गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ००६-०१०

← अध्यायाः १-५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ६-१०
[[लेखकः :|]]
अध्यायाः ११-१५ →

अध्याय ६ प्रारंभ :-
भृगुरुवाच ।
अथ सा मेदिनी दुष्टदैत्यभार प्रपीडिता ।
वेषान्तरं समास्थाय जगाम कमलासनम् ॥१॥
दीना हस्तांजलीं बद्ध्वा जगाद पद्मसंभवम् ।
भूमिरुवाच :-
जाताऽहं मलिना दीना हीना यज्ञव्रतादिभिः ॥२॥
स्थानभ्रष्टास्तथा देवाः सेन्द्राः सर्षिगणा विधे।
अतिभाराऽतिसंतप्ता कं त्वाऽहं शरणं गता ॥३॥
येनोपायेन दुष्टानां नाशः स्यात्तद्विधीयताम् ।
नो चेद्रसातलम् यास्यं सपर्वत जनाकुला ॥४॥
भृगुरुवाच ।
इति वाक्यं धरित्र्याः स श्रुत्वा कस्तामथाब्रवीत् ।
अहं सर्वे लोकपाला इन्द्राद्या देवतागणाः ॥५॥
ऋषयोऽपि स्वधास्वाहारहिता दुःखिता भ्रशम् ।
भ्रष्टस्थाना भ्रष्टमन्त्रा भ्रष्टाचारा यथालये ॥६॥
सर्वे वयं प्रार्थयामो देवदेवं विनायकम् ।
ब्रह्मरूपं निराकारं जगतः कारणकारणम. ॥७॥
यदा साकारतां याया लोकानां दैवयोगतः ।
तदा शं सर्वलोकानां स्यात्तवापि वसुन्धरे ॥८॥
भृगुरुवाच ।
इत्युक्त्वा तुष्टुवुर्देवं ब्रह्माद्यर्षिगणा मुदा ।
निराकारं च साकारं बद्धांजलिपुटास्तदा ।।९॥
नमो नमस्तेऽखिल लोकनाथं ।
नमो नमस्तेऽखिल लोकधामन् ।
नमो नमस्तेऽखिललोककारिन् ।
नमो नमस्तेऽखिललोकहारिन् ॥२.६.१०॥
नमो नमस्ते सुरशत्रुनाश ।
नमो नमस्ते ह्रतभक्तपाश ।
नमो नमस्ते निजभक्तपोष।
नमो नमस्ते लघुभक्तितोष ॥११॥
निराकृते नित्यनिरस्तमाय ।
परात्पर ब्रह्ममय स्वरूप ।
क्षराक्षरातीत गुणैर्विहीन ।
दीनानुकम्पिन् भगवन्नमस्ते ॥१२॥
निरामयायाखिल कामपूर ।
निरंजनायाखिल दैत्यदारिन् ।
नित्याय सत्याय परोपकारिन्।
समाय सर्वत्र नमो नमस्ते ॥१३॥
एवं स्तुत्वा पुनः प्रोचुर्देवदेवं विनायकम् ।
ते सर्वे मुनयो देवा विह्वला भृशदुःखिताः ॥१४॥
हाहाभूतं जगत्सर्वं स्वधास्वाहाविवर्जितम् ।
वयं मेरुगुहां याता आरण्याः पशवो यथा ॥१५॥
अतोऽमुं त्वं महादैत्यं जहि विश्वम्भराधुना ।
एवं स्तुवत्सु तु सर्वेषु प्राह वाणी नभोगता ॥१६॥
कश्यपस्य गृहे देवोऽवतिरिष्यति सांप्रतम ।
करिष्यत्यद्भुतं कर्म पदानि वः प्रदास्यति ॥१७॥
दुष्टानां निधनं चैव साधूनां पालनं तथा ।
भृगुरुवाच ।
एवमाकर्ण्य तां वाचं ब्रह्मा प्रोवाच मेदिनीम् ॥१८॥
क उवाच ।
स्वस्था भव धरे देवि नभोवाणी विनिश्चयात् ।
देवाः सर्वे मृत्युलोकेऽवतरिष्यन्ति त्वत्कृते ।
हरिष्यति महाभारमवतीर्णो विनायकः ॥१९॥
भृगुरुवाच ।
इत्युक्त्वा सा तदा तेन ब्रह्मणा ह्रष्टमानसा ।
स्वस्थानमगमत्साथ स्वस्थचित्ता धरा तदा ॥२.६.२०॥
ततो बहुतिथे कालेऽदितिः सा गर्भमादधे ।
तेजोऽतिववृधे तस्या दिने दिने यथा शशी ॥२१॥
संपूर्णे नवमे मासे सुषुवे पुत्रमुत्तमम् ।
ब्रह्मवाक्यादभूत्ख्यातो नाम्ना कश्यपनन्दनः ॥२२॥
दशभुजो बहुबल: कर्णकुंडलमण्डितः ।
कस्तूरी विलसद्भालो मुकुटभ्राजिमस्तकः ॥२३॥
