प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३९ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ४०
[[लेखकः :|]]
अध्यायः ४१ →

ब्रह्मोवाच ।
आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देवमुखात्परा ॥१॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचंडश्चंड एव च ॥२॥
प्रचंडं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चंडं च वैकुंठे चकार स्वामिनं स्वयम् ॥३॥
ततः कैलासमगमत् तं च दौर्भ्यामचालयत् ।
भयभीता च गिरिजा लिलिंगे शंकरं भृशम् ॥४॥
ततः कैलासमगमद्युद्धाकांक्षी महासुरः ।
तेन तुष्टो महादेवो दैत्यस्य पौरुषेण च ॥५॥
बहिर्ययौ वरं दातुं निजभक्तं सुखप्रदः ।
ददर्श त्रिपुरं दैत्यं वरं वृण्वित्यथाब्रवीत् ॥६॥
स वव्रे यदि तुष्टोऽसि देहि कैलासमद्य मे ।
गच्छ मन्दारशिखरं यावन्मम मनोरथः ॥७॥
शंकरोऽपि ददौ तस्मै कैलासं स्वल्पकालिने ।
स्वयं जगाम गिरिशो मन्दाराद्रिं गणैर्वृतः ॥८॥
कैलासशिखरारूढो जहर्ष त्रिपुरासुरः।
एवं देवान्वशे कृत्वा पुनरायाद्रसातलम् ॥९॥
भीमकायोऽपि बलवान् भूमंडल गतो बलात् ।
वशे चकार नृपतीन् ऋषीन् सर्वान् बबन्ध च ।। 1.40.१०॥
अग्निकुंडानि सर्वाणि देवतृप्ति कराणि च ।
आश्रमांश्च बभंजाशु तीर्थानि च विशेषतः ॥११॥
तापसांस्त्रासयामास कारागार समाश्रयात् ।
स्वाहा स्वधा वषट्कारान् वेदस्याभ्यसनानि च ॥१२॥
सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित ।
वज्रदंष्ट्रोथ सप्तापि पातालानि वशेऽनयत् ॥१३॥
शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः।
निर्विषान् स विषांश्चैव चकार वशवर्तिलः ।
वज्रदंष्ट्रो रत्नजातं बुभुजे प्रेषयच्च तम् ॥१४॥
नागांगनाभिश्च कुतूहलेन रेमे सदाऽसौ समदोऽति हर्षात् ।
भोगान् विमुंजन विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः॥१५॥
पातालवश्यतां शंसन् लेभे मानं ततोधिकम् ॥१६॥
वस्त्राणि च महार्हाणि ग्रामान् दासाननेकशः ।
एवं त्रिलोकान्वशगान् कृत्वा दैत्यो ननन्द ह ॥१७॥
देवाः सर्वे गुहावासाश्चिन्तयामासुरन्वहम् ।
कथमस्य वधः कस्मिन्काले वापि भविष्यति ॥१८॥
कस्माद्वेति न जानीमो लब्धोऽनेन वरं कुतः ।
एवं व्याकुलचित्तेषु सुरेषु मुनिसत्तम ॥१९॥
आययौ नारदस्तत्र त्रैलोक्यचर इच्छया ।
ददर्श दीनान्देवांस्ता नुत्ततार नभः पथात् ॥1.40.२०॥
दृष्ट्वा सर्वे नारदं तमुत्तस्थु सहसाऽऽदरात् ।
आलिलिंगुश्च नेमुश्च पुपूजुश्च यथाक्रमम् ॥२१॥
विश्रान्तं परिपप्रच्छुस्त्रिपुरस्य वरादिकम् ।
देवा ऊचुः ।
त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचराम् ॥२२॥
स्थाथानि नो गृहीतानि केशास्तेनापि निर्जिताः ।
शरणं कं व्रजामोऽद्य कथं तस्य वधो भवेत् ॥२३॥
वराश्च केन दत्ता नो वदास्य त्रिपुरस्य भोः ।
नारद उवाच ।
कथयामि समासेन दैत्यस्य चेष्टितं महत् ॥२४॥
दिव्यवर्षसहस्रं स तताप परमं तपः ।
प्रसादयामास विभुं गणेशं देवनायकम् ॥२५॥
तेनास्मै दुर्धरा दत्ता वराः सर्वभयंकराः ।
देवर्षि पितृभूतेभ्यो यक्षरक्ष पिशाचतः ॥२६॥
न नागेभ्यो भयं दत्तं विनैकं शंकरं विभुम् ।
प्रसादयन्तु देवेशं द्विरदाननमादरात् ॥२७॥
आराधयन्तु सर्वेऽपि विघ्नेशं सर्वसिद्धिदम् ।
देवा ऊचुः।
कथमाराधनं तस्य देवदेवस्य धीमतः ॥२८॥
कर्तव्यं मुनिशार्दूल कृपया तद्वदस्व नः ।
नारद उवाच ।
अहमेकाक्षरं मन्त्रं कथयाम्यखिलान् प्रति ॥२९॥
तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः ।
अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः ॥1.40.३०॥
यावत् प्रत्यक्षतामेति देवोऽसौ गणनायकः ।
स एव तद्वधोपायं वदिष्यत्यखिलान्प्रति ॥३१॥
नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तु मे वचः ।
ब्रह्मोवाच ।
इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तम् ॥३२॥
जगाम तत्क्षणादेव वीणागानरतो मुनिः ।
ततः सर्वे सुरवरा गणेशं ध्यानतत्पराः ॥३३॥
एकपादस्थिताः केचित् केचित्पद्मासनस्थिताः ।
केचिद्वीरासनयुताः केचिन्मीलित लोचना।
निराहारा जितश्वासा जेपुर्मन्त्रं मुनींरितम् ।।३४॥
ततो बहुगते काले करणाब्धिर्गजाननः।
अनुष्ठानं निरीक्ष्यैषां देवानां चिरकालजम ॥३५॥
आविर्बभूव गणपस्तेषामग्रे वरप्रदः ।
उल्लसत् स्वर्णमुकुटश्चारु कुंडलमंडितः ॥३६॥
दन्तन्यस्तकरो राजत् कटिसूत्र वरांगद ।
पाशं सृणिं च परशुं कमलं च भुजैर्दधत् ॥३७॥
रक्तचन्दन कस्तूरी सिन्दूर शशिभूषणः।।
विद्युत्तेजो लसत्कान्तिः कोटिसूर्यसमप्रभः ॥३८॥
दृष्ट्वैवं सहसा देवं विनायकमनामयम् ।
तेजसा धर्षितः सर्वे भयमापुश्च केचन ॥३९॥
प्रणेमुः सहसा केचिद्देवास्तं द्विरदाननम् ।
पूजयामासुरपरे हर्षगदगद भाषिणः ॥1.40.४०॥
स्वसंकष्ट विनाशाय तुष्टुवु कोऽपि तं विभुम।
प्रसादसुमुखं देवं सुसुखं संकटापहम् ॥४१॥
देवा ऊचुः।
नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिल कारणाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥४२॥
नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ।
नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥४३॥
नमो नमो विश्वभृतेऽखिलेश नमो नमः कारण कारणाय ।
नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥४४॥
नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्त मनोरथघ्ने नमो नमो भक्त मनोरथज्ञ ॥४५॥
नमो नमोऽभक्तमनोरथेश नमो नमो विश्वविधानदक्ष ।
नमो नमो दैत्यविनाशहेतो नमो नमः संकटनाशकाय ॥४६॥
नमो नमः कारुणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्त विभूतिदाय ॥४७॥
नमो नमोऽभक्तविभूति हन्त्रे नयो नमो भक्त विमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्त मूर्ते ॥४८॥
नमो नमस्तत्व विबोधकाय नमो नमस्तत्व विदुत्तमाय ।
नमो नमस्तेऽखिल कर्म साक्षिणे नमो नमस्ते गुणनायकाय ।।४९
ब्रह्मोवाच ।
एवं स्तुतः सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥1.40.५०॥
गणेश उवाच ।
स्तोत्रेण तपसा चैव सुराः संतुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥५१॥
देवा ऊचुः ।
यदि तुष्टोऽसि देवेश त्रिपुरं जहि दानवम् ।
सर्वेषामधिकारान्नो गृहीत्वा यस्तु तिष्ठति ॥५२॥
त्वयैवास्याभयं दत्तं सर्वामरसमूहतः ।
अतः स्म संकटं प्राप्ताः संकटान्मोचयाशु नः ॥५३॥
त्वामेव शरणं प्राप्ता एष एव वरो हि नः ।
गणेश उवाच ।
वारयिष्ये भयं सर्वं तस्माद्घोरतराद्धि वः ॥५४॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् ।
संकष्टनाशनमिति विख्यातं च भविष्यति ॥५५॥
पठतां शृण्वतां चैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् संकष्टं नाप्नुयात् क्वचित् ॥५६॥
ब्रह्मोवाच ।
इति दत्त्वा वरं तेषां सुराणां जगदीश्वरः ।
पश्यतां मुनिदेवानां तत्रैवान्तर्दधे विभुः ५७ (१५७३)
इति श्रीगणेशपुराण उपासनाखंडे स्तोत्र निरूपणं नाम चत्वारिंशोऽध्यायः ॥४०॥