प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १०७ गरुडपुराणम्
अध्यायः १०८
वेदव्यासः
आचारकाण्डः, अध्यायः १०९ →

श्रीगरुडमहापुराणम् १०८
सूत उवाच ।
नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् ।
राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥ १,१०८.१ ॥

सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः ।
नासद्भिरिहलोकाय परलोकाय वा हितम् ॥ १,१०८.२ ॥

वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम् ।
विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥ १,१०८.३ ॥

मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।
दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥ १,१०८.४ ॥

ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ १,१०८.५ ॥

कालेन रिपुणासन्धिः काले मित्रेण विग्रहः ।
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १,१०८.६ ॥

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १,१०८.७ ॥

कालेषु हरते वीर्यं काले गर्भे च वर्तते ।
कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥ १,१०८.८ ॥

कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥ १,१०८.९ ॥

नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः ।
सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥ १,१०८.१० ॥

राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम् ।
अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥ १,१०८.११ ॥

उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् ।
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १,१०८.१२ ॥

परीवादं परार्थं च परिहासं परस्त्रियम् ।
परवेश्मनि वासं च न कुर्वीत कदाचन ॥ १,१०८.१३ ॥

परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १,१०८.१४ ॥

स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १,१०८.१५ ॥

स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति ।
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १,१०८.१६ ॥

स जीवति गुणा यस्य धर्मो यस्य स जीवति ।
गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥ १,१०८.१७ ॥

सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १,१०८.१८ ॥

नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥ १,१०८.१९ ॥

सततं धर्मबहुला सततं च पतिप्रिया ।
सततं प्रियवक्री च सततं त्वृतुकामिनी ॥ १,१०८.२० ॥

एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी ।
यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥ १,१०८.२१ ॥

यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥ १,१०८.२२ ॥

यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी ।
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥ १,१०८.२३ ॥

यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी ।
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ १,१०८.२४ ॥

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥ १,१०८.२५ ॥

त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥ १,१०८.२६ ॥

व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा ।
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥ १,१०८.२७ ॥

सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे ।
उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥ १,१०८.२८ ॥

भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च ।
देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥ १,१०८.२९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः