कौशिकपद्धतिः/अध्यायः १४
← अध्यायः १३ | कौशिकपद्धतिः अध्यायः १४ केशवः |
अथ चतुर्दशोऽध्यायः
[आज्यतन्त्रम्]
[यथावितानं यज्ञवास्त्वध्यवस्येत् ॥ कौशिकसूत्र १४,१{१३७}.१ ॥
वेदिर्यज्ञस्याग्नेरुत्तरवेदिः ॥ कौशिकसूत्र १४,१{१३७}.२ ॥
उभे प्रागायते किञ्चित्प्रथीयस्यौ पश्चादुद्यततरे ॥ कौशिकसूत्र १४,१{१३७}.३ ॥
अपृथुसम्मितां वेदिं विदध्यात् ॥ कौशिकसूत्र १४,१{१३७}.४ ॥
षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् ॥ कौशिकसूत्र १४,१{१३७}.५ ॥
त्रीन्मध्ये अर्धचतुर्थानग्रतः ॥ कौशिकसूत्र १४,१{१३७}.६ ॥
त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् ॥ कौशिकसूत्र १४,१{१३७}.७ ॥
द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥ कौशिकसूत्र १४,१{१३७}.८ ॥]
यथावितानं यज्ञवास्त्वध्यवस्येत् । सम्भारलक्षणे उक्तं यथावितानं च मण्डपं कारयेत् ॥
[ग्रीष्मस्ते भूमे (१२.१.३६) इत्युपस्थाय ॥ कौशिकसूत्र १४,१{१३७}.९ ॥
वि मिमीष्व पयस्वतीम् (१३.१.२७) इति मिमानमनुमन्त्रयते ॥ कौशिकसूत्र १४,१{१३७}.१० ॥]
ऽअव्यसश्चऽ (१९.६८) इति । बर्हिर्लवनं कृत्वाऽग्रीष्मस्ते भूमेऽ इत्यृचा उपस्थायऽवि मिमीष्वऽ इत्यृचा शान्तवृक्षकाष्ठं मिमानमनुमन्त्रयते । षट्शमीं प्राङायतां चतुर्हस्तान् श्रोण्यां त्रीन्मध्ये अर्धचतुर्थानग्रतः ॥
[बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु इति परिगृह्णाति ॥ कौशिकसूत्र १४,१{१३७}.११ ॥]
ऽबृहस्पते परि गृहाणऽ इत्यृचा वेदिं परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥
[यत्ते भूमे (१२.१.३५) इति विखनति ॥ कौशिकसूत्र १४,१{१३७}.१२ ॥]
ऽयत्ते भूमेऽ इति वेदिं खनति ॥
[यत्त ऊनम् (१२.१.६१) इति संवपति ॥ कौशिकसूत्र १४,१{१३७}.१३ ॥]
ऽयत्त ऊनम्ऽ इत्यर्धर्चेन वेदिं समीकरोति ॥
[त्वमस्यावपनी जनानाम् (१२.१.६१) इति ततः पांसूनन्यतोदाहार्य ॥ कौशिकसूत्र १४,१{१३७}.१४ ॥]
ऽत्वमस्यावपनी जनानाम्ऽ इत्यर्धर्चेन वेदिं पांसुना पूरयति । त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् । द्विःशमीं प्राङायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥
[बृहस्पते परि गृहाण वेदिमित्युत्तरवेदिमोप्यमानां परिगृह्णाति ॥ कौशिकसूत्र १४,१{१३७}.१५ ॥]
ऽबृहस्पते परि गृहाणऽ इत्युत्तरवेदिमोप्यमानां परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥
[असम्बाधं बध्यतो मानवानाम् (१२.१.२) इति प्रथयति ॥ कौशिकसूत्र १४,१{१३७}.१६ ॥]
ऽअसम्बाधं बध्यतो मानवानाम्ऽ इत्यृचा प्रथयति ॥
यस्याश्चतस्रः प्रदिशः पृथिव्याः (१२.१.४) इति चतुरस्रां करोति ॥ कौशिकसूत्र १४,१{१३७}.१७ ॥
[देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे इति लेखनमादाय यत्राग्निं निधास्यन्
भवति तत्र लक्षणं करोति ॥ कौशिकसूत्र १४,१{१३७}.१८ ॥]
ऽदेवस्य त्वाऽ इति मन्त्रेण लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति ॥
इन्द्रः सीतां नि गृह्णातु (३.१७.४) इति दक्षिणत आरभ्योत्तरत आलिखति ॥ कौशिकसूत्र १४,१{१३७}.१९ ॥
प्राचीमावृत्य दक्षिणतः प्राचीम् ॥ कौशिकसूत्र १४,१{१३७}.२० ॥
अपरास्तिस्रो मध्ये ॥ कौशिकसूत्र १४,१{१३७}.२१ ॥
तस्यां व्रीहियवावोप्य ॥ कौशिकसूत्र १४,१{१३७}.२२ ॥
[वर्षेण भूमिः पृथिवी वृतावृता (१२.१.५२) इत्यद्भिः सम्प्रोक्ष्य ॥ कौशिकसूत्र १४,१{१३७}.२३ ॥]
ऽवर्षेण भूमिःऽ इत्यर्धर्चेनाद्भिः सम्प्रोक्ष्य ॥
[यस्यामन्नं व्रीहियवौ (१२.१.४२) इति भूमिं नमस्कृत्य ॥ कौशिकसूत्र १४,१{१३७}.२४ ॥]
ऽयस्यामन्नं व्रीहियवौऽ इत्यृचा नमस्कृत्य ॥
[अथाग्निं प्रणयेत्त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थामनु ते दिशाम इति ॥ कौशिकसूत्र १४,१{१३७}.२५ ॥]
अथाग्निं प्रणयेत् ।ऽत्वामग्नेऽ इत्यृचा वेद्यामग्निप्रणयनम् ॥
[भद्रश्रेयःस्वस्त्या वा ॥ कौशिकसूत्र १४,१{१३७}.२६ ॥
अग्ने प्रेहि (४.१४.५) इति वा ॥ कौशिकसूत्र १४,१{१३७}.२७ ॥]
अथवा भद्रश्रेयःस्वस्त्या वा । अग्ने प्रेहि इति वा । वेद्यग्नौ अपि निवावेषु । अनयोरृचा प्रणयनम् ॥
[विश्वम्भरा वसुधानी प्रतिष्ठा (१२.१.६) इति लक्षणे प्रतिष्ठाप्य ॥ कौशिकसूत्र १४,१{१३७}.२८ ॥]
ऽविश्वम्भरा वसुधानी प्रतिष्ठाऽ इत्यृचा वेद्या लक्षणे प्रतिष्ठापनम् ॥
[अथेध्ममुपसमादधाति ॥ कौशिकसूत्र १४,१{१३७}.२९ ॥]
ऽममाग्ने वर्चःऽ (५.३.१) इत्यृचा समिध आदधाति तिस्रः । यत्र स्थण्डिलकर्म प्रयोजनार्थं तत्राग्निप्रतिष्ठापनम् । हस्तहोमादि तन्त्रम् । सर्वत्र लक्षणम् ।ऽआ ददेऽ (Kऔश्ष्१३७.१८) इत्याद्यग्निप्रतिष्ठापनान्तं समन्त्रकं भवति सर्वत्र । अयुतहोमे लक्षहोमे कोटिहोमे ग्रहयज्ञसमित्सु अन्यत्र व्रीहियवतिलसमित्पुरोडाशादि तन्त्रविकल्पात्तत्र सर्वत्राग्निप्रतिष्ठापनमनेन विधानेन कर्तव्यम् ।ऽयत्राग्निं निधास्यन् भवति तत्र लक्षणं करोतिऽ (Kऔश्ष्१३७.१८) इति वचनात् । नास्ति वचनस्यातिभारः प्रापयतः । व्रतग्रहणम् । दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्य पवित्रे कुरुते ।ऽविष्णोर्मनसा पूते स्थःऽ इति पवित्रकरणम् ।ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इति पवित्रेणेध्मप्रोक्षणम् ॥
[अग्निर्भूम्यामोषधीषु, अग्निर्दिव आ तपति, अग्निवासाः पृथिव्यसितज्ञूः (१२.१.१९२१) एतमिध्मं समाहितं जुषाणः (१०.६.३५), अस्मै क्षत्राणि धारयन्तमग्ने (७.७८.२) इति पञ्चभिः स्तरणम् ॥ कौशिकसूत्र १४,१{१३७}.३० ॥]
ऽअग्निर्भूम्याम्ऽ इति तिसृभिः,ऽएतमिध्मं समाहितं जुषाणःऽ,ऽअस्मै क्षत्राणि धारयन्तमग्नेऽ इति द्वाभ्याम्, एताभिः पञ्चभिरृग्भिः पञ्चेध्म आदधाति । केचिद्विंशतिसमिध आदधाने मन्यन्ते ॥
[अत ऊर्ध्वं बर्हिषः ॥ कौशिकसूत्र १४,१{१३७}.३१ ॥
