गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०१६-०२०
← अध्यायाः ११-१५ | गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्) अध्यायाः १६-२० [[लेखकः :|]] |
अध्यायाः २१-२५ → |
अध्याय १६ प्रारंभ :-
क उवाच ।
शृणु व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते ॥१॥
उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च ॥२॥
संप्रार्थयद्भोजनार्थं ततो बालं विनायकम् ।
ततो ददौ स उद्गारं नानापक्वान्नतृप्तिजम् ॥३॥
शेषं ददर्श तत्रासौ लड्डुकान्पायसादिकम् ।
अपूपान्वटकान्पुण्यमोदनम् सूप संयुतम् ॥४॥
दधि दुग्धं मधु घृतं कथिकापात्रसंचयम् ।
मणिमुक्तामयीं मालां नानालंकरणानि च ॥५॥
अपश्यत्तस्य देहेऽसावनर्घ्याणि नवानि च ।
पुनर्नत्वा च पपृच्छ नृपतिस्तं विनायकम् ॥६॥
केन भक्तेन पूजेयं कृता ते जगदीश्वर ।
तमहं ज्ञातुमिच्छामि द्रष्टुं च त्वत्प्रसादतः ॥७॥
एवमुक्तो नृपेणाथ वदति स्म विनायकः ।
भक्ताय काशीराजाय निजभक्तकृतार्हणाम् ॥८॥
देव उवाच ।
शृणु राजन् प्रवक्ष्यामि यत्पृष्टोऽहमिह त्वया ।
तदहं ते प्रवक्ष्यामि संक्षेपेण नृपात्मज ॥९॥
दंडकारण्यदेशीये पुरे नामलसंज्ञके ।
भ्रूशुंडनाम्ना भक्तोऽभूद्भूतभव्य भविष्यवित् ॥२.१६.१०॥
सृष्टुं पातुं च संहर्तुं शक्तस्त्रैलोक्यमाशु यः ।
ब्रह्मा भवश्च विष्णुश्च नित्यं यद्दर्शनार्थिनः ॥११॥
सर्वकालं ममध्यानध्वस्तपापो जितेन्द्रियः ।
पुरा तपस्यतस्तस्य भ्रूमध्यान्निसृतः करः ॥१२॥
भ्रूशुंडीति ततः ख्यातस्त्रिषुलोकेषु सर्वदा ।
अतिभक्त्या मृत्युलोके सादृशं प्रापितो मम ॥१३॥
अद्य शुक्लचतुर्थ्यां तु पूजयामास मां मुदा ।
घृतं दुग्धं दधि मधु पश्य मेऽङ्गात् स्रवन्नृप ॥१४॥
भुक्तशेषमिदं चान्नं दृष्टं ते नृपसत्तम ।
क उवाच ।
तत ऊचे काशिराजो देवदेव जगत्पते ॥१५॥
तमहं द्रष्टुमिच्छामि कथं सोऽत्रागमिष्यति ।
विनायक उवाच ।
गच्छ राजंस्त्वमद्यैव तस्य चाश्रममंडलम् ॥१६॥
संपूज्य प्रणिपत्यापि विवाहाय तमाह्वय ।
प्रार्थनीयः प्रयत्नेन वाच्यं च मद्वचोऽपि च ॥१७॥
विनायको मम गृहमागतोऽस्ति यतो मुने ।
स चातितृप्तस्त्वत् कृतात् पूजनाद् भक्तितो मुने ।
सोऽपि त्वद्दर्शनाकांक्षी तेनेह प्रेषिता वयम् ॥१८॥
ममापि दर्शने कांक्षा महती पूजने तव ।
गृहं च सम्पदो मे त्वमागत्य सफलीकुरु ॥१९॥
एवमुक्ते त्वया राजन श्रुते च ममनामनि ।
भ्रूशुंडी मम भक्तः स तत्क्षणादागमिष्यति ॥२.१६.२०॥
क उवाच ।
एवमुक्तः स तेनाथ प्रस्थितः परिपूज्य तम् ।
तूणीर कार्मुकधरो हयमारुह्य शीघ्रगम् ॥२१॥
नदीवनानि च गिरीनतिक्रम्य शनैर्ययौ ।
प्राप तस्याश्रमं राजाऽवरुरोह हयात्ततः ॥२२॥
दृष्ट्वा मुनिं भ्रूशुंडिं स प्रणिपातं चकार ह ।
तेनापि मानितः सोऽथ पुपूजे तमृषिं मुदा ॥२३॥
पश्यति स्म महारण्यमुपविष्टस्तदाज्ञया ।
सरोवृक्षलता पुष्पैः फलै रम्यं तदाश्रमम् ॥२४॥
कैलासो विष्णुलोकोऽथ सत्यलोको न तादृशः ।
वेदघोषैः शास्त्रघोषैर्गीतनृत्यैर्विराजितम् ॥२५॥
अग्निहोत्रैश्च कासारैः पक्षिभिर्जलजैरपि ।
दृष्ट्वा तमाश्रमं राजा मुमुदे ह्रष्टमानसः ॥२६॥
दंडवत् प्रणिपत्यासौ तं मुनिं सर्वमब्रवीत् ।
विवाहकृत्यं तत्पूजामाज्ञां वैनायकीमपि ॥२७॥
तस्मादेहि मम गृहमिति च प्रार्थयन्नृपः ।
ऋषि उवाच ।
कस्त्वं वद महाराज कोऽसौ तेऽपि विनायकः ॥२८॥
नृप उवाच ।
काशिराज इति ख्यातं मां विद्धि रविवंशजम् ।
कश्यपस्य यः सुतः सोऽपि दैवतं ते विनायकः ॥२९॥
तं भोक्तुकामेन मया श्रुता कीर्तिस्तवापि च ।
चतुर्थ्यां पूजितः सम्यङ्नानोपहारसंचयैः ॥२.१६.३०॥
ते तत्र दर्शितास्तेन तृप्तेन नगरे मम ।
तेनोक्तं मम नाम्नैवायास्यति स मुनिर्नृप ॥३१॥
अतोऽहमेव संयातः प्रार्थितुं त्वां महामुने ।