सिद्धिबुद्धियुतः कंठे रत्नमालाविभूषितः ।
चिन्तामणिलसद् वक्षा जपापुष्पारुणाधरः ॥२४॥
उन्नसो भ्रुकुटीचारूललाटो दन्तदीप्तिमान् ।
देहकान्त्या हततमा दिव्याम्बर युतः शुभः ॥२५॥
एतादृशं निरीक्ष्यैनं बालं तत्पितरौ तदा ।
तत्तेजसा हतदृशौ किंचिद्दृष्टुं न शेकतुः ॥२६॥
बलादुन्मील्य नयने दृष्ट्वा तद्रूपमुत्तमम् ।
ननन्दतुरुभौ पश्चाद् बालस्ताविदमब्रवीत् ॥२७॥
बाल उवाच ।
मातस्त्वया यतः पूर्वं सहस्रपरिवत्सरम् ।
येन रूपेण सन्ध्यातस्तनयत्वेन याचितः ॥२८॥
तदा नानावरान्दत्वा पुत्रत्वं ते गतोऽधुना ।
सोऽहं भूभारहरणं विधास्ये सेवनं द्वयोः ॥२९॥
ब्रह्मादीनां पदप्राप्तिर्दुष्टदैत्यविनाशनम् ।
भगुरुवाच ।
इत्थमाकर्ण्य तद्वाक्यं सानन्दाश्रू बभूवतुः ॥२.६.३०॥
चक्रवाकौ यथा वीक्ष्य नभसीव दिवाकरम् ।
ऊचतुस्तं तदा पुण्यमद्भुतं नौ समुद्यतम् ॥३१॥
येन नौ पुत्रतां यातः परमात्मा विनायकः ।
धन्यं कुलं नौ पितरौ जनुषी ज्ञानमेव च ॥३२॥
यतश्चराचरगुरु सर्वसाक्षी निराकृतिः ।
नित्यानन्दमयः सत्यः पुत्रत्वमगमच्छुभम् ॥३३॥
यस्मिंश्चराचरं प्रोतं सूत्रे मणिगणाइव ।
यः सर्वगः सर्ववेत्ता स एव त्वं न संशयः ॥३४॥
इदं रूपं परं दिव्यमुपसंहर साम्प्रतम् ।
प्राकृतं रूपमास्थाय क्रीडस्व कुहको यथा ॥३५॥
यदा यद्रूपकृत्यं ते तदा तत्त्वं विधास्यसि ।
इत्थमाकर्ण्य तद्वाक्यं पिदधे रूपमात्मनः ॥३६॥
द्विभुजः प्राकृतो बालो रुरोद धरणीतले।
रसातलं च गगनं नादयन्विदिशोदिशः ॥३७॥
तच्छब्दश्रवणाद् वन्ध्या जाता गर्भवती द्रुमाः।
नीरसा सरसाः शक्रो जह्रषे देवतागणैः ॥३८॥
भयं बभूव दैत्यानां ववृधे धरणी तदा ।
चकार जातकर्मास्य कश्यपो ब्राह्मणैः सह ॥३९॥
प्राशयित्वा मधुघृतं पस्पर्श मन्त्रतश्च तम् ।
अपाययत् स्तनौ बालं मन्त्रपाठपुरःस्सरम्।।२.६.४०॥
छित्वा नालं तु संक्षाल्य बालं प्रास्वापयच्च सा ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो मुनिस्तदा ॥४१॥
अदापयत् प्रतिगृहं सप्तमे दिवसेऽदितिः ।
इक्षुसारं पंचमे तु वायनानि महामुदा ॥४२॥
महोत्कटेति नामास्य चक्र एकादशे पिता ।
बालोऽपि ववृधे शीघ्रं शुक्लपक्षे यथा शशी ॥४३॥
सर्वेभ्य उत्कटो यस्मान् महोत्कट इति स्मृतः ॥४४॥ (२२५ )
इति मदादि श्रीमन्महागाणेश्वरे महापुराणे क्रीडाखंडे षष्ठोऽध्यायः ॥६॥

अध्याय ७ प्रारंभ :-
ब्रह्मोवाच ।
वसिष्ठ वामदेवाद्या मुनय स्तनयं तदा ।
जातं महोत्कंट श्रुत्वा दर्शनाय प्रतस्थिरे ॥१॥
याता गृहं कश्यपस्य तेनाथ परिपूजिताः ।
विष्टरं पाद्यमर्घ्यं च दत्त्वा गां चापि दक्षिणाम् ॥२॥
बद्धांजलिपुटोऽवोचद् धन्योऽहं पितरौ तपः ।
यदिन्द्र हरिपूज्यं वः पादपद्मं मयेक्षितम् ॥३॥
कंचिदागमने हेतुं ज्ञातुमीहे तपोधनाः ।
तेषां मध्ये श्रेष्ठतमो वसिष्ठः प्राह तं मुनिम् ॥४॥
वसिष्ठ उवाच ।
श्रुतस्ते तनयो ब्रह्मन् नारदात् सुमहोत्कटः ।
तं दृष्टुं त्वां च संप्राप्ता नान्यत्किंचित् प्रयोजनम् ॥५॥
क उवाच ।
तत्कालं सादितिर्बालं दृष्टुं तेषामथानयत् ।
उत्कटान्येष कर्माणि करिष्यति महोत्कट: ॥६॥
द्वात्रिंशल्लक्षणयुतो वसिष्ठः प्राह तं मुनिम् ।
अवतीर्णो महातेजाः परमात्मा विनायकः ॥७॥
अनेकान्यस्य विघ्नाति भविष्यन्ति महामुने ।
तानि सर्वाणि नश्यन्ति रक्षणीयः क्षणक्षणे ॥८॥
यतोऽस्य रक्तौ चरणौ ध्वजांकुश विराजितौ ।
ततः संपूजयामास मुनिः कश्यपनन्दनम् ॥९॥
प्रार्थयामास सर्वैस्तं भूभारहरणं कुरू ।
साधूनां पालनं देव दुष्टदानवघातनम् ॥२.७.१०॥
ते सर्वे मुनयो जग्मुस्तं प्रणम्य यथागतम् ।
ततः स ख्यातिमगमन्नाम्ना कश्यपनन्दनः ॥११॥
एकस्मिन्दिवसे प्रातः स्नातुं याते मुनौ बहिः ।
अस्वापयत् स्वतनयमदितिर्गृहमाययौ ॥१२॥
चकार यज्ञसंभारांस्तावदेका निशाचरी।
विरजेत्यभिविख्याता विकरालेक्षणानना ॥१३॥
हलदन्ती दरीनासा पादचूर्णितभूधरा ।
दीर्घस्तनी ललज्जिह्वा गोपुरस्पर्द्धि सद्भगा ॥१४॥
जग्राह बालकं सा तु सर्वभक्ष्या निशाचरी।
क्षुधिताऽभक्षयच्छीघ्रं पक्वं रंभाफलं यथा ॥१५॥
शनैर्जगाम गगनं जलं पातुं भुवं ययौ।
पपौ जलं बहुतरं पपात पृथुलोदरा ॥१६॥
मूर्छामवाप महतीं सर्पदृष्टो नरो यथा।
लुलोल धरणीपृष्ठे महाशूलवती यथा ॥१७॥
मुंच मुंचेति जल्पन्ती पदं गंतुमथाक्षमा ।
हाहाकारं प्रकुर्वंती घ्नंति वक्षः शिरो मुखम् ॥१८॥
तावद्देहान्तरे तस्या ववृधे मुनिनन्दनः ।
विदार्य जठरं तस्या वक्षस्येव स्थितोऽभवत ॥१९॥
यथा जालं विदार्येव बहिर्याति महाझषः ।
सा तदैव महारावं कृत्वा प्राणान्जहौ खला ॥२.७.२०॥
चूर्णयामास देहेन पंचयोजनगान्द्रुमान् ।
विरजा विरजास्तेन प्रापिता निजधाम सा ॥२१॥
दृष्टे स्पृष्टे कृपासिंधौ जगदीशे कथं भवेत् ।
ज्ञानदे मोक्षदे नृणामावृत्तिर्भवसागरे ॥२२॥
अदितिर्गृहकार्याणि संपाद्य बहिरागता ।
न ददर्श तदा बालं रुरोद भृशदुःखिता ॥२३॥
गृहे गृहे निरीक्ष्यैव नालभत् क्वापि बालकम् ।
ततोऽपतद्धरापृष्ठे हाहाकारं प्रकुर्वती ॥२४॥
अन्याश्च रुरुदुस्तस्याः श्रुत्वा रोदनमुच्चकैः ।
आश्चर्यं परमं चक्रुः सर्वलोका भयातुराः ॥२५॥
सा शुष्कवदना दीना विललाप मुहुर्मुहुः ।
मुखं च सांजने नेत्रे मृजन्त्यश्रु जलाकुले ॥२६॥
कल्पद्रुम इव प्राप्तः केन नीतो ममार्भकः ।
वरदानं कथं तस्य वृथा स्याज्जगदीशितुः ॥२७॥
दत्तं निधानं देवेन केन नीतं दुरात्मना ।
कथं मूढतरा जाता लब्धविज्ञानसागरा ॥२८॥
कथं दरिद्रा जाताऽहं लब्ध्वा कांचनपर्वतम् ।
एवं विलपती वक्षो घ्नन्ति साऽप्याननं शिरः ॥२९॥
आश्रमाद् बहिरागच्छत् क्रोशमात्रं निशाचरीम्।
ददर्श पतितां तस्य वक्ष्यस्येव च तां शिशुम् ॥२.७.३०॥
क्रीडन्तं हास्यवदनं प्रबुद्धमिव कामिनम् ।
धावमाना तमादाया लिलंग च चुचुम्ब च ॥३१॥
उवाचानन्दपूर्णा सा महद्भाग्यं ममाधुना ।
यद्राक्षसी शयान्मुक्तो बालको दैवयोगतः ॥३२॥
ययौ स बाला स्नात्वा सा निजमाश्रममंडलम् ।
वृत्तान्तं सर्वमाचष्टे श्रुत्वा सोऽप्याह कश्यपः ॥३३॥
भूतभावि विशेषज्ञैरुक्तं यन्मुनिभिः प्रिये ।
तदेतत् सत्यमभवत् तदाशीर्वचनादयम् ॥३४॥
जीवितोऽखिल भक्ष्याया बालकः पुण्ययोगतः ।
ततो रक्षां चकारासौ ददौ दानान्यनेकशः ॥३५॥
शान्तिकं कारयामास स्वस्तिवाचनपूर्वकम् ।
क्षणमात्रं न हातव्योऽदितिमेव समादिशत् ॥३६॥ ( २६१ )
इति श्रीमदादि श्रीमन्महागाणेशपुराणे क्रीडाखंडे विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः ॥७॥
 
अध्याय ८ प्रारंभ :-
क उवाच ।
विरजां निहतां श्रुत्वा राक्षसीं बलवत्तराम् ।
उद्धतो धुन्धुरश्चापि राक्षसौ बलवत्तरौ ॥१॥
आगतावाश्रमपदं कश्यपस्य महात्मनः ।
शुकरूपधरौ बालो दृष्ट्वा प्रोचेऽदितिं तदा ॥२॥
त्यक्त्वा स्तनं दीयतां मे उभौ रन्तुं शुकाविमौ ।
सोचे तं खगमौ शक्यौ भूगया न स्त्रिया क्वचित् ॥३॥
अथापि धर्तुं याता चेदुड्डीयैतौ गमिष्यतः ।
कटेरुत्तीर्य जग्राह बालस्तौ श्येनवत्तदा ॥४॥
पक्षाघातेन चंच्वा च जघ्नतुस्तौ भृशं च तम् ।
तावदास्फालयत सोऽपि तौ बलेर्न धरातले ॥५॥
जहतुस्तौ तदा प्राणान् निजरूपधरावुभौ ।
तद्देहभारभीत्या भूर्भृशं विह्वलिताऽभवत ॥६॥
भग्नवृक्षौ सनिनदौ देहौ निपतितौ तयोः ।
गव्यूतिमात्रं तौ दृष्टवाऽदितिस्तं पुनरग्रहीत् ॥७॥
शरीरे ददृशे तेन मुनिना विस्तृते तयोः ।
छित्वा ददाह तौ लोकः काष्ठसंचययोगतः ॥८॥
चकाराद्भुतशान्तिं च बालकाभ्युदयेच्छया ।
आश्चर्यं परमं चक्रे शिशोर्दृष्ट्वा पराक्रमम् ॥९॥
उवाच परमप्रीतोऽदितिं पुत्रयुतां तदा।
यौ न देवेन शक्रेण न हतौ राक्षसेश्वरौ ॥२.८.१०॥
शुकरूपधरावेतौ लीलया शिशुना हतौ।
अदितिं च चुकोपासौ किमर्थं मोचितस्त्वया ॥११॥
रक्षितो जगदीशेन क्वायुष्यं नास्य विद्महे ।
अविस्मरो रक्षणीयो बालोऽयं यत्नतःसति ॥१२॥
कथं च निहतावेतौ गिरिसारौ निशाचरौ ।
निशाचर स्थलमिदं कथं जीवेच्छिशुर्मम ॥१३॥
क उवाच ।
उक्त्वा परस्परं तौ तु स्नाप्य बालं तथाविधम् ।
स्नात्वा सुषुपतुस्तत्र दम्पत्ती विस्मयान्वितौ ॥१४॥
ततश्चतुर्थे वर्षे स स्वाश्रमात् परतो ययौ ।
कासारं जलजैर्युक्तं नक्रमत्स्यगणैर्युतम् ॥१५॥
तमालवृक्ष सरल जम्ब्वाम्र पनसान्वितम् ।
नाना वृक्षलताकीर्णं फलपुष्प सुशोभितम् ॥१६॥
नानापक्षिगणाकीर्णं नानामुनिगणान्वितम् ।
अति स्वच्छजलं रम्यं सुजनस्येव मानसम् ॥१७॥
व्यतीपाते सोमवत्यां स्नातुं तत्रागमद्दितिः ।
उपवेश्य स्वकं बालमाकंठं जलगाऽभवत् ॥१८॥
बाल उड्डीय तां गन्तुं जलमध्ये पपात ह ।
चिक्रीड स जले यावत् तावन्नक्रो दधार तम् ॥१९॥
धावधावेति जननी चुक्रोश जलमध्यगा।
आगत्य जननी बालं गृहीतुं नैव चाशकत् ॥२.८.२०॥
आकृष्यते जले तेन जनन्या बहिरेव सः ।
स नक्रो बालसहितां दूरे दूरे चकर्ष ह ॥२१॥
बालोवदत् ततस्तां स न मोच्योऽहं सुतस्त्वया ।
सह त्वया सहैवाहं मरिष्ये न बलं मम ॥२२॥
दृष्ट्वा स बालामाकंठ मग्नां तां विह्वलां भृशम् ।
निष्कासितुं बलाच्छिष्या उड्डीय पतिता वने ॥२३॥
तस्माद् बलवतो नक्रात्तेऽपि शक्ता न चाभवन् ।
ततोऽत्यन्तं बलं तस्य दर्शयामास बालकः ॥२४॥
लीलयैव तदा नक्रं पृथिव्यां जलतोऽक्षिपत् ।
