गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०११-०१५
← अध्यायाः ६-१० | गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्) अध्यायाः ११-१५ [[लेखकः :|]] |
अध्यायाः १६-२० → |
अध्याय ११ प्रारंभ :-
कश्यप उवाच ।
अयं तु मद्गृहे कोऽपि हयवतीर्णः परः पुमान् ।
अनिर्वाच्य गुणो हीनो गुणैस्त्रिभिरनावृतः ॥१॥
एतद्विरोधं यः कुर्यात् स पदभ्रंशतामियात्।
एतस्याद्भुत कर्माणि शृणु मे गदतः सुर ॥२॥
विरजा राक्षसी घोरा हन्तुमेनं समागता ।
सा हता तेन बालेन पतिता हि द्वियोजना ॥३॥
उद्धतश्चैव धुन्धुश्च दैत्यौ परम दुर्मदौ ।
शुकरूपधरावेनं निहन्तुं समुपागतौ ॥४॥
पक्षे धृत्वा पोथितौ तौ शिलायां गतजीवितौ ।
निपेततुर्धरापृष्ठे विशालौ सर्वदृग्गतौ ॥५॥
तथैव चित्रगन्धर्वो जले नक्रत्वमागतः ।
एतस्य स्पर्शमात्रेण गतो दिव्यशरीरताम् ॥६॥
हाहाहूहूतुम्बुरूणां सत्वसंशोधनाय सः ।
जहार पंचायतनं पंचधा स्वयमप्यभूत् ॥७॥
सर्वेषां च समक्षं वो निहता पंच राक्षसाः ।
एवं मुनिवचः श्रुत्वा बभाण बलवृत्रहा ॥८॥
इन्द्र उवाच ।
न दृष्टोऽस्य गुणोत्कर्षस्तावन्मान्यो भवेत्कथम् ।
क उवाच ।
ततो दिदेश वायुं स नयैनं व्योममंडलम् ॥९॥
तस्यानुज्ञापदं वायुर्युगान्त सदृशो ववौ ।
आन्दोलयन्सर्वलोकं भ्रामयन् कुधरान्भृशम् ॥२.११.१०॥
अकालः प्रलयः किं नु प्रारब्धो लोकनाशनः ।
इत्येवं भृशसंविग्ना ऋषयश्च चकम्पिरे ॥११॥
बटुं नेतु समायातो महाशक्त्या प्रभंजनः ।
न चासनं त्वस्य चलं रोम वा समपद्यत ॥ ॥१२॥
भग्ने वायौ तु संप्राह शुष्माणं पाकशासनः ।
दहैनं त्वं बटुं शीघ्रं द्रष्टव्या शक्तिनरद्य ते ॥१३॥
तदाज्ञां शिरसा गृहय जगाम तमुषर्बुधः ।
निर्दहन्निव त्रींल्लोकान्प्रलयानलसन्निभः॥१४॥
भस्मीकर्तुं द्रुमान्सर्वान्शोषयन्सर्वसागरान् ।
तं दहन्तं जनान्सर्वान्दृष्ट्वा कश्यपनन्दनः ॥१५॥
तत्क्षणादगिलद्रोगी भेषजं गुटिकामिव ।
मिलिते तादृशे वह्नौ क्रोधसंरक्तलोचनः ॥१६॥
सहस्रलोचनो लोकांल्लोचनैः सर्वलोचनैः ।
तावद्ददर्श तं तत्र सहस्राधिकलोचनम् ॥१७॥
असंख्यशीर्षमुकुटमनन्तश्रोत्रसंयुतम् ।
अनन्त हस्तचरणमनन्तोदारविक्रमम् ॥१८॥
शशिसूर्याग्निनयनं शिखाव्याप्तनभस्तलम् ।
सप्तपातालचरणं सप्तलोकैकमस्तकम् ॥१९॥
असंख्यसूर्यसंकाशमसंख्येन्द्र सुसेवितम् ।
असंख्यकेशसंयुक्तं नानाब्रह्मांडरोमकम् ॥२.११.२०॥
आमूलाग्राद्यथा वृक्षे भवन्त्यौदुम्बराणि वै ।
औदुम्बरे वा मशकः संख्यातीता भवन्ति हि।।२१॥
तथैवैकैकरोमांचं संख्यातीतांडसंयुतम् ।
पश्यंस्तत्रैवैकतरं भ्रान्तः शक्रो विवेश ह॥२२॥
पश्यति स्म स तन्मध्ये त्रैलोक्यं सचराचरम् ।
अरण्यकदलीकोश पत्रे पत्रे यथा फलम् ॥२३॥
असंख्यातं जगत्तत्र पश्यति स्म शचीपतिः।
बभ्राम भ्रान्तचित्तोऽसौ नालभन्निर्गमं ततः॥२४॥
ततो ननाम मूर्ध्नाऽसावेदं भग्नमनोरथः।
प्रार्थयामास देवेशं तदा शक्रो गजाननम् ॥२५॥
शक्र उवाच।
भूभारहरणार्थं यो जातः कश्यपनन्दनः ।
अचिन्त्यो महिमा यस्य किमु वर्ण्यो भवेन्मम ॥२६॥
निर्गमं देहि देवेश कुक्षेरत्यन्तविस्तरात् ।
अदृष्टपाराद्वर्षाणि द्वादश भ्रमता मया ॥२७॥
तव कुक्षौ मयाऽदर्शि भुवनानि चतुर्दश ।
स्थाने स्थाने विभक्तानि प्रतिरोमांचमेकराट ॥२८॥
समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति च ।
दृष्टानि तव रूपाणि सुसौम्यानीतराणि च ॥२९॥
अद्भुतान्यप्यसंख्यानि वक्त्राणि नयनानि च ।
दृष्ट्वा दुर्दर्शरूपाणि जगत्क्षोभकराणि ते ॥२.११.३०॥
दैत्यदानवपूर्णानि सुरमानववन्ति च ।
यक्षरक्षःपिशाचादि चतुराकरवन्ति च ॥३१॥
विकराल महोरूपमुपसंहर विश्वकृत् ।
गतो मोहं स्मृतिर्लब्धा प्रसादान्निखिलेश्वर ॥३२॥
