← अध्यायः १२ कौशिकपद्धतिः
अध्यायः १३
केशवः
अध्यायः १४ →

अथ त्रयोदशोऽध्यायः
[अद्भुतानि]

अथाद्भुतकर्मपरिभाषा उच्यन्ते
अथाद्भुतानि ॥ कौशिकसूत्र १३,१{९३}.१ ॥
लोकविरुद्धं दृश्यते तदद्भुतमित्युच्यते ॥
वर्षे ॥ कौशिकसूत्र १३,१{९३}.२ ॥
रुधिरादिविकृतिदोषः ॥

यक्षेषु ॥ कौशिकसूत्र १३,१{९३}.३ ॥
यक्षराक्षसपिशाचादिदर्शने सति ॥

गोमायुवदने ॥ कौशिकसूत्र १३,१{९३}.४ ॥
मण्डूकद्वयातिवदने ॥

कुले कलहिनि ॥ कौशिकसूत्र १३,१{९३}.५ ॥
स्वकुले परकुले च कलहे उत्पन्ने ॥

[भूमिचले ॥ कौशिकसूत्र १३,१{९३}.६ ॥]
भूमिचलने भूमिकम्पे ॥

आदित्योपल्पवे ॥ कौशिकसूत्र १३,१{९३}.७ ॥
आदित्यग्रहे ॥

चन्द्रमसश्च ॥ कौशिकसूत्र १३,१{९३}.८ ॥
चन्द्रग्रहणे ॥

[औषस्यामनुद्यत्याम् ॥ कौशिकसूत्र १३,१{९३}.९ ॥]
उषायामनुद्यत्यामुषाकाल अनुदित आदित्ये ॥

समायां दारुणायाम् ॥ कौशिकसूत्र १३,१{९३}.१० ॥
दारुणसंवत्सरे दुर्भिक्षे मरके वा अनावृष्टिर्वा भये सति ॥

[उपतारकशङ्कायाम् ॥ कौशिकसूत्र १३,१{९३}.११ ॥]
उषातारकशङ्कायाम् । उषातारकग्रहनक्षत्रादिसमीपे दृश्यते नक्षत्रम् ॥

ब्राह्मणेष्वायुधिषु ॥ कौशिकसूत्र १३,१{९३}.१२ ॥
आयुधग्रहणे सति ॥

दैवतेषु नृत्यत्सु च्योतत्सु हसत्सु गायत्सु ॥ कौशिकसूत्र १३,१{९३}.१३ ॥
अन्यानि वा रूपाणि कुर्वन्ति देवताः ॥

लाङ्गलयोः संसर्गे ॥ कौशिकसूत्र १३,१{९३}.१४ ॥
लाङ्गले द्वे संसर्गे भवतः ॥

[रज्ज्वोस्तन्त्वोश्च ॥ कौशिकसूत्र १३,१{९३}.१५ ॥]
रज्ज्वोस्तन्त्वो रज्जुर्वा सूत्रं वल्यमाने द्वे भवतः ॥

अग्निसंसर्गे ॥ कौशिकसूत्र १३,१{९३}.१६ ॥
लौकिकाग्निद्वये संसर्गे ॥

[यमवत्सायां गवि ॥ कौशिकसूत्र १३,१{९३}.१७ ॥]
यमलवत्सायां गवि ॥

[वडवागर्दभ्योर्मानुष्यां च ॥ कौशिकसूत्र १३,१{९३}.१८ ॥]
यमलजनने वडवागर्दभ्योः । मानुषीयमलजनने इदं समीकर्म ॥

यत्र धेनवो लोहितं दुहते ॥ कौशिकसूत्र १३,१{९३}.१९ ॥
लोहितदोहने गोऽश्वाजामहिषीगर्दभोष्ट्रादिषु रक्तदुग्धे ॥

अनडुहि धेनुं धयति ॥ कौशिकसूत्र १३,१{९३}.२० ॥
वृषभो गां धयति ॥

[धेनौ धेनुं धयन्त्याम् ॥ कौशिकसूत्र १३,१{९३}.२१ ॥]
धेनुर्धेनुं धयति परस्परं पिबति ॥

आकाशफेने ॥ कौशिकसूत्र १३,१{९३}.२२ ॥
गौर्वाऽश्वो वाऽश्वतरो वा पुरुषो वा आकाशफेनं पिबति ॥

पिपीलिकानाचारे ॥ कौशिकसूत्र १३,१{९३}.२३ ॥
श्वेतकृष्णरक्तवर्णादि बहुशो गृहे सन्ति ॥

[नीलमक्षानाचारे ॥ कौशिकसूत्र १३,१{९३}.२४ ॥]
नीलमक्षा अतिशयेन बहुशः । मक्षिकाः प्रसिद्धाः ॥

[मधुमक्षानाचारे ॥ कौशिकसूत्र १३,१{९३}.२५ ॥]
मधुजालं गृह उत्पद्यते मधुमक्षा ॥

[अनाज्ञाते ॥ कौशिकसूत्र १३,१{९३}.२६ ॥]
अनाज्ञातमद्भुतं दृश्यते । यदद्भुते न पठितं तदज्ञातमद्भुतम् । अथवा लौकिकं जुगुप्सितं वाऽदृष्टं वा ॥

अवदीर्णे ॥ कौशिकसूत्र १३,१{९३}.२७ ॥
स्वयं गृहादि अवदीर्णे सति ॥

अनुदक उदकोन्मीले ॥ कौशिकसूत्र १३,१{९३}.२८ ॥
मरुदेशे उदकं भवति । अथवा स्थले सर्वत्रोदकं सन्दृश्यते मृगतृष्णावत् ॥

तिलेषु समतैलेषु ॥ कौशिकसूत्र १३,१{९३}.२९ ॥
तिलाः समतैला भवन्ति ॥

हविःष्वभिमृष्टेषु ॥ कौशिकसूत्र १३,१{९३}.३० ॥
वपां हवींषि वा वयांसि द्विपदचतुष्पदं वा गृहीत्वा गच्छेयुः ॥

प्रसव्येष्वावर्तेषु ॥ कौशिकसूत्र १३,१{९३}.३१ ॥
कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृत्तौ ॥

[यूपे विरोहति ॥ कौशिकसूत्र १३,१{९३}.३२ ॥]
यूपो विरोहति । यूपशब्दः काष्ठवाची । यज्ञप्रायश्चित्ते यूपग्रहणात् ॥

उल्कायाम् ॥ कौशिकसूत्र १३,१{९३}.३३ ॥
दिवा उल्कापातः सन्ध्यायां च ॥

[धूमकेतौ सप्तर्षीनुपधूपयति ॥ कौशिकसूत्र १३,१{९३}.३४ ॥]
धूमकेतुः सप्तऋषीनुपधूपयति । केतुचारः पठितः । केतुशब्दग्रहणेन सर्वत्र धूमकेतुरुच्यते ॥

नक्षत्रेषु पतापतेषु ॥ कौशिकसूत्र १३,१{९३}.३५ ॥
रात्रौ नक्षत्रपातेषु बहुशः ॥

[मांसमुखे निपतति ॥ कौशिकसूत्र १३,१{९३}.३६ ॥]
मांसमुखा गृहे पतन्ति मांसं वा पतति ॥

अनग्नाववभासे ॥ कौशिकसूत्र १३,१{९३}.३७ ॥
अग्निर्दृश्यते । गृहादिषु अग्निदृश्या ज्वाला दृश्यते ॥

अग्नौ श्वसति ॥ कौशिकसूत्र १३,१{९३}.३८ ॥
उच्छ्वासो वा शब्दकरणं भवति वा ॥

सर्पिषि तैले मधुनि च विष्यन्दे ॥ कौशिकसूत्र १३,१{९३}.३९ ॥
यदि घृतादि स्थीयते स्यन्दते वा स्रवति वा ॥

[ग्राम्येऽग्नौ शालां दहति ॥ कौशिकसूत्र १३,१{९३}.४० ॥]
ग्राम्योऽग्निः शालां दहति ग्रामनगरशालादिदाह्ये लौकिकेनाग्निना ॥

आगन्तौ च ॥ कौशिकसूत्र १३,१{९३}.४१ ॥
विद्युते वा सूर्यप्रज्वलिते वा गृहं दहति आगन्तुर्वा ॥

[वंशे स्फोटति ॥ कौशिकसूत्र १३,१{९३}.४२ ॥]
वंशः स्फोटयति वंशस्फोटनं बलहरणभङ्गद्वारभङ्गकपाटादिभङ्गेषु ॥

कुम्भोदधाने विकसत्युखायां सक्तुधान्यां च ॥ कौशिकसूत्र १३,१{९३}.४३ ॥
उदकुम्भे स्वयं भग्ने उदकधानमलिञ्जरे भग्ने उखादिभाण्डे सक्तुधान्यां हण्डिका ॥ त्रयोदशेऽध्याये प्रथमा कण्डिका ॥ कौशिकपद्धतिकण्डिका ९३ ॥


________________________________


[अथ यत्रैतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यधिरण्यं यानि चाप्यन्यानि घोराणि वर्षाणि वर्षन्ति तत्पराभवति कुलं वा ग्रामो वा जनपदो वा ॥ कौशिकसूत्र १३,२{९४}.१ ॥]
ऽअथ यत्रैतानिऽ इत्यादि प्रतिनिमित्तशान्तिं वक्ष्यामः । अथाद्भुतशान्तिर्यत्र न क्रियते तत्र दोषो भवति ।ऽतत्पराभवतिऽ इत्यादि परिभाषा उच्यते । अथाद्भुतं यत्र भवति तत्पराभवति विनश्यति । विनाशार्थे अद्भुतं देवाः सृजन्ति । तथा चोक्तं सृजन्ति दिव्या देवाद्भुतानि प्रागुपसर्गप्रतिबोधनार्थम् । विनाशे समुपस्थिते । कुलं वा ग्रामो वा जनपदो वा कुले ग्रामे नगरे वा राष्ट्रे वा यत्राद्भुतं दृश्यते तत्सर्वं विनश्यति ॥

[तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिछेत् ॥ कौशिकसूत्र १३,२{९४}.२ ॥
एष ह वै विद्वान् यद्भृग्वङ्गिरोवित् ॥ कौशिकसूत्र १३,२{९४}.३ ॥
एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद्भृग्वङ्गिरसः ॥ कौशिकसूत्र १३,२{९४}.४ ॥]
तत्र गृहस्थो वा ग्रामपतिर्वा राजा वा भूमिपतिः । यद्भृग्वङ्गिरस अथर्वाङ्गिरस इत्यर्थः ॥

स आह उपकल्पयध्वमिति ॥ कौशिकसूत्र १३,२{९४}.५ ॥
तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौशिकसूत्र १३,२{९४}.६ ॥
बाह्ये तन्त्रप्रयोगः ॥

त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् ॥ कौशिकसूत्र १३,२{९४}.७ ॥
अपि चेदेव यदा कदाचिदार्ताय कुर्यात् ॥ कौशिकसूत्र १३,२{९४}.८ ॥
स्नातोऽहतवसनः सुरभिर्व्रतवान् कर्मण्य उपवसत्येकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा ॥ कौशिकसूत्र १३,२{९४}.९ ॥
[द्वादश्याः प्रातर्यत्रैवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय ॥ कौशिकसूत्र १३,२{९४}.१० ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौशिकसूत्र १३,२{९४}.११ ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ ॥ कौशिकसूत्र १३,२{९४}.१२ ॥]
ततो द्वितीयेऽहनि प्रातः कर्मप्रयोगः । प्रथमत अयुतहोमलक्षहोमौ वा ईशानयागग्रहयागनक्षत्रयागनिरृतियागमण्डपसंस्कारवास्तुसंस्कारादि । उत्तरतः सर्वकर्मप्रयोगः । इति सर्वकर्मसु परिभाषा समाप्ता ॥

अथ वर्षाद्भुते शान्तिरुच्यते
[अथ जुहोति ॥ कौशिकसूत्र १३,२{९४}.१३ ॥
घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम् । द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत् । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,२{९४}.१४ ॥]
आज्यभागान्तं कृत्वाऽघृतस्य धाराऽ इति द्वाभ्यामाज्यं जुहुयात् ॥

[दिव्यो गन्धर्वः (२.२) इति मातृनामभिर्जुहुयात् ॥ कौशिकसूत्र १३,२{९४}.१५ ॥]
ऽदिव्यो गन्धर्वःऽ इत्यादि मातृनाम्ना गणेनाज्यं जुहुयात् । सर्वत्र शान्त्युदकं योजयेत् । सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि चानुयोजयेत् । वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौर्दक्षिणा । ब्राह्मणान् भक्तेनोपेप्सन्ति । ततः पार्वणाद्युत्तरतन्त्रम् ॥

वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,२{९४}.१६ ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौशिकसूत्र १३,२{९४}.१७ ॥
[सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२{९४}.१८ ॥]
धेन्वादीनि सर्वत्र कांस्यादीनि च दक्षिणा वा । घृतवर्षे । मांसवर्षे । मधुवर्षे । हिरण्यवर्षे । पांसुवर्षे । सर्पमत्स्यपक्षिणो यदाभ्यवर्षन्ति । अस्थीनि रुधिरं वसा मज्जा पाषाणास्त्रैर्वा (?) कीटानि अन्याश्चान्यं च घोरं वर्षणं दधि पयो तैलं च पक्वान्नविकाराश्च । अन्येषां घोराणां वर्षणे इदं कर्म कुर्यात् । समाप्ता विकृतवर्षाद्भूतशान्तिः ॥ द्वितीया
कण्डिका ॥ कौशिकपद्धतिकण्डिका ९४ ॥


________________________________


अथ यक्षाद्भुतशान्तिरुच्यते
[अथ यत्रैतानि यक्षाणि दृश्यन्ते तद्यथैतन्मर्कटः श्वापदो वायसः पुरुषरूपमिति तदेवमाशङ्क्यमेव भवति ॥ कौशिकसूत्र १३,३{९५}.१ ॥
तत्र जुहुयात् ॥ कौशिकसूत्र १३,३{९५}.२ ॥
यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति । पुरुषरक्षसमिषिरं यत्पताति द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३{९५}.३ ॥
दिव्यो गन्धर्वः (२.२) इति मातृनामभिर्जुहुयात् ॥ कौशिकसूत्र १३,३{९५}.४ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३{९५}.५ ॥]
शान्त्युदकं कृत्वा कारयिताचमनं प्रोक्षणं कृत्वाज्यभागान्तं कृत्वाऽयन्मर्कटः श्वापदःऽ इत्यृचाज्यं जुहुयात् । मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । यक्षशब्देन सर्पश्वापदौ वायसः पुरुषरूपा एते दृश्यन्ते । रक्षो वा हस्तिनो वा सूकरो वा कूपे घटे वारण्ये वा गृहे वा रक्षोरूपं दृष्ट्वा वपुस्तत्क्षणादेव न दृश्यते । तत्सर्वं यक्ष इत्युच्यते । समाप्ता यक्षाद्भुतशान्तिः ॥ तृतीया कण्डिका ॥ कौशिकपद्धतिकण्डिका ९५ ॥


________________________________


अथ गोमायुवदने शान्तिरुच्यते
[अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यन्मन्यन्तेऽमां प्रति वदतो मां प्रति वदतःऽ इति तदेवमाशङ्क्यमेव भवति ॥ कौशिकसूत्र १३,४{९६}.१ ॥
तत्र जुहुयात् ॥ कौशिकसूत्र १३,४{९६}.२ ॥
यद्गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथन्तरं बृहच्च सामैतद्द्विषन्तमेतावभि नानदैताम् ॥ रथन्तरेण त्वा बृहच्छमयामि बृहता त्वा रथन्तरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,४{९६}.३ ॥
दिव्यो गन्धर्वः (२.२) इति मातृनामभिर्जुहुयात् ॥ कौशिकसूत्र १३,४{९६}.४ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४{९६}.५ ॥]
शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वाऽयद्गोमायूऽ इति द्वयं मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मण्डुकद्वयं वा । सते गृहे वा बहिर्वा अभिमुखः गोमायुः । अद्भुतशान्तिः समाप्ता ॥ चतुर्थी कण्डिका ॥ कौशिकपद्धतिकण्डिका ९६ ॥


________________________________


अथ कुलकलहे अद्भुतशान्तिरुच्यते
[अथ यत्रैतत्कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते ॥ कौशिकसूत्र १३,५{९७}.१ ॥
तत्र जुहुयात् ॥ कौशिकसूत्र १३,५{९७}.२ ॥
आरादरातिम् (८.२.१२१३) इति द्वे ॥ कौशिकसूत्र १३,५{९७}.३ ॥
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इत्यग्नौ हुत्वा ॥ कौशिकसूत्र १३,५{९७}.४ ॥
तत्रैवैतान् होमाञ्जुहुयात् ॥ कौशिकसूत्र १३,५{९७}.५ ॥
आरादग्निं क्रव्यादे निरूहञ्जीवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्राह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,५{९७}.६ ॥
अपेत एतु निरृतिः इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,५{९७}.७ ॥
अपेत एतु निरृतिर्नेहास्या अपि किञ्चन । अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा॑मप यजामसि ॥ निरितो यन्तु नैरृत्या मृत्यव एकशतं परः । सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मास्मदप हन्तु शमलं तमश्च ॥ कौशिकसूत्र १३,५{९७}.८ ॥
वरमनड्वाहमिति समानम् ॥ कौशिकसूत्र १३,५{९७}.९ ॥]
शान्त्युदकं चातनमातृनामान्यनुयोजितं कृत्वा आचमनादि आज्यभागान्तं कृत्वाऽआरादरातिम्ऽ इति द्वे,ऽअयाश्चाग्नेऽ इत्यृचा,ऽआरादग्निम्ऽ इति द्वे,ऽअपेत एतुऽ इति सूक्तेनाज्यं जुहुयात् । तत उत्तरतन्त्रम् । कुलयुद्धे राजकुलग्रामयुद्धे जातिब्राह्मणक्षत्रियवैश्यशूद्रादियुद्धे स्त्रीणां युद्धे कलहे च पुरुषाणां युद्धे कलहे च स्वकुले चापरस्य युद्धे कलहे च । कलहाद्भुतशान्तिः ॥ पञ्चमी कण्डिका ॥ कौशिकपद्धतिकण्डिका ९७ ॥


________________________________


अथ भूमिचलने शान्तिरुच्यते
[अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् ॥ कौशिकसूत्र १३,६{९८}.१ ॥
अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठाति जिष्णुः । यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति । एवा विशः सम्मनसो हवं मेऽप्रमादमिहोपा यन्तु सर्वाः । दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु । पृथिव्यै स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,६{९८}.२ ॥
आ त्वाहार्षम् (६.८७) ध्रुवा द्यौः (६.८८) सत्यं बृहत्(१२.१) इत्येतेनानुवाकेन जुहुयात् ॥ कौशिकसूत्र १३,६{९८}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,६{९८}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽअच्युता द्यौःऽ इति सूक्तेनाज्यं जुहुयात् ।ऽआ त्वाहार्षम्ऽ,ऽध्रुवा द्यौःऽ,ऽसत्यं बृहत्ऽ इत्येतेनानुवाकेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । भूमिचलने शान्तिः समाप्ता ॥ षष्ठी कण्डिका ॥ कौशिकपद्धतिकण्डिका ९८ ॥


________________________________


अथादित्यग्रहे शान्तिरुच्यते
[अथ यत्रैतदादित्यं तमो गृह्णाति तत्र जुहुयात् ॥ कौशिकसूत्र १३,७{९९}.१ ॥
दिव्यं चित्रमृतूया कल्पयन्तमृतूनामग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमाल्लोकाननुसञ्चरन्ति । ओषधीभिः संविदाविन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,७{९९}.२ ॥
विषासहिं सहमानम् (१७.१) इत्येतेन सूक्तेन जुहुयात ॥ कौशिकसूत्र १३,७{९९}.३ ॥
रोहितैरुपतिष्ठते ॥ कौशिकसूत्र १३,७{९९}.४ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,७{९९}.५ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽदिव्यं चित्रम्ऽ इति द्वाभ्यामाज्यं जुहुयात् ।ऽविषासहिम्ऽ इत्यनुवाकेन वा । रोहितैरुपतिष्ठते । ततः पार्वणाद्युत्तरतन्त्रम् । इत्यादिग्रहणे शान्तिः समाप्ता ॥ सप्तमी कण्डिका ॥ कौशिकपद्धतिकण्डिका ९९ ॥


________________________________


अथ सोमग्रहणे शान्तिरुच्यते
[अथ यत्रैतच्चन्द्रमसमुपप्लवति तत्र जुहुयात् ॥ कौशिकसूत्र १३,८{१००}.१ ॥
राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः । सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,८{१००}.२ ॥
शकधूमं नक्षत्राणि (६.१२८) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,८{१००}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,८{१००}.४ ॥]
शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वाऽराहू राजानम्ऽ इत्यृचा,ऽशकधूमम्ऽ इति सूक्तेन चाज्यं जुहुयात् ।ऽविषासहिं सहमानम्ऽ इति सूक्तेन वा रोहितैरुपतिष्ठते । पार्वणाद्युत्तरतन्त्रम् । समाप्ता सोमग्रहणे शान्तिः ॥ अष्टमी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०० ॥


________________________________


अथ औषसी न भवति तत्र शान्तिरुच्यते
[अथ यत्रैतदौषसी नोदेति तत्र जुहुयात् ॥ कौशिकसूत्र १३,९{१०१}.१ ॥
उदेतु श्रीरुषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान्मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,९{१०१}.२ ॥
दिव्यो गन्धर्वः (२.२) इति मातृनामभिर्जुहुयात् ॥ कौशिकसूत्र १३,९{१०१}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,९{१०१}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽउदेतु श्रीरुषसःऽ इत्यृचा मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । औषसी दीप्तिर्न दृश्यते तदा एषा शान्तिः ॥ नवमी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०१ ॥


________________________________


अथ संवत्सरे दारुणे शान्तिरुच्यते
[अथ यत्रैतत्समा दारुणा भवति तत्र जुहुयात् ॥ कौशिकसूत्र १३,१०{१०२}.१ ॥
या समा रुशत्येति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत्ते घोरं यत्ते विषं तद्द्विषत्सु नि दध्मस्यमुष्मिनिति ब्रूयात् ॥ कौशिकसूत्र १३,१०{१०२}.२ ॥
शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,१०{१०२}.३ ॥
समास्त्वाग्ने (२.६) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,१०{१०२}.४ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१०{१०२}.५ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽया समा रुशतीऽ इति तिसृभिःऽसमास्त्वाग्नेऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । संवत्सर उग्र मकरे सम्प्राप्ते रोगे वा समुत्पन्ने परराष्ट्रभये सस्तेने चौरभये दारुणे संवत्सरे शान्तिः समाप्ता ॥ दशमी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०२ ॥


________________________________


अथोपतारकशान्तिरुच्यते
[अथ यत्रैतदुपतारकाः शङ्कन्ते तत्र जुहुयात् ॥ कौशिकसूत्र १३,११{१०३}.१ ॥
रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमाल्लोकाननुसञ्चरन्तु ॥ अद्भ्यः स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,११{१०३}.२ ॥
समुत्पतन्तु (४.१५) प्र नभस्व (७.१८) इति वर्षीर्जुहुयात् ॥ कौशिकसूत्र १३,११{१०३}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,११{१०३}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽरेवतीः शुभ्राःऽ इत्यृचा,ऽसमुत्पतन्तुऽऽप्र नभस्वऽ इति सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । अवर्षणे ग्रहनक्षत्राणां समापे (?) क्षेत्रे च दर्शने च शान्तिः समाप्ता ॥ एकादशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०३ ॥


________________________________


ब्राह्मणआयुधग्रहणे शान्तिरुच्यते
[अथ यत्रैतद्ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् ॥ कौशिकसूत्र १३,१२{१०४}.१ ॥
य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,१२{१०४}.२ ॥
मा नो विदन् (१.१९) नमो देववधेभ्यः (६.१३) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौशिकसूत्र १३,१२{१०४}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१२{१०४}.४ ॥]
शान्त्युदकं कृत्वा मातृनामानुयोजनं कृत्वा ततः वेद्यादि आज्यभागान्तं कृत्वाऽय आसुराःऽ इति द्वाभ्यांऽमा नो विदन्ऽऽनमो देववधेभ्यःऽ इति द्वाभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ब्राह्मणशस्त्रग्रहणे शान्तिः समाप्ता ॥ द्वादशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०४ ॥


________________________________


देवताद्भुतशान्तिरुच्यते
[अथ यत्रैतद्दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति य आसुरा मनुष्याः, मा नो विदन् (१.१९) नमो देववधेभ्यः (६.१३) इत्यभयैर्जुहुयात् ॥ कौशिकसूत्र १३,१३{१०५}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१३{१०५}.२ ॥]
शान्त्युदकं चातनादिश्च तत आज्यभागान्तं कृत्वाऽय आसुराःऽऽमा नो विदन्ऽ,ऽनमो देववधेभ्यःऽ इत्याज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । देवता नृत्यन्ति च्योतन्ति हसन्ति गायन्ति प्रस्थिज्यन्ति प्रधूपयन्ति उन्मीलयन्ति लोहितं स्रवन्ति प्रादुर्भवन्ति गमनं कुर्वन्ति सर्वदेवताप्रतिमायां पाषाणप्रभृतिरजतहिरण्यस्फटिकप्रभृतिलिङ्गवासुदेवशङ्करसरस्वतीत्यादिप्रभृतयः अन्यानि वा बहूनि विधान्यानि रूपाणि कुर्वन्ति देवताप्रभृतयः । देवताद्भुतशान्तिः समाप्ता ॥ त्रयोदशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०५ ॥


________________________________


अथ लाङ्गलसंसर्गे शान्तिरुच्यते
[अथ यत्रैतल्लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा ॥ कौशिकसूत्र १३,१४{१०६}.१ ॥
अरण्यस्यार्धमभिव्रज्य ॥ कौशिकसूत्र १३,१४{१०६}.२ ॥
प्राचीं सीतां स्थापयित्वा ॥ कौशिकसूत्र १३,१४{१०६}.३ ॥
सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय ॥ कौशिकसूत्र १३,१४{१०६}.४ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा ॥ कौशिकसूत्र १३,१४{१०६}.५ ॥
अथ जुहोति वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा ॥ कौशिकसूत्र १३,१४{१०६}.६ ॥
कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ॥ पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर्देवा असुरानकल्पयन् यातून्मनून् गन्धर्वान् राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विश्वस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम् । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ॥ कौशिकसूत्र १३,१४{१०६}.७ ॥
अत्र शुनासीराण्यनुयोजयेत ॥ कौशिकसूत्र १३,१४{१०६}.८ ॥
वरमनड्वाहमिति समानम् ॥ कौशिकसूत्र १३,१४{१०६}.९ ॥]
अरण्ये गत्वा तत्र प्राचीं सीतां स्थापयित्वा सीताया मध्ये शान्त्युदकादि आज्यभागान्तं कृत्वा ततः शम्याः परिधीन् कृत्वा ततः पुरोडाशं जुहोति । अवदायावदाय चतुरवत्तहोमः पुरोडाशस्य ।ऽवित्तिरसि पुष्टिरसिऽ इति सूक्तेन । ततः सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि सर्वत्र । शान्त्युदके अनुयोजने विशेषः ।ऽसीरा युञ्जन्तिऽ (३.१७) इति सूक्तंऽयस्येदमा रजःऽ (६.३३) इति सूक्तंऽसत्यं बृहत्ऽ (१२.१) इत्यनुवाकः एतानि शान्त्युदके अनुयोजयेत् । शान्त्युदकेन कारयितुश्च आचमनं प्रोक्षणम् । सीरं प्रोक्षयेत् । ऋचा क्षेत्र च । पार्वणाद्युत्तरतन्त्रम् । तस्मिन् क्षेत्रे कर्मप्रयोगः । सीतामध्ये लाङ्गलसंसर्गे पुच्छसंसर्गे च लाङ्गलाद्भुतशान्तिः ॥ चतुर्दशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०६ ॥


________________________________


रज्जुकर्तने शान्तिरुच्यते
[अथ यत्रैतत्सृजन्त्योर्वा कृन्तन्त्योर्वा नाना तन्तू संसृजतः मनायै तन्तुं प्रथममित्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,१५{१०७}.१ ॥
मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्रब्रवीमि वः साध्वीर्वः सन्तूर्वरीः ॥ साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत ॥ खर्गला इव पत्वरीरपामुग्रमिवायनम् । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥ अवाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोममुर्वरीणां शशयानामस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत्कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ कौशिकसूत्र १३,१५{१०७}.२ ॥
वासः कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,१५{१०७}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१५{१०७}.४ ॥]
शान्त्युदकादि आज्यं चागारे कृत्वाऽमनायै तन्तुम्ऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वासः कर्त्रे दद्यात् । धेनुं कांसवसनं सर्वत्र दद्यात् । अयुद्वये नृत्यमानभवति कर्त्यमाने सूचकद्वयं यद्द्विधा भवति । समाप्ता सूत्रे च द्विःसम्भवे शान्तिः ॥ पञ्चदशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०७ ॥


________________________________


अथाग्निसंसर्गे लौकिके शान्तिरुच्यते
[अथ यत्रैतदग्निनाग्निः संसृज्यते भवतं नः समनसौ समोकसौ इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,१६{१०८}.१ ॥
भवतं नः समनसौ समोकसावरेपसौ । मा हिंसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः ॥ अग्निनाग्निः संसृज्यते कविर्बृहस्पतिर्युवा हव्यवाड्जुह्वास्यः ॥ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । सखा सख्या समिध्यसे ॥ पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि । तनूपात्साम्नो वसुविदं लोकमनुसञ्चराणि ॥ कौशिकसूत्र १३,१६{१०८}.२ ॥
रुक्मं कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,१६{१०८}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१६{१०८}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽभवतं नः समनसौऽ इत्येतेन सूक्तेन जुहुयात् । रुक्मं च कर्त्रे दद्यात् । पार्वणाद्युत्तरतन्त्रम् । धेनुं कांसवसनं च सर्वत्र । लौकिकाग्निसंसर्गे शान्तिः समाप्ता ॥ षोडशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०८ ॥


________________________________


अथ गोद्वियमलजनने शान्तिरुच्यते
[अथ यत्रैतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा ॥ कौशिकसूत्र १३,१७{१०९}.१ ॥
तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा ॥ कौशिकसूत्र १३,१७{१०९}.२ ॥
प्राञ्चमिध्ममुपसमाधाय ॥ कौशिकसूत्र १३,१७{१०९}.३ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ कौशिकसूत्र १३,१७{१०९}.४ ॥
एकैकयैषा सृष्ट्या सं बभूव (३.२८) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ कौशिकसूत्र १३,१७{१०९}.५ ॥
उदपात्रे सम्पातानानयति ॥ कौशिकसूत्र १३,१७{१०९}.६ ॥
उत्तमं सम्पातमोदने प्रत्यानयति ॥ कौशिकसूत्र १३,१७{१०९}.७ ॥
ततो गां च प्राशयति वत्सौ चोदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र १३,१७{१०९}.८ ॥
तां तस्यैव दद्यात् ॥ कौशिकसूत्र १३,१७{१०९}.९ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१७{१०९}.१० ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा शान्त्युदकेन गां वत्सौ च प्रोक्ष्य ततः गां दोहयित्वा तेन दुग्धेन स्थालीपाकं श्रपयित्वाऽएकैकयैषा सृष्ट्या सं बभूवऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । उदपात्रे सम्पातानानयति ।ऽयत्रा सुहार्दाम्ऽ (३.२८.६) इत्यृचा उत्तमं सम्पातमोदने प्रत्यानयति । तत ओदनं गां वत्सौ च प्राशयति । तत उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । गां वत्सौ च कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौः दक्षिणा वरां धेनुं च । गोयमलजनने अद्भुतशान्तिः समाप्ता ॥ सप्तदशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १०९ ॥


________________________________


अथाश्वा वा गर्दभी वा यमलजनने शान्तिरुच्यते
[अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ कौशिकसूत्र १३,१८{११०}.१ ॥
एवं परिस्तीर्य ॥ कौशिकसूत्र १३,१८{११०}.२ ॥
एवमुपसाद्य ॥ कौशिकसूत्र १३,१८{११०}.३ ॥
एतेनैव सूक्तेनाज्यं जुह्वन् ॥ कौशिकसूत्र १३,१८{११०}.४ ॥
उदपात्रे सम्पातानानयति ॥ कौशिकसूत्र १३,१८{११०}.५ ॥
उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र १३,१८{११०}.६ ॥
तां तस्यैव दद्यात् ॥ कौशिकसूत्र १३,१८{११०}.७ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१८{११०}.८ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽएकैकयैषा सृष्ट्या सं बभूवऽ इति सूक्तेनाज्यं जुह्वन्नुदपात्रे सम्पातानानयति । उदपात्रेणाश्वादि आचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । अश्वा वा गर्दभी वा यमलजनने शान्तिः समाप्ता । केचित्पूर्वं शान्त्युदकं कुर्वन्ति केचित्पश्चात्शान्त्युदकं कुर्वन्ति । तां तस्यैव दद्यात् । सर्वत्र शान्त्युदके चातनान्यनुयोजयेत्मातृनामानि च । सर्वत्र वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं दक्षिणा । सर्वत्र श्राद्धं कुर्यात् । सर्वत्र एषा दक्षिणा दातव्या । उक्ता दक्षिणा सापि तं दातव्या ॥ अष्टादशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११० ॥


________________________________


अथ मानुषीयमलजनने शान्तिरुच्यते
[अथ चेन्मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ कौशिकसूत्र १३,१९{१११}.१ ॥
एवं परिस्तीर्य ॥ कौशिकसूत्र १३,१९{१११}.२ ॥
एवमुपसाद्य ॥ कौशिकसूत्र १३,१९{१११}.३ ॥
उपस्थे जातकावाधाय ॥ कौशिकसूत्र १३,१९{१११}.४ ॥
एतेनैव सूक्तेनाज्यं जुह्वन् ॥ कौशिकसूत्र १३,१९{१११}.५ ॥
अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं सम्पातानानयति ॥ कौशिकसूत्र १३,१९{१११}.६ ॥
उदपात्र उत्तरान् सम्पातान् ॥ कौशिकसूत्र १३,१९{१११}.७ ॥
उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र १३,१९{१११}.८ ॥
तां तस्यैव दद्यात् ॥ कौशिकसूत्र १३,१९{१११}.९ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,१९{१११}.१० ॥
तस्या निष्क्रयो यथार्हं यथासम्पद्वा ॥ कौशिकसूत्र १३,१९{१११}.११ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽएकैकयैषाऽ इति सूक्तेनाज्यं जुह्वन्मानुषीपुत्रयोर्मूर्ध्नि सम्पातानानयति । यथापूर्वमुदपात्रे उत्तरसम्पातानानयति । उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकादि कंसादीनि च । यमलजननीं स्त्रियं कर्त्रे दद्यात् । तस्या निष्क्रयो यथार्हं यथासम्पद्वा । मानुषीयमलजनने शान्तिः समाप्ता ॥ एकोनविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १११ ॥


________________________________


अथ लोहिते गोदुग्धे शान्तिरुच्यते
[अथ यत्रैतद्धेनवो लोहितं दुहते यः पौरुषेयेण क्रविषा समङ्क्ते (८.३.१५१८) इत्येताभिश्चतसृभिर्जुहुयात् ॥ कौशिकसूत्र १३,२०{११२}.१ ॥
वरां धेनुं कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,२०{११२}.२ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२०{११२}.३ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽयः पौरुषेयेण क्रविषा समङ्क्तेऽ इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वरमनड्वाहनिवृत्तिः । अन्यां वरां धेनुं कर्त्रे दद्यात् । कंसादीनि च । लोहितदुग्धे अद्भुतशान्तिः समाप्ता ॥ विंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११२ ॥


________________________________


अथानड्वाहो धेनुं धयति तत्र शान्तिरुच्यते
[अथ यत्रैतदनड्वान् धेनुं धयति तत्र जुहुयात् ॥ कौशिकसूत्र १३,२१{११३}.१ ॥
अनड्वान् धेनुमधयदिन्द्रो गो रूपमाविशत् । स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः । इन्द्राय स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,२१{११३}.२ ॥
मा नो विदन् (१.१९), नमो देववधेभ्यः (६.१३) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौशिकसूत्र १३,२१{११३}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२१{११३}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽअनड्वान् धेनुम्ऽ इत्यृचाऽमा नो विदन्ऽ,ऽनमो देववधेभ्यःऽ इत्येताभ्यां सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ एकविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११३ ॥


________________________________


अथ धेनुर्धेनुं धयति शान्तिरुच्यते
[अथ यत्रैतद्धेनुर्धेनुं धयति तत्र जुहुयात् ॥ कौशिकसूत्र १३,२२{११४}.१ ॥
योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मामग्ने परि पाहि घोरात्प्र नो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,२२{११४}.२ ॥
दिव्यो गन्धर्वः (२.२) इति मातृनामभिर्जुहुयात् ॥ कौशिकसूत्र १३,२२{११४}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२२{११४}.४ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽयोगक्षेमं धेनुम्ऽ इतिऽदिव्यो गन्धर्वःऽ इति मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । धेनुर्धेनुं धयति शान्तिः समाप्ता ॥ द्वाविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११४ ॥


________________________________


अथ यत्रैतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वा आकाशफेनं भक्षयति तत्र शान्तिरुच्यते
[अथ यत्रैतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात् ॥ कौशिकसूत्र १३,२३{११५}.१ ॥
पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥
पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पतत्रिषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं वशिनी नो अद्य प्रदत्ता द्यावापृथिवी अहृणीयमाना इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,२३{११५}.२ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२३{११५}.३ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽपयो देवेषुऽ सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गौर्वाश्वो वाश्वतरो वा पुरुषो वेत्यादि फेनं भक्षयति तत्राद्भुतशान्तिः समाप्ता ॥ त्रयोविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११५ ॥


________________________________


अथ यत्रैतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र शान्तिरुच्यते
[अथ यत्रैतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ कौशिकसूत्र १३,२४{११६}.१ ॥
भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा ॥ शतारुणाय स्वाहा ॥ कौशिकसूत्र १३,२४{११६}.२ ॥
यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा ॥ यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा ॥ यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा ॥ य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा ॥ यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा ॥ यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा ॥ य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा ॥ कौशिकसूत्र १३,२४{११६}.३ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽभुवाय स्वाहाऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । रक्ता कृष्णा पीता वा बहुशः पिपीलिका भवन्ति तत्र शान्तिः ॥

अथ पिपीलिकाभिचार उच्यते
[ताश्चेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय ॥ कौशिकसूत्र १३,२४{११६}.४ ॥
शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य ॥ कौशिकसूत्र १३,२४{११६}.५ ॥
विषावध्वस्तमिङ्गिडमाज्यं शाकपलाशेनोत्पूतं बाधकेन स्रुवेण जुहोति ॥ कौशिकसूत्र १३,२४{११६}.६ ॥
उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति ॥ फड्ढताः पिपीलिकाः इति ॥ कौशिकसूत्र १३,२४{११६}.७ ॥
इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चन्द्रो वः प्रजापतिर्व ईशानो वः इति ॥ कौशिकसूत्र १३,२४{११६}.८ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वा शरमयं बर्हिरुभयतः परिच्छिन्नं प्रसव्यं परिस्तरणं विषावध्वस्तमिङ्गिडमाज्यम् । शाकपलाशेनाज्यस्य उत्पवनं बाधकेन स्रुवेण होमः ।ऽउत्तिष्ठत निर्द्रवतम्ऽ इति सूक्तेन इङ्गिडं जुहोति । यथार्थमुदर्कान् योजयेत् ।ऽउक्तानुक्तस्यऽ इति पञ्चपटलिकायामुक्तं पुनरुक्तलक्षणम् ।ऽअनुषङ्गो वाक्परिसमाप्तिःऽ मीमांसायाम् ।ऽयमो वः सर्वासां साकम्ऽ ।ऽवरुणो वः सर्वासाम्ऽ ।ऽअग्निर्वः सर्वासाम्ऽ ।ऽवायुर्वः सर्वासाम्ऽ ।ऽसूर्यो वः सर्वासाम्ऽ ।ऽचन्द्रो वः सर्वासाम्ऽ ।ऽप्रजापतिर्वः सर्वासाम्ऽ ।ऽईशानो वः सर्वासाम्ऽ ।ऽसाकं गर्भानाण्डानि भेत्स्यति । फड्ढताः पिपीलिकाःऽ । प्रतिमन्त्रमुच्चारयति । पार्वणाद्युत्तरतन्त्रम् । पिपीलिकाभिचारशान्तिः समाप्ता । अन्या यदि पिपीलिका दृष्ट्वा व्याधिं जनयति रक्तकृष्णश्वेतपीतनीला अनेकविधाः पिपीलिका गृहे भवन्ति । अग्निशरणे वा क्षेत्रे वा नगरे वा ग्रामे वा अपि बहुशो भवन्ति । अन्नमध्ये रसमध्ये घृते वा आजात्वता दृश्यन्ते तत्राभिचारः क्रियते ॥ चतुर्विंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११६ ॥


________________________________


अथ मक्षिकाशान्तिरुच्यते
[अथ यत्रैतन्नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ कौशिकसूत्र १३,२५{११७}.१ ॥
या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,२५{११७}.२ ॥
वात आ वातु भेषजमित्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,२५{११७}.३ ॥
वात आ वातु भेषजं शम्भु मयोभु नो हृदे । प्र ण आयूंषि तार्षत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो धेहि जीवसे इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,२५{११७}.४ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२५{११७}.५ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽया मत्यैः सरथम्ऽ इति सूक्तेनऽवात आ वातु भेषजम्ऽ इति सूक्तेन च द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । नीलमक्षिका गृहे पतति अन्यवर्णा वा भवन्ति मक्षिकाशान्तिः समाप्ता ॥ पञ्चविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११७ ॥


________________________________


अथ मधुजालके गृहे लग्न शान्तिरुच्यते
[अथ यत्रैतन्मधुमक्षिका अनाचाररूपा दृश्यन्ते मधु वाता ऋतायते (Kऔश्ष्९१.१) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,२६{११८}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२६{११८}.२ ॥]
शान्त्युदकमाज्यभागान्तं कृत्वाऽमधु वाता ऋतायतेऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मधुजालके गृहे लग्नेऽभ्यन्तरे बहिर्वा दृष्टदेशे वा लग्ने तत्र शान्तिः समाप्ता ॥ षड्विंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११८ ॥