वायुर्यथा फलं पक्वं ग्रावाणं बालको यथा ॥२५॥
शरीरं दृश्यते तस्य विशीर्णं पतितं भुवि ।
गतचेष्टं गतप्राणं योजनायतमद्भुतम् ॥२६॥
सबाला सहशिष्यैः सा मुदं प्राप्ताऽदितिस्तदा ।
ततो दिव्यवपुश्चित्रगन्धर्वस्तमुवाच ह ॥२७॥
अहमासं पुरा राजा गन्धर्वाणां गजानन ।
विवाहे सर्व गन्धर्वा मम गेहमुपागताः ॥२८॥
पूजिताः परया भक्त्या न भृगुः पूजितो मया ।
वैवाहिकानि कार्याणि कुर्वता कुपितो मुनिः ॥२९॥
शशाप मां नक्रवरो भविष्यसि सरोगतः ।
समाकर्ण्य मुनेः शापमुत्शापं तमर्थयम् ॥२.८.३०॥
ततो भृगुरुवाचेत्थं यदा कश्यपनन्दनः ।
गजाननः स्पृशेत् त्वां तु तदा स्वं वपुराप्स्यसि ॥३१॥
इदानीमसि विज्ञोतो बालरूपी गजाननः ।
त्वमेव जगतां नाथः कर्ता पाताऽपहारकः ॥३२॥
निर्गुणो निरहंकारः सदसत्कारणं परम् ।
नानावतारैर्भक्तानां पालको दुष्टनाशनः ॥३३॥
सर्वव्यापी पूर्णकामोऽनेकब्रह्मांडनायकः ।
मुनीनामप्यगम्यस्त्वं मनोवागनिरूपितः ॥३४॥
इति स्तुत्वा च नत्वा च संपूज्य बालरूपिणम् ।
गजाननं प्रयातोऽसौ कृत्वा प्रदक्षिणां मुहुः ॥३५॥
अदितिर्बालकं गृहय लालयित्वा स्तनं ददौ ।
आश्चर्यं मानसा याता प्रसन्ना निजमन्दिरम् ॥३६॥
प्रणम्य कश्यपं सर्वं वृत्तान्तं समभाषत ।
स विस्मितोऽब्रवीच्चेना मयं तु परमेश्वरः ॥३७॥
लीलाविग्रहवान्मन्ये मानुषं देहमाश्रितः ।
अत्यद्भुतानि चान्यानि कर्माण्येष करिष्यति ॥३८॥
देवासुरैरशक्यानि द्रष्टव्यानि प्रसादतः ।
अस्मिन् भक्तिर्दृढा कार्या जनैरात्महितेप्सुभिः ॥३९॥ (३००) ।
इति श्रीगणेशपुराणे क्रीडाखंडे नक्रमोक्षणं नाम अष्टमोऽध्यायः ॥८॥

अध्याय ९ प्रारंभ –
क उवाच ।
अन्यत्ते कथयिष्यामि चरितं बालरूपिणः ।
गजाननस्याघहरं शृणुष्वैकमना मुने ॥१॥
एकस्मिन्समये हाहा हूहूस्तुम्बुरुरेव च ।
वीणागानरता वीणास्ता हरिपरायणाः ॥२॥
शंखचक्रगदापद्म तुलसी दामभूषणाः ।
गोपीचन्दन लिप्तांगाः पीताम्बरधराः शुभाः ॥३॥
कैलासं गन्तुकामास्ते कश्यपस्याश्रमं ययुः ।
अति संमानितास्तेन पूजिताश्च यथाविधि ॥४॥
उवाच प्रणतस्तान्सोऽनायासेन सतां दृशिः ।
केन पुण्येन संजाता धर्मार्थकाममोक्षदा ॥५॥
धन्यं तपो जनिर्माता पितरौ ज्ञानमाश्रमः ।
प्रयोजनं न जानेऽहं चलने तद्वदन्तु मे ॥६॥
इति तद्वचनं श्रुत्वा संपृष्टास्ते तमब्रुवन् ।
कैलासं गन्तुकामानां जातं त्वदर्शनं हि नः ॥७॥
दुरितं विलयं यातं जातं च सफलं जनुः ।
अदूरे परमा सिद्धिर्विश्रान्तिः परमा च नः ॥८॥
अनुजानीहि गच्छामो गिरीशं द्रष्टुमुत्सुकाः ।
श्रुत्वा वाक्यानि तेषां तु पुनरूचे तपोनिधिः ॥९॥
भुक्त्वा व्रजन्तु विश्राम्याप्यभुक्त्वेतो न को गतः ।
मज्जनाय जलं तेभ्यो दत्त्वा पाकमकारयत्॥२.९.१०॥
देवार्चनरताः स्नात्वा बभूवुर्मुनिसत्तमाः ।
तेऽपि संपूज्य शर्वाणीं शर्वं विष्णुं विनायकम् ॥११॥
रविं विष्णुमयं ध्याननिष्ठा आसन् मुहूर्ततः ।
तदा विनायको बालो रमित्वा बालकैर्बहिः ॥१२॥
आगतोऽन्तर्गृहं तावत् पंचमूर्तिं ददर्श सः ।