कायेन मनसा बुद्ध्या वाचा त्वां शरणं गतः ।
प्राकृतं दर्शय विभो रूपं ते भक्तवत्सल ॥३३॥
क उवाच।
एवं यावत्प्रार्थयते स्वात्मानं तावदेव सः ।
सभामध्यगतं तं च ददर्श ब्रह्मचारिणम् ॥३४॥
पश्यतां सर्वलोकानां साष्टांगं प्रणनाम तम्।
अतिविस्मितचित्तोऽसौ लज्जाहर्षसमन्वितः ॥३५॥
शृण्वस्तु सर्वदेवेषु नुनाव ब्रह्मचारिणम् ।
जातं मुनिगृहे शान्तं क्रीडामानुषरूपिणम् ॥३६॥
शक्र उवाच ।
जाने न त्वाऽनन्तशक्तिं परेशं, विश्वात्मानं विश्वबीजं गुणेशम् ।
विश्वाभासं विश्ववन्द्यं त्रिसत्यं, त्रेधाभूतं जन्मरक्षार्तिहेतुम् ॥३७॥
एकं नित्यं सच्चिदानन्दनरूपं, सर्वाध्यक्षं कारणातीतमीशम् ।
चेष्टाहेतुं स्थावरे जंगमे च । वांछापूरं सर्वगं त्वाऽभिवन्दे ॥३८॥
सर्वेशानं सर्वविद्यानिधानं, सर्वात्मानं सर्वबोधावभासम् ।
सर्वातीतं वाङ्मनोगोचरं त्वां, सर्वावासं सर्वविज्ञानमीडे ॥३९॥
क उवाच ।
एवं स्तुत्वा च नत्वा च संपूज्य स्वांकुशं ददौ ।
कल्पवृक्षं च दास्यौ द्वे विनायक इति स्फुटम् ॥२.११.४०॥
चकार नाम शक्रोऽथ स्मरणात्सर्व सिद्धिदम् ।
जयशब्दैर्नमःशब्दैर्वाद्यशब्दैरनेकधा ॥४१॥
गन्धर्वगीतनिनदैरप्सरोनृत्यनिःस्वनैः ।
व्याप्तमासीत्पुष्पवर्षंस्तदा व्योम धरातलम् ॥४२॥
प्रतिकूलवहा नद्य आसन्पूर्ववहाः शुभाः ।
प्रसन्नमासीद्दिक्चक्रं ववुर्वाताः सुखावहाः ॥४३॥
प्रदक्षिणार्चिषः शान्ता आसन्सर्वत्र वह्नयः ।
ततः प्रसन्नः शक्राय ददावभयमेकराट् ॥४४॥
भविता न भयं क्वापि तव शक्र रणाजिरे ।
पठस्व स्तोत्रमेतत्त्वं त्रिसन्ध्यं भक्तितत्परः ॥४५॥
अन्योऽपि यः पठेद्भक्त्या श्लोकत्रयमिदं नरः ।
स सर्वानाप्नुयात् कामान् सर्वत्र विजयी भवेत् ॥४६॥
ततः शक्रो नमस्कृत्य वरं प्राप्य शुभावहम् ।
ततः सर्वे नमस्कृत्य स्वं स्वं स्थानं ययुर्मुदा ॥४७॥ (४३३)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते एकादशोऽध्यायः ॥११॥
अध्याय १२ प्रारंभ –
क उवाच ।
ततस्तु सप्तमे वर्षे प्रवृत्तेऽसौ विनायकः ।
स्नात्वा नित्यविधिं कृत्वा मुकुटभ्राजिमस्तकः ॥१॥
आयुधानि च चत्वारि सिंहारूढो दधार सः ।
अंकुशं परशुं पद्मं पाशं सर्वभयापहम् ॥२॥
दंडाजिने कुंडले च कांचने रत्नसंयुते ।
बिभ्रत्कमंडलुं दर्भान्कौशेयं पीतमुत्तमम् ॥३॥
कस्तूरीतिलकं चन्द्रं ललाटे क्षीणतेजसम् ।
मुक्ताफलमयीं मालां कंठे नाभौ फणीश्वरम् ॥४॥
रोदसी कम्पयन्नुच्चैर्जगर्जासौ स्वलीलया ।
मेघस्वन इति भ्रान्त्या चातका व्याददुर्मुखम् ॥५॥
उत्छलन्त्यो महानद्यः सिषिचुर्व्योममंडलम् ।
तदाननन्दतुरुभावदितिः कश्यपोऽपि च ॥६॥
धन्या वयं पूर्वजा न इत्यात्मानं प्रशंसतुः।
एतस्मिन्समये काशीराजोऽप्याश्रममभ्यगात् ॥७॥
परस्परालिंगनेन मुमुदुस्तेऽखिलास्तदा ।
न्यविशन्तासने सर्वे नमस्कृत्य परस्परम् ॥८॥
स्वाद्वन्नं भोजयामास मुनिस्तं षड्रसैर्नृपम् ।
विश्रान्तं परिपप्रच्छ किमागमनकारणम् ॥९॥
श्रीमतां दर्शनं नोऽद्य जातं पुण्यवशान्नृप ।
पुरोहितस्य मे न त्वं वृत्तान्तं किं गृहीतवान् ॥२.१२.१०॥
क उवाच ।
एवं मुनिवचः श्रुत्वा जगाद नृपसत्तमः ।
क्षमापराधं मे ब्रह्मन्राज्याकुलित चेतसः ॥११॥
पुत्रस्य मे विवाहोऽस्ति त्वामाकारयितुं प्रभो ।
आगतोऽहं मुने जातः कृतार्थस्तव दर्शनात् ॥१२॥
चल शीघ्रं विवाहं त्वं संपाद्य पुनरेव हि ।
न श्लाघ्यो लोकवर्येषु विना चैवागमं तव ॥१३॥
अहमेव समायातोऽतस्त्वां नेतुं महामुने ।
मुनिरुवाच ।
नाहमेष्ये नृपश्रेष्ठ चातुर्मास्यरतोऽधुना ॥१४॥
पुत्रं नय समर्थं मे यदीच्छसि जनाधिप ।
राजोवाच ।
पुत्रमाज्ञापय मुने गमिष्यावो जवान्वितौ ॥१५॥
एवं नृपवचः श्रुत्वा मुनिः पुत्रमथाब्रवीत् ।
वचोनुरोधाद्राज्ञोऽस्य प्रेषये त्वाम् विनायक ॥१६॥