तवापि दर्शनं मत्वा दुर्लभं चर्मचक्षुषाम् ॥३२॥
क उवाच ।
एवमुक्तो नृपतिना भ्रूशुंडिर्विस्मयान्वितः ।
उवाच किमिदं सत्यमुत वाऽसत्यमेव च ॥३३॥
योऽगोचरो वेदविदां वेदान्तानां च चेतसः ।
स कथं त्वद्गृहे तिष्ठेदिति संदिह्यते मनः ॥३४॥
त्रयस्त्रिंशत्कोटि देवा दर्शनार्थं समागताः ।
स कथं तव वाक्येन यामीत्युक्त्वा स्वमाश्रमम् ॥३५॥
यदि तिष्ठति देवोऽसौ तव गेहे नराधिप ।
स्वरूपं वद तस्याहं ततो यास्यामि ते गृहम् ॥३६॥
नृप उवाच ।
अनन्तानि स्वरूपाणि गणितुं न क्षमो विधिः ।
शेषो वा तस्य कोऽन्यो हि वक्तुमीशो भवेद्द्विज ॥३७॥
अवतीर्णः साम्प्रतं स कश्यपस्य गृहे मुने ।
विनायकेति नाम्नाऽपि विख्यातो भुवनत्रये ॥३८॥
अत्यद्भुतेन रूपेण सप्तवर्षात्मकेन च ।
अद्भुतानि च कर्माणि महान्ति जगदीश्वरः ॥३९॥
अशक्तो यानि कर्तुं वै तानि तेन कृतानि च ।
स्वरूपं तेऽभिवक्ष्यामि येन रूपेण मे गृहे ॥२.१६.४०॥
वसते देवदेवोऽसौ ब्रह्मचारिस्वरूपतः ।
अवतीर्णो यदा सोऽभूद्दिव्यकान्तिश्चतुर्भुजः ॥४१॥
दिव्यमाल्यांबरधरो दिव्यालंकारसंयुतः ।
दिव्यायुधधरो धीमान् दिव्यगन्धानुलेपन: ॥४२॥
प्रार्थितः कश्यपेनासौ प्राकृतोऽभूत्तदैव सः ।
मुनिरुवाच ।
नायं देवो मम ध्यानगोचरो राजसत्तम ॥४३॥
यस्य प्रभावान्मे शुंडा जाता देवर्षिदुर्लभा ।
यत्र कुत्रापि यास्येऽहं स चेदाकारयिष्यति ॥४४॥
क उवाच ।
एवं श्रुत्वा मुनिवचश्चिन्ताविष्टोऽब्रवीन्नृपः ।
मम भाग्यमभाग्यं च महदेतदुपस्थितम् ॥४५॥
त्वदाशया महाघोरान्पर्वतान् गहनानि च ।
अतिक्रम्येहं संप्राप्तः प्राप्तं त्वद्दर्शनं महत् ॥४६॥
बलात्करो न मेऽत्रास्ति गन्तुं चैवालयं विभो ।
ततो मुनिः करुणया नृपमूर्ध्निं करं ददौ ॥४७॥
निमील्याक्षिणी राजन्नित्युक्तः स तथाऽकरोत् ।
उन्मील्य नयनेऽपश्यत् क्षणमात्रादसौ नृपः ॥४८॥
गृहान्तर्गतमात्मानं पूर्ववत्तदनुग्रहात् ।
विनायकाय तं सर्वं वृत्तान्तं समभाषत ॥४९॥
दर्शनाद्धर्षसंपन्नो नागतो दुःखसंयुतः ।
नागतस्तव वाक्येन मस यत्नान् मुनिस्तु सः ॥२.१६.५०॥
ब्राह्मणेषु बलात्कारो भस्म सर्वं करिष्यति ॥५१॥ (७०२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः ॥१६॥
अध्याय १७ प्रारंभ :-
क उवाच ।
आगतं राजशार्दूलं पुनः पप्रच्छ सादरम् ।
मेघगम्भीरया वाचा सर्वज्ञोऽपि विनायकः ॥१॥
त्वया किमुक्तं तत्राथ तेन वा भाषितं नु किम् ।
वद मे नृप तत्सर्वं श्रुत्वा वक्ष्यामि ते मतिम् ॥२॥
नृप उवाच ।
तस्मै ते कथितं वाक्यं मयाऽपि प्रार्थितं बहु ।
स उवाच मुनिः कस्त्वं कोऽसावपि विनायकः ॥३॥
उपास्यरूपं बिभृयात्तदा यास्ये तमीक्षितुम् ।
एवं निराकृतस्तेन मार्गचिन्तापरं स माम् ॥४॥
प्रेषयामास स्वगृहं दत्त्वा मूर्ध्नि करं मम ।
निमीलितदृशं चक्रे क्षणादुन्मील्य लोचने ॥५॥
तावद्ददर्श पुरतः स्थितं त्वां स्वगृहे सुर ।
स्मृत्वाऽऽश्रमपदं तस्य हर्षश्चेतसि जायते ॥६॥
अहसीदिति श्रुत्वैव वाक्यं तस्य विनायकः ।
विनायक उवाच ।
श्रान्तोसि नृपशार्दूल पुनर्गच्छ तमाश्रमम् ॥७॥
गजाननेति मन्नाम श्रुत्वा यास्यत्यसौ मुनिः ।
एवं वदति तस्मिंस्तु सर्वरूपे विनायके ॥८॥
तावद्ददर्श भ्रूशुंडेरात्मानमाश्रमे स्थितम् ।
पुनर्द्रष्ट्वा स नृपतिं ह्रदि तर्कानथाकरोत् ॥९॥
किमर्थं पुनरायातो राजा किं वा वदिष्यति ।
तत ऊचे नमस्कृत्य राजा तं मुनिपुंगवम् ॥२.१७.१०॥
आकारयति त्वां विप्र स्वामी तव गजाननः ।
नाममात्रे श्रुते तस्य जहर्ष च मुमूर्छ च ॥११॥
रोमांचितशरीरोऽसौ आनन्दाश्रु मुमोच ह ।
यदि पक्षौ भवेतां मे तदोड्डीय गतोऽभवम् ॥१२॥
इत्युत्कंठतया विप्रः प्रतस्थे भूभुजा सह ।
भ्रूशंडौ चलिते पृथ्वी कदाऽप्यचलिते मुनौ ॥१३॥
चचाल संमुखी भूत्वा कम्पन्ती तमथाब्रवीत् ।
रक्ष मां मुनिशार्दूल न भीर्मत्तो धरे तव ॥१४॥
गजाननं निजं नाथं दृष्टुं यामि त्वरान्वितः ।
इत्युक्त्वा तां पुरो यातुं चलितोऽसौ द्विजोत्तमः ॥१५॥
पदे दत्ते तृतीये तु दर्शयामास तां पुरीम् ।
दृष्ट्वा पुरीं नृपो हर्षादुवाच मुनिपुंगवम् ॥१६॥
त्वत्प्रसादादिदं प्राप्तं पत्तनं वेगवत्तया ।
तपतां जपतां दुर्ज्ञो महिमा भवतां मुने ॥१७॥
इत्युक्त्वा शीघ्रमनयत् स्वगृहं तं नृपोत्तमः ।
उपवेश्य भ्रूशुंडिं तम् आसने कांचनोत्तरे ॥१८॥
अपूजयन् महाभक्त्या पाद्यार्घं विष्टरादिभिः ।
ऋषिरुवाच ।
प्रतारितोऽहं नृपते नेक्षे तावद्गजाननम् ॥१९॥
तं प्रदर्शय नो चेत्त्वां शप्त्वा यास्ये निजाश्रमम् ।
नृप उवाच । क्रीडते बालभावेन बालमध्ये गजाननः ॥२.१७.२०॥
वीरो यथा धूलिलिप्तस्तथैवायं विराजते ।
ददर्श च मुनिस्तं तु शुंडादंडविराजितम्
कोटिसूर्यप्रतीकाशं द्विभुजं द्विरदाननम् ॥२१॥
उवाच नृपतिं क्रोधात् कथमेनं नमाम्यहम् ।
धिक्तं महान्तं यो राजन् नमतेऽसौलघीयसे ॥२२॥
तृणमत्ति कथं सिंहो गजगंडविदारणः ।
क उवाच ।
श्रुतं तेन मुनेर्वाक्यं तमुवाच ततोऽर्भकः ॥२३॥
कौतुकाविष्टचित्तोऽसौ लीलाविग्रहवान् विभुः ।
विनायक उवाच ।
कीदृक्ते स भवेत्स्वामी भ्रूशुंडे वद साम्प्रतम् ॥२४॥
मुनिरुवाच ।
दिव्याम्बरो दशभुजो मुक्तामालाविभूषितः ।
सिद्धिबुद्धियुतः कर्णकुंडलाभ्यां विराजितः ॥२५॥
शुंडादंडमुखो लम्बकर्णः सिन्दूरमंडितः ।
अहिशोभि महानाभिः क्वणच्चरणनूपुरः ॥२६॥
महामुकुट शोभाढ्यो दशायुध लसत्करः ।
एकदन्तो भालचन्द्रः क्षुद्रघंटा विराजितः ॥२७॥
मयूरवाहनो देववृन्द वन्दित पादुकः ।
क डवाच ।
इति तद्वचनं श्रुत्वा पद्मासनगतःस्वयम् ॥२८॥
तादृग्रूपोऽभवद् बालः सृष्टिरक्षापहारकृत् ।
भ्रूशुंडी तं निरीक्ष्यैव स्वयोपास्यं गजाननम् ॥२९॥
लुलुंठ भूमौ प्रेम्णा स प्रतिपत्ति पराङ्मुखः ।
ननर्त परमानन्दो रोमांचित शरीरवान् ॥२.१७.३०॥
देहभावं प्रपद्याथ प्रणनाम यथाविधि ।
पूजयामास विधिवदुपचारैः पृथक्पृथक् ॥३१॥
ऊचे राजा महापुण्यं फलितं पूर्वजन्मजम् ।
देवभक्तभवं सौख्यं दृष्टमद्य मयाऽद्भुतम् ॥३२॥
उभाभ्यां प्रणिपत्याथ पुपूज च यथाविधि ।
महासनगतौ तौ तु परस्परमथोचतुः ॥३३॥
आलिंग्य दशदोर्दंडैः परमात्मा जहर्ष च ।
सगद्गदौ निरीक्ष्यैतौ साश्रु राजा ततोऽध्यभूत् ॥३४॥
गजानन उवाच ।
तव निष्ठा मयाऽज्ञायि राज्ञा चापि निवेदिता ।
अत एष धृतो वेषो दशदोर्दंडमंडितः ॥३५॥
यथा यथा जनोऽन्योऽपि ध्यात्वा माम् भजते मुने ।
तथा तथाऽहं रूपाणि करोमि च ददामि च ॥३६॥
वांछितं तस्य लोकस्य विश्वासेन भजत्यसौ ।
दुष्टभारभयाक्रान्ता धरित्री सत्यलोकगा ॥३७॥
ब्रह्माणं शरणं याता तेनाहं प्रतिबोधितः ।
आदित्याश्च वरेणाहं जातः कश्यपनन्दनः ॥३८॥
भुवो भारं हरिष्यामि शक्रादींश्च निजे पदे ।
स्थापयिष्यामि दैत्यानां नाशं कृत्वाऽप्यनेकधा ॥३९॥
तवोत्कटमनुष्ठानं दृष्ट्वाऽहमीदृशोऽभवम् ।
देवान्तकं सह भ्रात्रा हत्वा यामि निजं पदम् ॥२.१७.४०॥
ऋषिरुवाच ।
दृष्ट्वा तवाङ्घ्रियुगलं सर्वलोकसुखावहम् ।
सर्वक्लेशहरं देव वन्द्यं कांक्षितदं प्रभो ॥४१॥
कृतकृत्यः पवित्रश्च जातोऽहं तव दर्शनात् ।
वरं मे देहि विश्वात्मन् तेन तृप्तो भवाम्यहम् ॥४२॥
यदा यदाऽहं ध्यायामि रूपेणानेन विघ्नप ।
तदा तदा मे प्रत्यक्षो भवेथाः करुणानिधे ॥४३॥
आशापूरक इत्येवं नाम ते ख्यातिमेतु च ।
गजानन उवाच ।
यदा यदा वांछसे त्वम् तदा यास्यामि तेऽन्तिकम् ॥४४॥
भक्तिभावादिदं नाम त्वयोक्तं ख्यातिमेष्यति ।
क उवाच । एवं वरौ समाकर्ण्य प्रणनाम मुदा मुनिः ॥४५॥
प्रणते तु मुनौ तस्मिन् पुनः प्रोचे गजाननः ।
निधाय मस्तके हस्तम् शनैस्तस्य द्विजस्य सः ॥४६॥
यद्यत्ते वांछितं ब्रह्मंस्तत्सर्वं सिद्धिमेष्यति ।
अविस्मृतिश्च भविता मम नित्यं मुने तव ॥४७॥
क उवाच ।