त्वं भूमिमत्येष्योजसा (१९.३३.३) इति दर्भान् सम्प्रोक्ष्य ॥ कौशिकसूत्र १४,१{१३७}.३२ ॥]
ऽत्वं भूमिम्ऽ इत्यृचा बर्हिःप्रोक्षणम् । बर्हिः सम्भारलक्षणे उक्ता ॥
ऋषीणां प्रस्तरोऽसि इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधाति ॥ कौशिकसूत्र १४,१{१३७}.३३ ॥
ब्रह्मास्थापनम् ।ऽभूपतेऽ इति वरणविधानेन वरणम् ॥
पुरस्तादग्नेरुदक्संस्तृणाति ॥ कौशिकसूत्र १४,१{१३७}.३४ ॥
तथा प्रत्यक् ॥ कौशिकसूत्र १४,१{१३७}.३५ ॥
प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य ॥ कौशिकसूत्र १४,१{१३७}.३६ ॥
स्तरणम् । स्तीर्णप्रोक्षणम् ॥
[अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ कौशिकसूत्र १४,१{१३७}.३७ ॥
निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ कौशिकसूत्र १४,१{१३७}.३८ ॥
तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदाम्यृतस्य सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ कौशिकसूत्र १४,१{१३७}.३९ ॥
विमृग्वरीम् (१२.१.२९) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् ॥ कौशिकसूत्र १४,१{१३७}.४० ॥
पातं मा द्यावापृथिवी अद्याह्नः इति द्यावापृथिव्यौ समीक्षते ॥ कौशिकसूत्र १४,१{१३७}.४१ ॥]
ऽअहे दैधिषव्यऽ इत्याद्यात्मासनसंस्कारः ॥
[सविता प्रसवानाम् (५.२४) इति कर्मणिकर्मण्यभितोऽभ्यातानैराज्यं जुहुयात् ॥ कौशिकसूत्र १४,१{१३७}.४२ ॥
व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् ॥ कौशिकसूत्र १४,१{१३७}.४३ ॥]
उदपात्रस्थापनमुक्तम् । आज्यसंस्कार उक्तः । स्रुवग्रहणमुक्तम् । स्रुवलक्षणे स्रुव उक्तः । स्रुचः पात्रलक्षणे उक्ताः । ग्रहग्रहणं पाकयज्ञं उक्तम् । पुरस्ताद्धोम आज्यभागौ च एतत्सर्वं पाकयज्ञे उक्तम् । सर्वत्र आज्यतन्त्रे अभ्यातानानि जुहोति । यत्र कुत्रचिताज्यतन्त्रेण प्रयोजनं तत्र सर्वत्रतत्पूर्वतन्त्रम् । सर्वत्र अभ्यातानानि भवन्ति । पाकतन्त्रे अभ्यातानानि न भवन्ति । अद्भुतेषु न भवन्ति । अन्यत्र सर्वत्र भवन्ति । यत्र बहूनि प्रधानकर्माणि एकस्मिन् तत्र क्रियन्ते तत्र अन्तरा अन्तरा अभ्यातानानि हुत्वा क्रियन्ते । तन्त्रमेकमेव । पाकतन्त्रेऽपि आज्यतन्त्रस्य प्रधानं यदि क्रियते एकतन्त्रे तदा तस्मिन् तन्त्रे प्रधानं कृत्वा अभ्यातानानि हुत्वा आज्यतन्त्रप्रधानं कुर्यादिति । यथा आश्यबन्ध्याप्लवनादि । तत अभ्यातानाद्युत्तरतन्त्रम् । न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं कुर्यात् । अथवा कुर्यात् । यत्र आज्यं जुहोति तत्र तन्त्रं कुर्यातेतत्सर्वत्र बोद्धव्यम् । आज्यतन्त्रं समाप्तम् ॥ चतुर्दशेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १३७ ॥
________________________________
[अष्टका]
अष्टकाकर्म उच्यते
[अष्टकायामष्टकाहोमाञ्जुहुयात् ॥ तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः ॥ कौशिकसूत्र १४,२{१३८}.२ ॥]
माघकृष्णाष्टका एकाष्टका इति वचनात् । आज्यतन्त्रमाज्यभागान्तं कृत्वा पश्चादग्नेः रोहितं चर्मास्तीर्य पवित्रे अन्तर्धाय हवींषि निर्वपति तूष्णीम् । धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः । दक्षिणं बाहुं निर्लोमं सचर्मं सुखरं प्रक्षाल्यासाद्य देवस्य त्वा प्रभृति अष्टकायै जुष्टं निर्वपामि । अष्टकायै त्वा जुष्टं प्रोक्षामि । पृथक्पृथक्द्रव्यं निर्वपणम् ॥
[सर्वेषां हविषां समुद्धृत्य ॥ कौशिकसूत्र १४,२{१३८}.३ ॥]
धानादीनि एकत्र कृत्वा ततोऽधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ततः एकत्र कृत्वा विंशतिपिण्डान् कृत्वा एकं द्विगुणं कृत्वाभ्यातानानि जुहोति ॥
[दर्व्या जुहुयात्प्रथमा ह व्युवास सा (३.१०.१५) इति पञ्चभिः ॥ कौशिकसूत्र १४,२{१३८}.४ ॥]
उपस्तीर्याभिघारणम् । कर्ता प्रत्यृचं पिण्डकाञ्जुहोति । स्रुचः काले दर्व्या ग्रहणम् । ततो दर्व्या जुहोति । दर्वी नेक्षणमाप्लवनं च यज्ञपात्रलक्षणे उक्तानि ।ऽप्रथमा ह व्युवासऽ इति पञ्चभिः ॥
[आयमगन् संवत्सर इति चतसृभिर्विज्ञायते ॥ कौशिकसूत्र १४,२{१३८}.५ ॥]
ऽआयमगन् संवत्सरःऽ (३.१०.८९) इति द्वे,ऽइडया जुह्वतःऽ (३.१०.१११२) इति द्वे एताभिः चतस्र आहुतीः ॥
[ऋतुभ्यस्त्वा (३.१०.१०) इति विग्राहमष्टौ ॥ कौशिकसूत्र १४,२{१३८}.६ ॥]
ऋतुभ्यष्ट्वा इत्यष्टौ भवन्ति ।ऽऋतुभ्यष्ट्वा यजे स्वाहा । आर्तवेभ्यष्ट्वा यजे स्वाहा । मरुद्भ्यस्त्वा यजे स्वाहा । संवत्सरेभ्यस्त्वा यजे स्वाहा । धात्रे त्वा यजे स्वाहा । विधात्रे त्वा यज स्वाहा । समृधे त्वा यजे स्वाहा । भूतस्य पतये त्वा यजे स्वाहा.ऽ एताभिरष्टाभिरष्टौ ॥
[इन्द्रपुत्रे (३.१०.१३) इत्यष्टादशीम् ॥ कौशिकसूत्र १४,२{१३८}.७ ॥]
ऽइन्द्रपुत्रेऽ इत्यृचा अष्टादशीं पिण्डिकां जुहोति ॥
[अहोरात्राभ्याम् (६.१२८.३) इत्यूनविंशीम् ॥ कौशिकसूत्र १४,२{१३८}.८ ॥]
ऽअहोरात्राभ्यां त्वा यजे स्वाहाऽ इति मन्त्रेण ऊनविंशीमाहुतिम् ॥
[पशावुपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य ॥ कौशिकसूत्र १४,२{१३८}.९ ॥
इडायास्पदम् (३.१०.६, ७) इति द्वाभ्यां विंशीम् ॥ कौशिकसूत्र १४,२{१३८}.१० ॥]
यदि पशुबाहुं सम्पद्यते तदा बाहुंऽइडायास्पदम्ऽ इत्यृचाऽआ मा पुष्टे चऽ इत्येकावसाना द्वाभ्यामृग्भ्यां बाहुं विंशीमाहुतिं जुहोति । एकावसानात् । ग्रहणमाग्रहणे न्यायात् । पञ्चपटलिकाया त्रियावसानात् ॥
[अनुपपद्यमान आज्यं जुहुयात् ॥ कौशिकसूत्र १४,२{१३८}.११ ॥]
अथवा आज्यं जुहोति ॥
[हविषां दर्विं पूरयित्वा पूर्णा दर्वे (३.१०.७) इति सदर्वीमेकविंशीम् ॥ कौशिकसूत्र १४,२{१३८}.१२ ॥]
ऽपूर्णा दर्वेऽ इत्यवसानाभ्यां द्वाभ्यां सदर्वीं पूर्णामेकविंशीं जुहोति ॥ अभ्यातानाद्युत्तरतन्त्रम् ॥
[एकविंशतिसंस्थो यज्ञो विज्ञायते ॥ कौशिकसूत्र १४,२{१३८}.१३ ॥
