क्रियासारः/उपदेशः ५-८
← उपदेशः १-४ | क्रियासारः उपदेशः ५-८ [[लेखकः :|]] |
उपदेशः ९-१२ → |
पञ्चमोपदेशः
सम्पाद्यताम्॥ श्रीः ॥
श्रीमन्महेश्वराय नमः
क्रियासारः
द्वितीयं संपुटम्
अथ पञ्चमोपदेशः
व्याससूत्रमिदं पात्रं ब्रह्माऽऽनन्दमुधासृतेः।
तत्र निष्णातमनसां तत्त्वसारमहं ब्रुवे ॥ 1 ॥
आचाराणामनेकेषामङ्गाङ्गित्वव्यवस्थया।
द्वारं प्रविशतः शीर्षमिव ब्रह्म व्यवस्थितम् ॥ 2 ॥
आचारः (1)प्रथमो धर्मस्तस्माच्छ्रेयस्ततो जयः।
तस्मान्निश्चिन्तता तस्याश्चित्तनैर्मल्यसंभवः॥ 3 ॥
{1. परमो-पा.}
ततः शास्त्रेषु विश्वासः प्रविश्य परिशीलनम्।
तस्मादध्यवसायः स्यात् प्रवाहो निश्चितस्य च ॥ 4 ॥
प्रवाहात् सञ्चितागामिप्रारब्धपरिपाकतः।
विदुषां ब्रह्मभावेन मुक्तिः सायुज्यरूपिणी ॥ 5 ॥
तस्मान्मूलं सदाचारास्तेषां मूलं गुरुः स्वयम्।
गुरूपदिष्टमार्गेण सदाचाररतो भवेत् ॥ 6 ॥
परमात्मा गुरुः साक्षात् कालावच्छेदवर्तिनाम्।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ॥ 7 ॥
गुरुरेव परं ब्रह्म तस्माद्गुरुमनुव्रजेत्।
विश्वस्य गुरुवाक्यानि सदाचारपरो भवेत् ॥ 8 ॥
सदाचारा बहुविधाः प्रमाणैरुपवर्णिताः
संक्षेपतः पञ्चविधा आचारा निर्विशेषकाः ॥ 9 ॥
नित्यं नैमित्तिकं काम्यं नित्यनैमित्तिकं तथा।
नित्यकाम्यमिति प्राहुः पञ्चधा शास्त्रकोविदाः ॥ 10 ॥
सविशेषाः सदाचारा आगमैरुपपादिताः।
पञ्चाचारा वीरशैवैः सादरं स्वीकृताः सदा ॥ 11 ॥
अनपेक्ष्य शरीरान्तं विच्छेदे प्राणसंशयम्।
प्रायश्चित्तेन सहितं निर्विशेषं विदुर्बुधाः ॥ 12 ॥
अपेक्ष्यैव शरीरान्तं विच्छेदे प्राणसंशयम्।
प्रायश्चित्तेन रहितं सविशेषं विदुर्बुधाः ॥ 13 ॥
सविशेषप्रपञ्चस्तु वीरशैवीयसङ्ग्रहे।
उपात्तो निर्विशेषस्तु वीरशैवैर्मतो न वा ॥ 14 ॥
इत्येवं सन्दिहानानां शङ्काशूकनिवृत्तये।
प्रपञ्च्यते मया सर्वं तत्त्वमार्गानुसारतः ॥ 15 ॥
यदुक्तं निर्विशेषाख्यं पञ्चधा विधिमार्गतः।
तत्र नित्यं सायमग्निहोत्रमौपासनादिकम् ॥ 16 ॥
नित्यत्वं श्रुतिचोद्यत्वं प्रमादे दोषसंभवः।
तद्दोषविनिवृत्त्यर्थं प्रायश्चित्तविधिः पुनः ॥ 17 ॥
नैमित्तिकं क्रान्ति(2)पातग्रहणग्रहसंभवे।
कर्तव्यं कर्म वेदोक्तं कालसापेक्षमुच्यते ॥ 18 ॥
{2. पाताग्रयण-पा.}
दध्ना जुहोति पयसा जुहोतीत्येवमादिकम्।
नित्यकाम्यमिति प्राहुः करणेऽभ्युदयः परः ॥ 19 ॥
नित्यनैमित्तिकं प्राहुः प्रावृषि प्रावृषि श्रुतम्।
निरूढपशुबन्धाख्यं प्रमादाद्दोषसंभवे ॥ 20 ॥
प्रायश्चित्तेन सहितमनुष्ठानं पुनः (3)सतः।
काम्यं कर्म समाख्यातं पवित्रेष्ट्यादिकं बुधैः ॥ 21 ॥
{3. पुनस्ततः-पा.}
एनोनिर्हरणार्थाय स्मार्तेष्वपि तथैव हि।
स्मृतीनां श्रुतिमूलत्वात् स्मार्तानां श्रुतिचोदना ॥ 22 ॥
वीरशैवैरनुष्ठेया आचारा नैवमादयः।
यदि चेन्नानुतिष्ठेयुर्वैदिकत्वमसङ्गतम् ॥ 23 ॥
यदि चेदनुतिष्ठेयुर्वीरशैवत्वमुत्पतेत्।
वैदिकत्वप्रतिज्ञा सा शशशृङ्गायते तदा ॥ 24 ॥
इतीव भ्रमतो (4)भ्रान्तिसम्भ्रमैरलमस्तु ते।
सत्यमुक्तं वैदिकत्वमाचाराणां त्वया पुनः ॥ 25 ॥
{4. भ्रान्तसंभ्रमैः-पा.}
किमाचारा अपेक्षन्ते? नापेक्षन्तेऽधिकारिणाम्।
यद्यपेक्षा तत्र वाच्यः कालश्च (5)नियमः क्रमः ॥ 26 ॥
{5. विषयः-पा.}
नापेक्षा यदि सर्वेषां सर्वदा सर्वकर्मसु।
निर्विशेषप्रवृत्त्या ते वैदिकत्वं पलायते ॥ 27 ॥
अत एव त्वयावश्यं कालश्च विषयः क्रमः।
वक्तव्यो यदि तत्रैवं तत्त्वदृष्ट्यावधारय ॥ 28 ॥
चतुराश्रमनिष्ठानां स्वाधिकारानुसारतः।
कर्मव्यवस्था श्रुत्युक्ता कानिचिद्ब्रह्मचारिणाम् ॥ 29 ॥
विशेषतो गृहस्थानां वानप्रस्थस्य कानिचित्।
यतीनां नैव कर्माणि नियमाः केचन (6) श्रुताः ॥ 30 ॥
{6. स्मृताः-पा.}
न स्यारत्याश्रमस्थानां कर्माणि नियमाः पुनः।
प्रमाणैरेव विहिताश्चैवं तत्त्वविदां स्थितिः ॥ 31 ॥
वीरशैवीयसमया अत्याश्रमपुरस्सराः।
निराभारादिभेदेन भिन्ना नियमिनश्च ते ॥ 32 ॥
न तेषां विद्यते तीर्थं न यज्ञा न व्रतान्यपि।
न योगकरणापेक्षा न वारपरिशोधनम् ॥ 33 ॥
किंतु तेषां बहुविधा नियमा युक्तचेतसाम्।
नन्वस्तु युक्तमनसां विरक्तानां क्षमावताम् ॥ 34 ॥
सर्वं त्वयुक्तमन्येषां विषयोद्युक्तचेतसाम्।
संसारिणां पुत्रपौत्रपत्नीपशुमतां पुनः ॥ 35 ॥
संसारिणां पाशबद्धचेतसां विषयैषिणाम्।
लिङ्गाङ्गसङ्गिनां लोकपन्थानमनुकुर्वताम् ॥ 36 ॥
अनादरः कथं वा स्यात् उपन्यस्तेषु कर्मसु।
न वाङ्मात्रेणार्थसिद्धिः कथं वात्रोपपाद्यताम् ॥ 37 ॥
इति चेन्न, तथा वीरशैवानां स्चस्वकर्मणि।
विशेषतोऽसमर्थानां यथा यतिगृहस्थयोः ॥ 38 ॥
यावत्स्वधर्मानुष्ठानविकलानां च केनचित्।
कर्मणा निष्कृतिस्तद्वदेतेषां लिङ्गसङ्गिनाम् ॥ 39 ॥
स्वस्वशक्त्यनुसारेण स्वधर्म (7) परिपालनात्।
निष्कृतिः पाशिविच्छेदः सद्गुरोः कृपया भवेत् ॥ 40 ॥
{7. परिशीलनात्-पा.}
ननु तीर्थेषु पुण्येषु स्नानात् क्षेत्रस्य दर्शनात्।
(8)उपरागेषु सङ्क्रान्तौ विषुवे पातवैधृतौ ॥ 41 ॥
{8. उपरागेतु-पा.}
अम्बुधौ सेतुबन्धे च काश्यां च कुरुजाङ्गले।
नर्मदासिन्धुकावेरीप्रमुखान्यनदीषु च ॥ 42 ॥
नानाकर्तव्यकर्मभ्यो दानाद्धोमात्सुरार्चनात्।
उपोषणादात्मनश्च कृच्छ्रचान्द्रायणादिभिः ॥ 43 ॥
परिशुद्धिर्गृहस्थस्य कैश्चित्सन्यासिनां तथा।
श्रुतिस्मृतिपुराणेषु वर्ण्यते तव चेत्कथम् ॥ 44 ॥
स्वधर्मसमनु (9) ष्ठानवैकल्यपरिपूरणम्।
इति चेच्छ्रुणु तेषां च चित्तशुद्धिर्विधीयते ॥ 45 ॥
{9. ष्टानाद्वैकल्य-पा.}
गुरुभक्त्या शिवे भक्त्या पूजया लिङ्गरूपिणः।
जपात्पञ्चाक्षरमनोर्दानाच्छक्त्यनु(10)रोधतः ॥ 46 ॥
{10. नुसारतः-पा.}
मन एव हि सर्वेषां कारणं पुण्यपापयोः।
मनःशुद्धिमुपादाय प्रयान्ति परमां गतिम् ॥ 47 ॥
ननु तर्ह्यविशेषेण वीरशैवैर्विधीयताम्।
निर्विशेषं तु यत् कर्म वैकल्यपरिपूर्तये ॥ 48 ॥
नैवं यतिः स्ववैकल्यपरिपूर्त्यै क्रियापरः।
अविरुद्धानि कर्माणि प्रयत्नेनाचरत्यसौ ॥ 49 ॥
(11)तथैव वीरशैवाश्च स्वस्वकर्माविरोधतः।
अनुतिष्ठन्तु कर्माणि वक्ष्यन्ते तानि वै मया ॥ 50 ॥
{11. अथैवं.}
यदुक्तं श्रुतिषु ब्राह्मे मुहूर्ते स्वासने स्थितः।
चिन्तयेदिष्टदैवं च ततस्तन्नामचिन्तनम् ॥ 51 ॥
दन्तधावनमुख्येभ्यो मृत्तिकाशौचतोऽपि च।
शरीरपरिशुद्धिः स्याद्बहिरन्तर्मलं त्यजन् ॥ 52 ॥
चित्तशुद्ध्यनुसारेण स्नानं, दशविधेषु च।
भूतिस्नानं विशेषेण कृतस्नानोऽपि चाचरेत् ॥ 53 ॥
नित्यपूजां च निर्वर्त्य यथास्वं धर्ममाचरेत्।
शैवानां नित्यमेतावन्नैमित्तिकमथोच्यते ॥ 54 ॥
पुण्यक्षेत्रे पुण्यदिने पुण्यकाले विशेषतः।
सङ्क्रान्तौ विषुवे पाते सोमसूर्योपरागयोः ॥ 55 ॥
स्नायाद्दद्याज्जीवरत्नं जपेदामोचनं मनुम्।
शिवस्य लोचने चन्द्रसूर्यौ तौ तत्तयोरपि ॥ 56 ॥
राहुणान्तर्हिते प्राप्ते तत्र धर्मान् समाचरेत्।
स्वस्वनित्याविरोधेन यस्य नित्ये परं मनः ॥ 57 ॥
(12)जीवरत्नजपेनैव तं कालमतिवर्तयेत्।
यथाग्निहोत्रसमय उपरागे समागते ॥ 58 ॥
{12.जीवरत्नं जपेन्नैवं-पा.}
अग्निहोत्रेण चेष्ट्या वा तं कालमतिवर्तयेत्।
तदुल्लङ्घनजो दोषो यथा तस्य न विद्यते ॥ 59 ॥
तद्वदेवात्र विज्ञेयं विध्यनुलङ्घनं पुनः।
नित्यनैमित्तिकं कर्म शिवरात्रिसमागमे ॥ 60 ॥
कर्तव्यं कर्मविज्ञेयं सर्वेषां तुल्यमेव तत्।
अन्ये धर्मास्तु नैवेष्टा शैवधर्मविरोधिनः ॥ 61 ॥
अन्तर्भावश्शैवधर्मे ज्योतिष्टोमेऽग्निहोत्रवत्।
अतस्तल्लङ्घने दोषो न कश्चिदपि विद्यते ॥ 62 ॥
नित्यकाम्यं तु तेषां यन्नित्यपूजादिके पुनः।
किंचित्कार्यं समुद्दिश्य किंचित्कालं प्रपूजनम् ॥ 63 ॥
अन्येषां चेदनेकेषामुक्तदृष्टान्ततोऽथवा।
अग्निहोत्रे नैय्यमिके यथा मासाऽग्निहोत्रकम् ॥ 64 ॥
तदुल्लङ्घनजो दोषो दूरादेव पलायते।
नित्यनैमित्तिकं कर्म चरे च गृहमागते ॥ 65 ॥
आतिथ्यं तत्र कर्तव्यं सर्वथैवेति निश्चयः।
अन्तर्भावस्तदन्येषां सुलभः परिकीर्तितः ॥ 66 ॥
नित्यकाम्यं कर्म तत् स्याच्चरलिङ्गे गृहागते।
मासमात्रं (13)भक्षभोज्यैर्विशेषेणेति निश्चयः ॥ 67 ॥
{13. भक्षभोज्ये-पा.}
काम्यं बहुविधं प्रोक्तं स्नानं दानं जपस्तपः।
अविरोधेन तत्सर्वं भावनीयं विपश्चिता ॥ 68 ॥
श्रुतीनां (14)च स्मृतीनां च पुराणानामथापि वा।
नाप्रामाण्यं वयं ब्रूमः किं तु तेषां परस्परम् ॥ 69 ॥
{14. वा.}
अविरोधं पुरस्कृत्य तात्पर्यं वर्णितं मया।
न परेण भ्रान्तमिति भ्रमितव्यं बुधेन हि ॥ 70 ॥
आगमानामशेषाणां प्रमाणानामनेकशः।
प्रामाण्यमविशेषेण ज्ञातव्यं तत्त्वदृष्टिभिः ॥ 71 ॥
ननु चैवं सति प्रौढिवादमात्रमिदं पुनः।
(15)ये विरक्ता न्यस्तचित्तास्तेषामत्याश्रमोऽस्तु वा ॥ 72 ॥
{15. येऽरक्ता-पा.}
ये पुनर्गृहिणस्तेषामाचारा मुख्यहेतवः।
अत्याश्रमीया आचारा नैतेषां युज्यते पुनः ॥ 73 ॥
यथा गृहस्थधर्माणामधिकारं न चार्हति।
ब्रह्मचारी, यथा गेही यतिधर्मान्न चार्हति ॥ 74 ॥
एवमत्याश्रमाचारानपि लिङ्गाङ्गसङ्गिनः।
नार्हन्ति विषये निष्ठा मनश्चाञ्चल्यशालिनः ॥ 75 ॥
अननुष्ठानतश्चोक्तकर्मणामप्यनुष्ठितेः।
वीरशैवविरोधः स्यात्तद्दोषस्तदवस्थितः ॥ 76 ॥
अत्रोच्यते वीरशैवमतमेतच्छिवोदितम्।
तत्रापि विविधा भेदा निराभारादिभेदतः ॥ 77 ॥
निराभारस्य ये धर्मास्तान् विशेषो न चार्हति।
विशेषधर्मान् सामान्यशैवो नैवार्हति क्वचित् ॥ 78 ॥
त्वदुपन्यस्तकर्माणि कर्तव्यानि तथैव हि।
यत्किञ्चिदथ वा यावद्यत्किञ्चित्तु निरूपितम् ॥ 79 ॥
यावतां समनुष्ठानं सप्तसागरशोषणम्।
यदप्युक्तं ब्रह्मचारी गार्हस्थ्यं नार्हतीति च ॥ 80 ॥
यतिधर्मान् गृही चेति तत्रैवमवधारयेत्।
किं वा गृहस्थः स्नातीति न स्नायाद्ब्रह्मचर्यवान् ॥ 81 ॥
गृही शान्त्यादिसहितो न स्याद्यति(16)गुणो यती।
असाधारणधर्मांस्तु नानुतिष्ठेद्गृही यदि ॥ 82 ॥
{16. गुणा इति-पा.}
गृही न कोऽपि सन्यस्येत्तदतो दुर्वचस्तव।
आपातरमणीयं चेत्यास्तां किं विस्तरेण तु ॥ 83 ॥
ननु गेही लिङ्गसङ्गी निराभारादिलक्षणः।
कथमर्हेत् यथा ब्रह्मचारी गार्हस्थ्यलक्षणम् ॥ 84 ॥
औपासनादिकं कर्म नार्हतीत्येवमत्र च।
न्यूनाधिकारी स्वश्रेष्ठधर्मान्नार्हेत्ततः कथम् ॥ 85 ॥
न वयं गृह्यसाध्यानां कर्मणां ब्रह्मचारिणः।
अधिकारं प्रवक्ष्यामः स्वाश्रमानुगुणं पुनः ॥ 86 ॥
अविरुद्धस्य धर्मस्य समनुष्ठानतः शिवम्।
एवमत्याश्रमस्थानामाचारो मास्तु गेहिनः ॥ 87 ॥
न तेन वीरशैवत्वं भज्यते गेहिनां पुनः।
अनाश्रमत्वं किन्नाम मोक्षमार्गैकयोग्यता ॥ 88 ॥
सा च दृष्टा गृहस्थे च वामदेवे महात्मनि।
गार्ग्यामपि स्त्रियां चैव (17)सा यतो ब्रह्मचारिणी ॥ 89 ॥
{17. नियतो-पा.}
अतः श्रेयोऽभिवृद्ध्यर्थं वीरशैवः समाचरेत्।
उपन्यस्तानि कर्माणि वीरशैवाविरोधतः ॥ 90 ॥
ब्रह्मपन्थानमाश्रित्य स्नानं दानं शिवार्चनम्।
विदधीत क्षात्रमार्गमाश्रितो राष्ट्रवृद्धये ॥ 91 ॥
कारयेद्वेदकर्माणि यस्यार्थस्तस्य तत्फलम्।
वैदिकांस्तान् समाहूय राजा सेऽयं क्रमात्ततः ॥ 92 ॥
उपास्यतो वैश्यवृत्तिं स्नायाद्देयं धनादिकम्।
श्ववृत्या जीवनं प्राप्य निवर्तेत पुनर्बुधः ॥ 93 ॥
एवं प्रतिज्ञानुगुणं नित्यकर्माणि वर्णये।
पराशरपुराणोक्तं धर्मशास्त्रेषु वर्णितम् ॥ 94 ॥
सदाचारं श्रावयाशु येन लोकान् जयेद्व्रुधः।
धर्माधर्मौ तथा ब्रूहि स्वर्गनारकदौ तथा ॥ 95 ॥
वेदाचारायुतो विद्वान् ब्राह्मणो नाम नामतः।
वेदाचारयुतो विप्रो ह्येतेष्वेकैकवान् द्विजः ॥ 96 ॥
उल्पाचारोऽल्पवेदश्च क्षत्रियो राजसेवकः।
किञ्चिदाचारवान् वैश्यः कृषिवाणिज्यतस्तथा ॥ 97 ॥
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः।
असूयालुः परद्रोही चण्डालद्विज उच्यते ॥ 98 ॥
पृथिवीपालको राजा, इतरे क्षत्रियास्तथा।
धान्यादिक्रयवान् वैश्यः, इतरे विश उच्यते ॥ 99 ॥
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते।
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ 100 ॥
सर्वो ह्युषः प्राचीमुखश्चिन्तयेद्देवपूर्वकान्।
इत्यादिषु पुराणानां वचनेषु गुणैः पुनः ॥ 101 ॥
सम्बन्धाद्व्राह्मणादीनि नामानी न च जातितः।
वैदिकत्वाद्वीरशैवा (18)आचारा वैदिकोत्तमाः ॥ 102 ॥
{18. आचारात्}
अथ प्रातः करणीयम्:--
ब्राह्मे मुहूर्ते चोत्थाय स्वासने शुचिरास्थितः।
धर्मानर्थांश्च तत्क्लेशानादायं व्ययमेव च ॥ 103 ॥
आयुर्विद्वेषमरणं पापं भाग्यं तथैव च।
व्याधिं पुष्टिं तथा शान्तिं प्रातरुत्थानदिक्फलम् ॥ 104 ॥
निशान्तिमो याम उषो यामार्धः सन्धिरुच्यते।
तत्काले च समुत्थाय विण्मूत्रे उत्सृजेद्बुधः ॥ 105 ॥
गृहाद्दूरं ततो गत्वा वाग्यतः प्रावृतस्तथा।
उदङ्मुखः समाविश्य प्रतिबन्धेऽन्यदिङ्मुखः ॥ 106 ॥
अथ शौचविधि:--
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः।
लिङ्गं पिधाय वामेन मुखमन्येन पाणिना ॥ 107 ॥
मलमुत्सृज्य चोत्थाय न पश्येदेव तन्मलम्।
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ 108 ॥
अथवा देवपीत्रर्थतीर्थावतरणं विना।
सप्तवारं च वा तिस्रो गुदं संशोधयेन्मृदा ॥ 109 ॥
शिश्ने कर्कोटिमात्रं तु गुदे प्रसृतिरिष्यते।
तत उत्थाय पद्धस्तशैचं गण्डूषमष्टकम् ॥ 110 ॥
येन केन च पत्रेण काष्ठेन च जलाद्बहिः।
कार्पासं तर्जनीं त्यक्त्वा दन्तधावनमाचरेत् ॥ 111 ॥
दिव्यागमोक्तवचनं विलिखामि समासतः।
आदित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते ॥ 112 ॥
उत्थाय धौताङ्घ्रिकरः कृतभस्मावकुण्ठंनः।
हृदि सामान्यसमयी चिन्तयेत् परमेश्वरीम् ॥ 113 ॥
विशिष्टसमयी बिन्दौ मूर्ध्नि निर्वाणदीक्षितः।
आचम्य साधकः शम्भुं द्वादशान्ते विचिन्तयेत् ॥ 114 ॥
नामानि चास्य हृद्यानि चरित्राणि च कीर्तयत्।
निराभारो विशिष्टश्च ह्येवमेव हि चिन्तयेत् ॥ 115 ॥
विण्मूत्रोत्सर्जनं कुर्याद्गत्वा देशं यथोचितम्।
उदङ्मुखोऽहःसन्ध्यासु रजन्यां दक्षिणामुखः ॥ 116 ॥
प्राक्प्रत्यग्वदनो यद्वा दिनपूर्वापरार्धयोः।
उदङ्मुखस्तु मध्याह्ने रजन्यां दक्षिणामुखः ॥ 117 ॥
नभोविण्मूत्रदिक्चन्द्रसूर्यताराग्निदर्शनम्।
देवगोमुनिविप्रस्त्रीसम्मुखं च(19) विवर्जयेत् ॥ 118 ॥
{19. विवर्जयन्-पा.}
तृणैः पायुमयज्ञाङ्गैर्मुज्यादनुपयोगिभिः।
लोष्टाद्यैर्वा न सत्पर्णशाखापुष्पफलादिभिः ॥ 119 ॥
अधोदृष्टिः प्रजननं गृह्णन् वामेन पाणिना।
जलाभ्याशमुपागत्य शौचं कुर्वीत मृज्जलैः ॥ 120 ॥
एका शिश्ने गुदे पञ्च दश वामकरे मृदः।
षट्सप्त पृष्ठे चाङ्ध्य्रोश्च करयोः सप्त मृत्तिकाः ॥ 121 ॥
वल्मीके वृक्षमूले च गृहे मार्गे जलान्तरे।
ऊषरे मूषकोद्धाते गोव्रजे देवतालये ॥ 122 ॥
वापीकूपतटाकादिकूले सिकतिलस्थले।
वीथ्यां श्मशाने कीटास्थितुषाराङ्गारदूषिते ॥ 123 ॥
पांसुले परशौचार्थशुष्टमृत्कीर्णभूतले।
हलोद्धाते च जम्बाले शार्करे नाहरेन्मृदम् ॥ 124 ॥
विशुद्धभूमौ मृद्गाह्या व्यपोह्योपरि मृत्तिकाम्।
यथा स्याच्छौचपर्याप्तं नावशिष्येत (20) वा यथा ॥ 125 ॥
{20. वाप्यथ-पा.}
प्रथमं पायुशौचं स्यादथ प्रसृतिमानतः।
तदर्धमानतः पश्चात्तदर्धेन ततः परम् ॥ 126 ॥
आर्द्रामलकमात्रं स्यान्मूत्रशौचे तु मृत्तिका।
द्विगुणा मृत्तिका शुक्ले त्रिगुणा दारसङ्गतौ ॥ 127 ॥
एतच्छौचं गृहस्थस्य शावमध्ये ततोऽधिकम्।
ब्रह्मचर्यादिकानां तु क्रमाद्दित्रिचतुर्गुणम् ॥ 128 ॥
यस्य यावद्दिवा शौचं तदर्धं निशि तस्य तत्।
तदर्धमातुरस्योक्तमातुरस्यार्धमध्वनि ॥ 129 ॥
आगुल्फं चरणौ मृद्भिः करावामणिबन्धकम्।
संक्षाल्य क्षालयेत् पश्चादाजान्वाकूर्परं जलैः ॥ 130 ॥
धाराशौचं न कर्तव्यं शौचसिद्धिमभीप्सता।
चुलकेनैव कर्तव्यं हस्तशुद्धिविधानतः ॥ 131 ॥
शौचे मृज्जलदानार्थं कर्तव्यौ परिचारकौ।
सव्यहस्तगृहीता च क्षेप्या मृद्वामहस्तके ॥ 132 ॥
कुर्याद्द्वादशगण्डूषान् पुरीषोत्सर्जने कुते।
कुर्वीत चतुरो मूत्रे भोजनान्ते तु षोडश ॥ 133 ॥
प्राङ्मुखः क्षालयेत् पादौ (21) हस्तावत्र उदङ्मुखः।
उदङ्मुखः प्राङ्मुखो वा ततस्त्वाचमनं चरेत् ॥ 134 ॥
अथ दन्तधावनविधिः--
हृन्मन्त्रेण ततो ग्राह्यं दन्तकाष्ठं त्वगन्वितम्।
आपर्वाग्रसमच्छेदमार्द्रमग्रे च कूर्चकम् ॥ 135 ॥
कनिष्ठिकासमस्थौल्यं सूक्ष्मं वा दन्तसौक्ष्म्यतः।
अष्टाङ्गुलं नैष्ठिकानां भोगिनां द्वादशाङ्गुलम् ॥ 136 ॥
वर्णिनां दशषष्ठाष्टसप्ताङ्गुलकमेव वा।
षडह्गुलं प्रहीणानां नारीणां चतुरङ्गुलम् ॥ 137 ॥
जम्ब्वाम्रककुभाशोककपित्थबकुलोद्भवम्।
प्लक्षौदुम्बरफुल्लाङ्घ्रिजातीचम्पकशङ्खजम् ॥ 138 ॥
अतिमुक्तकदम्भोत्थमपामार्गं च भोगिनाम्।
ग्राह्यमेतच्च शैरीषचिरबिल्वकरञ्जकम् ॥ 139 ॥
श्रीपर्मीदारुनिर्गुण्डीसारजं खादिरादिकम्।
(22)अक्षक्षीरीधवैरण्डवटाश्वत्थककुद्वरैः ॥ 140 ॥
गुडिकामधुकाशिल्पीकुलोद्भवनिशिग्रुजैः।
नाकुलीपेरुवानीरधात्रीकादम्बसंभवम् ॥ 141 ॥
खर्जूरीनारिकेलोत्थं पालाशं तालवंशजम्।
तृणपर्णापिशाचोत्थमिष्टकाङ्गारभस्मजम् ॥ 142 ॥
अङ्गुल्यां तर्जनी वर्ज्या सुवर्णादिकृतं तथा।
प्रतिपन्नवमी षष्ठी द्वादशी पर्वपञ्चकम् ॥ 143 ॥
उपवासदिनं जन्मत्रयं च शनिवासरम्।
भानुवारव्यतीपाते ग्रहणं जन्मवासरम् ॥ 144 ॥
सूर्योदयानन्तरं च विवर्ज्यं दन्तधावनम्।
गण्डूषैर्द्वादशावृत्तैर्दलैर्वा शोधयेद्रदान् ॥ 145 ॥
जिह्वानिर्लेखनं कुर्याञ्जिह्वामल(23)विशोधने।
लालाक्षिश्रोत्रनासास्यरेतोविण्मूत्रगात्रजम् ॥ 146 ॥
{विशोधनैः=पा.}
करपादगतं यच्च शोध्यं तत्सकलं मलम्।
नासिकाश्रोत्रनेत्रादि क्षालनेन विशुध्यति ॥ 147 ॥
मृद्भिरामलकाद्यैश्च नखकेशादि शुध्यति।
एवं मलादि संशोध्य वारुणं स्नानमाचरेत् ॥ 148 ॥
अशेषमालिन्यहरं दुस्वप्नादिविनाशनम्।
अथ स्नानविधिः--
जलदेवान्नमस्कृत्यमन्त्रस्नानं समाचरेत् ॥ 149 ॥
अशक्तः कण्ठदघ्नं वा कटिदघ्नमथापि वा।
आजानु जलमासिच्य मन्त्रस्नानं समाचरेत् ॥ 150 ॥
देवादींस्तर्पयेद्विद्वान्मूलमन्त्रजपेन च।र
शिवं (24)देवीं शिवगणांस्तर्पयेच्छुद्धमानसः ॥ 151 ॥
{24. देवं-पा.}
धौतवस्त्रं समादाय (25)पञ्चकच्छेन धारयेत्।
उत्तरीयं च किंचैव धार्यं सर्वेषु कर्मसु ॥ 152 ॥
{26)पञ्चपुच्छेन-पा.}
नद्यादितीर्थस्नाने तु स्नानवस्त्रमधो नयेत्।
वापीकूपग्रहादौ तु स्नान ऊर्ध्वं नयेद्बुधः ॥ 153 ॥
शिलादार्वादिके वापि जले वापि (27)स्थलेऽपि वा।
संशोध्य पीडयेद्वस्त्रं पितॄणां तृप्तये द्विजः ॥ 154 ॥
{27. स्थलेऽथ-पा.}
वीरशैवस्तु नैव स्यात्तर्पिता पितृमुक्तये।
शिवसायुज्यमाप्तं तैर्यतः शाम्भवदीक्षया ॥ 155 ॥
इत्येवं वीरशैवानां निर्णीतं स्नानक्रम न ॥
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञ श्री नीलकण्ठ-
शिवाचार्यकृते निगमागमसारसङ्ग्रहे क्रियासारे
पञ्चम उपदेशः
----------
षष्ठः उपदेशः
सम्पाद्यताम्स्नातस्य वीरशैवस्य वारुणेनाथ भस्मना।
स्नानाय धारणायापि भस्मोत्पत्तिः प्रदर्श्यते ॥ 1 ॥
अथ भस्मोद्धूलनार्थं भस्मोत्पादनोद्बोधकप्रमाणानि विलिक्यन्ते-
बृहज्जाबालोपनिषदि, बृहज्जाबालाभिधां मुक्तिश्रुतिं ममोपदेशं कुरुष्वेति। अथ तथेति सद्योजातात्पृथिवी, तस्या निवृत्तिः, तस्याः कपिलवर्णा नन्दा, तस्या गोमये विभूतिर्जाता। वामदेवादुदकं, तस्मात् प्रतिष्ठा, तस्याः; कृष्णवर्णा भद्रा, तस्या गोमये भसितं जातम्। अघोराद्वह्निः, तस्माद्विद्या, तस्या रक्तवर्णा सुरभिः, तस्या गोमये भस्म जातम्। तत्पुरुषाद्वायुः, तस्माच्छान्तिः, तस्याः श्वेतवर्णा सुशीला, तस्या गोमये क्षारं जातम्। ईशानादाकाशः, तस्माच्छान्त्यतीता, तस्याश्चित्रवर्णा सुमनाः, तस्या गोमये रक्षा जाता। विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि। पञ्चभिंर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः। भस्म सर्वाघभक्षणात्। भासनाद्भसितम्। क्षारणादापदां क्षारम्। भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षणाद्रक्षेति। तथैत्र तृतीयब्राह्मणे--"अथ भूसुण्डः कालाग्निरुद्रं विभूतियोगं प्रब्रूहीति से होवाच विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नाङ्कितां पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुग्धदोहिनीं निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं नवप्रसूतां रोगान्वितां विहाय प्रशस्तं गोमयमाहरेत्। तत्रैते श्लोकाः--
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते।
गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥ 1 ॥
गुणत्रयमिदं धेनुः विद्याभूद्गोमयं शुभम्।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥ 2 ॥
वत्सास्तु स्मृतयश्चास्यास्तत्संभूतं तु गोमयम्।
(1)पञ्चाक्षरेण मन्त्रेण देनुं तत्राभिमन्त्रयेत् ॥ 3 ॥
{1. आगाव इति मन्त्रेण-उ.पा.}
(2)अष्टोत्तरशतेनाथ प्राशयेत्तु जलं तृणम्।
{2. गावो भगो गाव इति-उ.पा.}
उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥ 4 ॥
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः।
कृतस्नानो धौतवस्त्रः पयोऽर्थं च सृजेच्च गाम् ॥ 5 ॥
उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत्।
सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥ 6 ॥
पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा।
आदधीत हि गोमूत्रं(3) मूलमन्त्रेण गोमयम् ॥ 7 ॥
{3. गन्धद्वारेति-उ.पा.}
अबूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही।
गोमयं शोधयेद्विद्वान् (4)मूलमनत्राष्टकेन च! ॥ 8 ॥
{4. श्रीर्मे भजतु मन्त्रतः-उ.पा.}
(5)दशजप्तेन मन्त्रेण गोमयस्थान्यवर्जनम्।
(6)भवाय नम मन्त्रेण गोमूत्रं गोमये क्षिपेत् ॥ 9 ॥
{5. अलक्ष्मीरिति मं-उ.पा. 6. संत्वा सिञ्चामि मं-उ. पा.}
(7)शर्वाय नम इत्येवं पिण्डानां च चतुर्दश।
कुर्यात्संशोध्य किरणैः (8)सप्तमूलेन चाहरेत् ॥ 10 ॥
{7. पञ्चानां त्विति मं=उ.पा. 8. सौरकैराहरेत्ततः-उ.पा.}
विदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान्।
(9)शैवोक्तेनैव विधिना प्रतिष्टाप्याग्नि(10)मर्चयेत् ॥ 11 ॥
{9. स्वगृह्योक्तविधानेन--उ. पा. 10. मोजयेत्-उ. पा.}
पिण्डांश्च निक्षिपेत्तत्र आद्यन्तप्रणवेन तु।
षडक्षरस्य (11)ब्रह्माख्या नमो देवाय शम्भवे ॥ 12 ॥
{11. सूक्तस्य व्याकृतस्य-पा.}
स्वाहान्तैर्जुहुयात्तत्र वर्णदेवाय पिण्डकान्।
(12)मूलेनैवाज्यभागौ च प्रक्षिपेन्मूलमन्त्रतः ॥ 13 ॥
{12. आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः.}
ततो निधनपत्रये त्रयोर्विंशत् जुहोति च।
होतव्याः पञ्च (13)ब्रह्माख्या नमो देवाय शम्भवे ॥ 14 ॥
{13. पञ्चब्रह्मणि नमो हिरण्यबाहवे.}
इति सर्वाहुतीर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः।
(14)भवः शर्वो मृडो रुद्रो हरः शम्भुर्महेश्वरः ॥ 15 ॥
{14. ऋतं सत्यं कद्रुद्राय यस्य वैकंकतीति च.}
एतैश्च जुहुयाद्विद्वान् (15)मूलमन्त्राष्टकं तथा।
(16)शिवाय त्रयहोमश्च स्विष्टकृन्मूलमन्त्रतः ॥ 16 ॥
{15. अनाज्ञातत्रयं तथा. 16. व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत्. }
(17)इत्थं शेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा।
(18)अष्टोत्तरशतेनाथ तर्पयेच्छुद्धमानसः ॥ 17 ॥
{17. इध्मशेषं. 18. पूर्णमसीति यजुषा जलेनान्येन बृंहयेत्.}
(19)पञ्चब्रह्मेण मन्त्रेण तज्जलं शिरसि क्षिपेत्।
(20)दशवारं च जप्तेन दिक्षु तोयं विनिक्षिपेत् ॥ 18 ॥
{19. पञ्चाक्षरे ण मन्त्रेण. 20. प्राच्यामिति दिशं लिङ्गैर्दिक्षु.}
(21)शैवानां दक्षिणां दत्वा शान्त्यै पुलकमाहरेत्।
आहरिष्यामि (22)शैवानां सर्वेषां कर्मगुप्तये ॥ 19 ॥
{21. ब्रह्मणे दक्षिणा. 22. देवानां.}
जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम्।
मनत्रेणानेन तं वह्निं पुलकैच्छादयेत्ततः ॥ 20 ॥
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम्।
(23)शैवांश्च भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥ 21 ॥
{23.ब्राह्मणान् भोज.}
भस्माधिक्यमभीप्संस्तु चाधिकं गोमयं हहेत्।
दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥ 22 ॥
तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः।
(24)शुक्लभास्वच्छैवसूत्रः शुक्लभस्मानुलेपनः ॥ 23 ॥
{24. शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः.}
त्तर चावाहनमुखानुपचारांस्तु षोडश।
(25)मूलमन्त्रं समुच्चार्य पुलकं भस्म संत्यजेत् ॥ 24 ॥
{25. ओंतद्वह्मेति चोच्चार्य पौलकं भस्म सन्त्यजेत्,}
तत्र चावाहनमुखानुपचारांस्तु षोजश।
(26)कर्तव्या व्याहतीश्चैवं ततोऽग्निमुपसंहरेत् ॥ 25 ॥
{26. कुर्याद्ब्याहृतिभिस्त्वेवं.}
(27)सद्यादिकेन मन्त्रेण गृह्णीयाद्भस्म चोत्तमम्।
(28)तदनन्तरमन्त्रेण प्रमृज्य च ततः परम् ॥ 26 ॥
{27. अग्निर्भस्मेति मन्त्रेण. 28. अग्निरित्यादिमन्त्रेण.}
संयोज्य गन्धसलिलैः कपिलामूत्रकेन वा।
चन्द्रकुङ्कुमकाश्मीरमुशीरं चन्दनं तथा ॥ 27 ॥
अगरुत्रितयं चेव चूर्णयित्वा तु सूक्ष्मतः।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥ 28 ॥
प्रणवेनाहरोद्विद्वान् बृहतो वटकानथ।
(28)अघोरमन्त्रतश्चाथ दशजप्तेन मूलतः ॥ 29 ॥
{28. अणोरंणीयानिति हि मन्त्रेण च विचक्षणः.}
बोधायनसूत्रे-
अथातो विभूतिसम्पादनधारणविधिं व्याख्यास्यामः। शुचिर्भूत्वा विकटाङ्गामुन्मत्तामशिवां हीनातिरिक्ताङ्गां वन्ध्यामस्थिचेलाशुचिभक्षिणीं रोगिणीं विहाय, सुलक्षणाया गोमयमादाय, पिण्डं कृत्वा संशोष्य श्वेतपचनीयैः संभारैः प्रच्छाद्य, गृह्याग्नौ वैताने वा पाचने वोपोषयेत्। बिल्वपात्रे मृण्मये वा स्थापयेत्॥
बोधायनस्मृतौ--
सव्येन गोशकृद्ग्राह्यं वामेन त्वभिमन्त्रयेत् ॥ 1 ॥
अघोरेण दहेत् पिण्डं ग्राह्यं तत्पुरुषेण तु।
नमस्कृत्वा (30)महादेवं देवी वचनमब्रवीत् ॥ 2 ॥
{30. सुप्रबोधं-पा.}
भस्मस्नानं महादेव तत्सम्यग्वद मे प्रभो।
ईश्वर उवाच
अथातः सम्प्रवक्ष्यामि भस्मस्नानं सुलोचने ॥ 3 ॥
आयुष्यं बलमारोग्यं श्रीः पुष्टिर्वर्धते यथा।
रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ 4 ॥
भस्मदिग्धमनुष्याणां ज्वरमार्यभयाय च।
शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ 5 ॥
गोमयं योनिसम्बद्धं यद्धस्तेनैव गृह्यते।
ब्रह्ममन्त्रैश्च सन्दग्धं तच्छान्तिकमिहोच्यते ॥ 6 ॥
सावधानः सुगोयोनिनिस्सृतं गोमयं तु यत्।
अन्तरिक्षे गृहीत्वातः षडङ्गेन दहेत्ततः ॥ 7 ॥
पौष्टिकं तत्समाख्यातं कामदं तु ततः शृणु।
सुशुद्धे भूतले दैवात् पतितं गोमयं तु यत् ॥ 8 ॥
प्रासादेन दहेदेतदेतत् कामदमुच्यते।
प्रातरुत्थाय देवेशि! मौनव्रतधरः शुचिः ॥ 9 ॥
गवां गोष्ठे च गत्वा तु नमस्कृत्य च गोकुलम्।
गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् ॥ 10 ॥
ब्राह्मणस्य तु गोः श्वेता रक्ता गौः क्षत्रियस्य तु।
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य चोच्यते ॥ 11 ॥
पौर्णमास्याममायां वा अष्टम्यां वा विशुद्धधीः।
प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् ॥ 12 ॥
हदयेन तु मन्त्रेण पिण्डं कृत्वा तु गोमयम्।
रविरश्मिषु संतप्तं शुचौ देशे मनोहरे ॥ 13 ॥
तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत्।
अरण्युद्भवमग्निं वा तुषाग्निं वापि कारयेत् ॥ 14 ॥
अग्निं च विन्यसेत्तत्र शिव एव हि मन्त्रतः।
सन्दहेदथ तच्चापि (31)कन्दाद्भस्म विचक्षणः ॥ 15 ॥
{31. कुण्डाद्भस्म-पा.}
नवपात्रं समादाय प्रासादेन तु निक्षिपेत्।
केतकीं पाटलीं तद्वदुशीरं चन्दनं तथा ॥ 16 ॥
निक्षिपेत्तस्य मध्ये तु सद्यो मन्त्रेण शुद्ध्यति।
पाद्मे पुराणे श्रीरामवचनम्--
पीताम्बुधे! प्रसन्नस्त्वं यदि मे किमु दिष्करण् ॥ 17 ॥
अतस्त्वं विरजादीक्षां ब्रूहि मे मुनिसत्तम।
अगस्त्यमुनिरुवाच
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ॥ 18 ॥
एकादश्यां सोमवारे आर्द्रायां वा समारभेत्।
यं वातमाहुर्यं रुद्रं शाश्वतं परमेश्वरम् ॥ 19 ॥
परात्परतरं चाहुः परात्परतरं शिवम्।
ब्रह्मणो जनकं विष्णोर्वह्निवाय्वोः सदाशिवम् ॥ 20 ॥
ध्यात्वा(32)ग्निनावसथ्याग्निं विशोध्य च पृथक् पृथक्।
पञ्चभूतानि संयम्य मात्रागुणविधिक्रमात् ॥ 21 ॥
{32. ग्नीनावस-पा.}
मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम्।
एकमात्रममात्रं हि द्वादशान्ते व्यवस्थितम् ॥ 22 ॥
स्थित्वा स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत्।
इदं व्रतं पाशुपतं करिष्यामि समासतः ॥ 23 ॥
प्रातरेवं तु सङ्कल्प्य निधायाग्निं (33)समागतः।
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ॥ 24 ॥
{33. स्वमार्तः-पा.}
शुक्लभस्मानुलेपश्च शुक्लदन्तादिमान् बुधः।
जुहुयाद्विरजामन्त्रैः प्राणापानादिभिस्ततः ॥ 25 ॥
अनुवाकान्तमेकाग्रं समिदाज्यचरून् पृथक्।
(34)आत्मन्यग्निं समारोप्य "तेऽग्न" इत्यादिमन्त्रतः ॥ 26 ॥
{34. आत्मन्यग्नीन्-पा.}
भस्मादायाग्निरित्याद्यैर्विमृश्याङ्गानि संस्पृशेत्।
अयं होमप्रकार उत्तरत्र प्रदर्शयिष्यते॥
एवं वायवीयसंहितायामपि होमादिपुरस्सरः पाशुपतव्रतानुष्ठानप्रकारो बहुधा प्रपञ्चितः। स चाप्युत्तरत्र निरूपयिष्यते।
वपिलायाः शकृच्छस्तं गृहीत्वा गगने पतत्।
न क्लिन्नं नातिकठिनं न दुर्गन्धं न वोषितम् ॥ 27 ॥
उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि।
पिण्डीकृत्य शिवाग्न्यादौ निक्षिपेन्मूलमन्त्रतः ॥ 28 ॥
अपक्कमतिपक्कं च सन्त्यज्य भसितं (35)सितम्।
आदाय वाससालोड्य भस्माधारे विनिक्षिपेत् ॥ 29 ॥
{35. शुभम्-पा.}
सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे।
विन्यस्य मन्त्री भन्त्रेण पात्रे भस्म विनिक्षिपेत् ॥ 30 ॥
(36)प्रोक्षितं भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा।
स्वजनाय करे दद्यान्न चाशुचितले क्षिपेत् ॥ 31 ॥
{36. प्रश्रितो-पा.}
न संस्पृशेत नीचाङ्गैः नोपेक्षेत न लङ्घयेत्।
तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ 32 ॥
अथ भस्मव्यवस्था बृहज्जाबालोपनिषदि--
तैजसं दारवं वापि मृण्मयं चैवमेव वा।
अन्यदा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ 33 ॥
त्रैवर्णिकानामग्निहोत्राग्निजं गृहस्थानां तदेव विवाहाग्निजं औपासनाग्निजं वा ब्रह्मचारिणां समिदग्निजम्। विरक्तानामतिवर्णाश्रमिणां विरजानलजम्। शूद्राणां श्रोत्रियागारपचनाग्निजम्। अन्येषां दावानलसमुद्भवम्। यतीनां सर्वत्र स्थितम्। अतिवर्णाश्रमिणां तदेव। तत्रापि विरक्तानां सर्वत्र स्थितम्। सर्वेषां देवालये स्थितमिति। शिवयोगिनां शिवाग्निजा भूतिः। शिवालये स्थितं तल्लिङ्गमन्त्रसंस्कारदग्धं वा॥
वासिष्ठलैङ्गे पञ्चमाध्याये-
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम्।
विरजानलजं चैव धार्यं भस्म महामुने ॥ 34 ॥
औपासनसमुत्पन्नं गृहस्थानां विशिष्यते।
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणाम् ॥ 35 ॥
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम्।
अन्ये षामपि सर्वेषां धार्यं दावानलोद्भवम् ॥ 36 ॥
सूतसंहितायाम्--
समिदग्निसमुत्थेन विरजानलजेन वा।
अग्निहोत्रसमुत्थेन सजलेन च भस्मना ॥ 37 ॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिर्वा सप्तभिः क्रमात्।
तत्रैव--
स्वल्पं भस्म द्विजश्रेष्ठाः बहुधा परिकीर्तितम् ॥ 38 ॥
श्रौतमेकं तथा स्मार्तमपरं पण्डितोत्तमाः।
श्रौतं भस्म द्विजाः! मुख्यं स्मार्तं गौणं प्रकीर्तितम् ॥ 39 ॥
अन्यच्चापि द्विजाः! भस्म केवलं लौकिकं परम्।
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ॥ 40 ॥
अन्येषामपि सर्वेषामपरं भस्म लौकिकम्।
तत्रैव शिवमाहात्म्यखण्डे--
पुनः साक्षाच्छिवज्ञानसिध्यर्थं मुनिपुङ्गवाः ॥ 41 ॥
अग्निहोत्रसमुत्पन्नं भस्मादायादरेण तु।
कालाग्निरुद्रोपनिषदि--
`किं द्रव्यम्' इत्यरभ्य `द्रव्यं तदाग्नेयं भस्म' इति।
भारद्वाजस्मृतौ--
`प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य'--इति प्रस्तुत्य
आदाय भसितं श्वेतमग्निहोत्रसमुद्भवम् ॥ इति ॥ 43 ॥
तत्रैव--
शूद्रहस्तस्थितं भस्म नैव धार्यं द्विजातिभिः।
शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म जातुचित् ॥ 44 ॥
अतोऽग्निहोत्रजेनैव भस्मना तु त्रिपुण्ड्रकम्।
नित्यं द्विजोऽप्रमादेन कुर्यात्कर्माभिवृद्धये ॥ 45 ॥
पुरुषार्थप्रबोधकारास्तु--
विभूतिधारणविधिस्तत्रोक्तोऽत्र मयेरितः।
तत्रोक्ताचारसाङ्गर्यपरिहाराय नान्यथा ॥ 46 ॥
(37)शैवैः सम्पादितं भस्म वेदिकैः शिवसन्निधौ।
भक्त्या परमया ग्राह्यं प्रार्थयित्वापि पूजकान् ॥ 47 ॥
{37.शैवसंपादितं-पा.}
(तत्रोक्तवर्त्मना सिद्धं भस्म सम्प्रार्थ्य पूजकैः)
यत्र कुत्रापि दत्तं चेत् तच्च ग्राह्यं हि वैदिकैः।
शैवैरप्रार्थितैरेव महादेवस्य सन्निधौ ॥ 48 ॥
लौकिकं भस्म दत्तं चेत्तच्च ग्राह्यं हि वैदिकैः।
अप्रार्थितैस्तान्त्रिकैस्तु यत्र कुत्रापि पूजकैः ॥ 49 ॥
लौकिकं भस्म दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः।
कापालिकैस्तथा शूद्रौः पाषण्डैरपरैश्च वा ॥ 50 ॥
दत्तं चेद्भस्म वेदैकनिष्ठैस्तद्ग्राह्यमेव न।
वर्णी वा तापसो वापि शूद्रो वा यदि भूतिदः ॥ 51 ॥
सा भूति- सर्वदा ग्राह्या नो चेद्द्रोही ममैव सः।
इत्यस्य शिववाक्यस्य का गतिः कथयेति चेत् ॥ 52 ॥
चण्डालगेहे विप्राणां गृहे वा परमार्थवित्।
भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥ 53 ॥
इत्यस्य या गति- सैव गतिरस्येति निश्चिनु।
यावन्तः पतिता भूमौ भस्मनः परमाणवः ॥ 54 ॥
तावद्वर्षसहस्नाणि रौरवं नरकं व्रजेत्।
इत्येवं भस्मपतने बहुदोषस्य कीर्तनात् ॥ 55 ॥
भूत्वात्यन्तं सावधानो धारयेद्भस्म बुद्धिमान् ॥ इति ॥
अथ बृहज्जाबालोपबृंहकपाद्मोक्तविरजाहोमः प्रदर्श्यते--साधकः शुक्लचतुर्दश्यां (कृष्णचतुर्दश्यां वा) सङ्कल्पपुरस्सरं शुचिर्भूत्वा उपोष्य, तस्मिन्नेव दिने प्रशस्तां गां `आगाव' इति मन्त्रेणाभिमन्त्र्य `गावो भग' इति मन्त्रेण तृणं जलं च प्राशयेत्। एवं चतुर्दश्यां व्रती सन् परेद्युः प्रातरुत्थाय, शुचिर्भूत्वा समाहितः सन् कृतश्नानो धौतवासा विभूतिधारणपुरस्सरं प्रातः शिवपूजादिकं कृत्वा, पयोऽर्थं गां व्रजेत्। गवा वत्सस्य संयोगकाले सुवर्णे रजते ताम्रे मृण्मये शृङ्गमये पलाशमये वा पात्रे पुष्करपर्णे वा गायत्र्या गोमूत्रमाहरेत्। पूर्वोक्त एव पात्रे गोमयं `गन्धद्वारे' इति खसंस्थामाहरेत्। शुद्धभूमौ पतितमपि अध ऊर्ध्वं परित्यज्य, मध्ये विद्यमानमाहरेत्। "श्रीर्मे भवत्वि"ति मन्त्रेण गोमयं शोधयेत्। "अलक्ष्मीर्मे नश्यत्वि"ति मन्त्रेण गोमयस्थं सैकतबीजधान्यादिकं वर्जयेत्। संत्वा सिञ्चामी"ति मन्त्रेण गोमूत्रं गोमये क्षिपेत्। अनन्तरं गोमयं सम्यगुपमर्द्य" पञ्चानां त्वा वातानामि"ति चतुर्दशमन्त्रैश्चतुर्दश पिण्डान् कुर्यात्। अधिकविभूतिसम्पादनेच्छा चेत्तूष्णीमेव पिण्डान् कुर्यात्। शुद्धपात्रे निधाय सौरकिरणैः (38)संशोष्य {38. संशोषयित्वा-पा.} पूर्वोक्तपात्रे निदध्यात्। अनन्तरं (39)स्वशाखोक्तविधानेनाग्निं{39. स्वागमोक्त-पा.} प्रतिष्ठाप्य प्रज्वाल्य परिस्तरणादिब्रह्मवरणपूर्वकं इध्मप्रक्षेपणान्तं कृत्वा अनन्तरं पिण्डान् जुहुयात्। ओं स्वाहा परमात्मन इदं न मम। नं स्वाहा इन्द्रायेदं न मम। मं स्वाहा रुद्रायेदं न मम। शिं स्वाहा विष्णव इदम्। वां स्वाहा ब्रह्मण इदम्। यं स्वाहा स्कन्दायेदम्। पुनरपि यं स्वाहा। वां स्वाहा। शिं स्वाहा। मं स्वाहा। नं स्वाहा इन्द्रायेदं न मम। मं स्वाहा रुद्रायेदं न मम। शिं स्वाहा विष्णव इदम्। वां स्वाहा ब्रह्मण इदम्। यं स्वाहा स्कन्दायेदम्। पुनरपि यं स्वाहा। वां स्वाहा। शिं स्वाहा। मं स्वाहा। नं स्वाहा। ओंस्वाहा। अधिकविभूत्यपेक्षायां पिण्डान्तराणि तूष्णीमेव वह्नौ प्रक्षिपेत्॥
आघाराज्यभागमखान्तं कृत्वा व्याहृतिभिर्जुहुयात्। निधनपतये स्वाहा(40){40. स्वाहेतिपदं अत्र सर्वत्र योजनीयम्.}। निधनपतान्तिकाय। ऊर्ध्वांय, ऊर्ध्वलिङ्गाय, हिरण्याय, हिरण्यलिङ्गाय, सुवर्णाय, सुवर्णलिङ्गाय, दिव्याय, दिव्यलिङ्गाय, भवाय, भवलिङ्गाय, शर्वाय, शर्वलिङ्गाय, शिवाय, शिवलिङ्गाय, ज्वलाय, ज्वललिङ्गाय, आत्मने, आत्मलिङ्गाय, परमाय, परमलिङ्गाय, एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रं स्वाहा। सोमादिभ्य इदं न मम। सद्योजाताय स्वाहा। सद्योजातायेदम्। "भवे भवे नातिभवे भवस्व मां भवोद्वाय स्वाहा। भवोद्भवायेदं न मम। वामदेवाय स्वाहा। ज्येष्ठाय, श्रेष्ठाय, रुद्राय, कालाय, कलविकरणाय, बलाय, बलविकरणाय, बलप्रमथनाय, सर्वभूतदमनाय, मनोन्मनाय, अघोरेभ्यः स्वाहा। घोरेभ्यो घोरघोरतरेभ्यः, शर्वेभ्यः सर्वशर्वेभ्यः स्वाहा। नमस्तेऽस्तु रुद्ररूपेभ्यः स्वाहा। "तत्पुरुषाय विद्महे--प्रचोदयात् स्वाहा। तत्पुरुषादिभ्य इदम्। ईशानः--सदाशिवों स्वाहा। ईशादानिभ्य इदम्। अथवा सद्योजातादिपञ्चमन्त्रैः पञ्चाहुतीर्जुहुयात्। नमो हिरण्यबाहवे स्वाहा। हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये स्वाहा। पशुपतये स्वाहा ऋतं सत्यं+वै नमः स्वाहा। ऋतादिभ्य इदम्। सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु। पुरुषो वै रुद्रः सन्महो नमो स्वाहा। सर्वपुरुषात्मकरुद्रायेदम्। विश्वं भूतं भुवनं चित्रं+अस्तु स्वाहा। विश्वाद्यात्मकरुद्रायेदम्। कद्रुद्राय प्रचेतसे+नमोऽस्तु स्वाहा। प्रचेतात्मकरुद्रायेदम्। यस्य वैकङ्कती+प्रैव जायते स्वाहा। अस्मिन् कर्मणि हुताहुतसाद्गुण्यायेदं अनाज्ञातत्रयेण व्याहृतिभिश्च हुत्वा स्विष्टकृत्प्रभृति परिधिप्रहरणं विना जयादि समित्परिषेचनान्तं कृत्वा पूर्णपात्रं पुरतः स्थापयित्वा "पूर्णमसि-अक्षितमसि मा मे क्षेष्ठाः" इति मन्त्रेण शुद्धजलान्तरं प्रक्षिप्य `प्राच्यां दिशि देवाः' इत्यादिना दिक्षु तोयं विनिक्षिप्य, `ब्राह्मणेष्वमृतं हितम्, जातवेदामूर्जयन्त्या पुनातु' इत्यादिना शिरसि किंचिन्निक्षिप्य समुद्रं, वः प्रहिणोमीति मन्त्रेणावशिष्टं जलं भूमौ पातयेत्। ब्रह्मणे दक्षिणां दत्वा अग्न्युपस्थानान्तं कृत्वा `आहरिष्याभि देवानां सर्वेषां कर्मगुप्तये. जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम्। इति मन्त्रेण पुलकैः छादयेत्। दिनत्रयपर्यन्तं वह्निर्यथाधितिष्ठति तथा पुलकाच्छादनं कुर्यात्। पिण्डान्यूनतायां वाताद्यानुकूल्ये च द्वितीये वा तृतीये वा दिवसे विभूत्युत्पादनपक्षे तदानुकूल्येन पुलकं छादयेत्। प्रथमदिवसे यथाशक्ति ब्राह्मणान् भोजयित्वा वाग्यतः स्वयमपि भुञ्जीत। द्वितीये तृतीये चतुर्थे वा दिवसे प्रातः स्नात्वा सन्ध्यावन्दनानन्तरं शुचिर्भूत्वा शुक्लाम्बरधरः शुद्धो यज्ञोपवीती शुक्लदन्तः शुक्लमाल्यानुलेपनः सितभस्मदिग्धाङ्गः त्रिपुण्ड्रधारी अग्निसमीपं गत्वा `ओंतद्ग्रह्मे'ति मन्त्रेण पालैकं भस्म परित्यज्य आवाहनादिषोडशोपचारान् कृत्वा `या ते अग्ने' इत्यग्निमुपसंहरेत्। `अग्नेर्भस्मास्यग्नेः पुरीषमसी' ति मन्त्रेण उत्तमं भस्म गृहीत्वा `अग्निरसी'ति प्रमृज्य गङ्गादिसलिलैः कपिलाया मूत्रेण वा संयोज्य कर्पूरकाश्मीरकुङ्कुमोशीरचन्दनागरुद्वितयं सूक्ष्मरूपेण चूर्णयित्वा `ओमिति ब्रह्मे' ति मन्त्रेण `ओमिति' वा भस्मनि निक्षिप्य "अणोरणीयानि"ति मन्त्रेण बृहतो वटकान् कुर्यात्॥
अथ वायवीयसंहितायामुक्तप्रकारेण पाशुपतव्रतं लिख्यते--चैत्रमासे पूर्वपक्षे त्रयोदश्यां शिवक्षेत्रे शुभक्षेत्रारामे वा होमस्थलं सम्पाद्य सम्यक्छुद्धिं कृत्वा स्नानसन्ध्यावन्दनादिकं कृत्वा पूजानमस्कारपूर्वकमाचार्यमनुज्ञाप्य विशेषतः। शिवपूजां कृत्वा शुक्लाम्बरधरः शुक्लयज्ञोपवीती शुक्लमाल्यानुलेपनः प्राङ्मुख उदङ्मुखो वा दर्भासने समासीनो दर्भमुष्टिं परिगृह्य प्राणायामत्रयं कृत्वा देवं देवीं च ध्यात्वा तदनुज्ञां भावयित्वा पाशुपतव्रतं करिष्य इति सङ्कल्पं कुर्यात्॥
यावच्छरीरपातं वा द्वादशाब्दमथापि वा।
तदर्धं वा तदर्धं वा मासमेक्रं तथापि वा ॥ 1 ॥
दिनद्वादशकं वाथ व्रतसङ्कल्पनावधि।
तथा च सङ्कल्पकाले उक्तकालमध्ये यावत्कालपर्यन्तं व्रतानुष्ठानसामर्थ्यमस्ति तावत्कालमीश्वरप्रीत्यर्थमिति सङ्कल्पयेत्॥
यद्वा `घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणो द्वित्र्येकदिवसं वापि स च कश्चन नैष्ठिकः' इति वचनस्योत्तरत्र विद्यमानत्वादेवं कुर्यात्। अग्निप्रतिष्ठापनमुखान्तं स्वगृह्योक्तविधानेन कृत्वा पलाशसमिद्भिर्वा, तदलाभेऽश्वत्थसमिद्भिर्वा, प्राणापानादिमन्त्रैर्विंशत्याहुतीर्जुहुयात्। "प्राणापान+विपाप्मा भूयासं स्वाहा"। प्राणादिभ्य इदम्। "त्वक्चर्ममांस+भूयासं स्वाहा।" त्वगादिभ्य इदम्। शिरः पाणिपाद+भूयासं स्वाहा। शिर आदिभ्य इदम्। "उत्तिष्ट पुरुष+विरजा विपाप्मा भूयासं स्वाहा। उत्तिष्टादिभ्य इदं। "पृथिव्यप्तेजो+भूयासं स्वाहा। पृथिव्यादिस्य इदम्। शब्दस्पर्श+भूयासं स्वाहा। शब्दादिभ्य इदम्। मनोवाक्काय स्वाहा। मन आदिभ्य इदम्। अव्यक्तभावैरहं ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। अव्यक्तादिभ्य इदम्। आत्मा मे शुध्द्यन्तां स्वाहा। आत्मन इदम्। अन्तरात्मा मे शुध्द्यन्तां स्वाहा। अन्तरात्मन इदम्। परमात्मा मे शुध्द्यन्तां स्वाहा। परमात्मन इदम्। क्षुधे स्वाहा। क्षुध इदम्। क्षुत्पिपासाय स्वाहा। क्षुत्पिपासायेदम्। विविद्यै स्वाहाये। विविद्या इदम्। ऋग्विधानाय स्वाहा। ऋग्विधानायेदम्। पृषोत्काय स्वाहा। पृषोत्कायेदम्। क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहं स्वाहा। क्षुदादिभ्य इदम्। अभूतिमसमृद्धिं च सर्वान्निर्णुद मे पाप्मानं स्वाहा। मन्त्रोक्तदेवताभ्य इदम्। अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। अन्नमयादिभ्य इदम्। एवमन्नेन विंशत्याहुतयः। आन्ध्रपाठे प्राणमयमनोमयविज्ञानमयप्रकारः। द्राविडपाठे तु प्राणापानव्यानोदानसमाना मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। उद्देशत्यागः पूर्ववत्। वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणरेतोबुध्द्याकूतिसङ्कल्पा मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा(41){41. वागादिभ्य इदम्.}। शिरः पाणिपादपार्श्वपृष्ठोदरजङ्घाशिश्नोपस्थपायवो मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। त्वक्चर्ममांसरूधिरमेदोऽस्थिमज्जा मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। शब्दस्पर्शरूपरसगन्धा मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। पृथिव्यप्तेजोवाय्वाकाशा मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्द्यन्तां ज्योतिरहं विरजाविपाप्मा भूयासं स्वाहा। विविद्यै स्वाहा। पृषोक्ताय स्वाहा। उत्तिष्ठपुरुषहरितपिङ्गललोहिताक्ष देहि देहि तापयिता मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। ओं स्वाहा। परमात्मन इदम्। एवं समिदाज्यैः प्रत्येकमेकादशाहुतयः कर्तव्याः॥
विरजाहोमं कृत्वा अनन्तरं तत्त्वहोमः कार्यः। तत्प्रकारस्तु--
अग्निमाधाय विधिवद्विरजाहोमकारणात्।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाविधि॥
पूर्णायां पुरतो भूयस्तत्त्वानां शुध्दिमाविशन्।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः॥
तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन्।
इति वचनवलेनैवं प्रतीयते। आकाशतत्त्वं मे शुध्द्यन्तां+विरजा विपाप्मा भूयासं स्वाहा। ओं नमः शिवाय स्वाहा। एवमुत्तरत्रापि। तत्त्वशब्दाकाशोपाधिकशिवायेदेम्। वायुर्मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। ओं नमः शिवाय स्वाहा। वयूपाधिकशिवायेदम्। एवमुत्तरत्राप्युद्देशत्याग ऊहनीयः। अग्निर्मे शुध्यन्तां स्वाहा। आपो मे शु--स्वाहा। पृथिवी मे शुध्यन्तां स्वाहा। शब्दतन्मात्रं मेशु स्वाहा। स्पर्शतन्मात्रं मे शु--स्वाहा। रूपतन्मात्रं मे शु--स्वाहा। रसतन्मात्रं मे शु--स्वाहा। गन्धतन्मात्रं मे शु--स्वाहा। श्रोत्रेन्द्रियं मे शु--स्वाहा। त्वगिन्द्रियं मे शु--स्वाहा। चक्षुरिन्द्रियं मे शु--स्वाहा। जिह्वेन्द्रियं मशु--स्वाहा। घ्राणेन्द्रियं मे शु--स्वाहा। वागिन्द्रियं मे शु--स्वाहा। घ्राणेन्द्रियं मे शु--स्वाहा। पाणीन्द्रियं मे शु--स्वाहा। पादेन्द्रियं मे शु--स्वाहा। पाय्विन्द्रियं मे शु--स्वाहा। उपस्थेन्द्रियं मे शुध्द्यन्तां स्वाहा। त्वङ्मे शुध्द्यन्तां स्वाहा। चर्म मे शुध्द्यन्तां स्वाहा। मांसं मे शु--स्वाहा। रूधिरं मे शु--स्वाहा। मेदो मे शु--स्वाहा। अस्थि मे शु--स्वाहा। मज्जा मे शु--स्वाहा। प्राणो मे शु--स्वाहा। अपानो मे शु--स्वाहा। व्यानो मे शु--स्वाहा। उदनो मे शु--स्वाहा। समानो मे शु--स्वाहा। मनो मे शु--स्वाहा। अहंकारो मे शु--स्वाहा। ख्यातिर्मे शु--स्वाहा। सत्वं मे शु--स्वाहा। रजो मे शु--स्वाहा। रागो मे शु--स्वाहा। विद्या मे शु--स्वाहा। कला मे शु--स्वाहा। नियतिर्मे शु--स्वाहा। कालो मे शु--स्वाहा। माया मे शु--स्वाहा। शुद्धविद्या मे शु--स्वाहा। महेश्वरो मे शु--स्वाहा। सदाशिवो मे शु--स्वाहा। शक्तिर्मे शु--स्वाहा। शिवतत्त्वं मे शुध्द्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। ओं नमः शिवाय स्वाहा। शिवतत्त्वोपाधि कशिवायेदम्। एवं समिदाज्यैः प्रत्येकं जुहुयात्। अत्र वचनानि--
पञ्चभूतानि तन्मात्रा पञ्चकर्मेन्द्रियाणि च।
ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः ॥ 1 ॥
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः।
मनश्चाहंकृतिः ख्यातिः गुणाः प्रकृतिपूरुषौ ॥ 2 ॥
रागो विद्या कला चेति नियतिः काल एव च।
माया च शुद्धविद्या च महेश्वरसदाशिवौ ॥ 3 ॥
शक्तिश्च शिवतत्वं च तत्त्वानि क्रमशो विदुः।
मन्त्रैश्च विरजैर्हुत्वा होतासौ विरजो भवेत् ॥ 4 ॥
अथ गोमयमादाय पिण्डीकृत्वाभिमन्त्रय च।
न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् ॥ 5 ॥
इनि वचनेन पिण्डं कृत्वाभिमन्त्र्य चेति विद्यमानत्वात्। दर्शे सायं प्रातर्दोहनवत् पिण्डविषये मन्त्रावृत्तिं कुर्यात्। तत्रादौ पूर्वमेव प्रशस्तगोमयमादाय प्रशस्तगोमूत्रेण संयोज्य हस्तेन सम्यक्पेषणं कृत्वा तत्रस्थबीजक्षुद्रपाषाणादीन् बहिर्निरस्य पिण्डं कृत्वा शुद्धपात्रे निधाय तरणिकिरणैः सम्यक्छोषयित्वा विद्यमानान् पिण्डान् तत्पात्रेण सहानीय हस्तेन स्पृष्ट्वा आगाव इत्यादि मन्त्रान् जपेत्। आगावो अग्नमन्नुत भद्रमक्रन्। सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युः। इन्द्राय पूर्वीरुषसो दुहानाः। गावो भगः चिदिन्द्रं तत् सत् इत्यादि। गन्धद्वारां--श्रियम्। श्रीर्मे भजतु। अलक्ष्मीर्मे नश्यतु। संत्वा सिञ्चामि यजुषा प्रजामायुर्धनं च। पञ्चानां त्वा वातानां यन्त्राय धर्ताय गृह्णामि इत्यदि चतुर्दशमंन्त्रैः सङ्गह्य न्यस्याग्नाविति विद्यमानत्वात्, अनुक्तमविरूद्धमन्यतो ग्राह्यमिति न्यायात्। अग्नौ न्यासप्रकारः मन्त्रेणैव प्रतीयते॥
मन्त्रश्च--
पिण्डांश्च निक्षिपेत्तत्र आद्यन्तप्रणवेन तु।
ष़डक्षरस्य मन्त्रस्य व्यावृत्तस्य तथाक्षरैः।
स्वाहान्तैर्जुहुयात्तत्र तत्तद्देवाय पिण्डकान्॥
इति प्रश्नोत्तरखण्डे विद्यमानत्वादाद्यन्तप्रणवेनाग्नौ प्रक्षिपेन्मन्त्रस्य षडक्षरस्य व्यावृत्तस्याक्षरैः स्वाहान्ते जुहुयात्। वर्णदेवाय पिण्डकानिति बृहज्जाबालोपनिषद्वचनस्य विद्यमानत्वात्। एवंविधाहुतिप्रकारः। ओं स्वाहा। परमात्मन इदम्। नं स्वाहा। इन्द्रायेदम्। मं स्वाहा। रुद्रायेदम्। शिं स्वाहा। विष्णव इदम्। वां स्वाहा। ब्रह्मण इदम्। यं स्वाहा। स्कन्दायेदम्। पुनरपि यं स्वाहा। वां स्वाहा। शिं स्वाहा। मं स्वाहा। नं स्वाहा। ओं स्वाहा। ओं स्वाहा। इतरांस्तूष्णीमेव प्रक्षिपेत्॥ "इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः।" इति वायवीयसंहितायाम्। एवमुपरिष्टात्तन्त्रं कृत्वा अग्न्युपस्थानं च कृत्वा
"आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये।
जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम्॥"
इति मन्त्रेण वह्निं पुलकैश्छादयेत्। दिनत्रयपर्यन्तं वह्निर्यथा तिष्ठति यथा भस्मनि धावल्यं भवति तथा पुलकैराच्छादनं कुर्यात्। "दिने तस्मिन् हविष्यभुगि"ति वचनात् त्रयोदश्यां हविष्याशीभूत्वा सायन्तनं कर्म निर्वर्त्य, पञ्चाक्षरजपसाम्बशिवध्यानादिकं कृत्वा मौनी सन् रात्रौ भूमावग्निसमीपे शयीत॥
"प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम्।
दिने तस्मिन् निराहारः कालशेषं समापयेत्॥"
इति वचनात् चतुर्दश्यामपि ब्राह्मे मुहूर्ते उत्थाय गुरुध्यानं साम्बशिवध्यानं च कृत्वा कृतस्नानः कृताह्निको वैशेषिकं शिवपूजां च कृत्वा अग्निमुखं च कृत्वा समिदन्नाज्यैर्विरजाहोमं कृत्वा उत्तराङ्गं च कृत्वा पूर्वेद्युवदग्निं संरक्ष्य तस्मिन् दिवसे निराहारः सन् कालविशेषं पञ्चाक्षरजपसाम्बशिवध्यानादिना पुराणपठनादिना च नयेत्॥
"प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः।
उपसङ्गृह्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः॥"
इति वचनेन तृतीयदिवसेऽपि ब्राह्मे मुहूर्ते चोत्थाय गुरुशिवध्यानादिकं शौचस्नानसन्ध्यावन्दनादिकं कृत्वा अग्निसमीपं गत्वा, मुखान्तं कृत्वा (42)समिदाज्यैर्विरजाहोमं तत्त्वहोमं{42. समिदन्नाज्यैः-पा.} च पूर्ववत् कृत्वा स्विष्टकृत्प्रभृत्युत्तरांगानि कृत्वा `या ते अग्ने' इत्यग्निमुपसंहरेत्। उत्तराङ्गानि च प्रधानाहुत्यनन्तरं हविषा कृतस्विष्टकृज्जयादिहोमः। परिध्यञ्जनलेपकार्यं प्रस्तरतृणप्रहरणं निर्देशनमग्निमभिमन्त्र्य भूमौ निमार्ष्टि। परिधिप्रहरः। संस्रावहोमः। प्रायश्चित्ताहुतयः। "सप्त ते अग्न" इति पूर्णाहुतिः। प्राणायामः परिषेचनप्रणीतामोक्षणं ब्रह्मोद्वासनमग्न्युपस्थानमग्निसमारोहणम्। तृतीयदिवसे चाग्न्युपसंहारात्पूर्वमेव "ओं तद्ब्रह्मे"ति बृहज्जाबालपाद्मपुराणयोर्विद्यमानत्वेन तेन मन्त्रेण पौलाक्यं भस्म परित्यजेत्. तस्य पूजां कुर्यात्। "तत आवाहनमुखानुपचारांस्तु षोडशे"ति विद्यमानत्वात् परमशिवस्वरूपाग्निदेवतां प्रत्यावाहनादिषोडशोपचारान् कृत्वा अनन्तरमग्निसमारोपणं (कुर्यात्)। "गृह्णीयात् भस्म यत्नत" इति प्रकृतग्रन्थे विद्यमानत्वात्। "अग्नेर्भस्मास्यग्नेः पुरीषमसि" इति तदुत्तमं भस्म गृहीत्वा शुद्धपात्रे निधाय `अग्निरशी'ति प्रमृज्य गङ्गादिसलिलैः कपिलामूत्रेण वा संयोज्य कर्पूरकाश्मीरकुङ्कुमोशीरचन्दनागरुद्वितयं सूक्ष्मरूपेण चूर्णयित्वा `ओमिति ब्रह्मेति मन्त्रेण ओमिति वा भस्मनि निक्षिप्य "अणोरणीयान्" इति मन्त्रेण बृहतो वटकान् कुर्यात्। गङ्गादिसलिलाभावे तूष्णीमेव भस्मस्थापयेत्। यावत्सङ्ख्याकदिनपर्यन्तं व्रतसङ्कल्पः तावद्दिनपर्यन्तं जटी वा मुण्डी वा शिखामात्रजटी वा भवेत्॥
ननु गृहस्थस्य मुण्डनं कथं (43)न{43. सशिखवपनमिति-पा.} शिखावपनमिति चेन्न; सत्रविशेषे प्रायश्चित्तविशेषे च गृहस्थस्यापि मुण्डनस्य विहितत्वात्। अत्रापि व्रतपरत्वेन व्रताङ्गमुण्डनादिकं विहितम्। विकल्पेन च सत्रविषये। वीतलज्जश्चेद्दिगम्बरः यद्वा काषायवसनः अथवा चीराम्बरः एकाम्बरो वा वल्कली वा दण्डी मेखली चेत्यपि विकल्पः। यद्वा पूर्वत्रापि जटादिविषये वस्त्रादिविषये च व्यवस्थितविकल्पाः। गृहस्थश्चेच्छिखामात्रजटी एकाम्बरधरः दण्डधारी मेखली सन् वर्तेत, अयं व्रतनिष्ठ इति लोकस्य ज्ञापनार्थं पूजार्थं च। वानप्रस्थाश्रमी चेज्जटी वल्कली चीराम्बरधरो दण्डीमेखली वेति सर्वत्र साधारणम्। सन्यासी चेत् मुण्डो दिगम्बरः काषायवसनो वाचंयमी वा॥
ननु सन्यासिनो होमाधिकाराभावात् इदं व्रतं (44)सत्यमिति{44. नित्यमिति-पा.} चेत्--सत्यं, हस्तपादादिवच्छिष्य इति न्यायात् शिष्यमुखेन होमादिसम्भवात्। यद्वा सन्यासकाल एव विरजाहोमस्य कृतत्वात् तत्त्वहोमस्य जपद्वारा निर्वर्तयितुं शक्यत्वात्। गृहस्थेभ्यो विभूतिग्रहणसंभवात्॥
यद्वा गृहस्थः सन् विरक्तो यदि पाशुपतव्रतधारणार्थं प्रवृत्तः तेन सर्वं क्रमेण कर्तुं शक्यम्। तथा हि--पूर्वं जीवश्राद्धादिकं कृत्वा विरजाहोमतत्त्वहोमपिण्डहोमान् कृत्वा अग्निमुपसङ्गृह्य विभूतिसङ्ग्रहं कृत्वा प्रेषोच्चारणं कृत्वा दिगम्बरः काषायवसनो वा गृहाद्बहिर्गत्वा कालत्रयेऽप्याथर्वणोक्तप्रकारेण व्रतमाचरेत्। एवं कुर्वन् भैक्षाचरणमेकवारमाचरन् यावदायुषं संवर्तेत। ज्ञानार्थी चेच्छिवभक्तं ब्रह्मनिष्ठं सन्यासिनं प्रति गच्छेत्। अत्यन्तवैराग्याभावे ईषद्वैराग्ये जटी वल्कली सन् भस्मव्रतनिष्ठो यावदायुषं वर्तेत। सर्वात्मना वैराग्याभावे शिखामात्रजटी स्नात्वा एकाम्बरो दण्डधारी मेखली सन् पादप्रक्षालनपूर्वकं आचमनं कृत्वा अङ्गन्यासकरन्यासौ पञ्चाक्षरेण कृत्वा, अनन्तरं विध्युक्तप्रकारेण भस्मधारणम्। नित्यशिवपूजा। अनन्तरं व्रताङ्गत्वेन स्फाटिकं लिङ्गं सम्पाद्य विधिना प्रतिष्ठाप्य नवरत्नखचिततया सौवर्णं पद्मं सकर्णिकं सकेसरं सदलं च सम्पाद्य, तदभावे रक्तपद्मं सितपद्मं वा सम्पाद्य तत्कर्णिकायां प्रतिष्ठितं तनीयः स्फाटिकं लिङ्गं स्थापयित्वा, सति विभवे शिवपूजादिद्रव्यं यद्यदस्ति तत्सर्वं प्रयत्नेन सम्पाद्य पूजयित्वा यथाविभवं वा पूजयित्वा, अनन्तरं देव्या सह परमेश्वरस्य कल्याणं भावयित्वा, यथाशक्ति ब्राह्मणेभ्यो द्रव्यं दत्वा पूजाशेषं समापयेत्। अनन्तरं पूर्वोक्तपूजासाधनविल्वपत्रपद्मादिद्रव्यनियमः। तेषां सङ्ख्यानियमः। अनन्तरमर्ध्यधूपादौ विशेषः। अनन्तरं नैवेद्यात्पूर्वमावरणपूजा। अनन्तरं महानैवेद्यम्। अनन्तरं ताम्बूलादिनीराजनान्तमन्यद्राजोपचारान् कृत्वा स्तोत्रजपप्रदक्षिणनमस्कारादिकं निर्वर्त्य, लिङ्गतो देवमभिमुखीकृत्य, अनन्तरमग्निपूजां कृत्वा अग्निं चोद्वास्य कृत्य शेषं कुर्यात्। एवमेव सङ्कल्पितव्रतदिनेषु अग्युत्पादनविरजाहोमास्तत्त्वहोमाश्च कार्याः। अनन्तरं व्रताङ्गत्वेन पूजितं (45)लिङ्गमादाय {45. लुङ्गमुपासयेत्-पा.} शिवालयं निर्माय तत्र देवं निदध्यात्। अनन्तरं गुरुप्रीतिभक्तपूजादीनानाथतोषणम्। अनन्तरं यजमानस्य भोजनशयनादिनियमः। एतत्सर्वं वायवीयसंहितायां पूर्वभागे एकोनत्रिंशाध्याये स्पष्टम्। तदेव लिख्यते। ऋषयः--
भगवन् श्रोतुमिच्छामो व्रतं पाशुपतं परम्।
ब्रह्मादयोऽपि यत्कत्वा सर्वे पाशुपताः स्मृताः ॥ 1 ॥
वायुः--
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम्।
व्रतं पाशुपतं श्रौतमथर्वसिरसि स्थितम् ॥ 2 ॥
कालश्चित्रापौर्णमासी देशः शिवपरिग्रहः।
क्षेत्रारामादिरन्यो वा प्रशस्तः शुभलक्षणः ॥ 3 ॥
तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः।
अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ॥ 4 ॥
पूर्वं वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम्।
शुक्लभस्मानुलिप्ताङ्गः शुक्लमाल्यानुलेपनः ॥ 5 ॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च।
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्युखः ॥ 6 ॥
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना।
व्रतमेतत्करोमीति भवेत्सङ्कल्प्य दीक्षितः ॥ 7 ॥
यावच्छरीरपातं वा द्वादशाब्दमथापि वा।
तदर्धं वा तदर्धं वा मासद्वादशकं पुनः ॥ 8 ॥
तदर्धं वा तदर्धं वा मासमेकमथापि वा।
दिनद्वादशकं वाथ (46)व्रतसङ्कल्पनावधि ॥ 9 ॥
{46. व्रतं संकल्प-पा.}
अग्निमाधाय विधिवद्विरजाहोमकारणात्।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ 10 ॥
पूर्णायां पुरतो भूयः तत्वानां शुद्धिमादिशन्।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ 11 ॥
तत्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन्।
पञ्चभूतानि तन्मात्रापञ्चकं चेन्द्रियाणि च ॥ 12 ॥
ज्ञानकर्मविभागेन पञ्च पञ्च विभागशः।
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ 13 ॥
मनश्चाहंकृतिः ख्यातिर्गुणाः प्रकृतिपूरुषौ।
रागो विंद्या कला चैव नियतिः काल एव च ॥ 14 ॥
माया च शुद्धविद्या च महेश्वरसदाशिवौ।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ 15 ॥