विद्यमाने तु महति दुःखे विरहजे तव ।
तामाज्ञां शिरसा वन्द्य चरणावुभयोरपि ॥१७॥
मातापित्रोर्बहिरगाद्राज्ञा चारोपितो रथे।
सोऽपि नत्वा तयोः पादौ स्वयमारुरुहे रथम् ॥१८॥
आजगामादितिस्तं च प्रावदन्नृपसत्तमम् ।
अयं मे बालको राजन् रक्षणीयो निरन्तरम् ॥१९॥
उत्पातो जायते तत्र यत्र मे बालको भवेत् ।
अतोऽयं यत्नतो रक्ष्यः पक्ष्मणीव कनीनिकाम् ॥२.१२.२०॥
यथा नयसि पुत्रं मे तथाऽत्र त्वं समानय ।
ओमित्युक्त्वाऽदितिं राजा प्रणिपत्य विसृज्य ताम् ॥२१॥
सह तेन ययौ शीघ्रं रथेनानिलरंहसा ।
गच्छता रथमार्गेण राज्ञा प्राप्ता महाटवी ॥२२॥
नरान्तक पितृव्यस्य स्थानं तच्चातिसुन्दरम् ।
रौद्रकेतोर्बली भ्राता धूम्राक्षो नाम नामतः ॥२३॥
दशवर्षसहस्रं स तपस्तेपे सुदारुणम् ।
सहस्रकिरणं नित्यं नित्यमाराधयन्मुदा ॥२४॥
प्रार्थयन्सर्वसंहारकरमायुधमुत्तमम् ।
त्रयाणां भुवनानां स इच्छन्वश्यत्वमात्मनः ॥२५॥
वृक्षस्कन्धालम्बिपादोऽधोमुखो धूममापिबन् ।
एवं बहुगते कालेऽमोघं शस्त्रमुपस्थितम् ॥२६॥
प्रेषितं भानुना तस्मै राक्षसाय तपस्यते ।
व्योमव्यापी यस्य तेजो ददर्श स विनायकः ॥२७॥
शीघ्रमुड्डीय जग्राह गरुत्मानीव पन्नगम् ।
तदा विस्मयमापेदे काशिराजो महामनाः ॥२८॥
तर्कयामास मनसि लाभे हानौ च जीवने ।
नास्ति दैवातिरेकेण निमित्तं भुवनत्रये ॥२९॥
मम नैवाभवत्प्राप्तिः सहसा तस्य तस्य या ।
ज्ञातुं तदस्त्रसामर्थ्यं तोलयित्वाऽक्षिपच्च सः ॥२.१२.३०॥
उर्ध्वं गतं तदैवाशु रवं कृत्वा भयानकम् ।
धूम्राक्षे पतितं तत्तु स तदैव द्विधाऽभवत् ॥३१॥
गंडशैला द्रुमास्ताभ्यां खंडाभ्यां चूर्णिता भ्रशम् ।
धनुः पंचशतं पृथ्वी पदद्भ्यां व्यापिता तदा ॥३२॥
ततस्तस्य सुतौ ख्यातौ जघनो मनुरेव च ।
शुश्रूषायां रतौ तस्य पितरं वीक्ष्य तादृशम् ॥३३॥
क्रोधाविष्टौ ददृशतुस्तं विनायकमन्तिके ।
दुद्रुवतुः प्रसार्यैवं वक्त्रं कालान्तकोपमम् ॥३४॥
बटुमानीय पितरं कथं घातितवानसि ।
इत्यूचतुः काशिराजं रोषाविष्टौ निशाचरौ ॥३५॥
रक्षितोऽसि पुरा पित्रा मम पूर्वं नरान्तकात् ।
तं मारयित्वा यत्नेन कथं जीवसि रे नृप ॥३६॥
क उवाच ।
इत्याकर्ण्य नृपो वाक्यं चकम्पे भृशविह्वलः ।
तर्कयामास मनसि कथमानीतवानहम् ॥३७॥
नन्दनं कश्यपस्यैनमपस्मारमिव स्थितम् ।
क्रुद्धो नरान्तकश्चेन्मे बलाद्राज्यं ग्रहीष्यति ॥३८॥
तदा मे रक्षिता कः स्यात्ततः शपथमारभत् ।
नृप उवाच ।
एतदर्थं मयाऽनीतो नैवायमर्भकः क्वचित् ॥३९॥
ब्राह्मणेश्वरयोरत्र शपथो मे निशाचरौ ।
पुरोहितस्य पुत्रोऽयं विवाहार्थं समाह्रतः ॥२.१२.४०॥
न विघ्नं कुरुतं तत्र नीयतां बालको हययम् ।
इत्यस्य वचन्ताते स मुनिपुत्रो जगाद तम् ॥४१॥
कथं बद्ध्वा शत्रुहस्ते शिशुं मां त्वं प्रयच्छसि ।
अदितिं कश्यपं वापि वदिष्यसि किमुत्तरम् ॥४२॥
क्रुद्धश्चेत्कश्यपस्त्वां हि कुर्याद् भस्म न संशयः ।
एवं वदति तस्मिंस्तु बालके मुनिनन्दने ॥४३॥
भक्षितुं तं समायातौ बिडालो मूषकं यथा ।
प्रसार्य वदनं बालो घोरं शब्दमथाकरोत् ॥४४॥
चकम्पे च त्रिभुवनं तौ च निश्वासयोगतः ।
संप्राप्तौ मेघपटलं वात्ययैव यथा तृणम ॥४५॥
मुहुर्तद्वितये जाते व्यस्तौ द्वौ तौ निपेततुः।
नरान्तकस्य नगरे जघनो मनुरेव च ॥४६॥
गिरिशीर्षे गंडशैलो महावातेरितौ यथा।
पतद्भ्यां तच्छरीराभ्यां चूणितानि गृहाणि च ॥४७॥
मुखहस्त रवा आसन् हाहाकारो महानभूत् ।
किमिदं किमिदं दूता धावमाना ययुस्तदा ॥४८॥
मृतौ धूम्राक्षतनयौ श्रुत्वा सम्यग् व्यलोकयन् ।
सचेतनौ च तौ दृष्ट्वा सावधानावकुर्वत ॥४९॥
दूतांस्तां वूचतुः सर्वं वृत्तान्तमनुपूर्वशः ।
वधं पितुः काश्यपेयात्तस्य श्वासान्निपातनम् ॥२.१२.५०॥