गृहीत्वा बहिरेवाशु चिक्षेपाग्निगृहं ययौ ॥१३॥
भस्मांगरांग सर्वत्र कृत्वा लीनोऽभवच्च सः ।
विसृज्य ध्यानं नापश्यन् मूर्तीस्ते पुरतः स्थिताः ॥१४॥
ततस्ते विस्मिताः सर्वे परस्परमथाब्रुवन् ।
केन दैत्येन नीता नो मूर्तयः कर्महेतवः ॥१५॥
गन्धर्वा राक्षसा यक्षा नेतुं मूर्तीः किमागताः ।
किं वा सत्वपरीक्षार्थ अंतर्धानं गता इमाः ॥१६॥
ततः क्रोधेन महता कश्यपं प्रष्टुमागताः ।
भवद्गृहे कथं ध्याननिष्ठानां मूर्तयो गताः ॥१७॥
क्रीडन्ति जातिवैरास्त आश्रमे इतरेतरम् ।
देवा बिभ्यति तत् कस्मादाश्रमे दस्यवः स्थिताः ॥१८॥
इति श्रुत्वा वचस्तेषां कश्यपोऽतिरुषान्वितः ।
अभोजिनो विनिश्चित्य मूर्तिप्राप्तिं विना च तान् ॥१९॥
ततः शिष्यान् समाकार्य कश्यपो मुनिसत्तमः ।
तानुवाच न मे जन्मावध्यत्र तस्करोऽभवत् ॥२.९.२०॥
दैवादिदानीं को जातो दस्युस्तत्र वदन्तु मे ।
क्रोधवाक्यं निशम्येत्थमूचुः शिष्या गुरुं प्रति ॥२१॥
न वयं तस्कराः स्वामिन्पुत्रस्ते विदितस्तव ।
दोषानुवर्णने दोषा अस्माकं तन्न चक्ष्महे ॥२२॥
तेषां ब्राह्मीं समाकर्ण्य यष्टिहस्तो मुनिस्तदा ।
पुत्रमन्वेषयन्यातो वह्न्यागारे ददर्श तम् ॥२३॥
तेषां पुरः समानीतो दृष्टस्तैः शिवसन्निभः।
उवाच तत्समक्षं तं कश्यपः क्रोधसन्निभः ॥२४॥
मूर्तीरानय शीघ्रं त्वं नो चेत्पुत्र मरिष्यसि ।
मया न नीतास्तास्तात प्रत्युवाच स निर्भयः ॥२५॥
ब्रवीषि शपथं यं यं तं तमेव करोम्यहम् ।
एवं वदन्पितुर्भीत्या रुरोद भृशमर्भकः ॥२६॥
प्रसार्य वदनं भूमौ पतितो भृशविह्वलः ।
जननी च तदा याता तामुवाच ततोऽर्भकः ॥२७॥
यदि मे भक्षिता देवा स्तर्ह्यास्ये दृश्यतां मम ।
प्रसारिते तदास्ये सा ददर्श विश्वमन्तरा ॥२८॥
विस्मिता मूर्छिता भूमौ पतिता भयविह्वला ।
ततस्ते ददृशुस्तत्र गंधर्वाः कश्यपोऽपि च ॥२९॥
कैलासं शंकरं सांगं वैकुंठं विष्णुमेव च ।
ब्रह्माणं सत्यलोकं च शक्रं चैवामरावतीम् ॥२.९.३०॥
सपर्वत वनाकीर्णां धरणीं लोकसंयुताम् ।
सरितः सागरान्यक्षान् रक्षांसि पन्नगानपि ॥३१॥
वृक्षान्पक्षिगणांश्चैव भुवनानि चतुर्दश ।
इन्द्रादि सर्वलोकांश्च पातालानि दिशो दश ॥३२॥
ततो माता प्रबुद्धा सा स्तनपानं ददौ मुदा ।
ननाम कश्यपस्तं तु दृष्ट्वेत्थं विश्वरूपिणम् ॥३३॥
तर्कयामास मनसि साक्षादीश्वर एव यः।
अवतीर्णो मम गृहे तमहं ताडितुं गतः ॥३४॥
ततः स कश्यपः प्राह भुज्यतामिति तान्प्रति ।
नायं बालस्ताडयितुं मया शक्यो महाबलः ॥३५॥
भीषयन्तूग्ररूपेण समष्टिव्यष्टिरूपवान् ।
भवतां यदि शक्तिश्चेत्ताड्यतां मूर्तिहेतवे ॥३६॥
त ऊचुर्न वयं किंचिद् भक्षयामस्तवालये ।
अन्नं वा कन्दमूलादि पंचायतनमन्तरा ॥३७॥
इत्युक्तवन्तो ददृशुर्बालकं पंचधाऽपि ते ।
शिवाशिवेरविशेभाननरूपं तमेव हि ॥३८॥
प्रणेमुः स्थिरचित्तास्ते पुपूजुस्तुष्टुवुर्जगुः ।
क्षणं ददृशुर्बालं क्षणं पंचस्वरूपिणम् ॥३९॥
क्षणं महाभीतिकरं क्षणं तं विश्वरूपिणम् ।
ततस्तस्मै निवेद्यान्नं षड्रसं बुभुजुश्च ते ॥२.९.४०॥
