}.२० ॥
आशयति ॥ कौशिकसूत्र ७,३{५२}.२१ ॥]
ऽअस्मिन् वसुऽ इति सूक्तेन हिरण्यमणिं युग्मकृष्णलं स्थालीपाके स्थापयित्वा सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । आज्यतन्त्रे । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽयदाबध्नन्ऽ इति सूक्तेन हिरण्यमणिं
युग्मकृष्णलं सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन हिरण्यरजतलोहयुग्मकृष्णलमणिं त्रिगुणं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । चतुःसूक्तावृत्तिः । बध्नाति स्थालीपाके स्थापयित्वा स्थालीपाकं चाश्नाति । तत उत्तरतन्त्रम् । केचित्स्थालीपाके सम्पातं न कुर्वन्ति । आयुष्कामः ॥

अथ क्रमेणऽयथा द्यौःऽ (२.१५) इत्यादि गोदानमध्ये पठितम् । प्रथमं व्याख्यायते ।ऽयथा द्यौश्चऽ इति सूक्तेन स्थालीपाकं महाव्रीहिमयं श्रपयित्वा ततः शान्त्युदकेन सम्प्रोक्ष्य ततोऽभिमन्त्र्याश्नाति । आयुष्कामः ।ऽमनसे चेतसे धियःऽ (६.४१) इति सूक्तेन महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन प्रोक्ष्य तमभिमन्त्र्य प्राश्नाति । आयुष्कामः ।ऽप्राणापानौऽऽओजोऽसिऽ (२.१६१७) इति सूक्ताभ्यामाज्यं जुहोति तन्त्रे । आयुष्कामः ।ऽप्राणापानौऽऽओजोऽसिऽ इति सूक्ताभ्यां समिध आदधाति । तन्त्रविकल्पः । पालाशादयः प्रशस्ताः । आयुष्कामः ।ऽप्राणापानौऽऽओजोऽसिऽ इति सूक्ताभ्यां पुरोडाशं जुहोति । तन्त्र आयुष्कामः ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां पायसं जुहोति । तन्त्रे ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां पशुं जुहोति पशुतन्त्रेण । देवतानामग्रहणम् ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां व्रीहीनावपति । आयुष्कामः ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां यवानावपति ।ऽप्राणापानौऽऽओजोऽसिऽ इति सूक्ताभ्यां तिलानावपति । आयुष्कामः ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां धाना जुहोति । सर्वत्र तन्त्रे वा ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति सूक्ताभ्यां करम्भं जुहोति । तन्त्रे ।ऽप्राणापानौऽ,ऽओजोऽसिऽ इति शष्कुलीर्जुहोति । आयुष्कामः ।ऽयथा द्यौःऽ,ऽमनसे चेतसे धियःऽ इत्यादि अक्रमेण व्याख्यातम् ॥ सप्तमे तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५२ ॥


________________________________


[गोदानकर्म]
अथ गोदानम् । संवत्सरे गोदानं यथाकुलधर्मेण वा कुर्यात् । अथ गोदानविधिं वक्ष्यामः
[आयुर्दा (२.१३) इति गोदानं कारयिष्यन् सम्भारान् सम्भरति ॥ कौशिकसूत्र ७,४{५३}.१ ॥
अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड्दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौशिकसूत्र ७,४{५३}.२ ॥
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ कौशिकसूत्र ७,४{५३}.३ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौशिकसूत्र ७,४{५३}.४ ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौशिकसूत्र ७,४{५३}.५ ॥
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति ॥ कौशिकसूत्र ७,४{५३}.६ ॥]
ऽआयुर्दाऽ इति सूक्तेन उक्तसम्भारान् सम्भरति । आज्यतन्त्रं कृत्वा इध्महोमान्तेऽयदग्ने तपसाऽ (७.६१.१२) इति द्वाभ्यामृग्भ्यामग्निं परिसमूहति ।ऽसं मा सिञ्चन्तुऽ (७.३३.१) इत्यृचाग्निं त्रिः पर्युक्षति । गोदाने विशेषः । आज्यभागान्तं कृत्वा ततः शान्त्युदकं करोति ॥

[तत्रैतत्सूक्तमनुयोजयति ॥ कौशिकसूत्र ७,४{५३}.७ ॥]
ऽआयुर्दाऽ इति सूक्तं शान्त्युदक अनुयोजयेत् ॥

[त्रिरेवाग्निं सम्प्रोक्षति त्रिः पर्युक्षति ॥ कौशिकसूत्र ७,४{५३}.८ ॥]
मातल्यन्तेन शान्त्युदकेन त्रिरेवाग्निं सम्प्रोक्षति । त्रिः पर्युक्षति ॥

[त्रिः कारयमाणमाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र ७,४{५३}.९ ॥]
माणवकं त्रिराचामयति च सम्प्रोक्षति च मन्त्रेण । ततोऽभ्यातानानि हुत्वाऽआयुर्दाऽ इति सूक्तेनाज्यं जुह्वन्मूर्धि सम्पातानानयति ॥

[शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयच्छति ॥ कौशिकसूत्र ७,४{५३}.१० ॥
तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ कौशिकसूत्र ७,४{५३}.११ ॥
अथास्मा अन्वारब्धाय करोति ॥ कौशिकसूत्र ७,४{५३}.१२ ॥
आयुर्दा (२.१३) इत्यनेन सूक्तेनाज्यं जुह्वन्मूर्ध्नि सम्पातानानयति ॥ कौशिकसूत्र ७,४{५३}.१३ ॥
दक्षिणे पाणावश्ममण्डल उदपात्र उत्तरसम्पातान् स्थालरूप आनयति ॥ कौशिकसूत्र ७,४{५३}.१४ ॥]
उत्तरसम्पातान् दक्षिणतः सुहृदो हस्ते शकृत्पिण्ड आनयति । ततो दक्षिणाहस्त अश्वमण्डल उदपात्रे च सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति । चतुः सूक्तावृत्तिः ॥

[अमम्रिमोजोमानीं चोदपात्रेऽवधाय ॥ कौशिकसूत्र ७,४{५३}.१५ ॥]
उदपात्रे पूतुदारुं गुडूचीं च प्रक्षिप्य तत उष्णोदकं कृत्वा ततः सम्पातः । शकृत्पिण्डे दूर्वां कृत्वा ततः सम्पातः ॥

[स्थालरूपे दुर्वां शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य ॥ कौशिकसूत्र ७,४{५३}.१६ ॥
आयमगन्सविता क्षुरेण (६.६८) इत्युदपात्रमनुमन्त्रयते ॥ कौशिकसूत्र ७,४{५३}.१७ ॥]
शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्यऽआयमगन् सविता क्षुरेणऽ इति तृचेनोदपात्रमनुमन्त्रयते ॥

[अदितिः श्मश्रु (६.६८.१) इत्युन्दति ॥ कौशिकसूत्र ७,४{५३}.१८ ॥]
ऽअदितिः श्मश्रुऽ इत्यृचा उदपात्रोदकेन शिरसि केशान् क्लेदयेत् ॥

[यत्क्षुरेण (८.२.१) इत्युदक्पत्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि ॥ कौशिकसूत्र ७,४{५३}.१९ ॥]
ऽयत्क्षुरेणऽ इत्यृचा क्षुरं मार्जयति त्रिः । सकृन्मन्त्रः ॥

[येनावपत्(६.६८.३) इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जूल्या केशानभिनिधाय प्रच्छिद्य स्थालरूपे करोति ॥ कौशिकसूत्र ७,४{५३}.२० ॥
एवमेव द्वितीयं करोति ॥ कौशिकसूत्र ७,४{५३}.२१ ॥
एवं तृतीयम् ॥ कौशिकसूत्र ७,४{५३}.२२ ॥]
ऽयेनावपत्ऽ इत्यृचा दर्भपिञ्जूलीं गृहीत्वा दक्षिणपार्श्वे केशछेदनं पिञ्जूल्या सह करोति । ततः स्थालरूपे केशान् करोति ।ऽअदितिः श्मश्रुऽ इति उन्दनम् ।ऽयेनावपत्ऽ इति दर्भपिञ्जूल्या सह केशछेदनम् । पुनः उन्दनम् । छेदनम् । सह पिञ्जूल्या एकस्मिन् पार्श्वे त्रीणि वपनानि करोति ॥

[एवमेवोत्तरस्य केशपक्षस्य करोति ॥ कौशिकसूत्र ७,४{५३}.२३ ॥]
उत्तरेऽपि त्रीणि ॥ सप्तमेऽध्याये चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५३ ॥


________________________________


अत्र ब्राह्मणवाचनम् । वृद्धस्त्रीभिः गीतं च कारापयेत् ॥
[अथ नापितं समादिशति अक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरु इति ॥ कौशिकसूत्र ७,५{५४}.१ ॥]
अथ नापिताय प्रैषं ददाति ।ऽअक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरुऽ इति ॥

[पुनः प्राणः (६.५३.१) पुनर्मैत्विन्द्रियम् (६.६७) इति त्रिर्निमृज्य ॥ कौशिकसूत्र ७,५{५४}.२ ॥
त्वयि महिमानं सादयामि इत्यन्ततो योजयेत् ॥ कौशिकसूत्र ७,५{५४}.३ ॥]
अर्धमुण्डितेऽपुनः प्राणःऽ,ऽपुनर्मैत्विन्द्रियम्ऽ इति द्वाभ्यामृग्भ्यां त्रिर्निमृज्य क्षुरंऽसोमदेवशर्मणि त्वयि महिमानं सादयामिऽ इति क्षुरं मार्जयित्वा नापिताय प्रयच्छति । पुनर्वपनार्थम् ॥

[अथैनमुप्तकेशश्मश्रुं कृत्तनखमाप्लावयति ॥ कौशिकसूत्र ७,५{५४}.४ ॥
हिरण्यवर्णाः (१.३३) इत्येतेन सूक्तेन गन्धप्रवादाभिरलङ्कृत्य ॥ कौशिकसूत्र ७,५{५४}.५ ॥]
ततोऽहिरण्यवर्णाःऽ इति सूक्तेन शान्तिकलशमभिमन्त्र्य तेन कुमारमाप्लावयति ।ऽयस्ते गन्धःऽ (१२.१.२३२५) इति तिसृभिः ऋग्भिः पुष्पं कुङ्कुमं चन्दनाद्यभिमन्त्र्य कुमारमलङ्करोति हिरण्यालङ्कारान् ॥

