प्रमुखा विकल्पसूचिः उद्घाट्यताम्


अध्याय १० प्रारंभ –
क उवाच ।
ततस्तु पंचमे वर्षे सचौलं व्रतबंधनम् ।
चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम् ।। १ । ।
शुभे मूहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।
आकारिताः शिष्यगणैर्देव दानव राक्षसाः ।।२। ।
मुनयो यक्षनागाश्च तथा राजर्षयोऽपि च ।
वैश्याः शूद्रास्तथा याता नानोपायनपाणयः ।। ३ ।।
ववदुर्बहु वाद्यानि नृदेवैराहतानि च ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च । । ४।।
मंडपस्थापनं चक्रे मातृकापूजन तथा ।
चकाराभ्युदयश्राद्धं ब्राह्मणानां तथार्चनम् ।।५।।
सुहृदां वस्त्रदानं च चकार स यथार्हतः ।
अन्येषां च तथा तेऽपि वस्त्राणि निदधुः पुनः ।।६।।
होमान्ते पुनरानर्च ब्राह्मणा- न्कश्यपस्ततः ।
अन्तःपटं वेदिकायां धारयित्वा स सत्वरम् ।।७।।
कृत्वाऽग्निस्थापनं पूर्वमुपनिन्युश्च बालकम् ।
सुवासिन्यो ब्राह्मणास्तमक्षताभिरवाकिरन् ।।८।।
तन्मध्ये राक्षसाः पंच सुदुष्टा ब्रह्मलिंगिनः ।
अस्त्रैस्तमाकिरन्दुष्टा स्तत्प्राणहरणेच्छया ।।९।।
विघातश्चैव पिंगाक्षो विशालः पिंगलस्तथा ।
चपलश्च महापुंड्रा अक्षमालाविभूषिताः ।। 2.10.१ ०।।
जलपात्रभृतोऽनर्घ्य वस्त्राम्बरधराः शुभाः ।
विशीर्णोऽजायता देहः कुमारस्य तदस्रतः ।। १ १।।
ज्ञात्वा कुमारस्तान्दुष्टान्मंत्रयामास तंडुलान् ।
महोत्कटः प्रचिक्षेप तंडुलान्पंच पंचसु ।। १ २।।
तदैव निर्गतः प्राणा निजरूपं समाश्रिताः ।
करालाः पतिता भूमौ विशीर्णा दशयोजनम् ।। १ ३।।
वज्राघाताद्यथा पेतुर्गिरयस्तु बिडौजसः ।
कोलाहलो महानासीद्रजसाच्छादिता दिशः ।। १४।।
कथं व्यापादिताः पंच राक्षसाः कूटरूपिणः ।
क्षणेनानेन बालेन न जानीमोऽखिला अमुम् ।। १५।।
अवतीर्णो भुवो भारं हर्तुं किं परमेश्वरः ।
एवं ततो गरिष्टे ते ब्रह्माद्या देवतागणाः ।। १६।।
ववर्षुः पुष्पवर्षाणि विमानवरमाश्रिताः ।
नीतेषु तेषु प्रेतेषु ब्राह्मणाः कश्यपोऽपि च ।। १७।।
उपनीते तत्र शिशौ वासश्च मेखलामपि ।
उपवीताजिने दंडं ददुस्तस्मै स्वमन्त्रतः ।। १८।।
ततोंऽजलिं पूरयित्वा प्रोद्वीक्ष्य मंडलं रवेः ।
होमं सर्वं समाप्यैनं सावित्रीं कश्यपोऽब्रवीत् ।।१९।।
पादमर्धं ततः सर्वां भिक्षां माता पुरा ददौ ।
असंख्यातास्ततो भिक्षा दुदुस्ते सर्व आगताः ।।2.10.२ ०।।
उपदिश्य ततश्चैनं शौचाचाराननेकशः ।
पुनश्च ब्राह्मणान्पूज्य वासांसि कांचनं च गाः ।।२ १।।
महत्यरिष्टेऽतीतेऽस्मिंस्तेभ्यो भक्त्या ददौ मुनिः ।
वसिष्टंस्तं सभामध्ये निनाय ब्रह्मणोऽन्तिकम् ।।२२।।
सोऽपि कमंडलुजलैरस्य तीर्थं गृहीतवान् ।
सर्वदा विकसत्पद्मं ददावस्मै करस्थितम् ।।२३।।
ब्रह्मणस्पतिरित्येवं नाम चक्रे तदाऽस्य सः ।
संपूज्य नाम चक्रेऽस्य भारभूतिर्बृहस्पतिः ।।२४।।
रत्नमालां ददौ चास्मै कुबेरोऽपि गलस्थिताम् ।
सुरानन्देति नामास्य संपूज्य च चकार ह ।।२५।।
सर्वप्रियेति नामास्य दत्त्वा पाशमपां पतिः ।
शृण्वत्सु सुरसंघेषु चकार शंकरोऽपि च ।।२६।।
त्रिशूलं डमरुं दत्त्वा विरूपाक्षेति चाभ्यधात् ।
दत्त्वा चन्द्रकलां नाम भालचन्द्रेति चाकरोत् ।।२७।।
रामस्य जननी चास्मै सखी बालाय चार्पयत् ।
परशुं परशुहस्तेति नाम चक्रे स्फुटं मुदा ।।२८।।
पुनः संपूज्य सिंहं सा ददौ वाहनमुत्तमम् ।
सिंहवाहन इत्येवं चक्रे नामातिसुन्दरम् ।।२९।।
उपादिशद्दुष्टनाशं कुरु शीघ्रं विनायक ।
सागरो द्विजरूपेण मुक्तमालां ददावथ ।।2.10.३ ०।।
मालाधरेति नामास्य कृतवान्परिपूज्य च ।
आसनार्थं ततस्तस्मै शेषः स्वात्मानमर्पयत् ।।३ १ ।।
फणिराजासनेत्येवं नाम चक्रे स्वयं मुदा ।
दाहशक्तिं ददौ वह्निर्धनंजयेति नाम च ।।३२।।
प्रभंजनेति नामास्मै वायुश्च बलमुच्चकैः ।
एवं सर्वे यथाशक्त्या दत्त्वा नामानि चक्रिरे ।।३३।।
तेषां निर्वचने शक्तिर्न कस्यापि भवेन्मुने ।
अपुपूजन्न चैनं स शक्रो मदविमोहितः ।।३४।।
न वा किंचिद्ददौ चैनमुपायनवरं शुभम् ।।३५।।
अहं त्रिलोकीनमितः सुरेशो, वृद्धोऽमृताशी लघुमर्भकं तम् ।
गजेन्द्रगामी हरिशूलपाणि, प्रपूजितः कश्यपजं नमस्ये ।।३६।।
सिंहो यथा नात्तितृणं समुद्रः पल्वलोदकम् ।
न याचति तथाऽन्यं वा कल्पवृक्षोऽखिलं ददत् ।।३७।।
एवं तस्याशयं बुद्ध्वा कश्यपः प्रणिधानवान् ।
उवाच धर्मसंयुक्तं वचस्तद्धितकाम्यया ।।३८।।
यत्राद्भुतानि कर्माणि यत्र स्युश्च गुणाकराः ।
स नमस्यश्च पूज्यश्च ब्राह्मणोऽपि च निर्गुणः ।।३९।। ( ३८६)
इति श्रीगणेशपुराणे क्रीडाखंडे नानानामनिरूपणं नाम दशमोऽध्यायः ।। १ ०।।