गरुडपुराणम्/आचारकाण्डः/अध्यायः १११
← आचारकाण्डः, अध्यायः ११० | गरुडपुराणम् अध्यायः १११ वेदव्यासः |
आचारकाण्डः, अध्यायः ११२ → |
श्रीगरुडमहापुराणम् १११
सूत उवाच ।
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।
सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ १,१११.१ ॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः ।
निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥ १,१११.२ ॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारण्ये न यथाङ्गारकारकः ॥ १,१११.३ ॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते ।
परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत् ॥ १,१११.४ ॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः ।
एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते ॥ १,१११.५ ॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन् ।
पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥ १,१११.६ ॥
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः ।
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ १,१११.७ ॥
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत् ।
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ १,१११.८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥ १,१११.९ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे ।
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥ १,१११.१० ॥
निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या ।
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥ १,१११.११ ॥
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १,१११.१२ ॥
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः ।
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ १,१११.१३ ॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् ।
रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ १,१११.१४ ॥
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते ।
स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥ १,१११.१५ ॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् ।
किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १,१११.१६ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥ १,१११.१७ ॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १,१११.१८ ॥
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः ।
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १,१११.१९ ॥
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः ।
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ १,१११.२० ॥
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः ।
जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥ १,१११.२१ ॥
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च ।
सहि नश्यति वै राजा इह लोके परत्र च ॥ १,१११.२२ ॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ १,१११.२३ ॥
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥ १,१११.२४ ॥
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव ।
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ १,१११.२५ ॥
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् ।
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ १,१११.२६ ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ १,१११.२७ ॥
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत् ।
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ १,१११.२८ ॥
लीलां करोति यो राजा भृत्यस्वजनगर्वितः ।
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ १,१११.२९ ॥
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः ।
विना दोषेण यो भृत्यान्राजाधमण शास्ति च ।
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥ १,१११.३० ॥
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥ १,१११.३१ ॥
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः ।
षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥ १,१११.३२ ॥
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते ।
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ १,१११.३३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे एकादशोत्तरशततमोऽध्यायः