सर्वा एव यज्ञतनूरवरुन्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति ॥ कौशिकसूत्र १४,२{१३८}.१४ ॥
न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके ॥ कौशिकसूत्र १४,२{१३८}.१५ ॥
अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ कौशिकसूत्र १४,२{१३८}.१६ ॥]
आज्येन स्विष्टकृत्पितृश्राद्धं च कुर्यात् । केचिद्रात्रौ अष्टकाकर्म मन्यन्ते । समाप्तमष्टकाकर्म ।ऽन दर्विहोमेऽ इत्युक्तम् । हस्तहोमो हस्तलक्षणविधाने उक्तः । पूर्णहोमे तन्त्रं क्रियते इत्येके । अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ चतुर्दशेऽध्याये द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १३८ ॥
________________________________
[उपाकर्मौत्सर्गः]
अथोपाकर्म उच्यते
[अभिजिति शिष्यानुपनीय श्वो भूते सम्भारान् सम्भरति ॥ कौशिकसूत्र १४,३{१३९}.१ ॥]
श्रावण्यां पौर्णमास्यां वा प्रोष्ठपद्यां वा अभिजिति नक्षत्रे शिष्यानुपनीय आचार्यसमीप आगच्छन्ति ॥
[दधिसक्तून् पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ कौशिकसूत्र १४,३{१३९}.२ ॥
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ कौशिकसूत्र १४,३{१३९}.३ ॥
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ कौशिकसूत्र १४,३{१३९}.४ ॥
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौशिकसूत्र १४,३{१३९}.५ ॥
पश्चादग्नेर्दधिसक्तूञ्जुहोति अग्नये, ब्रह्मप्रजापतिभ्यां, भृग्वङ्गिरोभ्य, उशनसे काव्याय ॥ कौशिकसूत्र १४,३{१३९}.६ ॥]
शान्त्युदकं कृत्वा ततोऽभ्यातानान्तं कृत्वा ततः पश्चादग्नेर्दधिसक्तून् जुहोति । चतस्र आहुतयः ।ऽअग्नये स्वाहा, ब्रह्मप्रजापतिभ्यां स्वाहा, भृग्वङ्गिरोभ्यः स्वाहा । उशनसे काव्याय स्वाहाऽ इति ॥
[ततोऽभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात् ॥ कौशिकसूत्र १४,३{१३९}.७ ॥]
तत उत्तरैर्गणैराज्यं जुह्वन् दधिसक्तुषु सम्पातानानयति ।ऽअभयं द्यावापृथिवीऽ (६.४०)ऽश्येनोऽसिऽ (६.४८) इति अभयगणः ।ऽविद्मा शरस्यऽ (१.२)ऽमा नो विदन्ऽ (१.१९)ऽअदारसृत्ऽ (१.२०)ऽस्वस्तिदाऽ (१.२१)ऽअव मन्युःऽ (६.६५),ऽनिर्हस्तःऽ (६.६६)ऽपरिवर्त्मानिऽ (६.६७) ।ऽअभिभूःऽ (६.९७)ऽइन्द्रो जयातिऽ (६.९८)ऽअभि त्वेन्द्रऽ (६.९९) इत्यपराजितगणः ।ऽसहृदयम्ऽ (३.३०),ऽतदू षुऽ (५.१.५)ऽसञ्जानीध्वम्ऽ (६.६४)ऽएह यातुऽ (६.७३),ऽसं वः पृच्यन्ताम्ऽ (६.७४)ऽसं वो मनांसिऽ (६.९४)ऽसञ्ज्ञानं नःऽ (७.५२) इति गणकर्मगणः ।ऽये त्रिषप्ताःऽ (१.१) इति विश्वकर्मगणः ।ऽअस्मिन् वसु वसवो धारयन्तुऽ (१.९),ऽविश्वे देवा वसवःऽ (१.३०)ऽआ यातु मित्रःऽ (३.८)ऽअमुत्र भूयात्ऽ (७.५३)ऽअन्तकाय मृत्यवेऽ (८.१)ऽआ रभस्वऽ (८.२)ऽप्राणाय नमःऽ (११.४)ऽविषासहिम्ऽ (१७.१.१५) इत्यायुष्यगणः ।ऽत्यमू षुऽ (७.९०)ऽत्रातारंऽ (७.९१)ऽआ मन्द्रैःऽ (७.१२२) इति स्वस्त्ययनगणः ॥
[मा नो देवा अहिर्वधीत्(६.५६), अरसस्य शर्कोटस्य (७.५६.५), इन्द्रस्य प्रथमो रथः (१०.४), यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा (१२.१.४६), नमस्ते अस्तु विद्युते (१.१३), आरेऽसावस्मदस्तु (१.२६), यस्ते पृथु स्तनयित्नुः (७.११) इति संस्थाप्य होमान् ॥ कौशिकसूत्र १४,३{१३९}.८ ॥]
ऽमा नो देवा अहिर्वधीत्ऽऽअरसस्य शर्कोटस्यऽ,ऽइन्द्रस्य प्रथमो रथःऽ,ऽयस्ते सर्पो वृश्चिकस्तृष्टदंश्माऽ,ऽनमस्ते अस्तु विद्युतेऽ,ऽआरेऽसावस्मदस्तुऽ,ऽयस्ते पृथु स्तनयित्नुःऽ इत्युपाकर्मगणः । एतैर्गणैराज्यं जुहुयात् । दधिसक्तुषु सम्पातानानयति । ताभिरभिमन्त्रणम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
[प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्योदकमुपसमारभन्ते ॥ कौशिकसूत्र १४,३{१३९}.९ ॥]
स्रुवप्रतिष्ठापनान्तं कृत्वा दधिसक्तून् प्राश्य उपाध्यायसहिताः शिष्याः । तत आचम्य त्रिराचमनं विहितं शान्त्युदकेनाचमनम् । आज्यभागान्ते शान्त्युदकक्रिया सर्वत्र ॥
[अव्यसश्च (१९.६८) इति जपित्वा सावित्रीं ब्रह्म जज्ञानम् (४.१.१) इत्येकां त्रिषप्तीयं च पच्छो वाचयेत् ॥ कौशिकसूत्र १४,३{१३९}.१० ॥]
अथऽअव्यसश्चऽ इति जपित्वा सावित्रींऽब्रह्म जज्ञानम्ऽ इत्येकां जपित्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तं पादं पादं वाचयति उपाध्यायः शिष्यान् ॥
[शेषमनुवाकस्य जपन्ति ॥ कौशिकसूत्र १४,३{१३९}.११ ॥]
ऽविद्मा शरस्यऽ (४.१.२) इतिप्रभृति शेषमनुवाकस्य जपन्ति । ततः तन्त्रं समापयेत् ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौशिकसूत्र १४,३{१३९}.१२ ॥
इति उपाकर्म समाप्तम् ॥
अथ पौष्यां पौर्णमास्यामुत्सर्ग उच्यते
[स खल्वेतं पक्षमपक्षीयमाणः पक्षमनधीयान उपश्राम्येता दर्शात् ॥ कौशिकसूत्र १४,३{१३९}.१३ ॥
दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसानुपसादयति ॥ कौशिकसूत्र १४,३{१३९}.१४ ॥]
अभ्यातानान्तं कृत्वा द्वयान् रसानुपसादयति । उत्तरतः मधुवर्जितान् शिष्याणाम् ॥
[विश्वे देवाः (१.३०), अहं रुद्रेभिः (४.३०), सिंहे व्याघ्रे (६.३८), यशो हविः (६.३९), यशसं मेन्द्रः (६.५८) गिरावरगराटेषु (६.६९), यथा सोमः प्रातःसवने (९.१.११), यच्च वर्चो अक्षेषु, येन महानघ्न्या जघनम् (१४.१.३५, ३६) स्वाहा इत्यग्नौ हुत्वा ॥ कौशिकसूत्र १४,३{१३९}.१५ ॥
रसेषु सम्पातानानीय संस्थाप्य होमान् ॥ कौशिकसूत्र १४,३{१३९}.१६ ॥]
ऽविश्वे देवाःऽ,ऽअहं रुद्रेभिःऽ,ऽसिंहे व्याघ्रेऽ,ऽयशो हविःऽ,ऽयशसं मेन्द्रःऽ,ऽगिरावरगराटेषुऽ,ऽयथा सोमः प्रातःसवनेऽ,
ऽयच्च वर्चो अक्षेषुऽऽयेन महानघ्न्या जघनंऽ इत्येतेन गणेनाज्यं जुह्वन् रसेषु सम्पातानानयति प्रथमं मधुसहितेषु ततो मधुवर्जितेषु । प्रधानहोमान् संस्थाप्य ॥
[तत एतान् प्राशयति रसान्मधुघृताञ्छिष्यान् ॥ कौशिकसूत्र १४,३{१३९}.१७ ॥]
ऽत्वे क्रतुम्ऽ (५.२.३) इत्यृचा रसप्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौशिकसूत्र १४,३{१३९}.१८ ॥
[नान्यत आगताञ्छिष्यान् परिगृह्णीयात्परसन्दीक्षितत्वात् ॥ कौशिकसूत्र १४,३{१३९}.१९ ॥
त्रिरात्रोनांश्चतुरो मासाञ्छिष्येभ्यः प्रब्रूयादर्धपञ्चमान् वा ॥ कौशिकसूत्र १४,३{१३९}.२० ॥
पादं पूर्वरात्रेऽधीयानः पादमपररात्रे मध्यरात्रे स्वपन् ॥ कौशिकसूत्र १४,३{१३९}.२१ ॥
अभुक्त्वा पूर्वरात्रेऽधीयान इत्येके ॥ कौशिकसूत्र १४,३{१३९}.२२ ॥
यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः ॥ कौशिकसूत्र १४,३{१३९}.२३ ॥
पौष्यस्यापरपक्षे त्रिरात्रं नाधीयीत ॥ कौशिकसूत्र १४,३{१३९}.२४ ॥
तृतीयस्याः प्रातः समासं सन्दिश्य यस्मात्कोशात्(१९.७२.१) इत्यन्तः ॥ कौशिकसूत्र १४,३{१३९}.२५ ॥
यस्मात्कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम् । अधीतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह इति ॥ कौशिकसूत्र १४,३{१३९}.२६ ॥
योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ कौशिकसूत्र १४,३{१३९}.२७ ॥]
उपाकर्म उत्सर्गः समाप्तः ॥
ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते ॥ कौशिकसूत्र १४,३{१३९}.२८ ॥
छन्दसार्षदेवताविनियोगो कारयित्वा विसर्गः ॥ चतुर्दशेऽध्याये तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १३९ ॥
________________________________
[इन्द्रमहः]
अथ राज्ञामिन्द्रमहस्योपाचारकल्पं व्याख्यास्यामः ॥ कौशिकसूत्र १४,४{१४०}.१ ॥
[प्रोष्ठपदे शुक्लपक्षेऽश्वयुजे वाष्टम्यां प्रवेशः ॥ कौशिकसूत्र १४,४{१४०}.२ ॥
श्रवणेनोत्थापनम् ॥ कौशिकसूत्र १४,४{१४०}.३ ॥]
भाद्रपदे शुक्लपक्षेऽश्वयुजे वा मासे इन्द्रमहः कार्यः । अष्टम्यामिन्द्रगृहे प्रवेश्य श्रवणेनोत्थापनं समापयेत् ॥
सम्भृतेषु सम्भारेषु ब्रह्मा राजा चोभौ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ कौशिकसूत्र १४,४{१४०}.४ ॥
उत्तरतः ॥
[श्वो भूते शन्नोदेव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वोदकमाचामतः ॥ कौशिकसूत्र १४,४{१४०}.५ ॥]
श्वो भूते अभ्यातानान्तं कृत्वाऽशं नो देवीःऽ (१.६.१) इत्यृचः त्रिभिः पादैस्त्रिराचमनम्ऽशं नो देवीःऽ इत्यर्धर्चेन एकमाचमनम् । ततःऽशं नो देवीःऽ इत्यृचा द्विराचमनम् । एवं ब्रह्मा राजा षडाचमनं करोति ॥
[अर्वाञ्चमिन्द्रम् (५.३.११) त्रातारम् (७.८६) इन्द्रः सुत्रामा (७.९१) इत्याज्यं हुत्वा ॥ कौशिकसूत्र १४,४{१४०}.६ ॥]
ऽअर्वाञ्चमिन्द्रम्ऽ इत्येका,ऽत्रातारमिन्द्रम्ऽ इत्येकाऽइन्द्रः सुत्रामाऽ इत्येका एताभिराज्यं जुहुयात् ॥
[अथेन्द्रमुत्थापयन्ति ॥ कौशिकसूत्र १४,४{१४०}.७ ॥
आ त्वाहार्षम् (६.८७) ध्रुवा द्यौः (६.८८) विशस्त्वा सर्वा वाञ्छन्तु (४.८.४) इति सर्वतोऽप्रमत्ता धारयेरन् ॥ कौशिकसूत्र १४,४{१४०}.८ ॥
अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते ॥ कौशिकसूत्र १४,४{१४०}.९ ॥]
ततःऽआ त्वाहार्षम्ऽऽध्रुवा द्यौःऽ इति सूक्ताभ्यांऽविशस्त्वा सर्वा वाञ्छन्तुऽ इत्येतैरिन्द्रमुत्थापयति । अभिमन्त्र्य इन्द्रं शान्तकाष्ठमयम् । महत्काष्ठं चित्रितं सशिरं सध्वजं वस्त्रपरिहितं दीर्घं इन्द्रशब्देनोच्यते । लोकप्रसिद्धो वा ग्राह्यः । सर्वतोऽप्रमत्ता धारयेरन् । अन्यथाद्भुतं भवति । तथा गोपथब्राह्मणे अनाज्ञातप्रायश्चित्तं भवति ।ऽयदाज्ञातमनाम्नातम्ऽ इति । ततः
अभिभूर्यज्ञः (६.९७९९) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥ कौशिकसूत्र १४,४{१४०}.१० ॥
ततोऽभ्यातानाद्युत्तरतन्त्रम् । संस्थितहोमवर्जम् । पञ्चमे दिवसे संस्थितहोमाः कार्याः ॥
[अथ पशूनामुपाचारम् ॥ कौशिकसूत्र १४,४{१४०}.११ ॥
इन्द्रदेवताः स्युः ॥ कौशिकसूत्र १४,४{१४०}.१२ ॥]
ऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तैर्वशाविधानेन पशव आलब्धव्या इन्द्रदेवत्याः ॥
ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः ॥ कौशिकसूत्र १४,४{१४०}.१३ ॥
[इन्द्रं चोपसद्य यजेरंस्त्रिरात्रं पञ्चरात्रम् ॥ कौशिकसूत्र १४,४{१४०}.१४ ॥]
प्रतिदिनमिन्द्रं पशुभिर्हविर्भिश्च यजन्ते । त्रिरात्रं पञ्चरात्रं वा ।ऽअभिभूर्यज्ञःऽ इति सर्वत्र प्रयोगः ॥
[त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते ॥ कौशिकसूत्र १४,४{१४०}.१५ ॥
आवृत इन्द्रमहमिति ॥ कौशिकसूत्र १४,४{१४०}.१६ ॥]
ततः राजा ब्रह्मा च त्रिकालंऽअभिभूर्यज्ञःऽ इत्युपतिष्ठते । एवं च पाकयज्ञविधानेन इन्द्रं यजन्ते । तत एवं ब्राह्मणादीन् पूजयेत् ॥
[इन्द्र क्षत्रम् (७.८४.२) इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः ॥ कौशिकसूत्र १४,४{१४०}.१७ ॥
न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः ॥ कौशिकसूत्र १४,४{१४०}.१८ ॥
इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति ॥ कौशिकसूत्र १४,४{१४०}.१९ ॥]
ततः पञ्चमे दिवसेऽइन्द्रक्षत्रम्ऽ इत्यृचा पाकयज्ञविधानेन हविषो हुत्वा संस्थितहोमं विहितं च संस्थाप्य तत इन्द्रं गृहीत्वा अवभृथाय व्रजन्ति ॥
[अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ कौशिकसूत्र १४,४{१४०}.२० ॥]
नद्यां गत्वा इन्द्रं तत्र संस्थाप्य तत अपां सूक्तैः स्नात्वा प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥
ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ कौशिकसूत्र १४,४{१४०}.२१ ॥
इन्द्रमहः समाप्तः ॥
[श्वः श्वोऽस्य राष्ट्रं ज्यायो भवत्येकोऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश्चैवं विद्वानिन्द्रमहेण चरति ॥ कौशिकसूत्र १४,४{१४०}.२२ ॥]