________________________________


अथ सर्वाद्भुतेषु शान्तिरुच्यते
[अथ यत्रैतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात् ॥ कौशिकसूत्र १३,२७{११९}.१ ॥
यदनाज्ञातमनाम्नातमर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात्पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा ॥ कौशिकसूत्र १३,२७{११९}.२ ॥
वायो, सूर्य, चन्द्र इति च ॥ कौशिकसूत्र १३,२७{११९}.३ ॥
पुरुषसम्मितोऽर्थः कर्मार्थः पुरुषसम्मितः । वायुर्मा तस्मात्पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा ॥ कौशिकसूत्र १३,२७{११९}.४ ॥
अग्निर्मा, सूर्यो मा, चन्द्रो मा इति च ॥ कौशिकसूत्र १३,२७{११९}.५ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽयदाज्ञातम्ऽ इतिऽपुरुषसम्मितःऽ सूक्ताभ्यामाज्यं जुहुयात् ।ऽयथार्थमुदर्कान् योजयेत्ऽ (Kऔश्ष्८.२२) इत्यत्रैवोक्तम् ।ऽअनुषङ्गो वाक्यपरिसमाप्तिःऽ (जैसू २.१.४८) इति मीमांसायाम् ।ऽउक्तानुक्तस्यऽ इत्युक्तं पञ्चपटलिकायाम् । पार्वणाद्युत्तरतन्त्रम् ॥
अनाज्ञातेऽद्भुते यद्ग्रन्थे न पठ्यते तत्सर्वमनाज्ञातमित्युच्यते । यदपि परिशिष्टेषु पठ्यते सर्वे गृहे प्रविष्टे सर्वमेवाल्पकं दृष्ट्वा सर्वसम्मितो वायुं सम्भ्रमे उदकप्रादुर्भावे गमनेषु धनुःसन्ध्योल्काः परिवेषाः विद्युद्दण्डाशनिपरिप्रपरिघार्द्धे निर्घाते रजोवर्षौपलवर्षदक्षिमधुघृतवर्षमज्जारुधिरवर्षतिहीनगभस्ती द्वे मार्गे विद्युत्वित्तक्षये सोमस्य क्षये पूर्णपूरणे क्षयस्यवभासा सद्योपररात्रादि दिग्दाहोपधूपनग्रहवैषम्यमारोहणमाक्रमणं गन्धर्वनगरमारुतप्रकोपः तिथिकरणमुहूर्तनक्षत्रयोगध्रुवककानि ग्रहादीनां समवियोगः । प्रतिस्रोतगामिन्यो नद्यः । प्रस्रवणानि च । प्रासादतोरणाट्टालध्वजछत्रे च वायसाः समवायाद्वृकशकटारोहणम् । वृषदंशाभिघातमज्जनम् । सुलभममुलूकप्रतिगर्जनम् । श्येनाश्च तानि गृध्रादीनां ध्वजालिङ्घनम् । विकृताश्च मानुषो मनुजा मनुषप्रभवाः स्त्रियो वा बालं वा वृद्धं वा प्रलापाः युवानः वा युवतरः प्रलपति प्रदीप्तेन्द्रिययष्टिपादभङ्गे द्रव्ये द्विच्छायाप्रतिच्छायामृज्यतमपृक्तम् । अत ऊर्ध्वं छायामधछायामध्यछायोर्ध्वछाया अकस्माच्चैत्यवृक्षस्तम्भपतने विरोहणात्स्कन्धरोहे मष्टत्यछिन्नपर्ण प्रमा वा शुष्को वा शुष्कशाखिनो धूमरजतौदकप्रादुर्भावगमनेषु वनस्पतिषु वनतरुषु बाहुशस्त्रभङ्गे वा इन्द्रनीलगोपुराट्टालकादि ध्वजछत्रादीनां भङ्गेषु वा भङ्गः उचितान्यभ्युच्छेदनेऽनुचितानां प्रवर्तने दृढभङ्गे वा शुष्कविरोहे गृहे वल्मीके शयनदेशे गर्भास्तस्योत्पत्तौ विपरीतौ मित्रप्रीतौ च देवतार्चनयोः अनयोः छेदने यत्र च राजा प्रसृत्यादिषु च भवन्ति । भवन्ति चात्र श्लोकाः
यदा तु प्रकृतिः सोमः विपरीतं हि दृश्यति.
मध्ये छिद्रमिति दृश्येत्मरणं राजगोचरम् ॥
यदा तु प्रतिपत्सोमः प्रकृत्या विकृतो भवेत्.
अनुद्भिन्नो विलूने वा राज्ञो मरणमादिशेत् ॥
आयुधाकाररूपाणि शतवर्णाकृतीनि च.
पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥
यदा चन्द्रार्कयोर्मध्ये कृष्णं भवति मण्डलम्.
सं शङ्कुरिति विज्ञेयो ग्रहः परमदारुणः ॥
तत्र राजा वधं विन्द्यात्सर्वभूतभयावहम्.
तत्र कुर्यान्महाशान्तिममृतां विश्वभेषजीम् ॥
अथ यस्मिन्नेव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां स्त्रीणां वाप्यपरः प्रवर्तन्ते तद्भुतं विद्यात् । तत्कर्मसङ्करं यजनव्यवहारयज्ञसङ्करं च भवतः । यत्र च धर्मोऽधर्मेण पीड्यते तत्र धर्मो अधर्मेषु तदाद्भुतं विद्यात् । ब्राह्मणक्षत्रियवैश्यशूद्रादि परस्परं बाधते एतेषु यदि शान्तिं न कुर्यात्तदा महाद्भुतानि भवन्ति । देवताप्रादुर्भावगमनेषु परवन्ते च अनृते गवां रोगे प्रवृत्ते । दुर्भिक्षे च जनपदादिविनाशे आदित्यभेदेषु मूषिकेषु प्रवृत्तेषु कीटपतङ्गे मत्कुणयूकालिक्षापक्षिणे प्रवृत्ते राजकुलवादे अश्वास्त्रं शस्त्रं वा गृहसर्वगजवाजिवस्त्रालङ्कारपीठिकाव्यञ्जनानि अग्निना प्रदहेत अरिष्टदर्शने शान्तिभेदः । पृथिव्यामन्तरिक्षे दिव्ये च एषा शान्तिः । सेवितं राजमश्वानां पक्षिणां मृगाणां षण्मुखानां तथा रूपाणि विकृतानि यत्रारण्यं च पथि च तथा राजा दर्वीनां कृतत्रिताक्षीणां ग्रामे कुले वा यदि वापि देशे राजन्यमान्येषु तथा द्विजेषु भावः पशूनां विकृतौ रूपः तथा मानुषे च.
अथ स्वनक्षत्रं अहोपहतमुल्काभिहतं ग्रस्तं निरस्तमुपधूपितं वा यदस्योज्जन्मनक्षत्रं कर्मनक्षत्रमभिषेचनीयं जनपदनक्षत्रं राजष्टमे चन्द्रमसः स्थाने वज्रेऽवसृष्टे स्कम्भे वावसृष्टे स्कन्धे वावसृष्टे नानारूपबहुरूपे शृङ्गिणि वादित्येन किलवति चेम्बुदनि चोल्काभिहते कम्बु धुवति षवति हसति हासे भासे नादे शब्दे वासते च वैश्वानरप्रज्वलिते अन्तरिक्षे च भस्म अस्थि अङ्गारा गृहे वा शिरसि वा पतन्ति वीध्री चेन्द्रधनुषि रात्रौ वीध्र एव तु चन्द्रार्कनक्षत्रग्रहतारादि परिखे काककपोतगृध्रयक्षराक्षसपिशाचश्वापदेषु रात्रौ वदत्सु गायत्सु वाद्यत्सु वाते प्रादुर्भावगमने चक्रध्वजवेश्मावसवप्रसादाग्रां वा कूप उदधाने चोद्गिरति नदति विद्योतति रथयन्त्रप्रवहणवादित्राणि सूक्तादयोद्गारा धूमर्चि वा प्रादुर्भावलिङ्गाङ्गविलिङ्गे राज्ञः प्रादुर्भावे वा राज्ञी राजा काकोलूककृकलासगृहगोधिकावासेनाधिपतिते राजछत्रे भग्ने ध्वजे शुक्रस्य भग्ने राज्ञे दण्डस्य भग्ने हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायां राजरथश्च राजाधिरूढो भग्नाक्षः सप्तरात्रौ राज्ञो हन्ति । पुरोहितविनाशे वा सेनापतिनाशे हस्तिनं महिषीविनाशे कुमारविनाशे पशुमानुषे वा विकारः । द्विशीर्षा प्रतिशीर्षा वा पादहस्ति तथैव च द्विनासिकः तथा हीनाधिकाङ्गुलिविनाशे तैस्तु जायते । तथा पादजङ्घयोः कर्णनासिकाविनाशे शिरच्छेदस्तु जायते ॥
बीजं यत्र प्ररोहेत फलमध्ये प्रमादतः.
मध्वाज्यदधिदुग्धेषु भक्षमाणे विलेपने.
यन्त्रवाहनहर्म्येषु भवनेष्वायुधेषु च.
काकोलूककपोतानामद्वीर्वा दर्शनं भवेत्.
अन्ये च प्रश्नानामगमे मृगपक्षिणाम्.
कृष्णयुग्मानां दर्शनं गृहे वामिततेजसः.
सर्पाणां दर्शनं चैव सरीसृपगणस्य वा.
विकारा यत्र दृश्यन्ते क्षीरौदनहविःषु वा.
आयुर्जनानां पुरुषस्य तथायुष्यस्य युञ्जनात्.
यान्ति यानान्ययुक्तानि विना वातैर्नृभिस्तथा.
युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम्.
भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्यनाहताः.
आहताश्च न वाद्यन्ते अचलानि चलन्ति वा.
अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः.
गोष्ठो वा नृत्यते यत्र हस्ते दर्वी कदाचन.
पतते मुसलं यत्र हन्यमाने विशेषतः.
उलूखलं शूर्पं वा धूयते स्वयम्.
पाषाणः कूपं पर्वताप्रसर्पणे.
गोलाङ्गलानां संसर्गे विकारश्चन्द्रसूर्ययोः.
नारी वा धयते नारीं जायते तण्डुलं भयम्.
प्रत्याहारं विसर्पन्ति स्तम्बपाषाणपादपाः.
शकुनानां पयसि तथैव मृगपक्षिणाम्.
अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे.
योनिव्यतिकरे वैधा मांसशोणितवर्षणे.
अनग्निज्वलने चैव तथा नाभ्रवर्षणे.
शस्त्रप्रज्वलने चैव चैत्यशुष्कावरोहणे.
लिङ्गायतनचित्राणां रोदने गर्जने तथा.
उदधाने तडागानां ज्वलने गर्जितेऽपि वा.
मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे.
गीतवादित्रशब्दास्तु यत्र स्युरनिमित्ततः.
ये चान्ये किञ्चिदुत्पाता जायन्ते विकृतात्मकाः.
तेषां सर्वेषामुत्पातानामेषा शान्तिर्विधीयते.
चन्द्रप्रातिपदिके ग्रहयुद्धे ग्रहसङ्ग्रहे राहुचारे केतुचारे राहुकेतुलक्षणे कूमविभागे मण्डलेषु दिग्दाहेषु उल्कापतनेषु विद्युत्पतनेषु विद्युद्दर्शनेषु निर्घातपतनेषु चन्द्रसूर्ययोः परिवेषे नक्षत्रग्रहोत्पातलक्षणे उत्पातलक्षणे सद्योवृष्टिलक्षणे अद्भुतशान्तिपठितेषु स्वप्नाध्यायपठितेषु दुःस्वप्नेषु सर्वेषु यदाज्ञाता शान्तिः । अथर्वहृदयेषु अद्भुतेषु पठितेषु भार्गवीयेषु पठितेषु गार्ग्यपठितेषु अद्भुतेषु बार्हस्पत्यग्रन्थेषु पठितेषु उशनसग्रन्थेषु पठितेषु महाद्भुतेषु पठितेषु इतिहासपुराणे ज्योतिःशास्त्रे अश्ववैद्यके नरवैद्यकेषु पठितेषु अद्भुतेषु सर्वाद्भुतेषु एषा शान्तिः । अथवा महाशान्तिरमृता घृतकम्बलं कोटिहोमः सर्वाद्भुतेषु कौशिकापठितेषु एषा शान्तिः महाशान्तिर्वा विकल्पातिति भाष्यकारः ॥ सप्तविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका ११९ ॥


