← अध्यायः ०१ कौषीतकिब्राह्मणम्
अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →
अग्निहोत्रम्


२.१ पयोहोमः
घर्मो वा एष प्रवृज्यते यद् अग्निहोत्रम् । तद् असौ वै घर्मो यो असौ तपति । एतम् एव त प्रीणाति । स वै सायम् च प्रातश् च जुहोति । अग्नये सायम् सूर्याय प्रातः । सौर्यम् वा अहर् आग्नेयी रात्रिः । मुखत एव तद् अहो रात्रे प्रीणाति । पयसा जुहुयात् । एष ह वै सर्वासाम् ओषधीनाम् रसो यत् पयः । सर्वैर् एव तद् रसैर् अग्नीन् प्रीणाति । तद् उ वा आहुर् यद् अशनस्य एव जुहुयात् । सर्वम् वा इदम् अग्नेर् अन्नम् । स्वेन एव तद् अन्नेन अग्नीन् प्रीणाति इति । गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् । श्रपणो वै गार्हपत्यः । आहवन आहवनीयः । तस्माद् गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् । द्व्य् अन्तान् अङ्गारान् करोति । इमाव् एव तल् लोकौ वितारयति । तस्माद्द् हि इमौ लोकौ सह सन्तौ नाना इव । अथ यद् अधिश्रित्य अवद्योतयति । श्रपयत्य् एव एतत् तत् । अथ यद् अपः प्रत्यानयति । आपः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति । हविष एव कृत्स्नतायै । अथ यत् पुनर् अवद्योगयति । त्रिवृद्द् हि देव कर्म । अनुच्छिन्दन्न् इव हरेति । तथा ह यजमानो अप्रच्यावुको भवति । अथ उपवेषेण दक्षिणतो अङ्गारान् उपस्पृशति नमो देवेभ्य इति । न हि नमस् कारम् अति देवाः । सुप्रत्यूढान् अङ्गारान् प्रत्यूहेत् । तथा ह अस्य न अन्तम चारिणो चन नश्यति । चतुर् उन्नयेत् । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । पञ्च कृत्व उन्नयेत् । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

२.२ पयःप्राशनम् अग्न्युपस्थानम्
उपसदो अग्निहोत्रे वेदितव्याः । उन्नीय उत्तरेण गार्हपत्यम् उपसादयति । तद् इमंल् लोकम् आप्नोति । आहवनीये होष्यन् द्वितीयम् । पालाशीम् समिधम् अभ्यादधाति । सोमो वै पलाशः । सा प्रथमा सोम आहुतिः । प्रादेश मात्री भवति । प्रादेश मात्रम् हि इम आत्मनो अधि प्राणाः । द्व्य् अङ्गुलम् समिधो अतिहृत्य अनुदृभन्न् इव अभिजुहोति । द्व्य् अङ्गुले वा इदम् मुखस्य अन्नम् धीयते । धूमायन्त्याम् ग्राम कामस्य जुहुयात् । ज्वलन्त्याम् ब्रह्म वर्चस कामस्य । अङ्गारेषु पशु कामस्य । अभ्याधाय इति त्व् एव स्थितम् । अत्र ह्य् एव एते सर्वे कामा उपाप्यन्त इति । उभे आहुती हुत्वा जपति । या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति । या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य भवति । उत्तराव् अवतीर आहुतीर् ( उत्तर अवतीर आहुतीर्) जुहुयात् । उत्तर उत्तरिण एव तत् स्वर्गांल् लोकान् आप्नोति । स्रुचो बुध्नेन अङ्गारान् उपस्पृशति । स्वर्ग एव तल् लोके यजमानम् दधाति । द्विर् उदीचीम् स्रुचम् उद्यच्छति । रुद्रम् एव तत् स्वायाम् दिशि प्रीत्वा अवसृजति । तस्माद्द् हूयमानस्य उत्तरतो न तिष्ठेत् । न इद् एतस्य अखिलस्य देवस्य परिप्राध्वे असानि इति । ताम् उत्तरतः सायम् उपमार्ष्टि प्रतीचीम् । आदित्यम् तद् अस्तम् नयति । दक्षिणत ऊर्ध्वाम् प्रातः । आदित्यम् तद् उन्नयति । यत् पूर्वम् उपमार्ष्टि तत् कूर्चे निलिम्पति । ओषधीस् तेन प्रीणाति । यद् द्वितीयम् तद् दक्षिणेन कूर्चम् उत्तानम् पाणिम् निदधाति । पितॄंस् तेन प्रीणाति । अथ यद् द्षिप् प्रदेशिन्या प्राश्नाति । गर्भान् पूर्वेण प्रीणाति । तस्माद् अनश्नन्तो गर्भाः प्राणन्ति । वयांस्य् उत्तरेण । तस्माद् वयांसि बहु किंच किंचिद् इव भक्षयन्ति श्वेतम् इव प्रस्रावयन्ति । अथ यत् स्रुचा भक्षयति । भूतम् च तेन भव्यम् च प्रीणाति । अथ यत् स्रुचम् निर्लेढि । सर्व देव जनांस् तेन प्रीणाति । अथ यत् स्रुचम् मार्जयते । रक्षो देव जनांस् तेन प्रीणाति । अथ यत् प्राचीरु उदीचीर् अप उत्सिञ्चति । गन्धर्व अप्सरसस् तेन प्रीणाति । अथ यत् प्राचीम् उदीचीम् स्रुचम् उद्दिशति । रुद्रम् एव तत् स्वायाम् दिशि दधाति । एवम् अग्निहोत्रेण सर्वाणि भूतानि प्रीणाति ।

२.३ आहवनीयाग्निहोमः
आहवनीय एव जुहुयाद् इति ह एक आहुः । सर्वेषु त्व् एव जुहुयात् । होमाय ह्य् एत आधीयन्ते । चतस्रो गार्हपत्ये । चतस्रो अन्वाहार्य पचने । द्वे आहवनीये । ता दश सम्पद्यते । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । स य एवम् विराट् सम्पन्नम् अग्निहोत्रम् जुहोति । सर्वान् कामान् आप्नोति ।

२.४ अग्न्युपस्थानम् व्रतविसर्जनञ्च
अथ यद् हुत्वा अग्नीन् उपतिष्ठते । प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते । यद् व् एव वत्सम् स्पृशति । तस्माद् वात्सप्रम् । तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति । अथ यद् अप आचम्य व्रतम् विसृजते । अप्स्व् एव तद् व्रतम् दधाति । ता अस्य व्रतम् गोपायन्त्या पुनर् होमात् ।

२.५ प्रवत्स्यता प्रोषितेन च अग्न्युपस्थानम्
अथो यत् प्रवत्स्यंश् च प्रोषिवांश् च अग्नीन् उपतिष्ठते । अभिवादो ह एष देवतायै यद् उत्काशम् भवति । अथो अग्निभ्य एव एतद् आत्मानम् परिददाति । ये च एनम् अन्वञ्चो भवन्ति ।

२.६ अग्नेः अरणिसमारोहणम्
अथ यद् अरण्योर् अग्नीन्त् समारोहयते । देव रथो वा अरणी । देव रथ एव एनांस् तत् समारोपयते । स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते । यद् व् एव पुनः पुनर् निर्मन्थते । तेनो ह एव अस्य पुनर् आधेयम् उपाप्तम् भवति ।

२.७ वाचः अन्येन्द्रियाणां च संबन्धः
ये वै के च आनन्दा अन्ने पाने मिथुने । रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते । तेषाम् रात्रिः कारोतरः । य उ वै के च आनन्दाः । अन्नाद् एव ते सर्वे जायन्ते । ते देवा अब्रुवन् । कथम् न्व् इमान् वयम् आनन्दान् अस्मादृशस्य एव प्रतिगृह्णीयाम इति । ते अपाम् ऊर्ध्वम् रसम् उदौहन् । ता ओषधयश् च वनस्पतयश् च समभवन् । ओषधीनाम् च वनस्पतीनाम् च ऊर्ध्वम् रसम् उदौहन् । तत् फलम् अभवत् । फलस्य ऊर्ध्वम् रसम् उदौहन् । तद् अन्नम् अभवत् । अन्नस्य ऊर्ध्वम् रसम् उदौहन् । तद् रेतो अभवत् । रेतस ऊर्ध्वम् रसम् उदौहन् । स पुरुषो अभवत् । सो अयम् पुरुषो यत् प्राणिति वा अपानिति वा । न तत् प्राणेन न अनापेन आह इति प्राणिषम् वा अपानिषम् वा इति । वाचा एव तद् आह । तत् प्राण अवानौ वाचम् अपीतो वान्मयौ भवतः । अथ यच् चक्षुषा पश्यति । न तच् चक्षुषा आह इत्य् अद्राक्षम् इति । वाचा एव तद् आह । तच् चक्षुर् वाअचम् अप्येति वान्मयम् भवति । अथ यत् श्रोत्रेण शृणोति । न तत् श्रोत्रेण आह इत्य् अश्रौषम् इति । वाचा एव तद् आह । तत् श्रोत्रम् वाचम् अप्येति वान्मयम् भवति । अथ यन् मनसा संकल्पयते । न तन् मनसा आह इति समचीकॢपम् इति । वाचा एव तद् आह । तन् मनो वाचम् अप्येति वान्मयम् भवति । अथ यद् अङ्गैः सुशीमम् वा दुह्शीमम् वा स्पृशति । न तद् अङ्गैर् आह इति सुशीमम् वा दुह्शीमम् वा अस्प्राक्षम् इति । वाचा एव तद् आह । तत् सर्व आत्मा वाचम् अप्येति वान्मयो भवति । तद् एतद् ऋचा अभ्युदितम् । न इन्द्राद् ऋते पवते धाम किंचन इति । वाग् वा इन्द्रः । न ह्य् ऋते वाचः पवते धाम किंचन । स वै सायम् जुहोत्य्

२.८ अग्निहोत्रविज्ञानफलम्
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति । तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह । स सत्यम् वदति । तस्य अयम् वाङ्मय आत्मा सत्यमयो भवति । सत्यमया उ देवाः । अथ स्वाहा इति जुहोति । तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति । रात्र्या उ शीर्षन्त् सत्यम् वदति । स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति । सत्यम् ह एव अस्य उदितम् भवति । रात्र्या उ हि शीर्षन्त् सत्यम् वदति । अथ प्रातर् जुहोति सूर्यो ज्योतिर् ज्योतिः सूर्य इति । तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह । स सत्यम् वदति । तस्य अयम् वाङ्मय आत्मा सत्यमयो भवति । सत्यमया उ देवाः । अथ स्वाहा इति जुहोति । तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति । अह्न उ शीर्षन्त् सत्यम् वदति । स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति । सत्यम् ह एव अस्य उदितम् भवति । अह्न उ हि शीर्षन्त् सत्यम् वदति । स वा एषो अग्निर् उद्यत्यादित्य आत्मानम् जुहोति अथ अस्तम् यन्त् साये अग्नाव् आत्मानम् जुहोति । रात्रिर् एव अहन् जुहोत्य् अहोरात्र्यां । प्राण एव अपाने जुहोत्य् अपानः प्राणे । तानि वा एतानि षड् जुह्वत्य् अन्योन्य आत्मानम् । स य एतानि षड् जुह्वति वेद । अजुह्वत एव अस्य अग्निहोत्रम् हुतम् भवति । जुह्वत एव अस्य द्विर् हुतम् भवति य एवम् एव । स यदि ह वा अपि सुरुशाद् एवम् विद्वान् अग्निहोत्रम् जुहोति । प्रति ह एव अस्य एते देवा आहुती गृह्णन्ति । यस्यो ह वा अपि देवाः सकृद् अश्नन्ति । तत एव सो अमृतः । सत्यमयो ह वा अमृतमयः सम्भवति य एवम् वेद । तद् यथा ह वै श्रद्धा देवस्य ( एव अस्य ) सत्यवादिनस् तपस्विनो हुतम् भवति । एवम् ह एव अस्य हुतम् भवति । य एवम् विद्वान् अग्निहोत्रम् जुहोति । तस्माद् एवंविद् अग्निहोत्रम् जुहुयाद् इति ।

२.९ अग्निहोत्रकालविवेचनम्
उदिते होतव्यम् अनुदित इति मीमांसन्ते । स य उदिते जुहोति । प्रसवत एव एतन् महते देवाय आतिथ्यम् करोति । अथ यो अनुदिते जुहोति । सन्निहिताय एव एतन् महते देवाय आतिथ्यम् करोति । तस्माद् अनुदिते होतव्यम् । तद्द् ह अपि वृष शुष्मो वातावतः पूर्वेषाम् एको जीर्णिः शयानो रात्र्याम् एव उभे आहुती हूयमाने दृष्ट्वा उवाच । रात्र्याम् एव उभे आहुती जुह्वति इति । रात्र्या हि इति स ह उवाच । वक्ता अस्मो ( वक्तास्मो) न्व् एव वयम् अमुंल् लोकम् परेत्य पितृभ्यः । अथो एव एनम् न श्रद्धातारः । यद् व् एव एतद् उभये द्युर् अग्निहोत्रम् अहूयत । अन्ये द्युर् वा तद् एतर्हि हूयते । रात्र्याम् एव इत्य् एतद् एव कुमारी गन्धर्व गृहीता उवाच । रात्र्याम् एव उभे आहुती जुह्वति इति । रात्र्याम् हि इति सा ह उवाच । संधौ जुहुयात् । समुद्रो ह वा एष सर्वम् हरो यद् अहो रात्रे । तस्य ह एते गाधे तीर्थे यत् संध्ये । तद् यथा गाधाभ्याम् तीर्थाभ्याम् समुद्रम् अतीयात् तादृक् तत् । यत् संधौ जुहोति । अथो देव सेना ह वा एष अध्वगा हनिष्यन्ती यद् अहो रात्रे । तस्या ह एते पक्षसी यत् संध्ये । तद् यथा पक्षाभ्याम् क्षिप्रम् अध्वानम् अन्वियात् तादृक् तत् । यत् संधौ जुहोति । अथो मृत्योर् ह वा एतौ विराज बाहू यद् अहोरात्रे । तद् यथा विराज बाहुभ्याम् परिजिग्रहीष्यन्न् अन्तरेण अतिमुच्येत तादृक् तत् । यत् संधौ जुहोति । तद् उ ह स्म आह कौषीतकिः । सायम् अस्तमिते पुरा तमसस् तस्मिन् काले जुहुयात् । स देव यानः केतुः । तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति । प्रातः पुरोदयाद् अपहते तमसि तस्मिन् काले जुहुयात् । स देव यानः केतुः । तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति । अथ यो अतो अन्यथा अग्निहोत्रम् जुहोति । श्याम शबलौ ह अस्य अग्निहोत्रम् विखिदतः । अहर् वै शबलः । रात्रिः श्यामः । स यो महा रात्रे जुहोति । श्यामो ह अस्य अग्निहोत्रम् विखिदति । अथ यो महा अह्ने जुहोति । शबलो ह अस्य अग्निहोत्रम् विखिदति । तद् वै खलु यदा एव कदाचन जुहुयात् । हुत समृद्धिम् एव उपासीत इति हुत समृद्धम् एव उपासीत इति ।  

२.१ पयोहोमः
घर्मो वा एष प्रवृज्यते यद् अग्निहोत्रम् ।
तद् असौ वै घर्मो यो असौ तपति ।
एतम् एव त प्रीणाति ।
स वै सायम् च प्रातश् च जुहोति ।
अग्नये सायम् सूर्याय प्रातः ।
सौर्यम् वा अहर् आग्नेयी रात्रिः ।
मुखत एव तद् अहो रात्रे प्रीणाति ।
पयसा जुहुयात् ।
एष ह वै सर्वासाम् ओषधीनाम् रसो यत् पयः ।
सर्वैर् एव तद् रसैर् अग्नीन् प्रीणाति ।
तद् उ वा आहुर् यद् अशनस्य एव जुहुयात् ।
सर्वम् वा इदम् अग्नेर् अन्नम् ।
स्वेन एव तद् अन्नेन अग्नीन् प्रीणाति इति ।
गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
श्रपणो वै गार्हपत्यः ।
आहवन आहवनीयः ।
तस्माद् गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
द्व्य् अन्तान् अङ्गारान् करोति ।
इमाव् एव तल् लोकौ वितारयति ।
तस्माद्द् हि इमौ लोकौ सह सन्तौ नाना इव ।
अथ यद् अधिश्रित्य अवद्योतयति ।
श्रपयत्य् एव एतत् तत् ।
अथ यद् अपः प्रत्यानयति ।
आपः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति ।
हविष एव कृत्स्नतायै ।
अथ यत् पुनर् अवद्योगयति ।
त्रिवृद्द् हि देव कर्म ।
अनुच्छिन्दन्न् इव हरेति ।
तथा ह यजमानो अप्रच्यावुको भवति ।
अथ उपवेषेण दक्षिणतो अङ्गारान् उपस्पृशति नमो देवेभ्य इति ।
न हि नमस् कारम् अति देवाः ।
सुप्रत्यूढान् अङ्गारान् प्रत्यूहेत् ।
तथा ह अस्य न अन्तम चारिणो चन नश्यति ।
चतुर् उन्नयेत् ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
पञ्च कृत्व उन्नयेत् ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

२.२ पयःप्राशनम् अग्न्युपस्थानम्
उपसदो अग्निहोत्रे वेदितव्याः ।
उन्नीय उत्तरेण गार्हपत्यम् उपसादयति ।
तद् इमंल् लोकम् आप्नोति ।
आहवनीये होष्यन् द्वितीयम् ।
पालाशीम् समिधम् अभ्यादधाति ।
सोमो वै पलाशः ।
सा प्रथमा सोम आहुतिः ।
प्रादेश मात्री भवति ।
प्रादेश मात्रम् हि इम आत्मनो अधि प्राणाः ।
द्व्य् अङ्गुलम् समिधो अतिहृत्य अनुदृभन्न् इव अभिजुहोति ।
द्व्य् अङ्गुले वा इदम् मुखस्य अन्नम् धीयते ।
धूमायन्त्याम् ग्राम कामस्य जुहुयात् ।
ज्वलन्त्याम् ब्रह्म वर्चस कामस्य ।
अङ्गारेषु पशु कामस्य ।
अभ्याधाय इति त्व् एव स्थितम् ।
अत्र ह्य् एव एते सर्वे कामा उपाप्यन्त इति ।
उभे आहुती हुत्वा जपति ।
या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति ।
या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य भवति ।
उत्तराव् अवतीर आहुतीर् ( उत्तर अवतीर आहुतीर्) जुहुयात् ।
उत्तर उत्तरिण एव तत् स्वर्गांल् लोकान् आप्नोति ।
स्रुचो बुध्नेन अङ्गारान् उपस्पृशति ।
स्वर्ग एव तल् लोके यजमानम् दधाति ।
द्विर् उदीचीम् स्रुचम् उद्यच्छति ।
रुद्रम् एव तत् स्वायाम् दिशि प्रीत्वा अवसृजति ।
तस्माद्द् हूयमानस्य उत्तरतो न तिष्ठेत् ।
न इद् एतस्य अखिलस्य देवस्य परिप्राध्वे असानि इति ।
ताम् उत्तरतः सायम् उपमार्ष्टि प्रतीचीम् ।
आदित्यम् तद् अस्तम् नयति ।
दक्षिणत ऊर्ध्वाम् प्रातः ।
आदित्यम् तद् उन्नयति ।
यत् पूर्वम् उपमार्ष्टि तत् कूर्चे निलिम्पति ।
ओषधीस् तेन प्रीणाति ।
यद् द्वितीयम् तद् दक्षिणेन कूर्चम् उत्तानम् पाणिम् निदधाति ।
पितॄंस् तेन प्रीणाति ।
अथ यद् द्षिप् प्रदेशिन्या प्राश्नाति ।
गर्भान् पूर्वेण प्रीणाति ।
तस्माद् अनश्नन्तो गर्भाः प्राणन्ति ।
वयांस्य् उत्तरेण ।
तस्माद् वयांसि बहु किंच किंचिद् इव भक्षयन्ति श्वेतम् इव प्रस्रावयन्ति ।
अथ यत् स्रुचा भक्षयति ।
भूतम् च तेन भव्यम् च प्रीणाति ।
अथ यत् स्रुचम् निर्लेढि ।
सर्व देव जनांस् तेन प्रीणाति ।
अथ यत् स्रुचम् मार्जयते ।
रक्षो देव जनांस् तेन प्रीणाति ।
अथ यत् प्राचीरु उदीचीर् अप उत्सिञ्चति ।
गन्धर्व अप्सरसस् तेन प्रीणाति ।
अथ यत् प्राचीम् उदीचीम् स्रुचम् उद्दिशति ।
रुद्रम् एव तत् स्वायाम् दिशि दधाति ।
एवम् अग्निहोत्रेण सर्वाणि भूतानि प्रीणाति ।

२.३ आहवनीयाग्निहोमः
आहवनीय एव जुहुयाद् इति ह एक आहुः ।
सर्वेषु त्व् एव जुहुयात् ।
होमाय ह्य् एत आधीयन्ते ।
चतस्रो गार्हपत्ये ।
चतस्रो अन्वाहार्य पचने ।
द्वे आहवनीये ।
ता दश सम्पद्यते ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
स य एवम् विराट् सम्पन्नम् अग्निहोत्रम् जुहोति ।
सर्वान् कामान् आप्नोति ।

२.४ अग्न्युपस्थानम् व्रतविसर्जनञ्च
अथ यद् हुत्वा अग्नीन् उपतिष्ठते ।
प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते ।
यद् व् एव वत्सम् स्पृशति ।
तस्माद् वात्सप्रम् ।
तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति ।
अथ यद् अप आचम्य व्रतम् विसृजते ।
अप्स्व् एव तद् व्रतम् दधाति ।
ता अस्य व्रतम् गोपायन्त्या पुनर् होमात् ।

२.५ प्रवत्स्यता प्रोषितेन च अग्न्युपस्थानम्
अथो यत् प्रवत्स्यंश् च प्रोषिवांश् च अग्नीन् उपतिष्ठते ।
अभिवादो ह एष देवतायै यद् उत्काशम् भवति ।
अथो अग्निभ्य एव एतद् आत्मानम् परिददाति ।
ये च एनम् अन्वञ्चो भवन्ति ।

२.६ अग्नेः अरणिसमारोहणम्
अथ यद् अरण्योर् अग्नीन्त् समारोहयते ।
देव रथो वा अरणी ।
देव रथ एव एनांस् तत् समारोपयते ।
स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
यद् व् एव पुनः पुनर् निर्मन्थते ।
तेनो ह एव अस्य पुनर् आधेयम् उपाप्तम् भवति ।

२.७ वाचः अन्येन्द्रियाणां च संबन्धः
ये वै के च आनन्दा अन्ने पाने मिथुने ।
रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते ।
तेषाम् रात्रिः कारोतरः ।
य उ वै के च आनन्दाः ।
अन्नाद् एव ते सर्वे जायन्ते ।
ते देवा अब्रुवन् ।
कथम् न्व् इमान् वयम् आनन्दान् अस्मादृशस्य एव प्रतिगृह्णीयाम इति ।
ते अपाम् ऊर्ध्वम् रसम् उदौहन् ।
ता ओषधयश् च वनस्पतयश् च समभवन् ।
ओषधीनाम् च वनस्पतीनाम् च ऊर्ध्वम् रसम् उदौहन् ।
तत् फलम् अभवत् ।
फलस्य ऊर्ध्वम् रसम् उदौहन् ।
तद् अन्नम् अभवत् ।
अन्नस्य ऊर्ध्वम् रसम् उदौहन् ।
तद् रेतो अभवत् ।
रेतस ऊर्ध्वम् रसम् उदौहन् ।
स पुरुषो अभवत् ।
सो अयम् पुरुषो यत् प्राणिति वा अपानिति वा ।
न तत् प्राणेन न अनापेन आह इति प्राणिषम् वा अपानिषम् वा इति ।
वाचा एव तद् आह ।
तत् प्राण अवानौ वाचम् अपीतो वान्मयौ भवतः ।
अथ यच् चक्षुषा पश्यति ।
न तच् चक्षुषा आह इत्य् अद्राक्षम् इति ।
वाचा एव तद् आह ।
तच् चक्षुर् वाअचम् अप्येति वान्मयम् भवति ।
अथ यत् श्रोत्रेण शृणोति ।
न तत् श्रोत्रेण आह इत्य् अश्रौषम् इति ।
वाचा एव तद् आह ।
तत् श्रोत्रम् वाचम् अप्येति वान्मयम् भवति ।
अथ यन् मनसा संकल्पयते ।
न तन् मनसा आह इति समचीकॢपम् इति ।
वाचा एव तद् आह ।
तन् मनो वाचम् अप्येति वान्मयम् भवति ।
अथ यद् अङ्गैः सुशीमम् वा दुह्शीमम् वा स्पृशति ।
न तद् अङ्गैर् आह इति सुशीमम् वा दुह्शीमम् वा अस्प्राक्षम् इति ।
वाचा एव तद् आह ।
तत् सर्व आत्मा वाचम् अप्येति वान्मयो भवति ।
तद् एतद् ऋचा अभ्युदितम् ।
न इन्द्राद् ऋते पवते धाम किंचन इति ।
वाग् वा इन्द्रः ।
न ह्य् ऋते वाचः पवते धाम किंचन ।
स वै सायम् जुहोत्य्

२.८ अग्निहोत्रविज्ञानफलम्
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति ।
तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह ।
स सत्यम् वदति ।
तस्य अयम् वान्मय आत्मा सत्यमयो भवति ।
सत्यमया उ देवाः ।
अथ स्वाहा इति जुहोति ।
तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति ।
रात्र्या उ शीर्षन्त् सत्यम् वदति ।
स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति ।
सत्यम् ह एव अस्य उदितम् भवति ।
रात्र्या उ हि शीर्षन्त् सत्यम् वदति ।
अथ प्रातर् जुहोति सूर्यो ज्योतिर् ज्योतिः सूर्य इति ।
तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह ।
स सत्यम् वदति ।
तस्य अयम् वान्मय आत्मा सत्यमयो भवति ।
सत्यमया उ देवाः ।
अथ स्वाहा इति जुहोति ।
तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति ।
अह्न उ शीर्षन्त् सत्यम् वदति ।
स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति ।
सत्यम् ह एव अस्य उदितम् भवति ।
अह्न उ हि शीर्षन्त् सत्यम् वदति ।
स वा एषो अग्निर् उद्यत्य् आदित्य आत्मानम् जुहोति ।
असाव् अस्तम् यन्त् साये अग्नाव् आदित्य आत्मानम् जुहोति ।
रात्रिर् एव अहन् जुहोत्य् अहो रात्रौ ।
प्राण एव अपाने जुहोत्य् अपानः प्राणे ।
तानि वा एतानि षड् जुह्वत्य् अन्योन्य आत्मानम् ।
स य एतानि षड् जुह्वति वेद ।
अजुह्वत एव अस्य अग्निहोत्रम् हुतम् भवति ।
जुह्वत एव अस्य द्विर् हुतम् भवति य एवम् एव ।
स यदि ह वा अपि सुरुशाद् एवम् विद्वान् अग्निहोत्रम् जुहोति ।
प्रति ह एव अस्य एते देवा आहुती गृह्णन्ति ।
यस्यो ह वा अपि देवाः सकृद् अश्नन्ति ।
तत एव सो अमृतः ।
सत्यमयो ह वा अमृतमयः सम्भवति य एवम् वेद ।
तद् यथा ह वै श्रद्धाद् ( एव अस्य ) सत्य वादिनस् तपस्विनो हुतम् भवति ।
एवम् ह एव अस्य हुतम् भवति ।
य एवम् विद्वान् अग्निहोत्रम् जुहोति ।
तस्माद् एवंविद् अग्निहोत्रम् जुहुयाद् इति ।