स गच्छति स्यन्दनेन काशीराजेन संयुतः ।
एवं दूता निशम्यैनं नरान्तकमथाब्रुवन् ॥५१॥
पितृव्यं निहतं श्रुत्वा सापराधं नरान्तकः ।
ऋषिपुत्रं तथा यान्तं काशीराजेन संयुतम् ॥५२॥
क्रोधेनारक्तनयनः पुरः पश्यन्निशाचरान् ।
अज्ञापयात्तमानेतुं सहस्रप्रमितांस्तदा ॥५३॥
धृत्वाऽनेयो मुनेः पुत्रो युद्धकृच्चेत्स हन्यताम् ।
काशीराजरथो वापि शीघ्रं गच्छन्तु राक्षसाः ॥५४॥
आज्ञामात्रेण ते जग्मुस्त्वरया वातरंहसः।
काश्यपेयं च नृपतिं ददृशुस्ते च तौ च तान् ॥५५॥
ततो विनायकश्चक्रे भीमशब्दं भयावहम् ।
ततो निशाचराः पेतुस्त्यक्ता प्राणांस्तु केचन ॥५६॥
केचित्पलायिताः केचिद् भग्नपादाः प्रपेदिरे ।
केषांच्चिन्मस्तका भिन्नाः केचिच्छीर्णोदराः शरैः ॥५७॥
भग्नास्या भग्ननेत्राश्च भग्नोरुबाहवः परे ।
प्रपलाय्य गता ये तु आगतास्ते नरान्तकम् ॥५८॥
उदन्त सर्वमाचख्युर्विनायककृतं तदा ॥५९॥ (४९२)
इति श्रीगणेशपुराणे क्रीडाखंडे निशाचरवधो नाम द्वादशोऽध्यायः ॥१२॥
अध्याय १३ प्रारंभ –
दूता ऊचुः ।
विनायकं रथस्थंतमाज्ञां प्राप्य गता वयम् ।
सर्वे रवे तदा दृष्टः कृतान्तसदृशस्तु सः ॥१॥
सर्वे निशाचराः स्वामिन् मृतास्तद्भीतितोऽनघ ।
वयं तव प्रसादेन जीवन्तस्त्वां समागताः ॥२॥
ईश्वरीय कृपायोगात् सिंहवृन्दाद् गजा इव ।
त्रैलोक्ये तु पुमान्नास्ति यो युध्येत्सह तेन वै ॥३॥
क उवाच ।
इत्थं निशम्य तद्वाक्यं जगदे स नरान्तकः ।
किं वा वदथ बालिश्यात् क्व बालः क्व नरान्तकः ॥४॥
किं कर्तव्यं पतंगेन प्रलयानल सन्निधौ ।
मेरुगिरिः पतेत्किं वा खनता मूषकेन च ॥५॥
ततःश्चाज्ञापयद्दैत्यान् काशिराजपुरीं प्रति ।
लुंठनं यत्र कर्तव्यं येन व्यग्रो भवेन्नृपः ॥६॥
तस्मिन् व्यग्रे सोऽपि भवेत् कश्यपस्य सुतोऽपि च ।
नो चेदुभौ निहन्तव्यौ सर्वैः सर्वप्रयत्नतः ॥७॥
ततो ददौ महार्हाणि तेभ्यो रत्नान्यनेकशः ।
वस्त्राणि च विशिष्टानि शस्त्राणि विविधानि च ॥८॥
ते तं तदा नमस्कृत्य ययुः काशीशपत्तनम् ।
परस्परं समूचुस्ते दिक्चक्रं व्याप्य सेनया ॥९॥
तत्रयोऽभून्महासेना नीरेवं सोऽदिशत्तदा ।
यस्य दृष्टिगतो दैत्याः स तु तेन निहन्यताम् ॥२.१३.१०॥
अन्यथा मम दंड्स्य तस्याहं प्राणनाशकृत् ।
एवं तेन समादिष्टः दैत्या जग्मुर्दिशो दश ॥११॥
विनायकस्तेन राज्ञा रथस्थेन गतः पुरीम् ।
नानाध्वज पताकाभिश्चित्रितां रंगमालया ॥१२॥
वाद्यैर्दुंदुभिनिर्घोषैः पूजाद्रव्यैरनेकधा ।
अमात्या नागराश्चैव प्रतिजग्मुर्विनायकम् ॥१३॥
उपचारैः षोडशभिर्भक्त्या सर्वेप्यपूजयन् ।
राजानं च ततो जग्मुर्नगरीमन्तराऽखिलः ॥१४॥
तस्मिन्प्रविष्टे प्रासादान्रुरुहुर्योषितोऽखिलाः ।
काश्चिद्द्रष्टुं बहिर्याता व्यस्तालंकरणाम्बराः ॥१५॥
अनादृतपितृभ्रातु भर्तृमातृ सुहृज्जनाः ।
त्यक्त्वा भोजनपात्रं च भुक्तवन्त पतिं च काः॥१६॥
एका निरुद्धा सर्वैः सा ध्यात्वा देवं विनायकम् ।
भक्त्या निमील्य नयने जहौ प्राणांस्तदद्भुतम् ॥१७॥
लाजवर्षेः पुष्पवर्षैर्ववर्षुस्तं कुमारिकाः ।
विमानस्था देवगणा ददृशुस्तं महोत्सवम् ॥१८॥
ब्राह्मणाः परमात्मानं पश्यन्ति स्म विनायकम् ।
क्षत्रियास्तं महावीरं पश्यन्ति स्म रणोत्सुकम् ॥१९॥
वैश्यास्तं ददृशुः सर्वे रुद्रं संहारकारकम् ।
शूद्रास्तं हरिरूपेण नृपरूपेण चालुकन ॥२.१३.२०॥
यस्य यस्य यथा भावस्तादृशंसोऽभ्यवीक्षत ।
यथा रक्ते सितेपीते स्फटिकस्तादृशाकृतिः ॥२१॥
एक एव पुमान्यद्वत् पिता भ्राता च शालकः ।
ततो विनायकोऽपश्यत् पुरमध्ये महासुरौ ॥२२॥
विघटं दन्तुरं रन्तुं समाह्वयत सादरम् ।
तौ त्यौ दुष्टमनसौ बालकैः समुपागतौ ॥२३॥
आलिंगितुं कृतोद्योगौ तेन ज्ञातौ दुराशयौ ।
आलिंग्य चूर्णयामास पुष्पं हस्तगतं यथा ॥२४॥
त्यक्तौ भूमिगतौ तौ तु रेजतुर्दशयोजनौ।
काशिराजश्च लोकाश्च दृष्ट्वाऽश्चर्यं तु मेनिरे ॥२५॥
मुमचुः पुष्पवर्षाणि देवास्तस्मिन्नभोगताः ।
साधु साध्विति शब्दैश्च जयशब्दैश्च केचन ॥२६॥
मुनयश्चैव देवाश्च तुष्टुवुस्तं विनायकम् ।
मायामानुषरूपेण चरन्तं बाललीलया ॥२७॥
शक्रादीनामजेयौ यौ तावनेन हि चूर्णितौ ।
तथो वीथीरतिक्रम्य रथो यातोऽग्रतोऽग्रतः ॥२८॥
ततोऽन्यावसुरौ दृष्टौ हन्तुमेनं समीयतुः ।
पतंग विद्युतौ(विधुलौ) नाम्ना वात्यारूपौ महाबलौ ॥२९॥
ततो व्याकुलितो लोको रजसाच्छादितोऽखिलः ।
प्रासादा वृक्षसंख्याश्च पतिता वसुधातले ॥२.१३.३०॥
प्रावारनिचया भान्ति गगने पक्षिसन्निभाः ।
केषांच्चिन्मस्तकात् पेतुरुष्णिवाणि दिशोदश ॥३१॥
कोलाहलो महानासीन्न प्राज्ञायत किंचन ।
रथोऽपि गगनं गन्तुमुद्यतस्तम्भितोऽमुना ॥३२॥
निःसार मनुजाः पेतु सद्यो जाता इवात्रनीम् ।
ततोऽतिबलिनौ ज्ञात्वा दधार शिखयोरुभौ ॥३३॥
एकेन मुष्टिना देवो भ्रामयित्वा बलाच्चिरम् ।
तत्याज स धरापृष्ठे व्यसूतौ ददृशे जनः ॥३४॥
तर्कयामास देवोऽयं कश्यपस्य सुतो बली।
यतोऽनेन हतावेतावसुरौ योजनायतौ ॥३५॥
अस्मिन्वयसि कस्यापि नेदृशं वीक्ष्यते बलम् ।
एतावद् दुष्टसामर्थ्यं काशिराजोऽप्यनन्दत ॥३६॥
अवप्लुत्य रथात्तस्मात्तं ननाम विनायकम्।
उवाच च महायोगिन्बालस्यापि न ते कृतिः ॥३७॥
ब्रह्मादिज्ञानविषया कुतः स्याच्चर्मचक्षुषः ।
जगदुत्पादकोऽनेकरूपोऽस्य वन हेतवे ॥३८॥
न संख्या वर्तते स्वामिन्नवताराणां च ते विभो ॥३९॥
ततोऽग्रतो रथो यातस्त्वरया नृपतेर्गृहम् ॥२.१३.४०॥
ततो ददर्श बालोऽसौ दैत्यं पाषाणरूपिणम् ।
ततोऽहनत् परशुना शतधा सोऽभवत्तदा ॥४१॥
तस्माद्विनिःसृतो भीमो दंष्ट्रादशनभासुरः ।
श्मश्रुलो दीर्घकायश्च पुरुषः पिंगलो महान् ॥४२॥
ततस्ते बालकाः सर्वे लोकाश्चान्येऽपि दुद्रुवुः ।
तं चापि न्यहनन्मुष्ट्या स चापि न्यपतद्भुवि ॥४३॥
असंमत जना बालं भगवन्तं धृताकृतिम् ।
ततो राजा हष्टमना रथादुत्तीर्य बालकम् ॥४४॥
अन्तःप्रवेशयामास स्वयमादाय सत्वरम् ।
रत्नवर्णमये स्वीय आसने चोपवेश्य तम् ॥४५॥
उपचारैः षोडशभिः प्रपूज्य च यथाविधि ।
महार्हवस्त्राभरणैर्दिव्यैश्चैव सुगन्धिभिः ॥४६॥
परमाह्लादसंयुक्त स्तुष्टाव च ननाम च ।
अन्नं च षड्रसं नाना पक्वान्नं व्यंजनान्वितम् ॥४७॥
सुहृद्भिर्भोजयामास परमान्नमनेकधा ।
ततो नानाफलान्याशु ददौ तेभ्यो नराधिपः ॥४८॥
ततोऽष्टांगं च ताम्बूलं रत्नकांचनसंयुतम्।
ततः स्वयं बुभोजाशु शिशुभिः परिवारितः ॥४९॥
ततः प्रस्वापयामास कृतसन्ध्याविधिं च तम् ।
पर्यंके रुचिरे दीपवितानपरिशोभिते ॥२.१३.५०॥
स्वयं तदाज्ञया राजा सुष्वाप प्रियया सह ।
अत्याप्तांश्चतुरः स्थाप्य जागराय तदन्तिके ॥५१॥ (५४३)
इति श्रीमदादि श्रीमन्महागाणेशपुराणे क्रीडाखंडे बालचरितं नाम त्रयोदशोऽध्यायः ॥१३॥
अध्याय १४ प्रारंभ :-
क उवाच ।
ततः प्रभात उत्थाय शौचं कृत्वा यथाविधि ।
चकार मज्जनं सोऽथ सन्ध्यां चक्रे यथाविधि ॥१॥
होमं चकार समिधं स्थाप्य कृष्णाजिनं शुभम् ।
निधाय दंडम् चिक्रीड बालकः स विनायकः ॥२॥
निशम्य कीर्तिं तत्रत्यो ब्राह्मणो वेदशास्त्रवित् ।
धर्मदत्त इति ख्यातो मुनिपुत्रदिदृक्षया ॥३॥
आगतो नृपवर्यस्य काशिराजस्य वेश्म सः ।
राज्ञा संमानितः सोऽथ प्रपच्छ नृपसत्तमम् ॥४॥
क्वासौ महाबलः पुत्र कश्यपस्य वदस्व मे ।
ततो लोका जगुरयं क्रीडते बालकैः सह ॥५॥
तत उत्थाय विप्रोऽसौ पाणौ धृत्वाऽवदच्च तम् ।
मम मित्र सुतस्त्वं हि श्रुता कीर्तिर्मया तव ॥६॥
अतस्त्वां स्वगृहे नेतुमागतोऽहं न संशयः ।
पुनीहि पादरजसा सर्वं नः सफलीकुरू ॥७॥
परब्रह्मस्वरूपोऽसि परमात्मा परात्परः ।