इन्द्रमहः प्रतिवर्षं यो राजा करोति तस्य फलं भवति । एकोऽस्यां पृथिव्यां राजा भवति । न पुरा जरसः प्रमीयते य एवं वेद ॥ चतुर्दशेऽध्याये चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १४० ॥
________________________________
[अध्ययनविधिः]
अथ वेदस्याध्ययनविधिं वक्ष्यामः ॥ कौशिकसूत्र १४,५{१४१}.१ ॥
श्रावण्यां प्रौष्ठपद्यां वोपाकृत्यार्धपञ्चमान् ॥ कौशिकसूत्र १४,५{१४१}.२ ॥
एवं छन्दांसि ॥ कौशिकसूत्र १४,५{१४१}.३ ॥
लोम्नां चानिवर्तनम् ॥ कौशिकसूत्र १४,५{१४१}.४ ॥
अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य । आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते ॥ कौशिकसूत्र १४,५{१४१}.५ ॥
पौष्यां व्यतीतायां यः पुनः पठेत्कल्पाध्ययनं कुर्यात् ॥
अथानध्यायान् वक्ष्यामः ॥ कौशिकसूत्र १४,५{१४१}.६ ॥
ब्रह्मज्येषु निवर्तते ॥ कौशिकसूत्र १४,५{१४१}.७ ॥
श्राद्धे ॥ कौशिकसूत्र १४,५{१४१}.८ ॥
[सूतकोत्थानछर्दनेषु त्रिषु चरणम् ॥ कौशिकसूत्र १४,५{१४१}.९ ॥
आचार्यास्तमिते वा येषां च मानुषी योनिः ॥ कौशिकसूत्र १४,५{१४१}.१० ॥
यथाश्राद्धं तथैव तेषु ॥ कौशिकसूत्र १४,५{१४१}.११ ॥
सर्वं च श्राद्धिकं द्रव्यमदशाहव्यपेतं प्रतिगृह्यानध्यायः ॥ कौशिकसूत्र १४,५{१४१}.१२ ॥
प्राणि चाप्राणि च ॥ कौशिकसूत्र १४,५{१४१}.१३ ॥]
सूतके भुक्त्वा अहोरात्रं नाधीयीत । उत्थाने दीक्षितान्नभोजने प्राक्सोमक्रयणान्नाधीयीत । छर्दने कृते अस्नातो नाधीयीत । अस्तमिते आदित्ये नाधीयीत । आचार्यास्तमिते नाधीयीत । विवाहपुंसवनसीमन्तोन्नयनगर्भाधानेषु गृहेषु भुक्त्वा नाधीयीत । होमं वा नाधीयीत । सूतके श्राद्धं भुक्त्वा शेषं प्रतिगृहीते नाधीयीत । एकोद्दिष्टे भुक्त्वा नाधीयीत । गवाश्वादिप्राणिप्रतिग्रहं कृत्वा नाधीयीत । घृतगुडान्नहिरण्यादिप्रतिग्रहं कृत्वा नाधीयीत । एकरात्रमनुवर्तते सर्वत्र ॥ कौशिकसूत्र १४,५{१४१}.
दन्तधावने ॥ कौशिकसूत्र १४,५{१४१}.१४ ॥
अकृते नाधीयीत ॥
क्षुरसंस्पर्शे ॥ कौशिकसूत्र १४,५{१४१}.१५ ॥
अस्नातो नाधीयीत ॥
[प्रादुष्कृतेष्वग्निषु ॥ कौशिकसूत्र १४,५{१४१}.१६ ॥]
अग्निषु प्रादुःकृतेषु नाधीयीत ॥
[विद्युतार्धरात्रे स्तनिते ॥ कौशिकसूत्र १४,५{१४१}.१७ ॥]
सन्ध्यायां विद्युते रात्रौ नाधीयीत । मध्यरात्रौ गर्जिते शेषं नाधीयीत ॥
[सप्तकृत्वो वर्षेण विरत आ प्रातराशम् ॥ कौशिकसूत्र १४,५{१४१}.१८ ॥]
सप्तकृत्वः गर्जिते अवृष्टे अहोरात्रं नाधीयीत ॥
[वृष्टे ॥ कौशिकसूत्र १४,५{१४१}.१९ ॥]
प्रातःप्रभृति वृष्टे नाध्ययनं पठेत् । एकरात्रं नाधीयीत । प्रातःप्रभृति गर्जिते चैकरात्रं नाधीयीत । सन्ध्यायां गर्जिते चैकरात्रं नाधीयीत ॥
[निर्घाते ॥ कौशिकसूत्र १४,५{१४१}.२० ॥]
निर्घातपतने चैकरात्रं नाधीयीत ॥
भूमिचलने ॥ कौशिकसूत्र १४,५{१४१}.२१ ॥
चैकरात्रं नाधीयीत ॥
[ज्योतिषोपसर्जन ऋतावप्याकालम् ॥ कौशिकसूत्र १४,५{१४१}.२२ ॥
विषमे न प्रवृत्तिः ॥ कौशिकसूत्र १४,५{१४१}.२३ ॥]
आदित्यग्रहणे चैकरात्रं नाधीयीत । त्रिरात्रमेके । अनृतावभाषणे तावत्कालं नाधीयीत । ऋतावप्यतिवृष्टौ तावत्कालं नाधीयीत ॥
[अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः ॥ कौशिकसूत्र १४,५{१४१}.२४ ॥
अमावास्यायां च ॥ कौशिकसूत्र १४,५{१४१}.२५ ॥
त्रीणि चानध्ययनानि ॥ कौशिकसूत्र १४,५{१४१}.२६ ॥]
उल्कापाते एकरात्रं नाधीयीत । विद्युत्पतिते एकरात्रं नाधीयीत । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः । अपरपक्षे भाद्रपदे । अमावास्यायां पौर्णमास्यां च । फाल्गुनाषाढकार्तिकेषु चातुर्मासिकमेकरात्रमनध्यायः ॥
जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात्सर्वेषु च स्वयोनिषु ॥ कौशिकसूत्र १४,५{१४१}.२७ ॥
[सूतके त्वेको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत् ॥ कौशिकसूत्र १४,५{१४१}.२८ ॥
आचार्यपुत्रभार्याश्च ॥ कौशिकसूत्र १४,५{१४१}.२९ ॥]
मृतेषु स्वयोनिमात्रा गोत्रिणः सूतके यस्य सूतकं स दशरात्रं नाधीयीत । त्रिरात्रमुपाध्यायं च वर्जयेत् । आचार्यपुत्रं भार्यां वा ॥
अथ शिष्यं सहाध्यायिनमप्रधानगुरुं चोपसन्नमहोरात्रं वर्जयेत् ॥ कौशिकसूत्र १४,५{१४१}.३० ॥
[तथा सब्रह्मचारिणं राजानं च ॥ कौशिकसूत्र १४,५{१४१}.३१ ॥
अपर्तुदैवमाकालम् ॥ कौशिकसूत्र १४,५{१४१}.३२ ॥]
अप्रधानसेवकमन्नाद्यं वा चतुर्षु वेदेषु ये उपाध्यायास्तेषां मृते एकरात्रं नाधीयीत । तथा ब्रह्मचारिणं च राजानं च नाधीयीत । अनृतौ वर्षे गर्जिते विद्युत्कृते एकरात्रं नाधीयीत । ऋतौ उपसदि नाधीयीत । दैवोपहतौ एकरात्रं नाधीयीत । ऋतौ तु तावत्कालं नाधीयीत ॥
[अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत् ॥ कौशिकसूत्र १४,५{१४१}.३३ ॥
ऋतावध्यायच्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः सन्ध्यां प्राप्नोति पश्चिमाम् ॥ कौशिकसूत्र १४,५{१४१}.३४ ॥
सर्वेण प्रदोषो लुप्यते ॥ कौशिकसूत्र १४,५{१४१}.३५ ॥
निशि निगदायां च विद्युति शिष्टं नाधीयीत ॥ कौशिकसूत्र १४,५{१४१}.३६ ॥
अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष उभे सन्ध्ये ॥ कौशिकसूत्र १४,५{१४१}.३७ ॥
अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते ॥ कौशिकसूत्र १४,५{१४१}.३८ ॥
दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च ॥ कौशिकसूत्र १४,५{१४१}.३९ ॥
अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः ॥ कौशिकसूत्र १४,५{१४१}.४० ॥
विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्यते ॥ कौशिकसूत्र १४,५{१४१}.४१ ॥]
