प्रमुखा विकल्पसूचिः उद्घाट्यताम्

गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः ०२७


अध्याय २७
व्यास उवाच ।
पूर्वजन्मनि व्याधोऽसौ क आसीद्राक्षसोःपि सः ।
किं शीलं किंसमाचार स्तन्म- माचक्ष्व नाभिज ।। १ ।।
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ।।२।।
लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।
कथं शमी प्रिया तस्य सर्वमेतद्वदाशु मे ।। ३ ।।
क उवाच ।
शृणु वक्ष्यामि ते सर्वं यद्यत्पृष्टं त्वया मुने ।
राजाऽसीत्पूर्वजनुषि स व्याधो वेदपारगः ।।४।।
सर्व शास्त्रप्रवक्ता च सर्वलक्षणलक्षितः ।
यज्वा विनीतो ह्रीमांश्च देवतातिथिपूजकः ।।५। ।
गजाश्वरथपत्तीनां संख्या यस्य न विद्यते ।
दाता शुरश्च मेधावी समृद्धो मघवानिव ।।६।।
ध्वजश्च शत्रुजिद्यस्य प्रधानौ बुद्धिमत्तरौ ।
यतोऽधरीकृतः काव्यो गिरां पतिरपि स्फुटम् ।।७।।
यौ तौ क्षितितले जेतुं समर्थौ शस्त्रतेजसा ।
पत्नी सुलक्षणास्यासीन्नाम्ना च मदनावती ।।८।।
पतिव्रता धर्मशीला सुमुखी सर्ववेदिनी ।
न तया सदृशी काचित्त्रिषु लोकेषु कामिनी ।।९।।
दीनानाथवृद्धजने कृपालुरतिथिष्वपि ।
यजतोर्ददतोरेव रतयोः पूजने सताम् ।। 2.27.१ ०।।
तयोर्वृत्तेन तुतुषुः पौरा जानपदा जनाः ।
अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसंमतान् ।। ११ ।।
एवं स पुष्यकीर्तिः संशशास पृथिवीमिमाम् ।
बहुसंवत्सरं दैवात्कालधर्ममुपेयिवान् ।। १ २।।
मरिष्यमाणश्चक्रेऽसौ गोसहस्रं यथाविधि ।
महादानान्यपि ददौ दशाष्टौ चेत- राणि च ।। १ ३।।
मृतेऽस्मिन्नगरी सर्वा शुशोच नृपतिं तदा ।
अपुत्रत्वात्सहैवास्य पत्नी सहगतिं ययौ ।। १४।।
मन्त्रिणौ सर्व संस्कारान्कारयामासतुर्द्विजैः ।
एकादशाहे दददुर्नाना दानानि भक्तितः ।। १५।।
गते मासे मत्त्रयतो राज्याहं कुलजं नरम् ।
धीमन्तं सत्वसम्पन्नं शूरं सत्यपराक्रमम् ।। १ ६।।
दुर्धर्षस्य सुतं तस्य दायादस्य महाबलम् ।
क्षेत्रजं साम्यनामानं राज्ञाशिष्टं च तावुभौ ।। १७।।
अमात्यौ निश्चयं कृत्वा राज्यं दातुं तु तस्य ह ।
पौरजानपदान् सर्वान् ब्राह्मणान् परिपृच्छ च ।। १८।।
शुभे मुहूर्ते लग्ने च नाना सम्भार संचयैः ।
कारयामासतुरुभावभिषेकं द्विजैः सह ।। १ ९।।
मुनिरुवाच ।
कथं क्षेत्रात् समुत्पन्नः किंजातीयः पितामह ।
स साम्बस्तन्ममाचक्ष्व सवंज्ञोऽसि कृपानिधे ।।2.27.२ ०।।
क उवाच ।
दुर्धर्षेण कृता यत्नाः पुत्रार्थं बहुधा मुने ।
न च जातः सुपुत्रोऽस्य दुष्टदैवयुतस्य ह ।।२ १ ।।
तस्य पत्न्या प्रमदया कैवर्तासक्त चित्तया ।
जनितः सुमुहूर्ते स न ज्ञातो जारजस्त्विति ।।२२।।
यावन्ति राजचिह्नानि तावन्ति ददतुश्च तौ ।
निवेद्य कोशसहितं सर्वं राज्यं सराष्ट्रकम् ।।२३।।
अमात्य पदनिष्टौ तौ जातावास्तां यथा पुरा ।
स राज्यं प्राप्य दुर्द्धर्षसुतो मत्तः श्रियाऽभवत् ।।२४।।
स्त्रीमांसमदिरासक्तो मत्तो गज इवालसः ।
दुराचाररतो नित्यं नयमार्ग पराङमुखः ।।२५ ।।
आदाय धनिनां सर्व धनं तान्निरवासयत् ।
अपमानं चकाराशु ब्राह्मणानां सतामपि ।।२ ६।।
बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्ततिम् ।
शिष्टः स्म प्रकृती नीतिं न तद्वाक्यं समाददे ।।२७।।
वारंवारं यदा तौ तं शिष्टऽ स्म करुणायुतौ ।
अमात्यौ स बबन्धाशु निगडाभ्यां रुषान्वितः ।।२८।।
शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतम् ।
यत् प्रसादात् त्वया प्राप्तं राज्यं निहतकंटकम् ।।२ ९।।
विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल ।
अनादृत्य तु तद्वाक्यं पीयूषमिव पामर ।।2.27.३०।।
शृंखलाभ्यां निबद्धौ तौ कारागारेऽध्यवासयत् ।
अतिदुष्टो दुष्टबुद्धिनामाऽभूत्तत् सखाऽनिशम् ।।३ १।।
तमेव सचिवं चक्रे दत्त्वाऽश्वं कांचनं गजम् ।
रत्नानि दिव्यवासांसि रांक्वास्तरणानि च ।।३२।।
दासी दासान् असंख्यातान् पानान्यन्नं च नारिकम ।
न करोत्यस्य वाक्यं यस्तस्य छेत्स्ये शिरो बलात् ।।३३।।
इत्युक्त्वा सर्वलोकेषु साम्बोऽन्तःपुरमाययौ ।।३४।। (१२३२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते सप्तविंशतितमोऽध्यायः ।।२७।।