प्रमुखा विकल्पसूचिः उद्घाट्यताम्


अध्याय १९ प्रारंभ –
क उवाच ।
बालकेन हतं श्रुत्वा व्राह्मणं वेषधारिणम् ।
नरान्तको महादैत्यो कूपकं कन्दरासुरम् ।। १।।
प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।
दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च ।।२।।
दैत्य उवाच ।
गच्छ तं सुमुहूर्तेन हन्तुं बालं तमाशुच ।
नानोपायैर्मारितानां कुरु तन्निष्कृतिं बलात् ।।३।।
क उवाच ।
एवं तेन समाज्ञप्तावसुरौ कूपकन्दरौ ।
सेनया च सुरंगिण्या गव्यूतिं सम्प्रतस्थतुः ।।४।।
निवृत्य सेनां च तत ईयतुर्भृश हर्षितौ ।
विचारं चक्रतुर्मार्गे कूपोऽहं कूपतामियाम् ।।५।।
बालो भवं क्रीडमानं मयि तं क्षिप यत्नतः ।
मंडूकरूपः कूपस्थो भक्षयिष्यामि तत्क्षणात् ।।६।।
अन्तर्धानं करिष्यावः कृत्वा कार्यं महत्तरम् ।
एवं तौ निश्चितमती काशिराजपुरम् महत् ।।७।।
प्रापंतुरभवत् कोपो महान्नृप नृपाजिरे ।
कन्दरो बालरूपोऽभूद्रन्तुं तेषु मनो दधे ।।८।।
राजाऽथ ददृशे कूपं सुजलम् तं जहर्ष च ।
यावत् पश्यति मध्येऽसौ मंडूकं तं ददर्श ह ।।९।।
नदन्तं मंजुलाम् वाणीं पीतवर्णं भयानकम् ।
कन्दरो बालमध्यस्थो जगाद तं विनायकम् ।। 2.19.१ ०।।
बहिर्याहि महाबाहो पश्य कूपं मनोहरम् ।
ददर्श कूपं बालैः स बहिरागत्य तत्क्षणात् ।। १ १।।
अत्यन्तं सुन्दरं दृष्ट्वा तं कूपं बालकैः सह ।
चिक्रीडे विविधैर्भावैर्नाना निलयनैरपि ।। १ २।।
मध्याह्ने जलमध्यस्थाः सिषिंचुस्ते परस्परम् ।
मज्जनोन्मज्जनं चक्रु कारयन्तः परस्परम् ।। १ ३।।
उड्डानम् जलमध्ये ते दूरादागत्य चक्रिरे ।
एवं रमित्वा ते तत्र गृहान् गन्तुम् समुद्यताः ।। १४।।
तावद्विनायकोऽपश्यज्जलमध्ये निजं वपुः ।
जानंस्तर्तुं जले सर्वान् पश्यन्नासीद्बहिः पुरा ।। १५।।
तावन्नुनोद तम् दुष्टो जलमध्ये स कन्दरः ।
अगाधं तज्जलं ज्ञात्वा लोडयामास लीलया ।। १६।।
स्वेच्छया रमणो लक्ष्म्या क्षीराब्धिमिव वाडवः ।
अधो याति मुहूर्तम् स उपरिष्टात्तथैव च ।। १७।।
मायामास्थाय स गणो मज्जितुं समजायत ।
चरणौ हस्तकमले चिक्षेप बहुधा शिशुः ।। १ ८। ।
लुलुपुः सर्वशो बालास्तावत्तेन धृतो बलात् ।
चरणे कन्दरो नीतस्तत्कूप तलमादरात् ।। १ ९।।
अमज्जयद्बलात् तं च मुंच मुमचेति सोऽब्रवीत् ।
विनायकोऽपि तम् प्रोचे मुचमुंचेति मामपि ।।2.19.२ ०।।
उभौ समबलौ तौ तु मज्जनोन्मज्जने रतौ ।
हिरण्यकशिपुर्लक्ष्मी नृसिंहाविव दुर्धरौ ।।२ १ ।।
अधस्थाद्बहुकालं तौ गतौ ज्ञात्वाऽखिलार्भकाः ।
चक्रुरार्तस्वरं दुष्टं मृतो बाल इति स्फुटम् ।।२२।।
अपशब्दं तथा श्रुत्वा ययुः स्त्रीवृद्धबालकाः ।
काशिराजोऽपि चुक्रोश किं कार्यमिति चाब्रवीत् । ।२ ३ ।।
अगाधनीरे कूपेऽस्मिन् कथं जीवेत्स बालकः ।
