← उपदेशः ५-८ क्रियासारः
उपदेशः ९-१२
[[लेखकः :|]]
उपदेशः १३-१४ →

नवमः उपदेशः

सम्पाद्यताम्



नवमे चोपदेशेऽस्मिन् रुद्राक्षोत्पत्तिरुच्यते।
किरणागमपूर्वार्धपुराणादिषु वर्णिता॥

पुरा त्रिपुरसंहारे नेत्रस्वेदो धरातले।
यः पापात प्राथमिको हेमरूपश्चतुर्विधः।
तस्मिन्नासीन्महावृक्षो नाम्ना रुद्राक्ष उच्यते।
अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्ठः पप्रच्छ, कथं रुद्राक्षोत्पत्तिस्तद्धारणात् किं फलमिति। तं हो वाच स भगवान् कालाग्निरुद्रः। पुरा त्रिपुरवधार्थमहमुन्मीलिताक्षोऽभवम्। तेभ्यो जलबिन्दवो भूमौ पतिताः। ते रुद्राक्षा जाताः सर्वानुग्रहार्थाय। तेषां नामोच्चारणमात्रेण दशगोदानफलं (भवति)। दर्शनस्पर्शनाभ्यां द्विगुणफलं (1)(भवति)। {1. वदन्ति-पा.} अत ऊर्ध्वं वक्तुं न शक्नोमि।
तत्रैते श्लोकाः--
(2)(क)स्माज्जातं तु किं नाम कथं वा धार्यते नरैः।
(3)कतिवैषां मुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ 1 ॥

{2. कस्मिंस्थितं तु-पा. 3.कतिभेदमुखान्यत्र-पा.}
दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया।
(4)उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ॥ 2 ॥

{4. पटाभ्यां-पा. भूमावक्षिपटाभ्यां तु-उपनिषदि.}
तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः।
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ 3 ॥

भक्त्या रात्रौ दिवा पापं दिवा रात्रिकृतं हरेत्।
लक्षं तु दर्शनात्पुण्यं कोटिस्तत्स्पर्शनाद्भवेत् ॥ 4 ॥

तस्य कोटिशतं पुण्यं लभते धारणान्नरः।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ 5 ॥

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात्।
रुद्राक्षाणां तु भद्राक्षधारणे स्यान्महाफलम् ॥ 6 ॥

धात्रीफलप्रमाणं तु श्रेष्ठमेतदुदाहृतम्।
बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ॥ 7 ॥

अधमं (5)चणमात्रं स्यात्प्रक्रियैषा मयोच्यते।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ॥ 8 ॥

{5. चाणुमात्रं-पा.}
वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः।
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ॥ 9 ॥

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः।
ब्राह्मणो विभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ॥ 10 ॥

पीतान्वैश्यस्तु बिभृयात् कृष्णाञ्छूद्रस्तु धारयेत्।
ताम्रा स्निग्धा दृढा स्थूलाः कण्टकैः संयुताः शुभाः ॥ 11 ॥

क्रिमिदष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च।
व्रणयुक्तमवृत्तं च षड्रुद्राक्षान् विवर्जयेत् ॥ 12 ॥

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम्।
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ 13 ॥

समान् स्निग्धान् दृढान् वृत्तान् क्षौमसूत्रेण धारयेत्।
सर्वगात्रेण साम्येन सामान्यानि विचक्षणः ॥ 14 ॥

(6)निकषे हेमरेखेव यस्य रेखा प्रदृश्यते।
तदक्षमुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ॥ 15 ॥

{6. निवार्य-पा.}
शिखायामेकरुद्राक्षं (7)त्रिंशत्तु शिरसा वहेत्।
षट्रत्रिंशत्तु गले दद्याद्वाह्वाष्षोडश षोडश ॥ 16 ॥

{7. त्रिशतं-पा.}
द्वादशं मणिबन्धेऽपि स्कन्धे पञ्चशतं वहेत्।
अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् ॥ 17 ॥

द्विसरं त्रिसरं वापि सराणां पञ्चकं तु वा।
सराणां सप्तकं वापि बिभृयात् कण्ठदेशतः ॥ 18 ॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च।
केयूरकटके चैव कुक्षिबन्धे विशेषतः ॥ 19 ॥

सुप्ते पीते सदाकालं रुद्राक्षान् धारयेन्नरः।
त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ 20 ॥

सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत्।
शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण च ॥ 21 ॥

अघोरेण गले धार्यं तेनैव हृदयेऽपि च।
अघोराख्येन मन्त्रेण करयोर्धारयेत्सुधीः ॥ 22 ॥

पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे।
पञ्चब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त च ॥ 23 ॥

अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत्।
अथ हैनं कालाग्निरुद्रं भगवन्तं भुसुण्ठः पप्रच्छ, रुद्राक्षाणां मुखभेदेन यदक्षं यत्स्वरूपं यत्फलमिति नस्तत्स्वरूपमुखयुक्तमरिष्टनिरसकमभीष्टफलप्रदं ब्रूहीति। स होवाच कालाग्निरुद्रः, यच्छ्रुत्वा सद्योमुक्तिः श्रोतॄणां शिवप्रसादस्तद्वदामि सावधानमनाः श्रुण्विति होवाच।
एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ॥ 24 ॥

तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः।
द्विवक्त्रं चैव रुद्राक्षमर्धनारीश्वरात्मकम् ॥ 25 ॥

धारणादर्धनारीशः प्रीयते तस्य नित्यशः।
त्रिवक्त्रमनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ 26 ॥

त्रिमुखं चैव रुद्राक्षमग्नित्रयमुदाहृतम्।
तद्धारणेन हुतभुक्तुष्यति स्फुटकामदः ॥ 27 ॥

चतुर्मुखं तु रुद्राक्षं ब्रह्मरूपमुदाहृतम्।
पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ॥ 28 ॥

पञ्चवक्त्रः स्वयं ब्रह्मा ब्रह्महत्यां व्यपोहति।
तस्य धारणमात्रेण स तुष्यति सदाशिवः ॥ 29 ॥

षड्वक्त्रकं तु रुद्राक्षं कार्तिकेयाधिदैवतम्।
विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ 30 ॥

सप्तवक्त्रं तु रुद्राक्षं सप्तमालाधिदैवतम्।
(तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम्।
महतीज्ञानसम्पत्ति- शुचिर्धारणतः सदा॥

अष्टवक्त्रं तु रुद्राक्षमष्टमात्रधिदैवतम्।)
वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं शुभम् ॥ 31 ॥

तद्धारणादिमे प्रीता भवेयुस्तत्ववादिनः।
नववक्त्रं रुद्राक्षं नवशक्त्यधिदैवतम् ॥ 32 ॥

तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः।
दशवक्त्रं तु रुद्राक्षं यमदैवमुदाहृतम् ॥ 33 ॥

दशाशाप्रीतिजनकं धारणे नात्र संशयः।
एकादशमुखं चाक्षं रुद्रैकादशदैवतम् ॥ 34 ॥

तदिन्द्रदैवतं चाहुः सदा सौभाग्यवर्धनम्।
रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ॥ 35 ॥

द्वादशादित्यदैवं च बिभर्त्येव हि तत्परः।
त्रयोदशमुखं चाक्षं कामदं शुद्धिदं शुभम् ॥ 36 ॥

तस्य धारणमात्रेण कामदेवः प्रसीदति।
चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ॥ 37 ।
सर्वव्याधिहरं चैव सदारोग्यमवाप्नुयात्।
मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ॥ 38 ॥

श्लेष्मातकं विड्वराहमभक्ष्यान्वर्जयन्नरः।
ग्रहणे विषुवे चैव ग्रहणे सङ्क्रमेऽपि च ॥ 39 ॥

दर्शे च पूर्णमासे च पुण्येषु दिवसेषु च।
रुद्राक्षधारणात्सद्यः सर्वैः पापैः प्रमुच्यते ॥ 40 ॥

रुद्राक्षमूलं तद्ब्रह्मा तन्नाळं विष्णुरुच्यते।
तन्मुखं रुद्र इत्याहुस्तद्बुन्दुः सर्वदेवताः॥

य इमामुपनिषदं बालो वा युवा वा वृद्धो वाधीयमानः स शिवो भवति। स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति। एतैरेव होमं कुर्यादेतैरेवार्चनं तथा। तद्रक्षोघ्नं मृत्युतारकं गुरुणो लब्धं कण्ठे बाहौ शिखायां वा बध्नीत॥

सप्तद्वीपवती भूमिर्दिणार्थं न कल्पयेत्।
तस्माच्छ्रद्धया यां कांचिद्गां दद्यात्सा दक्षिणा भवति। य इमामुपनिषदं ब्राह्मणो वा क्षत्रियो वा सायमधीयानो दिवसकृतं पापं नाशयति। मध्याह्नेऽधीयान(8)ष्षण्मासकृतं पापं नाशयति। ((10)सायमधीयानो वत्सरकृतं पापं नाशयति)। सायंप्रातरधीयानोऽनेकजन्मकृतं पापं नाशयति. य इमामुपनिषदं ब्राह्मणो वीरशैवोऽधीते षट्‌सहस्रलक्षपञ्चाक्षरजापिनः फलमवाप्नोति। ब्रह्महत्यायाः पूतो भवति। सुरापानात्पूतो भवति। स्वर्णस्तेयात्पूतो भवति। अभोज्यभोजनात्पूतो भवति। तत्संयोगात्पूतो भवति। सर्वेषु यज्ञेषु दीक्षितो भवति। सर्वेषु तीर्थेषु स्नातो भवति। अभक्ष्यभक्षणात्पूतो भवति। अगभ्यागमनात्पूतो भवति। गुरुतल्पगमनात्पूतो भवति। पतितसंभाषणात्पूतो भवति। पङ्‌क्तिशतसहस्रं पुनाति। शिवसायुज्यमेति। न स पुनरावर्तते न स पुनरावर्तते। ओं सत्यमिति॥

ब्रह्मवैवर्ते--
सम्यग्विभूत्या महिमाधुनोक्तो
रुद्राक्षबीजस्य शिवात्मकस्य।
यथा विधानं वद विस्तरेण
तत्कीदृशं केन कदा तु धार्यम्॥

नाथशर्मा--
द्त्यः पुरासीत्त्रिपुरः प्रसिद्धो
नाम्नानवद्यैरखिलैरजेयः।
हताः सुरा येन रथाङ्गपाणि-
र्जितो विरिञ्चः ककुभामधीशाः॥


हतावशिष्टैर्गिरिशोऽतिभीतैः
स्तुतः सहस्रं शरदां प्रसन्नः।
अचिन्तयत्तं प्रतिहन्तुकामः
शस्त्रं दुरापं सकलामरौघैः॥


स्फुरत्स्फुलिङ्गं तपनप्रकाशं
सर्वाशुभघ्नं जगतोऽवनाय।
उन्मील्य नेत्राणि शरत्सहस्र-
मघोरमस्त्रं रिपुनाशनार्थम्॥


तदाकुलं तस्य बभूव चाक्ष्णां
त्रयं ततोऽश्रूण्यपतंशच् तेभ्यः।
रुद्राक्षवृक्षा विटपैर्बभूवुः
शिवाज्ञया सर्वजगद्धिताय॥


रुद्राक्षवृक्षास्तपनाक्षिजाता-
स्ते द्वादश स्युः कपिलाप्रभेदैः।
चन्द्राक्षिजाः षोडश शुभ्रवर्णाः
कृष्णा दश स्युर्ज्वलनाक्षिजाताः॥


ब्राह्मं सितं कापिलवर्णयुक्तं
क्षात्रं तु वैश्यं ह्युभयात्मकं तत्।
कृष्णं तु शूद्रं कथयन्ति बीजं
रुद्राक्षबीजात्प्रभवन्ति जात्याः॥


एकाननं शङ्कर एव साक्षा-
द्रुद्राक्षीजं विनिहन्ति हत्याम्।
द्विवक्रबीजं बहुगोवधघ्नं
देवेशदैवत्यमलभ्यमक्ष्णाम्॥


अग्नेयमुक्तं वदनत्रयं य-
द्योषद्वधग्नं दधतां क्षणेन।
चतुर्मुखं यच्चतुराननीयं
नरस्य हत्यां क्षणतो विहन्ति॥


कालाग्नरुद्रं ननु पञ्चवक्त्र-
मभक्ष्यदुस्सङ्गमपातकघ्नम्।
स्कान्दं यदा षड्वदनं करेण
दक्षेण धार्यं द्विज(9)घातशुध्द्यै॥र
{9. हत्य-पा.}

सप्ताननं भोगिपतिर्ह्यनन्तः
स्तेयादिशुद्धिं विदधाति सद्यः।
वैनायकं ह्यष्टमुखं सवर्णं
सप़टं गुरुस्त्रीगमनाद्यघघ्नम्॥


नवाननं भैरव एव देवो
भुक्तिं च मुक्तिं शिवतुल्यशक्तिम्।
करोति वामेन करेण धार्यं
हत्यायुतानामपि हन्ति कोटिम्॥


हरिः स्वयं यद्दशवक्त्रबीजं
पिशाचभूतग्रहरक्षसां च।
वेतालसर्वप्रतियोधिसिंह-
(10)व्याघ्रादिरैद्रं विनिहन्ति शीघ्रम्॥

{10. व्याघ्रादिकानं-पा.}

एकादशास्यं (11)दशकैकरौद्रं
धार्यं शिखायां विधिनानवद्ये।
नराश्वमेधायुतवाजपेय-
सहस्रगोदानसहस्रतुल्यम्॥

{11. दशचैकरौद्रं-पा.}

यद्वक्त्राणि दशद्वयेन कथितं तद्भास्करीयं स्मृतं
वर्णस्थं रवितुष्टिकृद्धयमघैर्गोमेधपुण्यैः समम्।
सर्वं सिध्यति भोगभाग्यमखिलं भ्रूणार्यमातापितृ-
भ्रातृस्त्रीवधतो विशुध्यति दधन्नास्मात्परं विद्यते॥


रुद्राक्षमेकं शिरसा विधार्यं
षट्‌त्रिंशमालां विदधीत मूर्ध्नि।
द्वात्रिंशकैः कण्ठतलेन धार्यां
शतार्घक्लुप्ता हृदये च धार्या॥


कलाक्षमाला (12)भुजयोरिनाक्षे
धार्याक्षमाला मणिबन्धसीम्नि।
अष्टोत्तरैर्वा शतकैश्च माला॥

तदर्धक्लुप्ता हि तदर्धमाला॥

कण्ठे धृता येन धृताक्षमाला
जप्ताप्नुयाद्यज्ञसहस्रपुण्यम्।
{12.रिनाक्षैः-पा.}

रुद्राक्षाष्टशतेन येन कलिता माला सदा धार्यते
कण्टे तेन लभेत् क्षणात्क्षणमहो पुण्यं महेज्याधिकम्।
विन्ध्याद्रौ मृतकः खरोऽपि यदभूद्रुद्राक्ष(13)भारावहः
कैलासे शतकल्पमीशसदृशो हाहानवद्ये गणः॥

{13.मालावहः-पा.}

श्वेतं रक्तमथापि पीतमसितं विप्रादिकानां स्मृतं
रुद्राक्षस्य लभेद्यथातथमिदं धार्यं शिखायां करे।
कण्ठे कर्णयुगोपवीतहृदयेष्वाबध्य रूप्यादिभिः
पञ्चार्णप्रणवात्मकाख्यमनुभिर्मुक्तोऽनवेद्यो भवेत्॥


स्नाने वा जपहोमयोर्व्रतविधौ देवार्चनादानयो-
र्दीक्षाश्राद्धकयोःक्रतौ सभसितो रुद्राक्षमालाधरः।
कुर्यात्कर्म च वैदिकं च सकलं स्यादक्षयं तत्फलं
नो चेद्व्यर्थमिदं भवत्ययमहो पापोऽनवद्ये ध्रुवम्॥


केचित्सूतकशावयोर्जलमलोत्सर्गे च सङ्गे (14स्त्रियाः
शुद्धां वक्षसि मालिकां न दधते स्वायुःक्षयः स्यादिति।
पूज्यं योज्य मुखं मुखेन सदृशो मुक्ताप्रवालासितैः
सौवर्णैर्मणिभिर्दधन्मधुफलं मर्त्योऽनवद्ये भवेत्॥

{14. स्त्रियोऽशुद्धावक्षकमालिकां-पा.}

रुद्राक्षं वपुषा धरन्यदि मृतः श्वानोऽपि मुक्तो भवे-
च्चादन्नन्त्यमुहूर्तके शिवपुरं गच्छेत्स नो जायते।
किं नूक्तैर्बहुभिः समन्त्रकमिदं स्वाङ्गे सदा धारकः
संसारं न पुनः प्रयाति मनुजो वक्ष्येऽनवद्ये तव॥


रुद्राक्षं वपुषा धरन्यदि मृतः श्वानोऽपि मुक्तो भवे-
च्चादन्नन्त्यमुहूर्तके शिवपुरं गच्छेत्स नो जायते।
किं नूक्तैर्बहुभिः समन्त्रकमिदं स्वाङ्गे सदा धारकः
संसारं न पुनः प्रयाति मनुजो वक्ष्येऽनवद्ये तव॥