एवमुक्ता बालरूपश्चिक्रीड स विनायकः ।
सोऽपि पद्मासनगतो ध्यानमेवान्वपद्यत ॥४८॥
आश्चर्यं परमं चक्रुः सर्वलोकास्तदाद्भुतम् ।
निरीक्ष्य बालरूपस्य चरितं परमात्मनः ॥४९॥
काशिराजोऽवदत्तत्र धन्योऽहं जगतीतले ।
दर्शनं प्राप्तवानस्य ब्रह्मादीनां सुदुर्लभम् ॥२.१७.५०॥
तं च बालं करे धृत्वा निनायान्तर्गृहं मुदा ।
भोजयामास स्वाद्वन्नं शाययामास पूर्ववत् ।
आज्ञां गृहीत्वा सुष्वाप स्वयं च पूर्ववन्मुने ॥५१॥ ( ७५३ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते सप्तदशोऽध्यायः ॥१७॥
अध्याय १८ प्रारंभ :-
व्यास उवाच ।
अपरेऽहनि संप्राप्ते का कथा समपद्यत ।
तां मे कथय लोकेश शृण्वस्तृप्यामि न क्वचित् ॥१॥
क उवाच ।
शृणुष्वावहितो ब्रह्मन् कथयामि समासतः ।
विनायककृतां दिव्यां कथां पापापनोदिनीम् ॥२॥
उदिते तु दिवानाथे नित्यकर्म समाप्य तौ।
क्रीडार्थमगमद्बालो राजा भद्रासनं तया ॥३॥
दैत्योऽथ ब्राह्मणो भूत्वा ज्योतिःशास्त्रविशारदः ।
तालीयं पुस्तकं वामे मालां दक्षे करे दधत् ॥४॥
पाटलं परिधानं च शिरोवस्त्रं महत्तरम् ।
गोपीचन्दन सम्भूतांस्तिलकान् द्वादशापि च ॥५॥
अतिदीर्घतमश्श्मश्रुराजगाम नृपान्तिकम् ।
समीपमागतं यावत्तावद्राजा ननाम तम् ॥६॥
उत्थाय तं समीपे स स्वासने संन्यवेशयत् ।
प्रपच्छ कुशलं तस्मै कार्यं चागमनं कुतः ॥७॥
किं च ते नाम विप्रेन्द्र किं ज्ञानम किं च ते तपः ।
वद सत्यं मुने कृत्वा कृपां मयि कृपानिधे ॥८॥
क उवाच ।
एवं पृष्टः स तेनाशु दत्त्वाशीर्वचनं पुरा ।
अनुक्रमेण सकलं निजगाद महामुने ॥९॥
हेमज्ज्योतिर्विदित्येवं नाम मे नृपनन्दन ।
गन्धर्वलोकादायातो वस्तं तव समाश्रये ॥२.१८.१०॥
भूतं भवद्भविष्यं च शान्तिकानि च वेद्म्यहम् ।
प्रश्नांश्च कथयिष्यामि यान्यांस्त्वं पृच्छसेऽनघ ॥१२॥
अरिष्टान्यत्र जातानि ज्ञातानि तानि मे नृप ।
भावि ते दुष्टचिह्नं च विज्ञायाहं समागतः ॥१२॥
त्वदाश्रयेण वस्तुं मे वांच्छाऽस्ति नृपसत्तम ।
नृप उवाच ।
किंनिमित्तमरिष्टानि जायन्तेऽत्र महामुने ॥१३॥
अग्रेऽपि कानि भावीनि सत्यमेव वदस्व मे।
तव प्रतीतौ जातायां स्थापयिष्ये निजे गृहे ॥१४॥
वृत्तिं च कल्पयिष्यामि योगक्षेमकरीं तव ।
गणक उवाच ।
यावद्विनायकस्तेऽस्ति गृहे कश्यपनन्दनः ॥१५॥
तावद्विघ्नानि जायन्ते यतो विघ्नाधिपस्तु सः ।
असंचारे वनं चैनं त्यक्त्वा याहि नृपात्मज ॥१६॥
न भविष्यति विघ्नं ते नगरे वा गृहेऽपि च ।
अस्मिन् स्थिते जलं सर्वं नगरं प्लावयिष्यति ॥१७॥
तस्मिन्कथंचिन्नष्टे तु पर्वता वायुनोदिताः।
चूर्णयिष्यन्ति नगरं नृप नास्त्यत्र संशयः ॥१८॥
एतत्कथं न जानीषे पूर्वं नासन्नुपद्रवाः ।
राज्ञा विश्वसितव्यं नो कपटे लुब्धकेऽशुचौ ॥१९॥
अतिशूरे स्वोकटे च स्वात्मपातं प्रपश्यता ।
एते घ्नन्ति च राजानं राज्यकामा महाशयाः ॥२.१८.२०॥
एतत् कथयितुं यातो ज्ञात्वा राज्यच्युतिं तव ।
हिताहितमवश्यं हि वक्तव्यं जानता नृपे ॥२१॥
विविच्य नृप मे वाक्यं यथेच्छसि तथा कुरु ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं राजा तं पर्यभाषत ॥२२॥
राजोवाच ।
अतीतानागतज्ञानादुक्तं सर्वं त्वया मुने ।
मिथ्यैव भासते मह्यं तत्वज्ञाने प्रपंचवत् ॥२३॥
त्वदुक्तप्रत्यये जाते दास्यामि वेतनं तव ।
न ज्ञातो बालकश्चायं त्वया गणकसत्तम् ॥२४॥
ब्रह्माणं कमलाकान्तमपरं शूलिनं हरम् ।
जनयिष्यति वांछा चेद् ब्रह्मांडानि बहूनि सः ॥२५॥
यदि ते निश्चयो वाक्ये स्वकीये ब्राह्मणोत्तम ।
नयैनं गहनं घोरं त्यक्त्वैनं पुनरेहि च ॥२६॥
लोकद्वेषकृतोऽनेन निहता बलवत्तराः।
स्वदेष्टारं कथमयं न जाने स्थापयिष्यति ॥२७॥
अनिष्टमस्य मनसि न वयं चिन्तितुं क्षमाः ।
अनेन नगरी राज्यं त्रातमुत्पाततो बहुः ॥२८॥
करोतीन्द्रमनिन्द्रं वाऽशक्तं शक्तं लघुम् गुरुम् ।
उच्चं नीचं तथा नीचमुच्चमीशमनीश्वरम् ॥२९॥
संश्रुत्य वाणीं नृपतेर्गणकोऽभूद्रुषारुणः ।
राजानं पुनरारेभे वक्तुं किंचिदवाड्.मुख ॥२.१८.३०॥
मया तव हितं प्रोक्तमनिष्टं तव भासते ।
न जातु लंघयेत्कोऽपि भाविसृष्टुं तथेतरत् ॥३१॥
नृपते दर्शयैनं मे बालकं लक्षणानि ते ।
कथयिष्ये ततो बालान् सर्वानाकारयन्नृपः ॥३२॥
अग्रे विनायकः प्राप्तो धावमानास्ततोऽखिलाः ।
गणकं स नमस्कृत्य पप्रच्छ कुत आगतः ॥३३॥
सामुद्रलक्षणज्ञोऽसि ज्योतिःशास्त्रविशारदः ।
भूतभाविभविष्यज्ञ वद मे भाग्यजं फलम् ॥३४॥
क उवाच।
सधैर्यं बालवाक्यं तदाकर्ण्य कपटी द्विजः ।
तर्कयामास मनसि कथं स्वस्ति गतिर्भवेत् ॥३५॥
अनेन निहता दुष्टा बलिनोऽनेकरूपिणः ।
शिशोर्हस्तं गृहीत्वा स वदति स्म शुभाशुभम् ॥३६॥
चतुर्षु दिवसेषु त्वं कूपमध्ये पतिष्यसि ।
चेन्निर्गतः कथंच्चित्वं सिन्धौ मज्जनमेष्यसि ॥३७॥
ततोऽपि जीवितश्चेत्तु ध्वान्तमग्नो भविष्यसि ।
ततोऽपिजीविते शैलस्त्वयि कोऽपि पतिष्यति ॥३८॥
महान्तौ कालपुरुषौ जीवन्तं भक्षयिष्यतः ।
एतान्यरिष्टानि तव भविष्यन्ति न संशयः ॥३९॥
प्रतीकारं ब्रवीम्यत्र निर्भयार्थं कुरुष्व तम् ।
ततोऽन्यत्र मयासार्थं याहि दिनचतुष्टयम् ॥२.१८.४०॥
पुनरत्रानयिष्यामि शपथो मे तचाङ्घ्रिजः ।
निशम्य वाचं बालोऽसौ जगामान्तगृहं शनैः ॥४१॥
राज्ञो हस्तात् प्रगृहयाशु मुद्रिकां रत्ननिर्मिताम् ।
कृत्वा तां स्वकरे बालो वदति स्म द्विजं प्रति ॥४२॥
गणकाशु वद त्वं नो गतं वस्तु महत्तरम् ।
केन नीतं तदा प्राप्तं भूयात्ते प्रत्ययो भवेत् ॥४३॥
इत्युक्तः स तु बालेन विचार्य जनसंसदि ।
बभाण हास्यवदनो मुद्रिका यदि लभ्यते ॥४४॥
ममैव यदि देया सा तदेदानीं ब्रवीम्यहम् ।
तथेति बालकेनोक्ते तवैव करगेति सा ॥४५॥
इत्थमुक्तो जिह्मवेषधारिणा वाडवेन सा।
तया मन्त्रितया बालो न्यवधीत्तं ह्रदि क्षणात् ॥४६॥
स तया भिन्नहृदयो वज्राहत इवाचलः ।
निपपात धरापृष्ठे चालयन् वसुधां भृशम् ॥४७॥
पतता तस्य देहेन चूर्णितं नगरं कियत् ।
काशिराजो जनाः सर्वे आश्चर्यं मेनिरे तदा ॥४८॥
जहर्षुर्देवता सर्वाः पुष्पवृष्टिं सुचक्रिरे ।
स्वर्गभूवाद्यघोषैर्द्यौर्व्याप्ताऽभूद् भूतलं तदा ॥४९॥
जना ऊचुः ।
कथं ज्ञातोऽनेन दुष्टो ब्राह्मणो ब्रह्मवेषभृत् ।
राज्ञाऽपि न कृतं दैवाद् वाक्यं तस्य दुरात्मनः ॥२.१८.५०॥
अयं बालो न मन्तव्यो भूभारहरणेऽमरः।
अवतीर्णः कश्यपस्य गृहे ऽसौ करूणानिधिः ॥५१॥
मुद्रिकाघातमात्रेण कथं प्राणान् जहौ बलि।
इत्युक्त्वा पुपूजुः सर्वे नेमुस्तं तुष्टुवुर्जगुः ॥५२॥
ददौ दानानि विप्रेभ्यो राजा राजीवलोचनः ।
द्विजचारण बन्दिभ्यो दीनेभ्यश्चाप्यनेकशः ॥५३॥
नागरान् मानयित्वा तान् विससर्ज ततः सभाम् ।
बालोऽपि बालकं रन्तुं ययौ पूर्ववदज्ञवत् ॥५४॥ (८०७)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते कपटि दैत्यवधो नामाष्टादशोध्यायः ॥१८॥
अध्याय १९ प्रारंभ –
क उवाच ।
बालकेन हतं श्रुत्वा ब्राह्मणं वेषधारिणम् ।
नरान्तको महादैत्यो कूपकं कन्दरासुरम् ।। १।।
प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।
दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च ।।२।।
दैत्य उवाच ।
गच्छ तं सुमुहूर्तेन हन्तुं बालं तमाशुच ।
नानोपायैर्मारितानां कुरु तन्निष्कृतिं बलात् ।।३।।
क उवाच ।
एवं तेन समाज्ञप्तावसुरौ कूपकन्दरौ ।
सेनया च सुरंगिण्या गव्यूतिं सम्प्रतस्थतुः ।।४।।
निवृत्य सेनां च तत ईयतुर्भृश हर्षितौ ।
विचारं चक्रतुर्मार्गे कूपोऽहं कूपतामियाम् ।।५।।
बालो भवं क्रीडमानं मयि तं क्षिप यत्नतः ।
मंडूकरूपः कूपस्थो भक्षयिष्यामि तत्क्षणात् ।।६।।
अन्तर्धानं करिष्यावः कृत्वा कार्यं महत्तरम् ।
एवं तौ निश्चितमती काशिराजपुरम् महत् ।।७।।
प्रापतुरभवत् कोपो महान्नृप नृपाजिरे ।
कन्दरो बालरूपोऽभूद्रन्तुं तेषु मनो दधे ।।८।।
राजाऽथ ददृशे कूपं सुजलम् तं जहर्ष च ।
यावत् पश्यति मध्येऽसौ मंडूकं तं ददर्श ह ।।९।।
नदन्तं मंजुलाम् वाणीं पीतवर्णं भयानकम् ।
कन्दरो बालमध्यस्थो जगाद तं विनायकम् ।। 2.19.१ ०।।
बहिर्याहि महाबाहो पश्य कूपं मनोहरम् ।
ददर्श कूपं बालैः स बहिरागत्य तत्क्षणात् ।। १ १।।
अत्यन्तं सुन्दरं दृष्ट्वा तं कूपं बालकैः सह ।
चिक्रीडे विविधैर्भावैर्नाना निलयनैरपि ।। १ २।।
मध्याह्ने जलमध्यस्थाः सिषिंचुस्ते परस्परम् ।
मज्जनोन्मज्जनं चक्रु कारयन्तः परस्परम् ।। १ ३।।
उड्डानम् जलमध्ये ते दूरादागत्य चक्रिरे ।
एवं रमित्वा ते तत्र गृहान् गन्तुम् समुद्यताः ।। १४।।
तावद्विनायकोऽपश्यज्जलमध्ये निजं वपुः ।
जानंस्तर्तुं जले सर्वान् पश्यन्नासीद्बहिः पुरा ।। १५।।
तावन्नुनोद तम् दुष्टो जलमध्ये स कन्दरः ।
अगाधं तज्जलं ज्ञात्वा लोडयामास लीलया ।। १६।।
स्वेच्छया रमणो लक्ष्म्या क्षीराब्धिमिव वाडवः ।
अधो याति मुहूर्तम् स उपरिष्टात्तथैव च ।। १७।।
मायामास्थाय स गणो मज्जितुं समजायत ।
चरणौ हस्तकमले चिक्षेप बहुधा शिशुः ।। १ ८। ।
लुलुपुः सर्वशो बालास्तावत्तेन धृतो बलात् ।
चरणे कन्दरो नीतस्तत्कूप तलमादरात् ।। १ ९।।
अमज्जयद्बलात् तं च मुंच मुंचेति सोऽब्रवीत् ।
विनायकोऽपि तम् प्रोचे मुंचमुंचेति मामपि ।।2.19.२ ०।।
उभौ समबलौ तौ तु मज्जनोन्मज्जने रतौ ।
हिरण्यकशिपुर्लक्ष्मी नृसिंहाविव दुर्धरौ ।।२ १ ।।
अधस्थाद्बहुकालं तौ गतौ ज्ञात्वाऽखिलार्भकाः ।
चक्रुरार्तस्वरं दुष्टं मृतो बाल इति स्फुटम् ।।२२।।
अपशब्दं तथा श्रुत्वा ययुः स्त्रीवृद्धबालकाः ।
काशिराजोऽपि चुक्रोश किं कार्यमिति चाब्रवीत् । ।२ ३ ।।
अगाधनीरे कूपेऽस्मिन् कथं जीवेत्स बालकः ।
कोऽप्यूचे चापरः प्राह शीघ्रं निःसारितो यदि ।।२४।।
उपायो भविता कश्चिज्जीवमायास्य निश्चितम् ।
येन यत्प्रार्थ्यते दास्ये तदस्मै जीवितं स्वकम् ।।२५।।
निष्काश्यतां बहिर्बालो वेगेन च बलेन च ।
इति राजवचः श्रुत्वा कूपमध्ये गताश्रयः ।।२६।।
मग्नास्ते दैत्यकृतया मायया नापरो जनः ।
अवतर्तुं मनश्चक्रे ततो राजा शुशोच तम् ।।२७।।
राजोवाच ।
किं मयाऽकारि दुरितं येन मे दुःखमीदृशम् ।
कथं बालो मयाऽऽनीतः सुखार्थं दुःखदोभवत् ।।२८। ।
दर्शयिष्ये कथं तस्य पितृभ्यां मुखमेव च ।
जनाय वा कथमिदं कथमस्य मृतिर्भवेत् ।।२ ९।।
निरस्तान्यत् अरिष्टानि महान्ति बालकेन ह ।
कथमस्म वशं यातो न जाने देवचेष्टितम् ।।2.19.३ ०।।
एवं सर्वेषु शोचत्सु स्त्रीवृद्धबालकेषु च ।
मंडूकरूपी कूपस्थो व्यादाय मुखमास्थितः ।।३ १।।
तावदेवागतो बालो नोदितः कन्दरेण सः ।
तेनापि नोदितो दैत्यो दैत्यास्ये न्यपतत्खलः ।।३२।।
भक्षयामास कूपस्तं मत्स्यो मत्स्यभिवालघुः ।
गिलितो बाल इति स निजरूपं समास्थितः ।।३३।।
कूपोऽपि गगनस्पर्धां चक्रे श्लाघ्यां यशीर्जिताम् ।
सर्वेषामेव दैत्यानामानृण्यं गतवानहम् ।।३४।।
इत्युज्जहर्ष मनसा मत्वा देवमविक्रमम् ।
कन्दरस्तु रुषाविष्टो विदार्यास्य महोदरम् ।।३५।।
निर्गम्य वेगमास्थाय स बालोऽन्तर्हितः क्षणात् ।
विदारितं मे जठरमिति कूपोऽपि कन्दरम् ।।३६।।
अदशत् कंठदेशे स जीवग्राहं रुषा तदा ।
एवं परस्पर वधात् पतितौ विह्वलो भृशम् ।।३७।।
पादहस्तावमर्देन चूर्णितं नगरम् कियत् ।
यथा सुन्दोपसुन्दौ तु परस्पर वधान् मृतौ ।।३८।।
परस्परवधात्तद्वन् मृतौ तौ कूपकन्दरौ ।
राजभृत्यैरपाकृष्य त्यक्तौ तौ नगराद्बहिः ।।३९।।
तत्क्षणादजिरे कूपो पिदधे स विनायकः ।
ददृशे पूर्ववत् क्रीडन् सर्वबालयुतो जनैः ।।2.19.४०।।
आश्चर्यं मेनिरे तत्र बाला राजा जना अपि ।
ऊचुः परस्परं केचित् कापट्यं येन युज्यते ।।४१।।
आमूलान् नश्यते सोऽथ स्वयमेव न संशयः ।
पतंगो दीपनाशार्थमायाति नश्यते यथा ।।४२।।
अस्य चालयितुं शक्तो न स्यात्कालोऽपि रोम च ।
दृष्टं बहुविधं चास्य सामर्थ्यमवतारिणः ।।४३।।
जेतुमीशं गतः कामः स्वयं भस्मत्वमागतः ।
काशिराजस्तु तच्छ्रुत्वा सत्यंसत्यमिति ब्रुवन् ।।४४।।
ददौ दानानि विप्रेभ्यो विससर्ज प्रपूज्य तान् ।
विनायकं नमस्कृत्य गता लोका निजान् गृहान् ।।४५।।
केचिदालिंग्य तं बालं ययूराज्ञा प्रपूजितम् ।
देवाश्च पुष्पवर्षाणि मुमुचुस्तुष्टुवुर्जनाः ।।४६।।
क उवाच ।
एवं न ज्ञायते ब्रह्मन् कार्याकार्यं मरुद्बलम् ।
मायारस्वरूपं पुंभाग्यं राक्षसाचरणं मुने।।४७।।
अवतारगुणा वापि न ज्ञेया परमात्मनः।।४८।। (८५५)
इति गणेश पुराणे क्रीडाखंडे कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः।।१९।।
अध्याय २० प्रारंभ :-
व्यास उवाच ।
काशिराजगृहे ब्रह्मन् विवाहः स कदाऽभवत् ।
तन्ममाचक्ष्व भगवन् विस्तराच्चतुरानन ॥१॥
क उवाच ।
एकैकं नश्यतेऽरिष्टमपरं याति वै पुनः ।
अस्मिन्नष्टे करिष्यामीत्येवं यावद्विचार्यते ॥२॥
कूपे च कन्दरे नष्टे त्रयोऽप्यन्ये उदीरिताः ।
अन्धकोऽम्भासुरस्तुंगो राक्षसाः क्रूरदर्शनाः ॥३॥
जिघांसया गता बालं ततो युद्धमवर्तत ।
श्रुत्वा येषां तु संग्रामम् ब्रह्माद्याः प्रापलन् भयात् ॥४॥
दिग्गजा मर्दिता यैस्तु विबुधानां तु का कथा।
कदायं कश्यपसुतो भविता दृष्टिगोचरः ॥५॥
नाशयामोऽनेकधा तमिति व्यवसिता भृशम् ।
यावन्तः प्रेषिता वीरास्तावन्तो निधनं गताः ॥६॥
वयमेनं हनिष्यामोऽजित्वा यामो न वै गृहान् ।
वह्निरूपं समास्थाय दाहयामो मुनेः सुतम् ॥७॥
अन्धकस्त्वब्रवीत्तत्र तमसा व्याप्य खं दिशः ।
अन्धकारं करिष्यामि धरायामथ सर्वतः ॥८॥
ततः परस्परदृशिर्न स्यात्तेषां कदाचन ।
अम्भासुरोऽब्रवीत्तत्र महीं सर्वां जलेन ह ॥९॥
आपुरं प्लावयिष्यामि समन्तान्न गतिर्भवेत् ।
तुंगोऽब्रवीदहं तुंगो गिरिर्भूत्वा पुरीं तु ताम् ॥२.२०.१०॥
आलोड्य चूर्णयिष्यामि सपक्ष इव पर्वतः ।
अन्धकारे जले वह्नौ पर्वते सर्वतः स्थिते ॥११॥
कोऽपि गन्तुं न शक्नोति कथं बालो गमिष्यति ।
एवं निश्चितसंकल्पा जगर्जुस्ते त्रयो भृशम् ॥१२॥
तेषां गर्जितशब्देन कम्पितं भुवनत्रयम् ।
तत्यजुर्निजवेलान्तं सागराः क्षुभितोदकाः ॥१३॥
ततो रविं समाच्छाद्य तस्थौ तत्रान्धकासुरः ।
अन्धकारे महाघोरे न प्राज्ञायत किंचन ॥१४॥
अकस्माद्रजनी प्राप्ता व्यवसायपरैर्जनैः ।
स्नानासक्तैर्जपासक्तेर्होमासक्तैर्नृभिस्तदा ॥१५॥
तपःसु वेदघोषेषु विवाहोपनयादिषु ।
कीर्तनेषु पुराणेषु द्विजदेवार्चनादिषु ॥१६॥
सक्तैर्नानाविधैर्लोकेर्निशा प्राप्ता व्रतादिषु ।
जजल्पुः किमु विन्ध्योऽयं रुणद्धि सूर्यमंडलम् ॥१७॥
अथवा प्रलयो भावी वोपरागः समागतः ।
सभायामूचुरासीनं राजानमिति पंडिताः ॥१८॥
तर्कयन्ति यावदेव गावोऽगुः स्वगृहान्तरम् ।
असंभावितवेलासु चक्रुर्दीपान् गृहे गृहे ॥१९॥
कथमस्तमितिर्जाता न पाको न च भोजनम् ।
व्यस्मयन्त तदा नार्यो दुदुहुर्गाश्च काश्चन ॥२.२०.२०॥
दीपिकाभिः काष्ठदीपैर्व्यवहारं जनास्तदा ।
चक्रुर्दुःखेन कार्याणि वाणिजो ब्राह्मणादयः ॥२१॥
सेवकानां महानन्दः कामिनां चाभवत्तदा।
सालसानां प्रसुप्तानां निद्रालूनां तथैव च ॥२२॥
एवं कृते चान्धकेन नाम्ना चाम्भासुरस्तदा ।
मेघरूपेण ववृषे धारा हस्तिकरोपमाः ॥२३॥
शम्पाप्रकाशतो लोकाः क्षणमीक्षां प्रचक्रिरे ।
जलधारा भयात्सर्वे गृहमध्ये स्थिरास्तदा ॥२४॥
प्रासादा न्यपतन्केचिद् गृहाणां भित्तिका अपि ।
अन्तः केचिद्बहिः केचिन्मृता जनचयास्तदा ॥२५॥
झंझावात हता वक्षा पतिता धरणीतले ।
सौदामिनीभिर्निर्दग्धा द्रुमा गृहचया बहू ॥२६॥