[स्वाक्तं मे (७.३०.१) इत्यानक्ति ॥ कौशिकसूत्र ७,५{५४}.६ ॥]
ऽस्वाक्तं मेऽ इत्यृचा अञ्जन अभिमन्त्र्याक्षिणी अङ्क्ते ॥

[अथैनमहतेन वसनेन परिधापयति परि धत्त (२.१३.२३) इति द्वाभ्याम् ॥ कौशिकसूत्र ७,५{५४}.७ ॥]
ऽपरि धत्तऽ इति द्वाभ्यां वस्त्रमभिमन्त्र्य प्रयच्छेत् ॥

[एह्यश्मानमा तिष्ठ (२.१३.४) इति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय ॥ कौशिकसूत्र ७,५{५४}.८ ॥]
ऽएह्यश्मानमा तिष्ठऽ इत्यृचा दक्षिणेन पादेनाश्ममण्डलमास्थाप्य वेद्युपरि प्रदक्षिणमग्निमनुपरिणीय ॥

[अथास्य वासो निर्मुष्णाति यस्य ते वासः (२.१३.५) इत्येतया ॥ कौशिकसूत्र ७,५{५४}.९ ॥]
ऽयस्य ते वासःऽ इत्यृचोपरितनं वस्त्रं गृह्णाति कर्ता ॥

[अथैनमपरेणाहतेन वसनेनाच्छादयति अयं वस्ते गर्भं पृथिव्याः (१३.१.१६२०) इति पञ्चभिः ॥ कौशिकसूत्र ७,५{५४}.१० ॥]
ऽअयं वस्ते गर्भं पृथिव्याःऽ इति पञ्चभिरृग्भिः परिधानवस्त्रेणोपपर्याच्छादयति माणवकम् ॥

[यथा द्यौः (२.१५) मनसे चेतसे धियः (६.४१) इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ कौशिकसूत्र ७,५{५४}.११ ॥
प्राणापानौ (२.१६) ओजोऽसि (२.१७) इत्युपदधीत ॥ कौशिकसूत्र ७,५{५४}.१२ ॥]
ऽयथा द्यौश्चऽऽमनसे चेतसे धियःऽ इत्यादि प्रथमतो व्याख्यानं कृत्वा ततो गोदानं प्रारब्धम् । आयुष्यमन्त्रा आयुष्यकर्ममध्ये पठिताः ।ऽप्राणापानौऽऽओजोऽसिऽ इत्येवमन्तं व्याख्यातं प्रथमतः । इह न भवन्ति परप्रकरणपठितत्वात् । प्रकृतमुच्यते ॥

[तुभ्यमेव जरिमन् (२.२८) इति कुमारं मातापितरौ त्रिः सम्प्रयच्छेते ॥ कौशिकसूत्र ७,५{५४}.१३ ॥]
ऽतुभ्यमेव जरिमन्ऽ इति सूक्तेन पुत्रं मातापितरौ त्रिः सम्प्रयच्छेते । पिता मन्त्रं जपित्वा मातुः समर्पयति । पुनर्मन्त्रं जपित्वा माता पितुः समर्पयति । एवं त्रिर्मन्त्रप्रयोगः । पितुर्मन्त्रः ॥

[घृतपिण्डानाशयतः ॥ कौशिकसूत्र ७,५{५४}.१४ ॥]
त्रीन् घृतपिण्डान् कृत्वा प्रत्येकं सम्पात्याभिमन्त्र्य ततः कुमारं प्राशयतः । मातापितरौ ॥

[चूडाकरणम्]
[चूडाकरणं च गोदानेन व्याख्यातम् ॥ कौशिकसूत्र ७,५{५४}.१५ ॥
परिधापनाश्ममण्डलवर्जम् ॥ कौशिकसूत्र ७,५{५४}.१६ ॥
शिवे ते स्ताम् (८.२.१४१५) इति परिदानान्तानि ॥ कौशिकसूत्र ७,५{५४}.१७ ॥
पार्थिवस्य (२.२९.१२) मा प्र गाम (१३.१.५९६०) इति चतस्रः सर्वाण्यपियन्ति ॥ कौशिकसूत्र ७,५{५४}.१८ ॥]
ऽशिवे ते स्ताम्ऽ इति द्वे ।ऽपार्थिवस्यऽ इति द्वे ।ऽमा प्र गामऽ इति द्वे । एताभिरृग्भिः व्रीहियवशमीमभिमन्त्र्य कुमारस्य मूर्ध्नि ददाति ।ऽशिवौ ते स्ताम्ऽ (८.२.१८) इति द्वे ।ऽपार्थिवस्यऽ इति द्वे ।ऽमा प्र गामऽ इति द्वे । एताभिः ऋग्भिः व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि ददाति ।ऽअह्ने च त्वाऽ (८.२.२०) इत्येका ।ऽपार्थिवस्यऽ इति द्वे ।ऽमा प्र गामऽ इति द्वे ।ऽअहोरात्राभ्यां परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति ।ऽशरदे त्वाऽ (८.२.२२) इत्येका ।ऽपार्थिवस्यऽ द्वे ।ऽमा प्र गामऽ इति द्वे ।ऽऋतुभ्यष्ट्वा परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति । अभ्यातानाद्युत्तरतन्त्रम् । गोदानं समाप्तम् ॥

अथ चूडाकरणमुच्यते
[अमम्रिमोजोमानीं च दूर्वां च केशांश्च शकृत्पिण्डं चैकधाभिसमाहृत्य ॥ कौशिकसूत्र ७,५{५४}.१९ ॥
शान्तवृक्षस्योपर्यादधाति ॥ कौशिकसूत्र ७,५{५४}.२० ॥
अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा ॥ कौशिकसूत्र ७,५{५४}.२१ ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौशिकसूत्र ७,५{५४}.२२ ॥]
द्विसंवत्सरे वा गोदानवत्चूडाकरणं कार्यं पूर्वतन्त्रं कृत्वा । चूडाकरणं च गोदानेन व्याख्यातं परिधापनाश्ममण्डलवर्जम् । शेषं गोदानवत्कार्यम् । शान्त्युदकेऽतुभ्यमेवऽ (२.२८) इति सूक्तमनुयोजयेत् । शेषं समानम् । तत उत्तरतन्त्रम् । इति चूडाकरणम्.
तथा च याज्ञवल्क्यःऽचूडा कार्या यथाकुलम्ऽ (यास्मृ १.१२) । पुनरुपनयने गोदानविधानेन वपनं कर्तव्यम् । सवान् दास्यतो गोदानवत्वपनम् । अग्निहोत्रं करिष्यमाणस्य गोदानविधानेन वपनम् । यथा ब्रह्मचर्यपरिमोक्षे गोदानेन वपनम् । सोमयागे गोदानविधानेन वपनम् । दीक्षणीयाप्राकेवं भवति । अन्यत्र यत्र वपनं पठ्यते तत्र सर्वत्र गोदानविधानेन वपनं कुर्यातिति दारिलमतम् । पुनरुपनयनादिष्वेतेषां तदेव शान्त्युदकमुष्णोदकं कृत्वोदपात्रे विशेषः । शेषं गोदानवत्भवति ॥ पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५४ ॥


________________________________


[उपनयनम्]
अथोपनयनमुच्यते
[उपनयनम् ॥ कौशिकसूत्र ७,६{५५}.१ ॥]
गर्भपञ्चमे गर्भाष्टमे वर्षे कुर्यादिति पैठीनसिः । वसन्ते ब्राह्मणमुपनयीतेति च मीमांसायाम् । आज्यतन्त्रे गोदानिकमाज्यभागान्तं कृत्वा ततः शान्त्युदकेऽआ यातु मित्रःऽ (३.८) इति सूक्तमनुयोजयेत् । ततोऽभ्यातानानि । ततःऽआ यातु मित्रःऽ इति ।ऽआयुर्दाऽ (२.१३) इति केचित् । सूक्तेन मूर्ध्नि सम्पातानानयति । दक्षिणे पाणौ । अश्ममण्डलवर्जम् । शान्त्युदकमुष्णोदकं कृत्वा तस्मिन्नुदपात्रे सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति ॥

[आयमगन् (६.६८.१) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ७,६{५५}.२ ॥]
ऽआयमगन् सविता क्षुरेणऽ इति पादेनोदपात्रमनुमन्त्रयते ॥

[यत्क्षुरेण (८.२.१७) इत्युक्तम् ॥ कौशिकसूत्र ७,६{५५}.३ ॥]
ऽयत्क्षुरेणऽ इत्यृचा क्षुरं मार्जयति त्रिः ।ऽउष्णेन वायऽ इति पादेनोदपात्रमनुमन्त्रयते ।ऽआदित्या रुद्रा वसवःऽ इति पादेनऽअदितिः श्मश्रुऽ (६.६८.२) इत्यृचा उन्दनं करोति ॥

[येनावपत्(६.६८.३) इति सकृदपिञ्जूलि ॥ कौशिकसूत्र ७,६{५५}.४ ॥]
ऽसोमस्य राज्ञो वपत प्रचेतसःऽ इति पादेनऽयेनावपद्ऽ इत्यृचा वपनं करोति । सकृत्दक्षिणे पिञ्जूलीवर्जम् । एवमुत्तरे शिरःपार्श्वे वपनं सकृत्पिञ्जूलीवर्जं च ॥

[लौकिकं च समानमा परिधानात् ॥ कौशिकसूत्र ७,६{५५}.५ ॥
उपेतपूर्वस्य नियतं सवान् दास्यतोऽग्नीनाधास्यमानः पर्यवेतव्रतदीक्षिष्यमाणानाम् ॥ कौशिकसूत्र ७,६{५५}.६ ॥]
लौकिकं च समानं गोदानेन व्याख्यातमा परिधानात् । पुण्याहवाचनम् । वृद्धास्त्रीगीतं च कारयेत् ॥

[सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य ॥ कौशिकसूत्र ७,६{५५}.७ ॥]
ततः प्रदक्षिणमग्निमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य स्वयं प्राङ्मुखः ॥

[आह ब्रूहि ॥ कौशिकसूत्र ७,६{५५}.८ ॥
ब्रह्मचर्यमागामुप मा नयस्व इति ॥ कौशिकसूत्र ७,६{५५}.९ ॥]
ब्रह्मचारी ब्रवीति ।ऽआह ब्रूहि ब्रह्मचर्यमागामुप मा नयस्वऽ इति ॥

