प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३६ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →

ब्रह्मोवाच।
भ्रमन्मुनि ददर्शाग्रे वनं पुष्पकसंज्ञितम्।
नानाद्रुमलताकीर्णं पुष्पप्राकारशोभितम् ।। १ ।
शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमै ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया ।।२।।
तत्र स्नात्वा जपं चक्रे पादांगुष्ठाग्रधिष्टितः ।
स्थिरेण मनसा ध्यायन्देवं विघ्नेश्वरं विभुम् ।।३ ।।
नासाग्र न्यस्तदृष्टिः सन्निरीक्षन्न दिशोदिश ।
जितेन्द्रियो जितश्वासो जितात्मा मारुताशनः ।।४।।
दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणम् ।
उन्मील्य नयनं पश्यद्यदा गृत्समदो मुनिः ।।५ ।।
तदा नेत्रोद्भवो वह्नीस्त्रिदशान्पर्यतापयत् ।
शशंकिरे तदा देवाः कस्यायं पदभाग्भवेत ।।६।।
अपरं गलितं पत्रं भक्षयन्नेकमेव च ।
यत्नमास्थाय परमं स्थाणुभूतोऽति निश्चलः ।।७।।
दशपंचसहस्राणि तेपे निश्चलमानसः ।
ततो विनायको दृष्ट्वा तपनं तस्य दुर्घटम् ।।८।।
अनुग्रहाय तस्याथ प्रादुरासीत् सुदीप्तिमान् ।
यथा धेनुर्वत्सरवं श्रुत्वा धावति सत्वरम् ।।९।।
तथा विनायको देवः शीघ्रं गृत्समदं ययौ ।
भासयंस्तेजसा विश्वं सहस्ररविसन्निभः ।। 1.37.१ ०।।
चलत्कर्णतालो बृहद्दन्तिलीलो मुदा चारूखेलो लसच्चन्द्रभालः ।
बृहत्पद्ममालो जगत्कार्यमूलः करकंजनालो नमत्सविमेलः ।। १ १।।
सिंहारूढो दशभुजो व्यालयज्ञोपवीतवान् ।
कुंकुमागरु कस्तूरी चारूचंदन चर्चितः ।।१२।।
सिद्धिबुद्धि युतः श्रीमान् कोटिसूर्याधिक द्युतिः ।
अनिर्वाच्य स्वरूपोऽपि लोलयाऽऽसीत्पुरो मुने ।। १ ३।।
तत्तेजसा ह्रतं तेजा मुनेस्तस्य महात्मनः ।
ब्रध्नस्य तेजसा यद्वन् नाक्षत्रं चंद्रजं महः ।। १४।।
निमील्य नयने सोऽथ चकम्पे भृशविह्वलः ।
पपात मूर्छितो भूमौ विस्मृत ध्यानमंगलः ।। १५।।
पुनश्च मनसा ध्यायन् गजाननमनामयम् ।
मनसा तर्कयन् विघ्नं निमित्तं व्याकुलो मुनिः ।। १६।।
किमेतत् क्षोभजननं सहसा समुपस्थितम् ।
अद्यप्रभृति यत्तप्तं तत्कथं मे वृथा गतम् ।। १७।।
पाहि देवेश सर्वात्मन् विघ्नादस्माद् भयानकात् ।
त्वामृते शरणं यामि कमन्यं जगदीश्वरम् ।। १८।।
महद्दुःखं सदा देव प्राप्तं केन च हेतुना ।
नास्मत् पंक्तौ पूजनीय इति यद्वहते मनः ।। १९।।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद स विनायकः ।
गणेश उवाच ।
अनुग्रहाय संप्राप्तं विद्धि मां गणनायकम् । 1.37.२०
सनकादिभिरप्राप्यं चिरं नियममास्थितैः ।
त्यक्त्वा भयं ब्रूहि यत्ते वांछितं मुनिसत्तम ।।२ १।।
एकांगुष्ठेन तपसा तोषितोऽहं त्वयाऽनिशम् ।
ब्रह्मोवाच ।
निशम्येत्थं वचस्तस्य देवदेवस्य शोभनम् ।।२२।।
दंडवत् प्रणनामैनं निजानंद परिप्लुतः ।
उवाच परमप्रीतो वरदं तं विनायकम् ।।२३ ।।
गृत्समद उवाच ।
अद्य मे सफलं जन्म तपसो नियमस्य च ।
अखंडानंदरूपो यो ब्रह्मभूयो निराकृतिः । ।२४। ।
मुंचन्नश्रूणि नेत्राभ्यां मानदेन ननर्त च।
चिदानंदघनो वेद शास्त्राणामप्यगोचरः ।।२५।।
सद्यो दृष्टो मया साक्षादतः किं प्रार्थये विभो ।
तवाज्ञया तथाऽप्येकं प्रार्थये द्विरदानन ।।२६।।
चतुरशीति लक्षासु योनिषु श्रेष्ठतासु च ।
मनुष्याणां महाभाग वर्णास्तत्र महत्तराः ।।२७।।
तत्रापि ब्राह्मणाः श्रेष्ठास्तत्रापि ज्ञानिनः पराः ।
ज्ञानिष्वनुष्ठानपरास्तेषु च ब्रह्मवेदिनः ।।२८।।
ब्रह्मज्ञानं तथा ज्ञानं देहि मे जगदीश्वर ।
त्वयि भक्तिं च सुदृढामविस्मरणमेव च ।।२ ९।।
तव भक्तेषु सर्वेषु श्रेष्ठतां च गजानन ।
अन्यं चैकं वरं याचे तं च मे देहि शंकर ।। 1.37.३० । ।
तव भक्त्यैकनिलयं त्रैलोक्याकर्षण क्षमम् ।
विख्यातं त्रिषु लोकेषु नमस्यं सुरमानुषैः ।।३ १ ।।
एवं मां कुरु विघ्नेश यदि तुष्टोऽखिलार्थकृत्।
वनं च पुष्पकं नाम्ना ख्यातिं यातु सुरेश्वर ।।३ २ ।।*
अस्मिन् स्थित्वा च भक्तानां कामान्पूरय नित्यदा ।
इदं च पुष्पकपुरं चतुर्दिक्षु विशेषतः । । ३३ ।।
गणेशपुरमित्येवं प्रथां यातु गजानन ।
ब्रह्मोवाच ।
इति तद्वचन श्रुत्वा जगाद द्विरदाननः ।।३४।।
गणेश उवाच ।
साधु साधु महाबाहो प्रसन्ने मयि दुर्लभम् ।
भक्तानां त्रिषु लोकेषु न किंचिन् मुनिपुंगव ।। ३ ६।।
त्वया यत्प्रार्थितं विप्र तत्ते सर्वं भविष्यति ।
विप्रत्वं दुर्लभतरं प्रसन्नेन मयार्पितम् ।। ३६ । ।
गणानां त्वेति मन्त्रस्य वैदिकस्य यतस्त्वया । * (ऋ. २.२३.१)
जपः कृतो मुनेस्तस्त्वमृषिरस्य भविष्यसि ।३७।।
ब्रह्मादिषु च देवेषु वसिष्ठादि मुनिष्वपि ।
ख्यातिं यास्यसि सर्वत्र परं श्रैष्ठयमुपागतः ।। ३८।।
सर्वेष्वारब्ध कार्येषु पूर्वं ते मम चापरम् ।
स्मरणं ये करिष्यन्ति तेषां सिद्धिर्भविष्यति ।। ३९। ।
कृते ज्ञानाद्दैवतर्षि च्छन्दसां कर्म निष्फलम् ।
पुत्रश्च बलवान् सर्वं देवानां सुभयंकरः ।।1.37.४० ।।
भविष्यति महाख्यातिं त्रिषु लोकेषु यास्यति ।
अजेयः सर्वदेवानां विना रुद्रं भविष्यति ।।४ १ ।।
मद्भक्तो मद्गतप्राणो मन्निष्ठो मत्परायणः ।
इदं च नगरं देव युगे पुष्पक संज्ञितम् ।।४२ ।।
त्रेतायां मणिपूरं च भानकं द्वापरेऽपि च ।
कलौ तु भद्रकं नाम ख्यातं लोके भविष्यति ।।४३।।
अत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।
ब्रह्मोवाच ।
एवं दत्वा वरांस्तस्मै तत्रैवान्तर्दधे विभुः । ।४४।।
तस्मिन्नंतर्हिते तत्र स्थापयामास वै मुनिः।
गणेशमूर्ति प्रासादं कारयामास सुन्दरम् ।।४५ ।।
वरदेति च तन्नाम स्थापयामास शाश्वतम् ।
सिद्धिस्थानं च तत्रासीद् गणेशस्य प्रसादतः ।।४६।।
कामान्पुष्णाणि सर्वेषां पुष्पकं क्षेत्रमित्यपि ।
पूजयामास तां मूर्तिं भक्तिभावसमन्वितः ।।४७।।
इमां कथां यः शृणुयान् मुनीन्द्र श्रीविघ्नराजस्य वरप्रकाशाम्।
सभेत कामानरिपलान् गणेश भक्तिं दृढां संसृतिमोचनीं च । ४८ ( १४१३)
इति श्रीगणेशपुराणे उपासनाखंडे वरदाख्यानं नाम सप्तत्रिंशत्तमोध्यायः ।।३७।।

सम्पाद्यताम्

१.३७.३२ पुष्पके प्रासादे चतुःषष्टिः स्तम्भाः भवन्ति। किमेते ६४ स्तम्भाः ६४ कलानां रूपाः सन्ति, अयं अन्वेषणीयः