________________________________


अग्निशरणे वा समज्यायां वावदरणे शान्तिरुच्यते
[अथ यत्रैतद्ग्रामे वावसाने वाग्निशरणे वा समज्यायां वावदीर्येत चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी ॥ कौशिकसूत्र १३,२८{१२०}.१ ॥
तासामेतद्द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ कौशिकसूत्र १३,२८{१२०}.२ ॥
द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय ॥ कौशिकसूत्र १३,२८{१२०}.३ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन सन्नीय ॥ कौशिकसूत्र १३,२८{१२०}.४ ॥
अग्निर्भूम्याम् (१२.१.१९२१) इति तिसृभिरभिमन्त्र्यालभ्य ॥ कौशिकसूत्र १३,२८{१२०}.५ ॥
अथ जुहुयात् ॥ कौशिकसूत्र १३,२८{१२०}.६ ॥
तथा दक्षिणार्धे ॥ कौशिकसूत्र १३,२८{१२०}.७ ॥
तथा पश्चार्धे ॥ कौशिकसूत्र १३,२८{१२०}.८ ॥
उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात् ॥ कौशिकसूत्र १३,२८{१२०}.९ ॥
अवदीर्णे सम्पातानानीय संस्थाप्य होमान् ॥ कौशिकसूत्र १३,२८{१२०}.१० ॥
अवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौशिकसूत्र १३,२८{१२०}.११ ॥
ता एव ब्राह्मणो दद्यात् ॥ कौशिकसूत्र १३,२८{१२०}.१२ ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौशिकसूत्र १३,२८{१२०}.१३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२८{१२०}.१४ ॥]
चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी । तासामेतद्द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरतः शान्त्युदकादि आज्यभागान्तं कृत्वा श्वेताया आज्येन ओदनं सन्नीय ततःऽअग्निर्भूम्याम्ऽ इति तिसृभिरन्वालभ्य गृहं ततः पूर्वतो जुहोति । तथा कृष्णाया दक्षिणार्धे तथा रोहिण्या दक्षिणार्धे तथा सुरूपाया दक्षिणार्धे तस्मिन्नेवाग्नौ ओदनमाज्येन सन्नीय ततो वास्तोष्पत्येन गणेनाज्यं जुह्वन्नवदीर्णदेशं सम्पातानानयति । पार्वणाद्युत्तरतन्त्रम् । ततोऽवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य गां ददाति । सर्वत्र धेन्वादीनि च । गृहे पतिते ग्रामे वा श्मशाने वा अग्निशरणे वा क्षेत्रभूमिपातने भूमिच्छिद्रदर्शने भूमिपाते गृहपाते ग्रामादिपतने एषा शान्तिः । अथवा चतुर्दिक्षु चत्वारि वा तन्त्राणि यथासङ्ख्यम् । श्वेताकृष्णादि प्रतिदिशं जुहोति । पूर्वार्धे जुहोति । पूर्वतन्त्रे दक्षिणा धेनुः सर्वत्र । तन्त्रोपवेशनखिम् (?) तन्त्रे वेद्युत्तरवेदितन्त्रम् । ततः शङ्खाद्याः सम्पाताः । सर्वस्मिन् तन्त्रे भवति दारिलमतम् । पूर्वं समाप्य तन्त्रं ततो दक्षिणतः पश्चादुत्तरतः । समाप्य तन्त्रं शान्त्युदकेन सम्प्रोक्ष्य ता गा ब्राह्मणो दद्यात् । सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा । वरं धेन्वादि सर्वत्र दद्यात् । गृहग्रामजनपदे च शान्तिः समाप्ता । अष्टाविंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२० ॥


________________________________


अथ यत्रैतदनुदकदेशे उदकातिशयो भवति तत्र शान्तिरुच्यते
[अथ यत्रैतदनुदक उदकोन्मीलो भवति हिरण्यवर्णाः (१.३३) इत्यपां सूक्तैर्जुहुयात् ॥ कौशिकसूत्र १३,२९{१२१}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,२९{१२१}.२ ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वाऽहिरण्यवर्णाःऽऽयददःऽ (३.१३) इत्यपां सूक्तैः सर्वैः आज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अनुदकदेशे यद्यतिशयेन उदकं दृश्यते । उदकोन्मीलनशान्तिः समाप्ता ॥ ऊनत्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२१ ॥


________________________________


अथ तिलाः समतला भवन्ति तत्र शान्तिरुच्यते
[अथ यत्रैतत्तिलाः समतैला भवन्ति तत्र जुहुयात् ॥ कौशिकसूत्र १३,३०{१२२}.१ ॥
अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा ॥ कौशिकसूत्र १३,३०{१२२}.२ ॥
स यं द्विष्यात्तस्याशायां लोहितं ते प्र सिञ्चामि इति दक्षिणामुखः प्रसिञ्चेत् ॥ कौशिकसूत्र १३,३०{१२२}.३ ॥]
शान्त्युदकादि आज्यभागान्तं कृत्वाऽअनूनाय स्वाहाऽ इत्येतैश्चतुर्भिराज्यं जुहोति । स यं द्विष्यातिति मन्त्रेण दक्षिणामुखो भूत्वा शान्त्युदकेन तिलान् सिञ्चेत् । पार्वणाद्युत्तरतन्त्रम् । यदा तैलं न भवति तदा शान्तिः । तिलाः समतैलभवने शान्तिः समाप्ता ॥ त्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२२ ॥


________________________________


अथ वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगच्छेयुस्तत्र शान्तिरुच्यते
[अथ यत्रैतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुः ये अग्नयः (३.२१) नमो देववधेभ्यः (६.१३) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौशिकसूत्र १३,३१{१२३}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३१{१२३}.२ ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वाऽये अग्नयःऽ,ऽनमो देववधेभ्यःऽ इत्येताभ्यां सूक्ताभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वपादि गच्छेयुः शान्तिः ॥ एकत्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२३ ॥


________________________________


अथ कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्ते शान्तिरुच्यते
[अथ यत्रैतत्कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात् ॥ कौशिकसूत्र १३,३२{१२४}.१ ॥
त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ कौशिकसूत्र १३,३२{१२४}.२ ॥
अन्तर्गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ कौशिकसूत्र १३,३२{१२४}.३ ॥
यद्युन्मृष्टं यदि वाभिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा ॥ कौशिकसूत्र १३,३२{१२४}.४ ॥
सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुःषु । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३२{१२४}.५ ॥
त्वष्टा मे दैव्यं वचः (६.४) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,३२{१२४}.६ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३२{१२४}.७ ॥]
शान्त्युदकाद्याज्यतन्त्रं कृत्वाऽत्वष्टा रूपाणि बहुधाऽ इति सूक्तेनाज्यं जुहुयात् ।ऽत्वष्टा मे दैव्यं वचःऽ इत्येतेन सूक्तेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ द्वात्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२४ ॥


________________________________


अथ यूपो विरोहति शान्तिरुच्यते
[अथ यत्रैतद्यूपो विरोहति तत्र जुहुयात् ॥ कौशिकसूत्र १३,३३{१२५}.१ ॥
यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन्यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकम् ॥ यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पतये स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३३{१२५}.२ ॥
वनस्पतिः सह देवैर्न आगन् (१२.३.१५) इति जुहुयात् ॥ कौशिकसूत्र १३,३३{१२५}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३३{१२५}.४ ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वाऽयूपो विरोहञ्छतशाखःऽ इत्येतेनाज्यं जुहुयात् ।ऽवनस्पतिः सह देवैर्नऽ इत्यृचा जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ त्रयस्त्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२५ ॥


________________________________


अथ दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा शान्तिरुच्यते
[अथ यत्रैतद्दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा ॥ कौशिकसूत्र १३,३४{१२६}.१ ॥ तत्र]
राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात् ॥ कौशिकसूत्र १३,३४{१२६}.२ ॥
स वृतोऽरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत् ॥ कौशिकसूत्र १३,३४{१२६}.३ ॥
स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथोत्तरं त्रिरात्रं नान्यदुदकात् ॥ कौशिकसूत्र १३,३४{१२६}.४ ॥
श्वो भूते सप्त धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी नीली पाटला सुरूपा बहुरूपा सप्तमी ॥ कौशिकसूत्र १३,३४{१२६}.५ ॥
तासामेतद्द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ कौशिकसूत्र १३,३४{१२६}.६ ॥
[द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय ॥ कौशिकसूत्र १३,३४{१२६}.७ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः ॥ कौशिकसूत्र १३,३४{१२६}.८ ॥
अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैः यामाहुस्तारकैषा विकेशी (५.१७.४) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ कौशिकसूत्र १३,३४{१२६}.९ ॥
अवपतिते सम्पातानानीय संस्थाप्य होमान् ॥ कौशिकसूत्र १३,३४{१२६}.१० ॥]
द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति ततः शान्त्युदकादि आज्यभागान्तं कृत्वा अमुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण होमं कुर्यात् ।ऽस्तुवानम् (१.७)ऽ,ऽइदं हविः (१.८)ऽ इत्यादिचातनगणेनऽयामाहुस्तारकैषा विकेशीऽ (५.१७.४१८) इति सूक्तेन । सूक्तसमाप्तिं यावद्ग्रहणम् । एतैराज्यं जुहोति । अवपतिते सम्पातानानीय । उल्कादेशे सम्पाताः । पार्वणाद्युत्तरतन्त्रम् ॥

अवपतितं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौशिकसूत्र १३,३४{१२६}.११ ॥
ता एव ब्राह्मणो दद्यात् ॥ कौशिकसूत्र १३,३४{१२६}.१२ ॥
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ कौशिकसूत्र १३,३४{१२६}.१३ ॥
[सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३४{१२६}.१४ ॥]
सर्वत्र धेन्वादीनि च कंसवसनं च । उल्कापाते वा महानक्षत्रपाते च दिवा अहनि दिवा उल्कापातने शान्तिः समाप्ता ॥ चतुस्त्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२६ ॥


________________________________


अथ धूमकेतुशान्तिरुच्यते
[अथ यत्रैतद्धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम् ॥ कौशिकसूत्र १३,३५{१२७}.१ ॥
पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनोऽपां नप्त्र उद्रः ॥ कौशिकसूत्र १३,३५{१२७}.२ ॥
उतेयं भूमिः (४.१६.३) इति त्रिर्वरुणमभिष्टूय ॥ कौशिकसूत्र १३,३५{१२७}.३ ॥
अप्सु ते राजन् (७.८३.१४) इति चतसृभिर्वारुणस्य जुहुयात् ॥ कौशिकसूत्र १३,३५{१२७}.४ ॥
वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठमा कृधि वातो हि रशनाकृतः इति वायव्यस्य ॥ कौशिकसूत्र १३,३५{१२७}.५ ॥
आशानाम् (१.३१) इति दिश्यस्य ॥ कौशिकसूत्र १३,३५{१२७}.६ ॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि इति मारुतस्य ॥ कौशिकसूत्र १३,३५{१२७}.७ ॥
अपामग्निः (४.१५.१०) इत्याग्नेयस्य ॥ कौशिकसूत्र १३,३५{१२७}.८ ॥
प्रजापतिः सलिलात्(४.१५.११) इति प्राजापत्यस्य ॥ कौशिकसूत्र १३,३५{१२७}.९ ॥
अपां सूक्तैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् ॥ कौशिकसूत्र १३,३५{१२७}.१० ॥
प्र हैव वर्षति ॥ कौशिकसूत्र १३,३५{१२७}.११ ॥
सर्वस्वं तत्र दक्षिणा ॥ कौशिकसूत्र १३,३५{१२७}.१२ ॥
तस्य निष्क्रयो यथार्हं यथासम्पद्वा ॥ कौशिकसूत्र १३,३५{१२७}.१३ ॥]
एकतन्त्रे वा कुर्यात्पृथक्तन्त्रे वा कुर्यात् । द्वादशरात्रव्रतं शाकमूलफलभक्षो नवरात्रमश्नन्ति । एवं द्वादशरात्रौ भूत्वा त्रयोदशेऽहनि कर्मप्रयोगः । पाकतन्त्रमाज्यभागान्तं कृत्वा पञ्च पशवस्तायन्ते वारुणः कृष्णोऽजः वायवो हरितोऽजः दिश्यो बहुरूपोऽजः मारुती मेषी अपां नप्त्रे उद्रः जलविरालः बिडालो वा आग्नेयश्च प्राजापत्यश्च क्षीरौदनौ । मन्त्रमध्ये श्रपणम् । अन्वारब्धेभ्यः शान्त्युदकं करोति । तत्रैतत्सूक्तमनुयोजयतीत्युक्तम् । शान्त्युदकस्य च । महाशान्तिमुच्चैरभिनिगदन्तीति सकृतेवमादीनि योजयितव्यानि । पशुविशसनादीनि वपाग्रहणं च सकृत् । सर्वेषां समानतन्त्रपक्षः । पूर्वप्रकृतिपक्षे आज्यतन्त्रं सर्वत्र वर्तते । यद्देवत्यः पशुस्तद्देवत्यश्चरुः श्रपयितव्यः । उदस्य पर्यग्निकरणान्तं कुर्यात् । वपाहोमान्ते पश्वितिकर्तव्यता । ततोऽवदानानि ददाति । जुहोतीत्यर्थः ।ऽउतेयं भूमिःऽ इत्यृचाग्निप्रयोगः । वरुणं मनसा ध्यायेत् ।ऽअप्सु ते राजन्ऽ इति चतसृभिः वारुणस्य पशोरवदानानि जुहुयात्प्रत्यृचं स्थालीपाकं च । तथाऽवायवा रुन्धि नःऽ इति वायव्यस्य ।ऽआशानाम्ऽ इति सूक्तेन प्रत्यृचं दिश्यस्य पशोः स्थालीपाकं चैव ।ऽप्रति त्यं चारुमध्वरम्ऽ इत्यृचा मारुतस्य पशोरवदानं चरोश्च ।ऽअपामग्निःऽ इत्यृचाग्नेयपशोराग्नेयं क्षीरौदनं जुहोति ।ऽप्रजापतिः सलिलादाऽ इत्यृचा प्रजापतिक्षीरौदनं जुहोति द्वितीयाम् ।ऽनिःसालाभित्युल्मुकेन त्रिः प्रसव्यं परिहरतिऽ (Kऔश्ष्४४.११) इति । तन्त्रं कृत्वा ततोऽपां सूक्तैः सर्वैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् । पाशुकं तन्त्रं समापयेत् । यवैः स्विष्टकृतं ददाति । व्यापकरदापदार्थो भेदेन आरादुपकारतन्त्रेण भवति । एवं मीमांसा योजयितव्या
। शेषं समानम् । तन्त्रपक्षे अतिदेशो विशेषातिदेशो योजयितव्यः । ऊहबाधाभ्युदयतन्त्रं मङ्गललक्षणानि योजयितव्यानि । समाप्ता धूमकेतुशान्तिः । धूमकेतु(चा)रे वा नान्यो धूमकेतुर्विद्यते । तथा केतुचारे
उत्थानं चैव केतूनां विनाशायेति हि स्मृतम्.
तस्मा(दा)थर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
सर्वस्वं तत्र दक्षिणा । तस्य निष्क्रयो यथार्हं यथासम्पद्वा । केतु(चा)रे पठिता केतु(शान्तिः) । पञ्चत्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२७ ॥


________________________________


अथ नक्षत्राणि पतन्ति तत्र शान्तिरुच्यते
[अथ यत्रैतन्नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् ॥ कौशिकसूत्र १३,३६{१२८}.१ ॥
यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मामग्ने परि पाहि घोरात्प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३६{१२८}.२ ॥
सोमो राजा सविता च राजा इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,३६{१२८}.३ ॥
सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ कौशिकसूत्र १३,३६{१२८}.२ ॥
उताविद्वान्निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिमिछत ॥ कौशिकसूत्र १३,३६{१२८}.४ ॥
रुक्मं कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,३६{१२८}.५ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३६{१२८}.६ ॥]
शान्त्युदकाद्याज्यभागान्तं कृत्वाऽयन्नक्षत्रं पतति जातवेदःऽ इत्येका,ऽसोमो राजाऽ इति सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुक्मं कर्त्रे दद्यात् । धेन्वादीनि च । नक्षत्रपतने उपर्युपरिपतने बहुशःपतने रात्रौ वा दिवा वा सन्ध्यायां वा नक्षत्रपतने शान्तिः समाप्ता । सर्वत्र पूर्वं शान्त्युदकं कृत्वा तत उत्तरवेद्यादि करोति । केचित्प्रधानहोमं कृत्वा ततः शान्त्युदकं करोति । तत उत्तरतन्त्रम् ॥ षट्त्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२८ ॥


________________________________


अथ मांसमुखो निपतति तत्र शान्तिरुच्यते
[अथ यत्रैतन्मांसमुखो निपतति तत्र जुहुयात् ॥ कौशिकसूत्र १३,३७{१२९}.१ ॥
घोरो वज्रो देवसृष्टो न आगन् यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३७{१२९}.२ ॥
भवाशर्वौ मृडतं माभि यातम् (११.२) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,३७{१२९}.३ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३७{१२९}.४ ॥]
तासामेतद्द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । त्रयोदशेऽहनि शान्त्युदकाद्याज्यभागान्तं कृत्वा यथामुं नवनीतं सौवर्णस्थाल्यां विलाप्य सौत्रशान्तिरुच्यते । शान्त्युदकाद्याज्यभागान्तं कृत्वाऽघोरो वज्रःऽ इत्यृचा,ऽभवाशर्वौ
मृडतम्ऽ इति सूक्तेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गृध्रादिष्वाहिपतति मांसमुखः मांसं चागतगृहे मांसमुखे निपतनशान्तिः समाप्ता ॥ गृहे ग्रामे क्षेत्रे वा नगरे शिरसि अङ्गे वा मांसं पतति तत्र शान्तिः समाप्ता ॥ सप्तत्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १२९ ॥


________________________________


अथ यत्र अनग्निदेशे अग्निदर्शनं भवति तत्र शान्तिरुच्यते
[अथ यत्रैतदनग्नाववभासो भवति तत्र जुहुयात् ॥ कौशिकसूत्र १३,३८{१३०}.१ ॥
या तेऽवदीप्तिवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३८{१३०}.२ ॥
अग्नी रक्षांसि सेधति (८.३.२६) इति प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३८{१३०}.३ ॥]
ऽया तेऽवदीप्तिःऽ इत्येकाऽअग्नी रक्षांसिऽ इत्येका द्वाभ्यां जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकाद्याज्यभागान्तं कृत्वा । अनग्निदेशे गृहे ग्रामे क्षेत्रे वा यदि शालायां प्रदृश्यते अग्निदर्शनं च भवति । अग्निदर्शनं च शान्तिः समाप्ता ॥ अष्टात्रिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३० ॥


________________________________


अथाग्निशब्दकरणे शान्तिरुच्यते
[अथ यत्रैतदग्निः श्वसतीव तत्र जुहुयात् ॥ कौशिकसूत्र १३,३९{१३१}.१ ॥
श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,३९{१३१}.२ ॥
अग्नी रक्षांसि सेधति (८.३.२६) इति प्रायश्चित्तिः ॥ कौशिकसूत्र १३,३९{१३१}.३ ॥]
शान्त्युदकमाज्यभागान्तं कृत्वाऽश्वेता कृष्णाऽ इत्यृचाऽअग्नेरिवास्यऽ (७.४५.२) इति द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अग्निशब्दकरणे शान्तिः समाप्ता ॥ एकोनचत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३१ ॥


________________________________


अथ सर्पिर्वा तैलं वा मधु वा विष्यन्दते तत्र शान्तिरुच्यते
[अथ यत्रैतत्सर्पिर्वा तैलं वा मधु वा विष्यन्दति यद्यामं चक्रुर्निखनन्तः (६.११६) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,४०{१३२}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४०{१३२}.२ ॥]
शान्त्युदकमाज्यभागान्तं कृत्वाऽयद्यामं चक्रुर्निखनन्तःऽ इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । सर्पिस्तैलमधुक्षरणशान्तिः समाप्ता ॥ चत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३२ ॥