मन्त्रैस्तु वैरजैर्हुत्वा होतासौ विरजो भवेत्।
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ 16 ॥
न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक्।
प्रभाते च चतुर्दर्श्यां कृत्वा सर्वं पुरोदितम् ॥ 17 ॥
दिने तस्मिन्निराहारः कालशेषं समापयेत्।
प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ 18 ॥
उपसङ्गृह्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः।
ततस्तु जटिलो मुण्डी शिखैकजट एव वा ॥ 19 ॥
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः।
अन्यः काषायवसनश्चर्मी चीनाम्बरोऽथ वा ॥ 20 ॥
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली।
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ 21 ॥
सकलीकृत्य तद्भस्म विरजानलसंभवम्।
`अग्निरित्यादिभिः' मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ 22 ॥
विमृत्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत्।
ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ 23 ॥
सर्वाङ्गोद्धूलनं कुर्यात् प्रणवेन शिवेन वा।
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ 24 ॥
शिवभावं समागम्य शिवाचारं समाचरेत्।
कुर्यात्त्रिसन्ध्यमप्येवमेतत् पाशुपतं व्रतम् ॥ 25 ॥
भुक्तिमुक्तिप्रदं चैतत् पशुत्वं विनिवर्तयेत्।
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ 26 ॥
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः।
पद्ममष्टदलं हैमं नवरत्नैरलङ्क्रतम् ॥ 27 ॥
कर्णिकाकेसरोपेतमासनं परिकल्पयेत्।
विभवे, तदभावे तु रक्तं सितमथापि वा ॥ 28 ॥
पद्मं तस्याप्यभावे तु केवलं भावनामयम्।
तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं (47)तनीयसि ॥ 29 ॥
{47. कनीयसं-पा.}
स्फाटिकं पीठिकोपेतं पूजयेद्विस्तृतं क्रमात्।
प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोभनम् ॥ 30 ॥
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः।
पञ्चगव्यादिभिः पुण्यैः यथाविभवसंहृतैः ॥ 31 ॥
स्नापयेत् कलशैर्दिव्यैः पहस्रादिषु (48)संभृतैः।
गन्धद्रव्यैः सकर्पूरैश्चन्दनाद्यैः सकुङ्कुमैः ॥ 32 ॥
{48. संभवै-पा.}
सवेदिकं समालिप्य लिङ्गं भूषणभूषितम्।
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैरथोत्पलैः ॥ 33 ॥
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैः सुगन्धिभिः।
पुण्यैः प्रशस्तैश्चित्रैश्च दूर्वाक्षतसुमादिभिः ॥ 34 ॥
समभ्यर्च्य यथालाभं महापूजाविधानतः।
धूपं दीपं तथा चार्ध्यं नैवेद्यं च विशेषतः ॥ 35 ॥
निवेदयित्वा विभवे कल्याणं च समाचरेत्।
इष्टानि तु विशिष्टानि न्यायेनोपार्जितानि तु ॥ 36 ॥
सर्वद्रव्याणि देयानि भूते त्वस्मिन् विशेषतः।
श्रीपद्मोत्पलपत्राणां सङ्ख्या साहस्रिकी मता ॥ 37 ॥
प्रत्येकमपरा सङ्ख्या शतमष्टोत्तरं तथा।
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ 38 ॥
हैमभेकं परं प्राहुः पद्मपत्रसहस्रकात्।
नीलोत्पलादिष्वप्येतत्समानं बिल्वपत्रकम् ॥ 39 ॥
पुष्पान्तरे न नियमो यथालाभं प्रपूजयेत्।
अष्टाङ्गमर्ध्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ 40 ॥
कृष्णागरुमघोराख्ये वक्रे सद्ये मनश्शिलाम्।
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ 41 ॥
ऐशाने भसितं केचिदालेपनमितीदृशम्।
न धूप इति मन्यन्ते धूपान्तरविधानतः ॥ 42 ॥
सितागरुमघोराख्ये मुखे कृष्णागरुं पुनः।
पौरुषे गुग्गुलं सद्ये सौम्ये सौगन्धिकं मुखे ॥ 43 ॥
ईशानेपि तु शीतारिं दद्याद्धूपं विशेषतः।
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ 44 ॥
चन्दनागरुकोष्ठाद्यं वामास्ये सम्प्रचक्षते।
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्तथा ॥ 45 ॥
अर्घ्यमाचमनं देयं प्रतिवत्क्रमतः परम्।
प्रथमावरणे पूज्यौ क्रमाद्धेरम्बषण्मुखौ ॥ 46 ॥
ब्रह्माङ्गानि ततश्चैवं प्रथमावरणेऽर्चिते।
द्वितीयावरणे पूज्या विद्येशाश्चक्रवर्तिनः ॥ 47 ॥
तृतीयावरणे पश्चाद्भवाद्याश्चाष्टमूर्तयः।
महादेवादयस्तत्र तथैकादश मूर्तयः ॥ 48 ॥
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः।
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥ 49 ॥
दश दिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा।
ब्रह्मणो मानसाः पुत्राः सर्वेषां ज्योतिषां गणाः । 50 ।
सर्वे देवाश्च देव्यश्च सर्वाः सर्वेऽपि खेचराः।
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ 51 ॥
योगिनो गुरवः सर्वं चैतच्चराचरम् ॥ 52 ॥
अथावरणपूजान्ते सम्पूज्य परमेश्वरम्।
साज्यं सव्यञ्जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ 53 ॥
मुखवासादिकं दत्वा ताम्बूलं सोपदंशकम्।
अलङ्कुत्य च भूयोऽपि नानापुष्पविभूषणैः ॥ 54 ॥
नीराजनान्तं विस्तीर्य पूजाशेषं समापयेत्।
चषकं सोपहारं च शयनं च समर्पयेत् ॥ 55 ॥
यद्यन्नृपोचितं हृद्यं तत्सर्वमनुरूपतः।
कृत्वा च कारयित्वा च कृत्वा च प्रतिपूजनम् ॥ 56 ॥
स्तोत्रं पापहरं जप्त्वा विद्यां पञ्चाक्षरीं जपेत्।
प्रदक्षिणं प्रणामं च कृत्वात्मानं समर्पयेत् ॥ 57 ।
ततः पुरस्ताद्देवस्य गुरुविद्ये च पूजयेत्।
दत्वार्ध्यमष्टौ पुष्पाणि देवमावाह्य लिङ्गके ॥ 58 ॥
अन्नैश्चाग्निं च सम्पूज्य (अ) यथोद्वास्य तमप्युत।
प्रत्यहं जनयित्वैवं कुर्यात्सर्वं पुरोदितम् ॥ 59 ॥
ततस्तत्साम्बुजं लिङ्गं सर्वोपकरणान्वितम्।
समर्पयेत्स्वगेहे वा तथैव च शिवालये ॥ 60 ॥
सम्पूज्य च गुरूनन्यात् व्रतिनश्च विशेषतः।
भक्तांश्चरांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ 61 ॥
स्वयं चानशनप्रायः फलमूलाशनोऽपि वा।
पयोव्रती वा भिक्षाशी भवेदेकाशनस्तथा ॥ 62 ॥
नक्तं युक्ताशनो नित्यं भूशयो विरतःशुचिः।
भस्मशायी तृणे शायी चीराजिनशयोऽथवा ॥ 63 ॥
ब्रह्मचर्यरतो नित्यं व्रतमेतत्समाचरेत्।
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥ 64 ॥
अष्टम्यां च चतुर्दश्यां शक्तावुपवसेदपि।
पाषण्डपतितोदक्यासूतिकान्त्यजपूर्वकान् ॥ 65 ॥
वर्जयेत् सर्वयत्नेन मनसा कर्मणा गिरा।
क्षमा दान दयासत्याहिंसाशीलः सदा भवेत् ॥ 66 ॥
सन्तुष्टश्च प्रशानत्श्च जपध्यानरतस्तथा।
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ 67 ॥
पूजां वैशेषिकीं चैव कर्मणा मनसापि वा।
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ 68 ॥
प्रमादात्तु तदाचारे निरूप्य गुरुलाघवम्।
उचितां निष्कृतिं कुर्यात् पूजाहोमजपादिभिः ॥ 69 ॥
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः।
गोदानं च वृषोत्सर्गं कुर्यात् पूजां स संसदाम् ॥ 70 ॥
सामान्यमेतत् कथितं व्रतस्यास्य समासतः।
प्रतिमासं विशेषं च प्रवदामि यथाक्रमम् ॥ 71 ॥
वैशाखे वज्रलिङ्गं तु ज्येष्ठे मरकतं शुभम्।
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ 72 ॥
मासे भाद्रपदे चैव पद्मरागमयं वरम्।
आश्वयुज्यां च विधिवद्गोमेधकमयं शुभम् ॥ 73 ॥
कार्तिक्यां वैद्गुमं लिङ्गं वैडूर्यं मार्गशीर्षके।
पुष्यरागमयं पुष्ये माधे तु मणिजं रवेः ॥ 74 ॥
फाल्गुन्यां चन्द्रकान्तोत्थं माघे तद्व्यत्ययोऽथवा।
सर्वमासेषु रत्नानामभावे हैममेव वा ॥ 75 ॥
हेमाभावे राजतं वा ताम्रजं शैलमेव वा।
मृण्मर्य वा यथालाभं क्षणिकं वान्यदेव वा ॥ 76 ॥
सर्वगन्धमयं वाथ लिङ्गं कुर्याद्यथारुचि।
व्रतावसानसमये समाचरितनैत्यिकः ॥ 77 ॥
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा।
सम्पूज्य पूज्यानाचार्यान् व्रतिनश्च विशेषतः ॥ 78 ॥
देशिकेनाभ्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः।
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ 79 ॥
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम्।
अनुज्ञाप्य यथापूर्वं प्राणापानौ नियम्य च ॥ 80 ॥
अनुज्ञाप्य बुधान् सर्वान् नमस्कृत्वा कृताञ्जलिः।
समुत्सृजामि भगवन् व्रतमेतत्त्वदाज्ञया ॥ 81 ॥
इत्युक्त्वोदीर्य मूलं तु दर्भानुत्तरतस्त्यजेत्।
ततो दण्डजटाचीरमेखलाद्यपि चोत्सृजेत् ॥ 82 ॥
पुनराचम्य विधिवत् पञ्चाक्षरमुदीरयेत्।
यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः ॥ 83 ॥
व्रतमेतत् प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः।
सोऽत्याश्रमीति विज्ञेयो महापाशुपतस्तथा ॥ 84 ॥
स एव तपतां श्रेष्ठः स एव तु महाव्रती।
न तेन सदृशः कश्चित् कृतकृत्यो मुमुक्षुषु ॥ 85 ॥
यतिश्चेन्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम्।
यो विरक्तो द्वादशाहं व्रतमेतत् समाचरेत् ॥ 86 ॥
सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमाह्वयात्।
घृतान्नो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ 87 ॥
द्वित्र्येकदिवसं वापि स तु कश्चन नैष्ठिकः।
कृतमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ 88 ॥
शिवार्पितात्मा सततं न तेन सदृशः क्वचित्।
भस्मच्छन्नो द्विजो विद्वान् महापातकसंभवैः ॥ 89 ॥
पापैर्विमुच्यते सद्यो मुच्यते न हि संशयः।
रुद्राग्नेर्यत् परं वीर्यं तद्भस्म परिकीर्तितम् ॥ 90 ॥
तस्मात् सर्वेषु लोकेषु वीर्यवान् भस्मसंयुतः।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ 91 ॥
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः।
भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तात्रिपुण्ड्रकः ॥ 92 ॥
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः।
भूतप्रेतपिशाचाद्या रोगाद्याश्चातिदुस्सहाः ॥ 93 ॥
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः।
भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ 94 ॥
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी परम्।
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ 95 ॥
व्रती च भस्मना स्नातः स्वयं देवो महेश्वरः।
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ 96 ॥
धौम्याग्रजस्य तपसि व्यापादो यन्निवारितः।
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतं व्रतम् ॥ 97 ॥
धनवद्भस्म सङ्गृह्य भस्मस्नानरतो भवेत्।
कौर्मे पञ्चविंशाध्याये पुत्रमुद्दिश्य परमेश्वरप्रसादार्थं तपः कर्तुमागतं श्रीकृष्णं प्रत्युपमन्युः--
स्वागतं ते हृषीकेश! तपांसि सफलानि नः ॥ 98 ॥
इत्यादिना श्रीकृष्णं स्तुत्वा अनन्तरं पाशुपतयोगमुक्तवान्।
एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः।
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ 99 ॥
स तेन मुनिवर्येण (49)व्याहृतो मधुसूदनः।
तथैव तपसा देवो रुद्रमाराधयन् प्रभुम् ॥ 100 ॥
{49. व्यावृतो-पा.}
भस्मोद्धूलितसर्वाङ्गो जटावल्कलसंयुतः।
जजाप रुद्रमीशानं शिवैकाहितमानसः ॥ 101 ॥
इति। अत्रैव च पूर्वं चतुर्दशाध्याये--
शिखण्डिनोऽभवत्पुत्रः सुशील इति विश्रुतः।
धार्मिको रूपसम्पन्नो वेदवेदाङ्गपारगः ॥ 102 ॥
सोऽधीत्य विविधान् वेदान् धर्मेण तपसि स्थितः।
मतिं चक्रे भाग्ययोगात् सन्यासं प्रति धर्मवित् ॥ 103 ॥
स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः।
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥ 104 ॥
तत्र धर्मवनं नाम धर्मसिद्धिप्रदं वनम्।
अपश्यद्योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ 105 ॥
तत्र मन्दाकिनी नाम सुपुण्या निर्मला नदी।
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ 106 ॥
स तस्या दक्षिणे तीरे मुनीनद्रैर्योगिभिर्युतम्।
सुपुण्यमाश्रमं रम्यमपश्यत्प्रीतिसंयुतः ॥ 107 ॥
मन्दीकिनीजले स्नात्वा सन्तर्प्य पितृदेवताः।
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ 108 ॥
ध्यात्वार्कस्थितमीशानं शिरस्याधाय चाञ्जलीन्।
संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ 109 ॥
रुद्राध्यायी गिरीशस्य रुद्रस्य चरितेन च।
अन्यैश्च विविधैः स्तोत्रैश्छान्दसैर्वेदसंभवैः ॥ 110 ।
अथास्मिन्नन्तरेऽपश्यत् समायातं महामुनिः।
श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ 111 ॥
भस्मना दिग्धसर्वाङ्गं कौपीनाच्छादनान्वितम्।
तपसा कर्शितात्मानं रुद्राक्षस्रगलङ्कुतम् ॥ 112 ॥
समाप्य संस्तवं शम्भोरानन्दाश्रुविलोचनः।
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥ 113 ॥
धन्योस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः।
योगीश्वरोऽद्य दृष्टोऽसौ योगी योगविदां वरः ॥ 114 ॥
अहो मे सुमहद्भाग्यं तपांसि सफलानि मे।
किं करिष्यामि शिष्योऽहं तवाहं (50)पालयानघ! ॥ 115 ॥
{50. पालेयेऽनघ-पा.}
सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम्।
शिष्यत्वे परिजग्राह तपसा क्षीणकल्मषम् ॥ 116 ॥
अत्याश्रमविधिं कृत्स्नं कारयित्वा विचक्षणः।
ददौ (51)तस्यैश्वरं ज्ञानं स्वशाखाभिहितं परम् ॥ 117 ॥
{51. तदैश्वरं ज्ञानं-पा.}
अशेषवेदसारं तत् पशुपाशविमोचनम्।
अत्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ इति ॥ 118 ॥
नतस्त्वमपि राजेन्द्र! तपोयोगसमन्वितः।
आस्व नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि ॥ 119 ॥
एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम्।
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥ 120 ॥
सर्वपापोपशमनं वेदसारं विमुक्तिदम्।
`अग्निरित्यादिकं' पुण्यं ऋषिभिः संप्रवर्तितम् ॥ 121 ॥
सोऽपि तद्वचनाद्राजा सुशीलः श्रद्धयान्वितः।
साक्षात् पाशुपतो भूत्वा योगाभ्यासरतोऽभवत् ॥ 122 ॥
भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः।
शान्तो दान्तो जितक्रोध अत्याश्रमविधौ युतः ॥ इति च ॥ 123 ॥
अत्र "अत्याश्रमविधिं कृत्स्नं कारयित्वा विचक्षणः" इत्यादिवचनेन शिष्यत्वेन परिगृहीतस्य सुशीलस्य राज्ञो ज्ञानसाधनत्वेन विहितपाशुपतात्याश्रमादिशब्ददवाच्यं भस्मधारणरूपं व्रतं तद्व्रताङ्गत्वेन तदर्थभस्मोत्पादकत्वेन च श्वेताश्वतरनामा ऋषिः विरजाहोमादिकं कारयित्वा तं राजानं प्रति विभूतिधारणाङ्गमन्त्रान् "अग्निरित्यादिकान्" अप्युपदिष्टवानिति प्रतीयते। ननु कथमत्याश्रमविधिशब्देन विरजाहोमः प्रतीयते? अत्याश्रमदीक्षाकाले तदङ्गत्वेन प्रसिद्धविभूत्युत्पादनसमये विरजाहोमस्यावश्यकत्वादिति ब्रूमः ॥
ननु वीरशैवानां कथं होमादावधिकार इति चेन्न; अत्याश्रमिणामेव मुख्यतया प्रतिपादितत्वात्। यतीनामिव होमाद्यभावेऽपि पाशुपतव्रतानुष्ठानोपपत्तेः॥
नन्वेवं सति होमप्रतिपादकशास्त्रवैयर्थ्यापत्तिः विनापि होमं पाशुपतव्रतानुष्ठानोपपत्तेरिति चेन्न; जन्मान्तरीयहोमव्रतानुष्ठानादिना मनश्शुद्धेः सिद्धत्वात्। यद्वा "मन्त्रोच्चारणमर्थवत्" इति संभवदर्थव्यतिरिक्तकर्मणि मन्त्रादेवानुष्ठानफलनियमस्य पूर्वतन्त्रे स्थितत्वात्तदनुरोधेन पाशुपतव्रतोपयुक्तमन्त्रोच्चारणादेवार्थसिद्धेः सुवचत्वात्। मन्त्रप्रकाशितार्थानां विरजत्वविपाप्मत्वादिरूपत्वेन तस्यान्तःकरणसाध्यत्वात् तत्र च वीरशैवमतनियामकशास्त्रस्यैव तादृशार्थोपपादकत्वात्। तन्नैव प्राशितं नैवाप्राशितमित्यवध्राणमात्रेणार्थसिद्धेर्वैदिकेषु दृष्टत्वात्। मन्त्रोच्चारणेन कृतहोम अकृतहोमत्वाच्च न वीरशैवविरोध इति। `तुल्यबलविरोधे विकल्पः' इति न्यायेन विकल्प इति सिद्धान्तः।
वस्तुतस्तु सकलवेदलयाधारत्वेन स्थूलपञ्चाक्षरावृत्त्यैव कर्मनिर्वाहस्य प्रकरणारम्भ एव प्रतिपादित्वादिति सर्वं समञ्जसम्॥
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञ
श्री नीलकण्ठशिवाचार्यकृते निगमागमसारसङ्ग्रहे
क्रियासारे षष्ठोपदेशः॥
---------------
सप्तमः उपदेशः
सम्पाद्यताम्अथ सप्तमोपदेशः
सप्तमे तूपदेशेऽस्मिन् भस्मधारणमुच्यते।
नानागमपुराणानां वचनैरुदितक्रमैः ॥ 1 ॥
अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच। भगवत्! त्रिपुन्ड्रविधिं नो ब्रूहीति। स होवाच याज्ञवल्क्यः प्रमाणमस्य त्रिधा चाललाटादाचक्षुषश्चाभ्रुवोर्मध्यतः। अथ जनको ह वैदेहः स होवाच। भगवन् ! यद्द्रव्यं तदाग्नेयं भसम सद्यो जातादिपञ्चब्रह्ममन्त्रैः परिगृह्य अग्निरिति भस्मेत्यभिमन्त्र्य मानस्तोक इति सप्तभिर्मन्त्रैः शिरोललाट वक्षः स्कन्धेषु धारयित्वा पूतो भवति। मोक्षी भवति। दशशतरुद्रजापी यत्फलमवाप्नोति तत्फलमश्नुते। स एष भस्मज्योतिः स एष भस्मज्योतिरिति स याज्ञवल्क्यः॥
अथ जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात् किं फलमश्नुत इति? स होवाच याज्ञवल्क्यः तद्भस्मधारणादेव मुक्तिर्भवति तद्भस्मधारणादेव सायुज्यमवाप्नोति। न स पुनरावर्तते। न स पुनरावर्तते। स एष भस्म ज्योतिरिति याज्ञवल्क्यः॥
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात् किं फलमश्नुते? न वेति। तत्र परमहंसाः संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकभुसुम्डप्रभृतयोऽपि विभूतिधारणादेव मुक्ताः स्युः स एव भस्मज्योतिरिति वै याज्ञवल्क्यः ॥
जनको ह वैदेहः। स होवाच याज्ञवल्क्यं भस्मस्नानेन किं जायत? इति। यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वा तिष्ठन्ति इति। ब्राह्मणो वा क्षत्रियो वा वैश्यो वा शूद्रो वा तद्धारणादेतच्छब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते॥
अथ जनको ह वैदेहः पैप्पलादेन सह प्रजापतेर्लोकं जगाम। तं गत्वोवाच। भो भो प्रजापते! त्रिणुण्ड्रस्य विधिं ब्रूहीति। तं प्रजापतिरब्रवीत्। यथेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्य माहात्म्यं तं होवाच प्रजापतिः ॥
अथ पैप्पलादो वैकुण्ठं जगाम। भो भो विष्णो त्रिपुण्ड्रस्य विधिं ब्रूहीति। स होवाच। यथेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्य माहात्म्यमिति होवाच विष्णुः॥
अथ पैप्पलादो भगवन्तं कालाग्निरुद्रमुपसमेत्योवाच। अधीहि भगवांस्त्रिपुण्ड्रविधिमिति। अथ कालाग्निरुद्रस्त्रिपुण्ड्रविधानं ब्रवीमीति होवाचा ततो दूर्वासभृगुनिदाघजडभरतदत्तात्रेयप्रभृतयोऽपि भुसुण्डं परिसमेत्योचुः। रैवतको महामुनिर्भुसुण्डमब्रवीत् त्रिपुण्ड्रविधिमनुब्रूहीति। भुसुण्डः स होवाच त्रिपुण्ड्रविधिर्न मया वक्तुं शक्यः सत्यमिति होवाच। अनन्तरमृषीन् त्रिर्नमस्कृत्य तानृषीन् वदति क्षमध्वमिति। सर्वे ऋषय इति॥
अथ भगवन्तं कालाग्निरुद्रं श्वेतकेतुश्च जाबालश्च परिसमेत्योचतुः। हरिश्चन्द्रश्च प्रजापतिश्च कालाग्निरुद्रं परिसमेत्योचतुः। अथ देवाश्चर्षयो ह परस्परानुकृत्या मेलयित्वा कालाग्निरुद्रं पृच्छाम इति ॥
अथ कालाग्निरुद्रस्त्रिपुण्ड्रविधानं ब्रवीमीति होवाच। देवाश्चर्षयः शृण्वन्ति। अथ भस्मच्छन्नः सन् संसारान्मुच्यते। भस्मशय्यायां शयानः सन् तच्छिवगोचरः सायुज्यमेति रुद्राध्यायी सन्नमृतत्वं गच्छति। स एष भस्मज्योतिरिति ॥
विभूतिधारणात् कैवल्यमश्नुते। संसारसागरं तरति। विभूतिधारणादेव सर्वतीर्थेषु स्नातो भवति। अथ वाराणस्यामथ त्रिस्थाने यत् फलमवाप्नोति तत्फलमश्नुते। स एष भस्म ज्योतिः। यस्य कस्यचिच्छरीरे त्रिपुण्ड्रलक्ष्म वर्तते। प्रथमः प्रजापतिः। द्वितीयो विष्णुः। तृतीयः सदाशिव इति। स एष भस्मज्योतिः। यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्तो रोमा वाराणस्यां लिङ्गानि भूत्वा ज्योतिर्मयत्वं च गच्छन्ति। स एष भस्मज्योतिः। भस्ममननादेव पापं भस्मसात्करोति। भस्ममननादेव किल किल्बिषादीनि नश्यन्ति। भस्ममननादेव पापं भस्मसात्करोति। भस्ममननादेव संसारोत्तारणं करोति। स एष भस्मज्योतिः। भस्मध्यानादीश्वरो ध्यातो भवति। भस्मध्यानात् पञ्चाक्षरस्मरणं भवति। भस्मध्यानात् स्थाणुत्वं गच्छति। स एष भस्मज्योतिः ॥
अथैतं पैप्पलादोऽङ्गिराः सनत्कुमारश्च भगवन्तं कालाग्निरुद्रं पप्रच्छुः विभूतिधारणात्फलमाहेति किं भविष्यतीति। अथ कालाग्निरुद्रः सर्वोपनिषत्सारं ब्रवीमीति होवाच। सर्वेश्वरः एष सर्वक्ष एषोऽन्तर्यामी एष योनिः सर्वस्य प्रभवाप्ययो हि भूतानाम्। न बहिः प्रज्ञं नान्तः प्रज्ञं नोभयतः प्रज्ञं। नाप्रज्ञं न प्रज्ञानघनमदृश्यमव्यवहार्यमलक्ष्यमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं तुरीयं मन्यन्ते। मृत्युं ज्वलन्तं भीषणं यस्मात्स्वभक्तानाममृत एव मृत्यु मृत्युत्वं च तारयति। य आत्मदा बलदा यस्य विश्व उपासते। प्रसिषं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेमहीति स्वस्मात्स्वमहिम्नः सर्वान् नृपान् सर्वान अदेवान् सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलयति। ज्वाल्यते ज्वालयते सविता प्रसविता दीप्तो दीपवद्दीप्यमानः ज्वलन् ज्वलिता तपस्वी तपन् सन्तपन् रोचनो रोचमानः शोभनः शोभमानः कल्याणः। स्वस्मात्स्वस्य स्वरूपं दृष्ट्वा सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते। स्वयं यतः कुतश्चिन्न बिभेति। भीषास्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति। महतीं श्रियमश्नुते। मीमांसन्ते ब्रह्मवादिनः। यदिदं भस्मजाबालं ब्राह्मणः क्षत्रियो वाधीते। अश्रोत्रियः श्रोत्रियो भवति। अनुपनीत उपनीतो भवति। सोऽग्निपूतो भवति। सर्वैर्देवैर्ज्ञातो भवति। सर्वैर्देवैरनुध्यातो भवति। स सर्वेषु वेदेष्वधीतो भवति। तद्भस्मोध्दूलनात्सर्वेषु तीर्थेषु स्नातो भवति। तेन सर्वैः क्रतुभिरिष्टं भवति। प्रणवानामयुतं जप्तं भवति। अचक्षुषः पङ्किं च पुनाति। आसप्तमात् पुरुषयुगात् पुनातीत्याह भगवान्। कालाग्निरुद्रः प्रोवाच। योगध्यानानां शिव एको ध्येयः शिवङ्करः। सर्वमन्यत्परित्यज्यैतामधीत्य द्विजो वात्याश्रमी वा विरक्तो वा साम्राज्याधिपतिर्वा गर्भवासाद्विमृज्यत इति ओं सत्यों सत्यमित्यों सत्यम्। अथ कालाग्रिरुद्रः प्रोवाच। सकृज्जप्त्वा शुचिः पूतः कर्मण्यो भवति। द्वितीयं जप्त्वा गाणापत्यमाप्नोति। तृतीय जप्त्वा देवमेव प्रविशति इत्यों सत्यम्। इति क्रग्वेदभस्मजाबालोपनिषत् समाप्ता ॥
अग्निहोत्रसमुद्भूतमौपासनसमुद्भवं विरजानलजं अन्यद्वा भस्मोत्पादनभस्मव्यवस्थाप्रकरणद्वये निरूपितम्। यद्यस्योचितं तद्भस्म गृहीत्वा शुद्धपात्रे स्थापयित्वा पादप्रक्षालनं हस्तप्रक्षालनं च कृत्वा द्विराचम्य प्राणायामत्रयं कृत्वा पात्रे सद्योजातादिपञ्चब्रह्ममन्त्रैर्दक्षिणहस्तेन गृहीत्वा वामहस्ते निक्षिप्य दक्षिणहस्तेन स्पृष्ट्वा "अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म भस्मेति भस्म सर्वं ह वा इदं भस्म मन इत्येतानि चक्षूंषि भस्मानि" इति त्रिवारं जपेत्। अनन्तरं शुद्धपात्रस्थं जलं दक्षिणकरेण स्पृष्ट्वा "आपो वा इदँ सर्वं विश्वा भृतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दाँस्यापो ज्योतीँष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवःस्वराप ओं। ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्वरों" इति मन्त्रद्वयं जपित्वा, तज्जलं विष्णुरूपेण विभाव्य तज्जलं भस्मनि निक्षिप्य "मानस्तोक" इति मन्त्रेण मिश्रणं कृत्वा पिण्डरूपेण कृत्वा, तद्भस्म साम्बरूपेण ध्यात्वा तदर्धं गृहीत्वा दक्षिण जानुनि निधाय, पुनर्वामकरे विद्यमानमर्धं षोढा कृत्वा, तत्रैकं गृहीत्वा ईशानमनत्रेण शिरसि प्राद्क्षिण्येन लेपनं कुर्यात्। पुनर्भागान्तरं गृहीत्वा तत्पुरुषमन्त्रेण मुखे लेपनम्। पुनर्भागान्तरं गृहीत्वा अघोरमन्त्रेण उरोदेशं बाहुद्वयं च लेपयेत्। भागान्तरं गृहीत्वा सद्योजातमन्त्रेण दक्षिणोत्तरपादद्वयं लेपयेत्। अनन्तरमवशिष्टभागं गृहीत्वा, हस्ताभ्यामालोडयित्वा प्रणवेन सर्वाङ्गं लेपयेत्। हस्तौ प्रक्षाल्याचमनद्वयं कृत्वा, जानुनि विद्यमानभस्म गृहीत्वा, तेन साम्बशिवरूपतया भावितेन हस्ताभ्यां लोडितेन भस्मना तर्जनीमध्यमानामिकाङ्गुलित्रयेण वा तर्जन्यनामिकाङ्गुष्टेन वा अनुलोमप्रतिलोमेन त्रिपुण्ड्रं ब्रह्मविष्णुरुद्रात्मकं कालाग्निरुद्रोपनिषदुक्तप्रकारेण गार्हपत्याद्याकारात्मकं च भावयित्वा, अथ शिरोललाटचक्षःस्कन्धेषु त्रियायुषेण त्रियम्बकेन षडक्षरेण चावृत्त्या, त्रिपुण्ड्रधारणं कुर्यात्॥
एवं कालत्रयेऽपि कुर्याते। त्रिपुण्ड्रधारणान्तेऽपि हस्तप्रक्षालनं कृत्वा तर्जन्यन्तरं कर्मान्तरं कुर्यात्। अथोद्धूलनस्य स्नानरूपत्वादाचमनकरणम्॥
उक्तञ्च शिवराघवसंवादे--
उद्धूलयेत् समस्ताङ्गे प्रणवेन विचक्षणः।
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः॥
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः।
प्रक्षाल्य च ततो हस्तौ क्रमानुष्ठानुष्ठानमाचरेत्॥
इति। ब्रह्मचारिणां त्रिपुण्ड्रधारणसमये "मेधावी" इत्यादिमन्त्राम्नायः। मेधावी तेजस्वी वर्चस्वी ब्रह्मवर्चस्वी आयुष्यान् भूयासं स्वस्ति। परमहंसस्य तु जलमिश्रणं विना उद्धूलनत्रिपुण्ड्रधारणसमये "ओं ओं ओं हंसहंस" इति मन्त्रः सर्वत्र॥
कालाग्निरुद्रोपनिषदि--
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ। अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्वम्। किं द्रव्यं? कियत्स्थानं? किं तत्त्वम्? किं प्रमाणं? का रेखा? केमन्त्राः? का शिक्तिः? कः कर्ता? किं दैवतं? किं फलम्? इति। तं होवाच भगवान् कालाग्निरुद्रः। यद्द्रव्यं तदाग्नेयं भस्म। सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरित्यनया ऋचाभिमन्त्र्य मानस्तोक इति मन्त्रेण समुद्धृत्य मा नो महान्तमिति जलेन संसृज्य त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक् तिस्नो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्ववेदेषु वेदवादिभिरुक्तं भवति। तस्मात्तत्समाचरेन्मुमुक्षुरपुनर्भवाय॥
अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्ड्रधारणस्य त्रिधा विधाय रेखा आललाटादाचक्षुष आभ्रुवोरामूर्ध्नो मध्यतश्च। याऽस्य प्रथमा रेखा स गार्हपत्याग्निरकारो, रजो भूलोकश्चात्मा, क्रियाशक्तिः, ऋग्वेदः, प्रातस्सवनं महेश्वरी देवतेति। याऽस्यद्वितीया रेखा सा दक्षिणाग्निरुकारः, सत्वमन्तरिक्षमन्तरात्मा, इच्छाशक्तिर्यजुर्वेदो, माध्यन्दिनं सवनं सदाशिवो देवतेति। याऽस्य तृतीया रेखा स आहवनीयो, मकारस्तमो द्यौर्लोकः, परमात्मा, ज्ञानशक्तिः, सामवेदस्तृतीयं सवनं (महादेवो)देवतेति॥
बृहज्जाबालोपनिषदी--
ईशानेन शिरोदेशं मुखं तत्पुरुषेण तु।
उरोदेशमधोरेण गुह्यं वामेन धूलयेत्॥
सद्योजातेन पादौ च सर्वाङ्गं प्रणवेन तु।
अत्रेते श्लोकाः--
भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रितम्।
मस्तकात् पादपर्यन्तं भस्मस्नानं पुरोदितम् ॥ 1 ॥
तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत्।
ईशेन पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्नतः ॥ 2 ॥
मुखे चतस्नः तत्पुरुषेमाघोरेणाष्टधा हृदि।
वामेन गुह्यदेशे तु त्रिदश स्थानभेदतः ॥ 3 ॥
अष्टधा सद्यमन्त्रेण पादमुध्दूल्य यत्नतः।
सर्वाङ्गोध्दूलनं कुर्याद्राजन्यस्य यथाविधि ॥ 4 ॥
मुखं विना च तत्सर्वमुध्दूल्य क्रमयोगतः।
सन्ध्यात्रये निशीथे च तथा पूर्वावसानयोः ॥ 5 ॥
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम्।
स्त्रियं नपुंसकं वृद्धमित्यादि किल वर्ण्यते ॥ 6 ॥
देवाग्निगुरुविप्राणां समीपे त्याज्यदर्शने।
अशुध्दभूतले मार्गे कुर्यान्नोद्धूलन व्रती ॥ 7 ॥
शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत्।
योजितं चन्दनेनापि वारिणा संयुतं तु वा ॥ 8 ॥
चन्दनेन समं लिप्येज्ज्ञानार्थी चूर्णमेव तत्।
मध्याह्नात् प्राग्जलैर्युक्तं तोयं तदनु वर्जयेत् ॥ 9 ।
अथ भुसुण्ढो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ।
तत्रैते श्लोकाः--
त्रिपुण्ड्रं कारयेत् पश्चाद्ब्रह्मविष्णुशिवात्मकम्।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥ 10 ॥
अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम्।
उद्धूलयेन्मुखं विप्रः क्षत्रियस्तु शिरोऽभितः ॥ 11 ॥
द्वात्रिंशत्स्तानके चाथ षोडश स्थानकेऽथवा।
अष्टस्थाने तथा चैवं पञ्चस्थाने च योजयेत् ॥ 12 ॥
उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा।
नासावक्रगले चैवमंसद्वयमनन्तरम् ॥ 13 ॥
कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः।
नाभौ गुह्यद्वये चैवमूर्वोः स्फिक्बिम्बजानुषु ॥ 14 ॥
जङ्घाद्वये च पादे च द्वात्रिंशत्स्थानमुत्तमम्।
अष्टमूर्त्यष्टविद्येशान् दिक्कालवसुभिः सह ॥ 15 ॥
धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः।
प्रत्यूषश्च प्रभातश्च वसवोऽष्टावुदीरिताः ॥ 16 ॥
एतेषां नाममन्त्रेण त्रिपुण्ड्रं धारयेद्बुधः।
विदध्यात् षोडशस्थाने त्रिपुण्ड्रं च समाहितः ॥ 17 ॥
शीर्षके च ललाटे च कर्णे चांसद्वयेऽपि च।
कूर्परे णिबन्धे च हृदये नाभिपार्श्वयोः ॥ 18 ॥
पृष्ठे चैवं प्रतिष्ठायां जपेत्तत्राधिदैवतम्।
शिवं शक्तिं च सादाख्यमीशं रूद्राख्यमेव च ॥ 19 ॥
वामादिनव शक्तीश्च एताः षोडश देवताः।
नासत्यो दस्नकश्चैवमश्विनौ द्वौ समीरितौ ॥ 20 ॥
अथवा मूर्ध्नि केशे च कर्णयोः श्वसने तथा।
बाहुद्वये हृदयेनाभ्यामूर्वोर्युगे तथा ॥ 21 ॥
जानुद्वये च पदयोः पृष्ठभागे च षोडश।
(1)शिवश्चेन्द्रश्च चन्द्रार्कौ विघ्नेशो विष्णुरेव च ॥ 22 ॥
{1. शिवः स्कन्दश्च-पा.}
श्रीश्चैव हृदये तद्वत्तथा नाभौ प्रजापतिः।
नागाश्च नागकन्याश्च (2)उभये ऋषिकन्यकाः ॥ 23 ॥
{2. उभया-पा.}
पादयोश्च समुद्राश्च तीर्थं पृष्ठेऽपि च स्मृताः।
एवं वा षोडशस्थानमष्टस्थानमथोच्यते ॥ 24 ॥
गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम्।
अंसयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् ॥ 25 ।
ब्रह्मा चर्षयः सप्तदेवताश्च प्रकीर्तिताः।
अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥ 26 ॥
पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः।
यथासंभवतः कुर्याद्देशकालाद्यपेक्षया ॥ 27 ॥
उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्डादीनि कारयेत्।
ललाटे हृदये नाभौ गले च मणिबन्धयोः ॥ 28 ॥
बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके।
ललाटे ब्रह्मणे नमः। हृदये हव्यवाहनाय नमः। नाभौ स्कन्दाय नमः। गले पूष्णे नमः। दक्षिणबाहुमूले रुद्राय नमः। मध्ये आदित्याय नमः। मणिबन्धे शचीपतये नमः। वामबाहुमूले वामदेवाय नमः। मध्ये प्रभञ्जनाय नमः। मणिबन्धे वसुभ्यो नमः। पृष्टे हराय नमः। शिरसि परमात्मने नमः। इत्यादिभिर्मन्त्रैरेवं द्वादशस्थानेषु त्रिपुण्ड्रं धारयेत्॥
त्रिणेत्रं त्रिगुणाधारं त्रयाणां जनकं शुभम् ॥ 29 ॥
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम्।
कूर्पराधः पितृभ्यां तु उमेशाभ्यां तथोपरि ॥ 30 ॥
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम्।
बीजाभ्यां नम इत्युक्त्वा धारयेच्च प्रकोष्ठयोः ॥ 31 ॥
भीमायेति ततः पृष्ठे शिवाय पिठरे तथा।
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः ॥ 32 ॥
मानस्तोकेति मन्त्रेण मन्त्रितं भस्म धारयेत्।
ऊर्ध्वपुण्ड्रं भवेत् साम मध्यपुण्ड्रं यजूंषि च ॥ 33 ॥
अधःपुण्ड्रमृचः साक्षात्तस्मात् पुण्ड्रं त्रियायुषम्।
त्रियायुषाणि कुरुते ललाटे च भुजद्वये ॥ 34 ।
नाभौ शिरसि हृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा।
जाबालोपनिषदि--
अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेदिति। (3)तथोपरि{3. यस्माद्व्रतमिदं पाशुपतं यद्भस्मनाङ्गानि संम्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय। इत्युपनिषत्पाठः॥} तिर्यक् त्रिपुण्ड्रं धारयेदिति च॥
अथर्वशिरसि--
अत्र जाबालोपनिषदादीनामुपबृंहणवचनानि सूतसंहितायाम्--
अग्निरित्यादिभिर्मन्त्रैर्जावालोपनिषद्गतैः।
सर्वैरुद्धूलनं कार्यं भस्मना सजलेन च॥
त्रियायुषेण मन्त्रेण बुधैस्तियक्त्रिपुण्ड्रक्रम्।
धार्यं प्रोक्तं द्विजश्रेष्ठ धार्मिकैर्वेदपारगैः॥
मेघावीत्यादिना वापि ब्रह्मचारी दिने दिने।
भस्मना सजलैनैव धारयेच्च त्रिपुण्ड्रकम्॥
त्रियम्बकेण मन्त्रेण प्रणवेन शिवेन च।
गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुण्ड्रकम्॥
ओंकारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम्।
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः॥
ललाटे चैव दोर्द्वन्द्वे तथैवोरसि बुद्धिमान्।
त्रिपुण्ड्रं धारयेन्नित्यं भुक्तिमुक्तिफलप्रदम्॥
(4)मन्त्राणामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि वा।
त्रिपुण्ड्रोध्दूलनं प्रोक्तं जाबालैरादरेण तु॥
{4. वर्णानामिति स्यात्,}
श्रीबोधायनसूत्रे--
अथ तद्भस्मादायाभिमन्त्रयेत्। ईशानादिव्युत्क्रमेण पुनः सद्योजातादि पञ्चक्रमेण चाभिमन्त्र्य `मानस्तोके तनये' इति मध्यमानामिकाङ्गुष्ठैः समादाय, तूष्णीमद्भिः संयोज्य, त्रियायुषमिति त्रिपुण्ड्रं धारयेत्॥
अथाप्युदाहरन्ति--
मध्यमानामिकाङ्गुष्ठैस्त्रिपुण्ड्रं भस्मना कृतम्।
तत्त्रिपुण्ड्रं भवेच्छस्तं............. .........॥ इति ।
अथाप्युदाहरन्ति-
ललाटे हृदि दोर्द्वन्द्वे गले कुक्षौ शिरस्यथ।
धारयेच्चैव तद्भस्म द्विजो नित्यमतन्द्रितः॥
`भूत्यै न प्रमदीतव्यमिति विज्ञायत' इति। अथ त्र्यम्बकमिति सर्वाङ्गं सम्मृजेत् पूतो भवतीति॥
बोधायनस्मृतौ--
स्नानमीशानमन्त्रेण कुर्यान्मूर्धादि पादतः। इति॥
भारद्वाजस्मृतौ--
प्राह्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत्।
प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत्॥
आदाय भसितं श्वेतमग्निहोत्रसमुद्भवम्।
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत्॥
तत आदाय तद्भस्म मुखे तत्पुरुषेण तु।
अघोराख्येन हृदये गह्ये वामाह्वयेन च॥
सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत्।
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलयेत्ततः॥
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः।
सर्वकर्मसमृध्यर्थं कुर्यादादाविदं बुधः॥
ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि।
तिर्यक्त्रिपुण्ड्रविधिना ललाटे हृदये गले॥
पञ्चभिर्ब्रह्मभिर्वापि ततोऽग्निरिति मन्त्रतः। इति।
स्मृत्यन्तरे च--
मानस्तोकेति मन्त्रेति मन्त्रितं भस्म धारयेत्॥
वायुपुराणे--
ततस्त्रिपुण्ड्रं रचयेत् त्र्यायुषसमाह्वयम्। इति।
तैत्तिरीयश्रुतौ च शिवशासने--
`सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्'। इत्यादि। अत्र भूतिशब्दस्य भस्मार्थकत्वं बोधायनेनोक्तम्। अथातो द्विजातीनां त्रिपुण्ड्रधारणविधिं व्याख्यास्यामो भूत्यै न प्रमदितव्यमिति विज्ञायत इत्युपक्रम्य, दश पूर्वान् दशापरान् आत्मानं चैकविंशतिं पह्किं च पुनाति। ब्रह्मणः सायुज्यं सलोकतामाप्नोतीत्याह भगवान् बोधायन इति। ये न त्रिपुण्ड्रधारिणस्तेषां ब्राह्मण्यमेव नास्तीति स्पष्टमेव। अथ उपबृंहणानि स्मृतिपुराणवचनानि लिख्यन्ते--
उपबृंहणं च लोकाक्षिस्मृतावभिहितम्--
भस्मनोध्दूलनं तिर्यक्त्रिपुण्ड्रं नित्यसाधनम्।
प्रत्याख्यानं प्रमाणस्य श्रूयते तैत्तिरीयके॥
महाभारतेऽपि--
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। इति।
स्कांदेऽपि--
पुराणैरेव विस्पष्टो वेदार्थो ज्ञायते खलु।
बिभेति मानवाद्वेदः पुराणाभ्यासवर्जितात्॥
सूतसंहितायामपि--
अनन्तशाखासापेक्षे वेदार्थानां विनिर्णये।
स्वबुद्धिकल्पितान्न्यायाद्गरीयो ह्युपबृंहणम्॥ इति।
सुदर्शचनाचार्योऽपि--
वेदार्थनिर्णयविधौ हि पुराणमङ्गं
निर्णीतवेदविषयाः स्मृतयो भवन्ति। इति।
मानवपुराणेऽपि श्रुत्युपबृंहणं दृश्यते--
सत्यान्न प्रमदितव्यं वै धर्माच्च कुशलाच्च न।
भूत्या अग्निसमुत्थायास्ततो देहावकुण्ठनम्॥
ललाटे हृदि दोर्द्वन्द्वे त्रिपुण्ड्रस्य च धारणात्।
नवा प्रमदितव्यं वै भ्रमाद्वापि कदाचन॥
स्वाध्यायाध्ययनं नित्यं कुरु प्रवचनं तथा। इति।
सूतसंहितायामपि--
सत्याद्धर्माच्च कुशलाद्भस्मनोध्दूलनादपि।
त्रिपुण्ड्रधारणाच्चैव स्वाध्यायाध्ययनादपि॥
दैवाच्च पित्र्यात्सत्कार्यान्मातापित्रादिपूजनात्। इति।
भाष्यकारेण यद्यपि भूतिशब्द ऐश्वर्यपरतया व्याख्यातः। तथापि बोधायनेन `भूत्यै न प्रमदितव्यं' इत्यस्याः श्रुतेर्भस्मत्रिपुण्ड्रप्रमाणतयोदाहृतत्वादुपबृंहणस्मृतिपुराणवाक्यानां च सत्वात् भूतिशब्दस्य भस्मपरत्वमेव युक्तम्।
नन्वत्र भूतिशब्दस्य नानार्थत्वेनार्थान्तत्वं भवत्विति चेन्न; `इतिहासमपुराणाभ्यां श्रुत्यर्थमुपबृंहयेत्' इति न्यायेन तस्माद्भूत्यै न प्रमदितव्यमिति विज्ञायत इति बोधायनसूत्रस्य विरोधः स्यात्। किं च--
सत्याद्धर्माच्च कुशलाद्भस्मनोद्धूलनादपि। इति विद्यारण्योक्तवेदाष्यवचनाच्च तैत्तिरीयोपनिषत्स्थस्य भस्मपरत्वमेव॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकाम्।
प्रमादादपि मोक्षार्थी न त्यजेदितिहि श्रुतिः॥
इति सूतसंहितायामुक्तत्वात् भूतिशब्दस्य भस्मपरत्वमेव। भूतिशब्दस्य नानार्थत्वेनैश्वर्यपरतया व्याख्यानेऽपि नेह कश्चिद्विरोधः। उपबृंहणस्य सत्वे तदपि व्याख्यातव्यमस्तु। बोधायनः-अथातो बूतिसंपादनधारणविधिं व्याख्यास्यामः। शुचिर्भूत्वा विकटाङ्गामुन्मत्तामशिवां हीनातिरिक्ताङ्गां वन्ध्यां अस्थिचेलभक्षिणीं इत्यादिसर्वं प्रतिपादितवान्॥
पराशरस्मृतौ--
ब्राह्मणो वधिनोत्पन्नं त्रिपुण्ड्रं भस्मनैव तु।
ललाटे धारयेन्नित्यं तिर्यग्ङस्मावकुण्ठनम्॥
श्रुतिसारसमुच्चये--
अशक्तः समयाचारे (4)मनसा पापमाचरन्।
शुचिरेव भवेन्नित्यं त्रिपुण्ड्रस्य च धारणात्॥
{4. भस्मना स्नानमाचरन्-इति स्यात्}
महाभारते आनुशासनिके पर्वणि--
अहं पशुपतिर्नाम मद्भक्ता ये च मानवाः।
सर्वे पाशुपता ज्ञेया भस्मदिघ्धतनूरुहाः॥
रक्षार्थं मङ्गलार्थं च पवित्रार्थं च . . .।
इत्यादि। साङ्ख्यायनगृह्येऽपि--
त्र्यायुषमिति पञ्चभिर्मन्त्रैर्ललाटे हृदये च दक्षिणस्कन्धे वामे च ततः पृष्ठे च पञ्चसु भस्मना त्रिपुण्ड्रं करोति। एषां देवानामेकं द्वौ त्रीन् सर्वानथ इति॥
माध्यन्दिनगृह्येऽपि--
भस्मना ललाटे ग्रीवायां दक्षिणेंऽसे हृदि च त्र्यायुषमिति॥
प्रतिमनत्रमिति
आदित्यपुराणे-
त्रिपुण्ड्रधारी सततं ब्राह्मणः सर्वकर्मसु।
भस्मनैवाग्निहोत्रस्य शिवाग्निजनितेन वा॥
वासिष्ठलैङ्गे वसिष्ठं प्रति महादेवः--
भस्म विद्धि परं ब्रह्म सत्यबोधसुखावहम्।
भस्म तद्वेदनाल्लभ्यं मुख्यं तदपरं बुधः॥
आग्नेयं गौणमज्ञानध्वंसकज्ञानसाधनम्।
गौणं नानाविधं विद्धि ब्रह्मन् ब्रह्मविदां वर॥
अग्निहोत्रादिजं तद्वद्विरजानलजं मुने।
औपासनसमुत्पन्नं समिदग्निसमुद्भवम्॥
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम्।
विरजानलजं चैव कार्यं भस्म महामुने!॥
औपासनसमुत्पन्नं गृहस्थानां विशेषतः।
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणाम्॥
शूद्राणां श्रोत्रियागारे पचनाग्निसमुद्भवम्।
अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम्॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैस्तथा।
जाबालैस्सप्तभिर्वापि गौणेनैव तु भस्मना॥
उद्धूलयेत् स्वकं देहं पापपुञ्जभयापहम्।
त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा॥
गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा।
त्रियम्बकेन मन्त्रेण सतारेण तथैव च॥
पञ्चाक्षरेण मन्त्रेण प्रणवेन युतेन च।
ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने!॥
त्रिपुण्ड्रं धारयेन्नित्यं गृहस्थश्च वनाश्रमी।
आत्ममन्त्रेण हंसेन प्रणवेन समाहितः॥
त्रिपुण्ड्रं धारयेन्नित्यं सन्यासाश्रममाश्रितः।
नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणप्रियः॥
उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत्।
अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत॥
उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने॥ इति।
ब्रह्मचारिणां धारणप्रकारमाह बोधायनः--
यस्मिन्नग्नौ कर्म कृत्वोपतिष्ठते तस्मात् पूर्णं भस्म आदाय तूष्णीमभिमनत्र्याभिमृश्य मानस्तोक हति मन्त्रेणादाय धारयेन्नियमेन च। ललाटे तेजस्वीति। दक्षिणबाह्वोर्वर्चस्वीति। सव्ये ब्रह्मवर्चस्वीति। हृदयदेशे आयुष्मानिति। (5)कण्ठे{5. कण्ठे स्वस्तीति। भूयासमिति सर्वत्रानुषज्यते इति स्यात्।} भूयासं स्वस्तीति सर्वत्रानुषजतीति॥
सूतसंहितायाम्--
भस्मनोद्धूलनं चैव तथा कुर्यात्त्रिपुण्ड्रकम्।
प्रमादादपि मोक्षार्थी न त्यजेदिति हि श्रुतिः॥
पराशरोपपुराणे--
(6)आदौ ब्राह्मण (7) भूतेन त्रिपुण्ड्रं भस्मना धृतम्।
यतस्तदेव विप्रस्तु त्रिपुण्ड्रं धारयेत् सदा॥
{6. आदि-पा. 7. रूपेण-पा.}
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहकुण्ठनम्।
रुद्रलिङ्गार्चनं चापि हतो वापि न सन्त्यजेत्॥
ब्राह्मणानामयं धर्मस्त्रिपुण्ड्रस्य च धारणम्।
आश्रमाणां च सर्वेषां धर्मत्वेनाहुरास्तिकाः॥
सनत्कुमारसंहितायाम्--
त्रिपुण्ड्रं धारयेन्नित्यं गृहस्थाश्रममास्थितः।
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः॥
धारयेद्ब्राह्मणो विद्वान् सर्वदैव त्रिपुण्ड्रकम्।
त्रिपुण्ड्रं धारयेन्नित्यं मनसाऽपि न लङ्घ्येत्॥
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत्।
पराशरे--
श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि।
इत्यादि लिखितम्॥
लैङ्गे--
त्रिपुण्ड्रं सुरविप्राणां वर्तुलं नृपवैश्ययोः।
अर्धचन्द्रं तु शूद्राणामन्येषामूर्ध्वपुण्ड्रकम्॥
अश्रौतमूर्ध्वपुण्ड्रादि ललाटे श्रद्धया सह।
धारयिष्यन्ति मोहेन युगान्ते समुपस्थिते॥
स्मुत्यन्तरे--
यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि वै।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी॥
भविष्यत्पुराणे--
पापानामपि बाहुल्याद्दधीचस्य च शापतः।
गौतमस्य मुनेः शापात् श्रौतलिङ्गं च रोचते॥
आदित्यपुराणे--
दुर्वाससो मुनेः शापात् कुपितस्य महात्मनः।
कण्वशापाद्भूगोः शापादुपमन्योश्च शापतः॥
दधीचस्य मुनेः शापाद्गौतमस्य च शापतः।
विप्राणां दाक्षिणात्यानां पापोपहतचेतसाम्॥
शिवे भस्मनि रुद्राक्षे किंचिच्छ्रद्धा न विद्यते॥ इति।
मानवे च--
ब्राह्मणैश्च पुरा सर्वैर्गौतमेन सुरक्षितैः।
विचार्य कार्यं संभूय स्वदेशगमनोद्यतैः॥
गौर्हता गौतमेनेति निर्घृणैः पुरुषाधमैः।
कृतो मिथ्याभिशापस्तु महामोहवशेन तु॥
तच्छ्रुत्वा स मुनिः श्रीमान् गौतमो मुनिसत्तमः।
महाक्रोधेन संयुक्तः शशाप ब्राह्मणाधमान्॥
यद्यत्तु रुद्रसम्बन्धि तत्र तत्रातिदुर्जनाः।
भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः॥
स्वाध्याये च जपे चैव तथा प्रवचनेपि च।
भवतानुन्मुखा यूयं सर्वथा ब्रह्मणाधमाः॥
श्रुतिस्मृतिपुराणोक्तेष्वर्थेषु सकलेषु च।
भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः॥
शङ्खचक्रगदापद्मदण्डपाशाङ्कुशादिभिः।
अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः॥
वर्तुलाश्वत्थपत्रार्धचन्द्रशूलादिलिङ्गिनः।
भवत श्रद्धया युक्ताः सर्वथा ब्राह्मणाधमाः॥
अश्वत्थपत्रलिङ्गं च बौद्धधर्ममुपाश्रिताः।
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च॥
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः।
चार्वाके च मते यूयं तथा पाषण्डकेऽपि च॥
वैष्णवे दीक्षिता यूयं भवत ब्राह्मणाधमाः।
दुर्मतेषु तथान्येषु मार्गेष्वश्रौतकेषु च।
श्रद्धया दीक्षिता यूयं भवत ब्राह्मणाधमाः॥ इत्यादि।
कौर्मे--
सृष्ट्वा च कामतोऽन्यानि वेदवाक्यानि पापिनः।
निर्माय च पुराणानि भवत ब्राह्मणाधमाः॥
दोर्मीले तप्तमुद्रादिधारिणः पापचेतसः।
वेदमार्गपरिभ्रष्टा भवत ब्राह्मणाधमाः॥
विष्णुमेव पुरस्कृत्य शिवमार्गविदूषकाः।
नारकायातना यूयं भवत ब्राह्मणाधमाः॥
सन्मार्गनिन्दका दुष्टमार्गैकपरिमोहिनः।
पापोपदेशनिरता भवत ब्राह्मणाधमाः॥
मोक्षमार्गं परित्यज्य वक्रमार्गैकगामिनः।
वेदनिन्दापरा यूयं भवत ब्राह्मणाधमाः॥
अग्निष्टोमादिकर्माणि विसृज्य श्रुतिनिन्दकाः।
वाय्वादिदेवताभक्ता भवत ब्राह्मणाधमाः॥
वीरशैवादिशैवानि मोक्षैकफलदान्यपि।
तन्निन्दकाः पापिनश्च भवत ब्राह्मणाधमाः॥
चक्राङ्किताः शैवमार्गनिन्दका स्वात्मदूषकाः।
धर्माध्वप्रतिकूलाश्च भवत ब्राह्मणाधमाः॥
भारतादौ प्रकल्प्यापि वचनानि स्वबुद्धितः।
कपोलकल्पितार्थज्ञा भवत ब्राह्मणाधमाः॥
इत्यादि (शाप) पराहतत्वादूर्ध्वपुण्ड्रादौ प्रमाणत्वेनोपकल्पितवचनान्यस्मरणीयानि। किमनया अप्रस्तुतप्रशंसयेत्यास्तां विस्तरः॥
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञश्रीनीलकण्ठशिवाचार्यकृते
निगमागमसारसंग्रहे क्रियासारे विभूतिधारणतत्प्रमाणोपन्यासो नाम
सप्तमोपदेशः
--------
अष्टमोपदेशः
सम्पाद्यताम्अथाष्टमे चोपदेशे प्रशंसां भस्मनः पराम्।
वर्णये वर्णसाङ्कार्यहेतुतामूर्ध्वपुण्ड्रके ॥ 1 ॥
तन्त्रोक्तमन्त्रतश्चक्राद्यङ्कपुण्ड्रान्तरं गताः।
यन्मायोत्तरणाशक्तास्तं भजे साम्बमीश्वरम् ॥ 2 ॥
श्रुतिस्मृतिपुराणेतिहासतन्त्रप्रकाशितम्।
भस्मधारणमाहात्म्यं प्रवक्ष्यामि समासतः ॥ 3 ॥
मुमुक्षुर्वा बुभुक्षुर्वा द्विजेन्द्रः शुद्धवैदिकः।
धारयेत् सादरं नित्यं भस्म वेदोक्तमार्गतः ॥ 4 ॥
वेदोक्तेनैव मन्त्रेण सितं भस्माग्निहोत्रजम्।
धारये(1)द्वैदिकं प्राज्ञस्त्रिपुण्ड्रोद्धूलनात्मना ॥ 5 ॥
{1. वैदिकः}
तिर्यक् त्रिपुण्ड्रं मुक्त्वैकं पुरुषार्थैकसाधनम्।
पुण्ड्रन्तरं भ्रमाद्वापि वैदिको नैव धारयेत् ॥ 6 ॥
पुण्ड्रान्तरं कदाचिद्वाप्यश्रौतं शुद्धवैदिकः।
धारयेद्यदि मोहेन पतत्येव न संशयः ॥ 7 ॥
मृदोर्ध्वपुण्ड्रो विहितः स्मृत्यादिषु यतस्ततः।
तद्धारकस्य पातित्यकथनं नहि युक्तिमत् ॥ 8 ॥
व्यासेन वेदशास्त्रार्थवित्तमेन महात्मना।
ऊर्ध्वपुण्ड्रस्य महात्म्यमुक्तं सत्यव्रतेन च ॥ 9 ॥
जाह्नवीतीरसंभूतां मृद मूर्ध्ना बिभर्ति यः।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय वै स्मृतम् ॥ 10 ॥
ऊर्ध्वपुण्ड्रो मृदा शुद्धो ललाटे यस्य दृश्यते।
स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥ 11 ॥
श्रीमद्बुहन्नारदीये सर्वप्राणिमनोहरे।
ऊर्द्वपुण्ड्रस्य माहात्म्यं तत्र तत्र प्रदर्शितम् ॥ 12 ॥
ऊर्ध्वपुण्ड्रं यः करोति तुलसीमूलमृत्तिकाम्।
तत्रैव नेत्रं तस्य स्यान्मूर्ध्नीन्दोर्बिभृयात्कलाम् ॥ 13 ।
यज्ञो दानं तपो होमः स्याध्यायः पितृतर्पणम्।
वृथा भवति विप्रेन्द्र ऊर्ध्वपुण्ड्रविनाकृतम् ॥ 14 ॥
ऊर्ध्वपुण्ड्रस्य महात्म्यं सविधानं कृपाबलात्।
ब्रह्माण्डाख्यपुराणे तु ब्रह्मणो भवतेरितम् ॥ 15 ॥
ऊर्ध्वपुण्ड्रप्रमाणानि द्रव्याण्यङ्गुलिभेदतः।
वर्णानि मन्त्रदेशांश्च प्रवक्ष्यामि फलानि च ॥ 16 ॥
पर्वताग्रे नदीतीरे मम क्षेत्रे विशेषतः।
सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ॥ 17 ॥
मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः।
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ॥ 18 ॥
श्रीकरं पीतमित्याहुर्वैष्णवं श्वेतमुच्यते।
अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् ॥ 19 ॥
अनामिका सदा नित्यं मुक्तिदा च प्रदेशिनी।
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ॥ 20 ॥
वर्तिदीपाकृतिं वापि वेणुपत्राकृतिं तथा।
पद्मस्य मुकुलाकारं तथैव कुमुदस्य च ॥ 21 ॥
मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम्।
दशाङ्गुलप्रमाणं तदुत्तमोत्तममुच्यते ॥ 22 ॥
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम्।
सप्तषट्पञ्चभिः (2)पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ॥ 23 ॥
{23. पूर्णं-पा.}
चतुस्त्रिद्व्यङ्गुक्तैःपुण्ड्रं कनिष्ठं त्रिविधं भवेत्।
ललाटे केशवं विद्यान्नारायणमथापि वा ॥ 24 ॥
माधवं हृदि विन्यस्य गोविन्दं कर्णकूर्परे।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ 25 ॥
तत्पार्श्वे बाहुमध्ये तु मधुसूदनमेव च।
त्रिविक्रमं कण्ठदेशे वामे कुक्षौ तु वामनम् ॥ 26 ॥
श्रीधरं बाहुके वामे हृषीकेशं तु कण्ठके।
पृष्ठे तु पद्मानाभं (3)कुकुदि दामोदरं स्मरेत् ॥ 27 ॥
{3. ककुद्दामोदरं-पा.}
द्वादशैतानि नामानि वासुदेवस्य मूर्धनि।
पूजाकाले च होमे च सायं प्रातः समाहितः ॥ 28 ॥
नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम्।
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ॥ 29 ॥
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः।
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ॥ 30 ॥
श्वपाकोऽपि विजानीध्वं मम लोके महीयते।
तस्मादेभ्यश्चेदृशेभ्यो वचनेभ्योऽविशङ्कया ॥ 31 ॥
वैदिकेनाप्यूर्ध्वपुण्ड्रं धार्यमेव मृदेति चेत्।
वेदैक(4)निष्ठस्य श्रौतमूर्ध्वपुण्ड्रं द्विजस्य तु ॥ 32 ॥
{4. निष्ठसश्रौत-पा.}
विहितत्वेन वदतस्ते विद्वत्ता महत्तरा।
प्रत्यक्षश्रुत्य(5)भावाद्धि श्रौतं चेदूर्द्वपुण्ड्रकम् ॥ 33 ॥
{5. भावादश्रौतं-पा.}
(6)तर्हि श्रौतं कथं वा न भवेदेकादशीव्रतम्।
एकादशीव्रतस्यास्ति श्रुतिस्तेऽनुमितेति चेत् ॥ 34 ॥
{6. तर्ह्यश्रौतं इति स्यात्.}
ऊर्ध्वपुण्ड्रस्यानुमिता श्रुतिः कस्मान्न विद्यते।
एकादशीव्रतं कस्मात् कुत्रापि न निषेधितम् ॥ 35 ॥
तस्मादनुमितास्त्येव श्रुतिस्तस्य न संशयः।
ऊर्ध्वपुण्ड्रं पुराणेषु बहुशस्तु निषेधितम् ॥ 36 ॥
ततोऽस्यानुमिता नास्ति श्रुतिर्नैवात्र संशयः।
सर्वशास्त्रजसन्देहसमुद्रबडबानले ॥ 37 ॥
पाराशरे साङ्कनं पुण्ड्रान्तरं सुनिराकृतम्।
ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरश्रकम् ॥ 38 ॥
अर्धचन्द्राकृतिं चैव वेदनिष्ठो न धारयेत्।
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ 39 ॥
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत्।
ख्यातिलाभादिसिद्ध्यर्थमपि विष्ण्वागमादिषु ॥ 40 ॥
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः।
तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं पुण्ड्रान्तरं भ्रमात् ॥ 41 ॥
ललाटे (7)धारयेन्मर्त्यः पतत्येव न संशयः।
न दाहयेद्द्विजश्रेष्ठं न दहेच्छ्रा(8)स्त्रपूर्वकैः ॥ 42 ॥
{7. धारयन् इति स्यात्. 8. शस्त्रपूर्वकैः-पा.}
अङ्कितो यः स्वदेशात्तं राजा शीघ्रं प्रवासयेत्।
अतीव पतितानां हि (9)श्वपदाद्यङ्कनं नृणाम् ॥ 43 ॥
{9. स्वपद-पा.}
अधीयते न शुद्धानामतः शुद्धं नचाङ्कयेत्।
अध्यापने चाध्ययने श्रौतस्मार्तेषु कर्मसु ॥ 44 ॥
संभाषणे च सम्बन्धे नाधिकारी च लाञ्छितः।
अनय्त्राप्यूर्ध्वपुण्ड्रादिधारणं वैदिकस्य तु ॥ 45 ॥
पातित्यकारणमिति परिहाराय कीर्तितम्।
तिर्यक्पुण्ड्रं परित्यज्य श्रौतं पुण्ड्रान्तरं सदा ॥ 46 ॥
धारयेद्यदि मोहाद्वा पतत्येव न संशयः।
सन्तप्तशङ्खचक्राद्यैः सम्यगङ्कितविग्रहम् ॥ 47 ॥
पश्यतो नरकप्राप्तिर्नारदीये प्रदर्शिता।
यस्तु सन्तप्तशङ्खादिचक्राङ्किततनुर्नरः ॥ 48 ॥
स सर्वयातनाभोगी चण्डालः कोटिजन्मसु।
द्विजः सन्तप्तशङ्खादिचक्राङ्किततनुं नरम् ॥ 49 ॥
संभाष्य रौरवं याति यावदिन्द्राश्चतुर्दश।
चक्राङ्किततनुर्यत्र तत्र कोऽपि न संवसेत् ॥ 50 ॥
यदि तिष्ठेन्महापापी सहस्रब्रह्महा भवेत्।
गङ्गाश्नानरतो वापि चाश्वमेधरतोऽपि वा ॥ 51 ॥
चक्राङ्कितं तनुं दृष्ट्वा पश्येत् सूर्यं जपेन्नरः।
जनेश पौरुषं सूक्तमन्यथा (10)रौरवं व्रजेत् ॥ 52 ॥
{10. नरकं-पा.}
चक्राङ्किततनुं दृष्ट्वा पश्चेत् सूर्यं जपेन्नरः।
जनेश शतरूद्रीयमन्यथा पतितो भवेत् ॥ 53 ॥
ब्राह्मणस्य तनुर्ज्ञेया सर्वदेवसमाश्रया।
सा चेत् सन्तापिता राजन् किं वक्ष्यामि महैनसः ॥ 54 ॥
चक्राह्किततनुर्वापि राजन् शङ्खाङ्कितोऽपि वा।
नाधिकारी परिज्ञेयः श्रौतस्मार्तेषु कर्मस्तु ॥ 55 ॥
स्वसंहितायां सूतेन तत्र तत्र कृपालुना।
ऊर्ध्वपुण्ड्रादयः पुण्ड्राः साङ्कनाश्च निषेधिताः ॥ 56 ॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम्।
विना पुण्ड्रान्तरं मोहाध्दारयन् पतितो भवेत् ॥ 57 ॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ 58 ॥
(11)नाङ्कितं विग्रहं कुर्याद्वेदपन्थानमाश्रितः।
पुण्ड्रान्तरं भ्रमाद्बापि ललाटे नैव धारयेत् ॥ 59 ॥
{11. नाङ्कनं विग्रहे कुर्यात्-पा.}
देवानां च मनुष्याणां तथान्येषां च लाञ्छनम्।
न कुर्यान्मोहतो वापि यदि कुर्यात् पतत्यधः ॥ 60 ॥
कस्यचिल्लाञ्छितो मर्त्यो न साक्षी सर्वथा भवेत्।
श्रौतस्मार्तसमाचारे नाधिकारी च लाञ्छितः ॥ 61 ॥
लाञ्छिताश्च न संभाष्या न स्पृश्याश्च कदाचन।
न दर्शनीयास्तान् राजा देशाच्छीघ्रं प्रवासयेत् ॥ 62 ॥
वेदोक्तेनैव मार्गेण भस्मनैव त्रिपुण्ड्रकम्।
धूलनं नाचरिष्यन्ति पाषण्डोपहता जनाः ॥ 63 ॥
ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं चार्धचन्द्रकम्।
धारयष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ 64 ॥
शङ्खचक्रगदापद्मैरङ्कनं विग्रहे स्वके।
मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः ॥ 65 ॥
मनुष्याणां तु नाम्ना च तेषामाकारतोऽपि वा।
लाञ्चिताश्च भविष्यन्ति पाषण्डोपहता जनाः ॥ 66 ॥
इत्येतैरीदृशैश्चान्यैः पुराणवचनैस्तथा।
निरस्तत्वान्न साङ्कोर्ध्वपुड्रस्यानुमिता श्रुतिः ॥ 67 ॥
निषिद्धत्वेऽप्यनुमितोर्ध्वपुण्ड्रस्यास्ति चेच्छ्रुतिः।
चैत्यवन्दनकेशोल्लुञ्छनादीनां कुतो न सा ॥ 68 ॥
तेषां स्मृतिपुराणादौ कुत्राप्यकथितत्वतः।
श्रुतीना(12)मप्यकथितानामभावस्तु युज्यते ॥ 69 ॥
{12. मप्यनुमिताना-इति भवितव्यम्.}
स्मृत्यादिषूर्ध्वपुण्ड्रस्य प्रोक्तत्वादन्यधर्मवत्।
श्रुत्यभावो न युक्तोऽतः सास्त्येवानुमितेति चेत् ॥ 70 ॥
स्मृत्याद्युक्तत्वमात्रेण स्मृत्याद्युक्तान्यधर्मवत्।
ऊर्ध्वपुण्ड्रं प्रवदतो विद्वत्ता भाति ते तराम् ॥ 71 ॥
पुरवासाद्गजोऽश्वो वा भवेत् किं नाम गर्दभः।
शूद्रो ब्राह्मणवीथीस्थोऽथवा किं ब्राह्मणो भवेत् ॥ 72 ॥
अश्रौतश्चेदूर्ध्वपुण्ड्रः स्मृत्यादिष्वीरितः कुतः।
इति चेद्वद साङ्ख्योक्ता सृष्टिरत्रेरिता कुतः ॥ 73 ॥
साङ्ख्यानुद्दिश्य तत्सृष्टिः स्मृत्यादिष्वीरितेति चेत्।
तर्ह्यूर्ध्वपुण्ड्रोऽप्यत्रोक्तस्तान्त्रिकान् वैष्णवान् प्रति ॥ 74 ॥
मृदोर्ध्वपुण्ड्रचक्रादिलाञ्छने वैष्णवान् प्रति।
पाञ्चरात्रे भगवता तत्र तत्र प्रकीर्तिते ॥ 75 ॥
पुराणेष्वप्यूर्ध्वपुण्ड्रं वैष्णवानामितीरितम्।
तद्दुष्ट्वैव मया प्रोक्तं स्वधीकल्पनया नतु ॥ 76 ॥
विष्ण्वागमोक्तमार्गेण श्रद्धया सह दीक्षिताः।
एकान्त्याद्या बहुविधा वैष्णवाः परिकीर्तिताः ॥ 77 ॥
सच्छिद्रमिति चाच्छिद्रं द्विविधं चोर्ध्वपुण्ड्रकम्।
उच्यते दृश्यते चैतच्छास्त्रेऽप्यनुभवेऽपि च ॥ 78 ॥
त्रिशूलाभं हरिपदाकारं चेति पुनर्द्विधा।
सच्छिद्रस्य त्रिशूलस्य मध्ये रेखा हरिद्रया ॥ 79 ॥
सच्छिद्रमुक्तमैकान्तिपरमैकान्तिनः प्रति।
पाञ्चरात्रे भगवता च्छिद्रं प्रत्यन्यवैष्णवान् ॥ 80 ॥
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः।
सान्तरालान् प्रकुर्वीरन् पुण्ड्रान् मम पदाकृतीन् ॥ 81 ॥
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः।
हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ 82 ॥
अन्येऽपि वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः।
प्रकुर्वीरन् दीपशिखावेणुपत्रोपमाकृतीन् ॥ 83 ॥
अच्छिद्रान्वाथ सच्छिद्रान् कुर्युः केवलवैष्णवाः।
अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ 84 ॥
एकान्तिनां प्रपन्नानां परमैकान्तिनामपि।
अच्छिद्रपुण्ड्रकरणे प्रत्यवायो महान् भवेत् ॥ 85 ॥
ऊर्ध्वपुण्ड्रं द्विजः कुर्याद्दण्डाकारं तु शोभनम्।
मद्ये छिद्रं वैष्णवस्तु नमोऽन्तैः केशवादिभिः ॥ 86 ॥
सान्तरालमृजुं सौम्यं सुपार्श्वं सुमनोहरम्।
यः करोत्यूर्ध्वपुण्ड्रं स ममातीव प्रियो भवेत् ॥ 87 ।
विमलान्यूर्ध्वपुण्ड्रानि सान्तरलानि यो नरः।
करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ 88 ॥