ततस्ते नुनुवुर्भक्त्या बालं तं विश्वरूपिणम् । ॥४१॥
त्रय ऊचुः ।
अज्ञानेन विमोहितं जगदिदं संसारचक्रे भ्रमन् ।
नानाभेदधिया स्वरूपविमुखं नानाविधि भ्रामितम् ।
नानापाशनियंत्रितं निजकृतैः कर्मांकुरैर्भ्रंशितं ।
नानारूपमरूपमेकसगुणं हित्वा भवन्तं विभो ॥४२॥
अन्ये ते चरणारविन्दनिरता हित्वा फलं याजका।
आत्मानं स्वपरेषु वर्ष्मसु सदा संचिन्तयन्तोऽमलाः ।
ते ज्ञानेन विधूय सर्वकलुषं दग्ध्वांऽकुरान्कर्मजां ।
स्त्वामेवाशु विशन्ति सर्व सरितो वार्द्धिं यथा मेघजाः ॥४३॥
ये केचिद्भजनानुरक्तमनसः सिद्धिं गता भूयसीं ।
ते तत्रैवं निमग्नमानसतया विस्मृत्य पादाम्बुजम् ।
ते कृच्छ्रादुपरुह्य चोत्तमपदं तस्मात्पतन्तो निजाद् ।
अक्षानान्नविदुर्विषं हि पिबतो हित्वाऽमृतं दुर्लभम् ॥४४॥
तस्मान्नो जननं भवेद्यदि शुभं यद्वाऽशुभं त्वन्स्मृति ।
रास्तां तत्र निरन्तरं शुभकरी भक्तिश्च दुःखनाशिनी।
एवं चेद्भ्रमतां कदापि हि भवेत् संसारपाथोनिधो ।
र्नस्तारो भवतः कृपेक्षणवशात्सर्वात्मने ते नमः ॥४५॥
तवावतारान्न हि कोऽपि शक्तो वेत्तुं कथं वा कतिचित्कदेति ।
योगीश मायेश गुणेश भूमन्नमो नमस्ते भगवन्नमस्ते ॥४६॥
क उवाच ।
एवं स्तुत्वा गतास्ते तु कैलासं गिरिशालयम् ।
पंचायतनमर्चन्तो विस्मिता बालचेष्टितम् ॥४७॥ ( ३४७ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते हाहाहूहूदि स्तुतिर्नाम नवमोऽध्यायः ॥९॥

अध्याय १० प्रारंभ –
क उवाच ।
ततस्तु पंचमे वर्षे सचौलं व्रतबंधनम् ।
चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम् ।। १ । ।
शुभे मूहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।
आकारिताः शिष्यगणैर्देव दानव राक्षसाः ।।२। ।
मुनयो यक्षनागाश्च तथा राजर्षयोऽपि च ।
वैश्याः शूद्रास्तथा याता नानोपायनपाणयः ।। ३ ।।
ववदुर्बहु वाद्यानि नृदेवैराहतानि च ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च । । ४।।
मंडपस्थापनं चक्रे मातृकापूजन तथा ।
चकाराभ्युदयश्राद्धं ब्राह्मणानां तथार्चनम् ।।५।।
सुहृदां वस्त्रदानं च चकार स यथार्हतः ।
अन्येषां च तथा तेऽपि वस्त्राणि निदधुः पुनः ।।६।।
होमान्ते पुनरानर्च ब्राह्मणा- न्कश्यपस्ततः ।
अन्तःपटं वेदिकायां धारयित्वा स सत्वरम् ।।७।।
कृत्वाऽग्निस्थापनं पूर्वमुपनिन्युश्च बालकम् ।
सुवासिन्यो ब्राह्मणास्तमक्षताभिरवाकिरन् ।।८।।
तन्मध्ये राक्षसाः पंच सुदुष्टा ब्रह्मलिंगिनः ।
अस्त्रैस्तमाकिरन्दुष्टा स्तत्प्राणहरणेच्छया ।।९।।
विघातश्चैव पिंगाक्षो विशालः पिंगलस्तथा ।
चपलश्च महापुंड्रा अक्षमालाविभूषिताः ।। २.१०.१ ०।।
जलपात्रभृतोऽनर्घ्य वस्त्राम्बरधराः शुभाः ।
विशीर्णोऽजायता देहः कुमारस्य तदस्रतः ।। १ १।।
ज्ञात्वा कुमारस्तान्दुष्टान्मंत्रयामास तंडुलान् ।
महोत्कटः प्रचिक्षेप तंडुलान्पंच पंचसु ।। १ २।।
तदैव निर्गतः प्राणा निजरूपं समाश्रिताः ।
करालाः पतिता भूमौ विशीर्णा दशयोजनम् ।। १ ३।।