रुद्राक्षद्रुमपुष्पपल्लवपुटस्पृष्टानिलस्पर्शना-
हूरस्थास्तरवस्तृमान्यपि लता यान्त्यक्षयं तत्फलम्।
तत्पुण्यद्रुमजातलक्षणमणिं बिभ्रत्वजस्रं नरो
मुञ्चेत्संसृतिबन्धनादिति पुनश्चित्रं न किंचित्प्रिये॥


इत्येवं वचनैर्ज्ञात्वा रुद्राक्षोत्पत्तिमादरात्।
यो धत्ते स बुधः श्रीमानन्ते सायुज्यमाप्नुयात्॥

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरहस्यैकोत्तरशतस्थलभिशश्रोनीलकण्ठशिवाचार्यकृते
क्रियासारे निगमागमसारसङ्ग्रहे
नवमोपदेशः समाप्तः

--------------

दशमोपदेशः

सम्पाद्यताम्

दशमे चोपदेशेऽस्मिन् रुद्राक्षाणां तु धारणम्।
प्रतिपाद्यत आचारलब्धशैव (1)मतोदितम् ॥ 1 ॥

{1. मतेडितम्-पा.}
रुद्राक्षाणां धारणस्य महात्म्यं वर्णयामि वः।
इत्यारभ्य स्कन्दभास्वत्पुराणे प्रतिपादितम् ॥ 2 ॥

सर्वपापहरं पुण्यं पठतां शृण्वतामपि।
भक्तिहीनोऽथवा भक्तो मूर्खो मूर्खतरोऽपि वा ॥ 3 ॥

रुद्राक्षं धारयेद्यस्तु मुच्यते पातकैरयम्।
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ॥ 4 ॥

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत्।
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ 5 ॥

सुरासुरा नमन्त्येनं यथा रुद्रस्तथैव सः।
अभावे तु सहस्रस्य बाह्वोष्षोडश षोडश ॥ 6 ॥

एकं शिखायां करयोर्द्वादश द्वादश द्वयोः।
द्वात्रिंशत् कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट्‌ ॥ 7 ॥

उरस्यष्टोत्तरशतं चत्वारिंशच्च मस्तके।
धारयेद्यस्तु रुद्राक्षं रुद्रवत्पूज्यते हि सः ॥ 8 ॥

मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकाञ्चनैः।
धारयेद्यस्तु रुद्राक्षान् स रुद्रो नात्र संशयः ॥ 9 ॥

केवलं वापि रुद्राक्षान् रुद्रमुद्रान् बिभर्ति यः।
तं न स्पृशन्तिं पापानि तमांसीव विभावसुम् ॥ 10 ।
रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः।
(अरुद्राक्षजपः पुंसां तावन्मात्रफलप्रदः।)
यस्याङ्गे नापि रुद्राक्ष एकोऽपि बहुपुण्यदः ॥ 11 ॥

तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा।
मूध्नि विन्यस्य रुद्राक्षं यः स्नाति मतिमान्नरः ॥ 12 ॥

गङ्गास्नानफलं तस्य जायते नात्र संशयः।
पूजयेद्यस्तु रुद्राक्षं कृत्वा तोयाभिषेचनम् ॥ 13 ॥

यत् फलं लिङ्गपूजायां तदेवाप्नोति निश्चितम्।
एकाननाः पञ्चमुखास्तथैवेकादशाननाः ॥ 14 ॥

चतुर्दशाननाः केचिद्रुद्राक्षा लोकपूजिताः।
भक्त्या तत्पूजयेन्मर्त्यो दरिद्रोऽपि श्रियं लभेत् ॥ 15 ॥

श्रुणुध्वमवधानेन पुण्याख्यानानि भूसुराः।
नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ॥ 16 ॥

बभूव वारवनिता सर्वावयवसुन्दरी।
ठत्रं पूर्णेन्दुसङ्काशं यानं मणिविराजितम् ॥ 17 ॥

चामराणि सुदण्डानि पाढुके च हिरण्मये।
विचित्राण्यम्बराण्यस्याः शय्याश्चन्द्रप्रभानिभाः ॥ 18 ॥

गावो महिष्यः शतशो वासाश्च बहुसङ्ख्यकाः।
गन्धकुङ्कुमकर्पूरकस्तूरीलेप इत्यसौ ॥ 19 ॥

भूषणानि परार्ध्यानि कोटिसङ्ख्यायुतं धनम्।
शिवपूजारता नित्यं सत्यधर्मपरायणा ॥ 20 ॥

सदा शिवकथासक्ता शिवनामजपोत्सुका।
शिवभक्तान् जनान् दृष्ट्वा प्रणमन्ती सदा मुदा ॥ 21 ॥

विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यगम्।
रुद्राक्षैर्भूषितं चैकं मर्कटं चैव कुक्कुटम् ॥ 22 ॥

करतालैश्च गीतैश्च सदा नर्तयति स्वयम्।
पुनश्च विहसत्युच्चैः सखीभिः परिवारिता ॥ 23 ॥

रुद्राक्षैः कृतकेयूरकण्ठाभरणकुण्डलः।
मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ॥ 24 ॥

शिखाग्रे बद्धरुद्राक्षः कुक्कुटः कपिना सह।
चिरं नृ(2)त्तस्य तत्त्वज्ञः पश्यतां चित्रमावहन् ॥ 25 ॥

{2. नृत्त्यति नृत्तज्ञः-पा.}
कालेन निधनं प्राप्ताविमौ मर्कटकुक्कुटौ।
भद्रसेनाख्यनृपतेः काश्मीरविषयेशितुः ॥ 26 ॥

मर्कटस्तनयो नाम्ना सुधर्मः सम्बभूव हि।
कुक्कुटस्तदमात्यस्य तारकाख्यः सुतोऽभवत् ॥ 27 ॥

तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ।
विद्याभ्यासरतौ बालौ सहक्रीडां प्रचक्रतुः ॥ 28 ॥

तावुभौ सर्वगात्रेषु रुद्राक्षकृतभूषणौ।
हारकेयूरमकुटकुण्डलादिविभूषणौ ॥ 29 ॥

हेमरत्नमयं मुक्त्वा रुद्राक्षं दधतुश्च तौ।
रुद्राक्षमालिनौ नित्यं रुद्राक्षवरकङ्कणौ ॥ 30 ॥

रुद्राक्षकण्ठाभरणौ सदा रुद्राक्षकुण्डलौ।
कुले महति सञ्जातौ तौ भुक्त्वा भोगमीप्सितम् ॥ 31 ॥

पूर्वाभ्यासेन रुद्राक्षे श्रद्धाभक्तिसमन्वितौ।
कालेन शाम्भवं प्राप्तौ पदं परमशोभनम् ॥ 32 ॥

बृहज्जाबालोपनिषद्यपि--
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ, अधीहि भगवन् रुद्राक्षधारणविधिं ब्रूहीति।
तस्मिन् समये निदाघजडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठपिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः। अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति। ते होचुः रुद्राक्षधाणविधिं वैसर्वे श्रोतुमिच्छामह इति। अथ कालाग्निरुद्रः प्रोवाच, रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायते। अथवा सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति, तन्नयनाज्जाता रुद्राक्षा इति व्याख्यायते तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच।
तद्रुद्राक्षे वाग्विषयीकृते दशगोप्रदानेन यत् फलमवाप्नोति तत् फलमश्रुते। स एष भस्मज्योती रुद्राक्ष इति होवाच। तद्रुद्राक्षं करेण स्पृष्टुमिच्छन् शतगोप्रदानफलं भवति। (3)[तद्रुद्राक्षधारणमात्रेण{3. मातृकायां नास्ति.} सहस्रगोप्रदानफलं भवति। तद्रुद्राक्षे करयोर्धार्यमाणे सति द्विसहस्रगोदानफलं भवति। रुद्राक्षे कण्ठे धार्यमाणे त्रिसहस्रगोदानफलं भवति।] कर्णयोर्धार्यमाणे एकादशसहस्रगोदानफलं भवति। एकादशरुद्रत्वं वा गच्छति। शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति। एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति स होवाच।
अथ सनत्कुमारः पप्रच्छ रुद्राक्षप्रदानफलमस्त्येवेति वा इति। अथ कालाग्निरुद्रः प्रोवाच, अष्टशतरुद्राक्षं दत्त्वा अष्टशतरुद्राक्षं धारयेत् भूवलयदानेन यत् फलमवाप्नोति तत् फलमश्नुते। स एष ज्योतीरुद्राक्षीति होवाच। अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ रुद्राक्षसहस्रं क्रमेण धर्तुं शक्यं वा इति। अथकालाग्निरुद्रः प्रोवाच, रुद्राक्षधारणं कर्तुमधिवासादिप्राणप्रतिष्ठान्तं कृत्वा रुद्राक्षान्वर्षमेकं तु धारयेत्। ब्रह्मत्वं गच्छति। द्विसहस्ररुद्राक्षं द्वे वर्षे धारयेत्। सदाशिवत्वं गच्छति। न स पुनरावर्तते न स पुनरावर्तते। स एको ज्योतीरुद्राक्षीति होवाच।
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ, सर्वोपनिषत्सूक्तं धारणलं ब्रूहीति। अथ कालाग्निरुद्रः प्रोवाच। सर्वोपनिषत्सारं ब्रवीम्यवधारयेति। तत्रैष श्लोको भवति॥ इति।
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञश्रीनिलकण्ठशिवाचार्यकृते
निगमागमसारसंग्रहे क्रियासारे रुद्राक्षधारणनिरूपणं नाम
दशमोपदेशः

-------

एकादशोपदेशः

सम्पाद्यताम्

एकादशोपदेशेऽस्मिन् रुद्राक्षाणां प्रशंसनम्।
निगमागमदृष्टानि वचनान्यखिलं क्रमात् ॥ 1 ॥

पुरा पुष्करदेशस्य राजाशीत्सौत्सौम्यनामवान्।
सदा दुर्मार्गनिरतो नित्यं वेश्यारतौ प्रियः ॥ 2 ॥

तस्य भार्या वसुमती रूपयौवनशालिनी।
राज्ञो वेश्याभिगमनं स्वात्म(1)न्यरतिमीक्ष्य सा ॥ 3 ॥

{1. न्यप्रीति-पा.}
दुःखाक्रान्तेन मनसा चिन्तामाप निरन्तरम्।
भार्यां पुरोहितस्येत्य ततः सत्यव्रताह्वयाम् ॥ 4 ॥

विज्ञाप्य राज्ञो दुश्चेष्टां निजदुःखस्य कारणम्।
स्वस्यामभिरतिस्तस्य केन वा हेतुना भवेत् ॥ 5 ॥

इति पृष्टवतीमेनां सा पुनः प्रत्यभाषत।
रुद्राक्षधारणं भद्रे सर्ववश्यकरं वरम् ॥ 6 ॥

सर्वपापहरं नॄणां सर्वव्याधिनिकृन्तनम्।
भूतप्रेतपीशाचाद्या न च हिंसन्ति तं नरम् ॥ 7 ॥

नच दंशन्ति सर्पाश्च धार्यते येन वा यया।
(2)इत्युक्त्वा तां ददौ तस्या रुद्राक्षं सा सुपावनम् ॥ 8 ॥

{2. इत्युक्त्वैकं ददौ-पा.}
सा तदादाय विश्वासात्कण्ठदेशे बबन्ध हि।
तस्यामासक्तहृदयस्तद्रात्रौ स महीपतिः ॥ 9 ॥

प्रविश्य भवनं तस्यास्तया रेमेऽतिमोहितः।
एवमेव दिवारात्रं क्रीडयामास तां नृपः ॥ 10 ॥

तदा विचारकाभावात्सेना तस्य महीपतेः।
इतस्ततस्तु दुद्राव मुक्तैवं मदनातुरम् ॥ 11 ॥

सपत्नः सहसा कश्चिद्रुरोधास्य पुरं नृपः।
चतुरह्गबलैः साकं कृतकोलाहलारवः ॥ 12 ॥

श्रुत्वैतत्स महीपालः सेनया चावशिष्टया।
प्रत्यग्रहीत्तमायान्तं कृतकोलाहलारवम् ॥ 13 ॥

राज्ञोऽस्य सेना सा शीघ्रं दुद्रावेतस्ततस्तराम्।
एकाकी प्राप नगरं राजासावतिधावनात् ॥ 14 ॥

प्राप्याशु भवनं स्वस्य पत्न्याः सर्वं विबोध्य च।
तस्थावास्थाविनिर्मुक्तः स्वराज्ये दुःखितान्तरः ॥ 15 ॥

तदास्य महीषी प्राह राजानं वीक्ष्य दुःखितम्।
जयो भविष्यति क्षिप्रं धृते रुद्राक्षबूषणे ॥ 16 ॥

अस्मिन्नर्थे न सन्देहः कर्तव्यो भवता प्रभो।
श्रोतव्यस्स पुराणेषु कुशलो वः पुरोहितः ॥ 17 ॥

इति तस्या वचः श्रुत्वा समाहूय पुरोहितम्।
श्रुत्वा रुद्राक्षमाहात्म्यं सर्वदुःखनिवारकम् ॥ 18 ॥

बभार स महीपालो रुद्राक्षाणां सहस्रकम्।
ततः स्वभवनं प्राप्य भार्यया सह भूमिपः ॥ 19 ॥

माहात्म्यं नितरामस्य वर्णयन् परया मुदा।
स्वदेशस्थजनान् सर्वान् चक्रे रुद्राक्षधारिणः ॥ 20 ॥

तस्यास्तां सुकुमारौ द्वौ कुमारौ सर्वलक्षणौ।
तत्रै(3)कोऽतिरथाख्योऽन्यः स्मृतस्त्वतिरथाख्यया ॥ 21 ॥

{3. कोऽपि-पा.}
((4)बभूवतुस्तथा कन्ये सर्वलक्षणसंयुते।
आद्या सकलकालज्ञा स्मृता चित्राङ्गना(5)ख्यया) ॥ 22 ॥

{4. कस्यांचित् मातृकायां नास्ति. 5. परा-पा.}
एतयोरपि रुद्राक्षं बबन्धायं महीपतिः।
ब्रह्मनाथस्य तनुजः कमलाक्षाह्वयो युवा ॥ 23 ॥

वसन् केरलदेशेऽयं विवाह्यास्य कुमारिकाम्।
ज्येष्ठां सकलकालज्ञां शास्त्रोक्तेनैव वर्त्मना ॥ 24 ॥

तद्रात्रौ भवने तस्मिन् तावुभौ दम्पती युतौ।
तदानीं कमलाक्षोऽयं भूषणानि स्त्रियः करे ॥ 25 ॥

दत्वा स्वीयानि तस्याश्च पेटिकायां निधाय सः।
संयोगायाह्वयामास तां भार्यां मदनातुरः ॥ 26 ॥

न धार्यतेत्वया पूर्वं रुद्राक्षवरभूषणम्।
तन्मया सह सङ्गस्ते न युक्तः खलु सर्वदा ॥ 27 ॥

इति भार्यावचः श्रुत्वा कमलाक्षो वचोऽब्रवीत्।
धार्यते भूषणं दिन्यं नानारत्नविचित्रितम् ॥ 28 ॥

तस्मादस्य किमाधिक्यं रुद्राक्षस्य वरानने।
इति तस्य वचः श्रुत्वा प्रत्युवाच महीपतिम् ॥ 29 ॥

न धार्यते महामोहाद्रुद्राक्षवरभूषणम्।
महापातकशेषेण दष्टोऽयं न हि संशयः ॥ 30 ॥

न तेन सहवासो वा संयोगोऽपि हि युज्यते।
अस्मिन्नर्थे पुराणानि प्रमाणानि न संशयः ॥ 31 ॥

अथवा तव विश्वासः कस्मिन् वास्ति नरोत्तम।
श्रोतव्यो मत्पुरः सोऽयं सर्वशास्त्रार्थकोविद ॥ 32 ॥

इति भार्यावचः श्रुत्वा राजा प्राह पुनर्वचः।
इममर्थं यदि ब्रूयात्सम्मतो मम पण्डितः ॥ 33 ॥

भविष्यामि तदा भार्या तवाहं पुरुषोऽपि सन्।
भविष्यसि त्वं पुरुषः सत्यमुक्तं वराननं ॥ 34 ॥

लीलयैवं वचः प्राह भार्यां वीक्ष्यायमप्रतः।
तस्य तद्वचनं श्रुत्वा तथेत्यङ्गीचकार सा ॥ 35 ॥

तस्यां रात्रौ व्यतीतायां दम्पती तौ समुत्थितौ।
कल्याणमण्डपं प्राप्तौ सर्वाभरणभूषितौ ॥ 36 ॥

तदानीमागतास्तत्र ब्राह्मणाः केचनोत्तमाः।
द्रष्टुं कल्याणमनयोर्भूपालाश्च समागताः ॥ 37 ॥

समागतानियं वीक्ष्य भर्तारमवदत्सुधीः।
सम्मतस्तव कोवा (6)स्यात्तेषु विप्रेषु भूमिप ॥ 38 ॥