[को नामासि किङ्गोत्रः इति असौ इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि ॥ कौशिकसूत्र ७,६{५५}.१० ॥]
तत आचार्यो ब्रवीति ऽको नामासि किङ्गोत्रःऽ इति । पुनर्ब्रह्मचारी ब्रवीति ऽसोमदेवदत्तशर्मनामाहम् । अमुकसगोत्रोऽहम् । यथासङ्ख्यप्रवरोऽहम्ऽ ॥

[आर्षेयं मा कृत्वा बन्धुमन्तमुपनय ॥ कौशिकसूत्र ७,६{५५}.११ ॥]
पुनः ब्रह्मचारी वदति ऽआर्षेयं मा कृत्वा बन्धुमन्तमुपनयऽ ॥

[आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामि इति ॥ कौशिकसूत्र ७,६{५५}.१२ ॥]
ततः पुनराचार्य आह ऽआर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामिऽ इति ॥

[ओंभूर्भुवः स्वर्जनदोमित्यञ्जलावुदकमासिञ्चति ॥ कौशिकसूत्र ७,६{५५}.१३ ॥]
ऽओं भूर्भुवःस्वर्जनदोम्ऽ इति मन्त्रेणोदकाञ्जलिमादित्याय ददाति ब्रह्मचारी ॥

[उत्तरोऽसानि ब्रह्मचारिभ्यः इत्युत्तमं पाणिमन्वादधाति ॥ कौशिकसूत्र ७,६{५५}.१४ ॥]
ऽउत्तरोऽसानिऽ इति मन्त्रेण दक्षिणपाणिं गृह्णात्याचार्यः ॥

[एष म आदित्यपुत्रस्तन्मे गोपायस्व इत्यादित्येन समीक्षते ॥ कौशिकसूत्र ७,६{५५}.१५ ॥]
ऽएष म आदित्यपुत्रःऽ इति मन्त्रेणादित्यं निरीक्षते ॥

[अपक्रामन् पौरुषेयाद्वृणानः (७.१०५.१) इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशेऽभिसंस्तभ्य जपति ॥ कौशिकसूत्र ७,६{५५}.१६ ॥
अस्मिन् वसु वसवो धारयन्तु (१.९) विश्वे देवा वसवः (१.३०) आ यातु मित्र (३.८) अमुत्रभूयात्(७.५३) अन्तकाय मृत्यवे (८.१) आ रभस्व (८.२) प्राणाय नमः (११.४) विषासहिम् (१७.१५) इत्यभिमन्त्रयते ॥ कौशिकसूत्र ७,६{५५}.१७ ॥]
ऽअपक्रामन्ऽ इत्यृचा पश्चादग्नेः पूर्वाभिमुखं ब्रह्मचारिणमुपवेश्य ततो दक्षिणेन पाणिना नाभिदेशं संस्पृश्य ततःऽअस्मिन् वसु वसवो धारयन्तुऽ इति गणं जपत्याचार्यः ॥

[अथापि परित्वरमाणः आ यातु मित्र (३.८) इत्यपि खल्वेतावतैवोपनीतो भवति ॥ कौशिकसूत्र ७,६{५५}.१८ ॥]
अथवाऽआ यातु मित्रऽ इति सूक्तं जपति ॥

[प्रच्छाद्य त्रीन् प्राणायामान् कृत्वावच्छाद्य वत्सतरीमुदपात्रे समवेक्षयेत् ॥ कौशिकसूत्र ७,६{५५}.१९ ॥]
ब्रह्मचारिणं वस्त्रेण प्रच्छाद्य ततस्त्रीन् प्राणायामान् कृत्वा । तत अवच्छाद्य ब्रह्मचारिणमुदपात्रे वत्सिकामुखमवेक्षयेत् ॥

[समिन्द्र नः (७.९७.२) सं वर्चसा (६.५३.३) इति द्वाभ्यामृत्सृजन्ति गाम् ॥ कौशिकसूत्र ७,६{५५}.२० ॥]
ऽसमिन्द्र नःऽऽसं वर्चसाऽ इति द्वाभ्यामृग्भ्यां गामुत्सृजति ॥ सप्तमे षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५५ ॥


________________________________


[श्रद्धाया दुहिता (६.१३३.४५) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति ॥ कौशिकसूत्र ७,७{५६}.१ ॥]
ऽश्रद्धाया दुहिताऽ इति द्वाभ्यां मौञ्जीं मेखलां त्रिप्रवरां चतुःप्रवरां वाभिमन्त्र्य ब्रह्मचारिणः कटिप्रदेशे बध्नाति ॥

[मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं प्रयच्छति ॥ कौशिकसूत्र ७,७{५६}.२ ॥
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासमिति प्रतिगृह्णाति ॥ कौशिकसूत्र ७,७{५६}.३ ॥
श्येनोऽसि (६.४८) इति च ॥ कौशिकसूत्र ७,७{५६}.४ ॥]
ततोऽमित्रावरुणयोस्त्वा हस्ताभ्याम्ऽ इति मन्त्रेणऽश्येनोऽसिऽ इति च सूक्तेन पालाशदण्डमभिमन्त्र्य ब्रह्मचारिणे प्रयच्छति ।ऽमित्रावरुणयोस्त्वाऽ इतिऽश्येनोऽसिऽ इति च पठित्वा ब्रह्मचारी दण्डं गृह्णाति ।ऽपुनर्मैत्विन्द्रियम्ऽ (७.६७.१) इत्यृचा यज्ञोपवीतमभिमन्त्र्य परिधत्ते मन्वादिविहितम् ।ऽअहं रुद्रेभिःऽ इति सूक्तं प्रत्यृचं ब्रह्मचारिणं वाचयति । अथ
व्रतग्रहणं करोति ।ऽब्रह्मचारिव्रतं द्वादशवार्षिकं षड्वार्षिकं वा त्रिवार्षिकं वा यथाशास्त्रविहितं यथास्मर्यमाणधर्मकम्ऽ इत्याद्युक्तमाङ्गिरसकल्पे व्रतश्रावणम् । अग्नये गुरवे च ब्रह्मचारी व्रतं निवेदयेत् ॥

[अथैनं व्रतादानीयाः समिध आधापयति ॥ कौशिकसूत्र ७,७{५६}.५ ॥
अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा ॥ कौशिकसूत्र ७,७{५६}.६ ॥
वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । वेदा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राद्धोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाहा इति ॥ कौशिकसूत्र ७,७{५६}.७ ॥]
ऽअग्ने व्रतपतेऽ इति प्रत्यृचं ब्रह्मचारी अष्टौ समिध आदधाति । पाठयित्वा अष्टौ मन्त्रान् ॥

[अथैनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति ॥ कौशिकसूत्र ७,७{५६}.८ ॥
पच्छः प्रथमम् ॥ कौशिकसूत्र ७,७{५६}.९ ॥
ततोऽर्धर्चशः ॥ कौशिकसूत्र ७,७{५६}.१० ॥
ततः संहिताम् ॥ कौशिकसूत्र ७,७{५६}.११ ॥]
ततः सावित्रीं वाचयति पादं पादं प्रथमम् । ततोऽर्धचशः । ततः सकलाम् ॥

[अथैनं संशास्ति अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि ॥ कौशिकसूत्र ७,७{५६}.१२ ॥]
अथ आचार्य आचारं कथयति ।ऽअग्नेश्चासि ब्रह्मचारिन्ममऽ । अग्नौ एवं कुर्यात् ।ऽनित्यं भोजने अपोऽशान । कर्म कुरु ऊर्ध्वस्तिष्ठन् । मा दिवा स्वाप्सीः । समिध आधेहि । मा कूपं निरीक्षयेः । मा वृक्षारोहणं कुर्याः । मा यज्ञं कुरुऽ इत्येवमादि आचारान् कथयति ॥

[अथैनं भूतेभ्यः परिददाति अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युद्ङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुञ्जयाय त्वा क्षात्राणाय परिददामि मार्त्युञ्जयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः ॥ कौशिकसूत्र ७,७{५६}.१३ ॥]
ऽअथैनं भूतेभ्यःऽ इत्यादिभिर्व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि दद्यात् ॥

[स्वस्ति चरतादिह इति मयि रमन्तां ब्रह्मचारिणः इत्यनुगृह्णीयात् ॥ कौशिकसूत्र ७,७{५६}.१४ ॥
नानुप्रणुदेत् ॥ कौशिकसूत्र ७,७{५६}.१५ ॥]
ऽमयि रमन्तां ब्रह्मचारिणःऽ इत्येतेन मन्त्रेण ब्रह्मचारिणमनुगृह्णीयात् ॥

[प्रणीतीरभ्यावर्तस्व (७.१०५.१) इत्यभ्यात्ममावर्तयति ॥ कौशिकसूत्र ७,७{५६}.१६ ॥]
ऽप्रणीतीरभ्यावर्तस्वऽ इत्यर्धर्चेन ब्रह्मचारिणमात्मसम्मुखं करोति ॥

[यथापः प्रवता यन्ति मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा स्वाहा इत्याचार्यः समिधमादधाति ॥ कौशिकसूत्र ७,७{५६}.१७ ॥]
आचार्यः समिधमादधाति ।ऽयथापः प्रवताऽ इत्यृचा । ततोऽभ्यातानानि हुत्वाऽवाताज्जातऽ (४.१०) इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । उपनयनं समाप्तम् ॥ सप्तमेऽध्याये सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५६ ॥


