प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १११ गरुडपुराणम्
अध्यायः ११२
वेदव्यासः
आचारकाण्डः, अध्यायः ११३ →

श्रीगरुडमहापुराणम् ११२
सूत उवाच ।
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ।
नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥ १,११२.१ ॥

भृत्ये परिक्षणं वक्ष्ये यस्ययस्य हि यो गुणः ।
तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥ १,११२.२ ॥

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा ॥ १,११२.३ ॥

कुलशीलगुणोपेतः सत्यधर्मपरायणः ।
रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥ १,११२.४ ॥

मूल्यरूपपरीक्षाकृद्भवे द्रत्नपरीक्षकः ।
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ १,११२.५ ॥

इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ १,११२.६ ॥

मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः ।
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ १,११२.७ ॥

बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः ।
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ १,११२.८ ॥

समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः ।
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ १,११२.९ ॥

पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः ।
शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥ १,११२.१० ॥

आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
आयुः शीलगुणोपेतो वैद्य एव विधीयते ॥ १,११२.११ ॥

वेदवेदाङ्गतत्त्वज्ञो जपहमपरायणः ।
आशीर्वादपरो नित्यमेष राजपुरोहित ॥ १,११२.१२ ॥

लेखकः पाठकश्चैव गणकः प्रतिरोधकः ।
आलस्ययुक्तश्चैद्राजा कर्म संवर्जयेत्सदा ॥ १,११२.१३ ॥

द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम् ।
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १,११२.१४ ॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १,११२.१५ ॥

अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते ।
विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥ १,११२.१६ ॥

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १,११२.१७ ॥

शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ।
प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥ १,११२.१८ ॥

निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः ।
सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥ १,११२.१९ ॥

क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः ।
दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः ।
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ १,११२.२० ॥

सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च ।
दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ १,११२.२१ ॥

षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः ।
पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ १,११२.२२ ॥

मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः ।
अयशश्चार्थनाशश्च नरके चैव पातनम् ॥ १,११२.२३ ॥

यत्किञ्चित्कुरुते कर्म शुभं वा यादि वाशुभम् ।
तेन स्म वर्धते राजा सूक्ष्मतो भृत्यकार्यतः ॥ १,११२.२४ ॥

तस्माद्भूमीश्वरः प्राज्ञं धर्मकामार्थसाधने ।
नियोज येद्धिसततं गोब्राह्मणहिताय वै ॥ १,११२.२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पत्युक्त नीतिप्तारे द्वादशोत्तरकशततमोऽध्यायः