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशालेऽतिमनोहरे।
लक्ष्म्या सार्धं समासीनो रमेऽहं तत्र (13)निर्वृतः ॥ 89 ॥
{13. निर्मितः-पा.}
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ 90 ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः।
स पर्यायेण तेनेति नरकानेकविंशतिम् ॥ 91 ॥
ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत्।
ऊर्ध्वपुण्ड्रानि दण्डाब्जदीपमत्स्यनिभानि च ॥ 92 ॥
बहुना किं प्रलापेन हृद्यं सौम्यं सुदर्शनम्।
ऋजुं सुपार्श्वमूर्ध्वाग्रं कुर्यादत्यच्छमध्यमम् ॥ 93 ॥
शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं (14) द्विजन्मना।
विकृताश्चेद्धि विफलाः क्रियाः सर्वा महामुने ॥ 94 ॥
{14. द्विजन्मानाम्-पा.}
तस्मात् सर्वेषु कार्येषु धार्यं विप्रस्य धीमतः।
रक्षाकरं दुर्ग्रहणासारग्रहविनाशनम् ॥ 95 ॥
ऊर्ध्वपुण्ड्रात् परं नान्यद्द्रष्टं ज्ञातं श्रुतं मया।
धारयेदूर्द्वपुण्ड्राश्च विष्णोःप्रियकारांस्तथा ॥ 96 ॥
जपहोमार्चनध्यानदानादिषु विशेषतः।
नश्यन्ति सकलाः क्लेशा नराणां पापसंभवाः ॥ 97 ॥
अभीष्टान्यखिलानि स्युरूर्ध्वपुण्ड्रस्य धारणात्।
त्रयोदश द्वादश वा ह्यूर्ध्वपुण्ड्राणि धारयेत् ॥ 98 ॥
एकं चत्वारि षट् चाष्टावपि वाञ्छन्ति केचन।
प्रणवेन तथा (15) मन्त्रैः षडष्टद्वादशाक्षरैः॥
{15. व्यूहैः-पा.}
पुण्य(16) तीर्थाहृतश्वेतमृत्स्नाविरचितैः शुभैः।
ऊर्ध्वपुण्ड्रैर्द्वादशभिः सौम्यैरावृतविग्रहम् ॥ 100 ॥
{16. तीर्थोध्दृतश्वेत-प.}
स्वस्थानविधृताशेषपञ्चायुधविभूषितम्।
गाधिसूनुं महात्मानं विश्वामित्रं तपोनिधिम् ॥ 101 ॥
अभ्येत्य काश्यपो नामा कदाचिदृषिसत्तमः।
प्रणम्योपान्तिके तस्थौ शिरस्याधाय चाञ्जलिम् ॥ 102 ॥
धृतोर्ध्वपुण्ड्रः सततं शस्तया श्वेतमृत्स्नया।
शङ्ख्चक्रादिभिश्चिह्नैः स्वेषु स्थानेषु लाञ्छितः ॥ 103 ॥
एवं लक्षणसंयुक्तो यः स आचार्य उच्यते।
धृतोर्ध्वपुण्ड्रतिलकः सदा द्वादशनामभिः ॥ 104 ॥
प्रशस्तोज्वलवेषश्च शङ्ख्चक्रादिलाञ्छितः।
एवमादिगुणैर्युक्तः स्थिरधीः शिष्य उच्यते ॥ 105 ॥
प्रशस्तवैष्मवक्षेत्रजातया श्वेतमृत्स्नया।
मूर्तीनां केशवादीनां नामोच्चारणपूर्वकम् ॥ 106 ॥
ललाटादिषु यद्गात्र ऊर्ध्वपुण्ड्रस्य धारणम्।
तत्पार्थिवं भवेत् स्नानं योगिवर्यैर्निवेषितम् ॥ 107 ॥
पवित्राण्यब्जबीजानि शङ्खचक्राङ्कनं तथा।
धारयन्नोपहन्येत कदाचित् किङ्करादिभिः ॥ 108 ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो नारी तथेतरः।
चक्राद्यैरङ्कयेद्गात्रमात्मनः परया मुदा ॥ 109 ॥
अनिष्टानां निवृत्त्यर्थमैकान्त्याय जगत्पतौ।
सिध्द्यर्थं कर्मणां चैव धार्यं चक्रादिलाञ्छनम् ॥ 110 ।
शङ्ख्चक्रोर्ध्वपुण्ड्राद्यैश्छिह्नैः मियतमैर्हरेः।
सहितः सर्वधर्मेभ्यः अच्युतो नैन आप्नुयात् ॥ 111 ॥
दासभूतं यदात्मानं बुध्यते स परात्मनः।
तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम् ॥ 112 ॥
अङ्कितः क्वचिदप्यङ्गे चक्रेणैकेन केवलम्।
अनिष्टानां तु भूतानां न तावद्वशगो भवेत् ॥ 113 ॥
विष्णोरायतनाग्नौ वा गुरोरात्मन एव वा।
हुते होमादिभिस्तप्तस्वरूपैरर्चितैः क्रमात् ॥ 114 ॥
चक्राम्बुजगदाशार्ङ्गखड्गैर्मन्त्रेण धारयेत्।
अङ्कितः शङ्खचक्राभ्यां सर्वैरङ्कित एव वा ॥ 115 ॥
शङ्खचक्रप्रधानं हि सर्वमन्यद्गदादिकम्।
(17)अग्निष्टोमौ हि चक्राब्जे सर्व एव तदात्मकाः ॥ 116 ॥
{17. अग्नीषोमा इति स्यात्.}
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्।
सव्ये तु शङ्खं बुभृयादिति ब्रह्मविदो विदुः ॥ 117 ॥
सुदर्शन महाज्वाल कोटिसूर्यसमप्रभ।
अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय ॥ 118 ॥
भगवन् सर्वविजय सहस्रारापरजित।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ॥ 119 ॥
पाञ्चजन्य निजध्वानध्वस्तपातकसञ्चय।
पाहि मां पापिनं घोरसंसारार्णवपातिनम् ॥ 120 ॥
त्वं पुरा सागरोत्पन्नो विण्णुना विधृतः करे।
नमितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥ 121 ॥
ऊर्ध्वपुण्ड्रो वैष्णवानामत्र वैखानसेऽपि च।
(18)भस्मना च ततो भिन्नतन्त्रत्वाद्भिन्नमन्त्रतः ॥ 122 ॥
{18. भस्म नाचरितो भिन्न-पा.}
हुतभस्म समादाय सितमष्टाक्षरेण तु।
ऊर्ध्वपुण्ड्रं तु (19)विन्यस्येद्बध्वा प्रतिसरं करे ॥ 123 ॥
{19. विन्यस्य बध्वा-पा.}
दक्षिणे चास्त्रमन्त्रेण प्राशयेत् पञ्चगव्यकम्।
समिद्भिर्गोघृतैश्चैव हवने विहिते सति ॥ 124 ॥
तद्भस्म सङ्गृह्य करे मन्त्रेणैवाभिमन्त्र्य च।
यदूर्ध्वपुण्ड्रकरणमाग्नेयं स्नानमेव तत् ॥ 125 ॥
भूतिर्भस्मे" ति भस्म गृहीत्वा ललाटहृदयबाहुकण्ठादीना-दित्यः सोमो नम इत्यूर्ध्वाग्रमालिप्य "आपो हिष्ठा" इति प्रोक्ष्य "यत्ते अग्ने तेजस्तेन" इत्यग्निं उद्वयं इत्यादिभिरादित्यं चोपतिष्ठेत॥
(20)भूतिस्नाने {20. एवमेव सर्वत्र पाठो दृश्यते.} लभते नित्यं सर्वयज्ञकृतं भवेत्। अग्निमारुतयोर्धृतिरादित्यः सोमो नमः।
(21)अङ्कनं पुण्ड्रान्तरं च तान्त्रिकाणां क्रमेण तु ॥ 126 ॥
{21. अङ्कनं चोर्ध्वपुण्ड्रं च.}
उपकारकमित्युक्तं (22)सूतेन करुणालुना।
विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ॥ 127 ॥
{22. सूतेन च कृपालुना-इति स्यात्.}
शङ्कचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम्।
दीक्षितानां तु तन्त्रेषु नराणामङ्कनं बुधाः ॥ 128 ॥
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः।
पुण्ड्रान्तरस्य (23)तन्त्रेषु धारणं दीक्षितस्य तु ॥ 129 ॥
{23. सर्वेषु-पा.}
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः।
ऊर्ध्वपुण्ड्रं मृदा धार्यं विप्रेण ब्रह्मवादिना ॥ 130 ॥
उद्वृतासीति मन्त्रेण वैष्णवेन विशेषतः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो नारी तथेतरः ॥ 131 ॥
चक्राद्यैरङ्कयेद्गात्रमात्मनः परया मुदा।
इत्यादिवचनैः प्राधान्येन पुण्ड्रान्तराङ्कनम् ॥ 132 ॥
वर्णानामाश्रमवतामेवं प्रोक्तं न को वदेत्।
सर्वज्ञो भगवान् सूतः स्वगीतायां कृपाबलात् ॥ 133 ॥
वर्णाश्रमास्तान्त्रिकाणामपि सन्तीति चोक्तवान्।
श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
(24)गुरुरखिलसुरेशः सर्ववित् प्राह शम्भुः।
श्रुतिपथनिरतानामस्ति तन्त्रं न किंचित्
सुखकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥ 134 ॥
{24. गुरुगुरुरखिलेशः-पा.}
श्रुतिरपि मनुजानां वर्णधर्मान् बभाषे
परगुरुरखिलेषु प्राह तन्त्रेषु तद्वत्।
श्रुतिपथगलितानां वर्णधर्मान् घृणाब्धिः
श्रतिपथनिरतानां नैव तत्सेवनीयः ॥ 135 ॥
श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः
परगुरुरखिलेशस्तद्वदाहाश्रमांश्च।
श्रुतिपथगलितानां मानुषाणां तु (25)तं तं
हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥ 136 ॥
{25. तन्त्रं इति सर्वत्र वर्तते.}
विधिरपि मनुजानामाह वर्णाश्रमांश्च
श्रुतिपथगलितानामेव तन्त्रे स्वकीये।
श्रुतिपथनिरतानां (26)नैव तत्सेवनीयं
श्रुतिपथसममार्गो नैव सत्यं मयोक्तम् ॥ 137 ॥
{26. नैव ते सेवनीयाः इति साधुः।}
अधुना वैखानसोक्तोर्ध्वपुण्ड्रो वैदिकस्य न।
श्रुत्युक्तमन्त्रादितरमन्त्रेण विहितत्वतः ॥ 138 ॥
अधिकृद्भेदतो भेदः श्रुतितन्त्रोक्तमार्गयोः।
27(साहंसतार त्रियम्बकादि भेदो यथा तथा)
{27. इदमधिकं कुत्रचित् दूश्यते।}
बूत्या (28)समन्त्रोऽमन्त्रोर्ध्वपुण्ड्रो धार्यो न वैदिकैः ॥ 139 ॥
{28. स्वमन्त्रमाप्यूर्ध्व इति यावत्-पा.}
तानेवोद्दिशय् शास्त्रेषु पुण्ड्रान्तरनिषेधतः।
विशेषेणाप्यूर्द्व(29)पुण्ड्रो भस्मनैव निषेधतः ॥ 140 ॥
{29. पुण्ड्रो भस्मनैषनिषेधकः-पा. पुड्रं भस्मनैष निषेधति इति स्यात्.}
तिर्यक्पुण्ड्रो मृत्तिकाभिश्चैव स्मृत्यन्तरे स्फुटम्।
भस्मनैवोर्ध्वपुण्ड्श्च तिर्यक्पुण्ड्रो मृदा तथा ॥ 141 ॥
ब्रह्महत्यासमः प्रोक्तो मुनिभिर्वेदपारगैः।
वैदिकैर्मन्त्ररहितं चन्दनागरुकुङ्कुमम् ॥ 142 ॥
तिर्यक्पुण्ड्रात्मना धार्यं कान्तिसौख्याभिलाषिभिः।
पुड्रो धृतश्चन्दनाद्यैरिति भस्म न सन्त्यजेत् ॥ 143 ॥
दह्येत भस्मसन्त्यागी श्रुतिजक्रोधवह्निना।
चन्दनाद्युपरि प्रज्ञो धारयेद्भस्म वैदिकम् ॥ 144 ॥
लौकिकं चन्दनाद्यं तु भस्मोपरि न धारयेत्।
भस्मवच्चन्दनादीनां त्यागेऽनर्थो न विद्यते ॥ 145 ॥
चन्दनादीन्यतो लौकिकान्येवात्र न संशयः।
दृष्टकान्त्याद्यर्थचन्दनादेरुपरि भस्मनि ॥ 146 ॥
धृते किंचिच्चन्दनादेर्धारणस्य फलं न चेत्।
उपरिष्टाच्चन्दनादेर्धृते वै सितभस्मनि ॥ 147 ॥
चन्दनाद्यर्थभस्मार्थफलाप्तेः को निवारकः।
गोपीमलिनधरी तु शिवं स्पृशति यो द्विजः ॥ 148 ॥
सस्वैकविंशतिकुलं सोऽक्षय्यं नरकं व्रजेत्।
भस्मनैव लिखेत् पुण्ड्रं न लिखेन्मृत्तिकादिभिः ॥ 149 ॥
श्रौतभस्माद्यभावे भस्माहरेल्लौकिकाग्नितः।
इति गोपीचन्दनमृच्चन्दनादिनिषेधतः ॥ 150 ॥
कौर्मे कथं चन्दनादिधारणं वैदिकस्य चेत्।
कौर्मे स्थितो यो निषेधो गोपीचन्दनमृत्स्नयोः ॥ 151 ॥
अविशेषेणैव सोऽयमशेषाश्रमगोचरः।
चन्दनादिनिषेधस्तु गृहस्थविषयो नहि ॥ 152 ॥
किं तु यत्यादिविषयस्तच्च स्मृत्यन्तरे स्फुटम्।
ताम्बूलाभ्यञ्जेन चैवकांस्यपात्रे च भोजनम् ॥ 153 ॥
कृत्वा चोपवसेद्भिक्षुः स्रग्गन्धादिविभूषणः।
श्रौतत्वादनिषिद्धत्वाद्धार्यं तिर्यक्त्रिपुण्ड्रकम् ॥ 154 ॥
अश्रौतत्वान्निषिद्धत्वात्त्याज्यं पुण्ड्रान्तरं द्विजैः।
किमत्र बहुनोक्तेन प्रमादेनापि वैदिकः ॥ 155 ॥
त्रिपुण्ड्रेतरपुण्ड्रं तु (30)धारयेद्यः पतत्यधः।
पुण्ड्रानत्रनिषेधो यो वेदमार्गैकवर्तिनः ॥ 156 ॥
{30. धारयेच्चेत् पत-इति स्वात्.}
स समानास्तान्त्रिकस्य शैवस्यापि न संशयः।
पुराणे वायवीयादौ शैवाचारप्रकाशके॥
श्वस्य शासनत्वेन वर्तुलाद्याः प्रकीर्तिताः ॥ 157 ॥
पुरो न्यस्तकारो (31)मन्त्रैस्त्रिपुण्ड्रं भस्मना लिखेत्।
अवक्रमायतं व्यक्तं ललाटे गन्धवारिणा ॥ 158 ॥
{31. मन्त्री त्रिपुण्ड्रं-पा.}
वृत्तं वा चतुरश्रं वा बिन्दुमर्धेन्दुमेव वा।
ललाटे यादृशं पुण्ड्रं लिखितं खितभस्मना ॥ 159 ।
तादृशं भुजयोर्मूर्घ्नि स्तनयोश्चान्तरे लिखेत्।
लिङ्गदीपार्धचन्द्राभं चतुरश्रं च वर्तुलम् ॥ 160 ॥
त्रिपुण्ड्रं चेति कथितं षड्विधं शिवशासनम्।
तस्माच्छैवस्य वेदैकनिष्ठस्याद्यं न विद्यते ॥ 161 ॥
इति चैन्नाजातिलिङ्गमीशशासनमीरितम्।
ब्रह्मविष्णुमहादेवनामभेदविवक्षया ॥ 162 ॥
वर्तुलाद्यखिलं लिङ्गं शिवशासनमीरितम्।
वर्तलं ब्रह्मभक्तानां लिङ्गं बिन्दुस्तथैव च ॥ 163 ॥
वैष्णवानां लिङ्गदीपचतुरश्रार्धचन्द्रकम्।
भस्मना शिवभक्तानां लिङ्गतिर्यक्त्रिपुड्रकम् ॥ 164 ॥
(32)सन्देहसागरागस्त्ये मन्निधाने पराशरे।
देवानां च तदीयानां लिङ्गमुक्तं पृथक् पृथक् ॥ 165 ॥
{32. सन्देहनाश-पाठ.}
स्कान्दे पराशरे कौर्मे नारदीये च गारुडे।
शिवधर्मे च वासिष्ठलैङ्गे कालोत्तरेऽपि च ॥ 166 ॥
प्राजापत्ये मानवीयसंहितायां तथैव च।
शिवराघवसंवादे (33)(वायवीये च मानवे ॥ 167 ॥
{33. अयं पाठः क्वाचित्कः.}
लैङ्गे शिवरहस्ये च) मात्स्ये बोधायनेऽपि च।
तत्प्रणीतस्मृतौ चैव भरद्वाजस्मृतौ तथा ॥ 168 ॥
स्मृतिरत्नावलीनाम्नि धर्मसारसुधानिधौ।
श्रुतिभास्करसंज्ञे च स्मृतिसारसमुच्चये ॥ 169 ॥
भारते नारदीयायां स्मृतौ लोकाक्षिभाषिते।
भस्मधारणमाहात्म्यं सर्वत्रापि प्रकीर्तितम् ॥ 170 ॥
मध्ये मध्येऽत्र सर्वत्र ज्ञानादिफलकीर्तनम्।
भस्मधारण(34)काभ्यत्वसाधकं श्रूयते स्फुटम् ॥ 171 ॥
{34. कार्यत्व-पा.}
ललाटे चैव दोर्द्वन्द्वे गले शिरसि वक्षसि।
त्रिपुण्ड्रं धारयेन्नित्यं भुक्तिमुक्तिफलप्रदम् ॥ 172 ॥
वर्णानामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि वा।
त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबाले बादरेण तु ॥ 173 ॥
उद्धूलनं त्रिपुण्ड्रं च ज्ञानाङ्गत्वेन (35)साधनम्।
आमनन्ति मुनिश्रेष्ठाः श्वेताश्वतरशाखिनः ॥ 174 ॥
{35. सादरम्-पा.}
अयमत्याश्रमो धर्मो यैः समाचरितो मुदा।
तेषामेव शिवज्ञानं संसारोच्छेदकारणम् ॥ 175 ॥
उध्दूलनं त्रिपुण्ड्रं च मायापाशनिवृत्तये।
आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः ॥ 176 ॥
व्रतं पाशुपतं येन सम्यगाचरितं बुधाः।
तस्य ज्ञानं विजायेत तेन पाशविमोचनम् ॥ 177 ॥
उद्धूलनं त्रिपुण्ड्रं च ज्ञानाङ्गत्वेन केवलम्।
आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्यशाखिनः ॥ 178 ॥
अतोऽपि पाशविच्छेदलाभाय ज्ञानसिद्धेय।
उद्धृलं त्रिपुण्ड्रं च मुमक्षुः सम्यगाचरेत् ॥ 179 ॥
सत्यादिभ्यः परा भूतिस्ततस्तिर्यक्त्रिपुण्ड्कम्।
उद्धूलनं चरेदेतन्मुमुक्षुर्ज्ञानसिद्धये ॥ 180 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
प्रमादादपि मोक्षार्थी न त्यजेदिति हि श्रुतिः ॥ 181 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
महापातकनाशाय विधत्ते वैदिकी श्रुतिः ॥ 182 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ॥ 183 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
मङ्गलार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 184 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
पवित्रार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 185 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः ॥ 186 ।
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 187 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
व्रतत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 188 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
दानत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 189 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
तपस्त्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ॥ 190 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतीः ॥ 191 ॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
सर्वधर्मतया पुंसां विधत्ते वैदिकी श्रुतीः ॥ 192 ॥
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 193 ॥
उमादेव्या च लक्ष्म्या च वाण्या चान्याबिरेव च।
सर्वस्त्रीभिंर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 194 ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूर्द्रैरपि च सङ्करैः।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 195 ॥
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गवाः ॥ 196 ॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ 197 ।
उध्दूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये।
तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ 198 ॥
भस्मधारणमाहात्म्यं मया वक्तुं न शक्यते।
गुरुणापि च मे विप्राः कल्पकोटिशतैरपि ॥ 199 ॥
ब्रह्मणा विष्णुना चैव रुद्रेणापि मुनीश्वराः।
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ 200 ॥
अहो मोहस्य माहात्म्यं मुनीन्द्रा ब्रह्मवादिनः।
यन्नरा ब्रह्म सन्त्यज्य कुर्वन्त्यन्यत्समीहितम् ॥ 201 ॥
शिवलिङ्गं मणिः साक्षान्मन्त्रं पञ्चाक्षरं तथा।
भूतिरेवौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ 202 ॥
यत्र भुञ्चीत भस्माङ्गी मूर्खो वा पण्डितोऽपि वा।
तत्र भङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ 203 ॥
सौरसंहितायां--
भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान्।
सर्वपातकयुक्तोऽपि स सद्यः पूयते नरः॥
(36)प्राजापत्यो यथा सर्वपुराणेषु शुभः स्मृतः।
यथा पुरीषु सर्वासु पुरी वाराणासी शुभा॥
{36. प्राजापत्ये--
यथा सर्वपुराणेषु पुरी वाराणसी शुभा।
तथा शुभ्रत्रिपुण्ड्रं च . . . .॥
इत्येव लिखितकोशे व्याडगिमठीये दृश्यते।}
येन विज्ञेन शिरसि त्रिपुण्ड्रं भस्मना धृतम्।
कृतं स्यादकृतं तेन श्रुतं स्यादश्रुतं भवेत्॥
अधीतमनधीतं च त्रिपुण्ड्रं येन वा धृतम्।
वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः॥
वृथा व्रतोपवासौ तु त्रिपुण्ड्रं यो न धारयेत्।
सत्यं शौचं तथा यज्ञस्तीर्यं देवादिपूजनम्॥
सर्वमेतद्भवेद्व्यर्थं यस्त्रिपुण्ड्रं न धारयेत्।
कीकटेष्वपि देशेषु यत्र भूतिविभूषणः॥
मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत्।
दुश्शीलः शीलयुक्तो वा यो वा को वाप्यलक्षणः॥
भूतिशासनसंयुक्तः स पूज्यो राजपुत्रवत्।
छद्मनापि च यो धत्ते भूतिशसनमैश्वरम्॥
सोऽपि यां गतिमप्तोति न तां यज्ञशतैरपि।
सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः॥
विधियुक्तविभूतिं तु स च पूज्यो यथा ह्यहम्।
भस्मना वेदमन्त्रेण त्रिपुड्रं चावकुण्ठनम्॥
यस्य सिध्येत् प्रयत्नेन ब्राह्मण्यं तस्य पुष्कलम्।
वेदवेदान्तनिष्ठानां भस्मनैव त्रिपुण्ड्रकम्॥
सम्यग्ज्ञानप्रदं शीघ्रं सत्यमुक्तं न संशयः।
भस्मना वेदमन्त्रेण त्रिपुण्ड्स्य तु धारणम्॥
महापातकसङ्घाततमसश्चण्डभास्करः।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
सर्वपापहरं प्रोक्तं सत्यमेव न संशयः।
भस्मना वेदमन्त्रेण त्रिपुड्रं चावकुण्ठनम्॥
यस्य सिध्येत् प्रयत्नेन ब्राह्मण्यं तस्य पुष्कलम्।
वेदवेदान्तनिष्ठानां भस्मनैव त्रिपुण्ड्रकम्॥
सम्यग्ज्ञानप्रदं शीघ्रं सत्यमुक्तं न संशयः।
भस्माना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
सर्वपापहरं प्रोक्तं सत्यमेव न संशयः।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम्।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
पार्वत्यास्च महालक्ष्म्या भारत्यास्तृप्तिकारणम्।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
विना मुक्तिर्मनुष्यणां देवानां च न सिध्द्यति।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
विना वेदान्तविज्ञानं जायते नैव कस्यचित्।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तु धारणम्॥
सतां मार्गतया प्राज्ञाः प्रवदन्ति महर्षयः।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य तुधारणम्॥
रक्षार्थं मङ्गलार्थं च प्रवदन्ति महर्षयः।
त्रिपुण्ड्रधारणं मुक्त्वा मुक्तिमिच्छति यः पुमान्॥
विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः।
वेदोदितेन मार्गेण भस्मनोध्दूलनेन च॥
त्रिपुण्ड्रधारणेनैव ज्ञानं सम्यग्विजायते।
ब्राह्मणेनात्मभूतेन शिवेन परमात्मना॥
आदरेण धृतं भस्म त्रिपुण्ड्रोध्दूलनात्मना।
आदिब्राह्मणभूतस्य धर्मं तिर्यक्त्रिपुण्ड्रकम्॥
ब्राह्मणो धारयेन्नित्यंय भुक्तिमुक्तिफलप्रदम्।
वेदसिद्धेषु मार्गेषु त्रिपुण्ड्रं भस्मकुण्ठनम्॥
रुद्रलिङ्गार्चनं चैव मुखमाहुर्मनीषिणः।
सर्वागमेषु निष्ठानां त्रिपुण्ड्रं भस्मकुण्ठम्॥
वरिष्ठं सर्वलिङ्गेभ्य इति सत्यं मयोदितम्।
भस्म श्रेयोऽर्थिभिः सर्वैर्जन्मना लब्धजातिभिः॥
धार्यं त्रिपुण्ड्ररूपेण भस्मना चावकुण्ठनम्।
ब्राह्मणो यः सितेनैव भस्मना चावकुण्ठितः॥
त्रिपुण्ड्रवलिभिर्दीप्तं तं राजा परिरक्षयेत्।
भस्मसञ्छन्नसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम्॥
ये निन्दन्ति नरा राजा हन्यात्तानविचारयन्।
वैणवं धारयेन्नित्यं सोदकं च कमण्डलुम्॥
परित्रमुपवीतं च त्रिपुण्ड्रोद्धूलनं द्विजाः।
एतादृशानि लिङ्गानि यस्य सन्ति द्विजन्मनः॥
सत्यमेव मया प्रोक्तं सफलं तस्य जीवितम्।
उद्धूलनं त्रिपुण्ड्रं च येन नाचरितं मुदा॥
न तस्य ब्रह्मविज्ञानं जायते जन्मकोटिभिः।
उद्धूलनं त्रिपुण्ड्रं च येनैवाचरितं मुदा॥
तस्यैव ब्रह्मविज्ञानं जयते ह्यचिरेण तु।
तस्मान्मुमुक्षुः सततं शान्तिदान्त्यादिभिः सह॥
उद्धूलनं त्रिपुण्ड्रं च श्रौतं नित्यं समाचरेत्।
महानदीषु शुद्धासु तटाके वा यथाविधि॥
स्नायात् पापविशुद्ध्यर्थं भस्मना वा सितेन तु।
अग्निरित्यादिभिर्मन्त्रैर्जाबालोक्तैश्च सप्तभिः॥
त्रिपुण्ड्रधारणं चापि तिर्यक्कुर्याल्ललाटके।
शान्तिदान्त्यादिभिः (37) पुंसः सम्पन्ना अपि सत्तप्रा॥
{37. पुमांस इत्यर्थः.}
त्रिपुण्ड्रधारणाहीना न भविष्यन्ति सर्वथा।
यथा श्रौतेषु धर्मेषु त्रिपुण्ड्रं भस्मकुण्ठनम्॥
रुद्रलिङ्गार्चनं चापि दुर्लभं हि शरीरिणाम्।
त्रिपुण्ड्रधारणं तिर्यक् भस्मनैवावकुण्ठनम्॥
सुदुर्लभमिति ज्ञात्वा खलु सर्वेश्वरोऽकरोत्।
निर्दुः खो निर्मलः साक्षान्नित्यानन्दो जगत्पतिः॥
किमर्थमकरोद्ब्रूहि शिवः साक्षान्निरामयः।
अनियोज्यः सदा कर्ता सदा भोक्ता महेश्वरः॥
किमर्थमकरोद्ब्रूहि साधकस्योदितं मुनेः।
तस्मात् सुदुर्लभं नॄणामिति ज्ञात्वा महेश्वरः॥
त्रिपुण्ड्रधारणं भस्मकुण्ठनं चाकरोत्सदा।
अनिष्पन्नस्य कर्तव्यं त्रिपुण्ड्रादेस्तु धारणम्॥
विशेषेण स्वलाभाय नान्यलाभाय सत्तम।
स्वलाभमन्तरेणापि (38) परापत्त्यर्थमास्तिक॥
{28. परे इदमवश्यं कुर्वन्त्विति बुद्ध्येत्यर्थः.}
निष्पन्नेनापि कर्तव्यं यथा सर्वेश्वरेण तु।
कौर्मे--
स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य प्रशस्तताम्॥
ससर्ज स ललाटं हि तिर्यङ्नोर्ध्वं न वर्तुलम्।र
तिर्यग्रेखाः प्रकाशन्ते ललाटे सर्वदेहिनाम्॥
तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम्।
न तद्ध्यानं न तद्दानं न तज्ज्ञानं न तत्तपः॥
विना तिर्यक् त्रिपुण्ड्राङ्गं विप्रेण यदनुष्ठितम्।
वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत्॥
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने।
न दानेन न यज्ञेन न तपोभिः सुदुष्करैः॥
न तीर्थयात्रया पुण्यं यत्त्रिपुण्ड्रेण लभ्यते।
दानं यज्ञश्च धर्मश्च तीर्थयात्रा च नारद॥
ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हति षोडशीम्।
यथा (39)राजा स्वचिह्नाङ्कं स्वाजनं मन्यते सदा॥
{39. नरः-पा.}
तथा शिवस्त्रिपुण्ड्राङ्कधरं स्वमिव मन्यते।
द्विजातिर्वान्त्यजातिर्वा सितशुद्धेन भस्मना॥
धारयेद्यः त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः।
त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि वा॥
सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि पूज्यते।
नास्मिन् ज्ञानं परीक्षेत न कुलं न व्रतं तथा॥
त्रिपुण्ड्राङ्कितफालो यः पूज्य एव स नारद।
श्रीभूतिमात्रमाहात्म्यं वक्तुं ब्रह्मा न शक्नुयात्॥
किं पुनः संस्कृताग्न्युत्थभूतिं वक्तुं समुत्सहेत्।
शिवमन्त्रात्परो मन्त्रस्तत्त्वं चापि शिवात्परम्॥
शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मतः।
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम्॥
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम्।
अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा॥
यस्मिन् देशे वसेन्नित्यं भूतिशासनसंयुतः।
तस्मिन् सदा शिवस्सोमः सर्वभूतगणैर्वृतः॥
सर्वतीर्थैश्च संयुक्तः सान्निध्यं कुरुते सदा।
यस्मिन् देशे वसेन्नित्यं भूतिशासनसंयुतः॥
सोऽपि दोशो भवेत्पूतः किं पुनस्तस्य मन्दिरम्।
एतानि तानि शिवमन्त्रपवित्रितानि
भस्मानि कामदहनाङ्गविभूषितानि।
त्रैपुण्ड्रकानि राचितानि ललाटपट्टे
(40)लुम्पन्ति दैवलिखितानि दुरक्षराणि॥
{40. कम्पन्ति-पा.}
नारदीये--
शिवप्रियाः शिवे भक्ताः शिवपादार्चने रताः।
त्रिपुण्ड्रधारिणो ये च ते वैभागवतोत्तमाः॥
गारुडे--
भस्मादिग्धशरीराय यो ददाति धनं मुदा।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः॥
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि।
वदन्ति भूतिमाहात्म्यं ततस्तां धारयेद्द्रिजः॥
शिवधर्मे--
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम्।
स सर्वपापनिर्मुक्तः शिवलोके महीयते॥
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम्।
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम्॥
यो हि सर्वाङ्गकं स्नानमापादतलमस्तकम्।
त्रिसन्ध्यमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः॥
कुलैकविंशमुत्तार्य स गच्छेत्परमां गतिम्।
भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम्॥
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत्।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्॥
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः।
महापातकयुक्तो वा युक्तो वा चोपपातकैः॥
भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम्।
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते॥
उक्त्वैवं मुनिदेवेभ्यः स्नातो देवः शिवः स्वयम्।
तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः॥
सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे।
तस्मादेतच्छिवस्नानमाग्नेयं यः समाचरेत्॥
अनेनैव शरीरेण स रुद्रो नात्र संशयः।
दुश्शीलः शीलयुक्तो वा यो वा को वा (41)फलार्थनः॥
{41. फलार्थिकः-पा.}
भूतिशासनसंयुक्तः स पूज्यो राजपुत्रवत्।
वासिष्ठलैङ्गे--
एवं भस्म धृतं येन तस्य पुण्यफलं श्रुणु॥
महापातकसङ्घाश्च पातकान्यपराण्यपि।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा॥
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च।
गृहस्थानां च सर्वेषां सर्वसम्पत्प्रदं मुने॥
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम्।
येन भस्मोक्तमार्गेण न धृतं मुनिपुङ्गवाः॥
तस्य विद्धि मुने जन्म निष्फलं (42)सौकरेर्यथा।
{42. सूकरो यथा-पाठ.}
ये भस्मधारिणं दृष्ट्वा परितुष्टा भवन्ति ते॥
देवासुरमुनीन्द्रैश्च पूज्या नित्यमसंशयः।
भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वा (43)तिष्ठति यः पुमान्॥
{43. कुप्यति-पाठ.}
तं दृष्ट्वा देवराजोऽपि (44)वन्दनं तु करिष्यति।
{44. दण्डनं-पाठ.}
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम्॥
तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा।
यः स्नाति भस्मना नित्यं जलैः स्नात्वा ततः परम्॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवादरात्।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥
आग्नेयं भस्मना स्नानं यतिभ्यस्तु विधीयते।
आर्द्रस्नानाद्वरं (45)भस्मैवार्द्राज्जन्मवधो (46)ध्रुवम्॥
{45. भस्मनत्वार्द्रजन्म-पाठ. 46. बन्धवध इति स्यात्.}
आर्द्रं तु प्रकृतिं विद्यात् प्रकृतिं बन्धनं विदुः।
प्रकृतेस्तु प्रहाणार्थं भस्मना स्नानमिष्यते॥
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते।
यन्नरा (47) भस्म सोपायं त्यक्त्वान्यत्र विचेष्टते॥
{47. भस्मसूपायं-पाठ.}
बहुनोक्तेन किं भस्मधारणं मोहसादनम्।
भस्मना नित्ययुक्तस्य ज्ञानमुत्पद्यतेऽचिरात्॥
पातकी पातकान्मुक्तो भविष्यति न संशयः।
भस्मना सदृशं ब्रह्म नास्ति लोकत्रयेष्वपि॥
रक्षार्थं मङ्गलार्थं च पवित्रार्थं मया पुरा।
भस्म सृष्टं मुने श्रौतं दत्तं देव्याः प्रियेण तु॥
कालोत्तरे--
तस्मादेतच्छिवज्ञानमाग्नेयं यः समाचरेत्।
भवपाशैश्च निर्मुक्तः शिवलोके महीयते॥
ज्वररक्षःपिशाचाश्चाप्यसुरा यातुधानकाः।
कुमारग्रहभूताश्च कूश्माण्डा डाकिनीगणाः॥
ब्रह्मराक्षसमुख्याश्च पूतनाकुष्ठगुल्मकाः।
भगन्दराणि सर्वाणि ह्यशीतिर्वातरोगकाः॥
चतुष्षष्टिः पित्तरोगाः श्लेष्मसप्ततिपञ्चकाः।
व्याघ्रसर्पभयं चैवाप्यन्ते दुष्टमृगा अपि॥
भस्मस्नानेन नश्यन्ति सिंहेनेव मृगादयः।
वायवीये--
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम्॥
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः।
येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम्॥
श्मशानसदृशं तस्मान्न प्रेक्ष्यं पुण्यकृज्जनैः।
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम्॥
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम्।
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते॥
धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते।
किमत्र बहुनोक्तेन वर्ण्यते च पुनः पुनः॥