{6. स्यादेषु-पा.}
रुद्राक्षस्य वरिष्ठत्वं प्रष्टुं तद्धर्तमप्यहो।
इति पस्या वचः श्रुत्वा स्मितपूर्वमभाषत ॥ 39 ॥

पतिः--
कल्याणमण्टपे तस्मिञ्छेषसायी जनार्दनः।
चित्ररूपी चित्रकुड्ये यस्तिष्ठति वरानने ॥ 40 ॥

अनेनोक्तं यदि तदा त्वदुक्तं तत्तथा भवेत्।
उत्थाय तरसा स्थित्वा बद्धाञ्जलिपुटेन वै ॥ 41 ॥

इति भर्तुर्वचः श्रुत्वा तथेत्युक्ता पुनश्च सा।
बद्धाञ्जलिपुटा विष्णुं चित्ररूपिणमाह हि ॥ 42 ॥

अस्ति चेन्महिमा विष्णो रुद्राक्षस्याघनाशिनः।
रुद्राक्षधारिणा पापं कृतं पुण्यफलप्रदम् ॥ 43 ॥

कृतं च पुण्यं पापाय येनारुद्राक्षधारिणा।
अयमर्थो यदि हरे सत्यो वेदान्तसम्मतः ॥ 44 ॥

सर्वाविरुद्धः सर्वत्र विश्रुतस्तव सम्मतः।
तदाधुना? शीघ्रमुत्थायास्मद्भुजङ्गतः ॥ 45 ॥

स्थित्वा सुखासने स्वामिन् वद तथ्यं शिबाज्ञा।
इत्यक्तमात्रेण हरिश्चित्ररूपी भयान्वितः ॥ 46 ॥

सत्यं सत्यं त्वया प्रोक्तं सर्ववेदान्तसम्मतम्।
माहात्म्यमस्य देवेशः केवलं वेद शङ्करः ॥ 47 ॥

जातेन यत्र कुत्रापि जातौ मर्त्येन शोभने।
धार्यते पावनं स्वाङ्गे रुद्राक्षवरभूषणम् ॥ 48 ॥

स एव धन्यः पुण्यस्य बिभ्येऽहं तस्य (7)तप्यतः।
बहुनोक्तेन किं साध्वि सर्वैर्धार्यमिदं ध्रुवम् ॥ 49 ॥

{7. सत्यतः-पा.}
इत्युक्त्वा वासुदेवोऽयं पुनः शिश्ये यथा पुरा।
तदेतदद्भतं दृष्ट्वा सर्वे तत्र जनाः स्थिताः ॥ 50 ॥

आश्चर्यमापुरत्यन्तं तस्यां विश्वासमाययुः।
कमलाक्षोऽपि राजायमाश्चर्येण समन्वितः ॥ 51 ॥

विचारमाप चात्यर्थं स्मृत्वास्या वचनं (8) सुधीः।
तदानीं तं समावृत्य तस्य भृत्यवधूजनाः ॥ 52 ॥

{8. हृदि-पा.}
राजंस्त्वमधुना शीघ्रंमुक्त्वा पुरुषलक्षणम्।
स्त्रीचिह्नवस्त्रभूषाद्यैर्भव स्ववचनं स्मरन् ॥ 53 ॥

परिहासवचः श्रुत्वा नृपोऽयं व्रीडया नतः।
स्वयंभृत्यजनं प्राह यद्येषा पुरुषो भवेत् ॥ 54 ॥

इदानीमहमेतस्या भवेयं वल्लभा वधूः।
इत्युक्तमात्रेण तदा पुरुषोऽबूदियं वधूः ॥ 55 ॥

कमलाक्षोऽपि सहसा स्त्रीत्वं प्राप्य शिवाज्ञया।
कमलाक्षीति विख्याता तदारभ्येयमङ्गना ॥ 56 ॥

(9)सेयं सकलकालज्ञा भार्यया प्रथितो भुवि।
कमलाक्षीप्रमाणेन भर्तारं वीक्ष्य चाब्रव्रीत् ॥ 57 ॥

{9.सोऽयं-पा.}
प्रयच्छ मम रुद्राक्षं सर्वपापौघनाशनम्।
सर्ववेदान्तसंसिद्धं साक्षादीसात्मकं परम् ॥ 58 ॥

न ज्ञायतेऽस्य माहात्म्यं केनापि प्रियपावनम्।
दत्तं भक्त्या समादाय दधौ स्वाङ्गे मुदान्विता ॥ 59 ॥

तावुभौ दम्पती सम्यक् भुक्त्वा भोगांश्च तस्थतुः।
कमलाक्षीपिता योऽसौ ब्रह्मनाथाह्वयो नृपः ॥ 60 ॥

केरलेशं समुद्वीक्ष्य सौम्यवन्तं महीपतिम्।
मम पुत्रोऽगमत्स्त्रीत्वं कमलाक्षो महीपतिः ॥ 61 ॥

सुता तवापि सम्प्राप्ता पुरुषत्वं सुशोभनम्।
अत्याश्चर्यमिदं दृष्टमनयोश्चरितं (10)महत् ॥ 62 ॥

{10. नृप-पा.}
अस्ति मे तनयोऽप्यन्तो विबुधाख्यो महीपतिः।
तस्य ते कन्यकामन्यां ख्यातां चित्राङ्गनाख्यया ॥ 63 ॥

प्रयच्छ विधिना राजन् सर्वलक्षणसंयुताम्।
ब्रह्मनाथवचः श्रुत्वा सौम्यवान् पृथिवीपतिः ॥ 64 ॥

तथेति च ददौ कन्यां विबुधायात्मजां पराम्।
विबुधोऽपि विवाह्यैनां धृतरुद्राक्षभूषणः ॥ 65 ॥

आनयित्वा स्वकं देशं प्राप कल्याणवेषतः।
तत्र स्थित्वा (11)तु रुचिरं भोगांश्च बुभुजे तया ॥ 66 ॥

{11. सुविपुलान्-पा.}
सौम्यवान् ब्रह्मनाथोऽपि धृतरुद्राक्षभूषणौ।
कथयन्तौ च माहात्म्यं पुराणेषु प्रसिद्धिमत् ॥ 67 ॥

भुक्त्वा भोगांश्च विपुलान् दृष्ट्वा दृश्यं च शोभनम्।
अन्ते च परया प्रीत्या पुत्रपौत्रकलत्रकैः ॥ 68 ॥

श्रीमत्कैलासमचलं प्रापतुर्ब्राह्मणोत्तमाः।
अथान्यदपि रुद्राक्षमाहात्म्यं वर्णयामि वाः ॥ 69 ॥

सिन्धुदेशे पुरं किंचिद्भूचक्राख्यं सुशोभनम्।
तत्र कश्चिद्विजश्रेष्ठः सुप्रदीपाह्वयो महान् ॥ 70 ॥

रुद्राक्षमालाभरणो रुद्रे विन्यस्तमानसः।
पुत्राः पौत्रस्तदीया ये सर्वे रुद्राक्षभूषणाः ॥ 71 ॥

एवं वसन् सुप्रदीपो मनसीत्थं चकार वै।
रुद्राक्षधारिणामन्नं दास्याम्यहमनुत्तमम् ॥ 72 ॥

नेतरेषां महापापकलुषीकृतचेतसाम्।
श्रुत्वास्य नियमं कश्चिद्योगाह्गाख्यो यतीश्वरः ॥ 73 ॥

योगमार्गैकनिरतः सर्वशास्त्रार्थकोविदः।
समागतः पुरं शीघ्रं सर्वैर्बहुमतो जनैः ॥ 74 ॥

न धारयत्ययं पुण्यं रुद्राक्षवरभूषणम्।
तस्मादेनमसौ विप्रः सुप्रदीपो महामतिः ॥ 75 ॥

नाङ्गीचकार भिक्षां च नोक्तवानस्य योगिनः।
एवं दिनेषु कतिषु गतेष्वयमतिक्रुधा ॥ 76 ॥

गृहेषु भिक्षाव्याजेन तद्गृहद्वारमागतः।
(12)तमागतं च विज्ञाय सर्वे तद्गृहवासिनः ॥ 77 ॥

{12. तस्यागतिं-पा.}
नाङ्गीचक्रुः स्थितास्तूष्णीमजानन्त इवान्तरे।
सुप्रदीपः स्वयं पश्चाद्विनिर्गत्य गृहाद्बहिः ॥ 78 ॥

किमर्थमागतं गच्छ भिक्षा नास्ति गृहे मम।
गृहेष्वन्येषु सर्वेषु (13)भिक्षाटनमपेक्षया ॥ 79 ॥

{13. भिक्षामट यथेच्छया-पा.}
रुद्राक्षधारिणामन्नं नेतरेषां च मद्गृहे।
न धार्यते त्वया विप्र रुद्राक्षं सर्वपापहम् ॥ 80 ॥

इति तस्य वचः श्रुत्वा गच्छ गच्छ पुरो मम।
भिक्षा न दीयते तुभ्यमित्युवाच द्विजोत्तमाः ॥ 81 ॥

एवं निशम्य वचनं सुप्रदीपस्य धीमतः।
रुष्टो बभाषे वचनं परुषाक्षरसंयुतम् ॥ 82 ॥

निशम्य वचनं तस्य योगिनो निष्ठुरं तदा।
सुप्रदीपात्मजाः क्रुद्धास्तमस्पृष्ट्वा (14)दुराशयम् ॥ 83 ॥

{14. दुराशिनम्-पा.}
तदीयेनैव दण्डेन निन्युस्तं दूरतो द्विजाः।
ततः ससम्भ्रमं क्रुद्धः सन्यासी तत्पुराधिपम् ॥ 84 ॥

सालङ्काख्यं समासाद्य सर्वं तस्मै न्यवेदयत्।
सालङ्कोऽपि नृपश्रेष्ठः स्रुत्वा तदनुपूर्वशः ॥ 85 ॥

स्वकीयैरानयामास सुप्रदीपं भटै(15)स्सह।
सन्न्यासिनं समायान्तं भिक्षार्थं तव वेश्मनि ॥ 86 ॥

{15. स्तदा-पा.}
किमुच्चाटयितुं युक्तं (16)दण्डात्तावद्बलात्पुनः।
परुषं वचनं प्रोक्तं स्वकीयैः पुत्रकैर्बत ॥ 87 ॥

{16. अदत्वा तां बलात्पुनः इति स्यात्.}
इति राज्ञो वचः श्रुत्वा सुप्रदीपोऽब्रवीद्वचः।
न सन्न्यासो भवेद्राजन् विना रुद्राक्षधारणम् ॥ 85 ॥

रुद्राक्षधारणं ह्यङ्गं सर्वस्यैवाश्रमस्य च।
रुद्राक्षधारणैनैव मुक्तिर्ज्ञानान्न केवलात् ॥ 86 ॥

इति वेदाश्च चत्वारो वदन्ति किल सादरम्।
किं चास्ति नियमः कश्चिन्मम राजन्निमं श्रुणु ॥ 87 ॥

रुद्राक्षधारिणामन्नं (17)दास्याम्येव नमामि तम्।
स वन्द्यो मम राजेन्द्र यो वा को वास्तु मानवः ॥ 88 ॥

{17. एममेव सर्वत्र विद्यते.}
स पूज्यः सहि धर्मात्मा यथा देषो महेश्वरः।
नेतरेषां च डम्भानामन्नं दास्याम्यनुत्तमम् ॥ 86 ॥

न पूज्योऽयं महापापी वरीयानाश्रमेष्वपि।
सुप्रदीपस्य वचनं श्रुत्वा राज्ञोऽस्य सन्निधौ ॥ 87 ॥

सन्न्ययासी स (18)पुनः कोपादिदं वचनमब्रवीत्।र
किं साध्यमस्ति रुद्राक्षधारणेन मम द्विज ॥ 88 ॥

{18. मनः-पा.}
किमायाति धृतेऽप्यस्मिन् रुद्राक्षे तव भूसुर।
गत्वाहमधुना शीघ्रं देवलोकमनुत्तमम् ॥ 89 ॥

पुष्पाणि योगमाहात्म्यात्कल्पवृक्षस्य चानये।
यदि शक्तिस्तव भवेदेवं रुद्राक्षधारणात् ॥ 90 ॥

तदा त्वयोक्तखिलं सत्यमेव भविष्यति।
इति तस्य वचः श्रुत्वा योगिनोऽयं महीसुरः ॥ 91 ॥

यदि गत्वा पुरं दैवं योगाभ्यासेन केवलम्।
अनायिष्यसि पुष्पाणि त्वमाशु सुरशाखिनः ॥ 92 ॥

तदास्ति मद्गृहे कश्चिन्मार्जालशिशुरुज्वलः।
देवलोकं समासाद्य पूजितः सकलैः सूरैः ॥ 93 ॥

स शीघ्रं धृतरुद्राक्षः कल्पवृक्षं सुशोभनम्।
आनयिष्यति रुद्राक्षधारणेनैव सत्यतः ॥ 94 ॥

सुप्रदीपवचः स्रुत्वा यतिः कोपसमाकुलः।
एवं यदि भवेद्वाक्यं तव विप्र (19)सदादृतम् ॥ 95 ॥

{19. तदा द्रुतम्-पा.}
वन्द्योऽसि जगतां विप्र भविता नात्र संशयः।
रुद्राक्षधारणं श्रेष्ठं तदा सर्वेषु कर्मसु ॥ 96 ॥

उक्त्वैनं योगमार्गस्थः पशय्त्सु सकलेष्वपि।
प्राणानायम्य विधिना व्योमाशिश्रयदुज्वलः ॥ 97 ॥

गत्वा सुरपुरीं शीघ्रात्कल्पवृक्षप्रसूनकम्।
(20)समानीयागमन्मध्यं सभाया भूमिपाश्रितम् ॥ 98 ॥

{20. समानीयागतः शीघ्रं-पा.}
ददौ प्रसूनं भूपस्य हस्ते तत्सुरशाखिनः।
दृष्टैतदद्भुतं सर्वे महदाश्चर्यसंयुताः ॥ 99 ॥

तुष्टुवुस्तं नृपेन्द्राद्याः सर्वे तत्र सबासदः।
समागतममुं दृष्ट्वा सुप्रदीपो महीसुरः ॥ 100 ॥

स्वपुत्रं प्रेषयामास स्वगृहं प्रति बुद्धिमान्।
मार्जारशिशुमानेतुं द्रुतं रुद्राक्षधारिणम् ॥ 101 ॥

स तु शीघ्रं गृहं गत्वा तमानिन्ये सभान्तरे।
तं समाहूय मार्जारं सुप्रदीपो महीसुरः ॥ 102 ॥

राजन् रुद्राक्षमाहात्म्याद्गत्वा स्वर्लोकमद्भुतम्।
मार्जारोऽयं देवतरुं समानेष्यति शीघ्रतः ॥ 103 ॥

इत्युक्त्वा पाणिना विप्रस्तमम्बरतलेऽक्षिपत्।
तदानीमागतं तत्र विमानमतिशोभनम् ॥ 104 ॥

पश्यत्सु तत्र सर्वेषु जनेष्वारुह्य तत्पुनः।
स्वर्गलोकं ययौ शीघ्रं मार्जारोऽयं महीसुराः ॥ 105 ॥

तमायान्तं सुराधीशो विज्ञाय सहसा बली।
प्रत्यग्रहीत्समारुह्य गजमल्लं स्वसेनया ॥ 106 ॥

अवरुह्य गजात्तूर्णमभ्याशं प्राप्य तस्य च।
भक्तिनम्रो विमानस्थं गजस्कन्धे विधाय च ॥ 107 ॥

विज्ञायागमनं तस्य मनसा वृत्रहा सुधीः।
आघ्राय च शिरस्तस्य नेत्रयोस्तं विधाय च ॥ 108 ॥

स्वीयैराभरणैरेनं समलङ्कृत्य बुद्धिमान्।
विधाय पूजामत्यर्थं पुनस्तं च सुरद्रुमम् ॥ 109 ॥

सुप्रदीपवचः श्रुत्वा तिष्ठाभ्याशे महात्मनः।
उक्त्वैवं वृक्षमतुलं प्रेषयित्वा सुरेश्वरः ॥ 110 ॥

देवसिद्धाह्वयं देवं प्रेषयित्वामुना सह।
मार्जालं तं यथापूर्वं व्योमयाने विधाय च ॥ 111 ॥

प्रणम्य परया प्रीत्या प्रेषयामास देवपः।
इत्थं सम्प्रेषितस्तेन मार्जालोऽयं मरुत्वता ॥ 112 ॥

आरुह्याशु विमानं तद्व्योमयानमशिश्रयम्।
क्षणेन तत्सभामध्यं प्राप ताभ्यां परिष्कृतः ॥ 113 ॥

अवरुह्य चविमानात्स्वादेत्याभ्याशं द्विजन्मनः।
प्रदक्षिणत्रयं कृत्वा प्रणम्य विनयेन च ॥ 114 ॥

तस्थे तस्याग्रतस्तस्यां सभायां ब्राह्मणोत्तमाः।
भक्त्या प्रदक्षिणीकृत्य देवविद्धाह्वयो (13)नरम् ॥ 15 ॥

{13. योऽमरः-पा.}
प्रणम्य सुप्रदीपं तं जगादैन्द्रं वचस्तदा।
निष्कण्टकमहं स्वर्गं कृपया तव केवलम् ॥ 116 ॥

पालयामि सदा स्मृत्वा भवन्तं त्वां शिवप्रियम्।
इति देवेन्द्रवचनमुक्त्वायं पूजितोऽमुना ॥ 117 ॥

स्वर्गं तदनुमत्याशु विमानेनाप सोऽमरः।
कल्पद्रुमोऽपि तं विप्रं विधाय त्रिःप्रदक्षिणम् । 118 ॥

प्रणम्य परया भक्त्या तस्थे तस्याग्रतो द्विजाः।
दृष्ट्वैतदखिलं राजा विस्मयाविष्टमानसः ॥ 119 ॥

उत्थाय तरसा राजा प्रणम्य विनयेन च।
भयेन च समाविष्टो मार्जारं वीक्ष्य तं तदा ॥ 120 ॥

प्राप्तस्त्वया कथं स्वर्गस्तत्रेन्द्रेण च किं कृतम्।
किमुक्तं वचनं ब्रूहि मार्जारवर तत्त्वतः ॥ 121 ॥

इति राज्ञो वचः श्रुत्वा सुप्रदीपः शिवं स्मरन्।
स्वर्गलोकस्त्वया प्राप्तो दृष्टश्च सुरपुङ्गवः ॥ 122 ॥

पूजितस्तेन मार्जारशिशो तत्त्वं शिवाज्ञया।
मुक्त्वाशु वचनाच्छक्तिं वद सर्वं सदुत्तरम् ॥ 123 ॥

इति ब्रुवति विप्रेन्द्रे तस्मिन् रुद्राक्षबूषणे।
मार्जारोऽपि समुत्थाय बद्धाञ्जलिपुटोऽब्रवीत् ॥ 124 ॥

आरुह्य सुन्दरं दिव्यं विमानमहमुज्वलम्।
स्वर्गमापं सुरेशो मां द्रष्टुं प्रत्यग्रहीन्मुदा ॥ 125 ॥

ततः ससम्भ्रमं दृष्ट्वा चावरुह्य गजाद्द्रुतम्।
पाणिभ्यां मां समालिङ्ग्य शिरस्याघ्राय भक्तितः ॥ 126 ॥

गजस्कन्धं समारोप्य बूषयन् भूषणैः स्वकैः।
वृत्तान्तमखिलं ज्ञात्वा कल्पवृक्षामरावुभौ ॥ 127 ॥

योजयित्वा मया साकं विधायापचितिं पराम्।र
प्रेषयामास मतिमान् भक्त्या परमया सह ॥ 128 ॥

तदानीं तस्य महिषी शची प्रोवच देवपम्।
मार्जारोऽयमिमां पूजां कथमर्हति देवप ॥ 129 ॥

कोऽयं समागतः कस्माद्देशादेतद्वद प्रभो।
इति तस्या वचः श्रुत्वा सुरेशः प्राह तां पुनः ॥ 130 ॥

बिभर्त्ययं वरं पुण्यं रुद्राक्षं रुद्रभूषणम्।
स एव धन्यः पूज्योऽपि सर्वैर्देवैश्च मानुषैः ॥ 131 ॥

धार्यते येन रुद्राक्षं देहिना पावनं प्रिये।
((14)न ज्ञायते त्वया किं वा रुद्राक्षमहिमा प्रिये) ॥ 132 ॥

{14. मातृकायां नास्ति.}
अत्र पुण्यां कथां मत्तः श्रुणुष्वावहिता प्रिये।
पूर्वेद्युः शङ्करं प्राप्य प्रेतराट् सह किङ्करैः ॥ 133 ॥

प्रणम्य परया भक्त्या मन्दरे चारुकन्दरे।
दृष्टः प्रोवाच देवेन स्वस्यागमनमत्र च ॥ 134 ॥

यमः--
जय शम्भो महादेव भक्तवत्सल विश्वप।
त्वयैवेदं पुरा दत्तं पदं मम महेश्वर ॥ 135 ॥

क्रियते सा मया पूजा भक्तानां तव पावनी।
भवाब्धिपोत भगवन् ते ये विमुखमानसाः ॥ 136 ॥

पीड्यन्ते पापिनस्ते वै नरके दुःखसागरे।
त्वया कृता च मर्यादा कुत्र वा वितथा भवेत् ॥ 137 ॥

धर्माधर्माह्वयौ मार्गौ कल्पितौ भवता प्रभो।
शुखं धर्मफलं शम्भो दुःखं पापफलं तथा ॥ 138 ॥

विनिर्मितं नु भवता देवदेवेन शङ्करः।
तद्धेतू स्वर्गनरकौ भवतैव हि कल्पितौ ॥ 139 ॥

तदत्र मामकैर्दूतैः पीडितं नरके भृशम्।
महापापिनमासाद्य भवदीया गणाः प्रभो ॥ 140 ॥

दिव्यं विमानमारोप्य नानारत्नविचित्रितम्।
सन्ताड्य मामकान् दूतान् कैलासं निन्यिरे बत ॥ 141 ॥

इति ब्रुवति कीनाशे भयाकुलितमानसे।
प्राह गम्भीरया वाचा भैरवस्तं शिवाग्रतः ॥ 142 ॥

किमस्ति पुण्यं मतिमन् नास्ति कीनाश शोभनम्।
इह जन्मनि नित्यं त्वं वदात्र शिवसन्निधौ ॥ 143 ॥

इति तस्य वचः श्रुत्वा भैरवस्य स धऱ्मराट्।
चित्रगुप्तं निजाभ्याशे स्थितं दृक्‌संज्ञयावदत् ॥ 144 ॥

चित्रगुप्तस्ततो देवं प्रणम्याञ्जलिहस्तनान्।
जगाद भैववं वाक्ष्य प्रश्रयावनतः पुरः ॥ 145 ॥

प्रशीद देव देवेश करुणाकर भैरव।
देशे कलिङ्गसंज्ञे यत्पुरं व्याघ्राभिधं महत् ॥ 146 ॥

तत्रास्तेऽयं महापापी जामित्राख्यो महाबलः।
(15)जारस्यास्य तु पापस्य जननी व्यभिचारिणी ॥ 147 ॥

{15. जारतोऽस्य तु-पा.}
जारौषधवशात्पापा मृतैषा किल देवप।
जारेण रक्षितः पापी जनकेनैव दुष्टधीः ॥ 148 ॥

कालेन यौवने प्राप्ते महाव्यामोहकारणे।
चौर्यं कृत्वापि दुष्टात्मा कामबाणेन मोहितः ॥ 149 ॥

दाशीनां सङ्गतो नित्यं सवयोभिश्च तादृशैः।
द्रव्याभावात्पुनः कश्मिन्दिवसे जनकं च तम् ॥ 150 ॥

जघान तं च पापिष्ठः कपटेन दुरात्मवान्।
मद्यपायी सदा तद्वन्मांसभोज्यतिवञ्चकः ॥ 151 ॥

स्तेयं कुर्वन् दिने तस्मिन् दृष्टोऽयं ग्रामपालकैः।
ताडितः पीटितोऽत्यन्तं निहतः पितृकानने ॥ 152 ॥

न किंचिदस्य पापस्य पुण्यं जन्मनि विद्यते।
दिनान्यपि च चत्वारि मृस्यास्य जगत्प्रभो ॥ 153 ॥

बाधितो नितरां दूतैरस्मदीयैरयं प्रभो।
सन्ताड्य तान् भृशं दूताः भवदीया महेश्वर ॥ 154 ॥

मोचयित्वा दुरात्मानं कैलासं निन्यिरे प्रभो।
न किंचिदपि जानेऽहं पुण्यमस्य दुरात्मनः ॥ 155 ॥

इत्युक्त्वा चित्रगुप्तोऽयं तस्थे बद्धाञ्जलिः पुरः।
तमाह भैरवो वीक्ष्य चित्रगुप्तं स्मयन्निव ॥ 156 ॥

चक्रवाकस्य भूपस्य सुता सर्वाङ्गसुन्दरी।
सस्रौ गृहे स्वकीये सा हारयष्टिं मनोहराम् ॥ 157 ॥

निधाय मल्लिकावल्ल्यां रुद्राक्षप्रोतमध्यमाम्।
गृहीत्वोड्डीय तां काकः (16)कश्चिद्गगनमार्गतः ॥ 158 ॥

{16. जगामाकाशमार्गतः इति स्यात्.}
हारयष्टिस्तदा छिन्ना गच्छतोऽस्यतिपावनम्।
निमग्नं रक्तसंस्पर्शात्तिष्ठत्यद्यापि चान्तक ॥ 159 ॥

पपात किल पुण्येन केनाप्यस्यातिपावनम्।
निमग्नं रक्तसंस्पर्शात्तिष्ठत्यद्यापि चान्तक ॥ 160 ॥

तेन पुण्येन कैलासं प्राप्तवानयमन्तक।
अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते ॥ 161 ॥

स वेत्ति रुद्रो गवान् (17)शक्तिं रुद्राक्षतो न वा।
तदेतत्सर्वमाकर्ण्य शैलादिर्हृषिताङ्गवान् ॥ 162 ॥

{17. वत रुद्राक्षतो नवा, भस्मरुद्राक्षतो न वा-पा. भक्तरुग्द्रावको न वा.}
तिष्ठते देहिनो यस्य देहे रुद्राक्षमुत्तम्।
कैलासमेष यातीति किमाश्चर्यं शिवप्रियः ॥ 163 ॥

अस्तिकेशादि गङ्गायां मृत नां बहुकालतः।
पतितं यदि ते शीघ्रं कैलासं यान्ति वै यम ॥ 164 ॥

मादेतस्य कैलासप्राप्तिर्नैवाद्धुतं यम।
इति नन्दीशवचनं श्रुत्वैतौ भयकम्पितौ ॥ 165 ॥

चित्रगुप्तयमौ नत्वा देवदेवं त्रियम्बकम्।
विचिन्तयन्तौ माहात्म्यं रुद्राक्षस्याधनाशिनः ॥ 166 ॥

प्रतस्थाते महेशस्य चाज्ञया स्वपदं प्रति।
प्रस्थितं तं पुनरपि समाहूय महेश्वरः ॥ 167 ॥

अद्यप्रभृति रुद्राक्षधारिणो मम वल्लभान्।
दूराद्‌दृष्ट्वा यम भयान्नत्वा तान् मनसा व्रज ॥ 168 ॥

दूतानामपि शिक्षैषा कर्तव्यां चाप्रमादिना।
मम प्राणाधिका भक्ता भस्मरुद्राक्षभूषणाः ॥ 169 ॥

न तान् प्रत्यधिकारस्ते सत्यंसत्यमिहोच्यते।
इति शम्भोर्वचः श्रुत्वा तथा कृत्वा मनस्ययम् ॥ 170 ॥

प्रणम्य परया भक्त्या निर्जगाम पदं प्रति।
दृष्ट्वैतदखिलं शम्भोः सन्निधौ गतवासरे ॥ 171 ॥

ममात्यन्तमभूत्प्रीतिः प्रति रुद्राक्षधारिणः।
तन्मया वल्लबे पूजा कृतास्याखुभुजस्तराम् ॥ 172 ॥

इति देवेशवचनं श्रुत्वेन्द्राण्यपि विस्मिता।र
मामादाय कराभ्यां सा मूर्ध्न्याघ्रय नरेश्वर ॥ 173 ॥

गदितमिति निशम्य तत्र वृत्तं
दिवि नृपतिं (18)पृषदं शकेन सत्यम्।
(19)अधिकमयमियाय भक्तमस्मि-
न्नाधिगतविस्मयमानसो द्विजेन्द्राः ॥ 174 ॥

{18.विषदंशकेन-पा. 19.एवमेम सर्वत्र वर्तते। नृपतिरयमियाय-इति साधुः.}
ततः प्रणम्य राजासौ सुप्रदीपं द्विजोत्तमम् ॥ 175 ॥

भक्त्या स्वयंच रुद्राक्षं ययौ धर्तुं स आत्मवित्।
रक्ष मां (20)शरणं पापं कृतमन्तुं द्विजोत्तम ॥ 176 ॥

{20. शरणं प्राप्तं कृवंशं-पा.}
कृतार्थोऽस्मि कृतार्थोऽस्मि दर्शनालापतस्तव।
इति ब्रुवति राजेन्द्रे सहसोत्थाय स व्रती ॥ 177 ॥

प्रणम्य परयाप्रीत्या द्विजश्रेष्ठमुवाच ह।
रुद्राक्षधारणात्त्वं हि रुद्रोऽस्यनघ केवलम् ॥ 178 ॥

क्षमस्व मत्कृतं मन्तुं दयार्द्रान्तर सर्वथा।
न कुप्यन्ति महात्मानः कृतागस्स्वपि देहिषु ॥ 179 ॥

स्तुत्वैवमास्थितावेतौ बद्धाञ्जलिपुटावुभौ।
सुप्रदीपो निजाभ्याशे स्थापयित्वाव्रवीत्कथाम् ॥ 180 ॥

देशे मकरसंज्ञेऽस्ति पुरं च मकराभिधम्।
तत्रास्ते ब्राह्मणः कश्चित्सुगुप्ताख्यो महामतिः ॥ 181 ॥

तस्यासंस्तनयाः पञ्च ब्राह्मणस्य सुमेधसः।
तेषामवरजः कश्चिच्छान्तिसंज्ञोऽस्ति पुण्यवान् ॥ 182 ॥

धूलिक्रीडां वितन्वानः किंचिद्रुद्राक्षमाप्तवान्।
तद्वध्वा निजकण्ठेऽयं सर्वदा तिष्ठते व्रती ॥ 183 ॥

न श्रुणोति वचः पित्रोर्भ्रातॄणां (21)भ्रान्तवत्सुधीः।
दरिद्रोऽप्यनघोऽहस्सु स्वेच्छया न प्रवर्तते ॥ 184 ॥

{21. भ्रान्तवस्तुनि-पा.}
भ्रातरोऽन्येऽपि चत्वारः पितृभ्यां सहिताः सदा।
याच्नावृत्त्योदरं नित्यं पोषयन्ति स्वकीयकम् ॥ 185 ॥

न याति कुत्रचिद्गेहं मुक्त्वाऽयं ब्राह्मणात्मजः।
यवागुमात्रमप्येष पीत्वा दत्तं तु याचकैः ॥ 186 ॥

तिष्ठत्येव चिरं कालं धृतरुद्राक्षभूषणः।
द्विषनत्येनमश्रुण्वन्तं वचनं भ्रातरस्तदा ॥ 187 ॥

तदानीं केरलाधीशो नृपः कश्चन तापसः।
नारं बलिं भद्रकाल्याः प्रत्यब्दं विदधात्ययम् ॥ 188 ॥

तस्मिन् देशे नरः कोऽपि लभ्यते न प्रयत्नतः।
ततोऽयं प्रेषयामास माकरे विषये भटान् ॥ 189 ॥

दत्वा बहूनि द्रव्याणि क्रेतुं नरमनिन्दितम्।
विचार्याभ्यागतास्तेऽपि तत्र तत्रद्विजालये ॥ 190 ॥

क्रमेणास्य गृहं प्राप्य वृत्तान्तं सर्वमूचिरे।
श्रुत्वैतद्द्रव्यमादाय ते पितृभ्रातरस्तदा ॥ 191 ॥

ददुरेनमिमे तेभ्यः शान्तिकं शान्तमानसम्।
स तेषामनुमत्यैतान् प्राप्य सन्तुष्टमानसः ॥ 192 ॥

केरलाधीशनगरे तस्थे पौरोहिते गृहे।
पुनर्बलिदिने स्नात्वा शान्तिको धृतभूषणः ॥ 193 ॥

गन्धावलिप्तसर्वाङ्गः श्रुत्वा पौरोहितं वचः।
पुरोहितेन भवनं राज्ञः प्रापातिहृष्टधीः ॥ 194 ॥

दृष्ट्वैनं स तु राजापि बल्यर्थं निश्चितान्तरः।
कालीभवनमापायं साकं तेनामुना द्रुतम् ॥ 195 ॥

सम्पूज्य तां तदा दिव्यैर्धूपैर्दीपैरनेकशः।
पुष्पैर्नानाविधैर्भक्ष्यैर्भेज्यैर्मांसैश्च शोणितैः ॥ 196 ॥

स्थाप्यैनं पुरतस्तस्थे भ्द्रकाल्याः स शान्तिकम्।
दृष्ट्वैनं शान्तिकं काली धृतरुद्राक्षभूषणम् ॥ 197 ॥

भीता प्रणम्य मनसा सहसोत्थाय सा पुनः।
हत्वा पुरोहितं कोपात्पपौ रक्तं दुरात्मनः ॥ 198 ॥

शान्तिकं तं समीक्ष्यैषा जगाद वचनं तदा।
न समस्ते जगत्यस्मिन् ब्राह्मणानामधीश्वर ॥ 199 ॥

यतस्त्वया गले पूतं रुद्राक्षं धार्यते कृतिन्।
धन्योऽसि त्वं महासत्व स्थिरचित्त दृढव्रत ॥ 200 ॥

स त्वं रुद्रो न सन्देहः सुपूज्यश्च सुरोत्तमैः।
वरं वरय पुण्यात्मन् वाञ्छितं ते ददाम्यहम् ॥ 201 ॥

इति काल्या वचः श्रुत्वा शान्तिकः प्राह तां तदा।
यदि देयो वरो मह्यं मय्यपि प्रीतिरस्ति चेत् ॥ 202 ॥

अयं नरबलिर्मास्तु प्रत्यब्दं तव चेश्वरि।
प्रयच्छ वाञ्छितं चास्मै राज्ञे सन्तुष्टमानसा ॥ 203 ॥

इति तस्य वचः श्रुत्वा तथा दत्वा वरं च तम्।
राजानं वीक्ष्य सा प्राह पुनर्वचनमीश्वरी ॥ 204 ॥

पूजयैनं नृप सदा रुद्राक्षवरभूषणम्।
(22)एतद्रुद्रस्य वचनं श्रुत्वा स्थातुं त्वमर्हसि ॥ 205 ॥

{22. रुद्रवद्वचनं चास्य-पा.}
तव कन्यां प्रयच्छास्मै पाणिग्रहणमार्गतः।
एवं स्थिते चेद्भवतः सर्वाभीष्टं भविष्यति ॥ 206 ॥

यस्मादेनं पुरोधास्ते बल्यर्थं त्वनयन्नृप।
दोषेण तेन निहतः सन्निधौ तव सत्यतः ॥ 207 ॥

मृतोऽस्य तनयोऽप्यद्य मृता भार्याप्यनिन्दिता।
दग्धं च गोहं सुमहद्वह्निना धरणीपते ॥ 208 ॥

एनं द्विषन्ति ये भ्रातृपितरस्तेऽतिपापिनः।
चोरैरपहृतद्रव्याः कुष्ठादिव्याधिपीडिताः ॥ 209 ॥

क्षुत्तृष्णापीडिता नित्यं निराहारा निरालयाः।
अटन्ति देशाद्देशं ते निमग्ना दुःखसागरे ॥ 210 ॥

य एनं धृतरुद्राक्षं पूजयन्ति महेशवत्।
ते दग्धकिल्विषा नित्यं मोदन्ते देववत्क्षितौ ॥ 211 ॥

इति काल्या वचः श्रुत्वा राजायं प्रीतिसंयुतः।
विधिना ग्राहयामास पाणिं दुहितुरुज्वलम् ॥ 212 ॥

भवनं च विधायास्य नानारत्नविचित्रितम्।
प्रादाद्राजा (23)द्विजं चैनं दृष्ट्वेशवदपूजयत् ॥ 213 ॥

{23. दिनं चैवं-पा.}
शान्तिकोऽप्येकरुद्राक्षधारणस्येदृशं फलम्।
आलोच्य कण्ठबाह्वंसमणइबन्धशिरस्स्वपि ॥ 214 ॥

बभार किल रुद्राक्षं सहस्राधिकसङ्ख्यया।
भार्यया सहितस्तस्थे मन्दिरे क्रीडयन्मुदा ॥ 215 ॥

श्रुत्वैदखिलं वृत्तमस्यये पितृसोदराः।
मदीय इति निश्चित्य तं देशं प्रापुरञ्जसा ॥ 216 ॥

परित्यक्तद्विजाचारा व्रणक्लिन्नशरीरिणः।
तान् दृष्ट्वाऽयं मुदा गेहमानयित्वातिमुन्दरम् ॥ 217 ॥

स्नापयित्वासु तैलेन दिव्यं वस्त्रं प्रदाय च।
रुद्राक्षमाया सर्वानभूषय(24)दयंव्रतीन् ॥ 218 ॥

{24. दथव्रतीन्.}
तेऽपि रुद्राक्षमाहात्म्यात्त्यक्तकुष्ठादिरोगिणः।
दिव्याम्बरधरा नित्यं दिव्याभरणभूषिताः ॥ 219 ॥

भुक्त्वा भोगान् सुविमलाञ्छान्तिकेनामुना सह।
कैलासं प्रापुरतुलं प्रीत्या परमया युताः ॥ 220 ॥

अजानतापि रुद्राक्षं मणिभ्रान्त्यामुना (25)तदा।
धृतमस्य फलं सम्यक्‌च्छ्रुतं किल महामते ॥ 221 ॥

{25. व्रतिन्-पा.}
ज्ञात्वा ये सिवभूषणं परतमं खर्गापवर्गप्रदं
रुद्राक्षं विधिना मुदा निजतनौ सम्यक्‌सदा बिभ्रति।
तेषां दग्धनिजैनसामिह फलं जनाति को वा सुधीः
त्यक्त्वा शङ्करमम्बिकां गणपतिं सत्यं मया कीर्तितम् ॥ 222 ॥

सुप्रदीपस्य वचनं श्रुत्वाश्चर्यसमन्विताः।
तदा प्रभृति रुद्राक्षं(26) धत्ते रुद्रस्य भूषणम् ॥ 223 ॥

{26. द्रध्नू रुद्रस्य.}
दग्धाघौघो निजं कर्मयोगं मुक्त्वा मुनीश्वरः।
प्राप्याशु शिवयोगित्वं शिवस्यैव प्रसादतः ॥ 224 ॥

मुक्तिमाप शिवज्ञानात्पुनारावृत्तिदुर्लभाम्।
तत आरभ्य राजापि रुद्राक्षाभरणोज्वलः ॥ 225 ॥

अनेककालमखिलं राज्यं कृत्वारिवर्जितम्।
भुक्त्वा च विपुलान् भोगान्मानुषानन्दसंयुतः ॥ 226 ॥

पुत्रे तु राज्यं निक्षिप्य शिवलोकं ययौ द्विजाः।
सुप्रदीकोऽपि रुद्राक्षमाहात्म्यमनुवर्ण्य सः ॥ 227 ॥

स्वगृहं प्राप्य परया प्रीत्यानेकाब्दमुज्वलः।
भुक्त्वा भोगान् बहुविधान् पुत्रैः पौत्रैः समन्वितः ॥ 228 ॥

शिष्यैः प्रशिष्यैः सहितो बन्धुभिर्भार्यया सह।
दिव्यं विमानमारुङ्य देवस्त्रीभिर्विभूषितम् ॥ 229 ॥

देवदुन्दुभिनिर्घोषैः पुष्पवृष्टिभिरुच्चकैः।
देवर्षीणां गणैरग्रेयायिभिः परिवीतवान् ॥ 230 ॥

इन्द्रेण प्रेषितं कल्पवृक्षमाभरणं तथा।
उज्जयिन्यां महाकालमहेशस्य प्रदाय च ॥ 231 ॥

मार्जारेणामुना साकं शिवलोकं ययौ तदा।
ततः कालेन सायुज्यमवाप परमेशितुः ॥ 232 ॥

ऋषयः--
वर्णितं भवता सूत माहात्म्यं भस्मनः पुरा।
रुद्राक्षस्यापि माहात्म्यं वर्णितं सर्वसम्मतम् ॥ 233 ॥

भस्मधारणमात्रेण सर्वाभीष्टं भवत्यलम्।
किमर्यं धार्यमेवं चेद्रुद्राक्षं तापसेश्वर ॥ 234 ॥

एतन्नः संशयं छिन्धि पुराणार्थविशारद।
अन्यो न त्वामृते छेत्ता संशयस्यास्य पण्डितः ॥ 235 ॥

भवादृशानां महतां सत्सु श्रोतृषु तापस।
नावाच्यमस्ति परमं रहस्यमपि पावनम् ॥ 236 ॥

इति तेषां वचः श्रुत्वा सूतः पौराणिकोत्तमः।
प्राह गम्भीरया वाचा मन्दस्मितमुकाम्बुजः ॥ 237 ॥

सूतः--
श्रुणुध्वमृषयः सर्वे यूयं विगतकिल्बिषाः।
धृतं च केवलं भस्म वारिणा स्वेदबिन्दुना ॥ 238 ॥

वृष्ट्या स्नानेन सम्मर्दाज्जनानामपि भूसुराः।
एवमाद्यैः प्रमृष्टं चेद्भयं भवति देहिनाम् ॥ 239 ॥

भूतप्रेतपिशाचाश्च राक्षसा व्यालतस्कराः।
व्याघ्रसिंहादयो यस्मात्सर्वे (27)मर्मभिदः सदा ॥ 240 ॥

{27. मर्मविदः-पा.}
हिंसन्ति भस्मना हीनमरुद्राक्षं महीसुराः।
तस्माद्रुद्राक्षमनिशं कर्णकण्ठकरादिषु ॥ 241 ॥

भस्मना सह धर्तव्यं स्वात्मनो हितमिच्छता।
न चैतद्भस्मवद्विप्रा सापायं वा जलादिभिः ॥ 242 ॥

भूतप्रेतपिशाचास्तं न च हिंसन्ति राक्षसाः।
न दंशन्ति च सर्पास्तं भस्मरुद्राक्षधारिणम् ॥ 243 ॥

धर्तव्यमेतत्सूत्रेण सौवर्णेनाथवा द्विजाः।
राजतेन च ताम्रेण रुद्राक्षं च गलादिषु ॥ 244 ॥

यज्ञोपवीते वा चैकं भस्मना सर्वदा द्विजाः।
तस्मात्सर्वप्रयत्नेन भस्मरुद्राक्षभूषणः ॥ 245 ॥

न विभेति च शत्रूणां यथा निर्भय एव च।
अत्रेतिहासं परमं कथयामि महीसुराः ॥ 246 ॥

अस्ति कश्चिन्महीपालो देसे सवितृसंज्ञके।
श्रीमत्सूरपुरे रम्ये सिन्धुसेनाह्वयो महान् ॥ 247 ॥

स तु सिंहाभिदं भूपं विन्ध्यदेशाधिपं रिपुम्।
काकलाख्यपुराधीशं युधि जित्वा महाबलः ॥ 248 ॥

द्रावयामास विप्रेन्द्र महारण्ये स्वसेनया।
स तु तत्र वने सिंहश्चिरकालं वसन्पुनः ॥ 249 ॥

तपसाराध्य गोविन्दं सर्वशत्रुनिबर्हणम्।
चक्रं सुमहदापायं शत्रुसंहारकारकम् ॥ 250 ॥
चक्रप्रदानसमये प्रसन्नो माधवस्तदा।
पञ्चावृत्त्यैतदतुलं भवेत् शत्रुनिबर्हकम् ॥ 251 ॥

ततः परं ममाभ्याशं समेष्यति महीपते।
इत्युक्त्वाऽन्तर्दधे देवः क्षणाद्दत्वैतदद्भुतम् ॥ 252 ॥

तल्लब्ध्वा स महीपालः क्षणान्निर्गत्य काननात्।
सिन्धुसेनं ससेनं तमावृत्य सहसा बली ॥ 253 ॥

युद्धं कृत्वा पुनश्चक्रं योजयामास भीषणम्।
तच्चक्रं सहसा सेना हत्वा सर्वा विनैव तम् ॥ 254 ॥

आजगाम पुनस्तस्य करं परमभीषणम्।
एकाकी सिन्धुसेनोऽयं वनमापातिभीणम् ॥ 255 ॥

तत्राश्रमं वसिष्ठस्य सञ्चरन् प्राप भूसुराः।
तत्र दृष्ट्वा सहात्मानं वसिष्ठं गौतमं परम् ॥ 256 ॥

कौशिकं नारदादींश्च महर्षीन् सम्प्रणम्य सः।
भो भो विज्ञानम्रन्ना ऋषयःसंशितव्रताः ॥ 257 ॥

ईसं सर्वस्य देशस्य मां जानन्तु मनीषिणः।
सोऽहं पराजितो युद्धे शत्रुणा तुल्यतेजसा ॥ 258 ॥

इदानीं शरणं प्राप्तो भवतः पुण्यगौरवात्।
तदुपायेन केनापि विजयो मे भवेदलम् ॥ 259 ॥

वदन्तु भगवन्तस्ते तमुपायमृषीश्वराः।
इति तस्य वचः श्रुत्वा सर्वे ते तापसोत्तमाः ॥ 260 ॥

प्रोचुरस्य समालोच्य विजयोपायमुत्तमम्।
धृत्वा स्वसेनया भस्म रुद्राक्षं च जयप्रदम् ॥ 261 ॥

युद्धं कृतं चेद्विजयो भविषय्ति न संशयः।
(सेनाश्च भवतः सर्वा भस्मरुद्राक्षवर्जिताः)
सेनाश्च निहता- सर्वा भस्मरुद्राक्षहैन्यतः ॥ 262 ॥

इत्युक्तं तापसश्रेष्ठा भवद्भिः संशयस्ततः।
इति तस्याकलय्यैके वचनं तपतां वराः ॥ 263 ॥

त्वया नृप धृतं भस्म रुद्राक्षं च जयप्रदम्।
(28)हेतुनानेन चक्रं त्वां मुक्त्वा तन्निर्गतं ध्रुवम् ॥ 264 ॥

{28. हेतुना केन-पा.}
राजा--
न धृत्वा भस्म रुद्राक्षं मयाप्यायोधनं कृतम्।
कस्तूरीचन्दनालिप्तो मुक्तादामविभूषितः ॥ 265 ॥

प्रवृत्तोऽहं मृधे नीलरत्नमुक्ताविभूषितः।
एतावदेव जानेऽहं केवलं तापसोत्तमाः ॥ 266 ।
तथापि मुक्त्वा मां चक्रं हत्वा सेनां विनिर्ययौ।
इति राज्ञो वचः श्रुत्वा ऋषयः संशितव्रताः ॥ 267 ॥

शोदय त्वमिहेदानीं मुक्तादामान्यदाम च।
इत्युक्त्वा मौक्तिकं दाम शोधयामासुरञ्जसा ॥ 268 ॥

तत्र दृष्ट्वेकरुद्राक्षमेतस्मै तददर्शयन्।
दृष्टैतद्विस्मयाविष्टास्तथैव भयकम्पिताः ॥ 269 ॥

केन दत्तमिदं भूप कुत आरभ्य धार्यते।
वद त्वमेतदालोच्य यथार्थं नोऽद्य सन्निधौ ॥ 270 ॥

राजा--
यदाहं युद्धसन्नद्धः प्रस्थितस्त्वरया गृहात्।
तदा वणिक्कश्चिदेतदुपहारेण दत्तवान् ॥ 271 ॥

(29)करवेगेन धृत्वैतत्प्रवृत्तो रणमण्डले।
न शोधितं च दामैतन्मौक्तिकं रणसम्भ्रमात् ॥ 272 ॥

{29. रणवेगेन-पा.}
एतस्यैवं वचः श्रुत्वा ऋषयस्तेऽतिविस्मिताः।
माहात्म्यादस्य राजंस्त्वं जीवितो नात्र संशयः ॥ 273 ॥

पराजितो मृतबलो हन्तुं चक्रे विनिर्गते।
इतः परं च धृत्वा त्वं भस्म रुद्राक्षमुत्तमम् ॥ 274 ॥

बलैश्च भस्मरुद्राक्षधारकैः परिवीतवान्।
विनिर्गतश्चेद्युद्धाय विजयो भविता ध्रुवम् ॥ 275 ॥

नान्योस्त्युपायो विजये भस्मरुद्राक्षयोः परः।
इति वाक्यं निशम्यैषां विनिश्चित्य तथेति सः ॥ 276 ॥

धृत्वा भस्म च रुद्राक्षं युद्धाय कृतनिस्चयः।
प्रतस्थे स्वयमेकाकी वनाद्धृत्वा धनुर्वरम् ॥ 277 ॥

तदानीं मिलितास्तस्य भटाः केचन सायुधाः।
तेषां भस्म च रुद्राक्षं दत्वायं परमोद्यमः ॥ 278 ॥

सिंहस्य नगरं शीघ्राद्रुरोध स्वबलैः सह।
(30)विनिर्गत्याशु सिंहोऽपि कृतकोलाहलो बलैः ॥ 279 ॥

{30. स्थित्वात्रैतस्य वृत्तान्तं सिंहः कालेन बुद्धिमान्-पा.}
प्रेषयामास तच्चक्रं सर्वशन्नुनिबर्हणम्।
महारवेण तच्चक्तं प्राप्य तत्परसैन्यकम् ॥ 280 ॥

दृष्ट्वा तान् भस्मरुद्राक्षधारिणो रुद्रतेजसः।र
प्रणम्य भक्त्या परया विधायैषां प्रदक्षिणम् ॥ 281 ॥

विनिर्ययौ पुनः पाणिं प्रयोक्तुस्तस्य भूसुराः।
दृष्ट्वैतत्सोऽतिवित्रस्तः प्राप भग्नो वनं द्रुतम् ॥ 282 ॥

श्रुत्वात्रैतस्य वृत्तान्तं सिंहकोऽत्यन्तबुद्धिमान्।
तपश्चचार सुमहदुद्दिश्य वरुणं द्विजाः ॥ 283 ॥

प्रसन्ने यादसां पत्यौ पप्रच्छ वरमुत्तमम्।
अपेक्षिता यदा वृष्टिर्मया यादःपते (31)विभो ॥ 284 ॥

{31. प्रभो-पा.}
तदैव शीघ्रतो भूयात्प्रसन्नो यदि सर्वथा।
तथेत्युक्त्वा जगामाशु वरुणः स्वालयं प्रति ॥ 285 ॥

इति लब्धवरः सिंहः सिन्धुसेनं परेऽहनि।
आरजुहाव रणायायं कृतकोलाहलारवः ॥ 286 ॥

प्रत्यग्रहीत्सिन्धुसेनस्तं सिंहं युद्धगर्वितम्।
तदा सस्मार वरुणं सिंहो मध्यन्दिनेऽपि सः ॥ 287 ॥

समाययौ महावेगाज्जलाकारतयाप्पतिः।
वृष्ट्या सेनाः परिक्लिन्ना उभयोरपि तास्तदा ॥ 288 ॥

सिन्धुसेनस्य सेनासु केवलं भस्मधारिणः।
ये भटास्ते महावृष्ट्या प्रमृष्टात्मविभूतयः ॥ 289 ॥

सम्बभूवुस्तदा सिंहश्चक्रमादाय भीषणम्।
युयोज सिन्धुसेनस्य सेनास्वतुलविक्रमः ॥ 290 ॥

तच्चक्रं सहसाक्रम्य सिन्धुसेनबलं महत्।
आवृत्य भस्मना हीनानरुद्राक्षान् भटान् बहून् ॥ 291 ॥

हत्वा मुक्त्वाशु रुद्राक्षधारिणो मुच्य भूमिपम्।
अवाप त्वरया हस्तं सिंहस्यास्य महौजसः ॥ 292 ॥

सिन्धुसेनोऽल्पसेनत्वाद्धृतरुद्राक्षबूषणैः।
भटैः कैश्चित्सहैवाशु वनं प्राप सुदुःखितः ॥ 293 ॥

तत्र दृष्ट्वा ऋषीन्पूर्वान्वसिष्ठादीन् प्रणम्य सः।
धृत्वा भस्म च रुद्राक्षं भस्मरुद्राक्षधारिभिः ॥ 294 ॥

बलैर्युष्मद्वचः श्रुत्वा प्रविष्टो रणमण्डलम्।
चक्रं युयोज तेनाशु सोऽस्मदीयासु तापसाः ॥ 295 ॥

तच्चक्रं सहसाक्रभ्य हत्वा शूरान्मदीयकान्।
मया सह त्रिचतुरान्मुक्त्वा प्रतिययौ महत् ॥ 296 ॥

इत्युवाच ऋषीनेष समीक्ष्यातिभयान्वितः।
इति कथितममी निशम्य राज्ञा
निजहृदयेषु विचिन्त्य तत्क्षणेन।
अनवरतमिदं बिभर्ति योऽङ्गे
न स मृतिमेति परायुधैः क्षितीश ॥ 297 ॥

इति तेषां वचः श्रुत्वा पुनराह ऋषीनयम् ॥ 298 ॥

धृत्वा भस्म च रुद्राक्षं केचिद्भस्मावकुण्ठिताः।
परे प्रवृत्ता युद्धाय ततो वृष्टिरभूत्तराम् ॥ 299 ॥

तदा वृष्ट्या परिक्लिन्नाः सेनास्ता उभयोरपि।
ततश्चक्रं मुमोचायं सिंहः शत्रुनिवर्हणम् ॥ 300 ॥

तेन घोरेण निहताः सेना मम तपोधनाः।
इति राज्ञो वचः श्रुत्वा ऋषयस्तत्र कारणम् ॥ 301 ॥

ऊचुर्नृपं समीक्ष्यैते मनसालोच्य भूसुराः।
येषां प्रमृष्टं क्षितिप भस्म वृष्ट्यातिपावनम् ॥ 302 ॥

त एव निहता युद्धे रुद्राक्षेण विवर्जिताः।
जीविनो भस्मरुद्राक्षधारिणो भवता सह ॥ 303 ॥

पुरा त्रिपुरदैत्यानां भस्मरुद्राक्षधारिणाम्।
नासीद्भयं महद्भ्योऽपि देवेभ्यो भूपते तदा ॥ 304 ॥

ब्रह्मविष्णुमुखा देवास्त्वाभिचारेण कर्मणा।
भूतान्युत्थाप्य भीमानि प्रेषयामासुरञ्जसा ॥ 305 ॥

तानिसर्वाणि तान् दृष्ट्वा भस्मरुद्राक्षभूषणान्।
(32)निवृत्तिं सहसा जग्मुर्भीतभीतानि भूमिप ॥ 306 ॥

{32. निवृत्त्य-पा.}
पुनश्च विमुखान् भस्मरुद्राक्षेषु विधाय तान्।
ब्रह्मविष्णुमुखा देवाः शिवेनैनानमारयन् ॥ 307 ॥

तस्मात्त्वमपि राजेन्द्र भस्मरुद्राक्षभूषणैः।
स्वभटै- सहितो युद्ध शत्रून् द्रावय निर्भयः ॥ 308 ॥

धर्तव्यं भस्मना साकं रुद्राक्षं वरभूषणम्।
केवलं भस्म वृष्ट्याद्यैः प्रमृष्टं भवति ध्रुवम् ॥ 309 ॥

रुद्राक्षस्य तु वृष्ट्याद्यैर्न (33)प्रमृष्टिर्भवेन्नृप।
(34)मृतास्ते तु भेटा ये ते केवलं भस्मधारिणः ॥ 310 ॥

{33. प्रमोषो भवेत्-पा. 34. वृत्तास्ते-पा.}
वृष्ट्या प्रमृष्टं तद्भस्म महत्या सत्यमीरितम्।
इति तेषां वचः श्रुत्वा राजा निश्चिन्तमानसः ॥ 311 ॥

तथेति तान् प्रणम्याशु रुद्राक्षं भस्मना सह।
धृत्वा भटानां रुद्राक्षं दत्वायं भस्मना सह ॥ 312 ॥

भूतिभूषितसर्वाङ्गैः सह रुद्राक्षभूषणैः।
विनिर्गत्य भटैः साकं सर्वैरमितविक्रमः ॥ 313 ॥

आजुहावाशु तं सिंहं सिंहं शरभवद्द्विजाः।
ततः प्रतस्थे युद्धाय सिंहस्चक्रायुधो महान् ॥ 314 ॥

तदाशु तुमुलं युद्धं बभूव हि तयोर्मिथः।
ततश्चक्रं युयोजायं सिंहः किलकिलारवः ॥ 315 ॥

तच्चक्रं वीक्ष्य तान् सर्वान् भस्मरुद्राक्षभूषणान्।
प्रदक्षिणत्रयं कृत्वा प्रणम्य सहसा ययौ ॥ 316 ॥

ततः कोपेन सम्मार वरुणं निजतापहम्।
वृष्टिश्चासीत्तदा स्थूला सेनयोरुभयोर्द्विजाः ॥ 317 ॥

भस्मानि तेषां लुप्तानि सिन्धुसेनानुयायिनाम्।
तदन्वीक्ष्यायमयुजच्चक्रं पुनरपि द्विजाः ॥ 318 ॥

प्रलुप्तभस्मनोऽप्येतान् रुद्राक्षवरभूषणान्।
दृष्ट्वा भटान् ययौ मत्वा भीत्वा चक्रं द्विजोत्तमाः ॥ 319 ॥

दृष्ट्वैतत्सहसा सिंहः पलायनमशिश्रयत्।
वनं प्रति महाभीत्या ससेनो ब्राह्मणोत्तमाः ॥ 320 ॥

सिन्धुसेनोऽपि सहसा कृत्वा कोलाहलारवम्।
बध्वाऽस्य नगरं धीरो देशं स्वीयं विधाय च ॥ 321 ॥

स्वदेशवर्तिनां भस्मरुद्राक्षाणि महामतिः।
दत्वा तान् भस्मरुद्राक्षधारिणश्च विधाय सः ॥ 322 ॥

भस्मरुद्राक्षयोः स्मृत्वा माहात्म्यमवसत्स्वयम्।
चिरकालमुषित्वात्र भुक्त्वा भोगान्यथेप्सितान् ॥ 323 ॥

स्वदेशस्थजनैः सर्वैः समेतः स्वेष्टबन्धुभिः।
प्राप कैलासमतुलं विमानमधिरुह्य सः ॥ 324 ॥

क्रमेणमोक्षं चापायं ब्राह्मणानामधीश्वराः।
स तु सिंहोऽपि वैराग्याद्रागद्वेषौ विहाय च ॥ 325 ॥

धृत्वा च भस्म रुद्राक्षं जीवन्मुक्ततया चिरम्।
स्थित्वा देहावसानेऽयं मोक्षमापातिदुर्लभम् ॥ 326 ॥

तस्मात्सहैव रुद्राक्षं धर्तव्यं भस्मना द्विजाः।
रुद्रस्याक्षितया विप्रा रुद्राक्षमिति कीर्तितम् ॥ 327 ॥

रुद्राक्षधारके शम्भुः परिपूर्णकटाक्षवान्।
रुद्राक्षधारकाः सर्वे रुद्राकाराः प्रकीर्तिताः ॥ 328 ॥

रुद्राक्षस्यास्य माहात्म्यं ये श्रुण्वन्ति पठन्ति वा।
श्रावयन्ति नरास्ते वै साक्षाद्रुद्रस्वरूपिणः ॥ 329 ॥

आयुरारोग्यमैश्वर्यं पुत्रान्पौत्रानवाप्य ते।र
अन्ते च शिवसायुज्यं प्राप्नुवन्ति विपश्चितः ॥ 330 ॥

तस्माद्रुद्राक्षमालाभिः परिवीतो भवेद्द्विजः।
यस्य स्याज्जन्म परमं तस्य रुद्राक्षधारणे ॥ 331 ॥

त्रिपुण्ड्रधरणे चैव पञ्चाक्षरजपे तथा।
परा श्रद्धा भवेत् पुंसामन्येषां दुर्लभा भवेत् ॥ 332 ॥

यस्य देहे भवेदेको रुद्राक्षः शिवभावकः।
शिवालयं तु तद्देहं साक्षाच्छम्भुः सिवः स्वयम् ॥ 333 ॥

न देहे यस्य रुद्राक्षा न त्रिपुण्ड्रस्य धारणम्।
श्मशानमेव तद्देहं तन्मुखं गिरिगह्वरम् ॥ 334 ॥

अष्टोत्तरशतं यस्य (35)कण्ठे भूषणमालिका।
मुक्ताविद्रुमसम्मिश्रा स रुद्रो नात्र संशयः ॥ 335 ॥

{35. कण्ठभूषणमालिका-पा.}
मालिकां यः प्रतिदिनमष्टोत्तरसहस्रकैः।
निर्माय (36)जपकालेषु धत्ते रुद्रात्स चाधिकः ॥ 336 ॥

{36. जपकार्येषु-पा.}
रुद्राक्षकञ्चुकी विद्वान् यो रुद्राक्षकिरीटवान्।
अणिमाद्याः सिद्धयस्तत्पदपांसव एव हि ॥ 337 ॥

रुद्राक्षमण्डपं कृत्वा शिवं साम्बं यजेद्बुधः।
तद्वशे वर्तते शम्भुः सगणः (37)सोमशह्करः ॥ 338 ॥

{37. सोमशेखर इति स्यात्.}
रुद्राक्षकर्णाभरणः श्रवणं येन वै कृतम्।
नयने तस्य सफले चक्षुष्मत्ता तु तस्य च ॥ 339 ॥

रुद्राक्षधारिणः शैवान्पश्येद्यः शिवभावतः।
नयने तस्य सफले चक्षुष्मत्ता तु तस्य च ॥ 340 ॥

यस्तु रुद्राक्षमालाढ्यान्मानुषत्वेन पश्यति।
कृतं तेनार्चनं व्यर्थं जपो होमश्च निष्फलः ॥ 341 ॥

यो वा रुद्राक्षभूषाढ्यान् शिवबावेन पश्यति।
तेन तप्तं तपः सर्वं कृतं तेन शिवार्चनम् ॥ 342 ॥

यस्तु रुद्राक्षमणिभिः स्पृष्टतोयाभिषेचनः।
गङ्गास्नानं कृतं तेन तीर्थचर्या कृता परा ॥ 343 ॥

रुद्राक्षमेकं यो दद्याच्छिवभक्ताय भक्तितः।
सस्यपूर्णां वसुमतीं दत्तवाञ्छ्रोत्रियेषु सः ॥ 344 ।
यो धत्ते मालिकां भक्त्या त्वष्टोत्तरशतैर्युताम्।
कैलासे स्वजनैः साकं मोदते शिवसन्निधौ ॥ 345 ॥

अभक्तेभ्यो न वै दद्याद्रुद्राक्षान्मालिकां तथा।
दद्याद्यदि विमोहेन शिवस्य विमुखो भवेत् ॥ 346 ॥

परीक्ष्य दद्याद्भक्तेभ्यो भूतिरुद्राक्षमालिकाः।
शिवेनानुगृहीतोऽसौ शिवसायुज्यमेति च ॥ 347 ॥

अभक्तान् प्रतिबन्धैर्वा शैवीं भक्तिं (38)समाविशन्।
सैवः सर्वप्रयत्नेन शिवभक्तान् विधाय च ॥ 348 ॥

{38. समादिशन्-पा.}
स्वमन्दिरं च स्वग्रामं स्वजनं च स्वराज्यकम्।र
शैवं सर्वप्रयत्नेन कुर्यान्नित्यमतन्द्रितः ॥ 349 ॥

तत्संतुष्टः परशिवः स्वसायुज्यं प्रयच्छति।
शिवदेही शिवे भक्तः शिवबन्धुः शिवार्चकः ॥ 350 ॥

शिवभक्तैः परिवृतः शैवराज्ये वसेत्स्वयम्।
त्याज्यं राज्यमशैवं च स्वयं च शिवमिच्छता ॥ 351 ॥

शैवराज्यं प्रपन्नोऽसौ शिवभक्तोत्तमो जनः।
सदा शिवकथालापी शिवनामानुचिन्तकः ॥ 352 ॥

सिवामन्त्र(39)ध्यानवांश्च शिवामृतनिषेवणः।
शिवपूजारतो नित्यं शिवसायुज्यमेति सः ॥ 353 ॥

{39. न्त्राध्ययन-पा.}
यः स्वयं शिवभक्तोऽपि शिवद्रोहिभिरन्वहम्।
सम्भाषिताच्च सम्पर्कात्तत्पापफलमश्रुते ॥ 354 ॥

(40)तत्तादृशानां सान्निध्यं प्रयत्नेन विवर्जयेत्।
सद्भक्तसङ्गो भक्तानां सर्वकामफलप्रदः ॥ 355 ॥

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञश्रीनीलकण्ठशिवाचार्यकृते
निगमागमसारसङ्ग्रहे क्रियासारे रुद्राक्षप्रशंसनं नाम
एकादशोपदेशः समाप्तः

---------------

द्वादशोपदेशप्रारम्भः

सम्पाद्यताम्

द्वादशे चोपदेशेऽस्मिन्पञ्चाक्षरजपक्रमम्।
अभिधास्ये यथायोगं पुराणागममार्गतः ॥ 1 ॥

वर्णं दैवं तथा शक्तिमाधारं छन्द एव च।
ऋषिं स्थानं ब्रह्म चाथ (1)आयुधानि तथैव हि ॥ 2 ॥

{1. चायुधानां-पा.}
कलां गुणं च वक्त्रं च प्रकाशं करणं तथा।
वायुज्ञानेन्द्रे(2)याण्येवं षोडशैते क्रमोदिताः ॥ 3 ॥

{2. याणां-पा.}
नकारं पीतवर्णं स्याद्ब्रह्मास्त्रं चाधिदैवतम्।
सावित्री शक्तिरित्युक्ता चाधारं पृथिवी तथा ॥ 4 ॥

अनुष्टुप्छन्दसा युक्तं वासिष्ठार्षं तथैव हि।
स्तानं पश्चिमतो वक्त्रं सद्योजातं तु ब्रह्मकम् ॥ 5 ॥

आयुधं वज्रमेवोक्तं (3)कला निवृत्तिरेव च।
गुणः कठिनमेवोक्तः चतुरश्रक्रमेण तु ॥ 6 ॥

{3. कालाग्निर्वक्त्रमेव च-पा.}
ज्वलदग्निप्रकाशं तु करणं मन एव च।
प्राणवायुसमायुक्तमिन्द्रियाणां च गन्धकम् ॥ 7 ।
इत्येवं षोडशानां तु नकाराक्षरमुच्यते।
मकारं जलरूपं च दैवं विष्णुस्तथैव च ॥ 8 ॥

लक्ष्मीः शक्तिरिति प्रोक्ता आधारं जलमेव च।
त्रिष्टुप्‌छन्दस्समायुक्तं विश्वामित्रो ऋषिस्तथा ॥ 9 ॥

स्थानमुत्तरतो वक्त्रं (4)ब्रह्माणं वामदेवकम्।
आयुधं पद्ममेवोक्तं (5)प्रतिष्ठाख्यकलायुतम् ॥ 10 ॥

{4.वामदेवं तु ब्रह्मकम्-पा. 5. प्रतिष्ठाकलसंयुतम्-पा.}
गुणानां (6)द्रवसंयुक्तं चक्रमर्धसुचन्द्रमाः।
सोमस्यैव प्रकाशेन करणं बुद्धिसंयुतम् ॥ 11 ॥

