गरुडपुराणम्/आचारकाण्डः/अध्यायः ११७

← आचारकाण्डः, अध्यायः ११६ गरुडपुराणम्
अध्यायः ११७
वेदव्यासः
आचारकाण्डः, अध्यायः ११८ →

श्रीगरुडमहापुराणम् ११७
ब्रह्मोवाच ।
मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी ।
मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम् ॥ १,११७.१ ॥

अनङ्गायेति नैवेद्यं मधप्राश्याथ पौषके ।
योगेश्वरं पूजयेच्च बिल्वपत्रैः कदम्बजम् ।
दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम् ॥ १,११७.२ ॥

माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया ।
प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने ॥ १,११७.३ ॥

वीरेश्वरं फाल्गुने तु पूजयेत्तु मरूबकैः ।
शर्कराशाकमण्डाश्च चूतजं दन्तधावनम् ॥ १,११७.४ ॥

चैत्रे यजेत्सु रूपाय कर्पूरं प्राशयेन्निशि ।
दन्तधावनाटजं नैवेद्यं शष्कुलीं ददेत् ॥ १,११७.५ ॥

पूजा दमनकः शम्भोर्वेशाखेऽशोक्रपुष्पकैः ।
महारूपाय नैवेद्यं गुडभक्तं पुट्टबरम् ॥ १,११७.६ ॥

दन्तकाष्ठं प्राशयेच्च ददेज्जतीफलं तथा ।
प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत् ॥ १,११७.७ ॥

लवगारा तथा षढि उमामदति शासनः? ।
अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेत् ॥ १,११७.८ ॥

श्रावणे करवीरं च शम्भवे शूलपाणये ।
गन्धाशनो घृताद्यैश्च करवीरजशोधनम् ॥ १,११७.९ ॥

सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत् ।
गन्धर्वाशो मदनकमाश्विने च सुराधिपम् ॥ १,११७.१० ॥

चम्पकैः स्वर्णवा (धार्) यादो जिन्मोदकसंप्रदः ।
खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत् ॥ १,११७.११ ॥

बदर्या दन्तकाष्ठं च मदनो दशमाशनः ।
क्षीरशाकप्रदः पद्मैरब्दन्ते शिवमर्चयेत् ॥ १,११७.१२ ॥

रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम् ।
गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत् ॥ १,११७.१३ ॥

जागरं गीतवदित्रं प्रभितऽभ्यार्च्य वेदयेत् ।
द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ ॥ १,११७.१४ ॥

गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः ।
एतदुद्यापनं सर्वं व्रतेषु ध्येपमीदृशम् ।
फलञ्च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत् ॥ १,११७.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽनङ्गत्रयोदशीव्रतं नाम सप्तदशोत्तरशततमोऽध्यायः