मुक्त्वा त्रिपुण्ड्रं मोक्षस्य साधनं न हि विद्यते।
यथा कृशानुरहितस्त्वध्वरो न विराजते॥
अशेषसाधनोपेतं भस्महीनं शिवार्चनम्।
मानवीयसंहितायाम्--
प्रातःकाले च मध्याह्ने सायाह्ने च त्रिपुण्ड्रकम्॥
सितेन भस्मना कुर्यात्स रुद्रो नात्र संशयः।
शिवराघवसंवादे--
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात्॥
नाशयेल्लिखितं वैधं पटस्थमिव हव्यभुक्।
कण्ठोपरि कृतं पापं नष्टं (46)स्याच्छङ्खधारणात्॥
{46. स्याद्भस्मधारणादिति स्यात्}
कण्ठे च धारणात्कण्ठभागादिकृतपातकम्।
बाह्वोर्बाहुकृतं पापं (47)वक्षसो मनसा कृतम्॥
{47. वक्षसि इत्यर्थः.}
नाभ्यां (48)पृष्ठकृतं पापं पृष्ठे गुदकृतं हरेत्।
पार्श्वयोर्धारणाद्राम परस्त्र्यालिङ्गनादिजम्॥
{48. गृह्येन्द्रियकृतं पापमित्यर्थः.}
पार्श्वयोर्धारणाद्राम परस्त्र्यालिङ्गनादिजम्॥
तद्भस्मधारणं शस्तं सर्वं तद्वत्त्रिलिङ्गकम्।
ब्रह्मविष्णुमहेशानां (49)त्रेताग्नीनां च धारणम्॥
{49. त्रथग्नीनां चैव-पा.}
गुणलोकत्रयाणां च धारणं तेन वै कृतम्।
भस्मासना भस्मशय्या भस्मोध्दूलितविग्रहाः॥
भस्मस्नानात्सदा पापैर्मुच्यन्ते नात्र संशयः।
अन्यत्र--
दधीचिमन्दिरं प्राप्य मृत्योरास्यगतोऽपि सः॥
तस्य भित्तिसमीपे तु भस्मास्त्येवाभिमन्त्रितम्।
भस्मनि श्वा पपातास्मिन्मार च गतो मृतम्॥
यमः सम्पूज्यावनतो भवान् पुण्यतमो मुनिः।
मद्गेहे भवतस्स्थानं न योग्यं गम्यतां बहिः॥
इत्युक्तवानथ बहिर्गत्वा तस्थौ स कुक्कुरः।
नारदः शङ्करायैतद्विज्ञाप्यानीय तत्र तम्॥
भक्त्या प्रणम्य देवेशं देवायाथ व्यजिज्ञपत्।
अयं माहेश्वरो देव कुरुष्वैनं गणाधिपम्॥
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत्।
वायवीये--
भस्मच्छन्नो द्विजो विद्वान्सर्वपातकसंभवैः॥
दोषैर्विमुच्यते सद्यो मुच्यते नात्र संशयः।
तस्मात्सर्वेषु लोकेषु वीर्यवान् भस्मसंयुतः॥
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम्।
भस्मनिष्ठस्य दह्यन्ते दोषास्तस्याग्निसङ्गमात्॥
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः।
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः॥
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः।
भूतप्रेतपिशाचाश्च रोगाश्चातीव दुस्सहाः॥
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः।
भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात्॥
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरं परम्।
किमन्यदिति वक्त्वयं भस्ममाहात्म्यकारणम्॥
अतीव भस्मना स्नानात्स्वयं देवो सहेश्वरः।
परमास्त्रं च शैवानां भस्म तत्पारमेश्वरम्॥
धौम्याग्रजस्य तपसि व्यापादो यन्निवारितः।
मानवे--
त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरस्सराः॥
भीताः प्रकम्पिताः शीघ्रं गच्छन्त्येव न संशयः।
लैङ्गे--
स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति॥
तथास्य धारणादेव सर्वपापं प्रणश्यति।
यद्यत्कार्यसहस्राणि कृत्वा यः स्नाति भस्मना॥
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्।
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः॥
भस्मस्नायी भवेत्किञ्चित् क्षिप्रं पापैः प्रमुच्यते।
भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः॥
मत्समीपं समागत्य न भूयो विनिवर्तते।
शीवरहस्ये--
समस्ततीर्थौघमयी च काशी
विश्वेश्वरः सर्वसुरोत्तमः स्यात्।
समस्ततत्त्वैकरसा विभूति-
स्तथैव पुण्ड्रोऽयमयं त्रिपुण्ड्रः॥
कश्चित् कण्ठगतप्राणः कालप्राप्तो मृतोपमः।
शेते श्मशाने विवशो दस्युशस्त्रनिषूदितः॥
अथ सेनापुलिन्दानां श्वानुगः कश्चिदेव हि।
धावन्वेगात्तदन्तस्थभस्मपुञ्ज इतस्ततः॥
तच्छयानललाटाग्रन्यस्ताङ्घ्रिश्च ततो ययौ।
एतस्मिन्नन्तरे नेतुं कालमृत्युयमानुगाः॥
आगत्य मुच्यमानासुं प्रत्युपसर्पन्नमुं यदा।
तदानीमेव गणपा नानाप्रहरणोद्यताः॥
विमानेऽप्सरसां बृन्दैस्तत्र तं पर्यवारयन्।
ततस्ते धर्मराट्प्रेष्या दृष्ट्वा भस्माङ्ककारणम्॥
शम्भोः श्मशानं तत्स्मृत्वा हित्वा त्रस्ताश्च लिङ्गिनम्।
प्रदुद्रुवुर्दिशस्ते तं निन्युः शिवपुरं गणाः॥
मात्स्ये--
किं यज्ञैः किमनेकतीर्थकलहैः किं वेदपाठश्रमैः।
किं घोरैर्विविधैस्तपोभिरमलैः किं मन्त्रतन्त्रैर्जपैः॥
किं ध्यानैः किमनेकदाननिकरैः किं साङ्ख्ययोगभ्रमैः।
मोक्षार्ती सितभस्मना च निपुणः कुर्यात्त्रिपुड्रं बुधः॥
बोधायनसूत्रे--
भूत्यै न प्रमदितव्यमि" ति विज्ञायते। तथाप्युदाहरन्ति।
मध्यमानामिकाङ्गुष्ठैस्त्रिपुण्ड्रं भस्मना कृतम्।
तत्त्रिपुण्ड्रं (50)भवेच्छ्वेतं महापातकनाशनम्॥ इति
{50. भवेदेत्-पा.}
अथ त्रियम्बकमिति सर्वाङ्गं संमृजेत्। पूतो भवति। दश पूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्तिं च पुनाति। ब्रह्मणः सायुज्यं सलोकतामाप्नोतीत्याह भगवान् बोधायनः।
बोधायनस्मृतौ--
सद्येन गोशकृद्ग्राह्यं वामेन त्वभिमन्त्रयेत्।
अघोरेण दहेत्पिण्डं ग्राह्मं तत्पुरुषेण तु॥
स्नानमीशानमन्त्रेण कुर्याच्चूडादिपादतः।
आचम्य चतुरासीनः शिवो भूत्वा शिवं जपेत्॥
भरद्वाजः--
प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत्।
प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत्॥
आदाय भसितं श्वेतमग्नहोत्रसमुद्भवम्।
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत्॥
तत आदाय तद्भस्म मुखे तत्पुरुषेण तु।
अघोराख्योन हृदये गुह्ये वामाह्वयेन च॥
सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत्।
सर्वाङ्गं प्रणवेनैव मन्त्रेणोध्दूलयेत्ततः।
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः।
सर्वकर्मसमृध्यर्यं कुर्यादादाविदं बुधः॥
ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि।
तिर्यक्त्रिपुण्ड्रविधिना ललाटे हृदये गले॥
धृत्वाग्निहोत्रजेनैव भस्मना तु प्रसन्नधीः।
पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च॥
धृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम्।
त्रिपुण्ड्रं धारयेन्नित्यं सर्वपापविशुद्धये॥
शूद्रहस्तस्थितं भस्म नहि धार्यं द्विजादिभिः।
शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म जातुचित्॥
अतोऽग्निहोत्रजेनैव भस्मना तु त्रिपुण्ड्रकम्।
नित्यं द्विजोऽप्रमादेन कुर्यात्कर्मविवृद्धये॥
अन्यथा सर्वकर्माणि न फलन्ति कदाचन।
स्मृतिरत्नावल्याम्--
मध्यमानामिकाङ्गुष्ठैर्ललाटे यत्त्रिपुण्ड्रकम्।
तत्त्रिपुण्ड्रं भवेच्छस्तं महापातकनाशानम्॥
धर्मसारसुधानिधौ--
त्रिपुण्ड्रकं सदा कुर्यान्मन्त्रपूतेन भस्मना।
वेदोक्तेन विधानेन शिवसायुज्यमाप्नुयात्॥
स्मृतिभास्करे--
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः।
अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते॥
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात्।
भूतिर्भूतिक्ररी पुंसां रक्षा रक्षाकरी (51)परम्॥
{51. वरम्-पा.}
श्रुतिसारसमुच्चये--
अशुचिर्वाप्यनाचारो मनसा पापमा(52)चरेत्।
शुचिरेव भवेन्नित्यं त्रिपुण्ड्रस्य च धारणात्॥
{52. चरन्.}
श्रीमहाभारते--
आयुष्कामो यथा राजन् भूतिकामोऽथवा नरः।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः॥
नारदीयस्मृतौ--
त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम्।
ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः॥
त्रिपुण्ड्रधारिणं दृष्ट्वा पलायन्ते न संशयः।
मद्यंपीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा।
भस्मच्छ्रन्नो भस्मशय्याशयानो
रुद्राध्यायी मुच्यते पातकेभ्यः॥
सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम्।
तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत्॥
लोकाक्षिस्मृतौ--
मध्यमानामिकाङ्गुष्ठैर्ललाटे भस्मना कृतः।
स त्रिपुण्ड्रो भवेच्छस्तो महापातकनाशनः॥
त्रिपुण्ड्रं धारयेद्यस्तु शिवप्रणतमानसः।
भूर्भुवः स्वस्रयो लोका धृतास्तेन महात्मना॥
त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः।
स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान्॥
प्रयाति परमं ब्रह्म यतो नावर्तते पुनः।
स पङ्क्तिपावनः शुद्धः पूज्यो विप्रैः सुरैरपि॥
कात्यायनः--
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः॥
त्रिपुण्ड्रं यद्यधृत्वा तु कुर्याद्यत्कर्म (52)तद्वृथा।
भस्मनोद्धूलनं तिर्यक्त्रिपुण्ड्रं नित्यसाधनम्॥
{52. तद्धुधाः--पा.}
प्रत्याख्यानं प्रमादस्य श्रूयते तैत्तिरीयके।
भूत्यै न प्रमदीतव्यम्।
स्वसंहितायां वेदार्थ(53)वित्तमो रोमहर्षणः।
भस्मनिष्ठाग्रणीर्भूतिशब्दार्थं स्पष्टमुक्तवान्॥
{53. विक्रमो-पा.}
सत्याद्धर्माच्च कुशलाद्भस्मनोद्धूलनादपि।
त्रिपुण्ड्रधारणाच्चेव स्वाध्यायाध्यनादपि॥
दैवाच्च पित्र्यात्कार्या(54)न्मातृपित्रादिपूजनात्।
{54. मातापित्रोश्च पूजनात्-पा.}
तथान्येभ्यश्च सर्वेभ्यः कर्मभ्यश्च तथैव च॥
स्मार्तेभ्यश्च सुसुक्षुश्चेत्सदा न प्रच्युतो भवेत्।
उक्तसाधनसम्पन्नः स्नानाद्भस्माद्धि गच्छति॥
शिवस्वरूपं परमं भासनाद्भस्म संस्मृतम्।
तदेव स्वीयमायोत्थप्रप्चे जलसूर्यवत्॥
अनुप्रविष्टं तद्रूपं भस्म शैवमुदाहृतम्।
तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना॥
स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः।
स देवः पूजनीयस्तु ब्रह्मविष्णुसुरोत्तमैः॥
भस्मधारणकाम्यत्वसाधकं फलकीर्तनम्।
श्रूयतेऽथर्वशिरसि भस्मद्वितयभासके॥
कालाग्निरुद्रोपनिषद्यप्येतच्छ्रूयते स्फुटम्।
अग्निरित्यादिना भस्म निमृज्याङ्गानि संस्पृशेत्॥
व्रतमेतत्पाशुपतं पशुपाशविमोक्षणम्।
जाबालोपनिषत्साक्षादिदमुक्तवती तदा॥
अग्निर्तयादिना भस्म निमृज्याङ्गानि संस्पृशेत्।
तथोपरि च वै तिर्यक्त्रिपुण्ड्रं धारयेत् बुधः।
कैवल्योपनिषद्यत्याश्रमशब्देन सादरम्।
ज्ञानस्य साधनत्वेन विहितं भस्मधारणम्॥
विविक्तदेशे च सुखासनस्थः
शुचिः समग्रीवशिरश्शरीरः।
अत्याश्रमस्थः सकलेन्दियाणि
निरुध्य भक्त्या स्वगुरुं प्रणम्य॥
श्वेताश्वतरशाखायामप्यत्याश्रमशब्दतः।
ज्ञानस्य साधनत्वेन विहितं भस्मधारणम्॥
तपः प्रभावाद्देवप्रसादाच्च ब्रह्म ह
श्वेताश्वतरोऽथ विद्वान्। अत्याश्रमिभ्यः परमं पवित्रं
प्रोवाच सम्यगृषिसङ्घजुष्टम्।
स्वल्पभस्म महाभस्मनिष्ठेन परमेष्ठिना।
अत्याश्रम(53)पदस्यार्थः संहितायामुदीरितः॥
{53. वरस्यार्थः-पा.}
अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा।
त्रिपुण्ड्रधारणं चैव वदन्त्यत्याश्रमं बुधाः॥
भस्मना प्रतिबिम्बेन चैशेनोद्धूलितं सदा।
महाभस्माभिधं साम्बं बिम्बितं तं शिवं भजे॥
षण्मुनीन्द्रकृतात्युग्रशापपापामयौषधे।
अस्मिन् ग्रन्थे तृतीयांशे तृतीयोऽध्याय ईरितः॥
अविमुक्ताधीश्वराय शिवाय परमात्मने।
मोचकायोन्मयाध्यायमर्पयाम्यन्तरात्मने॥
यज्ज्ञानसाधनत्वेन व्रतं पाशुपताभिधम्।
अथर्वशिरसि प्रोक्तं तं भजे भूतिभूषणम्॥
श्रौतपाशुपता(54)ख्याग्र्यपूर्णानुष्ठानसिद्धये।
विभूतिधारणं विद्धिप्रवक्ष्यामि समासतः॥
{54. भ्यग्र्य-पा.}
बस्माग्रिहोत्रजं वाथ विरजाग्निसमुद्भवम्।
औपासनाग्निजं वाथ समिदग्निसमुद्भवम्॥
आदरेण समादाय शुद्धे पात्रे निधाय तत्।
प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः॥
गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः करे।
प्राणायामत्रयं कुत्वाथाग्निरित्यभिमन्त्रितः॥
तैरेव सप्तभिमन्त्रैस्त्रिवारमभिमन्त्र्य तत्।
ओमापो ज्योतिरित्युक्त्वा ध्यात्वा विष्णुं जलाधिपम्॥
संयोज्य भस्मना तोयमग्निरित्यादिबिः पुनः।
निमृज्य साम्बं ध्यात्वा समुद्धूल्यापादमस्तकम्॥
तेन भावनया ब्रह्मभूतेन सितभस्मना।
ललाटवक्षः स्कन्धेषु स्वा(55)श्रमोदितमन्त्रतः॥
{55. श्रमोचित-पा.}
मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः।
त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः॥
होमदण्डजटाहीनमेतत्पाशुपतं व्रतम्।
उद्धूलनस्य स्नानत्वाद्धस्तौ प्रक्षाल्य तत्परम्॥
द्विराचामेत्त्रिपुण्ड्रस्य धारणान्ते तथैव च।
भस्मनोद्धूलनस्यान्ते त्रिपुड्रान्ते तथैव च॥
शिवराघवसंवादे प्रोक्तमाचमनं स्फुटम्।
उद्धूलयेत्समस्ताङ्गं प्रणेवन विचक्षणः॥
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः।
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः॥
प्रक्षाल्य च ततो हस्तौ क्रमानुष्ठानमाचरेत्।
अत्याश्रमं पाशुपतं शाम्भवं चेति यद्ध्रुवम्॥
कैवल्याथर्वकालाग्निरुद्रोपनिषदीरितम्।
यद्व्रतं विरजाहोमजटादण्डादिसंयुतम्॥
(56)तद्धीनं चेति वेदार्थविद्भिर्द्विविधमुच्यते।
{56. तद्रतं-पा.}
अश्रौताङ्कनपुण्ड्रानत्राद्याचारपरिग्रहे॥
त्यागे च श्रौतभस्मादेः कारणं किं वदेति चेत्।
पापमुत्पत्तिसाङ्कर्यं (57)मुनिशापाच्च विग्रहः॥
{57. शापश्च-पा.}
विष्णुरोषोत्थाब्जयोनिशापश्चाप्यत्र कारणम्।
विद्वद्धृत्कमलादित्ये सर्वमेतत्पराशरे॥
पराशराख्यमुनिना सर्वज्ञेन प्रदर्शितम्।
महापापवतां नॄणां वेदसिद्धे महेश्वरे।
त्रिपुणड्रोद्धूलनादौ च प्रद्वेषश्च प्रजायते॥
रुद्राधिक्यमविज्ञाय ब्रह्मनारायणौ पुरा।
अहं ब्रह्म त्वहं चेति विभ्रान्त्या कुरुतां रणम्॥
क्रोधेन महता युक्तो ब्रह्मा सर्वजगत्पतिः।र
शशाप विष्णुं गर्भस्थो भवेत्यतिविमोहितः॥
त्वद्भक्ता ब्राह्मणाः साक्षात्त्रिपुण्ड्रे भस्मकुण्ठने।
भवेयुर्विमुखा नित्यं वेदसिद्धे महेश्वरे॥
त्रिशूले चतुरश्रे वा वेणुपत्रोपमे तथा।
पण्ड्रान्तरे रता नित्यं भवेयुस्तान्त्रिका द्विजाः॥
आयुधैः शङ्खचक्राद्यैः स्वकीयैरङ्किता द्विजाः॥
अग्नितप्तैर्महामोहाद्भवेयुः स्वांसयोर्द्वयोः।
एवमादायो बहवः शापा सन्ति। अथर्वशिखोपनिषदि षष्ठाध्यायो लिख्यते। तदेतद्रुद्रचरितम्। एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः। स एव जातः स जनिष्यमाणः प्रत्यङ्खास्तिष्ठति विश्वतो मुखः। विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः। तदेतदुपासितव्यम्। वग्वदन्ति तदन्तर्ग्रहणम्। अयं पन्था वितत उत्तरेण येन देवा येन ऋषयो येन पितरः प्राप्नुवनति परमप(दं)रं परायणं चेति।
वालाग्रमात्रं हृदयस्य मध्ये
विश्वं वेदं जातवेदं वरेण्यम्।
तमात्मानं(स्थं) येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम्॥
यो योनिं योनमधितिष्ठत्येको
येनेदं पूर्णं (58)पुरुषेण च सर्वम्।
तमीशानं वरदं देवमीड्यं
(59)निदिध्यायात्तारं शान्तिमत्यन्तमेति॥
{58. यस्मिन्निदं संचविचैति सर्वम्. 59. निचाय्येमां शान्तिं--उपनिषत्पाठः.}
प्राणेष्वन्तर्मनसो लिङ्गमाहु-
र्यस्मिन् क्रोधो या च तृष्णा (60)क्षुधा च॥
तृष्णां हित्वा हेतुजालस्य मूलं
बुध्द्या संञ्चितं स्थापयित्वा तु रूद्रे॥
{60. क्षमा-पा.}
रुद्र एकत्वमाहू रुद्रो हि शाश्वतोन वै पुराणेनेषमूर्जेन तपसा नियन्ता! व्रतमेतत् पाशुपतम्। अग्निरिति भस्म (वायुरिति भस्म) जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म, सर्वं ह वा इदं भस्म, मन इत्येतानि चक्षूंषि भस्मानि। अग्निरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत्। तस्माद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षाय। योऽर्थवशिरसं ब्राह्मणो(नित्यम)धीते सोऽग्निपूतो भवति। स वायुपूतो भवति। (स) आदित्यपूतो भवति। स सोमपूतो भवति। स सर्वेषु तीर्थेषु स्नातो भवति। स सर्वेषु वेदेष्वधीतो भवति। स सर्वेषु तीर्थेषु स्नातो भवति। स सर्वेषु वेदेष्वधीतो भवति. स सर्वैर्ध्यातो भवति। स (61)सर्ववेदव्रतचर्यासु{61. सर्ववेदेषु व्रतचर्यासुचरितो-पा.} चरितो भवति। स सर्वयज्ञ क्रतुभिरिष्टवान् भवति। तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति। गायत्र्याः शतसहस्रं जप्तं भवति। प्रणवानामयुतं जप्तं भवति। रूपे पूरे दश पुर्वान् पूनाति। दशोत्तरानाचक्षुषः पङ्क्तिं पुनातीत्याह भगवानथर्वशिरोऽथर्वशिरः। सकृज्जप्त्वा शुचिः पूतः कर्मण्यो भवति। द्वितीयं जप्त्वा गाणपत्यमाप्नोति। तृतीयं जप्त्वा देवमेवानुप्रविशत्यों सत्यम्। यो रुद्रो अग्नौ यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्तु। (61)अद्य {61. आद्यं-पा.} मूर्धानमस्य (62)संशीर्योऽथर्वा{62. संविद्याथर्बा-पा.} हृदयं च यन्मस्तिष्कादूर्ध्वं प्रेरयन् (63)पवमानोऽथर्वशीर्ष्णः{63. पवमानेतिशीर्षं तद्वा-पा.} तदथर्वशिरो वेदकोशः (64)समत्थिथः{64. समुत्पन्नं.}। तत्प्राणोऽभिरक्षतु। श्रियमन्नमथो मनः श्रियमन्नमथो मनः। विद्यामन्नमथो विद्यामन्नमथो मनः मोक्षमन्मथो मो मोक्षमन्नमथो मनः। लिङ्गमन्नमथो मनो लिङ्गमन्नमथो मनः। इत्यों सत्यामित्युपनिषत्। अथर्वशिरोपनिषत् समाप्ता।
अथं कालग्निरुद्रोपनिषदः संवर्तकोऽग्निर्ऋषिः। अनुष्टुप् छन्दः। श्री विश्वरूपी रुद्रो देवता। रुद्रप्रीत्यर्थे जपे विनियोगः। अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ। अधीहि भगवन् त्रिपुण्ड्रविधिं सतत्त्वं किं द्रव्यं किं स्थानं कियत्प्रमाणं का रेखाः का शक्तिः किं दैवं कः कर्ता किं फलमिति। तं होवाच भगवान् कालाग्निरुद्रः यद्द्रव्यं तदाग्नेयं भस्म सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यनेन वाभिमन्त्र्य मानस्तोकेति समुद्धृत्य जलेन संसृज्य त्रियायुषमिति शिरो ललाटवक्षः स्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्नो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति। तस्मात्तत्समाचारेन्मुमुक्षुरपुर्नभवाय। अथ सनत्कुमारः प्रमाणमस्य त्रिपुण्ड्रधारणस्य त्रिधा रेखा भवति आललाटादाचक्षुषश्चाभ्रुवोरामूध्नोऽनुचक्षुर्मध्यतश्च यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकश्चात्मा क्रियाशक्तिरऋग्वेदः प्रातः सवनं महेश्वरो देवतेति। यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनं सवनं सदाशिवो देवतेति। यास्य तृतीया रेखा साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयं सवनं शिवो देवतेति। एवं त्रिपुण्ड्रं भस्मना करोति यो विद्बान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा समस्तमहापातकोपपातकेभ्यः पूतो भवति। स सर्वेषु तीर्थेषु स्रातो भवति। स सर्वान् द्वान् ध्यातो भवति। स सततं रुद्रमन्त्रजापी भवति। सकलभोगं भुज्य देहं त्यक्त्वा शिवसायुज्यमाप्रोति। नच पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः। कालाग्निरुद्रोपनिषदं यः श्रुत्वाधीते सोऽप्येवमेव भवतीत्यों सत्यम्।
सूतसंहितायां ज्ञानयोगखण्डे--
उपनीतो द्विजो विद्वानिति ब्रह्मचारिणमधिकृत्य--
समिदग्निसमुत्थेन विरजानलजेन वा।
अग्निहोत्रसमुत्थेन भस्मना सजलेन तु॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिर्वा सप्तभिः क्रमात्।
विमृज्याङ्गानि सर्वाणि समुद्धूल्य ततः परम्॥
तिर्यक्त्रिपुण्ड्रमुरसि ललाटे च करादिभिः।
ग्रीवायां च शुचिर्भूत्वा शिवं ध्यात्वा शिवामपि॥
मेधावीत्यादिभिर्मन्त्रैर्धारयेद्ब्राह्मणः सदा। इति।
अस्मिन्नेव खण्डे अथातः संप्रवक्ष्यामि गार्हस्थ्यमिति गृहस्थाश्रमं
प्रस्तुत्य--
उद्धूलनं सकृत्कुर्यात्सर्ववेदोक्तवर्त्मना।
त्रियम्बकेन मन्त्रेण सतारेण शिवेन च॥
त्रिपुण्ड्रं धारयेन्नित्यं गृहस्थाश्रममाश्रितः।
तेनाधीतं श्रुतं सर्वं तेन सर्वमनुष्ठितम्॥
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम्।
त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत्॥
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत्। इति।
अथातः संप्रवक्ष्यामि वानप्रस्थाश्रममिति प्रस्तुत्य--
त्रिपुण्ड्रोद्धूलनं कुर्याद्ग्रहस्थःस्वोक्तमार्गतः। इति।
अथातः संप्रवक्ष्यामि सन्न्यासाश्रममिति प्रस्तुत्य अनन्तरं--
चतुर्विधास्तु विज्ञेया भिक्षवो वृत्तिभेदतः।
कुटीचको मुनिश्रेष्ठ तथैव च बहूदकः॥
हंसः परमहंसश्च तेषां वृत्तिं वदामि ते।
इत्युक्त्वा, कुटीचकश्च सन्न्यस्येत्यादिना गायत्रीं प्रजपेत्सदेत्यन्तेन
कांश्चिद्धर्मानुक्त्वा--
त्रिपुण्ड्रोद्धूलनं कुर्याद्भस्मनैव त्रिसन्धिषु।
शिवलिङ्गार्चनं कुर्याच्छ्रद्धयैव दिने दिने॥
इत्युक्त्वा, अनन्तरं बहूदकश्चेत्यादिना मृत्खनित्रं कृपाणिकामि त्यन्तेन बहूदकस्य कांश्चिद्धर्मानुक्त्वा, सर्वाङ्गोद्धूलनं तिर्यक्त्रिपुण्ड्रं चैव धारयेदित्युक्तम्। अनन्तरं हंसः कमण्डुलुमित्यादिना `एकं तु वैणवं दण्डं धारयेन्नित्यमादरात्' इत्यन्तेन हंसस्यापि कांश्चिद्धर्मानुक्त्वा,
त्रिपुण्ड्रोद्धूलनं कुर्याच्छिवलिङ्गं समर्चयेत्।
अष्टग्रासं सकृन्नित्यमश्नीयात्सशिखं वपेत्। इत्युक्तम्॥
अनन्तरं परमहंसस्त्रिदण्डं चेत्यादिना त्याज्यधर्मानुक्त्वानन्तरं कौपीनाच्छादनं कन्थामित्यादिना वैणवं दण्डमव्रणमित्यन्तेन ग्राह्यधर्मांश्चोक्त्वा
`अग्निरित्यादिभिर्मन्त्रैः कुर्यादुद्धूलनं मुदा'
ओं ओं ओमिति च प्रोच्य सहंसेन त्रिपुण्ड्रकम्॥ इत्यादिकमुक्तम्॥
यज्ञवैभवखण्डे--
सर्वेषामेव भिक्षूणां शान्तिर्दान्तिस्तितिक्षुता।
स्नानं शौचमहिंसा च मिथ्याभाषणवर्जनम्॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं सदा।
त्रिपुण्ड्रधारणं साक्षाद्ब्रह्मविष्णुशिवात्मकम्॥
लिङ्गे शिवार्चनं नित्यं धर्मः प्रोक्तः सनातनैः। इति।
अनेन वचनेन कुटीचकबहूदकहंसपरमहंसानामुद्धूलनस्य त्रिपुण्ड्रधारणस्य च सदा कर्तव्यत्वं त्रिपुण्ड्रस्य त्रिमूर्त्यात्मकत्वं चोक्तम्। तत्रैव--
लिङ्गे शिवार्चनं चैव रूद्राक्षाणां च धारणम्।
अग्निरित्यादिभिर्मन्त्रैर्जाबालोक्तैश्च सप्तभिः॥
सर्वाङ्गोद्धूलनं चैव त्रिपुण्ड्रस्य च धारणम्। इति।
तत्र भस्मधारणस्य मन्त्रसाधनकत्वाल्लिङ्गादाश्रमधर्मत्वं प्रतीयते। तत्रैव--
शिवध्यानं शिवज्ञानं शिवशब्दजपस्तथा।
अग्निरित्यादिभिर्मन्त्रैर्भस्मना चावकुण्ठनम्॥
रुद्राक्षधारणं भक्त्या त्रिपुण्ड्रस्य च धारणम्।
सन्न्यासश्चैव पापानां प्रायश्चित्तं महत्तरम्॥ इति।
अत्रापि पूर्वोक्तलिङ्गात् सन्न्यासविधानाच्चाश्रमधर्मत्वम्॥
सूतसंहितायाम्--
त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च।
गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुण्ड्रकम्॥
मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने।
भस्मना सजलेनैव धारयेच्च त्रिपुण्ड्कम्॥ इति।
अस्मिन्नेव वचने वीप्सापि दर्शिता।
अथ नित्यत्वं सूतसंहितायां--
त्रिपुण्ड्रं धारयेन्नित्यं गृहस्थाश्रममाश्रितः।
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः॥
तत्रैव--
त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमः
समाचरेन्नित्यमतन्द्रितस्तथा।
विशेषतः शङ्करवेदने रतो
भवेदशेषः कथितो मयानघाः॥
वासिष्ठलैङ्गे--
त्रिपुण्ड्रं धारयेन्नित्यं गृहस्थश्च वनाश्रमी।
त्रिपुण्ड्रं धारयेन्नित्यं सन्न्यासाश्रममाश्रितः॥
मानवे--
भूत्यैवोद्धूलनं नित्यं त्रिपुण्ड्रस्य च धारणम्।
(65)विशिष्टं सर्वधर्मेम्यस्ततस्तं नित्यमाचरेत्॥
{65. वरिष्ठं-पा.}
इदं (66)विशिष्टत्वं भस्मनः सदा धार्यत्वम्।
{66. वरिष्ठत्वं-पा.}
सूतसंहितायाम्--
उद्धूलनं त्रिपुण्ड्रं च यैः सदा चरितं मुदा।
त एव शिष्टा विद्वांसो नेतरे मनिपुङ्गवाः॥
अथालङ्घनीयत्वम्--
त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत्।
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत्॥
शङ्करसंहितायाम्--
धार्यं भस्म सदा सद्भिस्त्रिपुण्ड्रोद्धूलनात्मना।
उद्धूलनं त्रिपुण्ड्रं च मनसापि न लङ्घयेत्॥
कौर्मे--
त्रिपुण्ड्रं ब्राह्मणो विद्वान्मनसापि न लङ्घयेत्।
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत्॥
अथ अत्याज्यत्वम्--भूत्यै न प्रमदितव्यमिति तैत्तिरीयके।
सूतसंहितायाम्--
सत्याद्धर्माच्च कुशलाद्भस्मनोद्धूलनादपि।
त्रिपुण्ड्रधारणाच्चैव स्वाध्यायाध्ययनादपि॥
दैवात्पित्र्याच्च कार्याद्वा मातापित्रादिपूजनात्।
तथान्येभ्यश्च सर्वेम्यः श्रौतेभ्यश्च तथैव च॥
स्मार्तेभ्यश्च मुमुक्षुश्चेत्सदा न प्रच्युतो भवेत्। इति।
तत्रैव--
भस्मना वेदसिद्धेन त्रिपुण्ड्रं भस्मकुण्ठनम्।
रुद्रलिङ्गार्चनं चापि मोहतो वापि न त्यजेत्॥
पराशरे--
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहकुण्ठनम्।
रुद्रलिङ्गार्चनं चापि मोहतो वापि न त्यजेत्॥
अथ त्यागे दोषः--बृहज्जाबालोपनिषदि--
ये भस्मधारणं मुक्त्वा कर्म कुर्वन्ति मानवाः।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः॥
महापातकयुक्तानां सर्वजन्मसु सर्वतः।
त्रिपुण्ड्रोद्धूलने द्वेषो जायते सुदृढं बुधाः॥
येषां द्वेषो भवेद्ब्रह्मन् ललाटे भस्मदर्शनात्।
तेषामुत्पत्तिसाङ्कर्यमनुमेयं विपश्चिता॥
ये भस्मधारिणं दृष्ट्वा वाचा निन्दन्ति मानवाः।
तेषां शूद्रेम संभूतिरनुमेया विपश्चिता॥
येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा।
गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः॥
त्रिपुण्ड्रं चे विनिन्दन्ति निन्दन्ति शिवमेव ते।
धारयन्ति तु ये भक्त्या धारयन्ति तमेव ते॥
सूतसंहितायां भुजबलनामकराजानं प्रति सुशीलनामकद्विजवचनम्--
यस्य भस्मनि भूपाल बुद्धिस्तद्धारणेऽपि वा।
न जायतेऽस्य पापस्य लक्ष्मीर्नश्यति तत्क्षणात्॥
दारिद्य्रं च भेवत्तस्य जायन्ते व्याधयस्तथा।
न्यूनान्यङ्गानि पापस्य भवेयुर्नात्र संशयः॥
अथ काम्यत्वप्रापकवचनानि लिख्यन्ते--तत्र भोगमोक्षप्रदत्वं कालाग्निरुद्रोपनिषदि--(67)एति{67. यो विद्वा--पा.} विद्वानिति प्रस्तुत्य सकलं भोगं भुज्य देहान्ते शिवसायुज्यमाप्नोति नच पुनरावर्तते॥
सूतसंहितायाम्--
लाटे चैव दोर्द्वन्द्वे तथैवोरसि बुद्धिमान्।
त्रिपुण्ड्रं धारयेन्नित्यं भुक्तिमुक्तिफलप्रदम्॥
य इदं धारयेद्भस्म मन्त्रितं विधिवन्नरः।
काङ्क्षितान्यस्य सिद्ध्यन्ति नश्यन्ति दुरितान्यपि॥
वायवीयसंहितायाम्--
अग्निरित्यादिभिर्मन्त्रैः षड्भिर्धार्यं द्विजैः क्रमात्।
विमृज्याङ्गानि मूर्धादि चरणान्तं च संस्पृशेत्॥
ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना।
सर्वाङ्गोध्दूलनं कुर्यात्प्रणवेन शिवेन च॥
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वया।
शिवभावं समागम्य शिवयोगं समाचरेत्॥
कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतव्रतम्।
भुक्तिमुक्तिप्रदं चैव पशुत्वं च निवर्तयेत्॥
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम्।
पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः॥
श्रीमहाभारते--
आयुष्कामोऽथवा राजन् भूतिकामोऽथवा नरः।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः॥
अथ मोक्षार्थत्वम्--कालाग्निरुद्रोपनिषदि-तिर्यके तिस्नो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्ववेदेषु वेदवादिभिरुक्तं भवति। तस्मात्तत्समाचारेन्मुमुक्षुरपुनर्भवाय। अथर्वशिरस्यपि दृश्यते। अग्निरित्यादिनेति॥
जाबालोपनिषदि--
चतुर्विधं भस्म पापं निकृन्तति मोक्षं ददातीत्याह भगवान् कालाग्निरुद्रः॥
सूतसंहितायाम्--
उद्धूलनं त्रिपुण्ड्रं च मायापाशनिवृत्तये।
आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः॥
कात्यायनस्मृतौ--
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम्।
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः॥
पराशरोपपुराणे--
भस्म श्रेयोऽर्थिभिः सर्वैर्जन्मना लब्धजातिभिः।
तिर्यक्त्रिपुण्ड्ररूपेण भस्मना चावकुण्ठम्॥
रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नरैः।
कालोत्तरे--
तस्मादेतच्छिवस्नानमाग्नेयं यः समाचरेत्।
भवपाशैश्च निर्मुक्तः शिवलोके महीयते॥
अथ ज्ञानाङ्गत्वं मुण्डकोपनिषदि--
क्रियावन्तः श्रोत्रियाः (68)कर्मनिष्ठाः{68. ब्रह्मनिष्ठाः.} स्वयं जुह्वतः(69)स्वत{69. एकर्षि श्रद्धयन्तः. पा.} एव श्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैश्च चीर्णम्।
तत्रैव--?