२.९ अग्निहोत्रकालविवेचनम्
उदिते होतव्यम् अनुदित इति मीमांसन्ते ।
स य उदिते जुहोति ।
प्रसवत एव एतन् महते देवाय आतिथ्यम् करोति ।
अथ यो अनुदिते जुहोति ।
सन्निहिताय एव एतन् महते देवाय आतिथ्यम् करोति ।
तस्माद् अनुदिते होतव्यम् ।
तद्द् ह अपि वृष शुष्मो वातावतः पूर्वेषाम् एको जीर्णिः शयानो रात्र्याम् एव उभे आहुती हूयमाने दृष्ट्वा उवाच ।
रात्र्याम् एव उभे आहुती जुह्वति इति ।
रात्र्या हि इति स ह उवाच ।
वक्ता अस्मो ( वक्तास्मो) न्व् एव वयम् अमुंल् लोकम् परेत्य पितृभ्यः ।
अथो एव एनम् न श्रद्धातारः ।
यद् व् एव एतद् उभये द्युर् अग्निहोत्रम् अहूयत ।
अन्ये द्युर् वा तद् एतर्हि हूयते ।
रात्र्याम् एव इत्य् एतद् एव कुमारी गन्धर्व गृहीता उवाच ।
रात्र्याम् एव उभे आहुती जुह्वति इति ।
रात्र्याम् हि इति सा ह उवाच ।
संधौ जुहुयात् ।
समुद्रो ह वा एष सर्वम् हरो यद् अहो रात्रे ।
तस्य ह एते गाधे तीर्थे यत् संध्ये ।
तद् यथा गाधाभ्याम् तीर्थाभ्याम् समुद्रम् अतीयात् तादृक् तत् ।
यत् संधौ जुहोति ।
अथो देव सेना ह वा एष अध्वगा हनिष्यन्ती यद् अहो रात्रे ।
तस्या ह एते पक्षसी यत् संध्ये ।
तद् यथा पक्षाभ्याम् क्षिप्रम् अध्वानम् अन्वियात् तादृक् तत् ।
यत् संधौ जुहोति ।
अथो मृत्योर् ह वा एतौ विराज बाहू यद् अहोरात्रे ।
तद् यथा विराज बाहुभ्याम् परिजिग्रहीष्यन्न् अन्तरेण अतिमुच्येत तादृक् तत् ।
यत् संधौ जुहोति ।
तद् उ ह स्म आह कौषीतकिः ।
सायम् अस्तमिते पुरा तमसस् तस्मिन् काले जुहुयात् ।
स देव यानः केतुः ।
तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति ।
प्रातः पुरोदयाद् अपहते तमसि तस्मिन् काले जुहुयात् ।
स देव यानः केतुः ।
तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति ।
अथ यो अतो अन्यथा अग्निहोत्रम् जुहोति ।
श्याम शबलौ ह अस्य अग्निहोत्रम् विखिदतः ।
अहर् वै शबलः ।
रात्रिः श्यामः ।
स यो महा रात्रे जुहोति ।
श्यामो ह अस्य अग्निहोत्रम् विखिदति ।
अथ यो महा अह्ने जुहोति ।
शबलो ह अस्य अग्निहोत्रम् विखिदति ।
तद् वै खलु यदा एव कदाचन जुहुयात् ।
हुत समृद्धिम् एव उपासीत इति हुत समृद्धम् एव उपासीत इति ।