कोऽप्यूचे चापरः प्राह शीघ्रं निःसारितो यदि ।।२४।।
उपायो भविता कश्चिज्जीवमायास्य निश्चितम् ।
येन यत्प्रार्थ्यते दास्ये तदस्मै जीवितं स्वकम् ।।२५।।
निष्काश्यतां बहिर्बालो वेगेन च बलेन च ।
इति राजवचः श्रुत्वा कूपमध्ये गताश्रयः ।।२६।।
मग्नास्ते दैत्यकृतया मायया नापरो जनः ।
अवर्तंतु मनश्चक्रे ततो राजा शुशोच तम् ।।२७।।
राजोवाच ।
किं मयाऽकारि दुरितं येन मे दुःखमीदृशम् ।
कथं बालो मयाऽऽनीतः सुखार्थं दुःखदोभवत् ।।२८। ।
दर्शयिष्ये कथं तस्य पितृभ्यां मुखमेव च ।
जनाय वा कथमिदं कथमस्य मृतिर्भवेत् ।।२ ९।।
निरस्तान्यत् अरिष्टानि महान्ति बालकेन ह ।
कथमस्म वशं यातो न जाने देवचेष्टितम् ।।2.19.३ ०।।
एवं सर्वेषु शोचत्सु स्त्रीवृद्धबालकेषु च ।
मंडूकरूपी कूपस्थो व्यादाय मुखमास्थितः ।।३ १।।
तावदेवागतो बालो नोदितः कन्दरेण सः ।
तेनापि नोदितो दैत्यो दैत्यास्ये न्यपतत्खलः ।।३२।।
भक्षयामास कूपस्तं मत्स्यो मत्स्यभिवालघुः ।
गिलितो बाल इति स निजरूपं समास्थितः ।।३३।।
कूपोऽपि गगनस्पर्धां चक्रे श्लाघ्यां यशीर्जिताम् ।
सर्वेषामेव दैत्यानामानृण्यं गतवानहम् ।।३४।।
इत्युज्जहर्ष मनसा मत्वा देवमविक्रमम् ।
कन्दरस्तु रुषाविष्टो विदार्यास्य महोदरम् ।।३५।।
निर्गम्य वेगमास्थाय स बालोऽन्तर्हितः क्षणात् ।
विदारितं मे जठरमिति कूपोऽपि कन्दरम् ।।३६।।
अदशत् कंठदेशे स जीवग्राहं रुषा तदा ।
एवं परस्पर वधात् पतितौ विह्वलो भृशम् ।।३७।।
पादहस्तावमर्देन चूर्णितं नगरम् कियत् ।
यथा सुन्दोपसुन्दौ तु परस्पर वधान् मृतौ ।।३८।।
परस्परवधात्तद्वन् मृतौ तौ कूपकन्दरौ ।
राजभृत्यैरपाकृष्य त्यक्तौ तौ नगराद्बहिः ।।३९।।
तत्क्षणादजिरे कूपो पिदधे स विनायकः ।
ददृशे पूर्ववत् क्रीडन् सर्वबालयुतो जनैः ।।2.19.४०।।
आश्चर्यं मेनिरे तत्र बाला राजा जना अपि ।
ऊचुः परस्परं केचित् कापट्यं येन युज्यते ।।४१।।
आमूलान् नश्यते सोऽथ स्वयमेव न संशयः ।
पतंगो दीपनाशार्थमायाति नश्यते यथा ।।४२।।
अस्य चालयितुं शक्तो न स्यात्कालोऽपि रोम च ।
दृष्टं बहुविधं चास्य सामर्थ्यमवतारिणः ।।४३।।
जेतुमीशं गतः कामः स्ययं भस्मत्वमागतः ।
काशिराजस्तु तच्छ्रुत्वा सत्यंसत्यमिति ब्रुवन् ।।४४।।
ददौ दानानि विप्रेभ्यो विससर्ज प्रपूज्य तान् ।
विनायकं नमस्कृत्य गता लोका निजान् गृहान् ।।४५।।
केचिदालिंग्य तं बालं ययूराज्ञा प्रपूजितम् ।
देवाश्च पुष्पवर्षाणि मुमुचुस्तुष्टुवुर्जनाः ।।४६।।
क उवाच ।
एवं न ज्ञायते ब्रह्मन् कार्याकार्यं मरुद्बलम् ।
मायारस्वरूपं पुंभाग्यं राक्षसाचरणं मुने।।४७।।
अवतारगुणा वापि न ज्ञेया परमात्मनः।।४८।। (८५५)
इति गणेश पुराणे क्रीडाखंडे कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः।।१९।।