________________________________


[श्राद्धाया दुहिता (६.१३३.४५) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति ॥ कौशिकसूत्र ७,८{५७}.१ ॥
मौर्वी क्षत्रियाय धनुर्ज्यां वा ॥ कौशिकसूत्र ७,८{५७}.२ ॥
क्षौमिकीं वैश्याय ॥ कौशिकसूत्र ७,८{५७}.३ ॥
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं ब्राह्मणाय प्रयच्छति ॥ कौशिकसूत्र ७,८{५७}.४ ॥
आश्वत्थं क्षत्रियाय ॥ कौशिकसूत्र ७,८{५७}.५ ॥
न्यग्रोधावरोहं वैश्याय ॥ कौशिकसूत्र ७,८{५७}.६ ॥
यद्यस्य दण्डो भज्येत य ऋते चिदभिश्रिष (१४.२.४७) इत्येतयालभ्याभिमन्त्रयते ॥ कौशिकसूत्र ७,८{५७}.७ ॥
सर्वत्र शीर्णे भिन्ने नष्टेऽन्यं कृत्वा पुनर्मैत्विन्द्रियम् (७.६७.१) इत्यादधीत ॥ कौशिकसूत्र ७,८{५७}.८ ॥
अथ वासांसि ॥ कौशिकसूत्र ७,८{५७}.९ ॥
ऐणेयहारिणानि ब्राह्मणस्य ॥ कौशिकसूत्र ७,८{५७}.१० ॥
रौरवपार्षतानि क्षत्रियस्य ॥ कौशिकसूत्र ७,८{५७}.११ ॥
आजाविकानि वैश्यस्य ॥ कौशिकसूत्र ७,८{५७}.१२ ॥
सर्वेषां क्षौमशाणकम्बलवस्त्रम् ॥ कौशिकसूत्र ७,८{५७}.१३ ॥
काषायाणि ॥ कौशिकसूत्र ७,८{५७}.१४ ॥
वस्त्रं चाप्यकाषायम् ॥ कौशिकसूत्र ७,८{५७}.१५ ॥]
दण्डे भग्नेऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचाऽन्यं दण्डमभिमन्त्र्य ब्रह्मचारिणे ददाति । दण्डे भग्ने प्रायश्चित्तम् ॥

[भवति भिक्षां देहि इति ब्राह्मणश्चरेत् ॥ कौशिकसूत्र ७,८{५७}.१६ ॥
भिक्षां भवती ददातु इति क्षत्रियः ॥ कौशिकसूत्र ७,८{५७}.१७ ॥
देहि भिक्षां भवति इति वैश्यः ॥ कौशिकसूत्र ७,८{५७}.१८ ॥
सप्त कुलानि ब्राह्मणश्चरेत्त्रीणि क्षत्रियो द्वे वैश्यः ॥ कौशिकसूत्र ७,८{५७}.१९ ॥
सर्वं ग्रामं चरेद्भैक्षं स्तेनपतितवर्जम् ॥ कौशिकसूत्र ७,८{५७}.२० ॥]
ऽओं भवति भिक्षां देहिऽ इति ब्राह्मणश्चरेदित्यादि सूत्रम् ॥

[मय्यग्रे (७.८२.२६) इति पञ्चप्रश्नेन जुहोति ॥ कौशिकसूत्र ७,८{५७}.२१ ॥]
ऽमय्यग्रेऽ इति पञ्चभिः पञ्च समिध आदधाति । उपनयनाग्नौ नष्ट इदं प्रायश्चित्तम् । अनेन विधिना ब्रह्मचारी पुनराधानं करोति । इति ब्रह्मचार्यग्निपरिग्रहः । द्वादशरात्रं सावित्रीव्रतम् । सावित्रीव्रतस्य न ग्रहणं नोदीक्षणं भवति । द्वादशरात्रमरसाशी भवति । त्रयोदशेऽहनि वेदव्रतं ददाति । व्रतग्रहणम् । व्रतादानीयाः भवन्ति ॥

सायम्प्रातरग्निकार्यमुच्यते
[सं मा सिञ्चन्तु (७.३३.१) इति त्रिः पर्युक्षति ॥ कौशिकसूत्र ७,८{५७}.२२ ॥]
ऽअव्यसश्चऽ (१९.६८.१) इत्यृचं जपित्वाऽसं मा सिञ्चन्तुऽ इति त्रिः पर्युक्षणम् ॥

[यदग्रे तपसा तपोऽग्ने तपस्तप्यामहे (७.६१.१२) इति द्वाभ्यां परिसमूहयति ॥ कौशिकसूत्र ७,८{५७}.२३ ॥]
ऽयदग्रे तपसाऽ इति द्वाभ्यामग्निं प्रज्वालयति ॥

[इदमापः प्रवहत (७.९८.३) इति पाणी प्रक्षालयते ॥ कौशिकसूत्र ७,८{५७}.२४ ॥]
ऽइदमापः प्रवहतऽ इत्यृचा हस्तौ प्रक्षालयति ॥

[सं मा सिञ्चन्तु (७.३३.१) इति त्रिः पर्युक्षति ॥ कौशिकसूत्र ७,८{५७}.२५ ॥]
पुनःऽसं मा सिञ्चन्तुऽ इति त्रिः पर्युक्षति ॥

[अग्ने समिधमाहार्षम् (१९.६४.१४) इत्यादधाति चतस्रः ॥ कौशिकसूत्र ७,८{५७}.२६ ॥]
ऽअग्ने समिधमाहार्षम्ऽ इति चतसृभिरृग्भिः चतस्रः समिध आदधाति ॥

[एधोऽसि (७.८९.४) इत्यूष्मभक्षं भक्षयत्या निधनात् ॥ कौशिकसूत्र ७,८{५७}.२७ ॥]
ऽएधोऽसिऽ इत्यूष्मभक्षं भक्षयति ॥

[त्वं नो मेधे (६.१०८.१५) इत्युपतिष्ठते ॥ कौशिकसूत्र ७,८{५७}.२८ ॥]
ऽत्वं नो मेधेऽ इति पञ्चभिऋग्भिरग्निमुपतिष्ठते ॥

[यदन्नम् (६.७१.१३) इति तिसृभिर्भैक्षस्य जुहोति ॥ कौशिकसूत्र ७,८{५७}.२९ ॥]
ऽयदन्नम्ऽ इति तिसृभिर्भैक्षं जुहोति । सर्वत्र हविःप्रोक्षणं, उत्पवनं च ।ऽत्र्यायुषम्ऽ इति भूतिना रक्षां करोति । ललाटे स्कन्धे हृदये च । ततःऽसत्यं त्वर्तेनऽ इति पर्युक्षणम् ।ऽयस्मात्कोशात्ऽ (१९.७.२) इति जपति ॥

[अहरहः समिध आहृत्यैवं सायम्प्रातरभ्यादध्यात् ॥ कौशिकसूत्र ७,८{५७}.३० ॥]
सायम्प्रातरहरहः कुर्यात् । ब्रह्मचार्यग्निकार्यं समाप्तम् ॥

अथ व्रतादेशा उत्तमपटले व्याख्याताः
सांवत्सरं वेदव्रतं कल्पानां तु तदर्धकम्.
मृगारे षड्रात्रं स्यात्त्रिरात्रं स्याद्विषासहिः.
याम्यानामपि मन्त्राणां षष्ठं द्वादशरात्रिकम्.
अथवा कौशिकव्रतविधानं कुर्यात्.
अथ कौशिकोक्तव्रतविधानमुच्यते । स्थण्डिलेऽग्निस्थापनम् । वपनम् । दण्डमेखलायज्ञोपवीतं च दत्त्वा ततो व्रतश्रावणम् । व्रतादानीया अष्टौ समिधः । ततोऽयस्मात्कोशात्ऽ इति । सर्वेषु व्रतेषु व्रतादानं समाप्तम् ॥

अथ व्रतविसर्जनमुच्यते
आज्यतन्त्रं कृत्वाऽइदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात्ऽ (Kऔश्ष् । ४२.१५१६) व्रतश्रावणं व्रतविसर्जनं च । अष्टौ समिधः । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इति सर्वव्रतविसर्जनं समाप्तम् । कौशिकोक्तं सर्वत्र भवति । नित्यनैमित्तिककाम्येषु एतेन विधानेन व्रतग्रहणं व्रतविसर्जनं च कुर्यात् । कृच्छ्रचान्द्रायणादिषु व्रतग्रहणं व्रतविसर्जनं च भवति । सर्वत्र लौकिके च व्रते वैदिके च सर्वत्र । इति व्रतादेशः ॥

[मेधाजनन आयुष्यैर्जुहुयात् ॥ कौशिकसूत्र ७,८{५७}.३१ ॥
यथाकामं द्वादशरात्रमरसाशी भवति ॥ कौशिकसूत्र ७,८{५७}.३२ ॥]
अथ ब्रह्मचार्युपनयनानन्तरं मेधाजननमन्त्रैः आयुष्यमन्त्रैश्चाज्यं जुहुयात् ।ऽये त्रिषप्ताऽ (१.१)ऽअहं रुद्रेभिःऽ (४.३०)ऽत्वं नो मेधेऽ (६.१०८)ऽद्यौश्च मेऽ (७.१.५३) इत्याज्यं जुहुयात्मेधाकामः । मेधा सम्पद्यते । ब्रह्मचारी इदं कर्म कुर्यात् । तन्त्रविकल्पः । ब्रह्मचारिणः तन्त्रे अनधिकारः । अकृतवेदाध्ययनत्वात् । अन्यो वा ब्रह्मचारी वा सर्वस्य कर्मणोऽधिकारः । मेधाजननेन आयुष्येण आज्यं जुहुयात् । तन्त्रविकल्पः । ब्रह्मचारी उपनयनदिवसे मेधाकामः ।ऽविश्वे देवाऽऽअस्मिन् वसुऽऽयदाबध्नन्ऽऽनव प्राणान्ऽ इत्याज्यं जुहुयात् । ब्रह्मचारी उपनयनानन्तरम् । आयुष्कामः । तन्त्रविकल्पः ॥ सप्तमेऽध्याये अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५७ ॥


________________________________


[भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम् । तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥ यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातमंहसः इति कर्णं क्रोशन्तमनुमन्त्रयते ॥ कौशिकसूत्र ७,९{५८}.१ ॥]
ऽभद्राय कर्णः क्रोशतुऽ इति सूक्तेन कर्णं क्रोशन्तमनुमन्त्रयते ॥

[अक्षि वा स्फुरत् ॥ कौशिकसूत्र ७,९{५८}.२ ॥]
अक्षि स्फुरन्तमनुमन्त्रयते । दुःस्वप्नदर्शने स्वस्ति । अनिष्टदर्शने च । अद्भुतदर्शने च जपति । स्वयं जपः । कर्ता वा अन्वारब्धे जपति ॥

[आयुष्याणि]
[वि देवा जरसा (३.३१) उत देवाः (४.१३) आवतस्ते (५.३०) उप प्रियम् (७.३२) अन्तकाय मृत्यवे, आ रभस्व (८.१२) प्राणाय नमः (११.४) विषासहिम् (१७.१.१५) इत्यभिमन्त्रयते ॥ कौशिकसूत्र ७,९{५८}.३ ॥]
ऽवि देवा जरसाऽ इति सूक्तेन पुरुषशरीरमभिमन्त्रयते । आयुष्कामः । कर्त्रे दक्षिणा धेनुः ब्रह्मणश्च धेनुः सर्वत्र ।ऽउत देवाःऽ इति सूक्तेन शरीरमभिमन्त्रयते । आयुष्कामः ।ऽआवतस्तेऽ इति सूक्तेन पुरुषस्याङ्गमनुमन्त्रयते । आयुष्कामः ।ऽउप प्रियम्ऽ इत्यृचाङ्गमभिमन्त्रयते ।ऽअन्तकायऽ,ऽआ रभस्वऽ इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः ।ऽप्राणाय नमःऽ इत्यर्थसूक्तेन शरीरमभिमन्त्रयते ।ऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । आयुष्कामस्याभिमन्त्रणम् ॥

ब्राह्मणोक्तमुच्यते
[ब्राह्मणोक्तमृषिहस्तश्च ॥ कौशिकसूत्र ७,९{५८}.४ ॥]
सप्त ब्राह्मणान्मिष्टान्नभोजनं कारापयित्वा । एकः प्राङ्मुखः । एको दक्षिणामुखः । एकः प्रत्यङ्मुखः । चत्वारो उदङ्मुखाः । सर्वेऽउत देवाःऽ इति सूक्तेनाभिमृशन्ति पुरुषशरीरम् । समाप्तं ब्राह्मणोक्तमायुष्कामस्य.
ऋषिहस्त उच्यते ।ऽअन्तकाय मृत्यवेऽ इति सूक्तेन नाभेरूर्ध्वमधस्तादभिमन्त्रयते । द्विः सूक्तावृत्तिः ।ऽआ रभस्वऽ इति हृदयमभिमन्त्रयते ।ऽआवतस्तेऽ,ऽप्राणाय नमःऽ इति सूक्ताभ्यां दक्षिणं कर्णमभिमन्त्रयते । समाप्तमृषिहस्तः ॥

[कर्मणे वां वेषाय वां सुकृताय वामिति पाणी प्रक्षाल्य ॥ कौशिकसूत्र ७,९{५८}.५ ॥]
आयुष्कामस्यऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्यऽवि देवाऽ इत्यायुषार्थिनमभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्यऽउत देवाःऽ इत्यभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्यऽआवतस्तेऽ इत्यभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्य शरीरंऽउप प्रियम्ऽ इत्यभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्यऽअन्तकायऽ,ऽआ रभस्वऽ इति सूक्ताभ्यामभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति हस्तौ प्रक्षाल्यऽप्राणाय नमःऽ इत्यभिमन्त्रयते ।ऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्यऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । कुङ्कुमचन्दनसर्वौषध्यादि शरीरं समालभ्यात्मानमभिमन्त्रयते ॥

[निर्दुरर्मण्य (१६.२) इति सन्धाव्य ॥ कौशिकसूत्र ७,९{५८}.६ ॥]
ऽनिर्दुरर्मण्यऽ इति सूक्तेन आयुःकामः ॥

[शुद्धा न आप (१२.१.३०) इति निष्ठीव्य जीवाभिराचम्य ॥ कौशिकसूत्र ७,९{५८}.७ ॥]
ऽशुद्धा न आपःऽ इत्यृचा श्लेष्मं त्यक्त्वात्मानमनुमन्त्रयते । आयुष्कामः ।ऽजीवा स्थऽ (१९.६९.१४) इति सूक्तेन आचम्यानुमन्त्रयते ।ऽवि देवाऽ इति गणः पुनर्विकल्पेन । आयुष्कामः ॥

[एहि जीवम् (४.९) इत्याञ्जनमणिं बध्नाति ॥ कौशिकसूत्र ७,९{५८}.८ ॥]
अभ्यातानान्तं कृत्वाऽएहि जीवम्ऽ इति सूक्तेनाञ्जनमणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । आयुष्कामः ।ऽएहि जीवम्ऽ इति सूक्तेनाञ्जनतुच्छकमभिमन्त्र्य पाययति । आयुष्कामः । युद्धे रक्षार्थम् । नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ॥

[वाताज्जात (४.१०) इति कृशनम् ॥ कौशिकसूत्र ७,९{५८}.९ ॥]
अभ्यातानान्तं कृत्वाऽवाताज्जातऽ इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आयुष्कामः रक्षार्थी । उपनयने नित्यं बन्धनम् ॥

[नव प्राणान् (५.२८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ७,९{५८}.१० ॥]
अभ्यातानान्तं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन सुवर्णरजतलोहत्रीणि शकलान्येकत्र कृत्वा नवशालाकं मणिं त्रिवृतं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[घृतादुल्लुप्तम् (५.२८.१४) आ त्वा चृततु (५.२८.१२) ऋतुभिष्ट्वा (५.२८.१३) मुञ्चामि त्वा (३.११) उत देवाः (४.१३) आवतस्ते (५.३०) उप प्रियम् (७.३२) अन्तकाय मृत्यवे, आ रभस्व (८.१२) प्राणाय नमः (११.४) विषासहिम् (१७.१.१५) इत्यभिमन्त्रयते ॥ कौशिकसूत्र ७,९{५८}.११ ॥]
त्रयोदश्यादयस्तिस्रो दधिमधुमध्यादुद्धृत्य त्रिवृतमणिंऽघृतादुल्लुप्तम्ऽ इत्यृचा,ऽआ त्वा चृततुऽ इत्यृचा,ऽऋतुभिष्ट्वाऽ इत्यृचा बध्नाति । अन्यत्र सर्वत्र पुण्याहान्ते बन्धनम् । आयुष्कामो रक्षाकामश्च ।ऽमुञ्चामि त्वाऽ इति सूक्तेनाभिमन्त्रयते आयुष्कामः । राजयक्ष्मणि ज्वरे चान्यसर्वव्याधौ च ।ऽउत देवाःऽ इति सूक्तेनाभिमृशति द्वाभ्यां हस्ताभ्याम् । आयुष्कामः । सर्वव्याधिभैषज्यं रक्षाकामः । इति निरोधे च ।ऽआवतस्तेऽ इति शरीरमभिमन्त्रयते । आयुष्काम आरोग्यकामः । सर्वव्याधिभैषज्यम् । हृद्रोगे च । अङ्गभङ्गे च ज्वरे च । रक्षाकामः ।ऽउप प्रियम्ऽ इत्यृचा बालशरीरमभिमन्त्रयते । आयुष्कामः । युवानं बालं च ।ऽअन्तकायऽऽआ रभस्वऽ इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः । मृत्यूभये च ।ऽप्राणाय नमःऽ इति सूक्तेन पुरुषमभिमन्त्रयते । आयुष्कामः । क्षुभित्वा कासित्वा खासित्वा पीत्वा सुप्त्वा भुक्त्वा जपति ।ऽविषासहिम्ऽ इत्यभिमन्त्रयते । आयुष्कामः । सुमतिकामः सकामजातिरासारत्वकामः ॥

[निर्दुरर्मण्य (१६.२) इति सर्वसुरभिचूर्णैररण्येऽप्रतीहारं प्रलिम्पति ॥ कौशिकसूत्र ७,९{५८}.१२ ॥]
ऽनिर्दुरर्मण्यऽ इति सूक्तेन सर्वौषधिमभिमन्त्र्य पुरुषं प्रलिम्पति पुरुषस्यारण्ये । आयुष्कामः । श्रोत्रं वाक्मनः चक्षुर्दन्तः नासिका अन्यच्च सर्वं विकलेन्द्रियं दृढं भवति । विषकं भवति । यो विकलेन्द्रियस्तस्येदं कर्म । अनुलोमं प्रलिम्पति । समाप्तमायुष्यम् । पुनरग्रे भविष्यति ॥

[नामकरणम्]
अथ नामकरणम् ॥ कौशिकसूत्र ७,९{५८}.१३ ॥
एकादशेऽहनि नाम द्वादशेऽहनि नाम शतरात्रौ वा पुण्ये नक्षत्रे वा यथाकुलधर्मेण वा । नामकरणस्यैते कालाः स्मृतिविहिताः ॥

[आरभस्वेमाम् (८.२) इत्यविच्छिन्नामुदकधारामालम्भयति ॥ कौशिकसूत्र ७,९{५८}.१४ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽआ रभस्वेमाम्ऽ इत्यर्थसूक्तेन कुमारस्य दक्षिणे हस्त उदकधारामविच्छिन्नां निनयति ॥

[पूतुदारुं बध्नाति ॥ कौशिकसूत्र ७,९{५८}.१५ ॥
पाययति ॥ कौशिकसूत्र ७,९{५८}.१६ ॥]
ततऽआ रभस्वऽ इति सूक्तेन देवदारुमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । मणिं घृष्य पाययति बध्नाति च । ततः पिता नाम करोति । अथ आचार्यो वा दक्षिणे कर्णे श्रावयति कृत्तिकादैवतं सोमेश्वरदत्तशर्मा नाम अथवा अग्निदैवतं सोमदेवदत्तशर्मा नाम नक्षत्रकल्पोक्तं नाम द्व्यक्षरं चतुरक्षरमित्यादि ॥

[यत्ते वासः (८.२.१६) इत्यहतेनोत्तरसिचा प्रच्छादयति ॥ कौशिकसूत्र ७,९{५८}.१७ ॥]
ऽयत्ते वासःऽ इत्यृचाऽहतेनोत्तरसिचा प्रच्छादयति ।ऽशिवे ते स्ताम्ऽ (८.२.१४) इत्यादि परिदानानि सिंहावलोकनन्यायेन गोदानमध्ये उक्तानि । अभ्यातानाद्युत्तरतन्त्रम् । ततः श्राद्धम् । नामकरणं समाप्तम् ॥

[निष्क्रमणम्]
अथ निर्णयनकर्म उच्यते
[शिवे ते स्ताम् (८.२.१४१५) इति कुमारं प्रथमं निर्णयति ॥ कौशिकसूत्र ७,९{५८}.१८ ॥]
चतुर्थे मासि निष्क्रमणम् ।ऽशिवे ते स्ताम्ऽ इति द्वाभ्यां कुमारं पुण्याहान्ते निष्क्रामयति ततः पूर्वोक्तानि परिदानानि ददाति । ततः श्राद्धम् । समाप्तं निर्णयनकर्म । शिष्टा अवश्यं कुर्वन्ति ॥

[अन्नप्राशनम्]
अथान्नप्राशनम्
[शिवौ ते स्ताम् (८.२.१८) इति व्रीहियवौ प्राशयति ॥ कौशिकसूत्र ७,९{५८}.१९ ॥]
षष्ठे मासि प्राशनं कुर्यादिति पैठीनसिः । सर्वस्यां स्मृतौ पञ्चमे कुमार्या इति । प्रथमंऽभूमे मातःऽ (१२.१.६३) इत्यृचा
भूम्यामुपवेश्य ततःऽउद्वयं तमसस्परिऽ (७.५३.७) इत्यादित्यं दर्शयित्वा ततोऽन्नप्राशनं कुर्यात्पुण्याहान्ते । ततःऽशिवौ ते स्तां व्रीहियवौऽ इति द्वाभ्यामृग्भ्यां व्रीहियवौ पिष्ट्वाभिमन्त्र्य कुमारं प्राशयति । आज्यतन्त्रे अन्नानि च सर्वाणि । ततः स्रुवं पुस्तकं ददाति ।ऽशिवे ते स्ताम्ऽ (८.२.१४१५) इति द्वाभ्यांऽपार्थिवस्यऽ (२.२९.१२) इति द्वेऽमा प्र गामऽ (१३.१.५९६०) इति द्वे एताभिः ऋग्भिर्व्रीह्यादि मूर्ध्नि ददाति ।ऽद्यावापृथिवीभ्यां त्वा परिददामिऽ ।ऽशिवौ ते स्ताम्ऽ इत्यादि ।ऽव्रीहियवाभ्यां त्वा परिददामिऽ ॥

[अह्ने च त्वा (८.२.२०) इत्यहोरात्राभ्यां परिददाति ॥ कौशिकसूत्र ७,९{५८}.२० ॥
शरदे त्वा (८.२.२२) इत्यृतुभ्यः ॥ कौशिकसूत्र ७,९{५८}.२१ ॥]
ऽअह्ने च त्वाऽ इतिऽअहोरात्राभ्यां परिददामिऽ ।ऽशरदे त्वाऽ इत्यादिऽऋतुभ्यस्त्वा परिददामिऽ । गोदानवत्परिदानानि ददाति । नामकरणे निष्क्रमणे अन्नप्राशने च गोदानिकानि परिदानानि भवति । तत उत्तरतन्त्रम् । इत्यन्नप्राशनं समाप्तम् ॥
ऊनो वातिरिक्तो वा यः स्वशाखोदितो विधिः.
तेनैव सर्वं सम्पूर्णं स्यान्न कुर्यात्पारतन्त्रिकम् ॥
पश्चात्श्राद्धं सर्वेषु संस्कारेषु कुर्यातिति दारिलभाष्यकारस्याभिप्रायेण व्याख्यात इति । श्राद्धं कृत्वा पश्चात्कर्मेति रुद्रभद्रौ । एते भाष्यकाराः कौशिकस्य । तथा च मनुः ऽअकृत्वा मातरः श्राद्धं न कुर्यात्कर्म वैदिकम्ऽ । वैदिकेषु कर्मसु नित्यनैमित्तिककाम्येषु श्राद्धं कृत्वा ततः कर्म कुर्यात् । सर्वत्र श्राद्धं कृत्वा शान्तिकपौष्टिकाभिचारकाद्भुतानि अथर्ववेदविहितानि कर्तव्यानि । पुंसवनादिसंस्काराः स्वशाखाविहिताः कर्तव्या न कुर्यात्पारतन्त्रिकाः । पुनः
स्वशाखां तु परित्यज्य परशाखामुपासते.
स शूद्रवद्बहिः कार्यो हव्यकव्येषु गर्हितः ॥

[आयुष्याणि]
पुनरायुष्यकर्म उच्यते
[उदस्य केतवः (१३.२) मूर्धाहं (१६.३) विषासहिम् (१७.१.१५) इत्युद्यन्तमुपतिष्ठते ॥ कौशिकसूत्र ७,९{५८}.२२ ॥
मध्यन्दिनेऽस्तं यन्तं सकृत्पर्यायाभ्याम् ॥ कौशिकसूत्र ७,९{५८}.२३ ॥]
ऽउदस्य केतनःऽ इत्यनुवाकेनादित्यमुपतिष्ठते । आयुष्कामः ।ऽमूर्धाहंऽ,ऽनाभिरहम्ऽ (१६.३४) इति सूक्ताभ्यामादित्यमुपतिष्ठते । त्रिकालमायुष्कामः ।ऽविषासहिम्ऽ इत्यनुवाकेन एतस्मिन् काले आदित्यमुपतिष्ठते आयुष्कामः ॥

[अंहोलिङ्गानामापो भोजनहवींष्युक्तानि ॥ कौशिकसूत्र ७,९{५८}.२४ ॥]
अंहोलिङ्गानामापो भोजनहवींषि कुर्यात् ।ऽआशानाम्ऽ (१.३१) इति सूक्तेनोदकमभिमन्त्र्य पिबति । आयुष्कामः ।ऽआशानाम्ऽ इति सूक्तेन भोजनमभिमन्त्रयते । आयुष्कामो नित्यं कुर्यात् ।ऽआशानाम्ऽ इति सूक्तेनाज्यं जुहोति आज्यतन्त्रे ।ऽआशानाम्ऽ इति सूक्तेन समिध आदधाति । आयुष्कामः । पुरोडाशाद्यप्येवं योजनीयम् ।ऽअग्नेर्मन्वेऽ (४.२३२९) इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पिबति । आयुष्कामः ।ऽअग्नेर्मन्वेऽ इति सप्तभि सूक्तैः सक्तुमभिमन्त्र्य भुङ्क्ते । आयुष्कामः ।ऽअग्नेर्मन्वेऽ इति सप्तभि सूक्तैर्हविरुपदधीत । यथासम्भवं तन्त्रम् । विकल्पो वा । आयुष्कामः ।ऽया ओषधयःऽ (६.९६) इति भक्तमुपधानानि योजनीयानि ।ऽवैश्वानरो न आगमत्ऽ (६.३५.२) इत्यृचा उदकं भक्तमुपधानं कुर्यात् ।ऽशुम्भनीऽ (७.११२) इति द्वाभ्यामृग्भ्यां त्रितयं कुर्यात् ।ऽयदर्वाचीनम्ऽ (१०.५.२२) इत्यृचा उदकमभिमन्त्र्य पिबति । आयुष्कामः ।ऽयदर्वाचीनम्ऽ इत्यृचा भक्तमभिमन्त्र्य भक्षयति ।ऽयदर्वाचीनम्ऽ इत्यृचा उपधानं कुर्यात् । सर्वत्र दक्षिणादानम् । स्वयङ्कर्तृके अन्यस्मै दक्षिणां ददाति शुभं वा बहवोऽपि कुर्वन्ति । एकोऽपि करोति । पश्वादीनामायुष्यं कर्म भवति । पुरुषस्त्रीणामपि वृद्धबालतरुणानां सर्वेषां मानुषपशुमृगपक्षिण अश्वादीनामायुष्यं कर्म भवति । सर्वत्र दक्षिणा धेनुः । तन्त्रे वाऽतन्त्रे वा । आयुष्कामः ॥

[उत्तमासु यन्मातली रथक्रीतम् (११.६.२३) इति सर्वासां द्वितीया ॥ कौशिकसूत्र ७,९{५८}.२५ ॥]
ऽअग्निं ब्रूमःऽ (११.६) इति सूक्तस्यऽयन्मातली रथक्रीतम्ऽ इति सर्वासां द्वितीया । व्यतिषङ्गेण यन्मातली कर्तव्या ।ऽअग्निं ब्रूमःऽ इत्यस्य सूक्तस्य प्रत्यृचं मातली कार्या । अन्ते च । अभ्यातानान्ते हविषामुपदधीत । तत उत्तरतन्त्रम् । समाप्तानि आयुष्याणि । न दक्षिणाहीनं कुर्वीत । यदा स्वयं करोति तदाऽन्यस्मै दक्षिणां दद्यात् ॥ सप्तमेऽध्याये नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५८ ॥


________________________________


[काम्यानि कर्माणि]
अथ काम्यानां कर्मणां विधिं वक्ष्यामः । सम्भारलक्षणे मण्डपविधानमुक्तम् । गृहे वा कुर्यात् । नित्यानि कर्माणि गृहे
कुर्यात् । अवभृथं न वा कुर्यात् । सर्वत्र कौशिके कर्मणां विकल्पः । सर्वत्रावभृथं कर्मसमाप्तौ । पञ्चानां कल्पानां कौशिकोक्तं तन्त्रं कुर्यादित्यर्थः । अथ विधानमुच्यते
[विश्वे देवा (१.३०) इति विश्वानायुष्कामो यजते ॥ कौशिकसूत्र ७,१०{५९}.१ ॥]
वैश्वदेवं चरुम् । पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वाऽविश्वे देवाऽ इति चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । आयुष्कामः ।ऽविश्वेभ्यो देवेभ्यो जुष्टं निर्वपामिऽ ।ऽविश्वेभ्यो देवेभ्यस्त्वा जुष्टं प्रोक्षामिऽ ।ऽविश्वान् देवान् गच्छतु हविः स्वाहाऽ इति विशेषः । शतवर्षपरिमितमायुर्भवति । नित्यं कुर्यात् ॥

[उपतिष्ठते ॥ कौशिकसूत्र ७,१०{५९}.२ ॥]
अथवाऽविश्वे देवाऽ इति सूक्तेनोपतिष्ठते विश्वान् देवान् ॥

[इदं जनास (१.३२) इति द्यावापृथिव्यौ पुष्टिकामः ॥ कौशिकसूत्र ७,१०{५९}.३ ॥]
पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वाऽइदं जनासऽ इतिसूक्ते न द्यावापृथिवीयं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् ।ऽद्यावापृथिवीभ्यां जुष्टं निर्वपामिऽ ।ऽद्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामिऽ ।ऽद्यावापृथिवी गच्छतु हविः स्वाहाऽ इति । पुष्टिकामः द्रव्यवृद्धिकामः ॥

[सम्पत्कामः ॥ कौशिकसूत्र ७,१०{५९}.४ ॥]
मनोभिलषितकामः इत्यर्थः । नित्यं कुर्यात् ।ऽइदं जनासऽ इति सूक्तेन उपतिष्ठते द्यावापृथिव्यौ । सकृन्मन्त्रः । पुष्टिकामः । सम्पत्कामः । सम्पच्छब्द उदयशब्द उच्यते । पुत्रकामः धनकामः पशुकामः धान्यकामः हिरण्यकामः रत्नकामः हस्तिकामः अश्वकामः पुष्टिकामः फलकामः आयुष्यकामः वशीकरणकामः चक्षुरादीनीन्द्रियाणि विकले सति दृष्टिकामः पत्नीकामः गृहकामः सौभाग्यकामः परस्य दौर्भाग्यकामः । अन्योऽप्यनुक्तकामः सम्पत्काममध्ये ज्ञातव्यः । सर्वकाम इत्यर्थः । कामावृत्तौ कर्मावृत्तिः । कर्मावृत्तौ सूक्तावृत्तिः ॥

[इन्द्र जुषस्व (२.५) इतीन्द्रं बलकामः ॥ कौशिकसूत्र ७,१०{५९}.५ ॥]
पाकतन्त्रेऽइन्द्र जुषस्वऽ इति सूक्तेन ऐन्द्रं चरुं जुहोति । पावणाद्युत्तरतन्त्रम् ।ऽदेवस्य त्वाऽ इत्यादिऽइन्द्राय जुष्टं निर्वपामिऽ ।ऽइन्द्राय त्वा जुष्टं प्रोक्षामिऽ ।ऽसं बर्हिःऽ इत्यादिऽइन्द्रं गच्छतु हविः स्वाहाऽ इति बर्हिप्रहरणे । चातुरङ्गहस्तिअश्वपुरुषादिबलकामो राजा नित्यं कुर्यात् ।ऽइन्द्र जुषस्वऽ इति सूक्तेन इन्द्रमुपतिष्ठते । नित्यं राजा बलकामः ॥

[इन्द्रमहम् (३.१५) इति पण्यकामः ॥ कौशिकसूत्र ७,१०{५९}.६ ॥]
तन्त्रमाज्यभागान्तं कृत्वाऽइन्द्रमहम्ऽ इति सूक्तेन ऐन्द्रं चरुं जुहोति । तत उत्तरतन्त्रम् । वणिजादिअर्थरत्नधान्यपुत्रलाभोऽस्ति सर्वं वणिज्योतिपरिमुच्चैर्भवति ततः कुर्यात् ।ऽइन्द्रमहं वणिजम्ऽ इति सूक्तेनेन्द्रमुपतिष्ठते । वाणिज्यकामः । अश्वादिपण्यकामः ॥

[उदेनमुत्तरं नय (६.५) योऽस्मान् (६.६) इन्द्रः सुत्रामा (७.९१) इति ग्रामकामः ॥ कौशिकसूत्र ७,१०{५९}.७ ॥]
ऽउदेनमुत्तरं नयऽ,ऽयोऽस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां पाकतन्त्रे ऐन्द्रं चरुं जुहोति । उत्तरतन्त्रम् । ग्रामकामः । ग्रामपत्तनमण्डलपुरकामः । ग्रामशब्द उपलक्षणार्थः ।ऽउदेनमुत्तरं नयऽऽयोऽस्मान्ऽ इति सूक्ताभ्यामुपतिष्ठते । ग्रामकामः । पाकतन्त्रेऽइन्द्रः सुत्रामाऽ इत्यृचा चरुमैन्द्रं जुहोति । ग्रामकामः ।ऽइन्द्रः सुत्रामाऽ इत्यृचा ऐन्द्रमुपतिष्ठते । ग्रामकामः ॥

[ग्रामसाम्पदानामप्ययः ॥ कौशिकसूत्र ७,१०{५९}.८ ॥]
ऽउदेनमुत्तरं नयऽ इति सूक्ताभ्यामुदुम्बरसमिध आदधाति । तन्त्रविकल्पः । ग्रामकामः ।ऽउदेनमुत्तरं नयऽ इति सूक्ताभ्यां पालाशसमिध आदधाति । ग्रामकामः ।ऽउदेनमुत्तरं नयऽऽयो अस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां कर्कन्धूसमिध आदधाति ।ऽउदेनमुत्तरं नयऽऽयो अस्मान् ब्रह्मणस्पतेऽ इति सूक्ताभ्यां सभानामुपस्तरणानि जुहोति । ग्रामकामः । एवंऽइन्द्रः सुत्रामाऽ इति योज्यम् । ग्रामकामः । नास्ति निरृतिकर्म । अधिकारे तद्भवति । इह न भवति ॥

[यशसं मेन्द्रः (६.५८) इति यशस्कामः ॥ कौशिकसूत्र ७,१०{५९}.९ ॥]
इन्द्रदैवतं चरुमाज्यभागान्तं कृत्वाऽयशसं मेन्द्रःऽ इति सूक्तेन इन्द्राय चरुं जुहोति । अथवाऽयशसं मेन्द्रःऽ इति तृचेन सूक्तेनेन्द्रमुपतिष्ठते । यशस्कामः । प्रतिप्रकाशतादित्यवत्यशस्वी भवतीत्यर्थः ॥

[मह्यमापः (६.६१) इति व्यचस्कामः ॥ कौशिकसूत्र ७,१०{५९}.१० ॥]
ऽमह्यमापःऽ इति तृचेनेन्द्रं यजते । तावत्कूपतडागवापीपुष्करिणी उदककामार्थी सेतुबन्धादिउदककामार्थी व्यचस्कामः ।ऽमह्यमापःऽ इति सूक्तेनोपतिष्ठते । वापीकूपतडागादिकामः ॥

[आगच्छत (६.८२) इति जायाकामः ॥ कौशिकसूत्र ७,१०{५९}.११ ॥]
ऽआगच्छतऽ इति तृचेनेन्द्रं यजते पाकतन्त्रेण जायाकामः । कुमारीकर्म इत्यर्थः ।ऽआगच्छतऽ इति तृचेनेन्द्रमुपतिष्ठते । पत्नीकामः । नित्यं कुर्यात् ॥

[वृषेन्द्रस्य (६.८६) इति वृषकामः ॥ कौशिकसूत्र ७,१०{५९}.१२ ॥]
ऽवृषेन्द्रस्यऽ इति तृचेनेन्द्रं यजते पाकतन्त्रेण । राजा वृषकामः । एकोऽस्यां पृथिव्यां राजा भवति एकोऽधिपत्यकाम इत्यर्थः । प्रधानकामः ।ऽवृषेन्द्रस्यऽ इति तृचेनेन्द्रमुपतिष्ठते । प्रधानकामः । मनुष्याणां मध्ये प्रधानो भवति । श्रेष्ठ इत्यर्थः । श्रेष्ठत्वं स्वजातिपक्षे । ब्राह्मणानां मध्ये ब्राह्मणः क्षत्रियाणां मध्ये क्षत्रिय इत्यर्थः ॥

[आ त्वाहार्षम् (६.८७) ध्रुवा द्यौः (६.८८) इति ध्रौव्यकामः ॥ कौशिकसूत्र ७,१०{५९}.१३ ॥]
ऽआ त्वाहार्षम्ऽऽध्रुवा द्यौःऽ इति सूक्ताभ्यामिन्द्रं यजते पाकयज्ञविधानेन । राजा ध्रौव्यकामः । निखिलं राज्यं भवतीत्यर्थः ।ऽआ त्वाहार्षम्ऽऽध्रुवा द्यौःऽ इति सूक्ताभ्यामिन्द्रमुपतिष्ठते । ध्रौव्यकामः । निश्चलकामः । स्थिरत्वमित्यर्थः ॥

[त्यमू षु (७.८५) त्रातारम् (७.८६) आ मन्द्रैः (७.११७) इति स्वस्त्ययनकामः ॥ कौशिकसूत्र ७,१०{५९}.१४ ॥]
ऽत्यमू षुऽऽत्रातारम्ऽ इत्यृग्भ्यामिन्द्रं यजते पाकतन्त्रेण । स्वस्त्ययनकामः । स्वस्तीत्यविनाशनाम । द्विपदचतुष्पदानामविनाशमित्यर्थः ।ऽत्यमू षुऽऽत्रातारम्ऽ इत्यृग्भ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । नित्यं कुर्यात् ।ऽआ मन्द्रैःऽ इति द्वाभ्यामृग्भ्यामिन्द्रं यजते पाकतन्त्रेण स्वस्त्ययनकामः । शान्तिकाम इत्यर्थः । गृहे ग्रामे वा सर्वत्र शान्तिं कुर्यात् । निष्कामो वा सकामो वा ।ऽआ मन्द्रैःऽ इति द्वाभ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । गोश्वाजहस्तिपुरुषादिस्वस्त्ययनं भवति । नित्यं कुर्यात्वा ॥

[समास्त्वाग्ने (२.६) अभ्यर्चत (७.८२) इत्यग्निं सम्पत्कामः ॥ कौशिकसूत्र ७,१०{५९}.१५ ॥]
ऽसमास्त्वाऽ इति सूक्तेन अग्निं यजते पाकतन्त्रेण । सम्पत्कामः । अपूर्वलाभः । मनसा चिन्तितकामः सम्पदित्युच्यते ।ऽसमास्त्वाग्नेऽ इति सूक्तेनाग्निमुपतिष्ठते । सर्वकामः ।ऽअभ्यर्चतऽ इति सूक्तेन षडर्चेनाग्निं यजते । सर्वकामः ।ऽअभ्यर्चतऽ इति सूक्तेन षडर्चेनाग्निमुपतिष्ठते । सम्पत्कामः ॥

[पृथिव्याम् (४.३९) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ७,१०{५९}.१६ ॥]
ऽपृथिव्यामग्नयेऽ इति दशभिरृग्भिः । पृथिवीम् । अग्निम् । अन्तरिक्षम् । वायुम् । द्यौः । आदित्यः । दिशः । चन्द्रमाः । पुनः अग्निम् । एता अष्टौ देवताः । अष्टौ चरवः । प्रत्यृचं होमः । निर्वपणादि योज्यं सन्नतिकर्म । पाकतन्त्रम् । सम्पत्कामः । आयुष्कामः । धनकामः ।ऽपृथिव्यामग्नयेऽ इति दशर्चेन पृथिव्यादिदेवता उपतिष्ठते । सर्वकामः ॥

[तदिदास (५.२) धीती वा (७.१) इतीन्द्राग्नी ॥ कौशिकसूत्र ७,१०{५९}.१७ ॥]
ऽतदिदासऽ इति सूक्तेनन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः ।ऽधीती वा येऽ इति द्वाभ्यामिन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः ॥