________________________________


अथ लौकिकाग्निः शालां दहति तत्र शान्तिरुच्यते
[अथ यत्रैतद्ग्राम्योऽग्निः शालां दहति अपमित्यमप्रतीत्तम् (६.११७११९) इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा ॥ कौशिकसूत्र १३,४१{१३३}.१ ॥
ममोभा मित्रावरुणा, मह्यमापो मधुमदरयन्ताम् (६.६१) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ कौशिकसूत्र १३,४१{१३३}.२ ॥
ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥ ममोभा द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वमात्मन्वदेजत्प्राणद्वशे मम इति ॥ कौशिकसूत्र १३,४१{१३३}.३ ॥
अरणी प्रताप्य स्थण्डिलं परिमृज्य ॥ कौशिकसूत्र १३,४१{१३३}.४ ॥
अथाग्निं जनयेत् ॥ कौशिकसूत्र १३,४१{१३३}.५ ॥
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजाननिति जनयित्वा ॥ कौशिकसूत्र १३,४१{१३३}.६ ॥
भवतं नः समनसौ समोकसौ (Kऔश्ष्१०८.२) इत्येतेन सूक्तेन जुहुयात् ॥ कौशिकसूत्र १३,४१{१३३}.७ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४१{१३३}.८ ॥]
शान्त्युदकमाज्यभागान्तं कृत्वाऽअपमित्यमप्रतीत्तम्ऽ इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं जुहुयात् ।ऽममोभाऽ
इति कल्पजं सूक्तंऽमह्यमापःऽ इति सूक्तं द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । तत अरणी प्रताप्य स्थण्डिलं परिमृज्य अथाग्निं मन्थति ।ऽइत एव प्रथमं जज्ञेऽ इत्यृचा मन्थनम् । तत आज्यभागान्तं कृत्वाऽभवतं नः समनसौऽ इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ग्रामदाघे गृहदाघे अग्निशालाशान्तिमण्डपकुटीगोशालादाघे सर्वाग्निदाघे शान्तिः समाप्ता । शान्त्युदकेन सर्वत्र कारयित्रा वाचमनप्रोक्षणे भवतः । सर्वत्राद्भुतस्थानप्रोक्षणं गृहग्रामादिप्रोक्षणं सर्वं कुर्यात् । सर्वत्र मातरं श्राद्धम् ।ऽब्राह्मणान् भक्तेनोपेप्सन्तिऽ (Kऔश्ष्१३६.१२) इति वचनात् । ग्राम्योऽग्निदाघशान्तिः । एकचत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३३ ॥


________________________________


अथ स्वयमग्निरुत्थिते विद्युते वा पतिते शान्तिरुच्यते
[अथ चेदागन्तुर्दहत्येवमेव कुर्यात् ॥ कौशिकसूत्र १३,४२{१३४}.१ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४२{१३४}.२ ॥]
शान्त्युदकमाज्यभागान्तं कृत्वाऽअपमित्यमप्रतीत्तम्ऽ इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वाऽममोभाऽ इति सूक्तंऽमह्यमापःऽ इति सूक्तं च द्वाभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तस्मिन्नग्नौ अरणिप्रतापनम् । स्थण्डिलं गोमयेन परिलिप्याग्निमन्थनम् ।ऽइत एव प्रथमं जज्ञेऽ इत्यृचा । तत आज्यभागान्तं कृत्वाऽभवतं नः समनसौऽ इत्येतेन सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । विद्युते दाघे गृहे स्वयं प्रकृतिदाघे शान्तिः समाप्ता ॥ द्विचत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३४ ॥


________________________________


अथ वंशबलहरणभङ्गे शान्तिरुच्यते
[अथ यत्रैतद्वंशः स्फोटति कपालेऽङ्गारा भवन्त्युदपात्रं बर्हिराज्यं तदादाय ॥ कौशिकसूत्र १३,४३{१३५}.१ ॥
शालायाः पृष्ठमुपसर्पति ॥ कौशिकसूत्र १३,४३{१३५}.२ ॥
तत्राङ्गारान् वा कपालं वोपनिदधात्या सन्तपनात् ॥ कौशिकसूत्र १३,४३{१३५}.३ ॥
प्राञ्चमिध्ममुपसमाधाय ॥ कौशिकसूत्र १३,४३{१३५}.४ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ कौशिकसूत्र १३,४३{१३५}.५ ॥
परिचरणेनाज्यं परिचर्य ॥ कौशिकसूत्र १३,४३{१३५}.६ ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौशिकसूत्र १३,४३{१३५}.७ ॥
अथ जुहोति ॥ कौशिकसूत्र १३,४३{१३५}.८ ॥
असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समन्दधानस्ते दूतः स्ववंशमधि तिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथिव्यामसङ्ख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान् कांश्चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्रददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजायते । यस्मै भूतं च भव्यं च सर्वमेतत्प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपरियन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात्
स मे गछतु द्विषतो निवेशमादित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ कौशिकपद्धतिकण्डिका ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते ॥ यो वनस्पतीनामुपतापो बभूव यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं


________________________________


नोऽद्भुतमा जगाम । सर्वे तदग्ने हुतमस्तु भागशः शिवान् वयमुत्तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ कौशिकसूत्र १३,४३{१३५}.९ ॥
त्वष्टा मे दैव्यं वचः (६.४) इत्यत्रोदपात्रं निनयति ॥ कौशिकसूत्र १३,४३{१३५}.१० ॥
कपालेऽग्निं चादायोपसर्पति ॥ कौशिकसूत्र १३,४३{१३५}.११ ॥
सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४३{१३५}.१२ ॥]
शान्त्युदकं कृत्वा कपालेऽग्निं कृत्वा उदपात्रं बर्हिराज्यं तदादाय शालायामुपरि गूढकर्म करोति । शालायाः पृष्ठे गत्वा तत्र कपालानि वा उपनिदधाति आ सन्तपनात् । प्राञ्चमिध्ममुपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरित्यादि आज्यभागान्तं कृत्वाऽअसौ वै नाम ते माताऽ इति सूक्तेनाज्यं जुहोति ।ऽत्वष्टा मे दैव्यं वचःऽ इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । उदपात्रं निनयति । कपालेऽग्निं चादायोपसर्पति । गृहवंशभग्ने गृहवंशदाघे च शान्तिः समाप्ता ॥ त्रिचत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३५ ॥


________________________________


[अथ यत्रैतत्कुम्भोदधानः सक्तुधानी वोखा वानिङ्गिता विकसति तत्र जुहुयात् ॥ कौशिकसूत्र १३,४४{१३६}.१ ॥
भूमिर्भूमिमगान्न्माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ॥ कौशिकसूत्र १३,४४{१३६}.२ ॥]
अथ कुम्भे भग्ने उदधाने सक्तुधानी वोखा वा विकसति तत्र शान्त्युदकं कृत्वा आज्यभागान्तं कृत्वाऽभूमिर्भूमिमगात्ऽ इत्यृचाज्यं जुहुयात् ॥

[सदसि सन्मे भूयातिति सक्तूनावपेत् ॥ कौशिकसूत्र १३,४४{१३६}.३ ॥]
ऽसदसि सन्मे भूयात्ऽ इति मन्त्रेणान्यस्यां नवतरायां सक्तुधान्यां सक्तूनावपेत् ॥

[अथ चेदोदनस्य अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीः इति त्रिः प्राश्य ॥ कौशिकसूत्र १३,४४{१३६}.४ ॥
अथ यथाकामं प्राश्नीयात् ॥ कौशिकसूत्र १३,४४{१३६}.५ ॥]
अथ चेदोदनस्यऽअन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीःऽ इति मन्त्रेणान्यस्यां प्रक्षिप्यानुमन्त्रयते । त्रिः प्राश्य । अथ कर्ता न वा प्राशयति ॥

[अथ चेदुदधानः स्यात्समुद्रं वः प्र हिणोमि (१०.५.२३२४) इत्येताभ्यामभिमन्त्र्य ॥ कौशिकसूत्र १३,४४{१३६}.६ ॥
अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा ॥ कौशिकसूत्र १३,४४{१३६}.७ ॥
तत्र हिरण्यवर्णाः (१.३३) इत्युदकमासेचयेत् ॥ कौशिकसूत्र १३,४४{१३६}.८ ॥]
अथ चेदुदककलशं भज्यतेऽसमुद्रं वः प्र हिणोमिऽ इति द्वाभ्यामृग्भ्यामभिमन्त्र्यान्यं कृत्वा उदककलशं नवं कुर्यात् ।ऽआ त्वाहार्षम्ऽ (६.८७)ऽध्रुवा द्यौःऽ (६.८८) इति सूक्ताभ्यामभिमन्त्र्य नवमुदककलशंऽहिरण्यवर्णाःऽ इति सूक्तेन उदकमभिमन्त्र्य कलशं निनयेत् । अथास्मिन् स्थाने केचित्शान्त्युदकं कुर्वन्ति । पार्वणाद्युत्तरतन्त्रम् । उदकस्थाल्यां भग्नायां व्रीह्यादि पूल्ये उदकधान्यां सक्तुधान्यां वा कुम्भ उखाग्निहोत्रस्थाल्यादिभाण्डे भिन्ने भग्ने उदकपूर्णकलशे भग्ने शान्तिः समाप्ता । शान्त्युदकं कृत्वा वेद्यादितन्त्रं करोति रुद्रमतम् । प्रधानहोमानन्तरं शान्त्युदकं कुर्यादिति दारिलमतम् । अद्भुतानि समाप्तानि ॥

स खल्वेतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयन्मातृनामानि च ॥ कौशिकसूत्र १३,४४{१३६}.९ ॥
सर्वत्र वरां धेनुं कर्त्रे दद्यात् ॥ कौशिकसूत्र १३,४४{१३६}.१० ॥
सर्वत्र कंसवसनं गौर्दक्षिणा ॥ कौशिकसूत्र १३,४४{१३६}.११ ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौशिकसूत्र १३,४४{१३६}.१२ ॥
[यथोद्दिष्टं चादिष्टास्विति प्रायश्चित्तिः प्रायश्चित्तिः ॥ कौशिकसूत्र १३,४४{१३६}.१३ ॥]
श्राद्धं कुर्यात् । अद्भुतमन्तेषु यत्पतितं तद्ऽअग्नय इन्द्राग्निभ्यामादित्याय उषस्यै स्वाहाऽ इति ।ऽसमायै स्वाहाऽ इति ।ऽभद्राय स्वाहाऽ इति ।ऽइन्द्राय स्वाहाऽ इति ।ऽअभयायै स्वाहाऽ इति ।ऽक्षेत्रे स्वाहाऽ इति । विनायकस्नपनईशानयागाभिपश्यैते पठिताः । तस्यानि कर्तव्यानि । ग्रहनक्षत्रादिपक्षः सर्वत्र कार्यः । तत्र श्लोकः
यानि देशे कुले वापि अद्भुतं यत्र दृश्यते.
स विनश्यति जानीयात्तस्य शान्तिस्त्रयोदशे ॥
चतुश्चत्वारिंशी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३६ ॥




इति कौशिकपद्धतौ त्रयोदशोऽध्यायः समाप्तः ॥


____________________________________________________________________________