भूभारहरणार्थाय जातोऽसि कश्यपालये ॥८॥
क्रीडामानुषरूपोऽसि जाने त्वां तत्वतोऽर्भक ।
ततो विनायकः प्राह किमर्थं त्वमिहागतः ॥९॥
आज्ञामात्रेण ते तात कथं नायामि तेऽन्तिकम् ।
इत्युक्त्वा त्वरया यायाद्धर्मदत्तपुरःसरः ॥२.१४.१०॥
धूलिमुद्धूल यद्भिस्तैर्बालकैरनुगैर्बली।
मार्गे तु गच्छतस्तस्य नरान्तक समीरितौ ॥११॥
कामसंज्ञश्च क्रोधश्च द्वावेतौ राक्षसाधमौ ।
परस्परं युध्यमानौ हन्तुमन्तिकमागतौ ॥१२॥
युध्यमानौ निपतितौ बालके दुष्टमानसौ ।
खररूपौ यथा वह्निं पतंगाविव दुर्मदौ ॥१३॥
ततस्ते बालकाः सर्वे दुद्रुवुस्ते दिशोदश ।
ततो विनायको धृत्वा तयोः पादौ बलेन सः ॥१४॥
भ्रामयामास बहुधा पोथयामास भूतले ।
ततस्तौ पतितौ भूमौ व्यसू लोका व्यलोकयन् ॥१५॥
समकम्पत् त्रिभुवनं पतद्देहरवात्तदा ।
लोकवार्तासु विश्वासं धर्मदत्तोऽन्वपद्यत ॥१६॥
दृष्ट्वा तस्य महत्कर्म प्रत्यक्षेण महामुनिः ।
ततो ययौ धर्मदत्तस्तेन साकं पुरःसरः ॥१७॥
ददर्श कुंजरं मत्तं गूढरूपं महाबलम् ।
इतस्ततो विद्रवन्तं जनं हन्तुं समुद्यतम् ॥१८॥
इतस्ततो महावीराः पलायनपरा ययुः ।
कोलाहलो महानासीज्जनानां तत्र धावताम् ॥१९॥
रजसाऽव्यापि सकलं नीहारेणेव पर्वताः ।
गजो यातो राजगजान्मत्तान् हन्तुं महाबलः ॥२.१४.२०॥
गजयुद्धं महाघोरं प्रासादस्था व्यलोकयन् ।
बभज्जुरश्वशालां ते दृष्ट्वा बद्धान् हयानपि ॥२१॥
उद्बंधना हया याता गजाश्च ककुभो दश ।
धर्मदत्तो गृहीत्वा तं गृहान्तर्गन्तुमुद्यतः ॥२२॥
आस्फाल्य तत्करं बालो रुरोह करिणं बलात् ।
बिभेद गंडं सृणिना वारंवारं विनायकः ॥२३॥
असृकप्रवाह परितो निपपात महीतले ।
स गजो बृंहितं कृत्वा सर्वलोकभयावहम् ॥२४॥
पतता तेन भग्नानि विस्तीर्णेनायतेन च ।
संख्यातीतान्यगाराणि सर्वोपस्करवन्ति च ॥२५॥
चकम्पे पृथिवी सर्वा सपर्वत वनाकरा ।
ततोऽन्धकारे विगते तत्रेयुर्नागराजनाः ॥२६॥
भीतभीता महारौद्रे मृते तस्मिन् निरीक्ष्य तम् ।
बालं तु बलिनो गत्वा तस्मादुत्तारयन्बलात् ॥२७॥
धर्मदत्तः पुनश्चैनं कटावेवाभ्यधारयत् ।
गृहमध्ये निनायाशु पुनरुत्पात शंकया ॥२८॥
निवृत्तेस्वनिमित्ते स द्विजातिभ्यो ददौ धनम् ।
पूजयामास चैवैनमुपचारैः पृथक्पृथक् ॥२९॥
वस्त्रालंकारकुसुमैर्नाना नैवेद्य संचयैः ।
भोजयामास विधिवत् सिद्धिबुद्धि उभे ददौ ॥२.१४.३०॥
दक्षिणार्थं धर्मदत्तो ननाम दंडवत्क्षितौ ।
उवाच च प्रसन्नात्मा हर्षगद्गदया गिरा ॥३१॥
मम भाग्यं तु फलितं यद्दृष्टं चरणाम्बुजम् ।
जगदीशो जगत्कर्ता जगत्साक्षीजगद्गुरु: ॥३२॥
मम वाक्यादिहायात उद्धर्तुं मम पूर्वजान् ।
एवं ब्रुवन्नेव मुनिः स्वासने सन्निवेशितः ॥३३॥
विनायकेन देवेन पूजितो बहुभक्तितः ।
ततोऽतिशुशुभे बालः सिद्धिबुद्धियुतो भृशम् ॥३४॥
गंगागौरियुतो यद्वच्छूलपाणिस्त्रिलोचनः ।
एतस्मिन्नन्तरे तत्र जृम्भा नाम्न्यागता शुभा ॥३५॥
पीताम्बरधरा चारूकंकणा चारुभूषणा।
अतिदुष्टमनाः सा तु पत्नी धूम्राक्षरक्षसः ॥३६॥
सोवाच मधुरां वाचं निधानमिदमुत्तमम् ।
इत्यरिष्टानि जायन्ते तानि नश्यन्त यत्नतः॥३७॥
कथंचारू भवेद्भोगो मातापित्रोरमुष्य वै ।
एवमुक्त्वा स्त्रियः सर्वा उवाच च विनायकम् ॥३८॥
महद्भाग्यं मम विभो यज्जातं तव दर्शनम् ।
परिश्रान्तोऽसि देवेश नानादुष्टविनाशनात् ॥३९॥
अभ्यंगं कुरु तैलेन सुगंधेन महामते ।
अंगं ते मर्दयिष्यामि तैलमुद्वर्तनं तथा ॥२.१४.४०॥
ओमित्युक्ते ततस्तेन विषहस्ता समादधे ।
तैलेन चरणौ तस्य विषोत्कर्षं विधायिना ॥४१॥
ममर्द जृम्भती जृम्भा लोकास्तां साधु मेनिरे ।
सा सिषेवे भावदुष्टा शुभभावा पतिं यथा ॥४२॥
ततस्तस्य शरीरस्य दाह एवाभवन्महान् ।
ततो ज्ञानेन बुद्ध्वा तां दुष्टभावां निशाचरीम् ॥४३॥
नारिकेल फलेनाशु मस्तके तां जघान सः ।
ततः सा पतिता भूमौ निजरूपं समास्थिता ॥४४॥
असृक् प्रवाह मध्ये सा विस्तीर्णा योजनद्वयम् ।
धर्मदत्तश्च लोकाश्च तदाश्चर्ययुता बभुः । ॥४५॥
पूजयामास विधिवद्भोजयामास तं पुनः ।
पक्वान्नं विविधं स्वादुरसैः षड्रभिः समन्वितम् ॥४६॥
अस्मिन्नवसरे देवाः पुष्पवर्षं प्रचक्रिरे ।
नीराजनं लाजवर्षमंगनाः पूजनानि च ॥४७॥
ततः स काशिराजस्तमाकारयितुमागमत् ।
रथोपरि निवेश्यैनं वाद्यघोषसमन्वितः ॥४८॥
गन्धर्वा गानसहिता नत्यन्त्यप्सरसः पुरः ।
निनाय स्वगृहं राजा विनायकमनामयम् ॥४९॥
गच्छन्स ददृशे बाल: सिंहारूढो धृतायुधः ।
अनेकवीरसंयुक्तो देवैरिव शतक्रतुः ॥२.१४.५०॥
सिद्धिबुद्धियुतो भाति गंगोमाभ्यां यथा शिवः ।
नानाबन्दि स्तूयमानः प्रविवेश नृपालयम् ॥५१॥
एवंबालचरित्रं यः शृणुयाज्जगदीशितुः ।
सर्वान् कामानवाप्नोति नारिभिर्बाध्यते क्वचित् ॥५२॥ (५९५)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरित्रे नाम चतुर्दशोऽध्यायः ॥१४॥
अध्याय १५ प्रारंभ :-
क उवाच ।
अपरस्मिन्दिने राजा लोकैः सह सभां ययौ ।
विनायकेन सहितो मित्रामत्य समन्वितः ॥१॥
तानुवाच ततः सर्वान्बालकस्य गुणान्बहून् ।
गुणवन्तं प्रधानं तं पुरस्कृत्य महाशयम् ॥२॥
अहं हि कश्यपं यात आकारयितुमन्तिकम् ।
विवाहस्य च सिद्ध्यर्थं पुत्रस्तेनेह योजितः ॥३॥
प्रस्थितोऽनेन यावच्च तावद्राक्षसमद्भुतम् ।
अरिष्टानां समूहं च न दृष्टं न च वै श्रुतम् ॥४॥
आदावनेन निहतो धूम्राक्षो राक्षसाधिपः ।
जघनश्च मनुश्चापि सहस्रार्द्धयुतो हतः ॥५॥
यो व्योम नीतवानेनं नगरे दन्तुरो हतः ।
विघंटो बालरूपश्च विधूलश्च महाबलः ॥६॥
पतंगश्चैव नगरे वातरूपधरो हतः ।
कूटो नाम हतोऽनेन द्वारि पाषाणरूपधृक ॥७॥
कामक्रोधावपि हतौ खरवेषधरावुभौ ।
गजरूपधरः कुंडो हतोऽनेन निशाचरः ॥८॥
यानि चान्यान्यरिष्टानि नाशयिष्यति बालकः ।
इदानीं निश्चयः कार्यो विवाहस्य द्विजैः सह ॥९॥
देवतास्थापनस्यापि हरिद्रामंडपस्य च ।
विवाहोपस्करार्थं च ज्योतिःशास्त्र विशारदैः ॥२.१५.१०॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यममात्यावूचतुर्नृपम् ।
अयं बालः पुरे यावद्वर्तते नृपसत्तम् ॥११॥
तावद्विवाहो न भवेदिति नो भाति निश्चितम् ।
अस्मिन्स्थिते महोत्पाता भविष्यन्ति दिनेदिने ॥१२॥
पक्षे मासे गते राजन्विवाहं कर्तुमर्हसि ।
ओमित्युक्ते नृपेणाथ जग्मुः सर्वे निजालये ॥१३॥
राजा विनायकश्चापि भुक्त्वा सुषुपतुः सुखम् ।
ततो निशीथे संप्राप्ते सुप्ते सर्वजने मुने ॥१४॥
ज्वालामुखो व्याघ्रमुखो दारुणोऽथ त्रयोऽसुराः ।
इच्छन्तोऽपचितिं पूर्वं हतानां दैत्यरक्षसाम् ॥१५॥
संपूर्णां नगरीं दग्धुमाद्य ऐच्छत्तदाऽसुरः ।
दारुणो वायुरूपेण तत्सहायार्थमुद्यतः ॥१६॥
व्याघ्रास्यो भक्षितुं तत्र पलायनपरानभूत् ।
एवं ते निश्चयं कृत्वा प्राक्रोशन् सुमहास्वनैः ॥१७॥
त्रैलोक्यं कम्पितं सर्वं तदा संशयितं भृशम् ।
प्रलयः परचक्रं वा किमागतमिति ब्रुवन् ॥१८॥
व्याघ्रास्यः सुमहाकाय स्थाप्योष्ठं धरणीतले ।
पूर्वं परं च गगने मध्ये जिह्वा नदी इव ॥१९॥
उत्सृजन्मुखतो ज्वालाः साम्बरं पत्तनं दहन् ।
यथा हनुमता दग्धा नगरीं पुच्छवह्नितः ॥२.१५.२०॥
तथा ददाह नगरीं दुष्टोऽसौ मुखवह्नितः ।
दग्धा वृक्षा लतारामाः प्रासादनिचयास्तदा ॥२१॥
कोलाहलो महानासीन्मुख हस्तरवस्तथा ।
हित्वा सर्वाणि कार्याणि विद्रवन्ति जना दिशः ॥२२॥
नगराद्बहिरायान्तं व्याघ्रास्यो ग्रसते नरम् ।
तदेव भोजनं तस्य बालकाश्चोपदंशकाः ॥२३॥
केचिद्विस्त्रस्तवसना विवस्त्रा चापरे ययुः ।
स्त्रियः कूर्पासकाः काश्चित्काश्चित्पत्यंशुका ययुः ॥२४॥
व्याघ्रास्य विवरं मत्वा विविशुर्जीवितेच्छया।
अन्यानाकारयन् त्यस्तानभक्षयतसोऽसुरः ॥२५॥
अकाले प्रलये प्राप्ते काशिराजो विनायकम् ।
सर्वं विहाय राज्यं स्वं स्त्रीपुत्रादिस्ववस्तु सः ॥२६॥
स्कन्धे गृहीत्वा भ्रमते नानास्थाने गृहे गृहे ।
अतिदुःखेन संतप्तस्तेजसा चैव शुष्मिणः ॥२७॥
कथं मया बाल एष सर्वारिष्टप्रवर्तकः ।
सर्वस्वहारको मौढ्याद् दुर्निमित्तस्य कारणम् ॥२८॥
विनैनं किमहं ब्रूमामदित्यै कश्यपाय च ।
निरस्तानि च पूर्वाणि महारिष्टान्यनेन हि ॥२९॥
आस्ते तूष्णीमिदानीं किं न जानेऽवापि कारणम् ।
एवं शोचन्दुर्गमुच्चै रुरोह सह तेन सः ॥२.१५.३०॥
तयोपि दहनो वायु सहायः समुपागमत् ।
कुम्भैश्च मृन्मयैः पात्रैः सिषिचुः सेवकास्तदा ॥३१॥
तत्पत्न्यो निर्ययुर्हित्वा व्रीडां बालयुता बहिः।
अवतीर्य ततो राजा विह्वलोऽधः समाययौ ॥३२॥
अश्वाश्वतर वीराश्च रथनाग पदातयः ।
निर्ययुर्नगरात्सर्वे पौराश्च सहगोधना ॥३३॥
विनायकः काशिराजं काशिराजो विनायकम् ।
गवेषयामास तदा वर्तमानजनक्षये ॥३४॥
सर्वेषु लोकेषु गतेषु मध्ये स व्याघ्रतुंडोननिमील तुंडम् ।
यावन्न तुंडे विशति स्म देवो विनायकोऽनन्त गुणो महात्मा ॥३५॥
उदयेतु रवेर्जाते ददर्शाथ विनायकः ।
व्याघ्रास्यं दग्धनगरं जनपूर्णं च तन्मुखम् ॥३६॥
वह्निं च निकटे वीक्ष्य विवेश तन्मुखं बलात् ।
तस्मिन्गते निजास्ये तु न्यमीलयत् सोऽसुरः ॥३७॥
आस्यं गह्वरसंकाशं सर्वसंहरणेच्छया।
दारितुं बालकस्तत्र ववृधेऽतीव तत्क्षणात् ॥३८॥
पाटयामास तद्देहं व्याघ्रदेहेन रोदसी ।
अभूच्चटचटा शब्दो वंशानां पाट्यतामिव ॥३९॥
ततो द्वेधाऽभवद्दैत्यो गतासुरभवत्क्षणात ।
तदेकं शकलं तस्य गगने स तु चिक्षिपे ॥२.१५.४०॥
वायुना भ्रमति स्मैतद्दूरे देशे पपात च ।
अर्धेन पतता तेन चूर्णितं गहनं वनम् ॥४१॥
अपरं चाभवत् क्रीडागृहं बालमुदावहम् ।
उदतिष्ठंस्ततो लोका अपरानप्यबोधयन् ॥४२॥
ततोऽग्निमपिबत्सर्वं पादाघातादचूर्णयत् ।
विदारणमहाकायं ज्वालासुरयुतं तदा ॥४३॥
एवं निहत्य तान्दुष्टान् योगमायाबलेन सः।
अजीवयन्मृतान् सर्वान्नगरं च यथा पुरा ॥४४॥
अकार्षीच्च जगर्जाशु केसरीव विनायकः ।
सर्वलोकाश्च राजा च ततस्तं तुष्टुवुर्मुदा ॥४५॥
नमोऽनन्तशक्ते गुणानामधीश ।
नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे ।
नमो विश्वपात्रे नमो विघ्नहन्त्रे ।
नमो ज्ञानदात्रे । नमोऽज्ञानहन्त्रे ॥४६॥
अकालप्रलयाद्देव वीतिहोत्राज्जगत्पते ।
लीलवतारदैत्योभ्यो रक्षिता लीलया त्वया ॥४७॥
कस्य सामर्थ्यमेतावद्वन्हिं पातुं महाबलम् ।
भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥४८॥
मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् ।
त्वमेव जननी देव त्वमेव जनकोऽविता ॥४९॥
महाभाग्ये जनानां मे येन ते सन्निधिः कृतः ।
एवमुक्त्वाऽऽरुरोहाश्वं सिंहयानं विनायकः॥२.१५.५०॥
स्वं स्वं वाहनमारूढाः सर्वे वीराः सहस्रशः ।
सुखेन मन्दिरं गत्वा नित्यकर्मा करोन्मुदा ॥५१॥
स्वं स्वं च मन्दिरं याता सर्वे पौरा निरामयाः ।
वाद्यत्सु सर्ववाद्येषु तुष्टुवुर्बन्दिनो नृपम् ॥५२॥
काशिराजोऽथ विप्रेभ्यो ददौ दानान्यनेकशः ।
स्वस्ति वाच्य पुपूजाशु देवांस्तं च विनायकम् ॥५३॥
उपायनानि देवाय नानालोका ददुस्तदा ।
विनायकोऽपि विप्रेभ्यो ददौ तानि यदृच्छया ॥५४॥
अमात्यानां च वीराणामंशकानि ददौ नृपः ।
विसृज्य सर्वान् भुक्त्वा तौ सुखेन स्वापनीयतुः ॥५५॥
य इदं शृणुयाद् भक्त्या नगरीमोक्षणं नरः ।
सर्वान्कामानवाप्नोति नारिष्टैर्बाध्यते क्वचित् ॥५६॥ (६५१)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते नगरीमोक्षणं नाम पंचदशोऽध्यायः ॥१५॥