← अध्यायः ०२ कौषीतकिब्राह्मणम्
अध्यायः ०३
[[लेखकः :|]]
अध्यायः ०४ →
दर्शपूर्णमासौ


३.१ पौर्णमासकालः
यद् दर्श पूर्ण मासयोर् उपवसति । न ह वा अव्रतस्य देवा हविर् अश्नन्ति । तस्माद् उपवसति । उत मे देवा हविर् अश्नीयुर् इति । पूर्वाम् पौर्णमासीम् उपवसेद् इति पैङ्ग्यम् । उत्तराम् इति कौषीतकम् । याम् पर्यस्तमयम् उत्सर्पेद् इति सा स्थितिः । पूर्वाम् पौर्णमासीम् उपवसेद् अनिर्ज्ञाय पुरस्ताद् अमावास्यायाम् चन्द्रमसम् । यद् उपवसति तेन पूर्वाम् प्रीणाति । यद् यजते तेन उत्तराम् । उत्तराम् उपवसेत् । उत्तराम् उ ह वै समुद्रो विजते सोमम् अनु दैवतम् । एतद् वै देव सत्यम् यच् चन्द्रमाः । तस्माद् उत्तराम् उपवसेत् ।

३.२ सामिधेन्यः आर्षेयकथनं च
अथ यत् पुरस्तात् सामिधेनीनाम् जपति । स्वस्त्ययनम् एव तत् कुरुते । हिंकृत्य सामिधेनीर् अन्वाह । वज्रो वै हिंकारः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । त्रिर् हिम् करोति । त्रिवृद् वै वज्रः । वज्रम् एव तद् अभिसम्पादयति । एतेन वै देवास् त्रिवृता वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमान एतेन एव त्रिवृता वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदति । एकादश सामिधेनीर् अन्वाह । एकादश अक्षरा वै त्रिष्टुप् । त्रैष्टुभ इन्द्रः । तद् उभा इन्द्राग्नी आप्नोति । त्रिः प्रथमया त्रिर् उत्तमया पञ्चदश सम्पद्यते । पञ्चदश वै पूर्व पक्ष अपर पक्षयोर् अहानि । तत् सामिधेनीभिः पूर्व पक्ष अपर पक्षाव् आप्नोति । अथो वज्रो वै सामिधेन्यः । पञ्चदशो वै वज्रः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । यद् व् एव त्रिः प्रथमाम् त्रिरु उत्तमाम् । यज्ञस्य एव तद् बर्सौ नह्यति स्थेम्ने अविस्रंसाय । तासाम् वै त्रीणि षष्टि शतान्य् अक्षराणाम् भवन्ति । त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् । तत् सामिधेनीभिः संवत्सरस्य अहान्य् आप्नोति । ता वै गायत्र्यो भवन्ति । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तत् छन्दसा अग्निम् स्तौति । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । उत्तमायै तृतीये वचने प्रणवेन निगदम् उपसंदधाति । अग्ने महान् असि ब्राह्मण भारत इति । अग्निर् वै भरतः । स वै देवेभ्यो हव्यम् भरति । अथ यद् यजमानस्य आर्षेयम् आह । न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति । तस्माद् अस्य आर्षेयम् आह । अथ एतम् पञ्चदश पदम् निगदम् उपसंदधाति । एषा ह वै सामिधेनीनाम् निवित् । तस्मात् पञ्चदश पदो भवति । पञ्चदश हि सामिधेन्यः । स वा अच्छन्दस् कृतो भवति । द्वयम् वा इदम् सर्वम् छन्दस् कृतम् च अच्छन्दस् कृतम् च । तेन सर्वेण अग्निम् स्तवानि इति । तस्य सप्त पदानि समस्य अवस्येत् । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । अथ चत्वार्य् अथ चत्वारि । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै ।

३.३ देवतावाहनम्
अथ यद् व्यवग्राहम् देवता आवाहयति । नाना ह्य् आभ्यो हवींषि गृहीतानि भवन्ति । तस्माद् व्यवग्राहम् देवता आवाहयति । अथ यद् अग्निम् अग्निना आवाहयति । एषा वा अग्नेर् यज्ञिया तनूर् या अस्य हव्य वाट् । सा वा असौ यद् अदो अमुष्याद् इत्य् अस्य उपरिष्टाद् दिवि इव भाति ज्योतिर् इव । तद् यद् आह अग्निम् अग्न आवह इति । ताम् आवह इत्य् एव तद् आह । अथ यद् देवान् आज्यपान् आवाहयति । प्रयाज अनुयाजांस् तद् आवाहयति । अथ यद् अग्निम् होत्राय आवाहयति । स्विष्टकृतम् तद् आवाहयति । अथ यत् स्वम् महिमानम् आवाहयति । वायुम् तद् आवाहयति । वायुर् वा अग्नेः स्वो महिमा । तेन हि सम्पद्य महिमानम् गच्छति । यद् व् एव वाचा अन्वाह वाचा यजति । तेन उ ह एव अस्य स्वो महिमा इष्टो भवति । आ च वह जातवेदः सुयुजा च यज इत्य् आह । आवह च जातवेदो देवान्त् सयुजा च देवता यज इत्य् एव एनम् तद् आह । अथ यत् परस्तात् सामिधेनीनाम् जपति । वज्रो वै सामिधेन्यः । तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च । अथ यत् स्रुग् आदापनेन स्रुचाव् आदापयति । देव रथम् एव तद् युनक्ति देवेभ्यो हविः प्रदास्यन् । स एतेन देव रथेन स्वस्ति स्वर्गं लोकम् समश्नुते ।

३.४ प्रयाजाः
प्रयाजान् यजति । ऋतवो वै प्रयाजाः । ऋतून् एव तत् प्रीणाति । ते वै पञ्च भवन्ति । तैर् यत् किंच पञ्च विधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति । समिधो यजति वसन्तम् एव । वसन्ते वा इडम् सर्वम् समिद्यते । तनूनपातम् यजति गीष्मम् एव । ग्रीष्मे हि तन्वम् तपति । इडो यजति वर्षा एव । वर्षाभिर् हि ईडितम् अन्नाद्यम् उत्तिष्ठति । बर्हिर् यजति शरदम् एव । शरदि हि बर्हिष्ठा ओषधयो भवन्ति । स्वाहा कृतिम् अन्तम् यजति हेमन्तम् एव । हेमन्ते वा इदम् सर्वम् स्वाहा कृतम् । तद् आहुर् यत् पञ्च प्रयाजाः षड् ऋतवः क्वैतम् षष्ठम् ऋतुम् यजति इति । यद् एव चतुर्थे प्रयाजे समानयति तद् एनम् इतरेष्व् अनुविभजति । अथ यद् उत्तमे प्रयाजे देवताः समावपति । प्रयाज भाज एव एनास् तत् करोति । तद् यथा अग्निः सर्वेषु हविह्षु भागी भवति । एवम् तद् अग्नेर् भागे देवता भागिनीः करोति । न अत्र अग्निम् होत्राद् इत्य् आह । पशवो वै प्रयाजाः । रुद्रः स्विष्टकृत् । न इद् रुद्रेण यजमानस्य पशून् प्रसजानि इति । स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्व् इति ह एक आहुः । न तथा कुर्यात् । अर्धम् ह वै यज्ञस्य आज्यम् अर्धम् हविः । स यद्द् ह अन्यतरद् ब्रूयात् । अर्धम् ह वै यज्ञस्य समिष्टम् स्याद् अर्धम् असमिष्टम् । तस्मात् स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्व् इत्य् एव ब्रूयात् ।

३.५ आज्यभागौ
अथ यत् पौर्णमास्याम् वार्त्रघ्नाव् आज्य भागौ भवतः । पौर्णमासेन वा इन्द्रो वृत्रम् अहन् । अथ यद् अमावास्यायाम् वृधन्वन्तौ । क्षयम् वा अत्र चन्द्रो गच्छति । तम् एव एतद् आप्याययति तम् वर्धयति । तौ वै जुषाण याज्यौ भवतः । समान हविषौ हि प्रयाजैर् भवतः । अथो ब्रह्म वै जुषाणः । ब्राह्मणा एव तद् देवेभ्यो हविः प्रयच्छति । तौ वै त्रिवृतौ भवतः । ये यजामहो निगदो वषट्कारः । चक्षुर् वा आज्य भागौ । त्रिवृद् वै चक्षुः शुक्लम् कृष्णम् लोहितम् इति । तौ न पशौ न सोमे करोति । पशुना वै चक्षुष्मान् अध्वरः । न इच् चतुर् अक्षम् बीभत्सम् अध्वरम् करवाणि इति । अथ यदावत्योण्(?) हूतवत्यः पुरोनुवाक्या भवन्ति । प्रवत्यः प्रत्तवत्यो याज्याः । हूत्वा एव तद् देवेभ्यो हविः प्रयच्छति । ता वै गायत्री त्रिष्टुभौ भवन्ति । ब्रह्म वै गायत्री । क्षत्रम् त्रिष्टुप् । ब्रह्म क्षत्राभ्याम् एव तद् देवेभ्यो हविः प्रयच्छति । ऋग् अन्ते वषट् करोति । तथा ह अस्य सर्वा याज्या रूपवत्यो भवन्ति । षड् इति वषट् करोति । षड् वा ऋतवः । ऋतून् एव तत् प्रीणाति । बार्हत राथन्तरम् वषट् कुर्यात् पुरस्ताद् दीर्घम् उपरिष्टाद्द् ह्रस्वम् । यद्द् ह्रस्वम् तद् रथन्तरम् । यद् दीर्घम् तद् बृहति । अथो इयम् वै रथन्तरम् असौ बृहत् । अनयोर् एव तत् प्रतितिष्ठति । अथो एतावान् वै वाचो विकारः । सर्वेण एव तद् वाचो विकारेण देवेभ्यो हविः प्रयच्छति । भूर् भुव इति पुरस्ताद् ये यजामहस्य जपति । वषट् कृत्या अनुजपत्य् ओजः सहः सह ओजः स्वर् इति । वज्रो वै वषट् कारः । तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च । अथो एते एव वषट् कारस्य प्रीयतमे तनू यद् ओजश् च सहश् च । ताभ्याम् एव एनम् शमयति ।

३.६ यज्ञानां मुख्याहुतयः
अथ यद् अग्निम् प्रथमम् देवतानाम् यजति । अग्निर् वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यत् पौर्णमास्याम् अग्नीषोमौ यजति । अग्नीषोमौ वा अन्तर् वृत्र आस्ताम् । ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् । यद् उपांशु यजति तेन सोमम् प्रीणाति । यन् निरुक्तम् तेन अग्निम् । अथ यद् अमावास्यायाम् इन्द्राग्नी यजति । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव । अथ यत् सन्नयन्न् इन्द्रम् यजति महा इन्द्रम् वा । एतज् ज्योतिर् वा अमावास्या । न ह्य् अत्र चन्द्रो दृश्यते । अथ यद् असन्नयन् पुरोडाशाव् अन्तरेण उपांश्व् आज्यस्य यजत्य् अजामितायै । अथ यत् सन्नयन्त् सान्नाय्यस्य अन्तरेण उपांश्व् आज्यस्य यजति तस्य उक्तम् ब्राह्मणम् । अथ यद् अग्निम् स्विष्टकृतम् अन्ततो यजति । एष ह वै देवेभ्यो हविः प्रयच्छति । यो वा अन्नम् विभजत्य् अन्ततः स भजते । अथो रुद्रो वै स्विष्टकृत् । अन्त भाग् वा वा एषः । तस्माद् एनम् अन्ततो यजति । तस्य तच् छन्दसौ याज्या पुरोनुवाक्ये निगदो व्यवैति । तेन अजामि भवति । वषट् कृत्या अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।

३.७ इळोपाह्वानम्
अथ यत् प्रदेशिन्याम् इडायाः पूर्वम् अञ्जनम् अधर ओष्ठे निलिम्पते । उत्तरम् उत्तर ओष्ठे । अयम् वै लोको अधर ओष्ठः । असौ लोकः उत्तर ओष्ठः । अथ यद् ओष्ठाव् अन्तरेण तद् इदम् अन्तरिक्षम् । तद् यद् प्राश्नाति । इमान् एव तल् लोकान् अनुसंतन्वन् प्रीणाति । अथ यद् इडाम् उपह्वयते । सर्वेष्व् एव तद् भूतेषु उपहवम् इच्छते । अथो अन्नम् वा इडा । अन्नम् एव तद् आत्मन् धत्ते । अथो पशवो वा इडा । पशूनाम् एव आप्त्यै । तस्याम् चतुरवान् इति । तथा पञ्चपदी भवति । पञ्चपदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । अथ यज् जपेन उत्त्तर इडाम् प्राश्नाति । ब्रह्म वै जपः । ब्रह्मणा एव एनाम् तत् शमयति । अथ यद् अध्वर्युर् बर्हिषदम् पुरोडाशम् करोति । पितॄन् एव तत् प्रीणाति । अथ यत् पवित्रवति मार्जयन्ते । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते । अथ यद् अन्वाहार्यम् आहरन्ति । एतद् दक्षिणौ वै दर्श पूर्ण मासौ । तस्माद् एनम् आहरन्ति । अथ यत् समिधम् अनुमन्त्रयते । इध्मस्य वा एषा एक अतिशिष्टा भवति । तस्माद् एनाम् अनुस्तौति ।

३.८ अनुयाजाः सूक्तवाकः शंयोर्वाकश्च
अथ यत् त्रीन् अनुयाजान् यजैत् । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । अथ यत् सर्वम् उत्तमम् आह । प्रतिष्ठा वै स्विष्टकृत् प्रतिष्ठित्या एव । अथ यत् सूक्त वाकम् आह । प्रतिष्ठा वै सूक्त वाकः प्रतिष्ठित्या एव । अथ यद् द्यावा पृथिव्योः कीर्तयति । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । अग्निर् इदम् हविर् अजुषत इति ह एक आहुः । न तथा कुर्यात् । अभ्यावर्तते ह अस्य देवता पुनर् यज्ञ इति मन्वाना । पुनर् मे हविः प्रदास्यति इति । सा यजमानस्य आशिषो निवर्तयति य इदम् हविर् इत्य् आह । तस्माद्द् हविर् अजुषत हविर् अजुषत इत्य् एव ब्रूयात् । अथो या एव एतद् देवताः पुरस्ताद् यजति । ताभिर् एव एतद् अन्ततः प्रतितिष्ठति । अथ यत् सूक्त वाके यजमानस्य नाम गृह्णाति । एष ह वै दैव आत्मा यजमानस्य यम् ऋत्विजः संस्कुर्वन्ति । तस्माद् अस्य नाम गृह्णाति । अत्र हि जायते । उच्चैर् गृह्णीयाद् यद्य् अप्य् आचार्यः स्यात् । तथा ह यजमानो अप्राच्यावुको भवति । अथ पञ्च आशिषो वदत इडायाम् तिस्रस् ता अष्टौ । एताभिर् वै देवाः सर्वा अष्टीर् अश्नुवत । तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते । अथ बर्हिषि प्राञ्चम् अञ्जलिम् निधाय जपति नम उप इति । न हि नमस्कारम् अति देवाः । अथ यत् शंयोर्वाकम् आह । प्रतिष्ठा वै शंयोर्वाकः प्रतिष्ठित्या एव । अथो शंयुर् ह वै बार्हस्पत्यः सर्वान् यज्ञान् शमयांचकार । तस्मात् शंयोर्वाकम् आह । अथ यद् अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।

३.९ पत्नीसंयाजाः
अथ यद् गार्हपत्ये पत्नीसंयाजैश् चरन्ति । गार्हपत्य भाजो वै पत्न्यः । आहवनीय भाग् यजमानः । तस्माद् गार्हपत्ये पत्नीसंयाजैश् चरन्ति । ते वै चत्वारो भवन्ति । आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै । ते वा उपांशु भवन्ति । रेतः सिक्तिर् वै पत्नी संयाजाः । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यजे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । अथ सोमम् त्वष्टारम् देवानाम् पत्नीर् अग्निम् गृहपतिम् इति । एता ह वै देवता मिथुनानाम् ईशते । ता अत्र प्रीणन्ति । ता अस्मै प्रीता मिथुनानि दधति । सोमम् प्रथमम् यजति । रेतस् तत् सिञ्चति । त्वष्टारम् द्वितीयम् । त्वष्टा वै रेतः षिक्तम् विकरोति । ततः पत्न्यः । पत्नी सम्याजा ह्य् एते । अथ यद् अग्निम् गृहपतिम् अन्ततो यजति । एतत् स्विष्टकृतो वै पत्न्यः । तस्माद् एनम् अन्ततो यजति । अथ य अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् । अथ यद् ऋचम् जपति स्वस्त्ययनम् एव तत् कुरुते । अथ यद् इलाम् उपह्वयते यन् मार्जयते यत् शम्योर् वाकम् आह तस्य उक्तम् ब्राह्मणम् । अथ यद् वेदे पत्नीम् वाचयति । वृषा वै वेदः । योषा पत्नी । मिथुनम् एव तत् पत्नीषु दधाति । तस्मात् पत्नी वेद तृणान्य् अन्तर ऊरू कुरुते । अथ यद् वेदम् स्तृणाति । तेन ह अस्य दर्श पूर्ण मासौ संततौ भवतः । अथो एतेन एव अस्य अग्निहोत्रम् स्तीर्ण बर्हिर् भवति । अथ यद् वेद अतिशेषम् उपतिष्ठते । आशिषम् एव तद् वदते । अथ यद् आहवनीयम् उपतिष्ठते । प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते । अथ यद् अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते अन्ततो यज्ञे क्रियते ।  

३.१ पौर्णमासकालः
यद् दर्श पूर्ण मासयोर् उपवसति ।
न ह वा अव्रतस्य देवा हविर् अश्नन्ति ।
तस्माद् उपवसति ।
उत मे देवा हविर् अश्नीयुर् इति ।
पूर्वाम् पौर्णमासीम् उपवसेद् इति पैङ्ग्यम् ।
उत्तराम् इति कौषीतकम् ।
याम् पर्यस्तमयम् उत्सर्पेद् इति सा स्थितिः ।
पूर्वाम् पौर्णमासीम् उपवसेद् अनिर्ज्ञाय पुरस्ताद् अमावास्यायाम् चन्द्रमसम् ।
यद् उपवसति तेन पूर्वाम् प्रीणाति ।
यद् यजते तेन उत्तराम् ।
उत्तराम् उपवसेत् ।
उत्तराम् उ ह वै समुद्रो विजते सोमम् अनु दैवतम् ।
एतद् वै देव सत्यम् यच् चन्द्रमाः ।
तस्माद् उत्तराम् उपवसेत् ।
   
३.२ सामिधेन्यः आर्षेयकथनं च
अथ यत् पुरस्तात् सामिधेनीनाम् जपति ।
स्वस्त्ययनम् एव तत् कुरुते ।
हिंकृत्य सामिधेनीर् अन्वाह ।
वज्रो वै हिंकारः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
त्रिर् हिम् करोति ।
त्रिवृद् वै वज्रः ।
वज्रम् एव तद् अभिसम्पादयति ।
एतेन वै देवास् त्रिवृता वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त ।
तथो एव एतद् यजमान एतेन एव त्रिवृता वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदति ।
एकादश सामिधेनीर् अन्वाह ।
एकादश अक्षरा वै त्रिष्टुप् ।
त्रैष्टुभ इन्द्रः ।
तद् उभा इन्द्राग्नी आप्नोति ।
त्रिः प्रथमया त्रिर् उत्तमया पञ्चदश सम्पद्यते ।
पञ्चदश वै पूर्व पक्ष अपर पक्षयोर् अहानि ।
तत् सामिधेनीभिः पूर्व पक्ष अपर पक्षाव् आप्नोति ।
अथो वज्रो वै सामिधेन्यः ।
पञ्चदशो वै वज्रः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
यद् व् एव त्रिः प्रथमाम् त्रिरु उत्तमाम् ।
यज्ञस्य एव तद् बर्सौ नह्यति स्थेम्ने अविस्रंसाय ।
तासाम् वै त्रीणि षष्टि शतान्य् अक्षराणाम् भवन्ति ।
त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।
तत् सामिधेनीभिः संवत्सरस्य अहान्य् आप्नोति ।
ता वै गायत्र्यो भवन्ति ।
गायत्रो वा अग्निर् गायत्रच् छन्दाः ।
स्वेन एव तत् छन्दसा अग्निम् स्तौति ।
अभिरूपा भवन्ति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
उत्तमायै तृतीये वचने प्रणवेन निगदम् उपसंदधाति ।
अग्ने महान् असि ब्राह्मण भारत इति ।
अग्निर् वै भरतः ।
स वै देवेभ्यो हव्यम् भरति ।
अथ यद् यजमानस्य आर्षेयम् आह ।
न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति ।
तस्माद् अस्य आर्षेयम् आह ।
अथ एतम् पञ्चदश पदम् निगदम् उपसंदधाति ।
एषा ह वै सामिधेनीनाम् निवित् ।
तस्मात् पञ्चदश पदो भवति ।
पञ्चदश हि सामिधेन्यः ।
स वा अच्छन्दस् कृतो भवति ।
द्वयम् वा इदम् सर्वम् छन्दस् कृतम् च अच्छन्दस् कृतम् च ।
तेन सर्वेण अग्निम् स्तवानि इति ।
तस्य सप्त पदानि समस्य अवस्येत् ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
अथ चत्वार्य् अथ चत्वारि ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।

३.३ देवतावाहनम्
अथ यद् व्यवग्राहम् देवता आवाहयति ।
नाना ह्य् आभ्यो हवींषि गृहीतानि भवन्ति ।
तस्माद् व्यवग्राहम् देवता आवाहयति ।
अथ यद् अग्निम् अग्निना आवाहयति ।
एषा वा अग्नेर् यज्ञिया तनूर् या अस्य हव्य वाट् ।
सा वा असौ यद् अदो अमुष्याद् इत्य् अस्य उपरिष्टाद् दिवि इव भाति ज्योतिर् इव ।
तद् यद् आह अग्निम् अग्न आवह इति ।
ताम् आवह इत्य् एव तद् आह ।
अथ यद् देवान् आज्यपान् आवाहयति ।
प्रयाज अनुयाजांस् तद् आवाहयति ।
अथ यद् अग्निम् होत्राय आवाहयति ।
स्विष्टकृतम् तद् आवाहयति ।
अथ यत् स्वम् महिमानम् आवाहयति ।
वायुम् तद् आवाहयति ।
वायुर् वा अग्नेः स्वो महिमा ।
तेन हि सम्पद्य महिमानम् गच्छति ।
यद् व् एव वाचा अन्वाह वाचा यजति ।
तेन उ ह एव अस्य स्वो महिमा इष्टो भवति ।
आ च वह जातवेदः सुयुजा च यज इत्य् आह ।
आवह च जातवेदो देवान्त् सयुजा च देवता यज इत्य् एव एनम् तद् आह ।
अथ यत् परस्तात् सामिधेनीनाम् जपति ।
वज्रो वै सामिधेन्यः ।
तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च ।
अथ यत् स्रुग् आदापनेन स्रुचाव् आदापयति ।
देव रथम् एव तद् युनक्ति देवेभ्यो हविः प्रदास्यन् ।
स एतेन देव रथेन स्वस्ति स्वर्गं लोकम् समश्नुते ।

३.४ प्रयाजाः
प्रयाजान् यजति ।
ऋतवो वै प्रयाजाः ।
ऋतून् एव तत् प्रीणाति ।
ते वै पञ्च भवन्ति ।
तैर् यत् किंच पञ्च विधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति ।
समिधो यजति वसन्तम् एव ।
वसन्ते वा इडम् सर्वम् समिद्यते ।
तनूनपातम् यजति गीष्मम् एव ।
ग्रीष्मे हि तन्वम् तपति ।
इडो यजति वर्षा एव ।
वर्षाभिर् हि ईडितम् अन्नाद्यम् उत्तिष्ठति ।
बर्हिर् यजति शरदम् एव ।
शरदि हि बर्हिष्ठा ओषधयो भवन्ति ।
स्वाहा कृतिम् अन्तम् यजति हेमन्तम् एव ।
हेमन्ते वा इदम् सर्वम् स्वाहा कृतम् ।
तद् आहुर् यत् पञ्च प्रयाजाः षड् ऋतवः क्वैतम् षष्ठम् ऋतुम् यजति इति ।
यद् एव चतुर्थे प्रयाजे समानयति तद् एनम् इतरेष्व् अनुविभजति ।
अथ यद् उत्तमे प्रयाजे देवताः समावपति ।
प्रयाज भाज एव एनास् तत् करोति ।
तद् यथा अग्निः सर्वेषु हविह्षु भागी भवति ।
एवम् तद् अग्नेर् भागे देवता भागिनीः करोति ।
न अत्र अग्निम् होत्राद् इत्य् आह ।
पशवो वै प्रयाजाः ।
रुद्रः स्विष्टकृत् ।
न इद् रुद्रेण यजमानस्य पशून् प्रसजानि इति ।
स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्व् इति ह एक आहुः ।
न तथा कुर्यात् ।
अर्धम् ह वै यज्ञस्य आज्यम् अर्धम् हविः ।
स यद्द् ह अन्यतरद् ब्रूयात् ।
अर्धम् ह वै यज्ञस्य समिष्टम् स्याद् अर्धम् असमिष्टम् ।
तस्मात् स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्व् इत्य् एव ब्रूयात् ।

३.५ आज्यभागौ
अथ यत् पौर्णमास्याम् वार्त्रघ्नाव् आज्य भागौ भवतः ।
पौर्णमासेन वा इन्द्रो वृत्रम् अहन् ।
अथ यद् अमावास्यायाम् वृधन्वन्तौ ।
क्षयम् वा अत्र चन्द्रो गच्छति ।
तम् एव एतद् आप्याययति तम् वर्धयति ।
तौ वै जुषाण याज्यौ भवतः ।
समान हविषौ हि प्रयाजैर् भवतः ।
अथो ब्रह्म वै जुषाणः ।
ब्राह्मणा एव तद् देवेभ्यो हविः प्रयच्छति ।
तौ वै त्रिवृतौ भवतः ।
ये यजामहो निगदो वषट्कारः ।
चक्षुर् वा आज्य भागौ ।
त्रिवृद् वै चक्षुः शुक्लम् कृष्णम् लोहितम् इति ।
तौ न पशौ न सोमे करोति ।
पशुना वै चक्षुष्मान् अध्वरः ।
न इच् चतुर् अक्षम् बीभत्सम् अध्वरम् करवाणि इति ।
अथ यदावत्योण्(?) हूतवत्यः पुरोनुवाक्या भवन्ति ।
प्रवत्यः प्रत्तवत्यो याज्याः ।
हूत्वा एव तद् देवेभ्यो हविः प्रयच्छति ।
ता वै गायत्री त्रिष्टुभौ भवन्ति ।
ब्रह्म वै गायत्री ।
क्षत्रम् त्रिष्टुप् ।
ब्रह्म क्षत्राभ्याम् एव तद् देवेभ्यो हविः प्रयच्छति ।
ऋग् अन्ते वषट् करोति ।
तथा ह अस्य सर्वा याज्या रूपवत्यो भवन्ति ।
षड् इति वषट् करोति ।
षड् वा ऋतवः ।
ऋतून् एव तत् प्रीणाति ।
बार्हत राथन्तरम् वषट् कुर्यात् पुरस्ताद् दीर्घम् उपरिष्टाद्द् ह्रस्वम् ।
यद्द् ह्रस्वम् तद् रथन्तरम् ।
यद् दीर्घम् तद् बृहति ।
अथो इयम् वै रथन्तरम् असौ बृहत् ।
अनयोर् एव तत् प्रतितिष्ठति ।
अथो एतावान् वै वाचो विकारः ।
सर्वेण एव तद् वाचो विकारेण देवेभ्यो हविः प्रयच्छति ।
भूर् भुव इति पुरस्ताद् ये यजामहस्य जपति ।
वषट् कृत्या अनुजपत्य् ओजः सहः सह ओजः स्वर् इति ।
वज्रो वै वषट् कारः ।
तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च ।
अथो एते एव वषट् कारस्य प्रीयतमे तनू यद् ओजश् च सहश् च ।
ताभ्याम् एव एनम् शमयति ।

३.६ यज्ञानां मुख्याहुतयः
अथ यद् अग्निम् प्रथमम् देवतानाम् यजति ।
अग्निर् वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यत् पौर्णमास्याम् अग्नीषोमौ यजति ।
अग्नीषोमौ वा अन्तर् वृत्र आस्ताम् ।
ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् ।
यद् उपांशु यजति तेन सोमम् प्रीणाति ।
यन् निरुक्तम् तेन अग्निम् ।
अथ यद् अमावास्यायाम् इन्द्राग्नी यजति ।
प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।
अथ यत् सन्नयन्न् इन्द्रम् यजति महा इन्द्रम् वा ।
एतज् ज्योतिर् वा अमावास्या ।
न ह्य् अत्र चन्द्रो दृश्यते ।
अथ यद् असन्नयन् पुरोडाशाव् अन्तरेण उपांश्व् आज्यस्य यजत्य् अजामितायै ।
अथ यत् सन्नयन्त् सान्नाय्यस्य अन्तरेण उपांश्व् आज्यस्य यजति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् अग्निम् स्विष्टकृतम् अन्ततो यजति ।
एष ह वै देवेभ्यो हविः प्रयच्छति ।
यो वा अन्नम् विभजत्य् अन्ततः स भजते ।
अथो रुद्रो वै स्विष्टकृत् ।
अन्त भाग् वा वा एषः ।
तस्माद् एनम् अन्ततो यजति ।
तस्य तच् छन्दसौ याज्या पुरोनुवाक्ये निगदो व्यवैति ।
तेन अजामि भवति ।
वषट् कृत्या अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।

३.७ इळोपाह्वानम्
अथ यत् प्रदेशिन्याम् इडायाः पूर्वम् अञ्जनम् अधर ओष्ठे निलिम्पते ।
उत्तरम् उत्तर ओष्ठे ।
अयम् वै लोको अधर ओष्ठः ।
असौ लोकः उत्तर ओष्ठः ।
अथ यद् ओष्ठाव् अन्तरेण तद् इदम् अन्तरिक्षम् ।
तद् यद् प्राश्नाति ।
इमान् एव तल् लोकान् अनुसंतन्वन् प्रीणाति ।
अथ यद् इडाम् उपह्वयते ।
सर्वेष्व् एव तद् भूतेषु उपहवम् इच्छते ।
अथो अन्नम् वा इडा ।
अन्नम् एव तद् आत्मन् धत्ते ।
अथो पशवो वा इडा ।
पशूनाम् एव आप्त्यै ।
तस्याम् चतुरवान् इति ।
तथा पञ्चपदी भवति ।
पञ्चपदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
अथ यज् जपेन उत्त्तर इडाम् प्राश्नाति ।
ब्रह्म वै जपः ।
ब्रह्मणा एव एनाम् तत् शमयति ।
अथ यद् अध्वर्युर् बर्हिषदम् पुरोडाशम् करोति ।
पितॄन् एव तत् प्रीणाति ।
अथ यत् पवित्रवति मार्जयन्ते ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
अथ यद् अन्वाहार्यम् आहरन्ति ।
एतद् दक्षिणौ वै दर्श पूर्ण मासौ ।
तस्माद् एनम् आहरन्ति ।
अथ यत् समिधम् अनुमन्त्रयते ।
इध्मस्य वा एषा एक अतिशिष्टा भवति ।
तस्माद् एनाम् अनुस्तौति ।
    