निर्घातभूमिकम्पौल्काकेतुदर्शननक्षत्रपातदिग्दाहवर्षकृत्लोहितैन्द्रधनुःप्रतिसूर्यगोमायूलूककलहादीनि अद्भुतेषु सर्वेषु त्रिरात्रं नाधीयीत । कल्पनां यथा वेदेषु तथा कुर्यात् । अथवाद्भुतेषु तावत्कालं नाधीयीत । अथवा मध्याह्न(काला)दारभ्यानध्यायः । रात्रौ विद्युद्दर्शने अनध्यायः । रात्रौ गर्जिते च रात्रिशेषे नाधीयीत । अथ तावत्कालं भुक्त्वा प्रदोषमध्यरात्रे नाधीयीत । उभे च सन्ध्ये नाधीयीत । अप्सुमध्ये नाधीयीत । श्मशाने नाधीयीत । अभिशस्ते पातकिनः संसर्गे सन्निधाने नाधीयीत । खिले ऊषरे नाधीयीत । गृहे शवपतिते चतुष्पादद्विपदेषु पतिते नाधीयीत । अध्वायां गच्छन्नाधीयीत । ग्राममध्ये नगरमध्ये नाधीयीत । चाण्डालसन्निधाने शब्दश्रवणे नाधीयीत । दुर्गन्धपुरीषादिगन्धे नाधीयीत । यत्र बहवः शूद्रा मिलित्वा शृण्वन्ति तत्र नाधीयीत । पैङ्गशब्दे यत्र चातुर्वेद्यादिषु एकरात्रं मिलित्वा शब्दं कुर्वन्ति तत्र नाधीयीत । अथवा द्रव्यादिनाशे वा वैधृत्यनगरग्रामादिचौरराजादिनराद्युपद्रवे ब्राह्मणाद्युपद्रवे
नाधीयीत । मलिनवाससा परिहितो नाधीयीत । येन वस्त्रेण परिहितेन मैथुनमाचरति तेन वस्त्रेण परिहितो नाधीयीत । शयनखट्वायामारूढो नाधीयीत । प्रौढपादौ पादोपरि पादं कृत्वा नाधीयीत । अग्रे गुरोः प्रसार्य पादं शुक्तिकां वा बद्ध्वा नाधीयीत । विरम्य मारुते शीघ्रे नाधीयीत । स्वाध्यायं समाप्य पुनर्नाधीयीत । अथवा काण्डं समाप्य नाधीयीत । अतिवाते नाधीयीत । प्रत्यारम्भं कृत्वा नाधीयीत । एतेषु अनध्यायेषु अपररात्रि विरम्य नाधीयीत । प्रभाते अध्ययनं कुर्यात् ॥
[पौषी प्रमाणमभ्रेष्वापर्तु चेदधीयानाम् ॥ कौशिकसूत्र १४,५{१४१}.४२ ॥
वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते ॥ कौशिकसूत्र १४,५{१४१}.४३ ॥]
पौषीप्रमाणं प्रभृति अभ्रेषु । वर्षं विद्युत्स्तनयित्नुर्वा नाधीयीत ॥
[त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं चोपेयुः ॥ कौशिकसूत्र १४,५{१४१}.४४ ॥
सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ कौशिकसूत्र १४,५{१४१}.४५ ॥]
अनध्याये पठिते इदं प्रायश्चित्तं कुर्यात् । त्रिरात्रं दिवा ऊर्ध्वस्तिष्ठेत्रात्रौ उपविशेदेतदेव प्रायश्चित्तम् । ब्रह्मचारी रसभक्षणे एतदेव प्रायश्चित्तम् । सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ चतुर्दशेऽध्याये पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १४१ ॥
चतुर्दशोऽध्यायः समाप्तः ॥
____________________________________________________________________________
[कर्मसङ्गतिः]
अथ कौशिकस्य प्रमाणानि मीमांसावद्योजयितव्यानि । यथा मीमांसायाः प्रथमेऽध्याये वेदस्य प्रमाणमुक्तमेवं संहिताविधावपि आदौ प्रथमसूत्रैः प्रमाणमुक्तम् । ततः कर्मविधानम् । अस्मिन् शास्त्रे द्वादशलक्षणा मीमांसा योजयितव्या । प्रथमेऽध्याये प्रमाणलक्षणम् । द्वितीयेऽध्याये भेदाभेदलक्षणम् । तृतीयेऽध्याये प्रधानाप्रधानलक्षणम् । चतुर्थेऽध्याये क्रत्वर्थपुरुषार्थलक्षणम् । पञ्चमेऽध्याये क्रमलक्षणम् । षष्ठेऽध्याये विकारलक्षणम् । सप्तमेऽध्याये देशलक्षणम् । अष्टमेऽध्याये विशेषातिदेशलक्षणम् । नवमेऽध्याये ऊहलक्षणम् । दशमेऽध्याये बाधाभ्युच्चयलक्षणम् । एकादशेऽध्याये तन्त्रे चोपलक्षणम् । द्वादशेऽध्याये प्रसङ्गलक्षणम् । तथा च उक्तम् । मन्त्रब्राह्मणकल्पेषु परिशिष्टेषु च भाष्येषु च द्वादशलक्षणा मीमांसा सर्वन्यायेषु योजयेत्.
तथा च महाभाष्ये "कानि पुनः शब्दानुशासनस्य प्रयोजनानि । रक्षोहागमलध्वसन्देहाः प्रयोजनानि व्याकरणस्य." व्याकरणेनार्थो निश्चीयते । सर्वेषु मन्त्रब्राह्मणकल्पेषु व्याकरणेनार्थो निश्चीयते । लोकेषु च वेदव्याकरणाद्विना शब्दो वाशब्दो नास्ति यतः । तस्मान्मीमांसाव्याकरणाच्च सम्प्रदायो विशेष्यते । सम्प्रदायेन यो अर्थस्तत्तथेति नान्यथा.
अथ कर्मसङ्गतिः क्रियते । प्रथमं प्रमाणसूत्राणि । ततः सर्वकर्मार्था परिभाषा । ततो मेधाजननानि । ततो ब्रह्मचारिसाम्पदानि । ततो ग्रामसाम्पदानि । ततः सर्वसाम्पदानि । ततः साम्मनस्यानि । ततो राजकर्माणि । ततो निरृतिकर्माणि । ततः पौष्टिकानि । ततो भैषज्यानि । ततः स्त्रीकर्माणि । ततो विज्ञानानि । ततो नैमित्तिकानि । ततोऽभिचाराणि । ततः स्वस्त्ययनानि । तत आयुष्याणि । ततः काम्यभागाः । ततः सवयज्ञाः । ततः क्रव्याच्छमनसहावसथ्याधानम् । ततो विवाहम् । ततोऽन्तेष्टिः । ततः पितृमेधः । ततः पिण्डपितृयज्ञः । ततो मधुपर्कः । ततोऽद्भुतानि । तत आज्यतन्त्रम् । ततोऽष्टकाकर्म । तत उपाकर्म उत्सर्गः । ततः इन्द्रमहः । ततः अध्ययनविधिः । ततः अनध्यायः । इति कर्मसङ्ग्रहः.
अथ सङ्गतिः प्रदृश्यते । प्रथमं मेधाजननमुक्तम् । प्रथमं मेधयाधिकारः । विद्याधिकारो ब्रह्मचारी । ततो ब्रह्मचारिसाम्पदानि । क्रमब्रह्मचर्यविद्याग्रहणे कृते ततो ग्रामसाम्पदकर्माधिकारः । सम्पन्नग्रामगृहक्षेत्रादि । ततः सर्वसाम्पदाधिकारः । सर्वसाम्पदा द्रव्यादि समाप्ते सति साम्मनस्याधिकारः । सं साम्मनस्येति वर्जयित्वाधिकारः । चातुर्वर्ण्यं चातुराश्रमं च राजा वृष्टित्वा धर्मस्येति । एवमादि कर्मसङ्गतिः ॥
[अथर्ववेदमाहात्म्यम्]
अथर्ववेदे भवेद्धर्मो धर्मो रक्षति रक्षतः । तथा चोक्तं पूर्वब्राह्मणेप्रजापतिः प्रजाः सृष्ट्वा पालयस्वेति तदथर्वाभवदिति.
कौशिको वत्सशर्मा च तस्य पुत्रोऽथ दारिलः.
शास्त्रविज्ञानमेषां हि चतुर्थो नोपपद्यते ॥
तदयुक्तं हि यद्वक्तुं बोद्धारः सन्त्यनेकशः ॥
तथा यदेषामन्वये कौशिको ज्ञातवान्.
वाहसात्केशवोत्पन्नः केशवादनन्त उच्यते ॥
अनन्तात्सोमेश्वरो जातः सोमेश्वरात्केशवस्तथा.
सर्वे तेऽथर्ववेदिनः सर्वेऽग्निहोत्रिणस्तथा ॥
सर्वेऽग्निष्टोमादिभिर्यज्ञैर्यजमाना यथाविधि.
सर्वे ते सवयज्ञैश्च यथाविहितदक्षिणैः ॥
महाशान्तिभिर्बहुभिरनेकाभिश्च कारिताः.
सर्वे श्रोत्रियधर्मिष्ठाः सर्वे तपपरायणाः ॥
सर्वे शापानुग्रहसमर्थाः सर्वे शान्ताः सुहृदश्च.
ब्रह्मत्वं तु कृतं तेषां स्वशाखाविहितं तथा ॥
चतुर्णामपि वेदानामथर्वविहितं तथा.
बहुगुणे चात्र वंशे गुणाख्यानं न शक्यते ॥
त्रयाणामपि भाष्याणां सारं जग्राह केशवः.
तेन शिष्याहितार्थाय कृता कौशिकपद्धतिः ॥
सर्वे व्याकरणवेत्तारः सर्वे भट्टप्रभाकराः.
इतिहासपुराणज्ञाः सर्वे स्मृतिपरायणाः ॥
गङ्गातीरे वसन्तश्च बालत्वे मुनिवृत्तयः.
अहङ्कारविनिर्मुक्ताः सर्वे ते धर्मपण्डिताः.
अप्रतिग्रहकाः सर्वे जपहोमपरायणाः ॥
श्रीमत्भोजपुरे विद्वानासीत्सोमेश्वरो द्विजः.
तत्पुत्रकेशवेनैषा कृता कौशिकपद्धतिः ॥
पूर्वाचार्यैः कृता ह्येषा दृशा दृष्ट्वाऽनुकल्पिता.
ज्ञात्वा भाष्याणामनुसारेणाथर्वाङ्गिरसानुमते नरः ॥
सूत्राच्च भाष्याच्चार्थं तु जगाद तु कल्पितम्.
कौशिकं तु न बुध्यन्ति शब्दमीमांसबोधकाः ॥
उपदेशे न बुध्यन्ति बाला अल्पबुद्धयः.
अथर्वणाय कथितं भयेनापि कथञ्चन ॥
तथोपनयनं कृत्वा हितार्थाय कल्पयेद्बुधः.
सर्वे अथर्वआचाराश्चातुर्वर्णाश्च गोत्रिणः ॥
तथा च आह तन्मतं भट्टप्रभाकरवेत्तारः.
तस्यापि शतं ज्ञात्वा कृता पद्धतिरियं तदा ॥
आथर्वणा सर्वेषां भवतु स्वस्ति पिप्पलादगोत्रं तेषां आमुष्यायण सञ्ज्ञितम् । प्रवरत्रयसमाख्यातं काश्यपअसितदेवलब्रह्मादि ब्राह्मणा आनन्दपुरे पुरुषा विशुद्धाः । सर्वे आनन्दपुरसमाख्याता आनन्दपुरविनिश्रुता च आनन्दपुरं वदन्त्यन्ये कल्पग्रामं च परिधिः । नगरि तु वदन्त्यन्ये ओंकारनगरं तथा.
समुद्रमध्ये यथा द्वीपं मानुषाणां तु पार्थिवः.
देवानां तु यथा स्वर्ग पृथिव्यां नगरं तथा ॥
धर्मेण सत्यवाचा च वर्णाश्रमनिरता सदा.
चतुर्थेऽपि वर्णेऽप्यसत्यं नैव च दृश्यते ॥
प्रतिवर्षं च शुद्धिश्च पतनोद्वारैद्यतः । आचारेण स्मृतिधर्मेण यत्नतो ब्राह्मणरक्षणम् । आनन्दपुरगुणाख्यातं वर्णयितुं न शक्योऽहं क्वचित् । यद्दर्शने तु दृश्यते मैत्रीभावपरस्परम् । ब्राह्मणा सूत्रप्रधाना ऋग्यजुःसामाथर्वणाः । आचाररक्षणार्थाय पौष्यां महाशान्तिः क्रियते । पुरे भोजदेवस्य स्थिताथर्वणा बहुशः । कौशिकं चिन्तयित्वा तु कृता पद्धतिस्तथा ॥
इति कौशिकपद्धतौ चतुर्दशोऽध्यायः समाप्तः ॥
आथर्वणशौनकशाखीयानां संहिताविधिः समाप्तः ॥
शान्तिकं पौष्टिकं चैवाभिचारकं तथैव च.
पौरोहित्यं ब्रह्मत्वं च राजविद्या तथैव च ॥
तथा चाथर्वणवेदे ब्राह्मणे
ऋत्विजां च विनाशाय राज्ञो जनपदस्य च.
संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते ॥
चतुष्पात्सकलो यज्ञ इत्यादि निषेधं दर्शयति । चतुर्ष्वपि वेदेषु अथर्वविहितं ब्रह्मत्वं तथा पौरोहित्यं च । तथा गोपथब्राह्मणे
बह्वृचो हन्ति वै राष्ट्रमध्वर्युर्नाशयेत्सुतान्.
छन्दोगो धननाशाय तस्मादाथर्वणो गुरुः ॥
तथा च याज्ञवल्क्यः
पौरोहित्यं च कुर्वीत दैवज्ञमुदितोदितम्.
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥
तथा विष्णुपुराणे पौरोहित्यं शान्तिकपौष्टिकानि राज्ञामथर्ववेदेन कारयेत्ब्रह्मत्वं च ॥
तथा च ब्रह्माण्डपुराणे अथर्वाङ्गिरसं ब्राह्मणं राजपुरोहिते नियुज्यते । शान्त्यादीनि च कारयेत् ॥
तथा च मत्स्यपुराणे अथर्वमन्त्रपाठकं सर्वशरीरपूर्णयुक्तं ब्राह्मणं पुरोहितम् ॥
तथा च वाराहपुराणे पुरोहितलक्षणे अथर्वमन्त्रब्राह्मणपाठकम् ॥
तथा च पैठीनसिः
यस्त्वन्यं भोजयेच्छ्राद्धे विद्यमानेऽप्यथर्वणे.
निराशास्तस्य गच्छन्ति देवताः पितृभिः सह ॥
तथा च कामन्दकिः
तथा च दण्डनीत्यां च कुशलः स्यात्पुरोहितः.
अथर्वविहितं कर्म कुर्यात्शान्तिकपौष्टिकम् ॥
तथा चाणक्ये पुरोहितकर्मे शान्तिकपौष्टिकाभिचारिकाद्भुतशान्त्यादीनि । चत्वारो वेदा यज्ञे विनियुक्ताः ॥
तथा भारते ऽपौरोहित्यं पौत्रो अथर्वविद्यां शान्तिं कारयेत्ऽ इति । इन्द्रेण बृहस्पतिरथर्वाङ्गिरसं सुश्राव स्वर्गो मेऽसुरैर्गृहीत इति । स शान्तिकर्मादीनि जयकर्माणि कृत्वा पुनः स्वर्गो अभवत् ॥
तथा भारते द्रुपदेन सर्वकुलक्षयार्थमथर्वाङ्गिरसौ याजोपयाजौ द्वौ भ्रातरौ स्तः । एकस्य पार्श्वात्कृत्या कारापिता ॥
तथा च अथर्वपरिशिष्टे
न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः.
तस्य भूमिपतेर्यस्य गृहे नाथर्वविद्गुरुः ॥
तथा रघुकाव्ये वसिष्ठस्तुतिः
अथाथर्वनिधेस्तस्य विजितारिपुरस्सरः.
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥
तथा च मनुः श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकम् ॥
तथा पैठीनसिः
ऋग्वेदैकगुणं दानं द्विगुणं च यजुर्वेदे.
त्रिगुणं सामवेदे प्रोक्तमनन्तं स्यादथर्वणे ॥
तथा च वाराहज्योतिषे अथर्वाङ्गिरसमहाशान्तिभिः कोटिहोमाच्चाद्भुतानां च शमनं भवति ॥
तथारिपुत्रके च वायुलक्षणे खण्डखाद्ये अथर्वमहाशान्तिः पठिताः शमनार्थाः । तथा पुण्याभिषेकाद्यथर्वविदोक्तानि राजकर्माणि च.
तथा चरकवैद्यके द्विविधा व्याधयः । आहारनिमित्ता अशुभनिमित्ताश्च । अशुभेषु अथर्ववेदशान्त्या शमनं भवति.
तथा पुराणे अयुतलक्षकोटिहोमादिषु अग्निस्थापनं गृहस्थापनं पूर्णाहुतिवसोर्धारादि अथर्ववेदे.
तथा च गौतमः शान्तिकपौष्टिकाभिचारकवशीकरणादिकर्माणि कारयेत्.
तथा मीमांसायां भट्टः शान्तिपुष्ट्यभिचारा एकब्रह्मर्त्विगाश्रयाः क्रिया अथर्ववेदे क्रियन्ते ॥
तथा मार्कण्डेयपुराणे अथर्वमन्त्रैरभिषिकस्तु पृथिवीं भुङ्क्ते ससागराम् ॥
तथा च परिशिष्टे
यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः.
निवसत्यपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥
तस्माद्राजा विशेषेण अथर्वाणं जितेन्द्रियम्.