वैराग्यातिशयेनैव मोक्षकामेन वै पुनः।
निरस्य सर्वकर्माणि शान्तो भूत्वा मुमुक्षया॥
विरजानलजं भस्म गृहीत्वा वाग्निहोत्रजम्।
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात्॥
विमृज्याङ्गानि मूर्धादिचरणान्तानि सादरम्।
समुद्धूल्य सदाचार्यं प्रणिपत्यात्मविद्यया॥
संसारसागरं घोरं लङ्घयाम्यहमात्मनः।
पराशरोपपुराणे--
वेदवेदान्तनिष्ठानां भस्मनैवावकुण्ठनम्।
सम्यग्ज्ञानप्रदं शीघ्रं सत्यमुक्तं न संशयः॥
तत्रैव--
उद्धूलनं त्रिपुण्ड्रं च येनैवाचरितं मुदा।
तस्यैव ब्रह्मविज्ञानं जायते ह्यचिरेण तु॥
तस्मान्मुमुक्षुः सततं शान्तिदान्त्यादिभिः सह।
उद्धूलनं त्रिपुण्ड्रं च श्रौतं नित्यं समाचरेत्॥
सूतसंहितायाम्--
ज्ञानाङ्गेभ्यः समस्तेभ्यः श्वेतभस्मैकमेव च।
भस्मधारणनिष्ठानां साक्षाद्भस्म शिवाभिधम्॥
प्रकाशते यथा शान्त्या (70)शान्तं वस्तु परात्परम्। इति।
{70. शं नो वस्तु-पा.}
शङ्करसंहितायाम्--
उद्धूलनं त्रिपुण्ड्रं च ज्ञानाङ्गत्वेन सादरम्।
आमनन्ति मुनिश्रेष्ठा श्वेताश्वतरशाखिनः॥
उद्धूलनं त्रिपृण्ड्रं च सम्यगज्ञाननाशनम्।
आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः॥ इति।
येन पाशुपतं सम्यग्व्रतमाचरितं (71)बुधाः।
{71. द्वजाः-पा.}
तस्य ज्ञानं विजायेन घनाज्ञाननिवारकम्॥ इति।
सौरसंहितायाम्--
अथातः सम्प्रवक्ष्यामि तवाहं करुणाबलात्।
ज्ञानोपायं समासेन वेदेनैव प्रदर्शितम्॥
शान्तिर्दान्तिस्तु सन्न्यासः परहंससमाह्वयः॥
द्वन्द्वादीनां सहिष्णुत्वमैकाग्र्यं भस्मकुण्ठनम्।
त्रिपुण्ड्रधारणं तिर्यक्छ्रध्दा रुद्रस्य पूजने॥ इति।
तत्रैव--
सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्धनम्।
तथा तद्विषयज्ञानं तथैवं च शिरोव्रतम्॥
सर्वशास्त्रश्रुतं तत्त्वविज्ञानं व्रियते तु यः।
आचरेत्स विशेषेण नित्यं प्रीत्या शिरोव्रतम्॥
शिरोव्रतविहीनस्तु सर्वधर्मसमन्वितः।
अपि ब्रह्मात्मविद्यायां नाधिकरी न संशयः।
शिरोव्रतमिदं सर्वपापकान्तारदाहकम्॥
साधनं (72)शिवविद्यायास्ततस्तत्सम्यगाचरेत्।
{72. सर्वविद्यायाः-पा.}
श्रुतिराथर्वणी सूक्ष्मा सुसूक्ष्मार्थप्रकाशिका॥
यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत्।र
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना॥
सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम्।
एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम्॥
यावद्विद्योदयं तावत्तस्य विद्या खलूत्तमा।
अथ वरिष्ठत्वं सूतसंहितायाम्--
अतश्च संक्षेपमिदं वदामि
श्रुतिप्रमाणं शिव एव केवलः।
वरिष्ठ उक्तः सितभस्मकुण्ठनं
विशुद्धविद्या च नचेतरत्परम्॥
पराशरोपपुराणे--
सर्वागमेषु निष्ठानां त्रिपुण्ड्रं भस्मकुण्ठनम्।
वरिष्ठं सर्वलिङ्गेभ्य इति सत्यं मयोदितम्॥
सर्वेषामेव भूतानां श्रौतं लिङ्गमनुत्तमम्।
सितेन भस्मना कुर्यात् ललाटे तु त्रिपुण्ड्कम्॥
शङ्गरसंहितायाम्--
यथा देवस्य माहात्म्यं दुर्ज्ञेयं पार्वतीपतेः।
तथैव भस्मनः प्रोक्तं वेदवेदान्तपारगैः।
बृहन्नारदीये--
शिवप्रियाः शिवासक्ताः शिवपादार्चने रताः।
त्रिपुण्ड्रधरिणो ये च ते वै भागवतोत्तमाः ॥ इति।
सौरसंहितायाम्--
भस्मनोद्धूलनं तिर्यक्त्रिपुण्ड्रं शिवपूजनम्।
प्राधान्येन पुराणानि प्रवदन्ति हि सादरम्॥ इति।
अत्याश्रमसमाख्यं यद्व्रतं पाशुपतं व्रतम्।
वेदान्तेषु समस्तेषु तत्सारतरमुत्तमम्॥
ब्राह्मणस्य विशेषेण धर्मो धर्मपरस्य च।
भूत्यैवोद्धूलनं यच्च त्रिपुण्ड्रस्यैव धारणम्॥ इति च।
अथ पापनाशकत्वं कालाग्निरूद्रोपनिषदि--
विपुण्ड्रं भस्मना करोति यो विद्वान् ब्रह्मचारी गृहस्थो वानप्रस्थो यतिर्वा स समस्तमहापातकोपपातकेभ्यः पूतो भवति। सर्वान् देवान् ध्यातो भवति। सततं रुद्रजापी भवति।
भरद्वाजस्मृतौ--
प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववदित्युपक्रम्य उद्धृलनं त्रिपुण्ड्रं च सप्रकारमुक्त्वा, उपसंहारे--
सर्वमेतत्त्रिपुण्ड्रं स्याच्छ्रौतं कर्मसु पावनम्।
त्रिपुण्ड्रं धारयेन्नित्यं सर्वपापविशुद्धये॥
बृहज्जाबालोपनिषदि--
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम्।
स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषकम्॥
स्पृष्ट्वा तथाविधानन्यान् भस्मस्नानं समाचरेत्।
तत्रैव--
त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः।
सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि मुच्यते॥
पराशरोपपुराणे--
भस्मशायी भवेन्नित्यं भस्मच्छन्नस्त्रिपुण्ड्रधृक्
रुद्राध्यायी भवेन्नित्यं मासमेकमतन्द्रितः।
प्रणवं वा जपेन्नित्यं सदा पञ्चाक्षरं तु वा।
प्रायश्चित्तं भवेदेतद्रहस्यं स्यान्न संशयः॥
वासिष्ठलैङ्गे--
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम्।
तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा॥
भविष्यत्पुराणे--
महापातकयुक्तो वा युक्तो वा सर्वपातकैः।
भस्मस्नाननिषेवेण मुच्यते सर्वपातकैः॥
वासिष्ठलैङ्गे--
एवं भस्म धृतं येन तस्य पुण्यफलं श्रुणु।
महापातकसङ्घाश्च पातकान्यपराण्यपि।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा।
तेत्रैव--
यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम्।
ब्रह्मचारी गृहस्तो वा वानप्रस्थोऽथवादरात्॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम्।
बहुनोक्तेन किं भस्मधारणं मोक्षसाधनम्॥
भस्मना नित्ययुक्तस्य ज्ञानमुत्पद्यतेऽचिरात्।
पातकी पातकान्मुक्तो भविष्यति न संशयः॥
नारदीयस्मृतौ--
अयत्नेनैव पापानां समस्तानां समासतः।
शुद्धिहेतुं प्रवक्ष्यामि तवाहं करुणाबलात्॥
वर्णाश्रमपरिभ्रष्टः श्रुत्युक्तेनैव वर्त्मना।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
अग्निकर्मपरित्यागी श्राद्धकर्मविवर्जितः।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
परदाराभिगामी च परद्रोही परार्थहृत्।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
पाषण्डः पिशुनः कष्टः कलत्रस्यापराधकृत्।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
तैलताम्बूलपिण्याकगन्धारामादिविक्रयी।
त्रिपण्ड्रधारणादेव भस्मना पूयते नरः॥
ब्रह्मविष्णुशिवादीनां देवानामपि दूषकः।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
मर्यादाभेदकस्तीर्थदूषकः कुण्डकाशनः।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
ऊर्ध्वपुण्ड्राङ्कुशाश्वत्थपत्रवर्तुलवज्रधृक्।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
अङ्कितः शङ्खचक्राद्यैः शरीरे देवतायुधैः।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः॥
न केवलं त्रिपुण्ड्रधारणं भस्मनिष्ठस्यैव पापनिवर्तकम्। किं तु भस्मनिष्ठपूजयितुरपि, संहितान्तरे--
त्रिपुण्ड्रधारिणः पादौ प्रक्षालयति यः पुमान्।
सर्वपातकयुक्तोऽपि स सद्यः पूयते नरः॥
बृहज्जाबालोपनिषदि--
विभूतिर्भसितं भस्म क्षारं रक्षेति चात्मनः।
भवन्ति पञ्च नामानि पञ्चभिर्नाडिभिर्भृशम्॥
ऐश्वर्कारणाद्भूतिर्भस्म सर्वाघभक्षणात्।
भासनाद्भसितं प्रोक्तं क्षारणात्क्षारमापदाम्॥
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारमहाभीतिभ्यो रक्षणाद्रक्षेति।
कौर्मे--
एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः।
(73)एतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे॥
{73. व्रतं-पा.}
स तेन मुनिवर्येण व्याहृतो मधुसूदनः।
तथैव तपसा देवो रुद्रमाराधयन् प्रभुम्॥
भस्मोद्धूलितसर्वाङ्गो जटावल्कलसंयुतः। इति।
अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः।
उवास वत्सरं कृषअणः सदा पाशुपतव्रती॥
भस्मोद्धूलितसर्वाङ्गो रुद्रध्यानैकतत्परः।
आराधयन् हरिः शम्भुं कृत्वा पाशुपतव्रतम्॥ इति च।
पाद्मे--
अथ रामगिरौ रामः पुण्ये गोदावरीतटे।
शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि॥
भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः।
अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः॥
अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि।
भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः॥
सौरसंहितायां रुद्रलोकं प्रस्तुत्य--
तत्रैव देवदेवेशं शङ्करं चन्द्रशेखरम्।
प्रणवाद्यभिमानिन्यो देवताः पर्युपासते॥
प्रणवः सर्वमन्त्राणामाधारः परमात्मनः।
वाचको जटिलः शुद्धो भस्मोद्धूलितविग्रहः॥
केयूरकटकोपेतः पुण्ड्रत्रयविराजितः।
व्याहृतिः परमा देवी विशेषेण विमुक्तिदा॥
त्रिपुण्ड्रावलिभिर्दीप्ता भस्मनैवावकुण्ठिता।
सावित्री च महाभागा कुण्डलद्वयशोभिता॥
प्रसन्नवदना दिव्या जटाडूटधरा शुभा।
भस्मदिग्धशरीरा च पुण्ड्रत्रयविबूषिता॥
अन्याश्च वैदिका मन्त्राः सकला बहुकामदाः।
भस्मसञ्छन्नसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः॥
रुद्राक्षमालाभरणा जटाजूटधरा (74)मुदा।
{74. शुभाः-पा.}
सूतसंहितायाम्--
एतस्मिन्नन्तरे श्रीमान् महाकारुणिकोत्तमः।
कृष्णाजिनोत्तरीयश्च आषाढेन विराजितः॥
भस्मोद्धूलितसर्वाङ्गः शुद्धतिर्यक्त्रिपुण्ड्रधृक्।
रुद्राक्षमालाभरणो जपन् पञ्चाक्षरं मुदा॥
शिष्यैस्तादृग्विधैर्युक्तो महात्मा स्वयमागतः। इति।
सत्रावसाने सन्नद्धाः' इति प्रस्तुत्य ऋषिवर्णनावसरे--
ऋषयो मृदवः स्वस्थाः सर्वद्वन्द्वविवर्जिताः।
रुद्राक्षमालाभरणाः सितभस्मावकुण्ठिताः॥
त्रिपुण्ड्रावलिभिर्दिप्ता जटावल्कलसंयुताः।
लिङ्गार्चनपरा नित्यं शिवस्यामिततेजसः ॥ इति।
विशिष्टधर्मग्रहणार्थिनः कावषेयानृषीन् प्रस्तुत्य--
गत्वा हिमवतः पार्श्वं त्रिकालस्नानसंयुताः।
भस्मोद्धूलितसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः॥
रुद्राक्षमालाभरणा जटावल्कलधारिणः। इति।
पुरा श्वेतादिऋष्यन्ता मुनयो मुनिसत्तमाः।
सङ्ख्या च शतमेतेषां सह द्वादशसङ्ख्यया॥
त एते भस्मदिग्धाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः।र
रुद्राक्षमालाभरणा रुद्राराधनतत्पराः॥ इति च।
ब्रह्मवैवर्ते--
धार्यं भस्म सदाग्निहोत्रजमिदं यद्वैदिकं वैदिकै-
स्तिर्यक्पुण्ड्रतया ललाटफलके वक्षस्स्थले मस्तके।
बाह्वोर्मन्त्रपुरस्सरं क्रतुशतं तैरेव सम्यक्कृतं
स्नानं तीर्थसहस्रकोटिषु धरा दत्तानवद्याखिला॥
नवर्तुलं चोर्ध्वमुखं त्रिशूलं
दीपार्धचन्द्रास्रचतुष्कमन्यत्।
न धारयेद्भस्म जलेन चान्यैः
पतेद्दधानो रकायुतेषु॥
स्वाङ्गं शूलरथाङ्गशङ्खकुलिशैस्तप्तं न कुर्याद्द्विजः
कुर्वन्नध्ययने च कर्मकरणे योग्यो न संभाषणे।
संयुक्तैः सह याति लाञ्छिततनुर्घोरं महारौरवं
निन्दन् भस्म न भस्मधारणमिदं (75)स्पर्धां दधानोऽपि च॥
{75. त्वर्धं-पा.}
विप्राणां तनवोऽखिलामरगणैरध्यासिताः सर्वत-
स्तप्तास्ता अभिताडिता उपहताश्छिन्नाश्च विद्धाश्च यैः।
देवा घ्नन्ति हि तान्व्यथाविलु(76)लितांश्चैतांश्च सवात्मना
(77)तत्सन्तापयितारमात्मविषयान्निस्सारयेद्भूपतिः॥
{76. लिताः प्रेत्यात्र सर्वात्मना-पा. 77. तप्तं तापयिता-पा.}
तिर्यग्भस्म मृदा तथोर्ध्वमुचितं धत्ते तयोर्व्यत्यये
विप्रध्वंसनमन्यधारणकृता भस्मापि धार्यं ततः।
अन्यस्योपरि भस्मधारणकृतौ मोहादधो निष्पते-
द्यत्तच्चन्दनकुङ्कुमाद्यपि च मृत्स्याल्लौकिकं केवलम्॥
विप्रश्चन्दनकुङ्कुमं पुनरिदं भस्माग्निहोत्रोद्भवं
गृह्याग्निप्रभवं तथा विरजजं भूयः समिद्वह्निजम्।
रुद्राग्निस्थितमादरेण दधता तिर्यक्समन्त्रं क्रमा-
दग्निः सप्ततमुष्टुहीति मुनिभिः फालांसवक्षस्वपि॥
श्रौताग्नेर्विरजानलात्समुदितं सर्वस्य भस्मोद्भवं
गृह्याग्नेर्गृहिणः समिद्धुतवहाद्यद्वर्णिनः पाण्डुरम्।
मुक्तानां नियतं च भस्म विविधं (78)मोहोद्भवोत्सारणं
सम्यक् साधुगुरोरवाप्य सकलं धार्यं न चेद्दुःखभाक्॥
{78. मोहाद्भवेत्पातकी-पा.}
तद्भस्मोचितमुक्तमनत्रवशतो धार्यं तथोद्धूलनं
कृत्वा यस्य तयोर्न सक्तिरुदभूद्द्वेषोऽप्यसौ पातकी।
दग्धो गौतमशापवह्निपतितो नान्योऽनवद्यं शिवं
रुद्राक्षं शिवभक्तिमीश्वरकथां द्विष्यान्नरो भस्म च॥
क्रुद्धो गौतमनामको मुनिवरो विप्रं शशापोग्रवा-
ग्दग्धस्तेन शिवे शिवार्चनविधौ तद्भस्मरुद्राक्षयोः।
ईशस्थानगतौ शिवस्तुतिकथालापेषु माहेश्वरे
देवे ब्ह्मविदि द्विषन्ति बहुधाऽमोघा हि वाणी सताम्॥
प्रीत्युक्तं मुनिभिः स्मृतौ समुदितं धर्म्यं क्रमानुष्ठितं
कार्यं सत्पुरुषैश्च धर्म्यमपि यत्त्यक्तं न कुर्याद्बुधः।
देशे यः खलु देशधर्म उचितः कार्योऽपरैर्नेष्यते
तस्माद्भस्म समस्तदेशकुलजैर्धार्यं श्रुतेर्वाक्यतः॥
केशश्मश्रुविधारणं च शिरसः संवेष्टनं प्रावृत्ति-
र्वक्षोजस्य तथा स्त्रियः पथि (79)पुनर्मृद्भाण्डसंवाहनम्।
सन्यासं पलपैतृकं जलनिधेरुल्लङ्घनं देवरा-
त्पुत्त्रोत्पादनमक्षतोपयमनं भूयः कलौ वर्जयेत्॥
{79. मनाक् मृ-पा.}
गोमेधं नरमेधकं हयमखं प्रस्थानयात्रां परां
वानप्रस्थकनैष्ठितत्वमखिलं वर्ज्यं कलौ वैदिकैः।
योगस्था विजितेन्द्रियाः श्रुतिशिरस्सङ्घोक्तमर्थं परं
भक्त्याराध्य शिवं व्रजेन्निजतनौ रुद्राक्षभस्मावहन्॥
श्रौतं भस्म धृतं ललाटफलके दृष्टिं समुत्पादये-
न्मूर्ध्न्येतद्विनोति चन्द्रशकलं कण्ठेऽसितं लाञ्छनम्।
पार्श्वे योषितमातनोति भुजयोरेणं त्रिशूलं तनौ
व्याघ्रेभाजिनराजताद्रिवृषभानन्तेऽनवध्यर्चयेत्॥
लिङ्गं दिव्यमणिः सितं च भसितं सिद्धौषधं वैदिकं
पञ्चार्णः प्रणवेन साध्यफलदो मन्त्रो मनूनां परः।
मुक्तिस्त्रीमुखवश्यकर्मणि पटुस्तस्यां तु सक्तः स्वयं
जह्यान्नैव कदापि यावदवशात्सम्पत्स्यते (80)शाश्वतम्॥
{80. सा स्वयम्-पा.}
भस्म श्रौतमहोदयं नरवरो यत्रास्ति तत्रेश्वरो
गौर्या यस्तु तदर्पयत्यनुदिनं तेनार्चितः शङ्करः।
तस्मै दत्तमथाक्षयं स हि वरो मुक्तोऽनवद्यः परो
मुक्तिं नैव लभेत्सहस्रजननं जातोऽप्यभस्माक्षभाक्॥
रुद्राग्नेर्जगतां हिताय परमं वीर्यं समुत्थं शिवो
रक्षार्थं परिपालनार्थमददाद्देव्यै च भस्मामलम्।
सद्यो भूतपिशाचराक्षसगणप्रेतोरगक्ष्वेलहृत्
कीटव्याघ्रकफोष्णमृत्युशमनं सर्वर्धिमन्मङ्गलम्॥
भस्मस्नानमनेकपापशमनं मुख्यं जलस्नानतो
बाह्याभ्यन्तरशुद्धिकृद्भवभयप्रध्वंसकृद्दर्शनात्।
सर्वव्याधिमलापकर्षणपटु(:)श्रौतानलोत्पत्तिम-
द्विष्णुब्रह्मशतक्रतुप्रभृतिभिर्मूर्ध्नानवद्यं धृतम्॥
आदाय वैतानिकभस्म शुद्धं
समित्समिद्धं विरजाग्निजं च।
औपासनाग्निप्रभवं विशुद्धं
निधारयेद्दारवचेलपात्रे॥
प्रक्षाल्य पादौ च विमृज्य तोयं
पवित्रपाणि- सुसमाहितश्च।
निवेश्य दर्भेष्वथ पूर्ववक्र
उदङ्मुखो भस्म करे निभाय॥
पञ्चब्रह्ममनुं जपेदथ पुनः प्राणान्नियम्य त्रिधा
अग्न्याद्यैरखिलैस्त्रिवारणथ तैः सम्मन्त्रयेत्सप्तभिः।
ओमापः सलिलेन योज्य च जपन्नग्न्यादिभिर्मार्जये
दापादाच्छिरसो भुजद्वयमपि ध्यायंश्च साम्बं शिवम्॥
उद्धूलनं पापहरं पुरस्ता-
त्स्नानोपमं त्वाचमनं विधाय।
अग्न्यादिभिस्तत्सितभस्मवारि
मध्याङ्गुलीभिस्त्वथवाक्षिमानम्॥
अनामिकाङ्गुष्टकमध्यमाभि-
स्त्रियम्बकेनायुतपञ्चवर्णैः।
लिखेल्ललाटे ह्यनुलोमकेन
विलोमतो वा विधिवत्त्रिपुण्ड्रम्॥
यथा ललाटे दृदये च कुक्षौ
सुदोर्द्वये (81)ब्रह्महरीश्वरीयम्।
अयं गृहस्थस्य वनं गतस्य
विधिः पुनर्वर्णिन उच्यते च॥
{81. ब्रह्मकरीश्वरीयम्-पा.}
समित्समिध्दं विरजाग्निजं च
वैतानिकं वर्णिन एव नान्यत्।
पूर्वोक्तमन्त्रैर्जलमिश्रभस्म
त्रियायुषेणैव भवेच्च धार्यम्॥
भिक्षुस्त्रिरोङ्कारयुतात्ममनत्रं
हंसेन पुण्ड्रं विदधीत तिर्यक्।
शूद्रः शिवेनैव नमोन्तकेन
कुर्यात्त्रिपुण्ड्रं परिधूलनं च॥
सच्छ्रोत्रियाणां पचनाग्निजेन
वस्त्रावधूतेन सितेन नित्यम्।
दावाग्निजं शूद्रजनात्परेषा-
ममनत्रकं धार्यमुखशन्ति भस्म॥
कन्यानार्योर्भस्म पञ्चाक्षरेण
ध्यात्वा साम्बं धार्यमुद्धूलनं च।
कार्यं प्राहुः केवलं मोक्षसिध्द्यै
भस्म श्रौतं नो समिल्लौकिके द्वे॥
विप्राणां सलिलेन धार्यमुचितं भस्म त्रिकालेष्वपि
स्त्रीभिक्षोर्जलवर्जितं (82)व्रतिवनस्थानां च नानाविधम्।
दीक्षाहीननृणां च वारिसहितं मध्याह्नतः प्राक्स्मृतं
सर्वेषां सममेतदाहुरपरे सन्तो(83) न विद्येद्विधिम्॥
{82. प्रतिवन-पा. 83. अनवद्ये विधिम्-पा.}
हित्वा पक्कमतीव संहिततमं यद्भस्म तत्पाण्डुरं
भस्मालोलितमुत्तमं तरुसिलामृत्तैजसैर्निर्मिते।
पात्रे चेलवरे निधेयमवनौ येनापतेन्नाप्यणु-
र्दोषायैव भवेत् क्षितौ निपतितं मूर्ध्नां धृतं मुक्तिदम्॥
स्नात्वाचम्य करे निधाय भसितं तद्यादिभिर्मन्त्रितं
तैरुद्धूलनमाचरेदथ शिरश्चैशानतः संमृजेत्।
वक्रं तत्पुरुषैरघोरहृदयं वामेन नामिं परं
सद्याद्यैरखिलाङ्गधूलनमिदं स्नानं पदाग्नेयकम्॥
शुद्धं समादाय ततोऽन्यवस्त्र-
संस्पर्शनं वै पयसो द्विवारम्।
स्नानं महापातकहारि नॄणां
जलैरशक्तस्य च शुद्धिदं च॥
सूत्राणि चास्य श्रुतयो वदन्ति
माहात्म्यमेतस्य च भस्मनोऽन्ये॥
अग्निर्तायदिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत्। व्रतमेतत्पाशुपतमित्यारभ्य इत्याह भगवान् कालाग्निरुद्र इत्यन्तेन प्रशांसिम्।
शतमपि (84)न समानं भस्ममाहात्म्यमेवं
मुनिभिरिति च गीतं प्रोच्यमानं कदापि।
नच पुनरुपयायात्पार(85)मद्यानवद्ये
शिवगिरिमहिमा (86)स्यात्सा च साक्षाद्विभूतिः॥
{84. प्रशंस्यमानं-पा. 85. मद्धा-पा. 86. सा सा च-पा.}
महात्म्यं भस्मनः पुण्यं रुद्राक्षस्याघनाशनम्।
शिवनामोच्चारणस्य तथा शैवव्रतस्य च॥
सिवपुण्यस्य माहात्म्यं द्रोहस्याकरणं प्रभोः।
माहात्म्यं शिवपूजायाः शिवयोगस्य वैभवम्॥
शिवज्ञानस्य माहात्म्यमेतत्सर्वं द्विजोत्तमाः।
उपदिष्टमगस्त्याय स्कन्देनामिततेजसा॥
कथयिष्यामि तद्वोऽद्य यथावत्तत्कृपाबलात्।
कल्पानुकल्पोपकल्पभेदैर्भस्म त्रिधा स्मृतम्॥
भर्जनात्सर्वपापानां स्मरणाच्च तथेशितुः।
भस्म चेति सपाख्यातं भुक्तिमुक्तिफलप्रदम्॥
य इदं धारयेद्भस्म मन्त्रितं विधिवन्नरः।
काङ्क्षितान्यस्य सिध्द्यन्ति नश्यन्ति दुरितान्यपि॥
यथा देवस्य माहात्म्यं न ज्ञेयं पार्वतीपतेः।
तथैव भस्मनः प्रोक्तं वेदवेदान्तपारगैः॥
सत्यं ज्ञानं दया श्रद्धा वह्निर्वायुर्जलं स्थलम्।
व्योमादीनि च सर्वाणि भस्मान्येतानि वै द्विजाः॥
ब्रह्मविष्णुसुखैर्देवैर्ऋषिभिश्च तपोधनैः।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च सङ्करैः॥
स्त्रीभिश्च धार्यमेतद्वै भस्मात्यन्तं शिवप्रियम्।
अष्टैश्वर्याणि सिध्द्यन्ति धारणादस्य मन्त्रतः॥
अष्टापि सिद्धयः शम्भौ भक्तिः परमकारणे।
सर्ववश्यकरं चैतत्सर्वसौभाग्यदं परम्॥
भूतप्रेतपिशाचाश्च राक्षसा दुर्जनाः परे।
भस्मदर्शनमात्रेण त्रस्ता धावन्ति दूरतः॥
तथा भस्मावकुण्ठाद्यैर्नश्यन्ति व्याधयः क्षणात्।
धार्यं भस्म सदा सद्भिस्त्रिपुण्ड्रोद्धूलनात्मना॥
उद्धूलनं त्रिपुण्ड्रं च मनसापि न लङ्घयेत्।
तथाप्यज्ञानविच्छित्तिर्ज्ञानादेव तु केवलात्॥
अज्ञानं (87)तुच्छविज्ञानं बाधकं खलु नेतरत्।
{87. अज्ञानं तुच्छविज्ञानात्साधकं-पा. अज्ञानस्य तु विज्ञानं इति स्यात्.}
येन पाशुपतं सम्यग्व्रतमाचरितं द्विजाः॥
(88)तस्य ज्ञानं विजायेत विनाऽज्ञाननिवारकम्।
उद्धूलनं त्रिपुण्ड्रं च ज्ञानत्वेनैव केवलम्॥
{88. भस्मज्ञानं विजायेत तस्याज्ञाननिवारकम्। इति स्यात्.}
आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्य(89)साक्षिणः।
{89. शाखिनः-पा.}
अतोऽप्यज्ञानविच्छेदलाभाय ज्ञानसिद्धये॥
उद्धूलनं त्रिपुण्ड्रं च मुमुक्षुः सम्यगाचरेत्।
समागते पुरा तस्मिन् प्रलये माधवस्तदा॥
वटपत्रे स्वयं शिश्ये समुद्रजलमध्यगे।
तदानीं भगवानीशस्तत्रासावाययौ स्वयम्॥
अङ्गुष्ठदघ्नो यस्यासीदम्भोधिः सुमहानपि।
तं दृष्ट्वा पुरुषश्रेष्ठं हरं तं माधवस्तदा॥
को भवानिति पप्रच्छ मोहाविष्टनिजान्तरः।
तदा तस्मै ददौ भस्म पुरुषोऽयं (90)महाद्विजाः॥
{90. महान्द्विजाः-पा.}
गृहीत्वा तद्धरिर्धृत्वा ललाटेऽभक्षयच्च ह।
तदानीमात्तविज्ञानः स्वात्मानं स्मृतवानयम्॥
ददर्श च महादेवं चन्द्रार्धकृतशेखरम्।
युवानं पुरुषश्रेष्ठं त्रिणेत्रं कालकन्धरम्॥
तं दृष्ट्वा देवमीशानं समुत्थायाशु माधवः।
प्रणम्य दण्डवद्भक्त्या पप्रच्छागमनं प्रभोः॥
शिवः--
स्रष्टारं सर्वलोकानां स्रष्टुमभ्यागतोऽस्म्यहम्।
तत्त्वं भार्या भवाश्वद्य जनार्दन ममाज्ञया॥
ममैव शक्तिस्त्वं विष्णो त्वत्तोऽस्तु जनिरस्य च।
एवमुक्त्वा विधायैनं पत्नीं सर्वेश्वरस्तदा॥
रमयामास विश्वात्मा विश्वसंरक्षणोद्यमः।
तदापतच्छिवस्याशु वीर्यं काञ्चनसन्निभम्॥
तन्नाभिकमलाद्ब्रह्मा पञ्चास्योऽजनि भूसुराः।
ससर्ज स प्रजाः सर्वाः सर्वदेवाज्ञया प्रभुः॥
सोऽहंकारवशात्पश्चाद्भैरवेणाम्बुजोद्भवः।
निकृत्तैकशिरास्तस्माच्चतुर्मुखसमाह्वयः॥
भस्मधारणमात्रेण विष्णोरपि महीसुराः।
विनष्टं हि घनाज्ञानं पुत्रोऽप्यासीच्चतुर्मुखः॥
पुरा सर्वान् सुरान्वीक्ष्य वीरभद्रो महाबलः।
सर्पासुरेण घोरेण (91)पञ्चमास्यासुरेण च॥
{91. पञ्चास्येनासुरेण च इति स्यात्.}
पापेनाग्न्यसुरेणापि मारितान् क्रूरकर्मभिः।
भस्मनोज्जीवयामास विरुद्धान् प्रक्षिपन् द्विजाः॥
भस्मावकुण्ढिततनोर्वामदेवमहामुनेः।
(92)अङ्गानुषङ्गमात्रेण यवनानामधीश्वरः॥
{92. अङ्गेन सङ्गमात्रेण-पा.}
अनेकजन्मसंसिद्धमहापातककञ्जुकः।
अत्यजद्ब्रह्मरक्षस्त्वं तथा मोक्षमवाप्तवान्॥
द्राविडेषु द्विजः कश्चित्पतितः कुत्सिताशयः।
सर्वस्त्रीनिरतः पापी सर्वत्रासीद्दुरात्मवान्॥