३.८ अनुयाजाः सूक्तवाकः शंयोर्वाकश्च
अथ यत् त्रीन् अनुयाजान् यजैत् ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।
अथ यत् सर्वम् उत्तमम् आह ।
प्रतिष्ठा वै स्विष्टकृत् प्रतिष्ठित्या एव ।
अथ यत् सूक्त वाकम् आह ।
प्रतिष्ठा वै सूक्त वाकः प्रतिष्ठित्या एव ।
अथ यद् द्यावा पृथिव्योः कीर्तयति ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
अग्निर् इदम् हविर् अजुषत इति ह एक आहुः ।
न तथा कुर्यात् ।
अभ्यावर्तते ह अस्य देवता पुनर् यज्ञ इति मन्वाना ।
पुनर् मे हविः प्रदास्यति इति ।
सा यजमानस्य आशिषो निवर्तयति य इदम् हविर् इत्य् आह ।
तस्माद्द् हविर् अजुषत हविर् अजुषत इत्य् एव ब्रूयात् ।
अथो या एव एतद् देवताः पुरस्ताद् यजति ।
ताभिर् एव एतद् अन्ततः प्रतितिष्ठति ।
अथ यत् सूक्त वाके यजमानस्य नाम गृह्णाति ।
एष ह वै दैव आत्मा यजमानस्य यम् ऋत्विजः संस्कुर्वन्ति ।
तस्माद् अस्य नाम गृह्णाति ।
अत्र हि जायते ।
उच्चैर् गृह्णीयाद् यद्य् अप्य् आचार्यः स्यात् ।
तथा ह यजमानो अप्राच्यावुको भवति ।
अथ पञ्च आशिषो वदत इडायाम् तिस्रस् ता अष्टौ ।
एताभिर् वै देवाः सर्वा अष्टीर् अश्नुवत ।
तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते ।
अथ बर्हिषि प्राञ्चम् अञ्जलिम् निधाय जपति नम उप इति ।
न हि नमस् कारम् अति देवाः ।
अथ यत् शम्योर् वाकम् आह ।
प्रतिष्ठा वै शम्योर् वाकः प्रतिष्ठित्या एव ।
अथो शम्युर् ह वै बार्हस्पत्यः सर्वान् यज्ञान् शमयाम् चकार ।
तस्मात् शम्योर् वाकम् आह ।
अथ यद् अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
   
३.९ पत्नीसंयाजाः
अथ यद् गार्हपत्ये पत्नी सम्याजैश् चरन्ति ।
गार्हपत्य भाजो वै पत्न्यः ।
आहवनीय भाग् यजमानः ।
तस्माद् गार्हपत्ये पत्नी सम्याजैश् चरन्ति ।
ते वै चत्वारो भवन्ति ।
आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै ।
ते वा उपांशु भवन्ति ।
रेतः सिक्तिर् वै पत्नी सम्याजाः ।
उपांशु वै रेतः सिच्यते ।
अभिरूपा भवन्ति ।
यद् यजे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
अथ सोमम् त्वष्टारम् देवानाम् पत्नीर् अग्निम् गृहपतिम् इति ।
एता ह वै देवता मिथुनानाम् ईशते ।
ता अत्र प्रीणन्ति ।
ता अस्मै प्रीता मिथुनानि दधति ।
सोमम् प्रथमम् यजति ।
रेतस् तत् सिञ्चति ।
त्वष्टारम् द्वितीयम् ।
त्वष्टा वै रेतः षिक्तम् विकरोति ।
ततः पत्न्यः ।
पत्नी सम्याजा ह्य् एते ।
अथ यद् अग्निम् गृहपतिम् अन्ततो यजति ।
एतत् स्विष्टकृतो वै पत्न्यः ।
तस्माद् एनम् अन्ततो यजति ।
अथ य अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् ऋचम् जपति स्वस्त्ययनम् एव तत् कुरुते ।
अथ यद् इलाम् उपह्वयते यन् मार्जयते यत् शम्योर् वाकम् आह तस्य उक्तम् ब्राह्मणम् ।
अथ यद् वेदे पत्नीम् वाचयति ।
वृषा वै वेदः ।
योषा पत्नी ।
मिथुनम् एव तत् पत्नीषु दधाति ।
तस्मात् पत्नी वेद तृणान्य् अन्तर ऊरू कुरुते ।
अथ यद् वेदम् स्तृणाति ।
तेन ह अस्य दर्श पूर्ण मासौ संततौ भवतः ।
अथो एतेन एव अस्य अग्निहोत्रम् स्तीर्ण बर्हिर् भवति ।
अथ यद् वेद अतिशेषम् उपतिष्ठते ।
आशिषम् एव तद् वदते ।
अथ यद् आहवनीयम् उपतिष्ठते ।
प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते ।
अथ यद् अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते अन्ततो यज्ञे क्रियते ।