दानसन्मानसंस्कारैर्नित्यं समभिपूजयेत् ॥
नित्यं च कारयेच्छान्तिं ग्रहऋक्षाणि पूजयेत्.
तथा मीमांसायां षष्ठेऽध्याये पुरोहिताधिकरणे एकवचनमथर्ववेदे श्रूयते । एकं पुरोहितम् ॥
तथा पुराणे ब्राह्मणानि दानानि वाऽथर्ववेदविहितानि कारयेत् ॥
एतैश्चानेकैश्च वाक्यैर्विहितमथर्ववेदशान्तिकम् । सर्वेषां मतेन सविवरणः सर्वशास्त्रेषु समस्तकेषु । तथा गृह्यटीकायाम् महाशान्त्या सर्वराष्ट्रवृद्धिर्भवति । वृद्धिश्च.
तथा वायुपुराणे चत्वारो वेदा व्यासेन विभज्य होत्रध्वर्युरुद्गात्रं ब्रह्मत्वमिति । शान्तिं च ब्रह्मत्वं च अथर्ववेदविहितम्.
तथा अष्टादशपुराणेषु ब्रह्मत्वं च शान्तिमथर्ववेदे । तथा अष्टादशपुराणेषु राजा अथर्ववेदेन सर्वकर्माणि कारयेत् । राज्ञोऽथर्ववेदशान्तिभिर्जयो भवति । राष्ट्रवृद्धिश्च भवति.
तथा ब्राह्मणे ऽअथर्वाणश्च ह वा आङ्गिरसश्चऽ इत्यादि यज्ञे श्राद्धादि कर्मसु । एतस्य वाचि तृप्तायामग्निस्तृप्यति । प्राणे तृप्ते वायुस्तृप्यत्यादि प्रशंसविधिः अथर्ववेदस्य ॥
तथा भारते भृग्वङ्गिरेण विश्वामित्रो राजा ब्राह्मणः कृतः.
तथा भारते भृगुणा प्रतर्दनो राजा ब्राह्मणः कृतः.
तथाङ्गिरसेन काशिराजस्य नष्टराज्यस्य पुत्रशान्तिं कृत्वा पृथिवीं भुङ्क्ते । इन्द्रमरुत्वतीये आख्याने मरुत्वे वर्ते पुरोहितं कृत्वा इन्द्रप्रतिमो भवस्याहवे इन्द्रेण तस्य वज्रं प्रक्षिप्तम् । अथर्वाङ्गिरसेन निवारितम् । तथा भृगूणां शापेन नहुषो राजा सर्पो अजगरो भवति । तथा भार्गवेण ऋचीकेन सुकन्याविवाहं कृत्वा अश्विनीकुमाराभ्यां वेदाभ्यासः युवा कृतः तेन तौ देवमध्यस्थापितौ यज्ञभागं च प्रापितौ । तथा जनमेजयस्य राज्ञः पुरोहितेन भार्गवेण शौनकेन सर्पसत्रं प्रारब्धम् । तत्र भार्गवो होता । प्रधानकर्ता । सर्पा निपातिताः । तथा राक्षसशस्त्रेण भार्गवेण वसिष्ठपौत्रेण पाराशरेण राक्षसा निपातिताः । शेषा भार्गवपुलस्त्यवचने रक्षिताः.
तथा पूर्वब्राह्मणे तस्माद्य एव सर्ववित्स्यात्तं ब्रह्माणं कुर्वीत । एष ह वै विद्वान् सर्वविद्ब्रह्मा यद्भृग्वङ्गिरोवित् । एते ह वा अस्य सर्वस्य शमयितारः पालयितार इति.
तथा संहिताविधौ "तत्र राजा भूमिपतिर्विद्वांसं ब्राह्मणमिच्छेदेष ह वै विद्वान् यद्भृग्वङ्गिरोविदेते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद्भृग्वङ्गिरसः" (Kऔश्ष्९४.२४) इति.
तथा स्वस्त्ययनेषुऽशकधूम किमद्याहःऽ इति पृच्छति । भद्रं सुमङ्गलमिति प्रतिपद्यते । प्रस्थानादिति.
तथा च नक्षत्रकल्पे करिष्यमाणसङ्ग्रामं प्रतिपद्यते तेन क्षत्रियः अथर्वाङ्गिरसं पुरोहितमिच्छेद्विद्वांसं शास्त्रवित्तमम्.
तथा अथर्वाङ्गिरसो ब्राह्मणो वा अहोरात्रयोः पुण्याहं पृच्छेत् । केनाजितेति । स चेद्ब्रूयात्कर्तव्यमिति । तथा कुर्यात् । पुण्याहं भवति पुण्याह एव कुरुते प्रस्थाने । अन्यत्र वा व्यासो भार्गवः मार्कण्डेयो भार्गवो दुर्वासा भार्गवः शुक्रबृहस्पतिभृग्वङ्गिरः.
तथा यजुर्वेदे प्रतिज्ञा नाम परिशिष्टम् ऽहस्तिशल्यां अश्वलक्षणं आयुधायुर्वेदविद्या दातव्यान्तरिक्षभूमौत्पातप्रशमनः शान्तिस्वस्त्ययनमङ्गलार्थाः पराभिचारोच्चाटनवशीकरणसम्मोहनार्थाश्च यावन्तः सर्वे ते अथर्ववेदस्योपवेदाःऽ (३५.१) ॥
अथ महाभाष्ये प्रथमे पादे श्रूयते ऋग्वेदो यजुर्वेदः सामवेदो अथर्ववेद इति चत्वारो वेदाः । ऋग्वेद एकविंशतिशाखाः । तथाऽचत्वारि शङ्गा इति चत्वारो वेदा इति व्याख्यातम्ऽ ॥
तथा महाभाष्ये द्वितीये पादे विभाषा छन्दसीति सूत्रेऽशं नो देवीःऽ,ऽअग्निमीΩएऽऽइषे त्वाऽऽअग्न आ याहिऽ इति । आदौ अथर्ववेदस्ततोऽन्ये वेदाः.
तथा निरुक्ते चत्वारि शृङ्गा इति व्याख्यातम्.
तथा अथर्ववेदे ब्राह्मणे चत्वारि शृङ्गा इत्यृचा चत्वारो वेदाः इति व्याख्यातम्.
तथा मीमांसायां प्रथमपादे वेदाधिकरणे अथर्ववेदस्य शाखाद्वयमुदाहृतं पैप्पलादं मौदकमिति । अकृतका नित्याः प्रमाणं वेदा इति स्थापितम् ॥
तथा मीमांसायां द्वितीयेऽध्याये सर्वशाखाधिकरणे पैप्पलादं मौदकमिति अथर्ववेदस्य शाखाद्वयमुदाहृत्य सर्वशाखाप्रत्ययक्रमे स्थापितम् ॥
तथा तृतीयेऽध्याये प्रवर्ग्याधिकरणे चतुर्ष्वपि वेदेषु न प्रथमयज्ञो नाम यज्ञोऽस्ति चतुर्वेदग्रहणं कृतम् । चतुर्णां वेदानां यज्ञार्थमुक्तम् । भाष्यकारेण तथा अथर्ववेदाधिकरणे चत्वारि शृङ्गेति चत्वारो होत्रकाः प्रतिवेदमिति व्याख्यातम्.
तथा न्यायमञ्जर्यां चत्वारो वेदाः । प्रथमो अथर्ववेद इति.
पूर्वब्राह्मणे अथर्ववेदेन त्रयो वेदाः कृताः । अथो लोका वेदादयश्च । तथा अथर्ववेदे ब्राह्मणे अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाचकं वा होतारं वृणीयात् । कमध्वर्युं कमुद्गातारं कं ब्राह्मणमिति । त ऊचुरृग्विदमेव होतारं वृणीष्व यजुर्विदमध्वर्युं सामविदमुद्गातारमथर्वाङ्गिरोविदं ब्रह्माणम् । तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतस्रासु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति । प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । तथानुचरापि तद्विदो भवन्ति । चतुर्ष्वपि वेदेषु ॥
तथा उत्तरे ब्राह्मणे
चतुष्पात सकलो यज्ञश्चातुहौत्रविनिर्मितः.
चतुर्विधैः स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः ॥
भारते सभापर्वणि ब्रह्मसभायां चत्वारो वै ब्रह्मपार्श्वे तिष्ठन्ति मूर्तिमन्ताः ॥
पूर्वब्राह्मणे त्रिविष्टपं त्रिदिवं नाकमुत्तमं तमेतया त्रय्या विद्ययेति । अत उत्तरे ब्रह्मलोका
महान्तोऽथर्वणामङ्गिरसां च सा गतिरथर्वणामङ्गिरस च सा गतिरिति ब्राह्मणम् ॥
इति कौशिकपद्धतिः समाप्ता ॥