उत्तीराभिर्नदीभिः सा समुद्रैरिव संप्लुता ।
नगरी सर्वलोकाढ्या सर्वसत्वसमाकुला ॥२७॥
क उवाच ।
प्रलयं दैत्यमायां च ज्ञात्वा स करुणाकरः ।
विनायकोऽकरोन्माया बलेन वटमुच्चकैः । ॥२८॥
निर्ममे तत्क्षणादेक लतागुल्मैः सुशोभितम् ।
शतयोजन विस्तीर्णं जटाशाखा समन्वितम् ॥२९॥
पक्षिरूपेण तत्रासौ स्थितो गगनलेहिनी ।
पक्षौ भूमौ प्रतिष्ठाप्य स्पृशं च शिरसा नमः ॥२.२०.३०॥
प्रकाशयामास पुरीं पीत्वा चंच्वा जलं महत् ।
करेणाशोषयद्वन्य करीव पल्वलोदकम् ॥३१॥
जना हर्धाद्धि जगदुर्गतो विघ्नो गतं जलम् ।
गतेऽन्धकारे ददृशुर्वटं सान्द्रतरं च तम् ॥३२॥
पक्षिणं चाद्भुताकारं न दृष्टं न च वै श्रुतम् ।
सर्वे जना ययुस्तत्र न्यग्रोधे स्थातुमुत्सुकाः ॥३३॥
अश्वैर्गजैरथैरुष्ट्रैः शिबिकाभिर्नृभिस्तु तैः ।
स्त्रीभिर्दासैः काशिराजो वटस्याधः समाययौ ॥३४॥
पशवः सारमेयाश्च बिडाला वन गोचराः।
विनायकप्रभावेण न वृष्टिस्तत्र नो तमः ॥३५॥
चक्रुः सर्वे पूर्ववत्ते वर्णाः कर्म यथाविधि ।
पौराः सद्व्यवसायेषु समसज्जन्त पूर्ववत् ॥३६॥
सर्वेषां रक्षणं कर्तुं पक्षिरूपमधारयत् ।
जगदीशो गणेशो नु न जानीमोऽत्र किंचन ॥३७॥
विस्तार्य पक्षान् वृष्टिं यो न्यषेधीद्दैत्य कारिताम् ।
वृष्टिं सोल्कां सकरकां स्वयं सेहे सुखेन सः ॥३८॥
इति लोकास्तर्कयित्वा स्थिता निर्व्याकुलास्तदा ।
एकादशगता घस्रा एवं तत्र स्थितस्य च ॥३९॥
नाज्ञासीत् कोऽपि चरितं विनायक कृतं द्विज ।
दृष्ट्वा विनायकं बालं क्रीडन्तं बालयूथगम् ॥२.२०.४०॥
ततो दैत्यो क्षीणशक्ती निश्चेष्टौ समपद्यताम् ।
तुंगो जगर्ज बहुधा नादयन् प्रदिशो दिशः ॥४१॥
गिरिरूपं समास्थाय हनिष्ये पक्षिणं क्षणात् ।
ब्रुवन्नेवं बभूवाशु पर्वतो भूत्तदैव सः ॥४२॥
सरोनदी समायुक्तः पंचयोजन विस्तृतः ।
दिव्योषधीभिर्दीप्ताभिर्भासयन् गगनं दिशः ॥४३॥
नानापक्षिसमायुक्तो वाडवाश्रममंडितः ।
सपक्षं पर्वतं दृष्ट्वा पतमानं स पक्षिराट् ॥४४॥
उड्डीय परिबभ्राम वारयामास तज्जलम् ।
घूर्णयन् पक्षवातेन जंगमाजंगमम् जगत् ॥४५॥
प्रस्थानिपतिता भूमौ पर्वतानामितस्ततः ।
चंच्वा दध्रे स तुंगाद्रिं काश्यपिः फणिनं यथा ॥४६॥
सह तेनाभ्रमन् खेऽसौ लक्षयन् दानवावुभौ ।
अन्धकं चरणैकेन परेणाम्भासुरं च सः ॥४७॥
अतिक्रम्य भुवर्लोकमियाय स महाखगः ।
अतिभ्रमणखिन्नास्ते तप्ताश्च सूर्यरश्मिभिः ॥४८॥
निपेतुर्व्यसवो भूमौ त्रयः पर्वतसन्निभाः।
पतन्तश्चूर्णयामासुर्वनान्युपवनानि च ॥४९॥
द्रष्टुं दैत्यशरीराणि स्त्रीबालसहिता जनाः ।
ययुस्ते नगराभ्याशे वीक्ष्याश्चर्यं परं ययुः ॥२.२०.५०॥
खंडानि तच्छरीराणां गंडशैला इवाबभुः ।
निरस्य मायां दैत्यानां ततो लोका विसिष्मिरे ॥५१॥
वटं तम् देवरूपेण ददृशुर्न च वै पुनः ।
अन्तर्हिते वटे पक्षिरूपं तत्याज सोऽर्भकः ॥५२॥
ततो विनायकं बालं काशिराजो लिलिंग ह ।
पृष्ट्वा कुशलसंप्रश्नं नागराश्च नृपाश्च तम् ॥५३॥
पुपूजः परमप्रीत्या विघ्ननाशं विनायकम् ।
प्रशशंसुर्मुदा देवम् कश्यपस्य सुतं जना ॥५४॥
न जानीमो वयं देवं मायां दैत्यकृतां पराम् ।
सामर्थ्यं ते गुणांश्चापि यत्र वेदा विकुंठिता ॥५५॥
लीलया रक्षितः सर्वे मोचिता बहुसंकटात् ।
वातागता विनाशं च उत्पाताश्चैव वृष्टयः ॥५६॥
भाति बिम्बं रवेः सम्यगन्धकारे गते लयम् ।
मनांसि सर्वलोकांना प्रसन्नानि मुदा तदा ॥५७॥
नद्यः प्रसन्नसलिलाः सर्वमासीद्यथा पुरा ।
ववर्षुः पुष्पवर्षाणि देवदेवे विनायके ॥५८॥
नानावाद्यनिनादैस्तेऽलंकृतं पुरमाविशन् ।
ददुर्दानानि विप्रेभ्यो देवो नः प्रीयतामिती ॥५९॥
शान्तिहोमं विधायासौ नृपोऽदाद् गोधनं बहु ।
विसृज्य सर्वान् बुभुजे विनायकयुतो नृपः ॥२.२०.६०॥ (९१५)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः ॥२०॥