{6. रससंयुक्तं चक्रमर्धानुचन्द्रमाः-पा.}
अपानवायुसंयुक्तं रसज्ञानेन्द्रियं भवेत्।
इत्येवं षोडशानां तु मकाराक्षरमुच्यते ॥ 12 ॥

शिकारं वह्निरूपं च रुद्रस्तत्राधिदैवतम्।
गौरीशक्तिसमायुक्तमाधारं चाग्निरेव च ॥ 13 ॥

उष्णिक्‌छन्दस्समायुक्तं जमदग्निऋषिस्तथा।
स्थानं दक्षिणतो वक्त्रमघोरं ब्रह्म चैव हि ॥ 14 ॥

स्वस्तिकायुधमेवोक्तं विद्या नाम कलापि च।
गुणं दीप्त्यानुसंयुक्तं चक्रं त्रिविधमेव च ॥ 15 ॥

तटितां तु प्रकाशेन करणं त्वहमाकृतिः।
व्यानवायुसमायुक्तं (6)नेत्रेन्द्रियसमन्वितम् ॥ 16 ॥

{6. ज्ञानेन्द्रियस्वरूपकम्-पा.}
इत्येवं षोडशानां तु शिकाराक्षरमुच्यते।
वकारं वायुरूपं स्यादधिदैवतमैश्वरम् ॥ 17 ॥

अम्बिका स्यान्महाशक्तिर्वायुश्चोदान एव च।र
बृहतीच्छन्दसा युक्तमृषिः काश्यप एव च ॥ 18 ॥

स्थानं पूर्वाननं प्रोक्तं ब्रह्म तत्पुरुषेण तु।
आयुधं बिन्दुरूपं तु कला शान्तिस्तथैव च ॥ 19 ॥

गुणालोकेन संयुक्तं स्पर्शज्ञानेन्द्रियं भवेत्।
इत्येवं षोडशानां तु वकाराक्षरमुच्यते ॥ 20 ॥

यकारं व्योमरूपं तु दैवं चैव सदाशिवः।
उन्मनीशक्तिरेवोक्ता चाधारं व्योम एव हि ॥ 21 ॥

जगतीच्छन्दसा युक्तं भरद्वाज ऋषिस्तथा।
श्थानमूर्ध्वमुखं विद्याद्ब्रह्म चेशानमेव च ॥ 22 ॥

आयुधानां तु शूलं स्याच्छान्त्यतीतकलापि च।
गुणानां चैव शून्यं स्यात्प्रकाशं चन्द्रिकामणेः ॥ 23 ॥

करणं प्रकृते रूपं समानो वायुरेव च।
(7)शब्दो ज्ञानेन्द्रियाणआं च इत्येते षोडश क्रमात् ॥ 24 ॥

{7. शब्दज्ञानेन्द्रियं चैतदित्येते-पा.}
मकाराक्षरमित्युक्तं न भूतो न भविष्यति।
एकमेव प्रधानं तु पञ्चाक्षरमिति स्मृतम् ॥ 25 ॥

काम्यसिद्धिप्रयोगेन प्रत्यक्षं प़ञ्चधा भवेत्।
(8)ततः प्रस्तारकं प्रोक्तं विंशत्येकशतं भवेत् ॥ 26 ॥

{8. ततोपचारकं प्रोक्तं-पा.}
एवं पञ्चाक्षरं प्रोक्तं गुरोर्वक्त्रेण लभ्यते।
मन्त्रं पञ्चविधं प्रोक्तं कर्म चाष्टविधं भवेत् ॥ 27 ॥

परे पञ्चाक्षरोत्पत्तिः पुनस्तत्रैव लीयते।
सप्तकोटिमहामन्त्रा रूपवक्त्रैरनेकधा ॥ 28 ॥

पञ्चाक्षरे प्रलीयन्ते पुनस्तस्माद्विनिर्गताः।
षडध्वबिन्दुसंयुक्तं कलेवरमिति स्मृतम् ॥ 29 ॥

द्विरष्टकलया युक्तं नन्दि (नाद?) रूपं व्यवस्थितम्।
(9)तपोरते स्थितं सूक्ष्मं पञ्चाक्षरप्रतिष्ठितम् ॥ 30 ॥

{9. तयोरन्ते-पा.}
ओमित्ग्रे व्याहरेन्नम इति पश्चात्ततः शिवायेत्यक्षरत्रयम्। ओमित्येकाक्षरं स्थूलं (10)नकारादिवाय{10. 1.नवाय मः शि 2.शिवाय नमः 3.मः शिवाय न 4.य नमः शिवा 5.नमः शिवाय.} (11)नमः{नम इत्यस्य स्थाने मः इति स्यात्.}शीति। शिवाय नम इति, मः शिवाय नेति, य नमः शिवेति, नमः शिवायेति। चिदादिपरेच्छाज्ञानक्रियापञ्चकला तदुत्तीर्णा परा कला तत्संवलितं सादाख्यपञ्चकसम्पुटितं परा सादाख्योत्तीर्णं अकारोकारमकारबिन्दुनादपञ्चकवाच्यार्थस्थूलप्रणवरूपनकारादिपञ्चाररूपषडध्वमयविग्रहस्थूलसूक्ष्मैकरूपव्यष्टिसमष्ट्यात्मकषडक्षरस्वरूपपञ्चाक्षरओं नमः शिवायेति साक्षाच्चिच्छक्त्यविनाभूतं महालिङ्गं विन्दुनादात्मकं नादवाच्यं वाचकाभिन्नं (12)अकारो{12.अ,न--ईशानात्, उ,मः--तत्पुरुषात्, म्,शि--अघोरात्, बिन्दुः, वा--वामदेवात्, नादो यकारश्च--सद्योजातात्. } नकारश्चेशानमुखात्, उकारो मकारश्च तत्पुरुषात्, मकारः शिकारश्चाघोरात्, विन्दुर्वकारश्च वामदेवात्, नादो यकारश्च सद्योजातात्, एते वर्णा व्यष्टिसमष्ट्यात्मकाः समष्टिरूपं प्राप्ताः अथों नमः शिवायेत्यथों नमः शिवायेति। इमामुपनिषदं योऽधीते स सर्वोत्तरो भवति। शिवसायुज्यमाप्नोति। ओं सत्यमित्युपनिषत्।
इति पञ्चाक्षरजाबालोपनिषत्।
पञ्चब्रह्मोपनिषदि--
ओं भो भो भगवन्नादौ किं (13)जातमिति{13. ज्ञानमि-पा.}। सद्योजातमिति। किं भगव इति अघोर इति। किं भगव इति वामदेव इति। किं वा पुनरिमे भगव इति। तत्पुरुष इति। किं वा पुनरिमे भगव इति। सर्वेषां विद्यानां प्रदाता ईशान इति। ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम्। कति वर्णाः कति भेदाः कति शक्तयः यत्सर्वं तद्गुह्यं तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः।
गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल॥

सद्योजाता मही पूषा रमा ब्रह्मा त्रिवृत्स्वरः।
ऋग्वेदो गार्हपत्यं च मन्द्राः सप्त स्वरास्तथा॥

वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम्।
अघोरं सलिलं चन्द्रो गौरी वेदद्वितीयकम्॥

नीरदाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम्।
पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छाक्रियान्वितम्॥

शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम्।
सर्वदुःखप्रशमनं सर्वैश्वर्यफलप्रदम्॥

वामदेवं महाबोधदायकं पावकात्मकम्।
विद्यालोकसमायुक्तं भानुकोटिसमप्रभम्॥

प्रसन्नं सामवेदाख्यं (14)गानाष्टकसमन्वितम्।
{14. नानाष्टक-पा.}
धीरस्वरमधीरं चाहवनीयमनुत्तमम्॥

ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम्।
वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वरम्॥

धामत्रयनियन्तारं धामत्रयसमन्वितम्।
सर्वसौभाग्यं नॄणां सर्वकर्मफलप्रदम्॥

अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम्।
(15)यत्तत्तत्पुरुषं प्रोक्तं वायुमण्डलसंयुतम्॥

{15. इति तत्पुरुषं-पा.}
(16)उपधाग्निसमायुक्तं मन्त्रशिक्तिनियामकम्।
{16. उपदग्नि-पा. पञ्चाग्निना समायुक्तं-पा,}
पञ्चाशत्स्वरवर्णाख्यमथर्वश्रुतिरूपकम्॥

कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम्।
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम्॥

सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक्।
अवस्थात्रितयातीतं तुरीयं (17)ब्रह्मसंज्ञकम्॥

{17. ब्रह्मसंज्ञितम्-पा.}
ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम्।
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम्॥

आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम्।
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः॥

अकारादिस्वराध्यक्षमाकाशमयविग्रहम्।
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत्॥

पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः।
स्वशक्तिवैभवात्सर्वान् संहृत्य स्वात्मनि स्थितः॥

पञ्चब्रह्मात्मकातीतो भासते (18)स्वस्वतेजसा।
{18. स्वरतेजसा-चा.}
आदावान्ते च मध्ये च भासते नानय्हेतुना॥

मायया मोहिताः शाम्भोर्महादेवं जगद्रुरुम्।
न जानन्ति सुराः सर्वे सर्वकारणकारणम्॥

न सन्दृशे तिष्ठति रूपमस्य
परात्परं पुरुषं विश्वधाम।
येन प्रकाशते विश्वं यत्रैव प्रविलीयते।
तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम्॥

पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम्।
दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम्॥

पञ्चधा वर्तमानं तत्‌ब्रह्मकार्यमिति स्मृतम्।
ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते॥

पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च।
सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्मामृतो भवेत्॥

इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः।
पञ्चाक्षरमयं शम्भुं पञ्चब्रह्मस्वरूपिणम्॥

नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत्।
सर्वं (19)पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मकत्वतः॥

{19. पञ्चाक्षरं-पा.}
पञ्चब्रह्मात्मिकां विद्यां योऽधीते भक्तिभावितः।
स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम्॥

एवमुक्त्वा महादेवो गालवस्य महात्मनः।
कृपां चकार तत्रैव स्वान्तर्धिमगमत्वयम्॥

वायवीयसंहितायाम्--
ज्ञानामृतेन तृप्तस्य भक्त्या च विवशात्मनः।
नान्तर्न च बहुः कृष्ण कृत्यमस्ति कदाचन॥

तस्मात्क्रमेण सन्त्यज्य बाह्यमाभ्यन्तरं तथा।
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत्॥

नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा।
(एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा)
तस्मात्कर्णाण्यकृत्वा वा कृत्वा वान्तर्बहिः क्रमात्॥

येन केनाप्युपायेन शिवे चित्तं निवेशयेत्।
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम्॥

परत्रेह च सर्वत्र निर्वृतिः परमा भवेत्।
इहोंनमः शिवायेति मन्त्रेणानेन सिद्धयः॥

स तस्मादधिगन्तव्यः परापरविभूतये।
श्रीकृष्णः--
महर्षिवर सर्वज्ञानमहोदधे॥

पञ्चाक्षरस्य माहात्म्यं वक्तुमर्हसि साम्प्रतम्॥

उपमन्युः--
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि।
न शक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः श्रुणु॥

वेदे शिवागमे चायमुभयत्र षडक्षरः।
मन्त्रःस्थितः सदा मुख्यो लोके पञ्चाक्षरः स्मृतः॥

सर्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः।
सर्वेषां शिवभक्तनामशेषार्थप्रसाधकः॥

तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम्।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतच्छिवात्मकम्॥

नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम्।
सुनिश्चितार्थं गम्भीर वाक्यं तत्पारमैश्वरम्॥

मन्त्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये।
प्राहों नमः शिवायेति सर्वज्ञः सर्वदेहिनाम्॥

तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम्।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्॥

देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः॥

ईशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु।
मन्त्रे नमः शिवायेति संस्थितानि यथाक्रमम्॥

मन्त्रे षडक्षरेसूक्ष्मपञ्चब्रह्मतनुः शिवः।
वाच्यवाचक्रभावेन स्थितः साक्षात्स्वभावतः॥

वाच्यः शिवः प्रमेयत्वान्मन्त्रस्तद्वाचकः स्थितः।
वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः॥

यथानादिःप्रवृत्तोऽयं घोरः संसारसागरः।
शिवोऽपि हि तथानादिः संसारान्मोचकः स्थितः॥

व्याधीनां भेषजं यद्वत्प्रतिपक्षं स्वभावतः।
तद्वत्संसारदोषाणां प्रतिपक्षः शिवः स्मृतः॥

असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत्।
आदित्येन यथा हीनं निरालोकमिदं जगत्॥

अभावादीश्वरस्येयं जगत्सृष्टिः कथं भवेत्।
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च॥

प्रधानपरमाण्वादि यावत् किंचिद्‌चेतनम्।
न तत्कर्तृस्वयं दृष्टं बुद्धिमत्कारणं विना॥

धर्माधर्मोपदेशश्च बन्धमोक्षविचारणा।
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिध्यति॥

वैद्यं विना निरानन्दाः क्लिश्यन्ते रोगिणो यथा।
शिवं विना निराक्रान्तं क्लिश्यते हि जगत्तथा॥

तस्मादनादिः सर्वज्ञः परिपूर्णः सदाशिवः।
अस्ति नाथः परित्राता पुंसां ससारसागरात्॥

आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमैः॥

तस्याभिधानमात्रोऽयमभिधेयश्च स स्मृतः।
अभिधानाभिधेयत्वान्मन्त्रसिद्धः परः शिवः॥

एतावद्धि शिवज्ञानमेतावत्परमं पदम्।
यदों नमः शिवायेति शिववाक्यं षडक्षरम्॥

विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम्।
यः सर्वज्ञः स सम्पूर्णः स्वभावविमलः शिवः॥

लोकानुग्रहकर्ता यः स मृषार्थं कथं वदेत्।
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः॥

यावत्फलं च यत्पूर्णं सर्वज्ञस्तु यथा वदेत्।
रागाज्ञानादिभिर्दौषैर्ग्रस्तत्वादनृतं वदेत्॥

ते चेश्वरे न विद्यन्ते ब्रूयात्स कथमन्यथा।
अजाताशेषदोषेण सर्वज्ञेन शिवेन यत्॥

प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः।
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता॥

यथार्थं पुण्यपापेषु तदश्रद्धः पतत्यधः।
स्वर्गापवर्गसिध्द्यर्थं भाषितं यत्सुशोभनम्॥

वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम्।
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत्॥

वाक्यं निरयहेतुत्वात्तदभाषितमुच्यते।
संस्कृतेनापि किं तेन मृदुना ललितेन च॥

अविद्यारागवाक्येन संसारक्लेशहेतुना।
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संक्षयः॥

विरूपमपि तद्वाक्यं विज्ञेयमतिशोभनम्।
बहुत्वेऽपि हि मन्त्राणां सर्वज्ञेन शिवेन यत्॥

प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित्।
साङ्गानि वेदशास्त्राणि संस्थितानि षरडक्षरे।
न तेन सदृशस्तस्मान्मन्त्रोऽस्त्यप्यपरं क्वचित्।
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा॥

मन्त्रष्षडक्षरो भिन्नः सूत्रं वृत्त्यात्मना यथा।
शिवज्ञानानि यावन्ति विद्यास्थानानि यानि च॥

ष़डक्षरस्य सूत्रस्य तानि भाष्यं समासतः।
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः॥

यस्यों नमः शिवायेति मन्त्रोऽयं हृदि संस्थितः।
तेनाधीतं श्रुतं तेन तेन (20)सर्वमनुष्ठितम्॥

{20. सर्वमधिष्ठितम्-पा.}
येनों नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः।
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम्॥

जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्।
आन्त्यजो वाधमो वाऽपि मूर्खो वा पण्डितोऽपि वा॥

पञ्चाक्षरजपे निष्ठो मुच्यते पापपञ्जरात्।
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना॥

हिताय सर्वमर्त्यानां द्विजातीनां विशेषतः।
देव्युवाच--
कलौ कलुषिते काले दुर्जये दुरतिक्रमे।
अपुण्यतमसा छन्ने लोके धर्मपाङ्मुखे॥

क्षीणे वर्णाश्रमाचारे सङ्कटे समुपस्थिते।
सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये॥

तदोपदेशे विहते गुरुशिष्यक्रमे गते।
केनोपायेन मुच्यन्ते भक्तास्तव महेश्वर॥

ईश्वरः--
आश्रित्य परमां त्विद्यां हृद्यां पञ्चाक्षरीं मम।
भक्त्या च भवितात्मानो मुच्यन्ते कलिजा नराः॥

मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः।
दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम्॥

लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम्।
मम पञ्चाक्षरी विद्या संसारभयतारिणी॥

मयैवमसकृद्देवि प्रतिज्ञातं धरातले।
पतितोऽपि विमुच्येत मद्भक्तो विद्ययानया॥

देवी--
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा।
कर्मायोग्येन यत्कर्म कृतं तन्नरकाय हि॥

ततः कथं विमुच्येत पतितो विद्ययाऽनया।
ईश्वरः--
सत्यमेतत्त्वया प्रोक्तं तथापि श्रुणु सुन्दरि॥

रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा।
समन्त्रकं मां पतितः पूजयेद्यदि मोहितः॥

नारकी स्यान्न सन्देहो मम पञ्चाक्षरीं विना।
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः॥

तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः।
भक्त्या पञ्चाक्षरेणैव योऽहि मां सकृदर्चयेत्॥

सोऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात्।
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा॥

पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समाः।
बद्धो वाप्यथ मुक्तो वा पाशा(21)त्पञ्चाक्षरेण यः॥

{21. पञ्चाक्षरे क्षमः-पा.}
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा।
अरुद्रो वा विरुद्रो वा सकृत्पञ्चाक्षरेण यः॥

पूजयेत्पतितो वापि मूढो वा मुच्यते नरः।
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा॥

स ब्रह्माङ्गेन मां भक्त्या पूजयेद्यदि मुच्यते।
पतितोऽपतितो वापि मन्त्रेणानेन पूजयेत्॥

मम भक्तो जितक्रोधो ह्यलुब्धो लुब्ध एव वा।
अलब्धा लब्ध एवेह कोटिकोटिगुणाधिकः॥

तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत्।
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः॥

ब्रह्मचर्यरतो भक्त्या मत्सायुज्यमवाप्नुयात्।
किमत्र बहुनोक्तेन भक्ताः सर्वेऽधिकारिणः॥

मम पञ्चाक्षरे मन्त्रे तस्माच्छ्रेष्ठतरो हि सः।
पञ्चाक्षरप्रभावेण लोका वेदा महर्षयः॥

तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत्।
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे॥

सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति।
एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित्॥

तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः।
ते नाशं नैव सम्प्राप्ता मच्छक्त्यानुप्रपालिताः॥

ततः सृष्टिरभून्मत्तः प्रकृत्यात्मविभेदतः।
गुणमूर्त्यात्मनां चैव ततोऽवान्तरसंहृतिः॥

तदा नारायणः शेते देवो मायामयीं तनूम्।
आस्थाय भोगिपर्यङ्के शयानस्तोयमध्यगः॥

तन्नाभिपङ्गजाज्जातः पञ्चवक्रः पितामहः।
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान्॥

मुनीन् दश ससर्जादौ मानसानमितौजसः।
तेषां सिद्धिविवृध्यर्थं मां प्रोवाच पितामहः॥

मत्पुत्राणां महादेव शक्तिं देहि महेश्वर।
इत्येवं प्रार्थितस्तेन पञ्चवक्रधरो ह्यहम्॥

पञ्चाक्षराणि क्रमशः प्रोक्तवान् पद्मयोनये।
स पञ्चवदनैस्तानि गृह्णन् लोकपितामहः॥

वाच्यवाचकभावेन त्रातवान्मां महेश्वरम्।र
ज्ञात्वा प्रयोगं विधिवत् सिद्धमन्त्रः प्रजापतिः॥

पुत्रेभ्यः प्रददौ मन्त्रं मन्त्रार्थं च यथातथं।
ते लब्ध्वा मन्त्ररत्नं तु साक्षाल्लोकपितामहात्॥

तदाज्ञप्तेन मार्गेण मदाराधनकाङ्‌क्षिणः।
मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः।
मत्प्रियः सततं श्रीमान् मद्भक्तैः परिक्षितः॥

तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः।
दिव्यं वर्षसहस्रं तु वायुभक्षाः समाचरन्॥

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम्।
ऋषिं छन्दश्च कीलं च बीजं शक्तिं च दैवतम्॥

न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः।
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये॥

ततस्तेमन्त्रमाहात्म्यादृषयस्तपसैधिताः।
सृष्टिं वितेनिरे सम्यक् सदेवासुरमानुषाम्॥

अस्याः परमविद्यायाः स्वरूपमधुनोच्यते।
आदौ नमः प्रयोक्तव्यं शिवायेति ततः परम्॥

सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता।
शब्दजातस्य सर्वस्य बीजभूता सनातनीः॥

प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका।
तत्पचामीकरप्रख्या पीनोन्नतपयोधरा॥

चतुर्भुजा त्रिणयना बालेन्दुकृतशेखरा।
पद्मोत्पलकरा सौम्या वरदाभयपाणिका॥

सर्वलणसम्पन्ना सर्वाभरणभूषिता।
(22)सितपद्मासनासीना नीलकुञ्चितमूर्धजा॥

{22. सिद्ध-पा.}
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमण्डलाः।
पीतः कृष्णस्तथा धूम्रः श्वेताभो रक्त एव च॥

पृथक् प्रयोज्या यद्येते बिन्दुनादविभूषिताः।
अर्धचन्द्राकृतिर्विन्दुर्नादो दीपशिखाकृतिः॥

बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने।
दीर्घपूर्वं तत्तुरीयं प़ञ्चमं शक्तिमादिशेत्॥

वामदेवो नाम ऋषिः पङ्क्तिच्छन्द उदाहृतम्।
देवता शिव एवाहं मन्त्रस्यास्य वरानने॥

गौतमोऽत्रिर्यरारोहे विश्वामित्रस्तथाङ्गिराः।
भारद्वाजश्च वर्णानां क्रमशो ऋषयः स्मृताः॥

गायत्र्यनुष्टुप् त्रिष्टुप् च छन्दांसि बृहती विराट्।
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः॥

मम पञ्चमुखान्याहुः स्थानं तेषां वरानने।
पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम्॥

उदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः।
पञ्चमः स्वरितश्चैव मध्यमो निहतः स्मृतः॥

मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा।
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत्॥

नकारः शिर उच्येत मकारस्तु शिखोच्यते।
शिकारः कवचं तद्वद्वाकारो नेत्रमुज्यते॥

यकारोऽस्त्रं नमः स्वाहा वषट्‌हुंवौडित्यपि।
फडित्यपि च वर्णानां मन्त्रङ्गत्वं (23)यथा तथा॥

{23. यदा तदा-पा.}
तत्रापि मूलमन्त्रोऽयं किंचिद्भेदसमन्वयात्।
तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः॥

तस्मादेतेन मन्त्रेण मनोवाक्कायभेदतः।
आवयोरर्चनं कुर्याज्जपहोमादिकं तथा॥

यथाप्रज्ञं यथाश्रद्धं यथा कालं यथा मति।
यथाशक्ति यथासम्पद्यथायोगं यथारति।
यदाकदापि वा भक्त्या यत्र कुत्रापि वा कृता।
येन केनापि वा देवि पूजा मुक्तिं नयिष्यति॥

मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि।
मत्प्रयं च शिवं चैव क्रमेणाप्यक्रमेण वा॥

तथापि मम भक्ता ये नात्यन्तविवशाः पुनः।
तेषां सर्वेषु शास्त्रेषु मयैव नियमः कृतः॥

तत्रादौ सम्प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभम्।
यद्विना निष्फलं जाप्यं येन वा सफलं भवेत्॥

ईश्वरः--
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने।
आज्ञार्थं दक्षिणाहीनं सदाजप्तं च निष्फलम्॥

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम्।
एवं चेद्दक्षिणासिद्धं मन्त्रसिद्धं महत्फलम्॥

उपगम्य गुरुं विप्रमार्यं तत्वार्थवेदिनम्।
जापिनं सद्रुणोपेतं ध्यानयोगपरायणम्॥

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः।
वाचा च मनसा चैव कायेन द्रविणेन च॥

आचार्यं पूजयेच्छिष्यः सर्वदातिप्रयत्नतः।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च॥

भूषणानि च वासांसि धान्यानि च धनानि च।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति॥

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः।
पश्चान्निवेदद्य स्वात्मानं गुरवे सपरिच्छदम्॥

एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन्।
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु॥

एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम्।
शुश्रूषुमनहङ्कारं स्नातं शुचिमुपोषितम्॥

स्नापयित्वा विशुध्यर्थं पूर्णकुम्भधृतेन वै।
जलेन मन्त्रसिद्धेन पुण्यद्रव्ययुतेन च॥

अलङ्क्रत्य सुवेषं च गन्धस्रग्वस्त्रभूषणैः।
पुण्याहं वाचयित्वा तु ब्राह्मणानभिपूज्य च॥

समुद्रतीरे नद्यां च गोष्टे देवालयेऽपि वा।
शुचौ देसे गृहे वापि काले सिद्धिकरे तिथौ॥

नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते।
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि॥

स्वरेणोच्चारयेत्सम्यगेकान्तेऽतिप्रसन्नधीः।
उच्चार्योच्चारयित्वा तमावयोर्मन्त्रमुत्तमम्॥

शिवं चास्तु शुभं चास्तु शोभनं च प्रियोऽस्त्विति।
एवं दद्याद्गुरुर्मन्त्रमाज्ञां चैव ततः परम्॥

एवं लब्ध्वा गुरोर्मन्त्रमाज्ञां चैव समाहितः॥

सङ्कल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम्।
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम्॥

अनन्यस्तत्परो भूत्वा स याति परमां गतिम्।
जपेदक्षरलक्षं वै चतुर्गुणितमादरात्॥

नक्ताशी संयमी यः स पौरश्चरणिकः स्मृतः।
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः॥

तस्य नास्ति समो लोके स सिद्धः सिद्धिदो भवेत्।
स्नानं कृत्वा शूचौ देशे बध्वा रुचिरमासनम्॥

त्वया मां हृदि संचित्य स्वगुर्वन्तान् गुरूंस्तथा।
प्राङ्मुखोदङ्मुखो वापि मौनी चैकाग्रमामसः॥

विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः।
मन्त्रन्यासादिकं कृत्वा सकलीकृतविग्रहः॥

आवयोर्विग्रहं ध्यायेत्प्राणापानौ नियम्य च।
विद्यास्थानं स्वरं रुपमृषिं छन्दोऽछिदैवतम्॥

बीजं शक्तिं तथा वाच्यं स्मृत्वा पञ्चाक्षरीं जपेत्।
उत्तमं मानसं जाप्यमुपांशुं मध्यमं विदुः॥

अधमं वाचिकं प्राहुरागमार्थविशारदाः।
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम्॥

अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः।
यदुच्चनीचस्वरितैः स्पष्टास्पष्टपदाक्षरैः॥

मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः।
जिह्वामात्रपरिस्पन्दादीषदुच्चरितोऽपि वा॥

अपरैरश्रुतः किंचित् श्रुतो वोपांशुरुच्यते।
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः॥

वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते।
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः॥

प्राणायामसमायुक्तः सगर्भो जप उच्यते।
आद्यन्तयोरगर्भोऽपि प्राणायामः प्रशस्यते॥

चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत्।
मन्त्रं मनत्रार्थविद्धीमानशक्तः शक्तितो जपेत्॥

पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत्।
अगर्भं वा सगर्भं वा सगर्भस्तु प्रशस्यते॥

सगर्भादपि साहस्रं सध्यानो जप उच्यते।
एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः॥

अङ्गुल्या जपसङ्ख्यानमेकमेवमुदाहृतम्।
रेखयाऽष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्॥

शतं स्याच्छङ्खमणिभिः प्रवालैस्तु सहस्रकम्।
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते॥

पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते।
कुशग्रन्थ्या च रुद्राक्षैरनन्तं फलमुच्यते॥

त्रिंशदक्षैः कृता माला धनदा जपकर्मणि।
सप्तविंशतिसङ्ख्याकैरक्षैः पुष्टिप्रदा भवेत्॥

पञ्चविंशतिसङ्ख्याकैः कृता मुक्तिं प्रयच्छति।
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा॥

अङ्गुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम्।
मध्यमां धनदां शान्तिं करोत्येषा ह्यनामिका॥

अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा।
शतसङ्खयोत्तमा माला पञ्चाशद्भिस्तु मध्यमा।
चतुष्पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा परिकीर्तिता॥

इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत्।
कनिष्टाऽकर्षणी प्रोक्ता जपकर्मणि शोभना।
अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह॥

अङ्गुष्ठेन विना जप्यंकृतं तदफंल यतः।
गृहे जपं समं विद्याद्गोष्ठे शतगुणं भवेत्॥

पुण्यारण्ये तथारामे सहस्रगुणमुच्यते।
अयुतं पर्वते पुष्पे नद्यां लक्षमुदाहृतम्॥

कोटिं देवालये प्राहुरनन्तं मम सन्निधौ।
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च॥

विप्राणां च गवां चैव सन्निधौ शस्यते जपः।
तत्पूर्वाबिमुकं वश्यं दक्षिणं चाभिचारकम्॥

पश्चिमं धनदं विद्यादौत्तरं शान्तिदं भवेत्।
सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ॥

अन्येषां च प्रशस्तानां मन्त्रं न विमुखो जपेत्।
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः॥

अपवित्रकरोऽशुद्धो विलपन्न जपेत्क्वचित्।
क्रोधं मदं क्षुतं तन्द्रां निष्ठीवनविजृम्भणे॥

दर्शनं च स्वनीचानां वर्जयेज्जपकर्मणि।
आचामेत्संभवे तेषां स्मरेद्वा मां त्वया सह॥

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम्।
अनासनः शयानश्च गच्छन्नुत्थित एव वा॥

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम्।
अनासनः शयानश्च गच्छन्नुत्थित एव वा॥

रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे।
प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा॥

यानशय्याधिरूढो वा चिन्ताव्याकुलितोऽपि वा।
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत्॥

किमत्र बहुनोक्तेन समासोक्तिमिमां शृणु।
सदाचारो जपन् जुह्वन् ध्यायन् भद्रं समश्नुते॥

आचारः परमो धर्म आचारः परमं धनम्।
आचारः परमा विद्या ह्याचारः परमा गतिः॥

आचारहीनः पुरुषो लोके भवति निन्दितः।
परत्र च सुखी न स्यात्तस्मादाचारवान् भवेत्॥

यस्य यद्विहितं कर्म वेदैः शास्त्रैश्च वैदिकैः।
तस्य तेन समाचारः सदाचारो न चेतरः॥

सद्भिराचरितत्वाच्च सदाचारः स उच्यते।
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम्॥

आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः।
न दुष्यति नरोऽत्यन्तं तस्मादास्तिकतां व्रजेत्॥

यथेहास्ति मुखं दुःखं सुकृतैर्दुष्कृतैरपि।
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते॥

रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये।
न वाच्यं यस्य कस्यापि नास्तिकस्याथवा पशोः॥

सदाचारविहीनस्य पतितस्यान्त्यजस्य वा।
पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे॥

गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः।
अशुचेर्वा शुचेर्वापि मन्त्रोऽयं न च निष्फलः॥

अनाचारवतां पुंसामविशुद्धषडध्वनाम्।
अनादिष्टोऽपि गुरुणा मन्त्रोऽयं न च निष्फलः।
अन्त्यजस्यापि मूढस्य मूर्खस्य पतितस्य च॥

निर्मर्यादस्य नीचस्य मन्त्रोऽयं नच निष्फलः।
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम्॥

सिध्द्यत्येष न सन्देहो नापरस्य तु कस्यचित्।
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये॥

अस्यात्यन्तमवेक्ष्याः स्युर्नैव (24)सुप्तो न ताडितः।
{24. सुप्तः सदोदितः-पा.}
न कदाचन कस्यापि रिपुरेष महामनुः॥

सुशिद्धो वाऽथ सिद्धो वा साध्यो वापि भविष्यति।
सिद्धेन गुरुणादिष्टः सुसिद्ध इति कथ्यते॥

असिद्धेनापि वा दत्तः सिद्धः साध्यस्तु केवलः।
असाधितः साधितो वा सिध्यत्येव न संशयः॥

श्रद्धातिशययुक्तस्य मयि मन्त्रे तथा गुरौ।
तस्मान्मन्त्रान्तरांस्त्यक्त्वा सापायानधिकारतः॥

आश्रयेत्परमां विद्यां साक्षात् पञ्चाक्षरीं बुधः।
मन्त्रान्तरेषु (25)सिद्धेषु मन्त्र एष न सिध्यति॥

{25. सर्वेषु-पा.}
अस्मिन् सिद्धे महामन्त्रे तेऽपि सिद्धा भवन्त्युत।
यथा देवेष्वलब्धोऽस्मि लब्धेष्वपि महेश्वरि॥

मयि लब्धे तु ते लब्धा मन्त्रेष्वेषु समो विधिः।
ये दोषाः सर्वमन्त्राणां न तेऽस्मिन् संवन्त्यपि॥

अस्य मन्त्रस्य जात्यादीननपेक्ष्य प्रवर्तनात्।
तथापि नैव क्षुद्रेषु फलेषु प्रतियोगिषु॥

सहसा विनियुञ्जीत यस्मादेष महाफलः।
(उपपन्युः)--
एवं साक्षान्महादेव्यै महादेवेन शूलिना॥

हिताय जगतामुक्तः पञ्चाक्षरजपक्रमः।
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञश्रीनीलकण्ठशिवाचार्यकृते
निगमागमसारसङ्ग्रहे क्रियासारे पञ्चाक्षरजपविधिक्रमो नाम
द्वादशोपदेशः समाप्तः
--------------