[यस्येदमा रजः (६.३३) अथर्वाणम् (७.२) अदितिर्द्यौः (७.६) दितेः पुत्राणाम् (७.७) बृहस्पते सवितः (७.१६)
इत्यभ्युदितं ब्रह्मचारिणं बोधयति ॥ कौशिकसूत्र ७,१०{५९}.१८ ॥]
ऽयस्येदमा रजःऽ इति सूक्तेन तृचेनेन्द्रं यजत उपतिष्ठते वा । सर्वकामः ।ऽअथर्वाणं पितरम्ऽ इत्यष्टभिरथर्वाणं यजते वा उपतिष्ठते वा । सर्वकामः ।ऽअदितिर्द्यौःऽ इति चतसृभिरदितिं यजत उपतिष्ठते वा । सर्वकामः ।ऽदितेः पुत्राणाम्ऽ इत्यृचा देवान् यजत उपतिष्ठते वा । सर्वकामः ।ऽबृहस्पते सवितःऽ इत्येकया बृहस्पतिं यजते वा उपतिष्ठते वा । सर्वकामः ।ऽबृहस्पते सवितःऽ इत्येकया सुप्तं ब्रह्मचारिणमुत्थापयति आदित्ये उदिते सति । प्रायश्चित्तमेतत् ॥

[धाता दधातु (७.१७) प्रजापतिर्जनयति (७.१९) अन्वद्य नः (७.२०) यन्न इन्द्रः (७.२४) ययोरोजसा (७.२५) विष्णोर्नु कम् (७.२६) अग्नाविष्णू (७.२९) सोमारुद्रा (७.४२) सिनीवालि (७.४६) बृहस्पतिर्नः (७.५१) यत्ते देवा अकृण्वन् (७.७९) पूर्णा पश्चात्(७.८०) प्रजापते (७.८०.३) अभ्यर्चत (७.८२) को अस्या नः (७.१०३) इति प्रजापतिम् ॥ कौशिकसूत्र ७,१०{५९}.१९ ॥]
ऽधाता दधातुऽ इति चतुरृचेन धातारं यजत उपतिष्ठते वा । सर्वकामः । नित्यं कुर्यात् ।ऽप्रजापतिर्जनयतिऽ इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः ।ऽअन्वद्य नोऽनुमतिःऽ इति षडर्चेनानुमतिं यजत उपतिष्ठते वा । सर्वकामः । नित्यम् । वर्षेण कामः सम्पद्यते । पापशरीरस्य दशवर्षेण ।ऽयन्न इन्द्रो अखनत्ऽ इत्येकया इन्द्राद्या नव देवता मन्त्रोक्ता एकचरुणा यजते । इन्द्रम् । अग्निम् । विश्वान् देवान् । मरुतः । अर्कम् । सवितारम् । सत्यधर्माणम् । प्रजापतिम् । अनुमतिम् । एता देवताः । सर्वफलकामः । उपतिष्ठते वा । सर्वकामः ।ऽययोरोजसाऽ इति द्वाभ्यामृग्भ्यां विष्णुं यजत उपतिष्ठते वा । सर्वकामः ।ऽविष्णोर्नु कम्ऽ इत्यष्टर्चेन विष्णुं यजत उपतिष्ठते वा । सर्वकामः ।ऽअग्नाविष्णू महिऽ इति द्वाभ्यामृग्भ्यां अग्नाविष्णू यजत उपतिष्ठते वा । सर्वकामः ।ऽसोमारुद्रा वि वृहतम्ऽ इति द्वाभ्यामृग्भ्यां सोमारुद्रौ यजत उपतिष्ठते वा । सर्वकामः ।ऽसिनीवालि पृथु ष्टुकेऽ इति नवभिरृग्भिः सिनीवाली कुहू राका देवपत्नी इति चतस्रो देवताः यजत उपतिष्ठते वा । एकश्चरुः । सर्वकामः । सर्वत्र पर्यायेण सर्वकामावाप्तिर्भवति ।ऽबृहस्पतिर्नःऽ इत्यृचा बृहस्पतिं यजत उपतिष्ठते वा । सर्वकामः ।ऽयत्ते देवा अकृण्वन्ऽ इति चतसृभिरमावास्यां यजत उपतिष्ठते वा । सर्वकामः ।ऽपूर्णा पश्चात्ऽ इति तिसृभिः पौर्णमासीं यजत उपतिष्ठते वा । सर्वकामः ।ऽप्रजापते न त्वत्ऽ इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः ।ऽअभ्यर्चतऽ इति षड्भिरृग्भिरग्निं यजत उपतिष्ठते वा । सर्वकामः ।ऽको अस्या नःऽ इति द्वाभ्यामृग्भ्यां प्रजापतिं यजत उपतिष्ठते
वा । सर्वकामः ॥

[अग्न इन्द्रश्च (७.११०) इति मन्त्रोक्तान् सर्वकामः ॥ कौशिकसूत्र ७,१०{५९}.२० ॥]
ऽअग्न इन्द्रश्चऽ इति चतसृभिरृग्भिः अग्निमिन्द्रं यजत उपतिष्ठते वा । सर्वकामः । न क्रमेण कामोत्पत्तिः । प्रजापतिकामः । मन्त्रावृत्तिः । तथा योगमित्यधिकरणे न क्रमः काम्यानां कर्मणाम् । अङ्गवत्क्रतूनामित्यधिकरणे ॥

[य ईशे (२.३४) ये भक्षयन्तः (२.३५) इतीन्द्राग्नी लोककामः ॥ कौशिकसूत्र ७,१०{५९}.२१ ॥]
ऽय ईशेऽ,ऽये भक्षयन्तःऽ इति द्वाभ्यां सूक्ताभ्यामिन्द्राग्नी यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः ॥

[अन्नं ददाति प्रथमम् ॥ कौशिकसूत्र ७,१०{५९}.२२ ॥]
ऽय ईशेऽ,ऽये भक्षयन्तःऽ इति द्वाभ्यां सूक्ताभ्यां भक्ताद्यन्नमभिमन्त्र्य भिक्षुकेभ्यो ददाति । सर्वलोकाधिपत्यकामः ॥

[पशूपाकरणमुत्तमम् ॥ कौशिकसूत्र ७,१०{५९}.२३ ॥]
ऽय ईशे पशुपतिःऽ इति सूक्तेन पशूपाकरणं करोति ॥

[सवपुरस्ताद्धोमा युज्यन्ते ॥ कौशिकसूत्र ७,१०{५९}.२४ ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन सवपुरस्ताद्धोमा युज्यन्ते ॥

[दोषो गाय (६.१) इत्यथर्वाणं समावृत्याश्नाति ॥ कौशिकसूत्र ७,१०{५९}.२५ ॥]
ऽदोषो गायऽ इति तृचेन सूक्तेन अथर्वाणं यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः । परिमोक्षः । गोदानिकं तन्त्रम् । परिधापनान्तं कृत्वा ततोऽभ्यातानानिऽइदावत्सरायऽ इति । ततोऽभ्यातानानि । ततःऽऋचं सामऽ इति । ततोऽभ्यातानानि हुत्वाऽदोषो गायऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । व्रतं समाप्य व्रतविसर्जनं करोति ॥

[अभयं द्यावापृथिवी (६.४०) श्येनोऽसि (६.४८) इति प्रतिदिशं सप्तर्षीनभयकामः ॥ कौशिकसूत्र ७,१०{५९}.२६ ॥]
ऽअभयं द्यावापृथिवीऽ इति तृचेन सूक्तेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । प्रतिदिशमभयकामः । यस्य ग्रामस्य नगरस्य वाऽभयमिच्छति तस्य प्रतिदिशम् ।ऽश्येनोऽसिऽ तृचेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । अभयकामः । दिगभिमुखानि तन्त्राणि कृत्वा प्रतिदिशं वा ग्रामस्य । एकस्मिन् स्थाने वा स्थितः । अभयकामः ॥

[उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानम् ॥ कौशिकसूत्र ७,१०{५९}.२७ ॥]
ऽश्येनोऽसिऽ तृचेन सूक्तेन ब्रह्मचारिणे दण्डप्रदानं करोति ।ऽश्येनोऽसिऽ इति ज्योतिष्टोमे दीक्षिताय दण्डप्रदानं करोति ब्रह्मा ॥

[द्यौश्च मे (६.५३) इति द्यावापृथिव्यौ विरिष्यति ॥ कौशिकसूत्र ७,१०{५९}.२८ ॥]
ऽद्यौश्च म इदं पृथिवी चऽ इति तृचेन द्यावापृथिवी यजत उपतिष्ठते वा । विरिष्यति यदि विनाशोपस्थितः तत इदं कर्म कुर्यात् । यदि विनाशे वा वर्तमाने विनाशभये वा तदा इदं कर्म कुर्यात् । न कालविलम्बेन । द्रव्यनाशे पुत्रनाशे प्रजानाशे पशुनाशे अश्वनाशे हस्तिनाशे वृषभनाशे गृहनाशे समुत्पन्ने कुर्यात् । अथवा शान्तिके दोषाः सर्वे विलयं यान्ति इति ब्रह्मविदो वदन्ति ।ऽद्यावापृथिवीभ्यां जुष्टं निर्वपामि । द्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामि । द्यावापृथिवी गच्छतु हविः स्वाहाऽ इति । शेषं समानम् ॥

[यो अग्नौ (७.८७) इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः ॥ कौशिकसूत्र ७,१०{५९}.२९ ॥]
ऽयो अग्नौऽ इत्यृचा रुद्रान् यजत उपतिष्ठते वा । स्वस्त्ययनकामः । सर्वत्र यागः दर्शपौर्णमासविधानेन । शान्तिकपौष्टिकाभिचारेषु नोष्णीषं कारयेत् । सर्वकर्मसु । मण्डपस्योत्तरे पार्श्वे शान्तिकलशं स्थापयेत्सर्वकर्मसु । एकरात्राद्युपवासं कुर्यादादौ पुरश्चरणं कारयित्वा । ऋत्विजां सर्वकर्मसु साधारणम् । पौर्णमास्यमावास्ये पुण्ये नक्षत्रे प्रयोगः सर्वकर्मसु ॥

आयुर्वृद्धिर्द्वये प्रोक्त आयुष्यकर्मसङ्ग्रहः.
नानाफलसमायुक्तः काम्ययागश्च सप्तमे ॥
सप्तमेऽध्याये दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ५९ ॥




इति कौशिकपद्धतौ सप्तमोऽध्यायः समाप्तः ॥


____________________________________________________________________________