वज्राघाताद्यथा पेतुर्गिरयस्तु बिडौजसः ।
कोलाहलो महानासीद्रजसाच्छादिता दिशः ।। १४।।
कथं व्यापादिताः पंच राक्षसाः कूटरूपिणः ।
क्षणेनानेन बालेन न जानीमोऽखिला अमुम् ।। १५।।
अवतीर्णो भुवो भारं हर्तुं किं परमेश्वरः ।
एवं ततो गरिष्टे ते ब्रह्माद्या देवतागणाः ।। १६।।
ववर्षुः पुष्पवर्षाणि विमानवरमाश्रिताः ।
नीतेषु तेषु प्रेतेषु ब्राह्मणाः कश्यपोऽपि च ।। १७।।
उपनीते तत्र शिशौ वासश्च मेखलामपि ।
उपवीताजिने दंडं ददुस्तस्मै स्वमन्त्रतः ।। १८।।
ततोंऽजलिं पूरयित्वा प्रोद्वीक्ष्य मंडलं रवेः ।
होमं सर्वं समाप्यैनं सावित्रीं कश्यपोऽब्रवीत् ।।१९।।
पादमर्धं ततः सर्वां भिक्षां माता पुरा ददौ ।
असंख्यातास्ततो भिक्षा दुदुस्ते सर्व आगताः ।। २.१०.२ ०।।
उपदिश्य ततश्चैनं शौचाचाराननेकशः ।
पुनश्च ब्राह्मणान्पूज्य वासांसि कांचनं च गाः ।।२ १।।
महत्यरिष्टेऽतीतेऽस्मिंस्तेभ्यो भक्त्या ददौ मुनिः ।
वसिष्टंस्तं सभामध्ये निनाय ब्रह्मणोऽन्तिकम् ।।२२।।
सोऽपि कमंडलुजलैरस्य तीर्थं गृहीतवान् ।
सर्वदा विकसत्पद्मं ददावस्मै करस्थितम् ।।२३।।
ब्रह्मणस्पतिरित्येवं नाम चक्रे तदाऽस्य सः ।
संपूज्य नाम चक्रेऽस्य भारभूतिर्बृहस्पतिः ।।२४।।
रत्नमालां ददौ चास्मै कुबेरोऽपि गलस्थिताम् ।
सुरानन्देति नामास्य संपूज्य च चकार ह ।।२५।।
सर्वप्रियेति नामास्य दत्त्वा पाशमपां पतिः ।
शृण्वत्सु सुरसंघेषु चकार शंकरोऽपि च ।।२६।।
त्रिशूलं डमरुं दत्त्वा विरूपाक्षेति चाभ्यधात् ।
दत्त्वा चन्द्रकलां नाम भालचन्द्रेति चाकरोत् ।।२७।।
रामस्य जननी चास्मै सखी बालाय चार्पयत् ।
परशुं परशुहस्तेति नाम चक्रे स्फुटं मुदा ।।२८।।
पुनः संपूज्य सिंहं सा ददौ वाहनमुत्तमम् ।
सिंहवाहन इत्येवं चक्रे नामातिसुन्दरम् ।।२९।।
उपादिशद्दुष्टनाशं कुरु शीघ्रं विनायक ।
सागरो द्विजरूपेण मुक्तमालां ददावथ ।। २.१०.३ ०।।
मालाधरेति नामास्य कृतवान्परिपूज्य च ।
आसनार्थं ततस्तस्मै शेषः स्वात्मानमर्पयत् ।।३ १ ।।
फणिराजासनेत्येवं नाम चक्रे स्वयं मुदा ।
दाहशक्तिं ददौ वह्निर्धनंजयेति नाम च ।।३२।।
प्रभंजनेति नामास्मै वायुश्च बलमुच्चकैः ।
एवं सर्वे यथाशक्त्या दत्त्वा नामानि चक्रिरे ।।३३।।
तेषां निर्वचने शक्तिर्न कस्यापि भवेन्मुने ।
अपुपूजन्न चैनं स शक्रो मदविमोहितः ।।३४।।
न वा किंचिद्ददौ चैनमुपायनवरं शुभम् ।।३५।।
अहं त्रिलोकीनमितः सुरेशो, वृद्धोऽमृताशी लघुमर्भकं तम् ।
गजेन्द्रगामी हरिशूलपाणि, प्रपूजितः कश्यपजं नमस्ये ।।३६।।
सिंहो यथा नात्तितृणं समुद्रः पल्वलोदकम् ।
न याचति तथाऽन्यं वा कल्पवृक्षोऽखिलं ददत् ।।३७।।
एवं तस्याशयं बुद्ध्वा कश्यपः प्रणिधानवान् ।
उवाच धर्मसंयुक्तं वचस्तद्धितकाम्यया ।।३८।।
यत्राद्भुतानि कर्माणि यत्र स्युश्च गुणाकराः ।
स नमस्यश्च पूज्यश्च ब्राह्मणोऽपि च निर्गुणः ।।३९।। ( ३८६)
इति श्रीगणेशपुराणे क्रीडाखंडे नानानामनिरूपणं नाम दशमोऽध्यायः ।। १ ०।।