मृतः (93)कश्चिद्द्विजग्रामे कर्मणा स्वेन भूसुराः।
{93. तस्मिन्द्विज इति स्यात्.}
आबध्य रज्जुं तत्पादे बहिर्निन्युर्जना अमुम्॥
तं पापं यमदूताश्च नरकं निन्युरञ्जसा।
ललाटे तस्य दोर्द्वन्द्वे वक्ष्यस्यप्यग्रजन्मनः॥
सारमेयः समागत्य भक्षितुं तं द्विजाधमम्।
चचार भस्मलिप्तात्मपादोऽयं ब्राह्मणोत्तमाः॥
तावतायं द्विजः शीघ्रात्सद्गतिं प्राप्तवान् खलु।
अथान्यद्भस्ममाहात्म्यं प्रवक्ष्यामि द्विजोत्तमाः॥
श्रुणुध्वमवधानेन यूयं सर्वे समाहिताः।
अस्ति वङ्गाधिपः कश्चिद्राजा भुजबलाह्वयः॥
दानशौण्डः सज्जनेष्टः प्रजापालनतत्परः।
स कदाचित्सङ्कूमणे रवेः पुण्यतिथौ नृपः॥
दातुं दानानि भूरीणि विप्रेभ्यो मतिमाददौ।
तदा समागता विप्रा नानादेशनिवासिनः॥
सुशीलाख्यो द्विजश्रेष्ठो वैदर्भाद्विषयादयम्।
समागतः समाकर्ण्य तस्य दानानि भूसुराः।
दृष्ट्वा तं ब्राह्मणश्रेष्ठं सर्वे विप्राः प्रणम्य ते।
सुशीलोऽयं सदाचारस्वाध्यायनिरतः सदा।
अस्मै देयं द्विजेन्द्राय दानं प्रथमतो नृप॥
दत्वैतत्सफलं किंचिदक्षयं फलमश्नुते।
इत्यूचुर्ब्राह्मणाः सर्वे राजानं वीक्ष्य ते तदा॥
स तेषां वचनं श्रुत्वा तथेत्येवं द्विजोत्तमम्।
आजुहाव कृतोद्योगो राजा भुजबलो महान्॥
धार्यं भस्म त्वया राजन् त्रिपुण्ड्रोद्धूलनात्मना।
अन्यथा तव दानानि निष्फलानि महान्त्यपि॥
अधृत्वा भस्म यत्किंचित्कृतं कर्म महीपते।
निष्फलं तद्भवत्येव नात्र कार्या विचारणा॥
इति विप्रवचः श्रुत्वा राजा द्रव्यमदेन सः।
प्रोवाच सावलेपेन ब्राह्मणं तं द्विजोत्तमाः॥
राजा--
धार्यं भस्म मया विप्र त्वदर्थं केन हेतुना।
अधृत्वा भस्मनो दाने किं शक्तिर्नास्ति वा मम॥
धृत्वा भस्म प्रदातव्यं नियमः कोऽयमीदृशः।
इति ब्रुवन्तं भूपालं पुनः प्राह महीसुरः॥
यस्य भस्मनि भूपाल श्रद्धा तद्धारणेऽपि वा।
न जायतेऽस्य पापस्य लक्ष्मीर्नश्यति च क्षणात्॥
दारिद्र्यं च भवेत्तस्य जायन्ते व्याधयस्तथा।
न्यूनान्यङ्गानि पापस्य भवेयुर्नात्र संशयः॥
पुत्रादयोऽस्य नश्यन्ति नारकी चभवेदयम्।
तस्माद्धार्यं नृपश्रेष्ठ कर्मादौ भस्म पावनम्॥
प्रतिग्रहीतुस्तद्द्रव्यं वर्धते नेतरन्नृप।
इति तस्य वचः श्रुत्वा विप्रस्य स महीपतिः॥
विहस्य वाचं प्रोवाच परिहासेन भूसुराः।
पुण्यात्मनोऽपि मे विप्र कथं दारिद्य्रसंभवः॥
कथं पुत्रादिनाशोऽपि कथं वाङ्गेषु हीनता।
दूरतो व्याधयस्तस्माद्यत्किंचित्प्रोच्यते त्वया॥
भवेयुरेते यदि वा तदा त्वां प्राप्य भूसुर।
भस्मादाय च धृत्वैतद्दुरितानि निवर्तये॥
इदानीं त्वं गृहाणाशु दानं मद्धस्ततो द्विज।
इति तस्य वचः श्रुत्वा सोपहासं महीसुरः॥
उत्थाय मास्तु मे दानं तावकं भूप सम्प्रति।
इत्युक्त्वा प्रययौ विप्रः स्वं देशं ब्राह्मणोत्तमाः॥
क्षुपति स्म तदा भूपं महीषी च्छद्मना बत।
एवं कतिपये काले याते सोऽयं महीपतिः॥
व्याधिना महताक्रान्तस्तस्थे वेश्मनि केवलम्।
महामारीप्रकोपेन मृतास्सेनास्तदा वत॥
शत्रुणोच्चाटितस्तस्मान्नगरात्स दुरात्मवान्।
भीतस्तदा वनं प्राप भार्यया सह भीषणम्॥
तत्र जग्राह तद्भार्यां व्याधः कश्चिन्महा(95)बलः।
भार्ययापि परित्यक्तस्तदायं दीनमानसः॥
{95. खलः-पा.}
चचार केवलः पापी क्षुत्पिपासासमन्वितः।
भिक्षां च याचितां कश्चिद्दत्तवान्नास्य पापिनः॥
यदा तदायं चौर्येण चकारोदरपोषणम्।
एवं दिनेषु (96)कतिषु नीतेष्वेतेन पापिना॥
{96. कतिपयेष्वित्यर्थः.}
कदाचिदेनं पापिष्ठं चोरयन्तं क्वचिद्द्रिजाः।
रुद्ष्टाः क्षणेन नगरपालका बध्द्य रज्जुना॥
नीत्वा बहुः पुरस्यास्य पाणी पादौ च चिच्छिदुः।
क्षुत्पिपासाकुलोऽत्यन्तं पुनः कर्मवशेन सः॥
विदर्भाधिपतेः प्राप नगरं कुण्डिनं द्विजाः।
भिक्षावृत्त्या वसंस्तत्र कृपणोऽत्यन्तमातुरः॥
एतस्मिन् समये विप्राः प्रिया तस्य दुरात्मनः।
गृहीता येन स व्याधः शार्दूलेन हतो मृतः॥
सापि प्राप महापापा पुरं तत्कर्मशेषतः।
छिन्ननासा चौर्यवशादियं च क्षुत्समाकुला॥
आधिव्याधिसमाक्रान्तौ क्रिमिक्लिन्नव्रणावुभौ।
क्रोशन्तौ देहि देहीति भिक्षां चेरतुरत्रि तौ॥
परस्परानभिज्ञौ च परस्परमहारुषौ।
सुशीलस्य गृहद्बारं कदाचित्प्रापतुर्द्विजाः॥
सुशीलः--
वह्गाधिपोऽयं प्रथितो नाम्ना भुजबलाह्वयः।
केनापि घोरपापेन दशामेतामवाप्तवान्॥
इति तस्य वचः श्रुत्वा द्विजोऽप्याश्चर्यसंयुतः।
कृत्वाङ्गुलिं नासिकायां वीक्ष्य सम्यगिमं द्विजाः॥
जानाति वा भवानद्य (97)किं मां दृष्टस्त्वया पुरा।
इत्युवाच सुशीलोऽयं ब्राह्मणाना(98)मधीश्वराः॥
{97. किं दृष्टोऽहं त्वया पुरा-इति स्यात्. 98. मधीश्वरः-पा.}
भुजबलः--
न मे स्फुरति यकिंचिद्दृष्टं पूर्वमपि द्विज।
क्षणे क्षणे मतिभ्रान्तिः स्वामिन्नुज्जृम्भते मम॥
सुशीलः--
धार्यं भस्म मया प्रोक्तं न श्रुतं च त्वया पुरा।
दात्रा दानानि भूरीणि द्रव्ययौवनगर्विणा॥
निमन्त्रितोऽप्यहं दानं मास्त्वित्युक्त्वागमं पुरम्।
नूनं भस्मावमानेन प्राप्तेयं निष्ठुरा दशा॥
श्रुत्वा सुशीलवचनं (99)वृत्तिं स्वप्नवदस्मरत्।
{99. वृत्तं-इति स्यात्.}
प्रणनाम ततो राजा दण्डत्पृथिवीतले॥
आबध्य पाणी प्रोवाच वचनं पृथिवीपतिः।
समागतोऽसि विप्रेन्द्र दानं नाङ्गीकृतं त्वया॥
मया च न धृतं मस्म भवदाज्ञा च लङ्घिता।
दोषेणानेन विप्रेन्द्र घोरा प्रप्ता दशा ध्रुवम्॥
तदद्य भवता स्वामिन् रणीयो महापदः।
दत्वा भस्मेति तं विप्रं प्रणनाम महीपतिः॥
ततः सुशीलः पुण्यात्मा भस्मादायातिपावनम्।
धृत्वैतत्सर्वपापेभ्यो मुच्यते नात्र संशयः॥
ऐश्वर्यं लभते क्षिप्रमारोग्यं चाधिगच्छति।
विपक्षविजयी तद्बद्व्याधिमोक्षं समाप्नुयात्॥
इत्युक्त्वा प्रददौ तस्मै सुशीलोऽयं द्विजोत्तमः।
तदादाय दधौ भस्म स्वशरीरे सुपावनम्॥
तत्क्षणात्सम्बभूवुस्ते च्छिन्नपाण्यादयो द्विजाः।
विनष्टा व्याधयः सर्वे पूर्वाकारो बभूव हि॥
ततः स्वरूपमालोक्य राजाश्चर्यसमन्वितः।
प्रणम्य दण्डवद्भक्त्या तस्थौ बद्धाञ्जलिः पुरः॥
तं दृष्ट्वास्य वधूश्छिन्ननासा साऽऽश्चर्यसंयुता।
स्वभर्तारं विदित्वैनं भूपालं ब्राह्मणोत्तमाः॥
भार्याहं तव भूपाल व्याधिग्रस्तकलेबरा।
समादाय महर्षेस्तद्भस्म देहे मुपावनम्॥
धृत्वैतद्वीतशोकाद्य भवाम्यहमसंशयः।
इति तस्या वचः श्रुत्वा प्रत्युवाच नृपस्तु ताम्॥
दोषेण केन नासा ते विच्छिन्ना ब्रूहि तन्मम।
पत्नी--
निर्जगाम यदा दानं मास्त्वित्युक्त्वा द्विजोत्तमः।
तदाहमक्षुभं दौष्ट्याद्द्रव्ययौवनगर्विता।
दुर्निमित्तमिदं विप्र तद्गृहीत्वा प्रतिग्रहम्॥
गच्छेति चाब्रुवं वाचं सोपहासं नृपोत्तम्।
दोषेण तेन नासा मे छिन्नेयं सत्यमीरितम्॥
इति तस्या वचः श्रुत्वा राजा निश्चित्य तत्स्वयम्।
प्रणम्य दण्डवद्भक्त्या ब्राह्मणानामधीश्वरम्॥
प्रियैषा मम विप्रेन्द्र तेन दोषेण सत्यतः।
च्छिन्ननासा तदाश्वेनां रक्ष त्वं करुणानिधे॥
इति ब्रुवन्तं तं भूपं मास्तु भीतिरिति ब्रुवन्।
तदा भस्म समादाय स्त्रियै देयमिति द्विजाः॥
गृहीत्वा तन्नृपश्रेष्ठः प्रादात्पत्न्यै सुपावनम्।
सा समादाय भक्त्या तत्सर्वाङ्गेष्ववलेपयत्॥
तदानीं ववृधे नासा पूर्ववद्भस्मगौरवात्।
व्वाधयोऽपि गताः सर्वे पूर्वरूपमगा(100)द्द्रुतम्॥
{100. ध्दृतम्-पा.}
ततः प्रहृष्टमनसौ दम्पती तौ धृताञ्जली।
प्रणम्य दण्डवद्भक्त्या स्तुत्वैनं तस्थतुर्द्विजाः॥
एतस्मिन् समये विप्रा विदर्भविषयाधिपः।
विचित्ररथनामायं श्रुत्वैतद्ध्रष्टमानसः॥
(101)समागत्य द्रुतं विप्रं प्रणम्य भुवि दण्डवत्।
{101. सम्यगत्यद्भुतं विप्रं-पा.}
स्वामिन्मातुलपुत्रोऽयं रक्षितः पृथिवीपतिः॥
कुत्र वा गत इत्येवं विचारोऽभून्महान्मम।
भवत्कृपावशाद्द्रष्ट इत्युक्त्वायं महीपतिः।
परिष्वज्य ददौ तस्मै पटान् भूषणमुज्वलम्॥
तद्भार्यायाश्च वसनं समीचीनमदात्स्वयम्।
उपचारवचोऽप्युक्त्वा निनाय स्वगृहं पुनः॥
भोजयामास तौ तत्र दम्पती भक्ष्य(102)भोज्यकैः।
{102. भोजनैः-पा.}
सम्भाष्य बहुधान्योन्यमुपचारपुरस्सरम्॥
प्रेषयामास पश्चात्तन्नगरं प्रति भूमिपम्।
तुरङ्गमान् बहून् भृत्वान् भटानपि (103)विधाय सः॥
{103. विहाय-पा.}
ततः प्रतस्थे नृपतिर्महत्या सेनया युतः।
सुशीलस्य गृहं प्राप्य स शिवैकमनास्तदा॥
प्रणम्य दण्डवद्भक्त्या भार्यया सह भूमिपः।
भगवन् भवता सम्यगावामत्र सुरक्षितौ॥
भवत्कृपावशादद्य स्वदेशं प्रस्थितोऽस्म्यहम्।
यथा शत्रून् जयिष्यामि देहि भस्म तथा मम॥
इत्युक्त्वा विनयानम्रं न्रुपं वीक्ष्य द्विजोत्तमः।
मास्तु भीतिर्नृप रिपोर्भयात्तस्मान्महत्तरात्॥
इत्युक्त्वा भस्म सम्मन्त्र्य ददौ तस्मै द्विजोत्तमः।
तदादाय स्वके फाले धृत्वा भस्म सुपावनम्॥
प्रणम्य तं द्विजश्रेष्ठं लब्धानुज्ञः कृताञ्जलिः।
प्रतस्थे प्रीतिसंयुक्तः सेनया च समन्वितः॥
एतदागमनं श्रुत्वा पापी कश्चन राक्षसः।
हत्वास्य शत्रुं स्ववशे कुत्वा देशं तदीयकम्॥
बाधयन्नित्यमत्यर्थं प्रजाः सर्वा दुरात्मवान्।
निर्ययौ नगरादेनं हन्तुकामः कृतायुधः॥
ततस्तु तस्य वदनं दृष्ट्वा भस्मावकुण्ठनम्।
मुक्त्वा रक्षोवपुर्घोरं दिव्यं वपुरवाप्तवान्॥
भुजबलः--
दृष्ट्वा तदेतदा(104)श्चर्यं को भवानिति भूपतिः।
{104. श्चर्यात्-पा.}
वृत्तान्तं श्रोतुकामोऽयं पप्रच्छ द्विजसत्तमाः॥
प्रोच्यते नृपतिश्रेष्ठ वृत्तान्तमनुपूर्वशः।
इत्युक्त्वा तं समाहूय स्वीयं नगरमुज्वलम्॥
तत्र वेश्म महच्चारु नानारत्नविचित्रितम्।
प्रापयित्वैनमारोप्य सिंहासनमनुत्तमम्॥
सुमुहूर्ते सुलग्ने च पट्टबन्धं च भस्मना।
विधाय गीतवादित्रैश्चारुमङ्गलनिस्वनैः॥
परीवृतः पुरजनैः परितः परया मुदा।
श्रुणु राजन् प्रवक्ष्यामि चरित्रमवधानतः॥
पश्चिमाशापति- पूर्वं वरुणोऽहं महीपते।
पीडितो राक्षसैः पापैरसुरैरब्धिमध्यगैः॥
पुरन्दरस्य निकटमगमं भयविह्वलः।
तत्र वृत्तानत्ममुना पृष्टोऽहमवदं किल॥
बाधन्ते राक्षसाः पापा दैत्याश्च जगदब्धिगाः।
न शक्यते ममावासो गन्तुं तैरावृतो बत॥
इत्युक्त्वेन्द्रस्य निकटमवसं तेन भूपते।
तदानीमागतस्तत्र कुम्भभूस्तपसां निधिः॥
तं दृष्ट्वा देवराजोऽसौ प्रणम्यार्ध्यादिपूजया।
पूजयित्वासने स्थाप्य स्वयं तस्थौ तदाज्ञया॥
तस्मिन्नवसरे तत्र नारदोऽप्यागतः किल।
स्थित्वायमासने रम्ये पूजितस्तेन भूपते॥
युवां श्रुणुत मद्वाक्यं भूलोके किंचिदद्भुतम्।
दृष्ट्वा समागतः शीघ्रं युवयोरहमन्तिकम्॥
काश्मीरविषयाधीशो वज्रदेहीति विश्रुतः।
राजासौ जितसामन्तः सुधर्माख्यं पुरोहितम्॥
विद्याहीनं समुद्वीक्ष्य जगाद वचनं तदा।
किं नाभ्यस्ता त्वया विद्या ब्राह्मणानामलङ्क्रिया॥
अनक्षरमुखं (105)भाति श्मशानसदृसं तव।
इति (106)तद्वचनं श्रुत्वा (107)पुनः प्राह पुरोहितः॥
{105. नाभि श्म-पा. 106. बूपवचः-पा. 107. पुरः-पा.}
अभ्यस्तापि मया विद्या केन दोषेण वा मम।
नायाति तस्माद्गोविन्दं समाराध्य जगत्प्रभुम्॥
प्राप्नवानि ध्रुवं विद्यामित्युक्त्वायं महीसुरः।
आराधयामास हारिं वेदमन्त्रैरनेकधा॥
ततः प्रसन्नः प्रददौ विद्यां तस्मै हरिः स्वयम्।
अन्तर्दधे पुनः क्षिप्रं हरिर्दत्वा वरं मुदा॥
लब्धविद्यस्तथैवायं सुधर्मः प्रीतिसंयुतः।
जगाम भूपनिकटं सर्वविद्वज्जनालयम्॥
राज्ञे निवेदयामास स्ववरप्राप्तिमादरात्।
ततस्तुष्टिमवापायं वज्रदेही महीपतिः॥
ब्राह्मणान्मेलयित्वायं चक्रे यागं सुशोभनम्।
ददौ दानानि भूरीण इविद्वद्भ्यः परया मुदा॥
तदा सुधर्मस्तर्कोक्त्या खण्डयामास पण्डितान्।
नास्य कश्चित्पुरो विद्वानुत्तरं दातुमीश्वरः॥
यदा तदायं पारुष्यात्पण्डितानवमानयत्।
तदा चतुर्मुखस्तत्र सर्वलोकपितामहाः॥
वृद्धब्राह्मण(108)रूपेण समुत्थायाब्रवीद्वचः।
(109)विद्यावान्विनयोपेतस्त्रिषु लोकेषु शस्यते॥
{108. वेषेण-पा. 109. विद्या हि विनयोपेता-पा.}
(110)स चेदविनयोपेतो गर्ह्यते सकलैर्जनैः।
तस्मात्त्वं पण्डितोप्येतान्मावमंस्थाश्च पण्डितान्॥
{110. सा चेदविनयोपेता गर्ह्यते-पा.}
(111)नैवास्ति कश्चित्पुरुषो विद्वानाजन्मतः क्षितौ।
इति तस्य वचः श्रुत्वा कोपेनायं वचोऽब्रवीत्॥
{111. न सोऽस्ति-पा.}
तिष्ठ तूष्णीं न कर्तव्यं पाण्डित्यं भवतात्र वै।
विद्यया परिहीना ये विप्रास्ते मूढबुद्धयः॥
गर्ह्या एते न सन्देहस्तस्मात्त्वं मूढचेतनः।
किं जानासि वृथा मानी स्थविरः खलु केवलम्॥
इति निन्दावचः श्रुत्वा विप्रवेषमसौ त्यजन्।
चतुर्भिर्वदनैस्तत्र (112)सहितः क्रोधविह्वलः॥
{112. लक्षितः क्रोध-पा.}
बुद्धिरुक्ता मया भ्रान्त तव पण्डितमानिनः।
न जानाति भवान् किंचिद्विद्यावेशमदेन हि॥
मां च (113)गर्हयति क्षान्तिं मुक्त्वा मूढेन चेतसा।
तस्मात्तवाशु जिह्वेयं न स्पन्दयतु पापिनः॥
{113. गर्हयतीत्येवमुक्त्वा-पा.}
शप्त्वैवं च तथा ब्रह्मा तं तत्रान्तरधीयत।
तदैव स्तम्भिता जिह्वा न चचालास्य पापिनः॥
केवलं मूकवत्तस्तै तत्रैवास्थानमण्टपे।
दृष्ट्वैतदद्भुतं राजा किमेतदिति चिन्तयन्॥
विचारमाप नितरां तदानीं वृत्रहन् ऋषे।
पुनर्विशुद्धमनुजं सुधर्मस्य महीपतिः॥
इतः परं किं कर्तव्यं विशुद्धमतिमान् खलु।
इति राज्ञो वचः श्रुत्वा जगाद वचनं द्विजः॥
आराध्य देवमधुना पुण्डरीकाक्षमादरात्।
(114)प्राप्नुवाम यथापूर्वं वाचमव्याहतां क्वचित्॥
{114. प्राप्नुयास्त्वं इति स्यात्.}
(115)इत्युक्त्वा पूजयामास भ्राता विब्णुमनन्यधीः।
तदाविरासीत्तस्याशु पुण्डरीकेक्षणः (116)पुरः॥
{115. इत्युक्तः इति स्यात्. 116. प्रियात्-पा.}
प्रसीद भगवन्विष्णो भक्तानामभयप्रद।
शापात्समुद्धराश्वेनं भवद्भक्तमजस्य भो॥
विशुद्धस्य वचः श्रुत्वा प्राह विष्णुर्जगन्मयः।
मत्तो वरप्रसादेन विद्या लब्धामुना पुरा॥
युक्तं किं विदुषः शिष्टान् दूषितं परिषोक्तिभिः।
विनयेन समोपेता विद्या सर्वत्र पूज्यते॥
विदुषामवमानेन शशापाजः क्रुधा भृशम्।
तस्मादेनं समुद्धर्तुं शापादस्मान्न शक्यते॥
इति विष्णोर्वचः श्रुत्वा पुनर्वाचमुवाच सः।
दासाः खलु वयं स्वामिन् तव लोकगुरोस्ततः॥
किं वृथा क्रियते यत्नस्त्वयाऽशक्येऽत्र कर्मणि।
शापान्मोचयितुं शक्तिर्नास्ति मे ब्राह्म(117)णाधम॥
{117.णाधुना-पा.}
इति ब्रुवन्तं गोविन्दं रुषा वीक्ष्याब्रवीद्वचः।
त्रिशङ्कुमाश्रितं पूर्वं विश्वामित्रोऽपि तापसः॥
त्रिदिवं प्रेषयामास स्वतपोगौरवादयम्।
(118)न ते यत्नोऽपि तन्मात्रं स्वाश्रिते पुरुषोत्तम॥
{118. न ते बतास्ति तन्मात्रं-पा.}
इति तस्य वचः क्रूरं श्रुत्वा कोपाकुलो हरिः।
विनन्दयसि मां मोहाद्यस्मात्त्वं (119)मासमध्यतः॥
{119.मानमध्यत-पा.}
परिक्षीणो भवेत्युक्त्वा तिरोधानमशिश्रयत्।
विशुद्धं विष्णुना शप्तं विज्ञाय स महीपतिः॥
विचारमाप चात्यर्थं किमेतदिति चात्मनि।
विशुद्धोऽपि क्रमेणायं क्षयमापाङ्घ्रिपाणिषु॥
शिरःप्रक्षीणकाले तु राजा कैदारमीश्वरम्।
महोत्सवे महासनः सेवितुं प्राप भक्तितः॥
सुधर्मं तं विशुद्धं च समाहूय महेश्वरम्।
दृष्ट्वा प्रणम्य भक्त्याशु स्तुत्वा स्तोत्रैरनेकशः॥
गोपुरद्वारमासाद्य तस्थे ताभ्यां महीपतिः।
तदा तु ऋषयः केचित्प्रणम्य परमेश्वरम्॥
केदारनाथं सन्तोषात् निवृत्ताः प्रापुरत्र ते।
ब्रह्मविष्ण्वोस्तु विज्ञाय शापं प्राप्ताविमौ द्विजौ॥
शापान्मोचयितुं चैतावशक्ताः पृथिवीपतिम्।
आशीर्भिर्योजयित्वाशु स्वं स्वं स्थानमवापिरे॥
मोचकः कश्चिदस्तीति निवसन् पृथिवीपतिः।
परिश्रान्तिमवापायं यदा दुःखितमानसः॥
तदानीमागतस्तत्र दधीचिः सह शिष्यकैः।
केदारनाथं देवेशं (120)प्रणनामात्र भक्तितः॥
{120. तं प्रणम्यात्र, संप्रणम्यात्र-पा.}
नं दृष्ट्वा तपतां श्रेष्ठं राजा परमया मुदा।
प्रणम्य प्रश्रयानम्रः प्रार्थयामास भक्तितः॥
रक्ष रक्ष द्विजावेतौ ब्रह्मविष्ण्वोर्महामुने।
शापं प्राप्तौ स्वकीयेन दोषेणास्मत्पुरोहितौ॥
इति राज्ञो वचः श्रुत्वा ऋषिः परमया मुदा।
भस्मादाय ददौ पूतं भर्जकं पापसन्ततेः॥
तदादाय नृपश्रेष्ठो लेपयामास विप्रयोः।
तदानीं ववृधे तस्य विशुद्धस्य वपुस्तराम्॥
सुधर्मस्यापि रसना समजायत पूर्ववत्।
तदेतदद्भुतं दृष्ट्वा सर्वेऽप्याश्चर्यमाययुः॥
भस्मावलेपनाच्छापान्मुक्तावेतौ द्विजावुभौ।
ब्रह्मविष्ण्वोरतो भस्ममहिमा केन गण्यते॥
वज्रदेही महीपालस्तदाश्चर्यसमन्वितः।
दधीचं तपतां श्रेष्ठं प्रणनाम महीतले॥
तावुभौ भ्रातरौ विप्रौ प्रणम्य ऋषिसत्तमम्।
भवता रक्षितावावां माहात्म्याद्भस्मनो मुने॥
ज्ञायते भवता भस्ममहिमा शङ्करेण वा।
इत्युक्त्वा दण्डवद्भुमौ नमन्तौ तं च भूपतिम्॥
आशीर्भिर्योजयित्वायं स्वाश्रमं प्रययौ मुदा।
तदा प्रभृति तौ विप्रौ भस्मोद्धूलितविग्रहौ॥
अवापतुः परं श्रेयः कुम्भोद्भवपुरन्दरौ।
नारदस्य वचः श्रुत्वा तावुभौ मुनिदेवपौ॥
आश्चर्याविष्टमनसौ भस्ममाहात्म्य(121)मुत्तमम्।
{121. त्म्यमद्भुतम्-पा.}
भाषयन्तौ मिथस्तुष्टौ तस्थतुः परया मुदा॥
तदाहं तत्र विमना यत्किंचिन्मनसा स्मरन्।
तिष्ठत्वयं कथामार्गः पुरन्दर सुरेश्वर॥
बाधन्ते राक्षसा मध्यं समुद्रस्य समाश्रिताः।
(122)दैत्यैरतो विनाशाय तेषां यत्नं कुरुष्व भो॥
{122.दैतेयाश्च इति ख्याताः तेषां पा.}
जगादैवं तदागस्त्यः कोपाकुलितमानसः।
किमुच्यते त्वया भ्रान्त प्रतिबध्यावयोर्वचः॥
माहात्म्ये वर्ण्यमानेऽत्र भस्मनः पापहारिणः।
तिष्ठत्वयं कथामार्ग इत्यश्लाघ्यतया यतः॥
तस्माद्दुरात्मन् सहसा राक्षसो भव दूषितः।
शपित्वैवमगस्त्योऽयं समाहूय पुरन्दरम्॥
माहात्म्यश्रवणेनास्य भस्मनस्तर्जितैनसः।
प्रयासो राक्षसान् हन्तुं न कश्चिन्मघवन्निति॥
समुद्रतीरमासाद्य भस्मादायाभिमन्त्रितम्।
धृत्वा ललाटे करयोरालेप्य सहसा ऋषिः॥
आजुहावाम्बुधिं पाणिं प्रसार्य स महानृषिः।
तदानीमागतोऽम्भोधिः करे नीहारबिन्दुवत्॥
प्राशयामास तं ध्यात्वा महादेवमृषीश्वरः।
संहरेन्द्रासुरान्पापान् राक्षसानपि दुर्जनान्॥
एवमुक्त्वा ददौ भस्म सुरेशाय घटोद्भवः।
तदादायामरेशोऽपि धृत्वा सर्वशरीरके॥
राक्षसानसुरान् सर्वान् जघानायं महीपते।
ततः पयोधिं मुक्त्वायं प्रथस्थे स्वाश्रमाय च॥
तदानीं मघवाञ्छीघ्रं मामाहूय महीपते।
ऋषेरभ्याशमासाद्य सान्त्वयन्नब्रवीद्वचः॥
न किंचिदपि जानाति मूढोऽयं तपतां वर।
रक्षैनं कृपया स्वामिन्नित्युक्त्वा प्रणनाम हि॥
प्रसन्नः प्राह वचनमगस्त्यो वीक्ष्य मामपि।
भविष्यति महीपालः कश्चिद्भुजबलाह्वयः॥
दृष्ट्वास्य भस्म निटिले तदा रक्षोवपुर्धृतम्।
त्यक्ष्यत्ययं शरीरं स्वं समेष्यति यथा पुरा॥
पश्चिमाशामनुप्राप्य पालयिष्यति च ध्रुवम्।
इत्युक्त्व प्रययौ शीघ्रं स्वाश्रमं प्रति तापसः॥
तथैवाहं समागत्य न्यवसं पट्टणे स्वके।
रक्षोवपुरनुप्राप्य घोरमत्यन्तगर्हितम्॥
दृष्ट्वा त्वन्निटिले भस्म प्राप्तवा(123)न्मानवं वपुः।
{123.मामकं-पा.}
इत्युक्त्वा स्वभटानाशु सस्मार वरुणस्तदा॥
तदानीमागताः सर्वे भटास्तस्य महाबलाः।
तौरयं स्वदिशं प्राप पश्चिमां तुष्टमानसः॥
स्वपदं प्राप तरसा भस्मसन्दर्शनाद्द्रिजाः।
(124)श्रुत्वोक्तिं वरुणस्याशु राजा भुजबलस्तराम्॥
{124. श्रुत्वा चरित्रमस्याशु-पा.}
अत्यन्ताश्चर्यसंयुक्तो भस्मन्यासक्तमानसः।
भस्मानुलिप्तसर्वाङ्गो भस्मशय्यारतस्तदा।
पुत्रमित्रकलत्रैश्च भुक्त्वा भोगान्यथेष्सितान्॥
कैलासं प्राप देहान्ते मुदा परमया द्विजाः।
य एतद्भस्ममाहात्म्यं श्रुणुयात्सावधानतः॥
श्रावयेद्वा पठेद्वापि स याति परमां गतिम्।
पुत्रकामो लभेत्पुत्रं धनकामो लेद्धनम्॥
विद्या(125)कामः परां विद्यां मोक्षार्थी मोक्षमाप्नुयात्।
{125. कामो लभेद्विद्यां.}
स्वर्णस्तेयमुरापानब्रह्महत्यादिपातकैः॥
मुच्यते नात्र सन्देहो नियमाच्छ्रवणाद्द्विजाः।
बहुनोक्तेन किं विप्राः श्रुणुध्वं भावितान्तराः॥
ब्रह्महत्यादिपापानां प्रायश्चित्तमिदं स्मृतम्।
सर्वोपनिषदां सारं साक्षात्सर्वेश्वरात्मकम्॥
कृतार्था यूयमधुना वेदवेदाङ्गकोविदाः।
इत्यादिस्कान्दवचनैरस्मिन् प्रत्यक्षमोक्षदे॥
अश्रद्धया जनाः सर्वे जातास्तेऽप्यात्मवञ्चकाः।
केचिच्च तुलसीकाष्ठमणिस्रग्भूषिता नराः॥
नरके यातनां प्राप्य दुःखाम्भोधौ निमज्जिताः।
पिशाचैरथ रक्षोभिर्ग्रस्तास्ते भस्मकाङ्क्षिणः॥
भस्मस्मरणमात्रेण सुखं यान्ति परं स्वयम्।
न मृदावाथ सिन्दूरैः शुष्काङ्गारेण वा पुनः॥
मनत्रिता यान्ति लोकेऽस्मन् पिशाचा राक्षसादयः।
भस्मदर्शनमात्रेण पलयान्ते भयाकुलाः॥
पिशाचा वाथ भेतालकूष्माण्डा भैरवादयः।
दृष्टिदोषपरिग्रस्ता भस्मनैवाभिमन्त्रिताः॥
सुखं प्रयान्ति सुलभं पशय्तास्मिंस्तु विष्टपे।
न मृदाङ्गारसिन्दूरैर्मंत्रिते दृष्टिदोषतः॥
विमुच्यन्ते जना लोके पश्यतात्र बुधाः स्वयम्।
अथ श्रौतेऽथवा स्मार्ते कौतुके बन्धनेऽपि च॥
अखिलैर्गृह्यकारैश्च त्र्यम्बकेनाभिमार्जनम्।
विहितं कर्म कुर्वन्ति भस्मनैव सितेन हि॥
अथापि भस्म निन्दन्ति शापदग्धा जना भुवि।
अतस्तद्दूषका वेददूषका बुद्धवंशजाः॥
परिज्ञेयाः कर्मभिश्च परिभ्रष्टा महैनसः।
गोतमाद्यैश्च मुनिभिः शप्ताः शम्भौ च भस्मनि॥
रुद्राक्षे च परं तेषां बुद्धिर्नोदेति पापिनाम्।
अस्पृश्याः शाम्भवैर्दुष्टाः पापिनस्तप्तमुद्रिताः॥
अभाषणीयाः पापिष्ठा दर्शनाय न ते जनाः।
देशे शैवैः पुनर्यत्र नरा दृष्टाश्च पापिनः॥
तद्दोषविनिवृत्त्यर्थं जपेत्पञ्चाक्षरं मनुम्।
सूर्यावलोकनं वापि कुर्वीत शिवदीक्षितः॥
इत्यादिवचनैरन्यैर्निषेधेनापि वै तथा।
भस्मश्रद्धा पुण्यवशाज्जायते पुण्यकर्मणाम्॥
इति श्रीमद्विशिष्टाद्वैतसिद्धानत्रहस्यैकीत्तरशतस्थलाभिशश्रीनीलकण्ठशिवाचार्यकृते
निगमागमसारसङ्ग्रहे क्रियासारे विभूतिमाहात्मय्वर्णनं नाम
अष्टमोपदेशः समाप्तः
--------------