प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १०६ गरुडपुराणम्
अध्यायः १०७
वेदव्यासः
आचारकाण्डः, अध्यायः १०८ →

श्रीगरुडमहापुराणम् १०७

सूत उवाच ।
पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम् ।
कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥ १,१०७.१ ॥
श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः ।
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥ १,१०७.२ ॥
दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत् ।
पापकृत्यं तु तत्रैव शापं फलति वर्षतः ॥ १,१०७.३ ॥
आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने ।
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥ १,१०७.४ ॥
अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा ।
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥ १,१०७.५ ॥
वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके ।
अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत् ॥ १,१०७.६ ॥
कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत् ।
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥ १,१०७.७ ॥
निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत् ।
तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः ॥ १,१०७.८ ॥
राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम् ।
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥ १,१०७.९ ॥
कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः ।
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥ १,१०७.१० ॥
क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः ।
याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात् ॥ १,१०७.११ ॥
पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति ।
एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः ॥ १,१०७.१२ ॥
जन्मना च विपत्तौ च भवेत्तेषां च सूतकम् ।
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ॥ १,१०७.१३ ॥
षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम् ।
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥ १,१०७.१४ ॥
अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः ।
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ १,१०७.१५ ॥
यदि गर्भो विपद्यत स्त्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ १,१०७.१६ ॥
आनामकरणात्सद्य आचूडान्तादहर्निशम् ।
आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः ॥ १,१०७.१७ ॥
आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः ।
ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥ १,१०७.१८ ॥
शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः ।
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥ १,१०७.१९ ॥
दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः ।
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥ १,१०७.२० ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसंकल्पितादन्यवर्जनं च विधीयते ॥ १,१०७.२१ ॥
मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ ।
गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम् ॥ १,१०७.२२ ॥
अनाथप्रेतवहनात्प्राणायामेन शुध्यति ।
प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत् ॥ १,१०७.२३ ॥
आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः ।
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥ १,१०७.२४ ॥
अदुष्टापतितं भार्या यौवने या परित्यजेत् ।
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥ १,१०७.२५ ॥
बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि ।
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥ १,१०७.२६ ॥
औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः ।
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥ १,१०७.२७ ॥
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत् ।
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च ॥ १,१०७.२८ ॥
जात्यन्धबधिरे मूके न दोषः परिवेदने ।
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥ १,१०७.२९ ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥ १,१०७.३० ॥
श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः ।
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान् ॥ १,१०७.३१ ॥
क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत् ।
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत् ॥ १,१०७.३२ ॥
कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान् ।
शमीं शिश्रे विनिः क्षिप्य अरणिं वृषणे क्षिपेत् ॥ १,१०७.३३ ॥
कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत् ।
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥ १,१०७.३४ ॥
उरे निःक्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ।
श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थालीं च चक्षुषोः ॥ १,१०७.३५ ॥
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत् ।
अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत् ॥ १,१०७.३६ ॥
असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत् ।
हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम् ॥ १,१०७.३७ ॥
मयरमेषघाती च अहोरात्रेण शुध्यति ।
पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति ॥ १,१०७.३८ ॥
सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत् ।
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा ।
क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे (वहे) त् ॥ १,१०७.३९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः