गरुडपुराणम्/आचारकाण्डः/अध्यायः १०९

← आचारकाण्डः, अध्यायः १०८ गरुडपुराणम्
अध्यायः १०९
वेदव्यासः
आचारकाण्डः, अध्यायः ११० →

श्रीगरुडमहापुराणम् १०९
सूत उवाच ।
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १,१०९.१ ॥

त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १,१०९.२ ॥

वरं हि नरके वासो न तु दुश्चरिते गृहे ।
नरकात्क्षीयते पाप कुगृहान्न निवर्तते ॥ १,१०९.३ ॥

चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १,१०९.४ ॥

त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ १,१०९.५ ॥

अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन ।
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १,१०९.६ ॥

अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः ।
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १,१०९.७ ॥

आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम् ।
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १,१०९.८ ॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १,१०९.९ ॥

लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा ।
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥ १,१०९.१० ॥

सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः ।
इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥ १,१०९.११ ॥

उत्तमं प्रणिपातेन शठं भेदेन योजयेत् ।
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १,१०९.१२ ॥

यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ १,१०९.१३ ॥

नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १,१०९.१४ ॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १,१०९.१५ ॥

हीनदुर्जनसंसर्ग अत्यन्तविरहादरः ।
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १,१०९.१६ ॥

कस्य दोषः कुले नास्ति व्याधिना को पीडितः ।
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १,१०९.१७ ॥

कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १,१०९.१८ ॥

सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि ।
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः ।
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १,१०९.१९ ॥

यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १,१०९.२० ॥

धनस्य यस्य राजतो भयं न चास्ति चौरतः ।
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १,१०९.२१ ॥

यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः ।
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १,१०९.२२ ॥

सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः ।
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १,१०९.२३ ॥

नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः ।
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १,१०९.२४ ॥

शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः ।
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १,१०९.२५ ॥

सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते ।
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १,१०९.२६ ॥

न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने ।
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १,१०९.२७ ॥

अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १,१०९.२८ ॥

विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता ।
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १,१०९.२९ ॥

तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ।
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १,१०९.३० ॥

दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः ।
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १,१०९.३१ ॥

जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १,१०९.३२ ॥

स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १,१०९.३३ ॥

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १,१०९.३४ ॥

समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः ।
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १,१०९.३५ ॥

ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १,१०९.३६ ॥

सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १,१०९.३७ ॥

नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच ।
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १,१०९.३८ ॥

नदी पातयते कूलं नारी पातयते कुलम् ।
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १,१०९.३९ ॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १,१०९.४० ॥

न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् ।
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १,१०९.४१ ॥

राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन ।
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥ १,१०९.४२ ॥

स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ १,१०९.४३ ॥

मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः ।
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ १,१०९.४४ ॥

न दानेन न मानेन नार्जवेन न सवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ १,१०९.४५ ॥

शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत् ।
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ १,१०९.४६ ॥

शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् ।
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १,१०९.४७ ॥

ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः ।
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ १,१०९.४८ ॥

पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥ १,१०९.४९ ॥

ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः ।
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥ १,१०९.५० ॥

तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १,१०९.५१ ॥

आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १,१०९.५२ ॥

अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ।
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १,१०९.५३ ॥

अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च ।
योगाद्भ्रष्टः सत्यधृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १,१०९.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः